पृ० ११७) पटलः ९ (भस्मस्नानपटलः)
भस्मस्नानं कथं देवं तत्स्नानं कीदृशो भवेत् ।
एतत्सर्वं समासेन ब्रूहि मे परमेश्वर ॥ १ ॥
ईश्वर उवाच-
भस्मस्नानं प्रवक्ष्यामि शृणुष्व कमलासन ।
भासकत्वं मनुष्याणां भासकाभा शुभस्य च ॥ २ ॥
भस्मनत् सर्वपापानां भस्मेति परिकीर्तिताः ।
क्रमाद्ग्रहाश्च भूताश्च असुरा यातुधानकाः ॥ ३ ॥
पिशाचा गुह्यकाद्याश्च डकिन्या विविधास्तथा ।
सर्व * ग समुत्पन्ना व्याघ्र सर्व भयेषु च ॥ ४ ॥
? अन्यैश्चक्रमुकैर्भस्मस्नानेन नश्यति ।
आग्नेयं प्रथमं चैव द्वितीयं मारुतं भवेत् ॥ ५ ॥
पृ० ११८) तृतीयं शैवमित्युक्तं चतुर्थं भोगदं भवेत् ।
पञ्चमं श्रीकरं प्रोक्तं तेषां भेदं शृणुष्वथ ॥ ६ ॥
नन्दा भद्रा च सुरभि सुशीला सुमनास्तथा ।
तेषां वर्गेषु सञ्ज्ञातं गोमयं चैव सङ्गृहे । । ॥ ७ ॥
उत्तमं श्वेतवर्णं तु मध्यमं रक्तमुच्यते ।
अधमं रक्तवर्णं तु अन्यद्वारं तु वर्जयेत् ॥ ८ ॥
विकटाङ्गं च विप्रेन्द्र अङ्गहीनं च वर्जयेत् ।
पतितं गोमयं ग्राह्य हृदयेन तु मन्त्रतः ॥ ९ ॥
कपिला गोमयं चैव उत्तमोत्तम उच्यते ।
गोमयं वायुसम्बन्धं शान्तिकं ब्रह्ममन्त्रकैः ॥ १० ॥
पृ० ११९) आकाशे ग्राहयेदङ्गैर्दहेत् तत्पौष्टिकं भवेत् ।
भूतले पतितं यत्तु प्रासादेन तु कामदम ॥ ११ ॥
पौर्णमास्याममावास्यां षष्ठ्यां शुक्लकृष्णयोः ।
शिवाग्निना द * * * * * * पि तुषैस्तथा ॥ १२ ॥
अण्डं कृत्वा तु विप्रेन्द्र शिखामन्त्रेण देशिकः ।
शुक्लं च शिरसा चैव दण्डं वै शिखया तथा ॥ १३ ॥
सद्योजातेन मन्त्रेण ग्राहयेत्तु विशेषतः ।
सौवर्णमुत्तमं पात्रं मध्यमं रजतं भवेत् ॥ १४ ॥
अधमं ताम्रपात्रं स्यात् अलाभे मृण्मयं तथा ।
अलाबपात्रे सङ्ग्राह्य वामदेवेन मन्त्रतः ॥ १५ ॥
पृ० १२०) एतदाग्नेयमित्युक्तं मारुतं च शृणुष्वथ ।
अङ्गे वा तेन चोद्भूतमथनाच्च दहेत्ततः ॥ १६ ॥
मारुताख्यमिति प्रोक्तं शैवलक्षणमुच्यते ।
शिवाग्निं कुण्ड विप्रेन्द्र सजातं भस्ममेव च ॥ १७ ॥
भोगदं च प्रवक्ष्यामि कुलालां दहेद्यतः ।
एतच्चतुर्विधेनोक्तं श्रीकरं च शृणुष्वथ ॥ १८ ॥
चत्वारि भेदसंयुक्तं भस्मना च विशेषतः ।
एवमेव प्रकारेण भस्मनां लेपयेत्ततः ॥ १९ ॥
ईशानेन तु मन्त्रेण शिवमुद्धूलयेत्ततः ॥ २० ॥
पृ० १२१) मुखं तत्पुरुषेणैव शिखाया हृदये न्यसेत् ।
बाहुभ्यां कवचेनैव जठरं नाभिवामके ॥ २१ ॥
मेढ्रं चैव तु पृष्ठे च वामदेवेन धूलयेत् ।
ऊरू च जानुनी चैव स्फिकौ चैव कटी तथा ॥ २२ ॥
पार्श्वयोरुभयोश्चैव पादयोरुभयोरथ ।
सद्योजातेन मन्त्रेण उद्धूलयेद्विशेषतः ॥ २३ ॥
उद्धूलयेत्तु सर्वाङ्गं ब्राह्मणानां विशेषतः ।
त्रिपुण्ड्रं कारयेत्तत्र नृपाणां वैश्य एव च ॥ २४ ॥
शूद्राणां चैव सर्वेषामेवमेव क्रमेण तु ।
मध्याह्नात्प्राक् जलैर्युक्तमतोयादनुवर्जयेत् ॥ २५ ॥
पृ० १२२) स्थानभेदं प्रवक्ष्यामि मूर्धनी ललाट एव च ।
कर्णौ च चक्षुषी चैव नासिकौ चास्य एव च ॥ २६ ॥
(हृदयेये चैव नाभौ च)
ग्रीवास्कन्धौ च बाहुभ्यां कोपरौ च तथा मणौ ।
हृदि नाभौ च मेढ्रौ च पाठयूरूपजानुनी ॥ २७ ॥
जङ्घयो स्विकपातश्च तथा पृष्ठौ च एव च ।
द्वात्रिंशस्थानमेवोक्तं भस्मना लेपयेत्ततः ॥ २८ ॥
ललाटं ग्रीवास्कन्धौ च बाहुकोर्परयोरपि ।
हृदये जठरे चैव नाभौ पार्श्वे तु पृष्ठके ॥ २९ ॥
पादयोश्चैव विप्रेन्द्र षोडशस्थानमुच्यते ।
मूर्ध्नी चैव ललाटे च कण्ठे बाह्वोस्तथैव च ॥ ३० ॥
पृ० १२३) हृदये चैव नाभौ च पृष्ठे चैव विशेषतः ।
जानुन्योरष्टस्थानेषु विन्यसेद्भस्ममेव च ॥ ३१ ॥
ब्रह्मा स्कन्दे च विघ्नेशं विष्णुं चैव शिवं तथा ।
वसुन्धरा च पितरो अधिदेवाः प्रकीर्तिताः ॥ ३२ ॥
षडङ्गुल्य च चत्वारो स्त्र्यङ्गुल्या वाथ चाङ्गुला ।
ब्रह्मणादीनि वर्णानि विस्तारमिव चोच्यते ॥ ३३ ॥
स्त्रीणां तथैव मार्गेण भस्मना लेपयेत्ततः ।
ज्ञानार्थं चन्दनं लिप्य वश्यार्थश्चूर्णमेव च ॥ ३४ ॥
जयार्थी चैव विप्रेन्द्र लेपयेद्रक्तचन्दनैः ।
देशिकानां तु सर्वेषाम् अनामिका मध्यतर्जनी ॥ ३५ ॥
पृ० १२४) भस्मना लेपयेत्तत्र सर्वपापात्प्रमुच्यते ।
दुस्वप्नवर्जनस्पर्शे आनुराणां तु सर्वशः ॥ ३६ ॥
भस्मना तेन शुद्ध्यन्ति रक्षार्थमिह चोच्यते ।
भोजने तुषकेशं च चिताङ्गार नखान्यपि ॥ ३७ ॥
मत्कुणं मक्षिकाश्चापि सरीसृपांश्च सर्वशः ।
दधिक्षीरघृतैस्तैलैर्मिश्रिते तु विशेषतः ॥ ३८ ॥
भस्मात् शुद्धिमवाप्नोति सिंहस्येव यथा गजः ।
पूर्वाह्णे भोजने काले गमनेऽपि तथैव च ॥ ३९ ॥
भस्मनो धारणं यत्तु सर्वरक्षा विधीयते ।
एवमेव क्रमेणैव भस्मं दद्यात्तु भक्तितः ॥ ४० ॥
सर्वपापविनिर्मुक्तश्शिवलोकमवाप्नुयात् ।
भस्मस्नानं मया प्रोक्तं मन्त्रन्यासं शृणुष्वथा ॥ ४१ ॥
इति वीरतन्त्रे भस्मस्नानपटलः ॥