०१ तन्त्रावतारपटलः

समस्तविद्याकुसुमैरलङ्कृतां
शशिप्रभां बालशशाङ्कशेखराम् ।
अयुग्मनेत्रामरविन्दजप्रियां
नमामि देवीं वरदां सरस्वतीम् ॥ १ ॥

प्रणम्य भगवन्तं हि परिपृच्छत् पितामहम् ।
तन्त्राणामुद्भवं किञ्चित् तत्सर्वं ब्रूहि मे प्रभो ॥ २ ॥

ईश्वर उवाच-

तत्सर्वमखिलं वक्ष्ये श्रृणुष्व कमलासन ।
तनोति विपुलानर्थान् तत्त्वमन्त्रसमाश्रितान् ॥ ३ ॥

पृ० २) त्राणं च कुरुते पुंसां तेन मन्त्रमिति स्मृतम् ।
कामिकं योगजं चिन्त्यं कारणं त्वजितं तथा ॥ ४ ॥

दीप्तं सूर्यसहस्रं च अंशुमान् सुप्रभेदकम् ।
विजयं चैव निश्वासं स्यायम्भुवमथानिलम् ॥ ५ ॥

वीरं च रौरवं चैव मकुटं विमलं तथा ।
चन्द्रज्ञानं च बिम्बं च प्रोद्गीतं ललितं तथा ॥ ६ ॥

सिद्धं सन्तानं सर्वोक्तं पारमेश्वरमेव च ।
किरणं वातुलं चैव अष्टाविंशतिसंहिता ॥ ७ ॥

कामिकादीनि मन्त्राणि तेषां भेदं च तच्छृणु ।

पृ० ३) योगजं च विशेषेण पञ्चभेदेन चोच्यते ।
चित्यं च षड्विधं प्रोक्तं सप्तधा कारणं भवेत् ॥ ९ ॥

अजितं च विशेषेण चतुर्णां भेदमुच्यते ।
दीप्तं चैव तु विप्रेन्द्र नवधा भेदमुच्यते ॥ १० ॥

सूक्ष्मे च एकमन्त्रं स्यात् साहस्रं दशधा भवेत् ।
अंशुमान् द्वादशं भेदं प्रोच्यते कमलासन ॥ ११ ॥

सुप्रभेदं च विख्यातं भेदमन्यन्न विद्यते ।
शिवभेदं मया प्रोक्तम् उपभेदं श्रृणुष्वथा ॥ १२ ॥

विजयं च विशेषेण अष्टधा भेदमुच्यते ।
निश्वासं च विशेषेण अष्टधा भेदमुच्यते ॥ १३ ॥

पृ० ४) स्वयम्भुव विशेषेण द्विविधेन प्रवक्ष्यते ।
आग्नेयमेकरुद्रं तु भेदमन्यन्न विद्यते ॥ १४ ॥

वीरतन्त्रं च विप्रेन्द्र त्रयोदशभेदमुच्यते ।
रौरवं षट्सु भेदेन प्रोच्यते कमलासन ॥ १५ ॥

मकुटाख्यमहातन्त्रं द्विविधेन विधीयते ।
विमलाख्यं महातन्त्रं चतुर्दशविधं भवेत् ॥ १६ ॥

चन्द्रज्ञानं च बिम्बं च चतुर्दशविधं भवेत् ।
मुखं विप्रं च विप्रेन्द्र भेदपञ्चदश भवेत् ॥ १७ ॥

प्रोत्गीताख्यं महातन्त्रं षोडशं भेदमुच्यते ।
ललिताख्यं महातन्त्रं त्रिधा भेदेन चोच्यते ॥ १८ ॥

पृ० ५) सिद्धतन्त्रं च विप्रेन्द्र चतुर्विधेन चोच्यते ।
सन्तानाख्यं महातन्त्रं सप्तभेदेन चोच्यते ॥ १९ ॥

सर्वोक्तं तु महातन्त्रं पञ्चभेदेन चोच्यते ।
पारमेश्वरतन्त्रं तु सप्तभेदेन वक्ष्यते ॥ २० ॥

क्षरणाख्यं महातन्त्रं नवधा भेदमुच्यते ।
विमलाख्यं महातन्त्रं भेदं द्वादशमुच्यते ॥ २१ ॥

तन्त्रकायं प्रवक्ष्यामि तव स्नेहाद्विशेषतः ।
द्विहस्तौ च द्विपादौ च ऋत्वा वात स्थितं भवेत् ॥ २२ ॥

जटामकुटसंयुक्तं भेदवन्मुखमुच्यते ।
शुक्लवस्त्रपरीधानं यज्ञोपवीतसंयुतम् ॥ २३ ॥

पृ० ६) मुखं प्रति त्रिणेत्रं स्यात् सर्वाङ्गं लक्षणैर्युतम् ।
पद्ममध्ये स्थि(तं) दैवं सर्वाभरणभूषितम् ॥ २४ ॥

तन्त्रकायं मया प्रोक्तं सर्वकामार्थसाधनम् ।
पुस्तकस्य प्रमाणं च श्रृणुष्व कमलासन ॥ २५ ॥

चतुर्दशाङ्गुलं वापि पञ्चदश्याङ्गुलं तु वा ।
अष्टादशाङ्गुलं वापि नवदशाङ्गुलं तु वा ॥ २६ ॥

अथवा विंशतिर्वापि एकविंशतिरेव च ।
द्वाविंशतिर्वा विप्रेन्द्र कारयेत् देशिकोत्तमः ॥ २७ ॥

एवं पुस्तकमाख्यातं मानाङ्गुलेन कारयेत् ।
उत्सेधं चाष्टधा हित्वा एकांशं चैव विस्तरम् ॥ २८ ॥

पृ० ७) विस्तारद्वयतं प्रोक्तं पार्श्वौ कम्पद्वयौ न्यसेत् ।
त्रिभागं तु चतुर्भागं मध्ये सुषुरमुच्यते ॥ २९ ॥

एवं पुस्तकमानां तु आयामादिकं शृणु ।
लब्धौच्चं चैव विप्रेन्द्र मानाङ्गुलन भाजयेत् ॥ ३० ॥

एकाङ्गुलं पदं प्रोक्तं हीनाङ्गुल विवर्जयेत् ।
समं चेत् तत्परिग्राह्यमायव्ययमिहोच्यते ॥ ३१ ॥

वसुभिर्गणितं तत्र राशिभिश्च हरेत्ततः ।
शेषमायमिदं प्रोक्तं गुणेनैव विवर्धयेत् ॥ ३२ ॥

हरेच्चतुर्दशेनैव शेषं व्ययमिहोच्यते ।
पदं प्रति गणैर्वृद्धिरष्टभिर्ग्रासयेत्ततः ॥ ३३ ॥

पृ० ८) शेषं योनिरिति ख्यातमष्टभिर्वृद्धिदं पदम् ।
सप्तविंशतिभिर्ग्रासं लब्धमिष्टमिति स्मृतम् ॥ ३४ ॥

शेषं नक्षत्रमेवोक्तमष्टभिर्वृद्धिदं पदम् ।
त्रिंशद्भिर्हासयोक्तानि शेषं स्थितिरिहोच्यते ॥ ३५ ॥

अष्टाभिर्वृद्धिदं चैव स * * हासयेत्ततः ।
शेषं वारमिति प्रोक्तम् आयव्यय चयेति च ॥ ३६ ॥

आयुष्यं चैव नक्षत्रं तिथिवारमुदाहृतम् ।
आयाधिकं व्ययं हीनं सम्पत्करमिहोच्यते ॥ ३७ ॥

आयहीने व्ययाधिक्ये दोषाकारमिहोच्यते ।
तस्मात्सर्वप्रयत्नेन आयहीनन्न कारयेत् ॥ ३८ ॥

पृ० ९) ध्वजं सिंहं च वृषभो हस्तिश्चेद्ध्ययनाय च ।
धूम्रश्च गर्दभः काको दोषाण्येतानि वर्जयेत् ॥ ३९ ॥

यजमानस्य ऋक्षेण नक्षत्रं चानुकूलकम् ।
एवं परीक्ष्य बहुधा कर्तव्यं पुस्तकं परम् ॥ ४० ॥

ऋक्छन्दोधिदेवानां वक्ष्ये तु कमलासन ।
विश्वामित्रोऽथ बाल्मीकिः काश्यपांश्चाङ्गिरस्तथा ॥ ४१ ॥

गौतमो गालवो गार्ग्यो वसिष्ठश्चोशनास्तथा ।
चतुर्दशाङ्गुलादीनि क्रमाद्विन्यस्य देशिकः ॥ ४२ ॥

त्रिष्टुप् चैव अनुष्टुप् च प्रकृतिर्विकृतिस्तथा ।
गति चत्वारिदश्चैव कति चत्वारिरेव च ॥ ४३ ॥

पृ० १०) उत्तमं त्यक्तमेवं तु छन्दसानां विधीयते ।
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्शिव एव च ॥ ४४ ॥

कालरुद्रो नीलरुद्रः प्रलयानि सदाशिव ।

ऋषीणां लेखयेद्वापि वर्णेनैव तु लेखयेत् ।
षट्पतिर्वाथ पञ्चैर्वा लेखयेत् पुस्तकं ततः ॥ ४६ ॥

ऋषयो वसवश्चैव ग्रहदित्वैक * * * ।
पङ्क्तिरेवं समाख्यातं तत्तन्नाम्नाधिदैवतः ॥ ४७ ॥

एवं लक्षणसंयुक्तं राजराष्ट्रविवर्धनम् ।
ऋषीणं भुजपत्रे तु लेखयेत्तु द्विजोत्तमः ॥ ४८ ॥

पृ० ११) स्वर्णे वा ताम्रपत्रे तु लेखयेद्देशिकस्सदा ।
द्वौ पार्श्वे कः प * * * पुस्तकायाम तत्समम् ॥ ४९ ॥

प्रतिष्ठा विधिं प्रवक्ष्यामि लक्षणेन समन्वितम् ।
शिवाग्रे मण्टपं कुर्यादीशाने दक्षिणेऽपि वा ॥ ५० ॥

मण्टपं त्रिविधं मध्ये वेदिं कृत्वा विचक्षणः ।
वेदि बाह्ये तु परितः परिवारानि कारयेत् ॥ ५१ ॥

वृत्तं वा चतुरश्रं वा कुण्डान्येतानि कारयेत् ।
स्थण्डिलं वा प्रकर्तव्यं लक्षणेन समन्वितम् ॥ ५२ ॥

मण्टपे नैरृते भागे शालीना स्थण्डिलं कुरु ।
अथाङ्कुरार्पणं कुर्यात् पञ्चाहे सप्तकेऽपि वा ॥ ५३ ॥

पृ० १२) वेदिकुम्भं च तं मध्ये शिवास्त्रं सापि धानकम् ।
सहिरण्यं सकूर्चं च सोमराजाधिदेवतम् ॥ ५४ ॥

कृत्वा तव पदं तत्र मध्यमे सोमकुम्भकम् ।
विन्यसेत्तु विशेषेण पालिका अष्टदिक्षु वै ॥ ५५ ॥

माषमुद्गकुलस्थं च सर्षपं चैव दापयेत् ।
पुण्याहं वाचयेत्तत्र पवमानेन प्रोक्षयेत् ॥ ५६ ॥

सुवर्णतन्तुना विप्र कौतुकं बद्धयेद्धृदा ।
एलालवङ्गतक्कोलमुशीरं चन्दनैर्युतम् ॥ ५७ ॥

लेपयेत् पुस्तकं तत्र शयने शाययेत्ततः ।
शालिना विकरेद्वेति पद्ममष्टदलं लिखेत् ॥ ५८ ॥

पृ० १३) शाल्यर्धं तण्डुलं न्यस्य तण्डुलार्धं तिला न्यसेत् ।
पञ्चधा शयनं कल्प्य शाययेत् पुस्तकं तथा ॥ ५९ ॥

तत्तदागमबीजेन शाययेच्छयनोपरि ।
ह्रस्व ब्रह्म समाख्यातं दीर्घाङ्गानि न चोच्यते ॥ ६० ॥

आद्यक्षरसमायुक्तम् अनुस्वारसमन्वितम् ।
ब्रह्ममङ्गमिह प्रोक्तं सर्वेषां च विधीयते ॥ ६१ ॥

वस्त्रेण वेष्टयेत्तत्र पुस्तकं च विशेषतः ।
दर्पणं चैव विप्रेन्द्र एवमेव क्रमेण तु ॥ ६२ ॥

सरस्वतीं न्यसेत्तत्र पुस्तकस्य तु मध्यमे ।
पुस्तकस्येन्द्र दिग्भागे विन्यसेत्कुम्भमेव च ॥ ६३ ॥

शुद्धोदकेन सम्पूर्य सकूर्च स्या विधानकम् ।
सर्वत्र सहिरण्यं च सरस्वतीं न्यसेत्ततः ॥ ६४ ॥

पृ० १४) मूलमन्त्रेण विन्यस्य अर्चयेत्तु विशेषतः ।
पूर्वादीशानपर्यन्तं विन्यसेद्वर्धनीषु च ॥ ६५ ॥

सवस्त्रं सहिरण्यं च सकूर्चादीनि विन्यसेत् ।
वामा ज्येष्ठा च रौद्री च बलवीं बलप्रमथनीं
? सर्वभूतमनोन्मनीम् ॥ ६६ ॥

पूर्वादीनि च विन्यस्य पुस्तके च मनोन्मनीम् ।
हृदयादि षडङ्गैश्च पूजयेत्तु विधानतः ॥ ६७ ॥

हविर्निवेदयेत्तत्र पश्चाद्धोमं समाचरेत् ।
पालाशं पूर्वतो भागे अश्वत्थं दक्षिणे तथा ॥ ६८ ॥

पश्चिमे * * * वं तु अपामार्गं तथोत्तरे ।
औदुम्बरं तथैशान्यं पालाशैर्वापि होमयेत् ॥ ६९ ॥

पृ० १५) समिदाज्य चरून् लाजान् सर्षपांश्च यवांस्तिलान् ।
समिधा सद्यमन्त्रेण ईशानेनाज्य होमयेत् ॥ ७० ॥

चरुं वै हृदयेनैव लाजं वै शिरसा हुनेत् ।
सर्षपं सद्यमन्त्रेण नेत्रेण तु यवांस्तथा ॥ ७१ ॥

कवचेन तिलान् हुत्वा सप्तद्रव्यमिहोच्यते ।
सहस्रं वा तदर्धं वा तदर्धं वापि हूयते ॥ ७२ ॥

अष्टोत्तरशतं वापि पञ्चाशत् पञ्चविंशतिः ।
द्रव्यान्ते व्याहृतिं हुत्वा पुस्तकं स्पर्शयेद्धृदा ॥ ७३ ॥

सर्वद्रव्यसमायुक्तं हव्यवाहं समुच्चरन् ।
स्विष्टमग्नेति मन्त्रेण जुहुयात्तदनन्तरम् ॥ ७४ ॥

पृ० १६) ततः प्रभाते विमले पूर्वभूति विशेषतः ।
तत्तागमं च बीजेन प्रोक्षयेद्वर्धनीं ततः ॥ ७५ ॥

सन्निधौ दर्पणं तस्य अभिषेकं तु कारयेत् ।
हविर्निवेदयेत् पश्चात् ताम्बूलं दापयेत्ततः ॥ ७६ ॥

आचार्यं पूजयेत्पश्चाद्वस्त्रहेमादिरेव च ।
ब्राह्मणान् भोजयेत्तत्र सप्तकन्यांश्च पूजयेत् ॥ ७७ ॥

बौद्धमार्हतं चैव शैवं पाशुपतं तथा ।
कपालं पाञ्चरात्रं च षडैते समया स्मृताः ॥ ७८ ॥

एतेषां सङ्करं चैव तत्र सङ्करमुच्यते ।
मन्त्रसङ्करदोषेण राजा राष्ट्रं विनश्यति ॥ ७९ ॥

पृ० १७) तस्मात् सर्वप्रयत्नेन सङ्करन्नैव कारयेत् ।
अष्टाविंशति भेदेन शैवभेदं विधीयते ॥ ८० ॥

एतेषां सङ्करं चैव न दोषाय प्रकल्प्यते ।
दीक्षितस्य सुधीरस्य शिवभक्तिपरस्य च ॥ ८१ ॥

तस्मै देवं ततो ग्राह्यं त्रैवर्णिकमिहोच्यते ।
अदीक्षितं तत् स्रोत स्यान्न देयं यस्य कस्यचित् ॥ ८२ ॥

एवं यः कुरुते मर्त्यः शिवलोकं महीयते ।
तन्त्रावतारमेवोक्तं पञ्चाक्षरविधिं शृणु ॥ ८३ ॥

इति वीरतन्त्रे षट्सहस्रसंहितायां तन्त्रावतारपटलो(लः) प्रथमः

पृ० १८)