०३ मन्त्रोद्धारपटलः

पटलः ३ (मन्त्रोद्धारपटलः)

अज्ञानां तव मग्नानां सर्वेषां प्राणिनामथ ।
सर्वपापविशुद्ध्यर्थं मन्त्रोद्धारं कथं भवेत् ॥ १ ॥

ईश्वर उवाच-

मन्त्रोद्धारं प्रवक्ष्यामि शृणुष्व कमलासन !।
मननं सर्ववक्त्राणां त्राणं संसारसागरात् ॥ २ ॥

मननत्राणधर्मित्वं मन्त्रमित्यभिधीयते ।
महेन्द्रे मलये चैव सह्ये विन्ध्ये तथैव च ॥ ३ ॥

केदारे निर्मदे चैव गृहे वापि विशेषतः ।
गङ्गाकूले समुद्रे वा प्रासादे वा विशेषतः ॥ ४ ॥

गवां गोष्ठे विशेषेण नद्यां वापि तटाकके ।
अन्येषु शुद्धदेशेषु मन्त्रमुद्धारयेत्क्रमात् ॥ ५ ॥

पृ० २६) आचार्यश्च शुचिर्भूत्वा कृतोपवाससंयुतः ।
पूर्वरात्राधिवासं च प्रभाते मन्त्रमुद्धरेत् ॥ ६ ॥

रक्तेन धातुना विप्र अक्षरं लेखयेद्धृदा ।
शिवतत्त्वे परे सूक्ष्मे बिन्दुरुत्पद्यते तथा ॥ ७ ॥

बिन्दोर्नादस्समुत्पन्नो नादाच्छक्तिरजायत ।
शक्तेस्तु वाक् भवन्नादं वाक् भवात् षोडशा कलात् ॥ ८ ॥

कलधात्वञ्जनं जातं व्यञ्जनात् सर्वतन्त्रकम् ।
शान्तं सर्वगतं शून्यं शिवरूपमिति ब्रुवन् ॥ ९॥

अवर्गं च कवर्गं च चवर्गं च टवर्गकम् ।
तवर्गं च पवर्गं च यवर्गं च शवर्गकम् ॥ १० ॥

पृ० २७) आदिवर्गेषु ऋ ऋ च चतुरक्षर वर्जयेत् ।
वर्जयेच्चैव विप्रेन्द्र अवर्गं च दशाक्षरम् ॥ ११ ॥

पूर्वं ह्रस्वं समाख्यातमपरं दीर्घमुच्यते ।
ह्रस्व ब्रह्म समाख्यातं दीर्घाङ्गानि च चोच्यते ॥ १२ ॥

सद्योजातं तु गोक्षीर सदृशं वर्णमुच्यते ।
जपापुष्पनिभं वाममघोरमञ्जनप्रभम् ॥ १३ ॥

पुरुषं कुङ्कुमप्रख्यमीशान स्फटिकं भवेत् ।
ब्रह्मवर्ण समाख्यातं तद्रूपं वक्षतेऽधुना ॥ १४ ॥

द्विनेत्रां चारुवदनां सुस्तनां च सुयौवनाम् ।
द्विपादां च द्विहस्तां च पञ्चब्रह्ममिहोच्यते ॥ १५ ॥

पृ० २८) षडङ्गानि प्रवक्ष्यामि हृदयं च शिरस्तथा ।
शिखा कवच नेत्रं च अस्त्रमन्त्रेण संयुतम् ॥ १६ ॥

इन्दुधूमं तथा चैव किञ्चिद्धूम्रं तथैव च ।
रविनिभ युगान्तानि सम्प्राप्यं तु पितामहा ॥ १७ ॥

षडङ्गान्यैव सर्वेषां मन्त्रवर्णं विचिन्तयेत् ।
द्विनेत्रां च द्विहस्तां च द्विपादेन समन्विताम् ॥ १८ ॥

जटामकुटसंयुक्तामुपवीतसमायुताम् ।
शुक्लवस्त्रसमायुक्तां षडङ्गानामिहोच्यते ॥ १९॥

स्त्रीरूपं भावयेत् ब्रह्म षडङ्गान् पुरुषो भवेत् ।
जपाकुसुमसङ्काशं कुन्दपुष्पनिभं भवेत् ॥ २० ॥

पृ० २९) अतसीपुष्पसङ्काशं पद्मपुष्पनिभं भवेत् ।
नीलजीमूतसप्रख्यं कुङ्कुमं ब्रह्ममेव च ॥ २१ ॥

रक्तपङ्कजसंयुक्तं भिन्नाञ्जनसमप्रभम् ।
विद्येश्वराणां वर्णं च तव स्नेहात् प्रकाशितः ॥ २२ ॥

अकारस्यादिसंयुक्तं बिन्दुश्चैव समायुतम् ।
अष्टवर्गं तृतीयं तु षष्ठस्वरसमन्वितम् ॥ २३ ॥

शिवविष्णुसमारूढं प्रथमं चाष्टवर्गकम् ।
आदिवर्गं तृतीयं तु बिन्दुनादसमन्वितम् ॥ २४ ॥

शिवविष्णुसमारूढमष्टमस्या सुसंयुतम् ।
प्रथमस्य द्वितीयं तु बिन्दुनादसमन्वितम् ॥ २५ ॥

पृ० ३०) विप्रेश्वराणां बीजानि क्रमशो वक्ष्यतेऽधुना ।
गणाम्बिका च चण्डेशो नन्दीशश्च तथैव च ॥ २६ ॥

महाकालश्च वृषभो विघ्नेशश्च तथैव च ।
भृङ्गीशश्च महासेन स्वनामाद्यक्षरैर्युतम् ॥ २७ ॥

इन्द्रश्चाग्निर्यमश्चैव निरृतिर्वरुण एव च ।
वायुस्सोमस्तथैशानः बह्मा विष्णुश्च संयुतम् ॥ २८ ॥

स्वानामाद्येन बीजेन बिन्दुनादसमन्वितम् ।
वज्रं शक्तिं च दण्डं च खड्गं पाशं तथाङ्कुशम् ॥ २९ ॥

गदा त्रिशूली चक्रं च पद्मं चैव दशायुधम् ।
स्वनामाद्येन बीजेन बिन्दुनादसमन्वितम् ॥ ३० ॥

पृ० ३१) दर्पणं पूर्णकुम्भं च वृषभं युगचामरे ।
श्रीवत्सं स्वस्तिकं शङ्खं दीपो देवाष्टमङ्गलम् ॥ ३१ ॥

स्वनामाद्येन बीजेन बिन्दुनादसमन्वितम् ।
षष्ठवर्गात् द्वितीयं तु चतुर्थ्याद्येन संयुतम् ॥ ३२ ॥

द्वितीये पञ्चमं चैव आद्यक्षरसमायुतम् ।
विसर्गेण समायुक्तं पाशुपदास्त्रमुच्यते ॥ ३३ ॥

ॐ छि चि रि क्षी कूर्चैव क्षुरिकास्त्रमिहोच्यते ।
भूतानां पिशाचानां गन्धर्वा यक्षकिन्नराः ॥ ३४ ॥

मन्त्राणां च राक्षसानाम् अन्येषां गणमेव च ।
स्वनामद्यक्षरं विप्र बिन्दुनादसमन्वितम् ॥ ३५ ॥

पृ० ३२) बिन्दुनादसमायुक्तमाचार्यं बीजमुच्यते ।
मूर्त्तिपानां च शिष्याणामेवमेव क्रमेण तु ॥ ३६ ॥

अकारादि पञ्चवर्गं पञ्चाक्षरमिहोच्यते ।
यकारादि द्वयं वर्गं चत्वार्यक्षरमुच्यते ॥ ३७ ॥

वकारद्वयं त्वाद्यस्य बिन्दुनादसमन्वितम् ।
अनन्तासनं तु विप्रेन्द्र योगासनं तथैव च ॥ ३८ ॥

सिंहासनं तथैव स्यात् पद्मासनमतः परम् ।
विमलासनं तु विप्रेन्द्र स्वनामाद्यक्षरैर्युतम् ॥ ३९ ॥

बिन्दुनादसमायुक्तं तत्तन्मन्त्रमिहोच्यते ।
आग्नेयमण्डलं चैव विन्यसेत्तु विशेषतः ॥ ४० ॥

पृ० ३३) तत्त्वस्य मण्डलं चैव रजोमण्डलमेव च ।
ततो मण्डलमेवोक्तं स्वनामाद्यक्षरैर्युतम् ॥ ४१ ॥

बिन्दुनादसमायुक्तं तत्तन्मन्त्रमिहोच्यते ।
व्योमव्यापिमहामन्त्र षण्णवत्यक्षरैर्युतम् ॥ ४२ ॥

अस्ति तत्रैव विप्रेन्द्र कथयामि तवाखिलम् ।
द्वादशारस्य पद्मस्य बहिस्स्याद्विविधा पुनः ॥ ४३ ॥

चतुराभरणैर्युक्तम् अभ्यन्तरादिबाह्यकम् ।
मन्त्रमुद्धरते विप्र सर्वकाममवाप्नुयात् ॥ ४४ ॥

भूतान्तं चैव भूतान्नं भूत भूतान्तमेव च ।
शिवविष्णुसमारूढं शिवमन्त्रमिहोच्यते ॥ ४५ ॥

पृ० ३४) चक्रमध्ये स्थितं विप्र सर्वलोकहिताय च ।
व्योमरूपाश्च पञ्चैव रूपा यश्चत एव च ॥ ४६ ॥

? घोरश्च देश्च मं चेवच्चरा च भये व च ।
तच्चयं चैव घ्नायश्च वृश्च यश्च भ्रमं च च ॥ ४७ ॥

व्योमश्च योश्च ईशश्च मूर्छी ऋषयश्च च ।
दश्च पाश्च विनेरश्च मेश्च भिश्च न येव च ॥ ४८ ॥

यश्च नश्च वकारश्च त्राश्चा वायश्च एव च ।
एवं क्रमेण विप्रेन्द्र विन्यसेदस्त्रमन्त्रवित् ॥ ४९ ॥

वश्च तश्च समूधिश्च विश्चैव ओ म एव च ।
निश्च तश्च धिपश्चैव कूर्मराजगताश्च ता ॥ ५० ॥

पृ० ३५) गुणश्चस्य न रोगाश्च तश्च नश्च इह एव च ।
व्योमश्च श्चैव ये यो श्च ओ मि च श्च य एव च ॥ ५१ ॥

अदश्च योश्च मोश्चैव वश्च सं च स एव च ।
वश्च ॐ भूश्च अश्चेति निश्च वा य नि नि श्च च ॥ ५२ ॥

प्रदक्षिण क्रमेणैव विन्यसेद्देशिकस्सदा ।
एवं क्रमेण विन्यासं सर्वकाममवाप्नुयात् ॥ ५३ ॥

व्योमव्यापिनि तन्मन्त्रम् ऋषिच्छन्दे स्वि श्रुणु ।
अगस्त्येन समायुक्तं जगति च्छन्दसंयुतम् ॥ ५४ ॥

ईश्वरेण समायुक्तं व्योमव्यापिमिहोच्यते ।
वसिष्ठेन समायुक्तं प्रकृतिच्छन्दसंयुतम् ॥ ५५ ॥

पृ० ३६) शिवरूपेण संयुक्तं शिवमन्त्रमिहोच्यते ।
आचार्यस्य च बीजं च ऋषिछन्दोऽधिदेवताः ॥ ५६ ॥

कौशिकः काश्यपश्चैव भरद्वाजश्च गौतमः ।
अत्रीयश्च समायुक्तं पञ्चवक्त्रेषु दीक्षिताः ॥ ५७ ॥

तत्तत्कुलेषु जातानां तत्तत् दृष्टिरदाहृतः ।
जगदी शक्वरी चैव अनुष्टुप् तृष्टुपेव च ॥ ५८ ॥

प्रकृतिश्चैव विप्रेन्द्रश्छन्दसानामिहोच्यते ।
आगमस्यैव बीजानि प्रवक्ष्याम्यनुपूर्वशः ॥ ५९ ॥

द्वितीयस्यादिसंयुक्तं द्वितीयस्वरभाषितम् ॥
बिन्दुनादसमायुक्तं कामिकाक्षरमुच्यते ॥ ६० ॥

पृ० ३७) कामिकाक्षरमेवोक्तं योगजं च शृणुष्वथ ।
सप्तमेन च संयुक्तम् एकादश समन्वितम् ॥ ६१ ॥

बिन्दुनादसमायुक्तं योगजाक्षरमुच्यते ।
तृतीयस्यादिमं ग्राह्य सप्तमस्य द्वितीयकम् ॥ ६२ ॥

आदिमध्यचतुर्थ्यां तु बिन्दुनादसमन्वितम् ।
चिन्त्याक्षरमिदं प्रोक्तं द्वितीयस्यादिसंयुतम् ॥ ६३ ॥

सप्तमस्य तृतीयं तु बिन्दुनादसमन्वितम् ।
कारणाख्यमिदं प्रोक्तं प्रथमस्यादिसंयुतम् ॥ ६४ ॥

आकारबीजसंयुक्तं सप्तमस्य द्वितीयकम् ।
बिन्दुनादसमायुक्तमजितं त्विह चोच्यते ॥ ६५ ॥

पृ० ३८) पञ्चमस्य तृतीयं तु सप्तमस्यादिसंयुतम् ।
द्वादशाक्षरसंयुक्तं बिन्दुनादसमन्वितम् ॥ ६६ ॥

दीप्तबीजमिदं प्रोक्तमष्टवर्गं तृतीयकम् ।
द्वादशाक्षरसंयुक्तं बिन्दुनादसमन्वितम् ॥ ६७ ॥

सूक्ष्मबीजमिदं प्रोक्तमष्टमस्य तृतीयकम् ।
सप्तमस्य द्वितीयं तु मायाबीजेन संयुतम् ॥ ६८ ॥

बिन्दुनादसमायुक्तं सहस्रं चोच्यते मया ।
अन्त्याक्षरसमायुक्तं बिन्दुनादसमन्वितम् ॥ ६९ ॥

सुप्रभेदाक्षरं प्रोक्तं सप्तवर्गस्य चान्तिकम् ।
तृतीयस्वरसंयुक्तं बिन्दुनादसमन्वितम् ॥ ७० ॥

पृ० ३९) विजयं चैव विप्रेन्द्र पञ्चमस्यान्तसंयुतम् ।
मायालेपसमायुक्तं बिन्दुनादसमन्वितम् ॥ ७१ ॥

निश्वासतन्त्रमेवोक्तम् अष्टवर्गतृतीयकम् ।
सप्तमस्य चतुर्थं तु मायाबीजसमन्वितम् ॥ ७२ ॥

बिन्दुनादसमायुक्तं स्यायम्भुवमिति स्मृतम् ।
अन्त्याक्षरमिति प्रोक्तं द्वितीयस्वरभूषितम् ॥ ७३ ॥

बिन्दुनादसमायुक्तमाग्नेयमिह चोच्यते ।
सप्तमस्यादिमं बीजं मायानलसमन्वितम् ॥ ७४ ॥

बिन्दुनादसमायुक्तं वीरतन्त्रमिहोच्यते ।
सप्तमस्य द्वितीयं तु द्वादशस्वरभूषितम् ॥ ७५ ॥

पृ० ४०) आकाशबीजसंयुक्तं बिन्दुनादसमन्वितम् ।
अक्षराणां परं श्रेष्ठं रौरवं प्रोच्यते मया ॥ ७६ ॥

षष्ठमस्यान्तिमं बीजम् अन्त्याक्षरसमायुतम् ।
मायानलसमायुक्तं मकुटाक्षरमुच्यते ॥ ७७ ॥

सप्तमस्यादिमं बीजं मायानलसमन्वितम् ।
बिन्दुनादसमायुक्तं विमलं चैव कथ्यते ॥ ७८ ॥

तृतीयस्यादिमं बीजं मायानलसमन्वितम् ।
बिन्दुनादसमायुक्तं चन्द्रज्ञानमिहोच्यते ॥ ७९ ॥

अष्टवर्गात्तृतीयं तु द्वादशस्वरभूषितम् ।
बिन्दुनादसमायुक्तं बिम्बस्याक्षरमुच्यते ॥ ८० ॥

पृ० ४१) षष्ठमस्यादिमं चैव द्वादशे चानलो भवेत् ।
बिन्दुनादसमायुक्तं प्रोत्गीतमिह चोच्यते ॥ ८१ ॥

सप्तमस्य तृतीयं तु एकादशेन संयुतम् ।
बिन्दुनादसमायुक्तं ललितस्वर भूषितम् ॥ ८२ ॥

अष्टवर्गतृतीयं तु सप्तमस्वरसंयुतम् ।
अनलेन समायुक्तं सिद्धां तन्त्रमिहोच्यते ॥ ८३ ॥

अष्टवर्गतृतीयं तु अष्टस्वर विभूषितम् ।
सप्तमस्य द्वितीयेन बिन्दुनाद समन्वितम् ॥ ८४ ॥

सन्तानस्य तु मन्त्रोऽयमष्टवर्गादिमं युतम् ।
द्वादशस्वरसंयुक्तं बिन्दुनादसमन्वितम् ॥ ८५ ॥

पृ० ४२) शर्वोत् गीतमिदं प्रोक्तं पृष्ठवर्गादिसंयुतम् ।
मायानलसमायुक्तं बिन्दुनादसमन्वितम् ॥ ८६ ॥

पारमेश्वरमेवोक्तं द्वितीयस्यादिमं युतम् ।
द्वादशस्वरसंयुक्तं बिन्दुनादसमन्वितम् ॥ ८७ ॥

किरणस्याक्षरं प्रोक्तं सप्तमं च चतुर्थकम् ।
मायानलसमायुक्तं बिन्दुनादसमन्वितम् ॥ ८८ ॥

वातुलस्य तु मन्त्रोऽयमष्टाविंशतिभेदकम् ।
छन्ददैवतान्वक्ष्ये आगमानां विशेषतः ॥ ८९ ॥

वसिष्ठेन समायुक्तं चत्वारि छन्दसंयुतम् ।
तव रूपेण संयुक्तं कामिकादीनि सप्त च ॥ ९० ॥

पृ० ४३) सहस्रादीनि सप्तैते व्यासेनैव समायुतम् ।
अजितश्छन्दसंयुक्तं विष्णुस्तत्राधिदैवतम् ॥ ९१ ॥

एवमेव क्रमेणैव मन्त्राणां प्रोच्यते मया ।
अदीक्षितैर्न श्रोतव्यं न देयं न प्रकाशितम् ॥ ९२ ॥

शिष्याणां चैव दातव्यं समासात् कथयामि ते ।
अष्टवर्गात्तृतीयान्तम् आद्यक्षरसमायुतम् ॥ ९३ ॥

अष्टवर्ग तृतीयं तु आद्यक्षरविवर्जितम् ।
शक्तिबीजमिदं प्रोक्तं सर्वकामार्थसाधनम् ॥ ९४ ॥

सदाशिवस्य रूपं तु वक्ष्यामि शृणु तत्त्वतः ।
शुद्धस्फटिकसङ्काशं त्र्यक्षं दशभुजैर्युतम् ॥ ९५ ॥

पृ० ४४) पञ्चवक्त्रयुतं देव जटामकुटमण्डितम् ।
दिव्याम्बरधरं देवं सर्वाभरणभूषितम् ॥ ९६ ॥

परशुं खड्ग वज्रं च अभयं दक्षिणे करे ।
पाशं चाङ्कुश घण्टा च नागं वह्निंश्च वामके ॥ ९७ ॥

पद्मासनासिनो देवं नेत्रैः पञ्चदशैर्युतम् ।
एतत्सकलमाख्यातं धर्मकामार्थमोक्षदम् ॥ ९८ ॥

मन्त्रोद्धारं मया प्रोक्तं पुष्पाणां च शृणुष्वथ ॥ ९८।५ ॥

इति वीरतन्त्रे मन्त्रोद्धारपटलश्चतुर्थः ॥ ?