पृ० ११०) पटलः ८ (शौचाचमन स्नानपटलः)
पितामह महाप्राज्ञ यत्त्वया परिचोदितम् ।
तत्सर्वमखिलं वक्ष्ये शृणुष्व कमलासन् ॥ १ ॥
उत्थाय तत्तथा प्रातः मौनव्रतसमन्वितः ।
श्रीमान् प्राचीमुदीचीं वा तत्त्वाचार्यो विशेषतः ॥ २ ॥
उत्तराभिमुखो वापि दक्षिणाभिमुखं तु वा ।
नवमाभिमुखस्यं तु मलं चैव विसर्जयेत् ॥ ३ ॥
वर्जयेदस्थिविण्मूत्रवर्जनं शिरोवकुण्डनम् ।
दक्षिणेन तु हस्तेन मृदं सङ्ग्राहयेत्ततः ॥ ४ ॥
वामे शिश्नं गृहीत्वा तु कण्ठे यज्ञोपवितकम् ।
नद्यां वापि तटाके वा पुष्करे वा ह्रदेऽपि वा ॥ ५ ॥
पृ० १११) शुद्धस्नाने जलं प्राप्य आचम्ये तु यथाविधिः ।
गदे च दशथा दद्यात् मृदं चैव विशेषतः ॥ ६ ॥
पञ्चभिः क्षालयेद्वामं कारयेत्पञ्चमूर्त्तिकाः ।
मेढ्रे चैकमृदं दद्यात् करं पञ्चैव क्षालयेत् ॥ ७ ॥
अमृतं फलमात्रेण पादौ प्रक्षालयेत्ततः ।
त्रिः प्राश्योद्विदं मृज्य आचम्य च विधानतः ॥ ८ ॥
मृत्पिण्डं च त्रिधा कृत्वा हृदयेन तु मन्त्रतः ।
तत्पुरुषेण तु मन्त्रेण पूर्वं पिण्डं त्रिधा भवेत् ॥ ९ ॥
दक्षिणे घोर मन्त्रेण उत्तरे वाममन्त्रतः ।
पूर्वेणैव मृदं दद्यात् अस्त्रेण दशदिक्षु वै ॥ १० ॥
पृ० ११२) दक्षिणेन मृदा चैव सर्वाङ्गमुपलिप्य च ।
हृदयेन तु सर्वाङ्गमस्त्रमन्त्रेण लेपयेत् ॥ ११ ॥
उत्तरेण मृदा चैवा शिवतीर्थं तु कल्पयेत् ।
जलमध्ये स्थितं चैव पञ्चब्रह्मेण देशिकः ॥ १२ ॥
तैलं चामलकं युक्तमङ्गं लालिप्य सर्वशः ।
गोमयेन पुनश्चैव उपलिप्य च स्नापयेत् ॥ १३ ॥
मार्जयेच्छिरमीशानं पुरुषेण मुखं तथा ।
हृदयं चैव घोरेण वामेनाङ्गुष्ठमेव च ॥ १४ ॥
पादयोस्सद्यमन्त्रेण मार्जयेद्देशिकोत्तमः ।
व्योमव्यापिं जपेत्तत्र मार्जयित्वा तु मन्त्रवित् ॥ १५ ॥
पृ० ११३) कलशमुद्रां तु बध्वा तु प्रासादेनाभिषिञ्चयेत् ।
गोमयेन मृदा चैव सर्वाङ्गं लेपयेद्धृदा ॥ १६ ॥
नाभिमात्रोदके स्थित्वा आचम्य च विधानतः ।
त्रिः प्राश्यापो द्विरामृज्य ऊर्ध्वाधश्च क्रमेण च ॥ १७ ॥
अङ्गुष्ठानामिकाभ्यां च चक्षुषी समुपस्पृशेत् ।
प्राणद्वयं च श्रोत्रं च मध्यमाङ्गुलिना स्पृशेत् ॥ १८ ॥
अङ्गुष्ठतर्जनीभ्यां तु बाहुं चैव स्पृशेत्ततः ।
सर्वाभिरङ्गुलीभिश्च मूर्धानं चैव संस्पृशेत् ॥ १९ ॥
दक्षिणेन तु हस्तेन उदकं ग्राहयेत्ततः ।
वामदेवेन संयुक्तं सूर्यश्चेति जलं पिबेत् ॥ २० ॥
पृ० ११४) ईशानेना चाग्निश्चेति सायाह्ने तु जलं पिबेत् ।
आचम्य विधिनानेन ईशानेन समायुतम् ॥ २१ ॥
सावित्रीं च भवेत्तत्र सूर्यस्यो वोदकं ददेत् ।
देवान्वै तर्पयेत्तत्र वामदेवेन मन्त्रतः ॥ २२ ॥
ऋषींश्च तर्पयेत्तत्र अघोरेण तु मन्त्रतः ।
पित्राणां तर्पयेत्तत्र सद्यमन्त्रेण देशिकः ॥ २३ ॥
प्रासादेन समायुक्तं सावित्रीं च शताष्टकम् ।
मित्रस्सत्येन वर्चस्वी हृदयेन समायुतम् ॥ २४ ॥
जपद्वै शिरसस्तत्र धौतवस्त्रं च वेष्टयेत् ।
आचम्ये पूर्ववत्तत्र सोष्णीषं चोत्तरीयकम् ॥ २५ ॥
पृ० ११५) तीरे समतलं कृत्वा हस्तमातेण * * * ।
सूर्यमावाहयेत्तत्र षडक्षरेण मन्त्रतः ॥ २६ ॥
पाद्यमाचमनं चैव अर्घ्यं तस्मै निवेदयेत् ।
देविकेन तु तीर्थेन देवान् सन्तर्पयेत्ततः ॥ २७ ॥
आकर्ष्णे तु च तीर्थेन ऋषीणां चैव तर्पयेत् ।
पितृर्णां चैव पूर्वेषां पैत्रकेण तु तर्पयेत् ॥ २८ ॥
विमानं प्रविशेत्तत्र पुष्पहस्तो विशेषतः ।
प्रदक्षिणत्रयं कृत्वा प्रविशेत्तु कवाटकम् ॥ २९ ॥
प्रणम्य दण्डवद्भूमौ अर्चयेत्तु कवाटकम् ।
गन्धैः पुष्पैश्च धूपैश्च दीपैश्चैव हृदा तदा ।
पूजयेद्विधिना कृत्वा कवस्था तु देवताः ॥ ३०।५ ॥
पृ० ११६) भुजङ्गश्च पदङ्गश्च कवटस्याधिदेवताः ।
ततो गर्भगृहं गत्वा शिवं प्रणम्य एव च ॥ ३१।५ ॥
एवं यः कुरुते नित्यं सर्वपापाद्विमुच्यते ।
स्नाने देवार्चने चैव समाधौ च जपे ततः ॥ ३२।५ ॥
भोजने देवकार्ये च मौनं षट्सु विधीयते ।
चर्दितेऽप्युदिते सूर्ये श्मश्रुकर्मणि मैथुने ॥ ३३।५ ॥
दुःस्वप्ने दुर्जनस्पर्शे स्नानं षट्सु विधीयते ।
स्नानं तु द्विविधं ज्ञेयं वारुणस्नानमेव च ॥ ३४।५ ॥
आग्नेय्यां दिव्यमेवं तु वायव्यं मानसं तथा ।
वारिणा स्नान कार्यं च वारुणं स्नानमुच्यते ॥ ३५।५ ॥
आग्नेयं भस्मना स्नानं सातपं वर्षयेत्ततः ।
दिव्यस्नानमिति प्रोक्तं वायव्यं तु रजो भवेत् ॥ ३६।५ ॥
मन्त्रे मानसमित्युक्तं पञ्चस्नानं विधीयते ।
एवमेव प्रकारेण कुर्याद्वै देशिकोत्तमः ॥ ३७।५ ॥
स्नानकर्म मया प्रोक्तं भस्मस्नानमथशृणु ॥ ३८ ॥
इति वीरतन्त्रे शौचाचमनस्नान एकादशः पटलः ॥