पृ० ४५) पटलः ४ (पुष्पलक्षणपटलः)
पुष्पाणां चैव सर्वेषां पत्राणां च तथैव च ।
विशेषं श्रोतुमिच्छामि तं मे ब्रूहि महेश्वर ॥ १ ॥
ईश्वर उवाच-
यावत्पुष्पस्य सङ्ख्यानि पूजानां योग्यमेव च ।
अयोग्यं हि च पुष्पाणां तावच्छृणु तपोधन ॥ २ ॥
अर्कपुष्पसहस्राच्च करवीरं विशिष्यते ।
करवीर सहस्रेभ्यः बिल्वपत्र विशिष्यते ॥ ३ ॥
बिल्वपत्रसहस्रेभ्यः पद्मपत्रं विशिष्यते ।
पद्मपुष्पसहस्रेभ्यः पुण्डरीकं विशिष्यते ॥ ४ ॥
पुण्डरीकसहस्रेभ्यः शतपत्रं विशिष्यते ।
शतपत्रसहस्रेण * स्रकर्णं विशिष्यते ॥ ५ ॥
पृ० ४६) सहस्रकर्णं विशिष्टेभ्यः बकपुष्पं विशिष्यते ।
बकपुष्पसहस्रेभ्यः धूद्धूरकं विशिष्यते ॥ ६ ॥
धूद्धूरकं सहस्रेभ्यः द्रोणपुष्पं विशिष्यते ।
द्रोणपुष्प सहस्रेभ्यः अपमार्गं विशिष्यते ॥ ७ ॥
अपामार्ग सहस्रेभ्यः कुशपुष्पं विशिष्यते ।
कुशपुष्प सहस्रेभ्यः शमीपुष्पं विशिष्यते ॥ ८ ॥
शमीपुष्पसहस्रेभ्यः व्याघातं तु विशिष्यते ।
व्याघातानां सहस्रेभ्यो शङ्खपुष्पं विशिष्यते ॥ ९ ॥
शङ्खपुष्प सहस्रेभ्यः व्याघ्रपुष्पं प्रशस्यते ।
व्याघ्रपुष्प सहस्रेभ्यो सदाभद्रं विशिष्यते ॥ १० ॥
पृ० ४७) श्वेतार्कस्य च विप्रेन्द्र बृहद्द्रोणं विशिष्यते ।
बृहद्द्रोणविशिष्टेभ्यः नीलोत्पलं विशिष्यते ॥ ११ ॥
? सुवर्ण धूद्धूरपुष्प नीलोत्पल समुद्भवेत् ।
प्रक्षाल्य पञ्चगव्येन नीलोत्पलं तु काञ्चनम् ॥ १२ ॥
पुनः पूजां प्रकर्तव्यां सर्वलोकहिताय च ।
जपापुष्पकदम्बं च पुन्नागं च तथैव च ॥ १३ ॥
द्रोणपुष्पसमं ज्ञेयं विष्णुक्रान्ति जपस्तथा ।
अञ्जयं मल्लिका जाजी जाती जवन्तिरेव च ॥ १४ ॥
धूद्धूरकसमं ज्ञेयं चम्पकं कटकं तथा ।
बिल्वपत्रसमं ज्ञेयं पुन्नागं च विशिष्यते ॥ १५ ॥
पृ० ४८) कोब्जं मालती चैव करवीरं समुत्भेवेत् ।
पद्मपुष्पसमं ज्ञेयं वकुलं परमेव च ॥ १६ ॥
अशोकं शोकमन्दारं व्याघातं सममुच्यते ।
श्वेतं कुसुमं रक्तोत्पलमपामार्ग समं भवेत् ॥ १७ ॥
पट्टिका रक्तकङ्ख्या च व्याघ्रपुष्पसमं भवेत् ।
गन्धपुष्पं गण्डपुष्पं पद्मपुष्पसमं भवेत् ॥ १८ ॥
इन्द्रवल्ली च तुलसी अर्कपुष्पसमं भवेत् ।
कोरण्डकस्य पुष्पं च अपामार्गसमं भवेत् ॥ १९ ॥
बकपुष्पसमं ज्ञेयम् अम्बिका अथ शिंशुका ।
सूर्यवर्त्ता नाग * * * * ञ्च शङ्खमेव च ॥ २० ॥
पृ० ४९) धूर्द्धूरकसमं ज्ञेयं महाभद्रनृणावपि ।
वज्रं च पद्मरागं च मरकतं मौक्तिकानि च ॥ २१ ॥
इन्द्रनीलं महानीलं वैडूर्यं च प्रवालकम् ।
नीलोत्पलसमं ज्ञेयं सर्वरत्नानि चैव हि ॥ २२ ॥
सङ्के परि पालाशं च कदम्बपुष्पमेव च ।
अङ्कोलं सकरं चैव प्रियङ्गु जम्बु चैव च ॥ २३ ॥
अर्कपुष्पसमं ज्ञेयं पूजयेत्तु विशेषतः ।
पलाशपुष्पं विप्रेन्द्र रविरश्मिसमायुतम् ॥ २४ ॥
नवसाण्डे परिग्राह्य षाण्मासं पूजयेच्छिवम् ।
यवगोधूमनीवार व्रीहि वैणवकानि च ॥ २५ ॥
पृ० ५०) निष्पाव मानश्यामं च नीलमुद्गक एव च ।
अङ्कुराणि प्रकर्तव्यं पूजयेच्छिवमादरात् ॥ २६ ॥
व्याघातक समेवं तु इदमन्यत् शृणुष्वथ ।
कदम्बार्जुनसिन्दूरं * * * कुसुमानि च ॥ २७ ॥
श्वेतस्तु गिरिकर्णी च नन्द्यावर्त्तं च शारिका ।
कदलीपुष्पपुन्नागनागनन्दी तथैव च ॥ २८ ॥
गिरिबेरि च पत्री च करवीरसमं भवेत् ।
गिरियार्कौ गिरिकर्णी च धूर्द्धूरक समं भवेत् ॥ २९ ॥
निर्गन्धात्यग्रगन्धानि कुसुमानि विवर्जयेत् ।
पुष्पाणामप्यलभेत्तु फलानां पूजयेत्ततः ॥ ३० ॥
पृ० ५१) फलानामप्यलाभेत्तु मूलेनैव तु पूजयेत् ।
मूलानामप्यलाभे तु भक्त्या चैव तु पूजयेत् ॥ ३१ ॥
एवमेवक्रमेणैव पूजयेदेवकङ्कणी ।
केतकी माधवी कुन्दमधुदीम्रदयन्तिका ॥ ३२ ॥
शिरीषसर्ज बन्धूक किंशुकं धुरितं तथा ।
नीलकर्णकमेवाथ पोटकामेन्वमेव च ॥ ३३ ॥
मध्याक्षीं चैव शिग्रुं च वर्जयेल्लिङ्गकर्मणी ।
एवमेव क्रमेणैव यो नरः पूजयेत् सदा ॥ ३४ ॥
स मुक्तस्सर्वपापेभ्यो रुद्रलोकं स गच्छति ।
पुष्पाध्यायमिदं प्रोक्तं कर्षणस्य विधिं शृणु ॥ ३५ ॥
इति वीरतन्त्रे पुष्पलक्षणपटलः पञ्चमः ॥ ?