०५ दीक्षामण्डलविधिः

पृ० ५२) पटलः ५ (दीक्षामण्डलविधिः) ?
(कर्षण, वास्तुलक्षण, बलि, दीक्षामण्डल विधयः) ?

पितामह उवाच-

कर्षणं कीदृशं देव वास्तुलक्षणमेव च ।
एतत्सर्वं समासेन ब्रूहि मे परमेश्वर ॥ १ ॥

ईश्वर उवाच-

कर्षणस्य विधिं यावत् तावत् शृणु तपोधन ।
पुष्यमासादिषाण्मासं देवानां तु दिवा भवेत् ॥ २ ॥

आषाढादिषु षाण्मासं रात्रिरित्यभिधीयते ।
दिवामासं च गृह्णीयात् रात्रिमासं च वर्जयेत् ॥ ३ ॥

प्राजापत्यश्च यत्सौम्य हस्तश्चैव त्रिरुत्तराः ।
? मैत्र्यादित्य मघास्यादिवष्टाद्राश्रवणाः शुभाः ॥ ४ ॥

एषामेव दिनं श्रेष्ठं धनधान्य विवर्धनम् ।
? द्वितीयां तृतीयां पञ्चमी षष्ठी सप्तमी ॥ ५ ॥

पृ० ५३) दशम्येकादशैर्वापि शुक्लपक्षे त्रयोदशी ।
प्रतिपत्पूर्णमावास्यां कारयेत्तु शिवद्विजः ॥ ६ ॥

राशयश्चरवज्यश्च ग्राह्या धनुरशोभना ।
सोमभार्गवसौम्यायां वारा श्रेष्ठतमा स्मृताः ॥ ७ ॥

एषामेयोदयं शस्तं तत्र सोमोदयं विना ।
अष्टमस्था ग्रहास्सर्वे सर्वं कुर्वन्ति दुस्थितम् ॥ ८ ॥

खण्डस्पूणान्तनक्षत्रे गुलिका विष्टयस्यजेत् ।
ग्रहणे विषुवे चैव अयने व्यतिपातके ॥ ९ ॥

(दुस्थितः)
षडशीतिमुखे वापि कृतं कार्यं विनश्यति ।
एवं परीक्ष्य कर्तव्यं सर्वसम्पत्कराय च ॥ १० ॥

पृ० ५४) अथ भूमिं परीक्ष्यैव पश्चात्कर्म समारभे ।
ऊषरं कृमिभिर्जुष्टं वल्मीकाढ्यं त वर्जयेत् ॥ ११ ॥

श्वेता तु ब्रह्मभूमि स्यात् रक्ता वै क्षत्रियस्य तु ।
पीता वैश्या इति प्रोक्ता कृष्णा शूद्रा इति स्मृताः ॥ १२ ॥

हस्तमात्रं खनित्वा तु पूरयेत्तेन पांसुना ।
अधिकं चोत्तमं ज्ञेयमधमं न्यूनमेव च ॥ १३ ॥

आराद्ध्य विषमन्त्रेण हेमशृङ्गखुरान्वितौ ।
क्षीरवृक्षयुगं बध्वा गोचर्मेणैव बद्धयेत् ॥ १४ ॥

असनं खादिरं वा हलं कृत्वा यलेहकः ।
आचार्यस्सकलीकृत्य नववस्त्रेण वेष्टयेत् ॥ १५ ॥

पृ० ५५) सर्वाभरण सम्पूज्य अर्चयेच्छिवमन्त्रतः ।
ॐ तीक्ष्णशृङ्गाय विद्महे वेदपादाय धीमहि ।
तन्नो वृषभः प्रचोदयात् ।
आराध्य वृषभं तत्र कर्षयेत् शिवमन्त्रतः ॥ १६ ॥

ॐ - प्रागुक्त कर्षयेत्तत्र आचार्यं पूजयेत्ततः ।
शालिमुद्गकुलस्थं च भूतले विन्यसेत्ततः ॥ १७ ॥

आचार्याय प्रदातव्यं सहगौ वृषभौ तथा ।
तेषु पक्षेषु कालेषु गोगणानां निवेदयेत् ॥ १८ ॥

शाल्यं विमोचयेत्तत्र लक्षणे * समन्वितम् ।
पुण्याहं वाचयेत्तत्र प्रोक्षयेत् शिवमन्त्रतः ॥ १९ ॥

पूजानान्ते स्पृशा कर्ता यदङ्गस्तं निरीक्ष्यते ।
वास्तुदेहेऽपि तत्रैव शल्यं ब्रूयाद्यथाक्रमात् ॥ २० ॥

पृ० ५६) अस्थिशल्यं शिरस्पर्शं तदद्धस्तद्वमानतः ।
करस्पर्शे गले तच्च वृद्धस्त त्रयमानतः ॥ २१ ॥

त्रिहस्ते शृङ्गला शल्यमुरस्पर्शात्तु देशिकः ॥
हस्तमात्रे करस्पर्शात् ख वा पादं समादिशेत् ॥ २२ ॥

अङ्गारकं त्रिहस्ते तु भावस्पर्शनमुच्यते ।
? गुल्फेन पादनिर्दिष्टं वितस्ति द्वय वित
प्रमाणापादे कर्णाङ्गमुच्यते ॥ २३ ॥

कनिष्ठाङ्गुष्ठयोः स्पर्शात् करा पेकाकमुच्यते ।
कटस्पर्शा तु लोहं च करद्वयप्रमाणतः ॥ २४ ॥

? नाभिकोर्परं ह जानुस्पर्शमेव च ।
एवं परीक्ष्य बहुधा शल्यमुद्धरते क्रमात् ॥ २५ ॥

पृ० ५७) घनं कृत्वा तु विप्रेन्द्र गोमयेनानुलेपयेत् ।
पुण्याहं वाचयेत्तत्र षण्णवत्या तु प्रोक्षयेत् ॥ २६ ॥

अश्वत्थोदुम्बरं वाथ शङ्कुं वै ग्राहयेत्ततः ।
आयामद्वादशाङ्गुलन्नाडीं स्यात्तु षडङ्गुलम् ॥ २७ ॥

तत्र मध्ये स्थितं शङ्कुं तन्मानेन तु भ्रामयेत् ।
सूत्रद्वयं तनैव * * * * * * मानतः ॥ २८ ॥

पूर्वाह्णे च पराह्णे च शङ्कुछायं च लङ्घयेत् ।
ततस्सूत्रद्वयं प्राचि पादयोश्चक्रमध्यमे ॥ २९ ॥

प्रगेत सूत्रमानेन मध्यस्थेनैव कारयेत् ।
उदात् सूत्रं भवेत्तत्र कृत्वा तु चतुरश्रकम् ॥ ३० ॥

पृ० ५८) पञ्चगव्येन सम्प्रोक्ष्य षण्णवत्येन मन्त्रतः ।
वास्तुदेवान् समभ्यर्च्य पुरुषं पूजयेत्ततः ॥ ३१ ॥

असुराणां हतार्थाय शुक्रः कृत्वा महातपाः ।
? महत्तप ससं * * * * * भूतकां बलः ॥ ३२ ॥

भूम्यामयो मुखस्तं तु दद्यात्तु पुरुषो भवेत् ।
एवमेव क्रमं ज्ञात्वा वास्तु तत्रैव कल्पयेत् ॥ ३३ ॥

मध्ये नवपदं ब्रह्मा चतुर्दिक्षु च विन्यसेत् ।
ब्रह्माणं पूर्वतो भागे समय्यक तु षट्पदम् ॥ ३४ ॥

दक्षिणे तु विवस्वांश्च षट्पन्दं चैव पूज्यते ।
मित्रश्चैव तु विप्रेन्द्र पश्चिमे षट्पदस्तथा ॥ ३५ ॥

पृ० ५९) उत्तरे षट्पदं भुङ्क्ते पृथिवीधर एव च ।
आपश्चैवापवत्सश्च ऐशान्यां तु पदद्वये ॥ ३६ ॥

सावित्री सविता चैव आग्नेये तु पदद्वये ॥
इन्द्रश्चेन्द्रजयश्चैव नैरृत्यां तु पदद्वये ॥ ३७ ॥

रुद्रो रुद्रपदश्चैव वायव्यां तु पदद्वये ।
ईशानश्चैव पर्जन्यो जयन्तश्च महेन्द्रकः ॥ ३८ ॥

? आदित्यक भृङ्गावन्तरिक्षश्च पूर्वगा ।
अग्निः पूषा च वितथो ग्रहः क्रतुर्यमस्तथा ॥ ३९ ॥

गन्धर्वो भृङ्गराजश्च मृगश्चैव तु दक्षिणे ।
पितृदौवारिकश्चैव तथा सुग्रीवमेव च ॥ ४० ॥

पृ० ६०) पुष्पदन्तश्च वरुणो असुरश्च तथैव च ।
शोषश्च पाप यक्ष्मा च पश्चिमे तु व्यवस्थि * ॥ ४१ ॥

उत्तरे तु तथा रोगान्नागो मुख्यस्तथैव च ।
भल्लोटश्च तथा सोमो ऋगोदिति दितिस्तथा ॥ ४२ ॥

पूतना नैऋते चैव पापराक्षसि । वायवे ।
वास्तवानां तु सर्वेषां ब्रह्मभिर्मुख एव च ॥ ४३ ॥

एवं विन्यस्य देवांश्च पुरुषं प्रोच्यते मया ।
समानीय शिरं विद्वान् ब्रह्मकायमिहोच्यते ॥ ४४ ॥

मित्रश्चैव तु लिङ्गं स्याद्वृषणं पृष्ठमेव च ।
एवं वास्तुरिदं प्रोक्तं चरवास शृणुष्वथ ॥ ४५ ॥

पृ० ६१) मासे भाद्रे पदे स्वादिपूर्वशीर्षमुच्यते ।
मार्गशीर्षकमासादि त्रयो मासास्तु दक्षिणे ॥ ४६ ॥

फल्गुन्यादि त्रयो मासं पश्चिमे शिर उच्यते ।
ज्येष्ठमासादिसञ्ज्ञेया उत्तरे शीर्षं तथा ॥ ४७ ॥

पूर्व शीर्षमध्याह्ने साये दक्षिणशीर्षकम् ।
मध्यरात्रौ तु विप्रेन्द्र पश्चिमे शिर उच्यते ॥ ४८ ॥

उषः काले तु सर्वे तु उत्तरे शिर उच्यते ।
एवं पुष्पैश्च धूपैश्च दीपैश्चैव सुपूजयेत् ॥ ४९ ॥

वक्ष्ये विधि बलिर्यावत् तावच्छृणु तपोधन ।
सर्वेषां बलि दातव्य पायसान्नं घृतप्लुतम् ॥ ५० ॥

पृ० ६२) प्रदद्यात् फलभक्ष्यं तु समर्यक विशेषतः ।
तिलमष्टान्नसंयुक्तं विवस्वाति बलिं ततः ॥ ५१ ॥

पूर्वापदधि मित्रे च महिष क्षीरमेव च ।
पर्जन्ये चैव सर्पिश्च जयन्ते नवनीतकम् ॥ ५२ ॥

महेन्द्रे पिष्टमेवं तु * * * मधुरुच्यते ।
मधु चित्रोदरफलं सत्ये बलिमिहोच्यते ॥ ५३ ॥

? कङ्क्वान्नं च विधे बिम्बा * विनां च ग्रहक्षिते ।
कृसरं यमदेवं तु गन्धर्वे खिलमुच्यते ॥ ५४ ॥

समुद्रमत्स्य विप्रेन्द्र भृङ्गराजबलिं ततः ।
दध्यान्नं च मृगे दद्यत् पितृपिण्डाकतैलकम् ॥ ५५ ॥

पृ० ६३) इष्टे वायु शतं पिष्टे दौ * वरि सुग्रीवके ।
पुष्पदन्ते ज कुसुमं पायसं वरुणे तथा ॥ ५६ ॥

असुरे मधुकं विद्यात् शोषे तु तिलतण्डुलैः ।
? रोगोभि शुष्कमस्यं हि नागौ चार्चं बलिं तथा ॥ ५७ ॥

प्रख्ये पि धान्यवर्णं तु दधिसंयुतमेव च ।
भल्लोटे तु गुलं सं स्यात् सोमे गुलान्नमेव च ॥ ५८ ॥

ऋभेदवे गुलं चैव दिति देवस्तुमोमकैः ।
दितौ च तिलभक्ष्येण क्षीरान्नं सर्वरीशके ॥ ५९ ॥

आपे तया पवत्सेव अजमांसं च मत्स्यकम् ।
सविता सावित्रके चैव जङ्गमं धोदनं ततः ॥ ६० ॥

पृ० ६४) इन्द्रो बलिस्तदा दद्यात् इन्द्रजये तु मुद्गकम् ।
रुद्रो रुद्रजये चैव मासं क्षीरं बलिं ददेत् ॥ ६१ ॥

चरकी घृतमेवं तु विदारी लवणं तथा ।
तिलपिष्टं पूतना चैव गुल्माष पापराक्षसी ॥ ६२ ॥

स्थापितः कृतोपवासश्च एवमेव बलिं ददेत् ।
देवतानामसंयुक्तं चतुर्थ्यन्तं समायुतम् ॥ ६३ ॥

नमस्कारसमायुक्तं बलमद्वि विनिर्दिशेत् ।
आचार्यैर्बलि दातव्यं वास्तुहोमादिकर्मसु ॥ ६४ ॥

ब्राह्मणः सुधा पिता कृष्णा शूद्रस्य संस्मृता ।
मधुरा ब्रह्मणो भूमिः कर्षया क्षत्रियस्य वै ॥ ६५ ॥

पृ० ६५) वैश्यस्य क्षदसा ज्ञेया शूद्रस्तु कामका स्मृताः ।
आज्यगन्धं तु विप्रस्य रक्तगन्धा नृपस्य तु ॥ ६६ ॥

मूत्रगन्धा तु वैश्यस्य शूद्रस्येष्टा सुगन्धिनी ।
वर्णगन्धरसानां च तत्तज्जात्यर्हकं भवेत् ॥ ६७ ॥

हस्तमात्रं खनेत् भूमिं पूरयेत्तेन पांसुना ।
अधिका चोत्तमं विद्यात् मध्यमा समपांसुला ॥ ६८ ॥

उत्तमं विद्यहीनाच्चाप्यधमं ज्ञेय वर्जयेत् ।
भासत्करा तुषा केशा हस्तमुद्धरते तथा ॥ ६९ ॥

पञ्चगव्येन सम्प्रोक्ष्य शिवमन्त्रेण देशिकः ।
पञ्चरत्न क्षिपेत्तत्र षण्णवत्या च मन्त्रितम् ॥ ७० ॥

पृ० ६६) पांसुभिश्चाद * * तु धिण्यं साम्यं प्रकल्पयेत् ।
दर्पणोदरसङ्काश चतुरश्रं समन्ततः ॥ ७१ ॥

पूर्वाग्रं सप्तसूत्रं स्यात् उदगग्रं तथैव च ।
कर्णसूत्रद्वयोपेतं तस्याग्रे मुखमुच्यते ॥ ७२ ॥

ईशे जयन्तमादित्ये सत्यकश्च भृशस्तथा ।
अग्निश्च वितथश्चैव ग्रहक्षत यमस्तथा ॥ ७३ ॥

भ्रंशं च पितृ सुग्रीवो वरुणश्चासुरस्तथा ।
रोगनागश्च मुख्यश्च । । । । मोमश्चादितरोऽपि च ॥ ७४ ॥

अर्धार्ध द्विपदं भुङ्क्ते * * * समरीयकम् ।
विवस्वान् दक्षिणश्चैव मित्रश्चैव तु पश्चिमे ॥ ७५ ॥

पृ० ६७) अर्धार्धा द्विपदं भुङ्क्ते उत्तरे पृथिवीधरा ।
आप वत्सश्च सावित्री इन्द्रजस्तं तथैव च ॥ ७६ ॥

रुद्रं जयश्च विप्रेन्द्र ईशाने कपदस्तिथा ।
ब्रह्मश्चतुष्पदं भुङ्क्ते षट्त्रिंशत्पदभागिनी ॥ ७७ ॥

चरकी चारकी चैव पूतना पापराक्षसी ।
चतुश्शूले न्यसेत्तत्र गन्धपुष्पादिनार्चयेत् ॥ ७८ ॥

पुरुषं पूर्व सङ्कल्य सरीर्यके शिरो भवत् ।
ब्रह्मकायमिति प्रोक्तं वामाम्बायवत्सकेम् ॥ ७९ ॥

सावित्र्यन्तं च विप्रेन्द्र दक्षिणे बाहुरुच्यते ।
रुद्रे जयस्तथा चैव वामभागः प्रकीर्तितः ॥ ८० ॥

पृ० ६८) इन्द्रं जयस्तथा च स्यात् दक्षिणो पाद उच्यते ।
मित्रश्चैव तु लिङ्गं स्यादयोमुखं तु कारयेत् ॥ ८१ ॥

गन्धैः पुष्पैश्च धूपैश्च वरुणश्चैव पूजयेत् ।
मण्डलं वर्धयेद्धीमान् पुण्याहं वाचयेत्ततः ॥ ८२ ॥

पूर्वे चतुष्पदे चैव अष्टांशं तु विभाजिते ।
एकांशं वर्तयेत्तत्र तत्तन्मध्यादि भ्रामयेत् ॥ ८३ ॥

एवमेव क्रमेणैव चतुर्दिक्षु च भ्रामयेत् ।
मध्यात् कर्णे परिगृह्य तदर्धेनैव भ्रामयेत् ॥ ८४ ॥

अभ्यन्तरं कर्णपदे वर्तयेद्दलमेव च ।
एवमेव क्रमेणैव चत्वारो दलमुच्यते ॥ ८५ ॥

पृ० ६९) वाह्यकर्णपदे चार्धो वर्धयेद्वृत्तमेव च ।
अष्टाभिर्दलमेवं तु दलाग्रं तत्र योजयेत् ॥ ८६ ॥

प्रतिवारणरेखा च एकाङ्गुलेन कारयेत् ।
अङ्गुलीत्रयकार्ये तु शोभां चैव तु वर्जयेत् ॥ ८७ ॥

अङ्गुलेनैव विप्रेन्द्र उभ शोभां च वर्त्तयेत् ।
मध्यात्पूर्वदलान्तं तु वर्त्तयेत्केसरं ततः ॥ ८८ ॥

केसरं तु त्रिभागैकं कर्णिकाश्चैव वर्त्तयेत् ।
एवमेव क्रमेणैव वर्तयेन्मण्डलं ततः ॥ ८९ ॥

मोक्षदं मण्डलं प्रोक्तम् आकाशं च शृणुष्वथ ।
पूर्वाग्रमुत्तराग्रं च सूत्रद्वयं प्रसारयेत् ॥ ९० ॥

पृ० ७०) निरृत्यैशानकोणे च वायव्याग्नेयमेव च ।
सूत्रप्रकारयोर्मध्ये शक्रं तत्रैव विन्यसेत् ॥ ९१ ॥

खादिराश्शङ्कवः कार्या बिल्वचूतकदम्बकैः ।
मधूकं देवदारुं वा याज्ञिकं वृक्षमेव च ॥ ९२ ॥

अष्टाङ्गुल समुत्सेधं तदर्धं नाहमुच्यते ।
कर्तव्याच्चतुरङ्गुल्यं केबराश्च षडङ्गुली॥ ९३ ॥

दलायामं च विप्रेन्द्र चतुर्दशाङ्गुलं भवेत् ।
प्रतिवारण चाङ्गुल्यं विधायाङ्गुलिरेव च ॥ ९४ ॥

शोभमप्यप शोभां च वर्त्त * दङ्गुलान्तरम्।
एवमेव क्रमेणैव वर्त्तयेन्मण्डलं ततः ॥ ९५ ॥

पृ० ७१) मण्डलं सम्प्रवक्ष्यामि मुक्ताचूर्णेन संयुतम् ।
शालिगोधूमपिष्टैश्च पञ्चरागं च चूर्णकैः ॥ ९६ ॥

गैरिकैष्टकचूर्णैश्च इन्द्रनीलस्य चूर्णकैः ।
तुषाङ्गारकचूर्णैश्च मरकतस्य च चूर्णकैः ॥ ९७ ॥

हरिद्राचूर्णसंयुक्तं मण्डले विन्यसेत्ततः ।
केसरस्य तु मूले तु शुक्लवर्णं प्रकीर्तितम् ॥ ९८ ॥

मध्यमे पीतवर्णं तु अग्रे पीतमिहोच्यते ।
पूर्वायां तु दलं चैव श्वेतवर्णमिति स्मृतम् ॥ ९९ ॥

आग्नेय्यां रक्तवर्णां च याम्ये कृष्णमिहोच्यते ।
नैरृते धूम्रवर्णं तु वारुणे मौक्तिकं भवेत् ॥ १०० ॥

पृ० ७२) वायव्यां श्यामवर्णं तु सोमे तु रजनी भवेत् ।
ऐशान्यां नीलमेवं तु दलवर्णमिहोच्यते ॥ १०१ ॥

श्वेतवर्णेन विप्रेन्द्र विन्यसेत् प्रतिवारणे ।
तदन्ते रजनी यस्य शालिपिष्टं तदन्तके ॥ १०२ ॥

चतुर्द्वारसमायुक्तं लेखयेत्तु शिवद्विजः ।
एकहस्तं द्विहस्तं वा चतुर्हस्त तथोपि व ॥ १०३ ॥

अष्टौ वा द्वादशं हस्ते षोडशं विंशतिस्तु वा ।
हस्तौ त्रिंशतिभिर्वापि इदमिद्धन्न कारयेत् ॥ १०४ ॥

अष्टौ वा षोडशं वापि द्वात्रिंशद्दलमेव च ।
अष्टोत्तरशतं वापि दलसङ्ख्या विधीयते ॥ १०५ ॥

पृ० ७३) मन्त्रन्यासं प्रवक्ष्यामि शृणुष्व कमलासन ।
पुरुषं पर्वदले न्यस्य अघोरं दक्षिणे दले ॥ १०६ ॥

सद्यं तु पश्चिमे न्यस्य वामदेवं तथोत्तरे ।
आग्नेय्यां हृदये न्यस्य शिरमीशानके दले ॥ १०७ ॥

नैरृत्यां तु दले विप्र शिखामन्त्रं तु योजयेत् ।
कवचं वायुदेशे तु नेत्रमीशानदेशके ॥ १०८ ॥

अस्त्रं दिशासु सम्पूज्य एवमेव क्रमान्न्यसेत् ।
दैन्यके तु पदे चैव शिष्यादिवासनं भवेत् ॥ १०९ ॥

मनुष्येऽपि विकुण्डस्स्यात् पेशाचे गुरु तिष्ठति ।
ब्रूहि मे मण्डलं कुर्यात् एवमेव क्रमेण तु ॥ ११० ॥

पृ० ७४) कर्णिकायां शिवं पूज्य ईशानं केसरे न्यसेत् ।
प्रोक्षयेदम्भसा चैव पुण्याहं वाचयेत्ततः ॥ १११ ॥

गन्धैः पुष्पैश्च धूपैश्च हृदयेन तु पूजयेत् ।
आवाहयेत्ततो देवं सद्योजातेन मन्त्रतः ॥ ११२ ॥

स्थापयेद्वामदेवेन अघोरेण निरोधयेत् ।
सान्निध्यं पुरुषेणैव ईशानेन तु पूजयेत् ॥ ११३ ॥

पञ्चावरणमार्गेण पूजयेद्विधिपूर्वकम् ।
निवेदयेच्चरुं तस्य सर्वोपदंशसंयुतम् ॥ ११४ ॥

अर्धं निवेदयेद्देवे चात्यात्थ्यं बलिरग्निभिः ।
पात्रशेषं चतुर्थ्यन्तं शतं शिष्याय प्रदापयेत् ॥ ११५ ॥

पृ० ७५) पञ्चब्रह्मैरनुस्मृत्य पञ्चपिण्डं कुरुष्वथ ।
आचम्य च विधानेन दन्तैरस्पृश्य प्राशयेत् ॥ ११६ ॥

व्योमव्यापिं जपेत्तत्र आचम्य च विधानतः ।
दन्तकाष्ठं ततः कुर्याद्द्वादशाङ्गुलदैर्घ्यकम् ॥ ११७ ॥

पिप्पलं वटवृक्षं च खादिरं वापि कारयेत् ।
क्षीरवृक्षमपामार्गं दन्तधावनमुच्यते ॥ ११८ ॥

पाशुपतास्त्रमन्त्रेण जपित्वा खात(द)येत्ततः ।
शोधयित्वा मलं विप्र आचम्य च विधानतः ॥ ११९ ॥

व्योमव्यापिं जपेत्तत्र शिवाङ्गं विन्यसेत्ततः ।
अघोरमन्त्रेण भस्म शिरसि विन्यसेत्ततः ॥ १२० ॥

पृ० ७६) पञ्चगव्यं ततो दद्याच्छिवमन्त्रसमायुतम् ।
शिवाङ्गैर्ब्रह्मभिर्युक्तं जपित्वा पश्चात् प्राशयेत् ॥ १२१ ॥

आचम्य च विधानेन पूतो भवति नित्यशः ।
शिष्यं चाधिवसेन्मन्त्री मण्डलस्य तु दक्षिणे ॥ १२२ ॥

भस्मदर्भसमारूढ शिवध्यानपरायणः ।
अग्निकुण्डं प्रकर्तव्यं द्वात्रिंशत्षोडशं तु वा ॥ १२३ ॥

? अष्टौ च पञ्चसङ्ख्या वा दिक् द्राव च * * * * ।
वृत्तं वा चतुरश्रं वा सर्वकुण्डानि कारयेत् ॥ १२४ ॥

बिल्वो दुम्ब शमीश्चैव वैकतङ्कत समित्तदा ।
पालाशखादिराश्वत्थपक्षन्यग्रोधमेव च ॥ १२५ ॥

पृ० ७७) अपामार्गं च विख्यातं समिद्भिस्समुदाहृतम् ।
समिदाज्यचरूलाजान् शालीं च सर्षपं तथा ॥ १२६ ॥

यवांश्चैव तु विप्रेन्द्र होमयेत्तन्त्रपारगाः ।
समिधस्सद्यमन्त्रेण आज्यं हृदयमेव च ॥ १२७ ॥

शिखया वात्र होमं तु लाजं वामेन चैवहि ।
तिलां धत्ते यमं चैव शालीं च पुरुषेण तु ॥ १२८ ॥

सर्षपं शिरमन्त्रेण कवचेन यवांस्तथा ।
शिवाय दश होतव्यमविद्ये द्विगुणं भवेत् ॥ १२९ ॥

गणेशान् लोकपालाश्च त्रिगुणं होमयेत्ततः ।
त्रिगुणं लोकपालास्त्रं होमयेद्देशिकोत्तमः ॥ १३० ॥

पृ० ७८) मण्डलस्य तु पूर्वेश कलशान्विन्यसेन्नव ।
सवस्त्रान् सापिधानांश्च समन्त्रान् हेमसंहितान् ॥ १३१ ॥

नवरत्नं च विप्रेन्द्र नवकुम्भेषु विन्यसेत् ।
धान्योपरि विधातव्यं चन्दनोदकपूरितम् ॥ १३२ ॥

शिवमन्त्रेण संस्थाप्य प्रधानकलशस्तथा ।
पुरुषं पूर्वतः स्थाप्य अघोरं दक्षिणेन वा ॥ १३३ ॥

सद्यः पश्चिमतः स्थाप्य वामदेवं तथोत्तरे ।
ऐशान्यामीशमन्त्रेण आग्नेय्यां हृदयेन तु ॥ १३४ ॥

शिखामन्त्रेण नैरृत्यां कवचं वायुगोचरे ।
तत्तन्मन्त्रसमायुक्तं तत्तत्कुम्भेषु देशिकः ॥ १३५ ॥

पृ० ७९) गन्धैः पुष्पैश्च धूपैश्च दीपैरर्घ्यैर्विशेषतः ।
हृदयेन तु मन्त्रेण नैवेद्यान् दापयेत्ततः ॥ १३६ ॥

पश्यते विजयं स्वप्ने महदद्ध्यमवाप्नुयात् ।
पद्मं पुष्पं च वृषभं मकुटं भूमिलाभकम् ॥ १३७ ॥

अर्पितं फलितं वापि पक्वं वा शुभवृक्षकैः ।
दृष्टे मृष्टफलं चैव लभतेऽत्र न संशयः ॥ १३८ ॥

शालिक्षेत्रे महत् पक्वं दृश्यते शालिलाभकम् ।
अर्पितं फलितं वापि अन्यैर्वा शुभवृक्षकैः ॥ १३९ ॥

? दृष्टे मृष्टफलं चैव लभतेऽत्र न संशयः ।
शालिक्षेत्रे महत्पक्वं दृश्यते शालिलाभकम् ॥ १४० ॥

पृ० ८०) स्वप्ने महोदकं दृश्ये धनधान्यमवाप्नुयात् ।
दृश्यते पुष्पमालायाम् अर्थलाभं विनिर्दिशेत् ॥ १४१ ॥

धेनुं वापि वराहं वा शुक्लं वा मृगमेव च ।
शारिकां वा भयं वापि दृश्येत् कुडुम्बबन्धनम् ॥ १४२ ॥

यस्तु श्वेतेन दर्पेण दृश्यते दक्षिणे भुजे ।
पत्रं वा चार्थलाभं वा लभतेऽत्र न संशयः ॥ १४३ ॥

गन्धशालि महाशालि कलिमाशालि रेव च ।
दातव्यमपि स्वप्ने तु दुःखनाशा भवन्ति वै ॥ १४४ ॥

सवत्सां सुरभीमुद्रां पश्येदायुश्च वर्द्धत ।
जनं वा वानरं वापि सर्पं वा दृश्यतेऽथवा ॥ १४५ ॥

पृ० ८१) धनधान्यमवाप्नोति पुत्रपौत्रविवर्धनम् ।
प्रासादरोहणं वापि समुद्रमुत्तीर्यते नरः ॥ १४६ ॥

स राज्यं लभतेऽवश्यं स्वप्नान्तं दृश्यते नरः ।
चन्द्रस्य मण्डलं दृश्ये भक्षणे वा विशेषतः ॥ १४७ ॥

भक्षणाद्राज्यमाप्नोति दर्शनादर्धमाप्नुयात् ।
सुरं वाप्यसुरं वापि पानं वा दृश्यते यदि ॥ १४८ ॥

विद्यालाभं द्विजानां तु इतरस्तु धनं लभेत् ।
तरते सृक्निशी वापि महदर्थमवाप्नुयात् ॥ १४९ ॥

अमेध्यदर्शनं वक्ष्ये अर्थलाभं विनश्यति ।
क्षीरपाने महाव्याधिर्घृतपाने महद्भयम् ॥ १५० ॥

पृ० ८२) रक्तपानेन स्याद्व्याधी राज्यं च दधिभोजनम् ।
पायसं चैव वैश्वानरं वा वाद लीयते ततः ॥ १५१ ॥

महत्सुखमवाप्नोति मासान्मरणमाप्नुयात् ।
श्येनं वा कपिं वापि धूर्त्तं चैव समूलकम् ॥ १५२ ॥

मूर्ध्नि वा लीयते भक्षे मासान्मरणमाप्नुयात् ।
स्वदन्ते पतिते चैव बन्धुर्मरणमाप्नुयात् ॥ १५३ ॥

? मतं मलिनवस्त्रं संयुतं * * * * * * ।
ते तु महाव्याधि रक्तं वा भामवाप्नुयात् ॥ १५४ ॥

निगले चात्र दृष्टे तु महाव्याधिमवाप्नुयात् ।
रक्तवस्त्रैश्च माल्यैर्वा कृष्णं वापि च धार्यते ॥ १५५ ॥

पृ० ८३) पाददेशे स्थिता नारी व्याधितो मरणं भवेत् ।
कथयुक्त रथारु * * * ते तु यमालयम् ॥ १५६ ॥

मासान्मरणमाप्नोति स्वप्नान्ते दृश्यते यदि ।
रूपे तु पतिते दृश्ये मरणं तस्य निर्दिशेत् ॥ १५७ ॥

सन्यासं क्षपणं बोध्यः दृश्यते मरणं भवेत् ।
शै । । । । । चान्यद्वयं वापि रक्तस(व)स्त्रां सुमङ्गलीम् ॥ १५८ ॥

तालवृक्षफलं चैव फलानां वर्जयेत्ततः ॥ १५९ ॥

किंशुकं रक्तपुष्पाणि करवीरं तु वर्जयेत् ।
धूर्द्धूरकं विना विप्र श्वेतपुष्पं प्रदृश्यते ॥ १६० ॥

पृ० ८४) नराणां ब्राह्मणश्श्रेष्ठ राज्ञां तु मध्यमं भवेत् ।
शुकहस्तं च विप्रेन्द्र पक्षीणां तु प्रदर्शयेत् ॥ १६१ ॥

धेनुं च वृषभं चैव सिंहं चैव मृगं तथा ।
स्वप्ने प्रदृश्यते विप्र आयुष्यं चैव वर्धनम् ॥ १६२ ॥

मरीचं सर्षपं मुद्गं दृश्यते व्याधिमाप्नुयात् ।
कदली नालिकेरं वा पनसं मातुलङ्गकम् ॥ १६३ ॥

एतेषां तु फलं दृश्ये धनधान्यमवाप्नुयात् ।
देवानां च ऋषीणां वा देवपत्नी च वा स्थिरा ॥ १६४ ॥

यस्तु पश्यति स्वप्नान्ते धनमायुर्यशो भवेत् ।
आयं चाहनं वापि दृश्यात् कुडुम्बवर्धनम् ॥ १६५ ॥

पृ० ८५) मासं वापि च मत्स्यं वा लब्धो शुभप्रदं भवेत् ।
ऋक्षां वा तस्करं वापि महिषं व्याघ्रमेव च ॥ १६६ ॥

राजा पीडामवाप्नोति प्रातरेवाधिमादिशेत् ।
स्नानकार्यं प्रकुर्यात्तु सद्यो व्याधिर्विमुच्यते ॥ १६७ ॥

रण्डां च मुण्डनं वापि नग्नां स्त्रीं वापि पश्यति ।
धान्यक्षयं भवेत्तस्य स्वप्नान्तेऽपि न संशयः ॥ १६८ ॥

पुरुषं वापि मूत्रं वा स्वप्ने सन्दर्शयेत्ततः ।
वास्तु नश्यति स्वापान्ते अर्थहानिमवाप्नुयात् ॥ १६९ ॥

शाल्यन्नं भुञ्जते यस्तु आयुश्श्रीकीर्तिवर्धनम् ।
स्त्रीभिस्सुमङ्गलीभिस्तु संयोगं मैथुनं शुभम् ॥ १७० ॥

पृ० ८६) शुभे तु प्रविते दीक्षामशुभे होममाचरेत् ।
सहस्र परमां देवी शतमूला शताङ्कुरा ॥ १७१ ॥

सर्वं हरतु मे पापं दूर्वा दुःस्वप्ननाशिनी ।
इदं मन्त्रं जपित्वा तु दूर्वां शिरसि निक्षिपेत् ॥ १७२ ॥

स्वप्नं तु प्रथमे यामे वत्सरत्रयसाकिनः ।
द्वितीयेन द्वयं चैव द्वियामे चैकवत्सरम् ॥ १७३ ॥

चतुर्थेऽपि च यामे च षण्मासात्सिध्यते ततः ।
उषायां तु दशाहे तु प्राहे पञ्चदशं दिनम् ॥ १७४ ॥

अरुणोदय वेलायां सप्ताहात् सिद्धिमाप्नुयात् ।
एवमेव क्रमेणैव स्वप्नं चैव परीक्षयेत् ॥ १७५ ॥

एवं परीक्ष्य बहुधा प्रभाते स्नपनं भवेत् ।
दीक्षाया मण्डलं प्रोक्तं दीक्षाविधिमथ शृणु ॥ १७६ ॥

इति वीरतन्त्रे दीक्षामण्डलपटलोऽष्टमः ?

(कर्षण, वास्तुलक्षण, बलि दीक्षामण्डलविधयः) ?