०२ पञ्चाक्षरपटलः

पटलः २ (पञ्चाक्षरपटलः)

पितामहौवाच(ह उवाच)-

नमस्तुत्वा जगन्नाथं परीपृच्छत् पितामहः ।
श्रीपञ्चाक्षरकल्पं च तत्सर्वं वद मे प्रभो ॥ १ ॥

ईश्वर उवाच-

तत्सर्वमखिलं वक्ष्ये शृणुष्व चतुरानन ।
नमस्कारेण संयुक्तं शिव इत्यक्षरद्वयम् ॥ २ ॥

आदिवर्गं चतुथ्यन्तं यवर्गं च द्वितीयकम् ।
तद्वर्गान्तं सप्तमं स्यात् पञ्चाक्षरमिति स्मृतम् ॥ ३ ॥

एतन्मन्त्रमनुस्मृत्य बिन्दुनादसमायुतम् ।
चतुर्थ्या तु समायुक्तं पञ्चाक्षरमिति स्मृतम् ॥

नकारं च मकारं च शिकारं च वकारकः ।
यकारेण समायुक्तं पञ्चाक्षरमिहोच्यते ॥ ४ ॥

पृ० १९) प्रणवेन समायुक्तं षडक्षरमिति द्वयम् ।
ऋग्वेदाज्जायते विप्र नकाराक्षरमुच्यते ॥ ५ ॥

मकारं तु यजुर्वेदं शिकारं सामवेदकम् ।
अथर्वेद तु वकारं यकारमितिहासके ॥ ६ ॥

नकारं श्वेतवर्णं तु ईश्वरेण समायुतम् ।
सावित्रीछन्दसा युक्तं गतमेन समायुतम् ॥ ७ ॥

स्थानं सद्यमुखं चैव नकाराक्षरमुच्यते ।
मकारं पीतवर्णं तु ब्रह्माण त्राधिदैवतम् ॥ ८ ॥

शिकारं श्यामवर्णं तु विष्णुस्तत्राधिदैवतम् ।
त्रिष्टुप्छन्दस्समायुक्तं विश्वामित्रसमन्वितम् ॥ ९ ॥

पृ० २०) स्थानम् अघोरवक्त्रं स्यात् शिकाराक्षरमुच्यते ।
वकारं रक्तवर्णं तु स्कन्दस्तत्राधिदैवतम् ॥ १० ॥

बृहस्पतिसमायुक्तं विश्वामित्रसमन्वितम् ।
स्थानम् अघोरवक्त्रं स्यात् शिकाराक्षरमुच्यते ॥ ११ ॥

बृहस्पतिसमायुक्तम् आङ्गीरससमन्वितम् ।
पुरुषस्य मुखं स्थानं वकाराक्षर कीर्तितम् ॥ १२ ॥

यकारं शुक्लवर्णं तु विघ्नेशस्तत्र दैवतम् ।
सावित्रीछन्दसायुक्तं भारद्वाजेन संयुतम् ॥ १३ ॥

ईशानस्य मुखं स्थानं यकाराक्षरमुच्यते ।
पञ्चाक्षरमिह प्रोक्तं शृणु तत्वाक्षरत्वतः ॥ १४ ॥

पृ० २१) अकारश्च उकारश्च मकारश्च त्रिधा भवेत् ।
अकारं ब्रह्मदैवत्यम् उकारं विष्णुदैवतम् ॥ १५ ॥

मकारं महेश्वरस्तत्र अधिदेवाः प्रकीर्तिताः ।
ऋग्वेदं तु अकारस्स्यात् युजुर्वेदं मकारकम् ॥ १६ ॥

मकारं सामवेदं तु इदमन्यत् शृणुष्व तु ।
अकारं सात्विकं विद्यादुकारं राजसं भवेत् ॥ १७ ॥

मकारं तामसं ज्ञेयं मकारं शान्तिकं भवेत् ।
इकारं पौष्टिकं विद्यात् अकारं माभिचारकम् ॥ १८ ॥

अकारं श्वेतवर्णं स्यादुकारं रक्तमेव च ।
मकारं पीतवर्णं स्यात् देवमेवं क्रमेण तु ॥ १९ ॥

पृ० २२) गुणेन सन्धिकार्यं स्यादोङ्कारं शिवमुच्यते ।
ओङ्कारेण समायुक्तं षडक्षरमिहोच्यते ॥ २० ॥

रुद्राक्षेण जपं कुर्यात् पञ्चाक्षरसमायुतम् ।
अङ्गुल्यां तु जपेदेकं पञ्चायाम्रमयं भवेत् ॥ २१ ॥

रेखे अष्टगुणं प्रोक्तं दीपैर्दशगुणं भवेत् ।
शतशयैस्तु विज्ञेयं प्रवालं तु सहस्रकम् ॥ २२ ॥

स्फटिकं दशसाहस्रं मौक्तिकैर्लक्षमेव च ।
पद्माक्षं कोटिगुणितं सौवर्णं दशकोटिकम् ॥ २३ ॥

कुशग्रन्थ्या कोटिशतं रुद्राक्षेण त्वनायकम् ।
न्यासं कुर्यात्ततो मन्त्री पञ्चाक्षरमिहोच्यते ॥ २४ ॥

पृ० २३) अङ्गुष्ठादि कनिष्ठान्तं सृष्टिन्यासमुदाहृतम् ।
कनिष्ठाद्यङ्गुलानां तु संहारन्यासमुच्यते ॥ २५ ॥

यकारं करतले विप्र न्यासं कुर्यात्ततो बुधः ।
करन्यासं पुरा कृत्वा अङ्गन्यासमथ शृणु ॥ २६ ॥

यकारं मूर्ध्नि विन्यस्य वकारं तु ललाटके ।
शकारं कण्ठदेशे तु मकारं हृदये न्यसेत् ॥ २७ ॥

नकारं नाभिदेशे तु विन्यसेत्तु विशेषतः ।
सर्वाङ्गेषु च विप्रेन्द्र ओङ्कारं विन्यसेत्ततः ॥ २८ ॥

सहस्रं वा तदर्धं वा अष्टोत्तर शतं तु वा ।
पञ्चाशत् पञ्चविंशैर्वा जपं कुर्याद्विशेषतः ॥ २९ ॥

पृ० २४) प्रासादेन तु मन्त्रेण हृदयेन समन्वितम् ।
जपं कुर्यात्तु विप्रेन्द्र प्रणवेन समायुतम् ॥ ३० ॥

गृहेषु फलमेकं स्यात् गोष्ठे दशगुणं भवेत् ।
नदीतीरे शतं विद्यात् सहस्रं देवतालये ॥ ३१ ॥

जप्त्वा विंशतिभिर्लक्षैस्स्वायम्भुवमवाप्नुयात् ।
लक्षलक्षं तता जप्त्वा रौद्रं पदमवाप्नुयात् ॥ ३२ ॥

प्रवेशे शिवमीशानं त्यक्त्वा संसारसागरात् ।
श्रीपञ्चाक्षरमेवोक्तं मन्त्रोद्धारण शृणुष्वथ ॥ ३३ ॥

इति वीरतन्त्रे श्रीपञ्चाक्षरपटलो द्वितीयः ॥

पृ० २५)