पृ० ८७) पटलः ६ (दीक्षाविधिः)
पितामह उवाच-
दीक्षामार्गं कथं देवं मन्त्रन्यास कथं प्रभो ।
शैवास्सप्तविधा के वा तत्सर्वं ब्रूहि मे प्रभो ॥ १ ॥
ईश्वर उवाच-
पितामह महाप्राज्ञ यत् त्वया परिचोदितम् ।
तत्सर्वमखिलं वक्ष्ये शृणुष्व कमलासन ॥ २ ॥
श्रीयते सत्वसद्भावं श्रीयते पाशपञ्चरम् ।
तयोस्तु सम्पुटीकृत्य सा दीक्षा इति कथ्यते ॥ ३ ॥
सप्तधा शैवमुद्दिष्टं मतानि गदतश्श्रृणु ।
अनादि शैवं प्रथमम् आदिशैव द्वितीयकम् ॥ ४ ॥
महाशैवं तृतीयं तु चतुर्थं चानुशैवकम् ।
अवान्तरं तु शैवं तु पञ्चमं च विदुर्बुधाः ॥ ५ ॥
पृ० ८८) षष्ठ प्रवर शैवं तु सप्तमं चान्त्य शैवकम् ।
शैवास्सप्त तया प्रोक्तास्तेषां भेदं शृणुष्वथा ॥ ६ ॥
अनादि शैव विज्ञेयम् अहमेव न संशयः ।
शिवद्विजाश्च विप्रेन्द्रा आदिशैवाः प्रकीर्तिताः ॥ ७ ॥
कौशिकः काश्यपश्चैव भारद्वाजोऽत्रिरेव च ।
गौतमश्चाप्यगस्त्यश्च पञ्चवक्त्रेषु दीक्षिताः ॥ ८ ॥
एतेषां तु ऋषीणां तु जाता ये च शिवद्विजः ।
पुनर्दीक्षां न कुर्वन्ति कर्तव्या चेत्तु निष्फलम् ॥ ९ ॥
उपनयीत काले तु मण्डले पूजयेच्छिवम् ।
स्नपनं चाङ्ग शुद्ध्यर्थं कारयेत्तु शिवद्विजान् ॥ १० ॥
पृ० ८९) महाशैवं तु विप्राणां * * ञ्चैव समन्वितम् ।
अदीक्षितश्चतुर्वेदी शिवपूजां न कारयेत् ॥ ११ ॥
श्रुत्यर्थं परमेशानं दीक्षापरहितो द्विजः ।
षाण्मासात्पतनं याति यजेद्देवलक स्मृताः ॥ १२ ॥
त्रीणि वर्षाणि भृत्यर्थमन्यलिङ्गेऽपि दीक्षिताः ।
पूजयेद्वृति विप्रैस्तु स वै देवलको भवेत् ॥ १३ ॥
एतेषां चैव सर्वेषां मलकानां च सर्वशः ।
स्थितलिङ्गे तु यत्पूजा न कुर्वीत कदाचन ॥ १४ ॥
क्षत्रियश्चैव वैश्यश्च अनुशैवमिहोच्यते ।
शूद्रोऽप्यन्तर शैवस्तु उच्यते क्रमशोऽधुना ॥ १५ ॥
पृ० ९०) सवर्णाम्बष्ठमध्ये स्थो कुलालो पारशिवस्तथा ।
प्रवर शैवमिति ख्यातमिदमन्य शृणुष्वथा ॥ १६ ॥
अन्येषां चैव जातीनामन्यशैवमिहोच्यते ।
? आदिशैव न कर्तव्य प्रतिष्ठा अर्चनान्तकम् ॥ १७ ॥
अन्यथा कारयेद्वस्तु निष्फलं चैवमाप्नुयात् ।
शैवभेदं मया ख्यातं दीक्षाविधिमथ शृणु ॥ १८ ॥
रोहिणी श्रवणार्द्रा च श्रविष्ठा त्रीणि चोत्तरा ।
पुष्यश्शतभिषक् चैव दीक्षानक्षत्रमुच्यते ॥ १९ ॥
वृषभं वाथ सिंहं वा वृश्चिकं कुम्भमेव च ।
मिथुनं वापि कन्या वा धनुर्वा मीनमेव च ॥ २० ॥
पृ० ९१) एते च राशयः प्रोक्ताश्चरराशिश्च वर्जयेत् ।
द्वितीया पञ्चमी वापि षष्ठा वापि विशेषतः ॥ २१ ॥
द्वादशीं वाथ कर्तव्यं त्रयोदश्यामथापि वा ।
एतेषां तिथयः प्रोक्ता वारांश्चैव शृणुष्वथ ॥ २२ ॥
सोमश्शुक्रबुधो वापि जीववारमथापि वा ।
बृहस्पत्युदयं वापि शुक्रोदयमथापि वा ॥ २३ ॥
शुक्रोदये तु कुर्वीते सोमोदयमथापि वा ।
? षष्ठस्वरगृहाणात्तु पश्चात् शिष्यांस्तु प्रेषितान् ॥ २४ ॥
स शुद्धहृदयान् भक्तान् कृतशौचो जितेन्द्रियः ।
पादप्रक्षालनं कुर्यादाचम्य च विधानतः ॥ २५ ॥
पृ० ९२) नेत्रे बन्धं प्रकर्तव्यं हृदयेन तु मन्त्रतः ।
दुकूलपट्टसंयुक्तं कार्पासिकमथापि वा ॥ २६ ॥
उत्तमं द्वादशं हस्तं मध्यमं दशहस्तकम् ।
अधमं नवहस्तं तु चतुस्तालं तु विस्मृतम् ॥ २७ ॥
जीर्णेन स्फटिकेनैव दण्डे तु मरणं भवेत् ।
स दशाहतवस्त्रेण नेत्रे बद्धं तु कारयेत् ॥ २८ ॥
वस्त्रद्वयेन संयुक्तं नेत्रमन्त्रदशं जपेत् ।
व्योमव्यापिं जपेत्तत्र तत्पुरुषेण समायुतम् ॥ २९ ॥
नेत्रबद्धं प्रकर्तव्यं स्वर्णपुष्पसमायुतम् ।
उत्तमं दशनिष्कं तु अष्टनिष्कं तु मध्यमम् ॥ ३० ॥
पृ० ९३) अधमं पञ्चनिष्कं तु लक्षणं चोच्यते मया ।
दरिद्राणां तु सर्वेषां यथालाभेन कारयेत् ॥ ३१ ॥
उत्तराभिमुखो भूत्वा एकचित्तेन बुद्धिमान् ।
ईशानेन तु मन्त्रेण पुष्पहस्ते निधापयेत् ॥ ३२ ॥
प्रदक्षिणत्रयं कृत्वा वामदेवेन मन्त्रतः ।
ध्यात्वा तु परमेशानं शिवमन्त्रेण बुद्धिमान् ॥ ३३ ॥
मण्डले विकिरेत्पुष्पं स्वस्तिमङ्गलवाचकैः ।
यस्मिन्मन्त्रे पदेत् पुष्पं नामगोत्रं तु तन्मतम् ॥ ३४ ॥
समन्त्रं सद्यते तस्य कुरुते * * व्याप्य तु ।
ईशानस्य दले द्व्याधिराग्नेय्यां शोधनं तथा ॥ ३५ ॥
पृ० ९४) नैरृत्यां श्रीकरं प्रोक्तं मनायुष्यं तु वायुदिक् ।
चतुर्दिक्षु च विप्रेन्द्र तन्त्रिकारमिति स्मृतम् ॥ ३६ ॥
कर्णिके पतिते पुष्पे सुखं चैव भवेत्तदा ।
ईशानस्य दले चैव नेत्रन्नाम मिहोच्यते ॥ ३७ ॥
उदकेन समायुक्तं भस्मं शिरसि निक्षिपेत् ।
गन्धादिभिर्यमभ्यर्च्य हृदयेन तु मन्त्रतः ॥ ३८ ॥
शिवाग्रे चैककुम्भं तु शाल्योपरि च विन्यसेत् ।
ससूत्रान् सापिधानांश्च सवस्त्रान् हेमसंयुतान् ॥ ३९ ॥
शिवमन्त्रमनुस्मृत्य स्थापयेत् कुम्भमेव च ।
तस्योदकेन विप्रेन्द्र प्रोक्षयेत् शिष्यमूर्धनि ॥ ४० ॥
पृ० ९५) ईशानं मूर्ध्नि विन्यस्य मुखे तत्पुरुषं न्यसेत् ।
अघोरं हृदये न्यस्य गुह्ये वामं प्रकल्पयेत् ॥ ४१ ॥
सद्योजातं न्यसेत्पादे विन्यसेत् शिष्यदर्शके ।
हृदये हृदयं न्यस्य शिरश्शिरसि विन्यसेत् ॥ ४२ ॥
शिखायां तु शिखां न्यस्य कवचं स्तनमध्यतः ।
अस्त्रं हस्तप्रदेशे तु नेत्रं नेत्रेषु विन्यसेत् ॥ ४३ ॥
देवस्य दक्षिणे भागे कमठाकारमाक्रमम् ।
कूर्चेनैव समायुक्तमासनं तत्प्रकीर्तितम् ॥ ४४ ॥
आसनस्य तु शिष्यश्च पूर्वाभिमुखमेव च ।
अग्निबीजेन विप्रेन्द्र त्रिकोणमण्डले स्थिते ॥ ४५ ॥
पृ० ९६) पादाङ्गुष्ठं समारभ्य देहे दद्यात् शिरोऽन्तकम् ।
अमृतेन प्लावयेत्तत्र एकचित्तेन वै बुधाः ॥ ४६ ॥
चन्द्रमण्डलसङ्काशमकारं जन्मसम्भवम् ।
विद्यातत्त्वमुकारं तु शिवतत्त्वं मकारकम् ॥ ४७ ॥
ओमित्यनेन कमलं योगपीठमधोमुखम् ।
चिन्तयेदमृतं तोयं सुषुम्नाभिन्नम्मस्तकम् ॥ ४८ ॥
तेन प्लावितमात्मानमापूर्यं तं विचिन्तयेत् ।
इमां योऽभ्यसते नित्यं समाधिं मृत्युनाशकम् ॥ ४९ ॥
न तस्य जायते मृत्युरिति शास्त्रस्य निश्चयः ।
षडध्व विन्यसेत्पश्चात् शिष्यदेहे विशेषतः ॥ ५० ॥
पृ० ९७) मन्त्राध्वा च पदाध्वा च तत्त्वाध्वा भुवनात्मकम् ।
वर्णाध्वा च कलाध्वा च विंशत्येकपदं शिवम् ॥ ५१ ॥
सत्त्वं रजस्तमश्चैव आत्मा दिन्द्रियमेव च ।
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्चाष्टशक्तिभिः ॥ ५२ ॥
पञ्चब्रह्म शिवाङ्गानि प्रसादान्ते सदाशिवः ।
शिष्ये देहे न्यसेद्विप्रः प्रणवादि नमोऽन्तकम् ॥ ५३ ॥
तत्तन्मन्त्रमनुस्मृत्य योजयेत् शिष्यदेहके ।
मन्त्राध्वा विन्यसेन्मूर्ध्नि कलाध्वा मुखमेव च ॥ ५४ ॥
तत्त्वाध्वा हृदये न्यस्य नाभे तु भुवनात्मकम् ।
वर्णाध्वा मेढ्रदेशे तु पादयोस्तु कलाध्वकम् ॥ ५५ ॥
पृ० ९८) पदाध्वा तु पुनर्योज्य पादारभ्य शिरोन्तकम् ।
सद्यं कलाभिरष्टाभिर्वामदेवं त्रयोदश ॥ ५६ ॥
अघोरमपि चाष्टौ तु चतुर्वृत्तस्तथैव च ।
ईशानस्य कलाः पञ्च अष्टत्रिंशत्कला न्यसेत् ॥ ५७ ॥
विद्येश्वराणामष्टौ च गणेशानां चतुष्टयम् ।
प्रासादं लोकपालानाम् अस्त्राणां पदमेकः ॥ ५८ ॥
एवं पदाध्वा विन्यस्य तत्त्वाध्वा च पुनर्न्यसेत् ।
पृथिव्यापस्तथा तेजो वायुराकाशमेव च ॥ ५९ ॥
श्रोत्रं त्वक् चक्षु जिह्वा च घ्राणश्चैव तु पञ्चमः ।
वाक्पाणिपादपायूरुपस्थं चैव तु पञ्चमम् ॥ ६० ॥
पृ० ९९) शब्दस्पर्शे रूपरसे गन्धश्चापि च पञ्चमम् ।
मनोऽहङ्कारबुद्धिश्च प्रकृतिः पुरुषस्तथा ॥ ६१ ॥
रसो माया च विद्या च काला नियतिरेव च ।
वि * * * बरकाश्च शुद्धमाया तथैव च ॥ ६२ ॥
शुद्धविद्या शुद्धकला सदाशिव शिवः परः ।
षट्त्रिंशतत्त्वमेवं तु क्रमेणैव तु विन्यसेत् ॥ ६३ ॥
भुवनाध्वा ततो न्यस्य कालं नाला शिवान्तकम् ।
भुवनाध्वा न्यसेत्पश्चात् पश्चादूर्ध्वं क्रमेण तु ॥ ६४ ॥
अधस्थाद्धृदयादीनि कल्पयेत्कल्पवित्तमः ।
कालाग्निश्चान्धकारं त नरको नेक विंशतिः ॥ ६५ ॥
पृ० १००) रौरवं कुम्भिपाकं च महा * * * एव च ।
क्षुरधारासिकादीनि जलं च शीतलेन च ॥ ६६ ॥
उष्णसन्तापनं चैव लोहतप्तं तथैव च ।
कूटं शाल्मलि कूपं च तिलयन्त्रेषु यन्त्रकम् ॥ ६७ ॥
धनुर्निरयमाधानं क्षुरिकानिरयमेव च ।
पाषाणं तप्तपांसुर्वै धरणी च तथैव च ॥ ६८ ॥
तलं च वितलं चैव नितलं च तलातलम् ।
सुतलं च तलातलं रसातलमथोपरि ॥ ६९ ॥
भूलोकश्च भुवर्लोकस्सुवर्लोकस्तथैव च ।
महर्लोकश्च विज्ञेयो जनलोकस्तथैव च ॥ ७० ॥
पृ० १०१) तपोलोकं सत्यलोकं गन्धर्वा यक्षलोककः ।
विद्याधरणां लोकं च सिद्धचारणलोककान् ॥ ७१ ॥
असुराणां लोकं च कर्णिकानां च लोककम् ।
इन्दुलोकाग्निलोकं च यमो निरृतिलोककम ॥ ७२ ॥
वरुणं वायुलोकं च सोमलोकं तथैव च ।
ईशानं देवलोकं च ब्रह्मलोकं तथैव च ॥ ७३ ॥
ब्रह्मलोकोपरिस्तस्य विष्णुलोकमतःपरम् ।
अनन्तेशस्य लोकं तु सूक्ष्मलोकमतःपरम् ॥ ७४ ॥
शिवोत्तमस्य लोकन्तु एकनेत्रस्य लोककम् ।
एकरुद्रस्त्रिमूर्तिश्च श्रीकण्ठश्च शिखण्डि च ॥ ७५ ॥
पृ० १०२) महेश्वरस्य लोकं तु सदाशिवस्य लोककम् ।
लोकं च शिवलोकं च क्रममेषां प्रकीर्तितम् ॥ ७६ ॥
शिवलोकोपरिष्टात्तु लोकमन्यन्न विद्यते ।
नाभिमूलात्समारभ्य यावद्धृदयदेशिकम् ॥ ७७ ॥
वर्णाध्वा विन्यसेद्विप्रा कपोतान्तरमेव च ।
अकारं मूर्ध्नि देशे तु उकारं तु ललाटके ॥ ७८ ॥
उकारं दक्षिणे नेत्रे ईकारं वामलोचने ।
उकारं दक्षिणनासायाम् ऊकारं वामनासिके ॥ ७९ ॥
ऋकारं दक्षिणे श्रोत्रे ऋकारं वामकर्णके ।
ऌकारं दक्षिणे गण्डे ऌल्कारं वामगण्डके ॥ ८० ॥
पृ० १०३) ए ऐ च तालुरन्ध्रे तु ओ औ ओष्ठद्वयोरपि ।
दन्तपङ्क्तिद्वये न्यस्य अम् अः इत्यक्षरद्वयः ॥ ८१ ॥
कवर्गं दक्षिणे हस्ते चवर्गं वामहस्तके ।
टवर्गं दक्षिणे पादे तवर्गं वामपादके ॥ ८२ ॥
पा पौ दक्षिणपार्श्वे वा वामपार्श्वे ब भौ न्यसेत् ।
मकारं हृदये न्यस्य यकारं त्वक् च विन्यसेत् ॥ ८३ ॥
रेफं रक्तकमेवोक्तं लकारं मांसमुच्यते ।
मकारं मेद विन्यस्य चकारं च सुदेशिके ॥ ८४ ॥
मज्जादेशे षकारं तु शकारं शक्लमेव च ।
हकारं प्राणमित्याहुः क्षकारं मेढ्रमेव च ॥ ८५ ॥
पृ० १०४) लकारे वृषणे प्रोक्तं सर्वान्येतानि विन्यसेत् ।
नवत्रिंशत्कलान्विप्र कादिपादान्तं विन्यसेत् ॥ ८६ ॥
रसुतारा रमणीय तरयं तु सुदारुणी ।
निवृत्तश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च ॥ ८७ ॥
शान्त्यतीतं परं व्योम क्रमाद्विन्यस्य तत्त्ववित् ।
ततो मोहा क्षुधा निद्रा मृत्यु माय जरा भया ॥ ८८ ॥
राजा रक्षा रतिः पाल्या रम्याक्षणमिति क्रिया ।
धृतिं कार्या परा त्री च भ्रामिणी मोहिनी तथा ॥ ८९ ॥
सिद्धम् ऋद्धिर्द्युतिर्लक्ष्मी मेधा कां तु स्थिरा स्थितः ।
नवत्रिंशत्कला ह्येता देवदेव न धीमहि ॥ ९० ॥
पृ० १०५) हृदये चाग्नि विन्यस्य मुखे वायुश्च त न्यसेत् ।
आकाशं मूर्ध्नि विन्यस्य पञ्च त क्रमणा न्यसेत् ॥ ९१ ॥
मन्त्राध्वा सद्यमन्त्रेण वामेनैव पदाध्वकम् ।
वर्णाध्वा चा ह्यघोरेण तत्त्वाध्वा पुरुषेण तु ॥ ९२ ।
भुवनाध्वा कलाध्वा च ईशानेन तु विन्यसेत् ।
एवमेव क्रमेणैव शिष्यदेहे न्यसेत्ततः ॥ ९३ ॥
ईशानं मूर्ध्नि विन्यस्य मुखे विष्णुरिति स्मृतम् ।
हृदयं ब्रह्मणा प्रोक्तम् अचिन्त्यां हस्तयोर्न्यसेत् ॥ ९४ ॥
इन्द्रश्चैव तु कुक्षि स्याद्वामाग्नौ पार्श्वयोर्न्यसेत् ।
वृषणे निरृतिश्चैव वायू वरुण पादयोः ॥ ९५ ॥
पृ० १०६) पृष्ठे चन्द्र इति ख्यातं शिष्य हो तु विन्यसेत् ।
एवं यः कुरुते मर्त्यः पूतो भवति मानवः ॥ ९६ ॥
देशिकश्चान्मना विप्रा शिवस्तत्रैव तिष्ठति ।
तस्मात् सर्वप्रयत्नेन देशिकः पूजयेत्ततः ॥ ९७ ॥
यद्द्रव्यं पात्रशेषादि शिवस्य परमेष्ठिनम् ।
होतव्यं देशिकस्यापि तद्दोषाय प्रकल्पयेत् ॥ ९८ ॥
शिवमुद्दिश्य सर्वं तु वस्त्र धान्यादि काञ्चनम् ।
दद्यादाचार्य हस्ते तु शिवलोकमवाप्नुयात् ॥ ९९ ॥
दीक्षाविधिरिति प्रोक्तमभिषेकं ततश्शृणु । ९९।५
इति वीरतन्त्रे दीक्षाविधिपटलो नवमः ॥ ?