०७ ग्रहाभिषेकविधिः

पृ० १०७) पटलः ७ (ग्रहाभिषेकविधिः)

ईश्वर उवाच-

ग्रहाभिषेकं वक्ष्यामि शृणुष्व कमलासन ।
शुचौ देशे समं कृत्वा गोमयेनानुलेपयेत् ॥ १ ॥

शालिस्तस्योपरि न्यस्य * * * * घटं न्यसेत् ।
ससूत्रान् सापिधानांश्च सवस्त्रान्वारिपूरितान् ॥ २ ॥

पूर्वादीशानपर्यन्तं स्थापयेत्कलशान्नव ।
मध्यमे स्थापयेत्कुम्भं गन्धपुष्पादिनार्चयेत् ॥ ३ ॥

कुम्भदक्षिणपार्श्वे तु स्थापयेत्तु नवग्रहान् ।
आदित्यं मध्यमे स्थाप्य शुक्रं पूर्वे तु विन्यसेत् ॥ ४ ॥

आग्नेयं चन्द्रदैवत्यम् अङ्गारकं तु दक्षिणे ।
राहुं च नैरृते भागे पश्चिमे शनिरुच्यते ॥ ५ ॥

पृ० १०८) केतुश्चैव तु वायव्यादुत्तरे तु बृहस्पती ।
ऐशान्या बुधदेवस्तु स्थापयेत्कुम्भकैस्सह ॥ ६ ॥

स्वस्वनामो तु संयुक्तं हृदयेन समन्वितम् ।
अर्चयेच्चैव विप्रेन्द्र हविर्निवेदयेत्ततः ॥ ७ ॥

बिल्वपत्रं तु शिष्यं च दूर्वा चैव पलाशकम् ।
विष्णुक्रान्तिश्शमीपत्रं पद्मपत्रं तथैव च ॥ ८ ॥

वकुलार्कस्य पत्रं च अश्वत्थोदुम्बरस्तथा ।
करवीरं भृङ्गराजं कुम्भे चैव तु निक्षिपेत् ॥ ९ ॥

गन्धपुष्पादिनाभ्यर्च्य पूर्वेद्युरधिवासयेत् ।
एवमभ्यर्च्य विधिवत् ग्रहपीडां व्यपोह्य तु ॥ १० ॥

पृ० १०९) उपनयनादिकार्येण एवमेवाभिषेचयेत् ।
सर्वे दोषान्विनश्यन्ति एवमेवं समाचरेत् ॥ ११ ॥

आचार्यं पूजयेत्तत्र वस्त्रधान्यादिकाञ्चनैः ।
ग्रहाभिषेकमिदं प्रोक्तं शौचमार्गविधिं शृणु ॥ १२ ॥

इति वीरतन्त्रे ग्रहाभिषेकविधिर्दशमः पटलः ॥