अथ चतुर्थो विमर्शः ।
प्रसृतमनुत्तररूपादानन्दादिक्रमेण विश्वमदः । सर्वामृतधरमन्तर्बहिश्च विसृजन्तमभिवन्दे ॥
ज्ञानक्रियाधिकारयुगलेन तत्त्वार्थसङ्ग्रहसहितेन स्वप्रकाशेऽपि तत्त्वे युक्त्युपबृंहिते निरूपिते स्वतः इत्यंशः पूरितः आगमाधिकारेण, तमेव अर्थमुपोद्बलयता शास्त्रतः इति अयम् ।
शास्त्रदृष्टिरपि तत्प्रसिद्धगुरुपरम्परोपदेशेन सम्यगागमत्वं नेया । यथा उक्तं प्राक् शाम्भवनीत्यादीनामपि इत्यादि । तत एव परमहदन्तरालदिव्यदिव्यादिव्यादिव्यसम्बन्धमनादृत्य स्बुद्धिपुस्तकमात्रशरणा विडम्बिता इत्याशयेन
पुस्तकाधीतविद्याश्च गुरुक्रमविवर्जिताः । आचरन्तो दिशन्तश्च पच्यन्ते नरके चिरम् ॥ यातनाराजराजानां ते भोक्तारो विनिन्दिताः । तस्माद्गुरुक्रमायातं दिशन्नेति परं शिवम् ॥
इति उक्तम् । ततो गुरुतः इति अयं तृतीयः अंशः पूरयितव्यः । उक्तं हि श्रीकिरणायां
—————————गुरुतः शास्त्रतः स्वतः ।
इति । तमंशं पूरयितुं श्लोकत्रयेण प्रकारान्तरमाह । तत्र प्रथमश्लोकेन स्वगुरुपर्वक्रमं वदन्नादिश्रीकण्ठनाथात् प्रवृत्तिमस्य दर्शयति उपदेशस्य अपूर्वत्वेन अप्रयासकारित्वेन अवश्योपदेश्यतां च । द्वितीयेन अभिज्ञानप्रकटनात्मना उपदेशः सतोऽपि असत्कल्पस्य अनुप्राणकः इति तत्र आदरः कर्तव्यः इति दर्शितम् ।
तृतीयेन व्याख्यानश्रवणचिन्तनाभ्यसनसाफल्यसिद्धये स्वकपूर्वगुरुवन्दनमवश्यं कर्तव्यमिति शिक्षया प्रवृत्तशिष्यानुग्रहाय स्वात्मनो गुरुत्वे योग्यताभिधानाय
(पगे ४०१)
कीर्तनीयो गुरोर्वर्गः शास्त्रार्थस्य प्रसिद्धये ।
इतिनयं पालयितुं पितुरलौकिकवस्तुविषयप्रसिद्ध्यभिधानेन
उपकाराय प्रसिद्धो दिष्टे लोकः प्रवर्तते ।
इति लोकस्य अप्रवृत्तस्य प्रवर्तनाद्वारेण च अनुग्रहाय च स्वात्मनो वंशप्रदर्शनपूर्वकनामप्रकटीकरणपुरःसरमधिकारप्रयोज- नसम्बन्धाभिधेयाभिधानानां निगमनमिति प्रकरणार्थः ।
प्रतिश्लोकं तु अर्थो निरूपणीयः । सच स्पष्ट एव, वृत्तिविवृत्योश्च निरूपितः । यत्तु किञ्चित् किञ्चिदस्पष्टमत्र, तदेव विमृश्यते
इति प्रकटितो मया सुघट एष मार्गो नवो
महागुरुभिरुच्यते स्म शिवदृष्टिशास्त्रे यथा ।
तदत्र निदधत्पदं भुवनकर्तृतामात्मनो
विभाव्य शिवतामयीमनिशमाविशन्सिध्यति ॥ १ ॥
अत एव इति यतः प्रत्यभिज्ञामात्रात् मोक्षः, तत एव यमनियमादिक्लेशयोगोऽनुपयोग एव अत्र । अस्पष्टत्वात् इति
स्फुटोपायमनायासमनारम्भं महाफलम् । श्रोतुमिच्छामि देवेश योगं योगविदां वर ॥
इति
प्राणायामादिकैरङ्गैर्योगाः स्युः कृत्रिमा यतः । तेन नाकृतकस्यास्य कलामर्घन्ति षोडशीम् ॥
इत्यादि च यदपि रहस्यागमेषु निरूपितम्, तथा विस्पष्टत्वेन न उक्तं गर्भीकृत्य तु निरूपितं
नचैतदप्रसन्नेन शङ्करेणोपदिश्यते । कथञ्चिदुपलब्धेऽपि वासना न प्रजायते ॥ वासनामात्रलाभेऽपि योऽप्रमत्तो न जायते । तमनित्येषु भोगेषु योजयन्ति विन्यायकाः ॥
(पगे ४०२)
इति । यदि अहं परमशिवः सर्वज्ञसर्वकर्तृत्वात्, तर्हि किमिति न शत्रून्सर्वान् सपदि ग्रसे इत्यादिर्मायीये देहादावनभ्यासेन विभवेच्छामयो हि परमो विघ्नः । स एतच्छास्त्रार्थपरिशीलनेन निवर्तते । लोके मोक्षोपायत्वेन न प्रतीताः, नञभावे तु लोकप्रसिद्धा ये ज्ञानक्रियादयस्तैरिति व्याख्या । प्रथमं पादं व्याख्याय द्वितीयं व्याचष्टे एष च इत्यादिना अनाविष्ट इत्यन्तेन
विकल्पहानेनैकाग्र्यात्—————————। (४।१।११)
इत्यत्र अनुप्रवेशः उक्तः शश्वत् इत्यादिः ।
सर्वो मम—————————। (४।१।१२)
इत्यत्र शिवपद इत्यादिना स्वात्मनि मायामोहसंस्कारकलुषसाधक- वर्गाभिलषितोचितविभूत्यनासङ्गेन सम्यक्तत्त्वदर्शितया कृतकृत्यत्वे ज्ञानक्रिययोः परिशेषविशेषत्वान् परानुग्रहतन्त्रता । सकललोकलो- चनतां प्रपन्नेन अवलोकत्वेन प्रसिद्धिपर्यवसानं नाम पूर्वोक्तगुरुलक्षणम् । शिवदृष्टि इति तद्गतमाश्रीकण्ठनाथात् गुरुपर्वक्रमं सूचयति । तत्रहि श्रीश्रीकण्ठनाथः शासने समुत्सन्ने श्रीदुर्वासोमुनिं तदवतारणाय दिदेश, सोऽपि श्रीत्र्यम्बकादित्यं त्रैयम्बकाख्ये लोकप्रसिद्ध्या तैरिम्बाभिधाने गुरुसन्ताने प्रवर्तयितारं मानसं ससर्ज,-इत्यादि वितत्य उक्तम् ।
श्रीकण्ठनाथश्च अधिगततत्त्वः श्रीमदनन्तनाथात्, सोऽपि श्रीभगवच्छक्तितः इत्यादि आगमेषु निरूपितमिति सम्पूर्णो गुरुपर्वक्रमः उक्तः । समूढः इति प्रबोधितः, पक्वचन्दनादिसंस्कारस्थिरीकृतसौरभश्च । घनसारः कर्पूरम् ।
अष्टादशभुजाद्याकारसाक्षात्करणभ्रान्तिर्विकत्थनोऽयमद्यापि अतत्त्वज्ञोऽयमनुपयोगिनिरूपणरसिकोऽयमितिच प्रतीतिफला मा भूदित्याशयेन आह अन्तःकृत इति । चित्रकर्मणः क्व प्रकृते उपयोगः ।
आह तज्ज्ञानस्य
(पगे ४०३)
एव ऐश्वर्यज्ञानस्य अधिकालौकिकवस्तुप्राप्तौ मूढानां दृढप्रत्ययता भवतीति । द्वितीयमर्धं विवृणोति ईश्वर इत्यादिना ।
अनेन हेतुतृतीयान्तेन पदेन तत् इति सौत्रं तस्मादित्यर्थं विवृतवान् ।
——————–जीवन्मुक्तो न संशयः ।
इत्यादिषु आगमस्थानेषु नियमार्थव्याख्यानाय वृत्तौ यः एवकारः, तं व्याचष्टे देहपातात् इत्यादिना । अद्भुततमत्वमपि च एवकारेण सूचितमस्य उपदेशस्य । देहपातादेकभविको मोक्षः इतिहि एतदेव तावदद्भुतम् ।
इहैकभविको मोक्ष एष तावत् परीक्ष्यताम् । अनेकभविको मोक्षः पश्चात्स च गमिष्यति ॥
इति हि परमकृपालुना भगवता आगमग्रन्थेन निरूपितमद्भुतत्वम् ।
इदं तु अद्भुततमं यत्किल जीवन्नेव मुक्त इति ॥ १ ॥
तैस्तैरप्युपयाचितैरुपनतस्तन्व्याः स्थितोऽप्यन्तिके
कान्तो लोकसमान एवमपरिज्ञातो न रन्तुं यथा ।
लोकस्यैष तथानवेक्षितगुणः स्वात्मापि विश्वेश्वरो
नैवालं निजवैभवाय तदियं तत्प्रत्यभिज्ञोदिता ॥ २ ॥
उपयाचितैः इति देवताप्रार्थनदूतीप्रेषणात्मावस्थानिवेदनाभिः । तन्व्याः इति विरहकृशायाः न रन्तुमलम् इति सम्बन्धः ।
प्रत्यभिज्ञानमात्रादानन्दलाभः, परिशीलनात् तु सम्भोगसहस्रप्राप्तिरिति तुल्यमुभयत्र । वस्तुविशेष इति वस्तुनि अर्थक्रियालाभे । कान्ते च इति पूर्वदृष्टेऽपि मोहात्पूर्वमविज्ञाते इति भावः । यद्वा इति निर्भाते अपि अनिर्भातकल्पत्वं, ततो दृढनिश्चये तथाभिमान इति उभयत्र अपि तुल्यमिति यावत् । एकता प्रकाशात्मा इति सोऽयम् इति हि अत्रापि तत्त्वेदन्तयोरेकीकरणं प्रकाशनम्, इहापि ईश्वरताहन्तयोरित्यर्थः ।
(पगे ४०४)
आश्रयौचित्य इति । दृष्टान्तदार्ष्टान्तिकरूपौ यावाश्रयौ, तदौचित्यादेव तद्बलानीतो विशेषो भूषणम्, अन्यथाहि ऐक्यमेव स्यात्, न सादृश्यम् ॥ २ ॥
जनस्यायत्नसिद्ध्यर्थमुदयाकरसूनुना । ईश्वरप्रत्यभिज्ञेयमुत्पलेनोपपादिता ॥ ३ ॥
यः कश्चित् जननधर्मा, तस्य अतः सिद्धिः; नतु अत्र जात्याचारादौ भरः इति सर्वानुग्राहकत्वमुक्तम् । एतच्च प्रारम्भे एव अस्माभिर्विततम् । ततोऽपि इति यशःसमुचितेन फलेन पितुर्योगात् । अस्य इति कर्तुः । अनेन सर्वतः कृतकृत्यत्वं दर्शितम्,-इति शिवम् ॥ ३ ॥
विवृतिकारः सङ्क्षिप्य सर्वमाह इत्थम् इत्यादिश्लोकैः । अनेन अस्मदुक्तेन ईश्वरताप्रकारेण या सुसंवित्तिः स्थिता, ताम् । लाट इत्यादिना पूर्वं शुद्धवंशजन्मनो द्वितीये वागीश्वरीगर्भजन्मनि कृते पूर्णं द्विजत्वं भवतीति । अन्तःप्रकृतिः इति अमात्यसुहृत्प्रायः ।
कर्काभिधानः इति यदियं कर्कसङ्ग्रहादिशास्त्रम् । जन्ममात्रे चरमेऽभिमानः इति दर्शयति त्र्यम्बक इति
तिस्रो देव्यो यदा चैनं—————————।
इति शक्तित्रयपरिपूर्णत्र्यम्बकदास्यलक्ष्मीयोगात् पूर्वोक्तमितात्मतागुणीकरणतद्रूपतोन्मज्जनसमावेशात् तद्दासः कृतकृत्यत्वेन साभिमानोऽस्मि । भोग इत्यादि विश्वेश्वरस्य प्रत्यभिज्ञामृतस्य च विशेषणम् । अस्य उपादेयतामाह प्रायेण इत्यादिना । खेटपालाचार्यप्रभृतयो द्वैतप्राधान्यमशिश्रियन्, तदनुसारिणोऽपि अन्ये तथैव । अविद्यया इति अनिर्वाच्यरूपया । अयं ब्रह्मवादोऽपि न एकान्तवादो, न निश्चिताद्वयवादः इति । मतं न विशदमिति सम्बन्धः । आत्मा ईश्वरो नास्ति तेषां यो वस्तुतोऽस्ति,
(पगे ४०५)
सन्तानान्तरं च अस्ति यत् वस्तुतो नास्ति,-इति । अवसन्न इति उपायलाभाभावात् । अस्मिंस्तु सति आगमेषु द्वैतव्याख्यानमपास्य ब्रह्मवादे अविद्यां मायाशक्तीकृत्य विज्ञानाद्वयमात्मेश्वराभिप्रायेण निरूप्य सिध्यति एव जनो यथा पूर्वमुक्तमिति दर्शयति अस्मिन्नेवम् इति । पारमेश्वरेषु तावदागमेषु शैववैष्णवरहस्येषु वेदान्तेषु च स्पष्ट एव उक्तोऽयमस्मदुक्तोऽर्थः । तदनुसारिणा एव सुगतेन उक्तं
चित्तमात्रमिदं यदुत त्रैधातुकम् ।
इति । तदत्र विवरणकारैर्दुरभिनिवेशवशेन विप्रतारितो जनः । इदमेव तु तत्त्वमिति तु तात्पर्यम् । अत एव प्रथातोऽखिलग्रहणेन इदमाह-सकलो लोकः सकलं च शास्त्रमस्माभिर्यद्यपि न अवलोक्यते, तथापि यत्किञ्चित् वस्तु वा, विकल्पितं वा; तत् सर्वं प्रथमानमेव सत् भवति ।
प्रथमानता च प्रथारूपात् भगवतः परमशिवादनतिरेकिणी,-इति स एव पर्यन्तोपासनीयः परमशिवः उपासितः कल्पते परमशिवाय,-इति शिवम् ॥
भट्टात्रिगुप्तकुलजातवराहगुप्त- जन्माभवत् चुखुलकः शिवमार्गनिष्ठः ।
श्रीभूतिराजवदनोदितशम्भुशास्त्र- तत्त्वांशुशातितसमस्तभवान्धकारः ॥ १ ॥
तज्जन्मदेहपदभाक् पदवाक्यमान- संस्कारसंस्कृतमतिः परमेशशक्तेः ।
सामर्थ्यतः शिवपदाम्बुजभक्तिभागी दारात्मजप्रभृतिबन्धुकथामनाप्तः ॥ २ ॥
नानागुरुप्रवरपादनिपातजात- संवित्सरोरुहविकासनिवेशितश्रीः ।
(पगे ४०६)
श्रीशास्त्रकृद्धटितलक्ष्मणगुप्तपाद- सत्योपदर्शितशिवाद्वयवाददृप्तः ॥ ३ ॥
सर्वान्यशासनकथाः कलविङ्ककेलि- कल्पाः परं प्रकलयन्निह शास्त्रसारे ।
आज्ञामलङ्घ्यफलदां गुरुनाथपाद- नित्यार्चनस्मरणयोगकृतामवाप्य ॥ ४ ॥
श्रीशाम्भवाद्वयपदे जनतां नियोक्तु- मभ्युदितः सकलसम्पदुदारवृत्तौ ।
टीकाविमर्शमकरोल्लघुना नयेन स्पष्टेन चाभिनवगुप्तपदप्रतिष्ठः ॥ ५ ॥
नादातुं नच दातुमेष सुलभः किं कृत्यमेतावते- त्येवं तर्कयता जनेन शकलीकृत्याथ यद्गृह्यसे ।
माणिक्याचल चन्द्रकीर्तिरचला सा ते जगद्व्यापिनी लोकस्यैव मितोपयोगरसिकस्यैषा पुनः खण्डना ॥ ६ ॥
सङ्कोच्य निञ्चिदिह किञ्चिदथ प्रसार्य प्रक्षिप्य किञ्चिदिव किञ्चिदथाप्यपास्य ।
विद्वाञ्जनो भवतु सम्प्रति शास्त्रकृच्च सम्यक्प्रचारणविधिः सहि जन्म तस्य ॥ ७ ॥
कल्पान्ताम्बुनिधेः प्रचण्डपवनप्रक्षोभितौर्वानल- ज्वालाजालमिलत्तरङ्गवलनानश्यत्कुलक्ष्माभृतः ।
भूयानप्यवगाहनाय विभवेन्नत्वीश्वराभिज्ञया निर्णीतस्य विधेर्विमर्शविधये शक्तः परः शङ्करात् ॥ ८ ॥
प्राक् पश्यन्त्यां स्फुरतु भजतां मध्यमायां विकासं वैखर्यां च प्रकटपदवीं श्रोत्रवृत्तिं प्रयातु ।
(पगे ४०७)
विश्रान्ता चेदभिनवमतिस्तद्विमर्शिन्यथान्त- स्तत्साफल्यं भजति नितरामीश्वरप्रत्यभिज्ञा ॥ ९ ॥
पाषाणान् प्रति वक्तु कः शृणुत भो युष्मान् ब्रुवे जङ्गमाः शय्योत्थायमनर्थमर्थसरणे कोऽयं वृथैवोद्यमः ।
संविद्धामनि शाम्भवे विशथ चेत्कालीयमेकं लवं किं किं वर्णनिकाभिराभिरभितः सत्यं स्वयं ज्ञास्यथ ॥ १० ॥
परिचिनुत तदेनामीश्वरप्रत्यभिज्ञां दहत हृदि निविष्टं वासनाचक्रवालम् ।
ज्वलदनलशिखान्तर्लेलिहानारणेय- स्थिरपरिचयभाक् किं सूतये बीजपुञ्जः ॥ ११ ॥
वाक्यप्रमाणपदतत्त्वसदागमार्थाः स्वात्मोपयोगममुतः किल यन्ति शास्त्रात् ।
भौमान् रसाञ्जलमयांश्च न सस्यपुष्ट्यै मुक्त्वार्कमेकमिह योजयितुं क्षमोऽन्यः ॥ १२ ॥
आत्मानमनभिज्ञाय विवेक्तुं योऽन्यदिच्छति ।
तेन भौतेन किं वाच्यं प्रश्नेऽस्मिन् को भवानिति ॥ १३ ॥
यावानात्मावरणविधये कल्पते कोऽपि कल्प- स्तावानात्मप्रकटनविधौ नीत एवोपयोगम् ।
येन स्पष्टं परमगुरवे तीव्रकारुण्यपूर्ण- श्रीशर्वाणीदयितसततावेशभाजे नमोऽस्मै ॥ १४ ॥
इति नवतितमेऽस्मिन् वत्सरेऽन्त्ये युगांशे तिथिशशिजलधिस्थे मार्गशीर्षावसाने ।
जगति विहितबोधामीश्वरप्रत्यभिज्ञां व्यवृणुत परिपूर्णां प्रेरितः शम्भुपादैः ॥ १५ ॥
(पगे ४०८)
परमशिव न तादृक् क्वापि यत्तावकीन- स्फुरितविभववन्ध्यं स्यादथान्तर्बहिर्वा ।
इति सुदृढविमर्शावेशि————————— स्तुतिररचि मयेयं सम्मुखं त्वां विधातुम् ॥ १६ ॥
ईश्वरप्रत्यभिज्ञा तु विमर्शादीश्वरेण————-।
————–त्मविमर्शोद्योगिनीं क्रियात् ॥ १७ ॥
इति महामाहेश्वरश्रीमदाचार्याभिनवगुप्तविरचितायामीश्वर- पत्यभिज्ञाविवृतिविमर्शिन्यां समस्तनिगमनं चतुर्थो विमर्शः ॥ ४ ॥
समाप्ता च इयमीश्वरप्रत्यभिज्ञाविवृतिविमर्शिनी ॥
कृतिः श्रीत्रिनयनचरणचिन्तनलब्धप्रसिद्धीना- मभिनवगुप्तपादानाम् ॥