अथ प्रथमो विमर्शः ।
बैन्दवममृतरसमयं वेद्यं योऽनुत्तरे निजे धाम्नि ।
पूर्णीभावयतितमाममृतेशं तं नमस्यामि ॥
एवं स्वप्रकाशमात्मतत्त्वं ज्ञानक्रियात्मकशक्त्यप्रति- घातात् महेश्वररूपं वितत्य युक्त्यागमोपबृंहितमधिकारत्रयेण उक्तं, तदेव सङ्क्षेपेण स्वभ्यस्तज्ञानत्वज्ञानित्वयोगित्वसिद्धये भावनाद्युपयोगितया शिष्यधियि निवेशयितुं तत्त्वार्थसङ्ग्रहं श्लोकैः पञ्चदशभिर्दर्शयति
स्वात्मैव सर्वजन्तूनाम्—————————।
इत्यादिभिः
————————————–जानाति च करोति च ।
इत्यन्तैः । तत्र श्लोकेन पारमार्थिकं स्वरूपमुक्तम्, ततः प्रमातृप्रमेयतत्त्वदर्शनदिशा नवभिर्बन्धतत्त्वं, पञ्चभिः प्रत्यभिज्ञात्मकं मोक्षतत्त्वमिति विमर्शस्य तात्पर्यम् । अथ ग्रन्थार्थो निरूप्यते
स्वात्मैव सर्वजन्तूनामेक एव महेश्वर । विश्वरूपोऽहमिदमित्यखण्डामर्शबृंहितः ॥ १ ॥
तत्र सूत्रमवतारयति इदानीम् इत्यादिना वितताभिधानानन्तरम् ।
(पगे ३५६)
तेन अनुन्मीलितवैतत्या एव उपोद्घातेन अनुगृहीताः, उन्मीलितवैतत्यास्तु पुनः सङ्क्षिप्ततत्त्वार्थाभिलाषिणोऽत्यन्तवैतत्यभीरवोऽपि मध्यमवैतत्याभिलाषिणोऽनेनेति अपौनरुक्त्यमिति दर्शयति । यत् मुनिः
इष्टं तु विदुषां लोके समासव्यासधारणम् ।
इति । जन्तुपदे भरं दर्शयति इह इत्यादिना । तेन इयदविशेषेण उपदिश्यते पुरुष एवेदं सर्वम् । इत्यादि । ततोऽस्य उपदेशस्य महाविशेष उक्तः । अत एव श्रीपरमेष्ठिपादैः श्रीशिवदृष्टौ सर्वभावाः शिवः, सर्वभावानामात्मा शिवः इति न शिवदृष्टिरुक्ता, अपितु तेषु स्वयमस्फुरत्ताधर्मसु य एष स्फुरन्नात्मा, स शिवः इति । एतच्च आदावेव अभिहीतम् । अपितु इति स्वात्मैव सन्नीश्वरः, नतु राजवत् पृथक् वर्तमानः सन्नीश्वरः ।
ईश्वरः कीदृक् सन्नीश्वर इति प्रश्ने एवमुक्तः, ईश्वरः केन ज्ञातेयेन जन्तूनां सम्बन्धी, येन तेषामीश्वर इति प्रश्ने वा । स्वात्मैव असौ तेषां भवति, नतु ते केचिदन्ये इति । तदाह यदिवा इति । पूर्वोक्तः इति विश्वशरीरः । कः इति जन्तूनां केन सम्बन्धेन असौ सम्बद्ध इति यावत् । तत्त्वज्ञानं हि ज्ञेयनिष्ठं, ज्ञेयं च विश्वमिति तत्पृष्ठे तत्त्वोपदेशावकाश इत्याशयेन आह कस्य अवस्थास्वरूपम् इति ।
तदनन्तरं हि इति तुर्यरूपत्वादवरूढं हि संवित्तत्त्वमव्यवहितमेव विश्वभेदं स्वीकरोति, तुर्यातीतत्वावरूढं मध्ये तुर्यदशां श्रयत् विश्वभेदं स्वीकुर्यादिति । तया अस्य विश्ववृत्तान्तो व्यवहितः । ननु एवं तुर्यातीतो विश्ववृत्तान्ते सर्वथैव न वर्ण्यः । न वर्ण्योऽसौ, तया तु व्यवहितो वर्ण्य इत्याह तस्या अपि इति । अथवा इति अस्यां व्याख्यायां
(पगे ३५७)
तुर्यातीतमपि तदीयां प्रथमभूमिं तुर्यान्त्यभूमिकां स्पृशता स्पष्टं स्पृष्टमेव । यदाह आदिभूमिकायाम् इति प्रथमोपादेयता ततः प्रभृति मलविगलनारम्भात् । अखण्डितग्राहक इत्यादिकं वृत्तिगतं महापदं व्याचष्टे यत्तत् इति । अनेन ग्राहकपदं व्याख्यातम्, अखण्डितपदं व्याचष्टे यत्र इत्यादिना अखण्डित इत्यन्तेन । तथा इत्यादिना ग्राह्यपदं व्याचष्टे, तत्र इत्यादिना तद्विशेषणम् अखण्डित इति, तयोः इत्यादिना मेलनापदम् । तयोरिति ग्राहकग्राह्ययोः । परस्पर इति । अखण्डितपदेन ग्राहकस्य ग्राहकान्तरात्, ग्राह्यस्य ग्राह्यान्तरात् न विच्छेद इति दर्शितम्, अमुना तु परस्परतोऽपीति । उपबृंहितपदं विवृणोति निराकाङ्क्ष इत्यन्तेन ।
सर्वमर्थं सङ्क्षिपति अन्तःकृत इति ॥ १ ॥
ननु एवं कस्य को बन्धो यदवमोचनाय अयं यत्न इत्याशङ्क्य आह सूत्रं
तत्र स्वसृष्टेदम्भागे बुद्ध्यादिग्राहकात्मना । अहङ्कारपरामर्शपदं नीतमनेन तत् ॥ २ ॥
एवं स्वात्मनि महेश्वरे स्थिते तत्रैव स्वात्मदर्पणे तेनैव स्वातन्त्र्यात् यः सृष्टः सङ्कोचपुरःसरमिदम्भागः, तन्मध्ये यत् बुद्धिप्राणदेहादिरूपमिदन्तया वेद्यं तद्भिन्नस्य वेद्यस्य ग्राहकत्वसमुचितं यतोऽस्य इदन्ताभिभवासमर्थेन ग्राहकस्वभावभूतेन अपूर्णेन कृतकेन अहम्भावेन परामर्शो भाति । स तथाभूतोऽहं सुखीत्यादि ग्राहकः सृष्टः, सच बद्धस्तस्य मोक्ष इति सूत्रार्थः । अवतारणमाह इदानीम् इत्यादिना ।
तदभेदे इति तस्य आत्मन ऐक्येऽपि तस्माच्च आत्मनो ग्राहकग्राह्यराशेरव्यतिरेकेऽपि । उपपत्तौ हेतुः माया शक्ते सामर्थ्यात् इति । प्रक्रमते इति श्लोकनवकस्य
(पगे ३५८)
इयत् तात्पर्यमिति आशयः । तत्र इति वैयधिकरण्येन विवृत्य सामानाधिकरण्येन विवृणोति तस्मिन्वा इति वैयधिकरण्यं च उभयथा सूत्रव्याख्यानावसरे योजितमेव । यद्वर्तते इति तन्मध्यगतमेवेत्यर्थः । तेनैव इति ईश्वरेण । प्रथितम् इति णिचि प्रकटीकृतमित्यर्थः । इदन्तयापि इति स्फुटेन वेद्यत्वेनेति यावत् ।
उक्तमेव इति संसरणं कस्य भवतीत्यस्यां प्रमातृचिन्तायाम् ।
तत्त्वार्थ इति परमार्थोपदेशप्रक्रम इत्यर्थ इति वक्तुं पूर्वं निर्देशश्चित्स्वरूपस्येति सम्बन्धः । तत्रैव इति चित्स्वरूपे । यत् स्पन्दशास्त्रं
————–तत् प्रयत्नेन परीक्ष्यं तत्त्वम्———। (१।७)
इति । तेन उपोद्घाते
तथाहि जडभूतानाम्—————————। (१।१।४)
इति जडोपक्रमं यदभिधानं, तदतिमूढान् प्रति; इदं तु प्रबुद्धान् प्रतीति विशेषोऽत्र दर्शितः । न केवलं
स्वात्मैव सर्वजन्तूनाम्————————-। (४।१।१)
इत्यनेन पूर्वमस्य निर्देशः, यावत् सूत्रान्तरेऽपि एतदेव अनुसृतमित्याह तथाहि इति । स्वग्रहणेन पूर्णचित्स्वरूपमेव परमेश्वरात्मकं निर्दिष्टम् । उद्भाव्य इति
एवमन्योन्यभिन्नानाम्—————————। (१।३।६)
इत्यादिना । अनेन हि इति पूर्वोक्तेन सूत्रद्वयेन । तदपिवा इति ज्ञानम् ।
कर्तृ नेति पूर्वेण सम्बन्धः । तिरोधत्ते च इति आत्मानमावृणुते निद्राद्यवस्थासु-इति यावत् । कर्तृस्थभावकत्वात् यगभावः । आत्मने- पदं तु ञित्त्वादेव । तमः इत्यनेन तिरोधत्ते इति व्याख्यातम् ॥ २ ॥
ननु एवमपि अस्तु, तथापि न ईश्वरात् व्यतिरिक्तोऽस्ति
(पगे ३५९)
यस्य बन्धो भवेत्; बुद्ध्यादेश्च अहम्भावो निजमेव वपुः प्रकाशपरामर्शपरमार्थत्वात्, तत् सोऽपि न अस्य बन्धमापादयति ।
यदवतरणविवृतिः वेद्यैकदेशेऽपि इत्यादिः, अनेन हि अहम्भावाभिषिक्तस्य अपि बुद्ध्यादेर्न बन्धरूपत्वं समर्थितमेव भवेदिति उक्तम् । तस्मात् बन्ध उपपादनीय इत्याह
स स्वरूपापरिज्ञानमयोऽनेकः पुमान् मतः । तत्र सृष्टौ क्रियानन्दौ भोगो दुःखसुखात्मकः ॥ ३ ॥
सत्यं, न कस्यचित् कश्चन बन्धो नाम; वस्तुतश्चित्स्वभावः स्वतन्त्र एव एकः शिव इति, किन्तु तस्यैव अनुत्तरात् स्वातन्त्र्यात् यदा सङ्कु- चिता संविदवभाति, तदा स्वस्य पूर्णस्य रूपस्य यदपरिज्ञानं सर्वस्यैव पूर्णानन्दौत्सुक्येन हेयाभासस्तत्स्वभावस्तन्निबन्धनस्- तेनैव ओतप्रोतोऽख्यातिपरमार्थः प्राणशून्यदेहादिसङ्कोचवैचित्र्य- चर्चितस्तत एव अनेकः पुमानभिमतो लोके साङ्ख्यादिशास्त्रे च । सच भोक्ता बद्धः, भोगश्च नाम-तत्र तस्मिन्ननेकत्र पुंसि यौ सृष्टौ कल्पितौ क्रियानन्दौ क्रियाज्ञानशक्ती विमर्शप्रकाशमय्यौ, ते एव क्रमेण सुखं दुःखं च; मध्ये तु विश्रमात्मकं तमो मायामयमिति स एव भोगः । आशङ्कापरिहारपरत्वेन सूत्रमवतारयति । वेद्यैकदेशेऽपि इत्यादिना अपि इत्यन्तेन आशङ्का सूचिता, शेषेण तत्परिहारः । पुंस्त्वम् इत्यस्य सौत्रस्य पुमान् इति पदानुसारिणो व्याख्यानम् अणुत्वम् इति बद्धत्वमिति यावत् ।
अन्योन्यभेदः इति अनेकपदं सौत्रं स्पृशेत्, तस्य भोगः इति चरमं सूत्रार्धम् । एतत् इति बुद्ध्यादिरूपम् । अपरिज्ञानं च तथा इति परिमितत्वादपि अन्योन्यरूपम् । तेन यस्य यत् प्रसिद्धं तेन तस्य प्रसिद्धं व्याख्येयं लक्षणस्य सर्वत्र एवंरूपत्वादिति आशयः ।
आणवम् इति
(पगे ३६०)
अणुत्वोत्थापनात् । एतत् इति परस्वरूपापरिज्ञानम् । अत एव इति परिमितत्वमपरिज्ञानमेव, ततस्तत्प्रतिपक्षेऽपि द्वितीयप्रतिपक्ष एवेति ।
यद्वा इति सुखी अहं, दुःखी अहं धनेन विद्यया सम्भोगेनेत्यादिवृत्तयः, तासु तु पुनरपि एकाहम्भावानुसन्धानादनेकत्वेऽनवकॢप्तिर्वाशब्देन द्योतिता ।
अनेन इति वृत्तिग्रन्थेन । खण्डशब्देन अतिदीर्घगोनासशरीरगताभिन्नजीवत्वे खण्डीकरणे खण्डखण्डानां पृथग्जीवत्वं पुनरेकीभावापत्तावेकजीवतेति ध्वनता अणुत्वमपरापरशब्देन च परिमितत्वं दर्शितम् ।
अनेकत्वापरिज्ञाने तु स्वशब्देनैव उक्ते । तिरोधत्ते इति अख्यातिं दर्शयति । अत्रैव उपपत्तिं स्मारयति विपर्यासे हि इति । पूर्वं यदुक्तं, तदेव सङ्क्षिप्य पुनराह यावद्धि इति । असत्ख्यातिमपास्य अख्यातिं घटयति केवलम् इति । तेषाम् इति प्रमात्रन्तराणाम् । तैः इति प्रमात्रन्तरैः । तच्च इति प्रमात्रन्तराणां तथाप्रतीतेरभाव इति वाक्यार्थरूपम् । ननु व्यवहारेण किं प्रयोजनं येन उक्तं व्यवजिहीर्षुणा अवश्यज्ञातव्यम् इति । अत्र आह व्यवहारपथे इति ।
इहापि इति पुंस्वरूपविचारे । स च इति आश्रयः । पूर्णेन अहम्भावेन अप्रत्यभिज्ञातमिति स च असः । अन्यथा इति विश्वपूर्णाहम्भावप्रत्यभिज्ञाने । आद्यमर्धश्लोकं व्याकृत्य द्वितीयं व्याकुरुते ये च इत्यादिना । निर्मितौ इति पुमान् स्त्रिया (पा। सू।
१।२।६७) इति एकशेषः । प्रतिपादयिष्यते इति
सत्तानन्दः क्रिया पत्युः—————————। (४।१।६)
इत्यत्र । निर्मितम् इति एतच्च सूत्रे अहङ्कार इति करोतिना उक्तम् । तत्र इत्यमुं भागं व्याचष्टे ग्राहकाकारगतशब्देन । तस्यैव व्यवच्छेद्यं दर्शयति परकीय इत्यादि । योगिनः इति
(पगे ३६१)
यस्य तद्भेदनेऽपि संसारिवत् ग्राहकाकारगतसुखदुःखान्तरयोगेन अपि भोगः सम्भाव्य इत्येवम्परं योगिपदं, नतु अयोगिनामपि परसुखादिसंविदेव भोग इत्येवम्परम् । बुद्धौ च इति ग्राहकत्वेन अभिमन्यमानायामितिभावः । बुद्धिस्तावत् भिन्नावभासा ग्राहकीकृता अपि परिमिता, तन्निष्ठे अपि आनन्दक्रिये अवश्यं तथाभूते एव भिन्नावभासविषयत्वेन वा भिन्नावभासे । तदा इति ततः परिमितत्वादित्यर्थः ॥ ३ ॥
सृष्टौ इत्यस्य सङ्ग्राह्यव्यवच्छेद्यविभागदर्शनाय सूत्रं
स्वाङ्गरूपेषु भावेषु पत्युर्ज्ञानं क्रिया च या । मायातृतीये ते एव पशोः सत्त्वं रजस्तमः ॥ ४ ॥
स्वरूपाव्यतिरेकिणि विश्वत्र भगवतः प्रकाशविमर्शौ ज्ञानक्रिया- शक्ती, क्रियाशक्तेरेव विजृम्भात्मिका सदाशिवेशपदे आच्छादनीये- दन्तोन्मेषदायिनी मायाशक्तिः । ता एता नैसर्गिक्यो भगवतो दृष्टाः ।
स्वरूपापरिज्ञाने तु भावेषु ज्ञानं क्रिया शुद्धमेव भिन्नत्वं प्रकाशविमर्शाननुगृहीतमिति पश्वपेक्षया प्रकाशः प्रकाशाप्र- काशत्वमप्रकाश इति प्रकाशक्रियानियमनात्मकानि सत्त्वादीनि ।
तन्मयत्वम् इति सुखादिमयत्वम् । मायाशक्त्या च इति । अनेन इदमाह- भगवति विशुद्धचिदात्मनि क्रियाशक्तिरेव स्वातन्त्र्यात्मिका विमर्शमयी, नतु मायात्वं तत्र किञ्चित्; निर्मातव्यभेदापेक्षया तु तदिति पशुरूपतानुलग्नैव माया । तत एव ज्ञानक्रियामायानां सूत्रे समकक्ष्यतया न उपादानमिति । अचिरात् इति सत्तानन्दसूत्रे (४।१।६) ।
अत एव प्रक्रमते इत्यवतारणिकायामुक्तमिहैव न तन्मयत्वं स्फुटीकरोति ॥ ४ ॥
ननु ईश्वरस्य इव ज्ञानादयः पशोरपि सत्त्वादय आगमेषु शक्तय एव किं न उक्ता इत्याशङ्कायां सूत्रं
भेदस्हितेः शक्तिमतः शक्तित्वं नापदिश्यते । एषां गुणानां करणकार्यत्वपरिणामिनाम् ॥ ५ ॥
(पगे ३६२)
भेदव्यवहारोऽयं विचार्यते । तत्र च सङ्कुचितचिन्मात्रस्वभावः पुरुषः, न अस्य नैसर्गिकं भावविषयं प्रकाशादिरूपं सर्वदा तत्प्रसङ्गात् । ततोऽन्यसम्बन्धकृतं तत् । ततश्च तस्मात् शक्तिमत्त्वेन शङ्क्यमानात् पशोर्भेदेन स्थितानि यतः सत्त्वादीनि, ततो न शक्तिव्यपदेश्यानि । पुरुषश्च भोक्तृरूपात् स्वस्मात् तानि यतो भेदेन मन्यते, ततस्तदभिमानमहिन्ना परमभोक्तुरपि शक्तिमतो भिन्नानीति वस्तुतोऽस्य धरान्ताः शक्तिरूपा अपि न तथा । ननु पुरुषात् किमिति भेदेन स्थितानि इष्यन्ते । उच्यते इह करणकार्यात्मकं यदिच सुखादयः पुरुषाव्यतिरेकेण स्युः, तर्हि पुरुष एव करणमयो, नच असौ परिणामेन तद्वादस्य दूषित्वादिति स्वातन्त्र्येण पुरुषो विश्वमय इति । तथाच ईश्वर एव अयं, न पुरुषः कश्चित् । तस्मादप्रत्यभिज्ञान- मये पुरुषस्वरूपे चिन्त्यमाने सत्त्वादयः पृथिव्यन्तपरिणाममयास्- ततो भिन्ना एवेति पृथगेव तेषामागमेषु गणना युक्तेति सूत्रार्थः ।
तमवतारयति ज्ञानक्रिया इत्यादिना । न तथा इति शक्तित्वेन । अत्र हेतुः
-भेदेन यदवभासनं पश्वपेक्षया तदभिमानकृतया च भोक्तः सर्वस्मात् सत एव एतेषां भेदे इतिनीत्या परमेश्वरापेक्षया अपि, तेन सह शक्तित्वं विरुद्धम् । शक्तिर्हि न वस्त्वन्तरमिति भणितमसकृत् ।
भोक्तारम् इति परमं पशुं च । भोक्तुम् इति परमात् पशोश्च । पशोः कुत्र उपयोग इत्याशङ्क्य आह ततोऽपिच इति मायाशक्तेर्हेतुभावेन अभिमतायाः । तदुपपत्तये इति पृथक्प्रथनस्य उपपत्तये । यो मायया उपकल्पितः, स प्रमाता तं सत्त्वादिकं धरान्तमहम्भावाविषयं मन्यते इति सम्बन्धः । ननु पशोरस्तु अस्य भेदः, परमभोक्तुस्तु कथम् । आह भोक्तृत्वेन कियता अपि इति । ततश्च एवमस्य अभिमानो-यो भोक्ता,
(पगे ३६३)
ततः सुखादिरूपं सत्त्वादि भिन्नमेवेति । अथ अयमभिमानो न आद्रियते, तर्हि न केचन सुखादयो, सत्त्वादयो, घटादि वा; अपितु ज्ञानादिशक्तय एव । तदाह शक्तिस्तु इति । तेन सत्त्वादिरूपतैव उद्भवन्ती शक्तित्वन्यक्क्रियया उद्भवतीति आशयः । तथाभावस्य ज्ञातृत्वकर्तृत्वरूपस्य प्रसङ्गः शक्तेरेव अनुमीयते इति अन्यथा अनुपपन्नत्वादनुवादस्य । अन्वर्थः इति गुणः शेष उपकरणमित्यर्थः । तेषाम् इति मते इति शेषः । आगमे इति श्रीमङ्गलाशास्त्रे ॥ ५ ॥
ज्ञानशक्त्यादीनां पशुं प्रति सत्त्वादिगुणरूपत्वमुपपाद्यते
सत्तानन्दः क्रिया पत्युस्तदभावोऽपि सा पशोः । द्वयात्मा तद्रजो दुःखं श्लेषिसत्त्वतमोमयम् ॥ ६ ॥
पत्युर्विश्वप्रभोः सत्ता स्फुरत्ता भवने कर्तृतैव शुद्धविमर्- शरूपा क्रियाशक्तिः, अन्यापेक्षावैकल्याच्च विश्रान्तिरूपत्वेन आनन्दशक्तिरिति । तदियं चिद्रूपतैव इयती । पशोस्तु सत्ता आनन्दः, तदभावो द्वयात्मा च । तत्र आद्यो यः सत्तानन्दभागः सेति सत्ता सत्त्वं प्रकाशसुखात्मकमिति यावत् । यस्तदभावः प्रकाशानन्द- योरभावः, स सत्त्वस्य अभावस्तमः आवरणरूपम् । द्वयस्य आत्मा व्यामिश्रस्वभावश्चित्रपतङ्गगतनीलानीलन्यायेन एकपरामर्श- बलात् वर्तमानः, अत एव श्लिष्टे परस्परमिश्रे सत्त्वतमसी प्रकृते रूपं यस्य, तत् प्रकाशाप्रकाशरूपं दुःखात्मकं रजः ।
एकघनत्वे हि प्रकाशाप्रकाशयोः सुखमोहमात्रता पुत्रस्य तु व्याधितस्य प्रकाशः कल्याणस्य अप्रकाश इति, एतत् दुःखम् । इयमेवच पौर्वापर्येण चञ्चलरूपा क्रिया, अनुभयरूपं तु नास्ति यथा नीलं वस्तु धियि नीलानीलं तदुभयानुसन्धानधियि स्फुरेत् चतुर्थं न कल्पितायां न अकल्पितायां धियि भातुमर्हति । अनीलनीले
(पगे ३६४)
एव हि तदा भवेतामिति त्रय एव गुणा इति । अपिश्चार्थे । सत्ता इति आवर्तते ।
एनं सूत्रार्थमवतारयति सत्त्वादीनाम् इत्यादिना । परमार्थ इत्यादिना स्थितमेव इत्यन्तेन संविद्रूपतैव इयती इति
सा स्फुरत्ता—————————। (१।५।१४)
इत्यादि यदुक्तं, तदेव स्मारयति । प्रतियोगिना इति अभावेन, तमपि हि सा व्याप्नोति तस्य अपि प्रकाशविमर्शजीवितत्वादिति हि उक्तम् ।
अभावप्रतियोगिनी इति, पशोस्तु स्वात्माभावप्रतियोगिनीति । अत्र हेतुः पारिमित्यं, तत्र अपि ग्राह्यतापादनम् । उपरञ्जनात् इतिनिर्वचनं व्याचष्टे अन्योन्य-इत्यादिना । ननु चतुर्थोऽपि गुणोऽनुभयरूपः कस्मात् न उक्त इति । आह अनुभयरूपत्वं तु इति । न कथञ्चित् प्रती, तिर्यस्य, तदप्रतीतिरूपम् । एवं हि तत् किञ्चित् स्यात् यदि नीलमनीलं च मुक्त्वा उभयं नाम भवेत्; तदा अपि उभयमकल्पितन्तदभावश्च अनुभयं कल्पनाबुद्ध्या विषयीक्रियते । नच उभयं ते मुक्त्वा सम्भवि । चित्रपतङ्गे रूपं नीलमिति च परामृश्यमनीलं चेत्येवमुभयं, नतु तत्त्यागेन उभयता तृतीया काचित् । तदाह तृतीया इत्यादि । एतदेव परिघटयति तथाहि इति । अनीलं च इत्यादिना अवभाससारत्वेन अभावस्य वस्तुत्वं प्रतिपादयति । एवञ्च इति वस्तुत्वे विरोधं दर्शयति । यत् इति उभयं नाम । नीलादनीलाच्च राश्यन्तरं न किञ्चिदित्येव द्रढयति तथाच इति । ननु एवं तृतीयो गुणः कथम् ।
अनुसन्धिबलात् इत्याह । तथापि इति अप्रतीतिरूपम् इति यदुक्तं, तत् स्पष्टयति यत्पुनः इति । तद्धि इति यथा अस्माभिस्तृतीयो गुण इष्टस्तत एव उक्तं द्वयात्मा
(पगे ३६५)
इति, द्वयं च इति, तदात्मा च इति, द्वयस्य वा आत्मा इति, उभयथापि इति, नीलतया च एक प्रतीतौ इति अनुसन्धिरूपायाम् । एवं तृतीयमुप- पाद्य एतद्व्यतिरिक्तं चतुर्थं न किञ्चिदस्तीत्येतदुपसंहरति यत्पुनः इति । तत् इति नीलम्, अतत् इति अनीलम्, वस्तु प्रतीतौ इति न किञ्चित् इति शब्दमात्र- मेवेति यावत् । तृतीयस्य तु अप्रतीतिरूपत्वं नास्तीति दर्शयति क्रिया तु इति ।
अत्रैव उपपत्तिमाह नहि इति । तदा इति क्रियाप्रतिभासे । ननु क्रिया चेत् दुःखं, भगवति सा अङ्गीकृतेति स दुःखी स्यात् । नेत्याह पूर्वम् इति
स स्वरूपापरिज्ञानमयः—————–। (४।१।३)
इत्यत्र सामान्येन निर्दिष्टस्य
——————-पशोः सत्त्वम्——————। (४।१।४)
इत्यादौ
————————-तदभावोऽपि सा पशोः । (४।१।६)
इत्यादौ च यत् विशेषणमुपात्तं पशुपदं, तन्निमित्तकोऽयमर्थो लभ्यते-क्रियाया यत् रजोदुःखरूपत्वमयं मायीयः प्रकार इति ।
ततश्च इदं जातमित्याह मायापरपारे इति । अतः इति चिन्मय्याः क्रियायाः । एतदेव अन्योन्यवैलक्षण्यं शुद्धे पदे मायीये च स्फुटयति तद्विपरीतरूपा इति ननु इति च । ततोऽक्रमाविपरीता सक्रमा अणुत्वमाणवमल एव संस्कारानधिकोऽपि अधिक इव संविदि तत्पदे पशुत्वे, न चित्पदे तत्र अनाभासात्मनो विपरीतस्य कालनिदानस्य अभावात् । अत्र हेतुः तदा इति । ननु यदि ततश्चिन्मय्याः क्रियाया न ज्ञानं भिद्यते, तर्हि चिद्रूपापेक्षया कथं ज्ञानक्रिये भेदेन उक्ते
(पगे ३६६)
स्वाङ्गरूपेषु———पत्युः———————। (४।१।४)
इत्यत्र । एतत् परिहरति रौद्री इत्यादि । पार्थिवमण्डं विचित्रसृष्टिप्रधा- नं ब्रह्मणा अधिष्ठितं, प्राकृतं तु स्फुटसंस्कारशेषतया स्थितिप्रधानं विष्णुना, मायाण्डं तु नीलसंस्काररूपतोन्मेषक- लेति प्रत्ययप्रधानं संहारपदमिति रुद्रेण । तस्य भगवतो या क्रियाशक्तिः संहरणरूपा अवभासनप्रधानाया ज्ञानशक्ते- रन्या, सा नेत्येवं प्रमातृप्रमेयाणां परस्परव्यवच्छेदात्मक- शून्यताप्रधाना मायाशक्तिरिति उच्यते । सा च निषेधरूपा रुद्रा- धिष्ठिता शक्तिरपरदशासमासूत्रणरूपा सदाशिवेश्वरदशाया- मपि अस्ति । तत्र हि अहमित्यमुना रूपेण आच्छादनीय इदम्भावोऽपर- स्वभावः । स तया रुद्रसम्बन्धिन्या शक्त्या समुत्थापनीयः ।
संहरणरूपतया च शक्तेश्चिद्रूपता उचिता तस्यां दशायां परभागेऽपि न न उचिता । सदाशिवेश्वरता च परमपदात् न भिद्यते देशकालादिभेदाभावादिति तावानेव शिवनाथः, तत एव रुद्रेश्वर- सदाशिवभूमयः परमेश्वरपदमय्यः इति तदधरवर्तिनां विष्णुब्रह्मादीनां क्षेत्रज्ञत्वं पशुत्वं च । यथा उक्तं
भिन्नप्रमेयप्रसरे ब्रह्मविष्णू——————। (३।२।१)
इति, तथा नरेश्वरविवेकः
——————साच दशा रुद्राधिदेवता । निषेधरूपाप्यैशाने पदेऽहं सर्वमित्यपि ॥
इत्यादि । ततश्च रुद्रपदे तावदुभयं प्रकाशाप्रकाशलक्षणं मेलयन्ती ज्ञानशक्तिर्भेदेन व्यवस्थाप्यते इति सम्भाव्यमेतत् ।
तस्यां हि सत्यामिदन्तानिर्देश्यता भवति अपररूपा तदभिन्ना च, अहमिति पूर्णा परापि अस्ति संवित्, अत एव परापररूपा क्रियाशक्तिप्रधाना
(पगे ३६७)
आगमेषु ईश्वरावस्था उक्ता; साच भगवति न भिद्यते तावद्रूपत्वात्- संविद इति पूर्वं पत्युर्ज्ञानक्रिये भेदेन यत् निरूपिते, तत् न अयुक्तमिति ॥ ६ ॥
एवं प्रमातृतत्त्वं पशुपतिभेदेन निरूपितम्, भोगश्च सुखा- द्यात्मा यथायोगं निरूपितः; इदानीं प्रमेयस्य भोग्यात्मनस्- तत्त्वं वाच्यम् । एक एवच अयं भोक्तृभोगभोग्यतत्त्वार्थविमर्श एकघनतयैव कर्तव्यो विमर्शविच्छेदो मा भूदिति प्रकरणमेकमेव इदं व्याख्यातम् । तत्र पत्यौ तावत् प्रमेयस्य इत्थं व्यवस्थेति निरूपयति
येऽप्यसामयिकेदन्तापरामर्शभुवः प्रभोः । ते विमिश्रा विभिन्नाश्च तथा चित्रावभासिनः ॥ ७ ॥
इह आभासा एव तावदर्थास्ते च परामर्शैक्येन कदाचित् मिश्रीक्रियन्ते यत्र स्वलक्षणता मिश्रताभवन एवतु कदाचिदनामिश्रा एव अवमृश्यन्ते यत्र सामान्यलक्षणता, उभयात्मानोऽपि असामयिकेन अकृतकेन अङ्गुल्यादिनिर्देश्यप्रख्येण इदम्भावेन सहजभेदावमर्- शनरूपेण प्रभोरपि ईश्वरस्य अपि न केवलं सद्योजातबालादेर्गोचरी- कार्याः, तेन सामान्यविशेषप्रकारेण चित्रं कृत्वा युगपदेकाहन्ता- विश्रान्त्या अवभासनशीलाः । ईश्वरदशायां हि भावोल्लासनान्त- रीयकतया संवित्सङ्कोचरूपं निषेध्यानुपरक्तनञर्थमात्र- रूपं शून्यं रुद्राधिष्ठातृकं संवित्प्रकाशेनैव प्रकाश- मानमहन्तानिषेधरूपामसामयिकीमिदन्तामुल्लासयति । एतच्च अनन्तरमेव निर्णीतम् । एवं पत्यौ प्रमेयवृत्तान्तः, परमपतौ तु भगवति प्रमेयकथैव न अस्तीत्याशयः सूत्रस्य । पूर्वापरं सङ्गमयन् प्रकरणावतारणे सूत्रमवतारयति एवम् इत्यादिना ।
यद्यपि इति बालदारकादेः । न केवलम् इति । इयता सूत्रे अपिशब्दः प्रभोः इत्येतदनन्तरत्वेन व्याख्येय इति दर्शितम् ।
(पगे ३६८)
ननु असामयिकेदन्तापरामृश्यत्वं बालेऽपि न प्रतीतम्, तत् कथं तत् वृत्तौ दृष्टान्तीकृतम् । प्रतीतमिति दर्शयति तस्य इत्यादिना अनुमानात् इत्यन्तेन । एतदेव घटयति यदिहि इति । स तु इति बालः । तस्य इति बालस्य ।
प्राक् इति साक्षात्कारसूत्रे । एवं दृष्टान्तं सूत्रेऽपिशब्देन सूचितं वृत्तौ स्फुटीकृतं परिघटय्य दार्ष्टान्तिके योजयति ते च इति अनेक इत्यादिपदेन स्वलक्षणात्मानः, पृथक् इत्यादिना तु सामान्यलक्षण- रूपा निर्दिष्टा । ननु प्रत्याभासं पूर्वं प्रमितिव्यापारश्चर्चितः, ततश्च सर्वदैव पृथगाभासा भान्ति; नतु मिश्रतयेत्याशङ्क्य एकाभासोऽपि कश्चिदन्तर्नीतस्तन्नान्तरीयकाभासवर्गो न नास्ति वाक्यपरामर्शसमुचित इति हृदये गृहीत्वा आह तत्र च घट इत्यादि ।
तथा इति घट-इत्येकावभासस्य । नच अनेकाभासतामात्रादेव स्वालक्षण्यमित्याह देशकालादि इति । आदिग्रहणेन प्रमात्रन्तरग्राह्यत्वादि देशादिकावभासान्तरासम्भेदे तु सामान्यरूपतैव, नतु स्वलक्षणतेति दर्शयति अनेकावभास इत्यादिना । पुरः इति देशावभासः । अवस्थितः इति वर्तमानकालाभासः । एवं स्वलक्षणावभासं मिश्रं विचार्य सामान्याभासं विचारयति पुरोऽवस्थितावभातम् इति । अपिशब्दात् स्वातन्त्र्येण विकल्प्यमानता यद्यपि ईश्वरापेक्षया न अस्ति, तथापि साक्षात्कारोऽपि ईश्वरस्य उपपन्नः सामान्याभासस्तथा साक्षात्कार्याणामीश्वरे भासनादिति ध्वनति । अत एव ईश्वरस्यापि इति अपिशब्दं पठिष्यति । ननु पृथग्दीपसूत्रे (२।३।७) अविरुद्धाभासानां मेलनमुपपादितम् । विरोधाविरोधौ च नियतिशक्त्यपेक्षया पशुप्रमातॄन् प्रति, नतु भगवति कोऽपि विरोधाविरोधनियमः ततश्च नियमाभावे विषाणित्वाभासस्य पृथुबुध्नोदराकाराभासेन
(पगे ३६९)
अपि किं न मिश्रता । ततश्च अस्मदुचिता एते कथं भगवति स्वलक्षणा- भास इत्याशङ्कां दर्शयन् व्यपोहति तथा इति तेन उक्तेन प्रकारेण आभासानां यत् वैचित्र्यवत्त्वं मिश्रीकरणात्मकं, तत् यद्यपि भगवति न नियतं, तत एव ईश्वरापेक्षया घटोऽपि विषाणी, मण्डूकोऽपि जटाभारभास्वरः साक्षात्काररूप एव अवभाति; तथापि सृष्ट्या येऽनुग्रहीतव्या जन्तवस्तदपेक्षया नियतिशक्तिमहिम्ना विषाणित्वसास्नादिमत्त्वनियमोऽपि न न प्रथते तेन अधिप्रथा तत्र अस्तु, नतु अस्मदुचितप्रथा तत्र न अस्तीति । ननु ते भावाः किं पूर्वसृष्टा एव केचन स्थिताः । नेत्याह ते च इति । ते न इति ते नैवेति यावत् । अस्मदादिदृश्या हि अर्थास्तेनैव भगवता निर्मीयन्ते । प्रजापतिमातापितृकुम्भकारा- देस्तु निर्मातृताभिमानो यः, सोऽपि तस्यैव सृष्टिरिति उक्तमसकृत् ॥ ७ ॥
एवं सदाशिवेशतायां प्रमेयवृत्तान्तो निरूपितः, परमशिवस्य तु इयदेव प्रमेययोगित्वं, न पृथक् किञ्चिदिति । अतः परं पशुं प्रति प्रमेयवृत्तान्तः श्लोकत्रयेण उच्यते । तत्र प्रथमेन पीठबन्धं करोति
ते तु भिन्नावभासार्थाः प्रकल्प्याः प्रत्यगात्मनः । तत्तद्विभिन्नसञ्ज्ञाभिः स्मृत्युत्प्रेक्षादिगोचरे ॥ ८ ॥
तुरीश्वरप्रमेयात् विशेषद्योतकः । ईश्वरस्य हि शुद्धविमर्श- विषयाः सर्वे अर्थाः, नतु विकल्प्याः पशोरिवेति ते विशेषसामान्यरूप- त्वेन धर्मिधर्मतया भिन्नावभासाः; तथा प्रतिप्राणि प्रत्यवस्थं च स्ववासनानुसारेण स्वयमवस्थापिताभिः प्रियोऽयं, शत्रुरयमित्येवम्प्रायाभिर्विभिन्नाभिः सञ्ज्ञाभिर्भिन्नावभासाः प्रकल्प्या विकल्पनीयाः । तत एव सम्बन्धात्मकविद्योन्मेषेऽपि मायाविजृम्भितप्रधानापोहनसारतया
(पगे ३७०)
हानादानादिविषयीकार्यत्वेन अर्था भवन्ति नीलमिदं, गौरोऽहं, सुख्यहमिति सर्वथैव अवभासस्य विश्रान्तिधामत्वात् । कस्य क्व । आह प्रत्यगात्मनः प्रतिपुरुषमव्यामिश्रस्वसंवेदनावगमरूपत्वेन असङ्कीर्णदेहादिसङ्कुचिताहम्प्रकाशात्मनः कृशोऽहमित्यादितत्तद्विभिन्नसञ्ज्ञाभिरुपलक्षितस्य स्मृतावुत्प्रेक्षणे सङ्कल्पने अन्यत्र च विकल्पे विषयत्वेन ।
एतद्विकल्पप्रधान एवच सदा पशुरिति सूत्रार्थः । तं सङ्क्षिप्य आह एवमिति न केवलं पशूनां भावाभासः, यावदीश्वरस्य अपि स तु एवम् इति अविकल्प्यतयेति विशेषः । यद्वा ईश्वरशब्देन परमशिवः, तस्य अपि भावाभास एवमिति ईश्वरताद्वारेण । एवकारेण तोरर्थो व्याख्यातः । उपक्रमते इति तृतीये तु श्लोके निर्वाहयिष्यतीत्यर्थः ।
तुशब्दार्थं व्याख्यातुं पूर्वपूर्वप्रमातृतत्त्वावियोगं च उत्तरोत्तरप्रमातृभूमिषु दर्शयितुं पूर्वोक्तमनुवदति एवम् इत्यादिना अवस्थापिताः इत्यन्तेन । सामान्यात्मानः इति स्वलक्षणरूपा अपि शब्दगोचरीकार्यत्वेन सामान्यात्मका एवेति प्रागेव उक्तमसकृत् । ते विचित्रसञ्ज्ञाप्रपञ्चेन व्यवहारपथमुपनीयन्ते इति सम्बन्धः । स्वयमपि अनेकसञ्ज्ञास्पदैः इत्यनेन तत्तत् इत्यादि सौत्रमुभयविषयत्वेन योजयति । अनन्तरम् इति
तस्यासाधारणी—————————। (४।१।९)
इत्यत्र । इयता त्रिभिः श्लोकैर्वाक्यैकवाक्यतया प्रस्तुतवस्तु निर्वाह्यमित्याह तत्तद्विभिन्न इत्यादिना सौत्रं वृत्तावपि उभयथा योजितमिति दर्शयति प्रमातॄणामपि इति । एतदेव उपपादयति मायीय इत्यादिना । प्रमेयभेदे हि सति मायाप्रमातृस्थितिः, तस्यां च सत्यां प्रमेयभेद इति युगलकसृष्टिरेवं भगवतः
(पगे ३७१)
संसारोत्थापनम् । एतदेव व्यतिरेकमुखेन आह परमार्थेऽपि तदुभयम् इति वेद्यवेदकात्मकमभिन्नमेव । उक्तं च एतत् मया
तन्मया दृश्यते दृष्ट—————————। (१।४।८)
इतिसूत्रे । ननु एवं परमार्थप्रमातरि चेत् सर्वमभिन्नं, तर्हि प्राणाद्यपेक्षया तावत् शरीरमस्तु वेद्यम्; प्राणादि तु किमपेक्षया वेद्यमुच्यते । अत्र आह शून्यप्रमात्रपेक्षया तु इति । ननु शून्यमपि वेद्यमेव, तत्तु किमपेक्षयेति वाच्यम् । उच्यते शून्यस्य अपि इति । वेदकः इति विकल्पक इति यावत् । अर्वाग्दृशां हि न शून्यं साक्षात्कारभूमिरिति स्फुटभावेन, अपितु समस्तशब्दादिवेद्यविनिर्मुक्तं नेतिनेतिब्रह्मवादिदृष्ट्या यदुपकल्पितं तत् विकल्पविज्ञाने युक्त्यागमादिप्रभवे चकास्ति । अथ अत्र शून्यप्रमातरि साक्षात्कारात्मकं संवेदनं किं न सम्भवत्येव । सम्भवति चेत्याह योगिषु इति प्राणबुद्ध्यादिसाक्षात्कारानन्तरं भावनाप्रभवेन ज्ञानेन ये शून्यमपि विषयीकर्तुमुद्यतास्ते शून्यान्तरे तद्वेद्यशून्यापेक्षया विततबद्धप्रमातृभावा भवन्ति । तथाहि देहाभावरूपं शून्यं देहातीतब्रह्मरन्ध्रोर्ध्वशून्यप्रमातृभावेन विषयीक्रियते, महाविदेहधारणासमापत्तौ पुनस्तदूर्ध्वं शून्यं प्राणाभावरूपं द्वादशान्तोपलक्षितेन शून्येन, तदपि परतरेणेत्येवं तारतम्यभेदेन मायापदे अनवस्थैव सृज्यमानशून्यानां पर्यन्तस्य अलाभात् । नच इयमनवस्था काञ्चन क्षतिं विधत्ते । यदिहि कल्पितो ग्राहको ग्राहकान्तरेण गृहीत उद्रिक्तां वेद्यतामेव वेदकतायां प्रयोजकीकुर्वाणः सन् वेद्यं जानातीति उपगम्येत, तदा अनवस्थातो वेद्यस्यैव ज्ञप्तिर्न भवेत् यावता ग्राहकस्य संवित्समावेशिताहम्भावस्य स्वातन्त्र्यं, स एव ग्राहकतायां प्रयोजक इति शुद्धसंविदेव परमार्थतः सर्वत्र ग्राहिका
(पगे ३७२)
यद्यप्यर्थस्हितिः—————————। (अ। प्र। सि। २०)
इतिन्यायात् । वेद्यता तु तत्र मायीया, तत्र ग्राहकान्तरानवस्थैव न दूषणं वस्तुतः खण्डनायोगात् । तत्प्रमातृतावसरे च संविदाविष्टमपि तत् शून्यं भिन्नबोधरूपविद्येश्वरादिसर्वज्ञप्रमात्रन्तरापेक्षया भिन्नं वेद्यं चेति । तदाह नच इति अनवस्था न दोषावहा अत्रेति यावत् । ननु अत्र मा भूदनवस्थातो दोषः, ईश्वरपदे तु यत् तत् शून्यं यदपेक्षया आच्छादनीयस्य इदम्भावस्य उल्लासः, तत् केन संवेद्यम् ।
शून्यान्तरेणेति चेत्, तदपि केनेति अनवस्था, अवेद्यत्वे च तत् शून्यं न इदन्तया प्रकाशेतेति अप्रकाशरूपत्वादसत् स्यात्; तदसद्भावे च क इदन्तोन्मेष इति दोषः । भवेदेष दोषो यदि शून्यान्तरं वेद्यमेव अत्र ग्राहकं स्यात्, नच तथा । नापि पूर्णं चिद्रूपं तदपेक्षया इदन्तोलासात्मकभेदप्रथनायोगात्, अपितु तत्र पूर्णचिद्रूपे यत् सङ्कुचितं विश्वतः पलायमानमिव विश्वाभावरूपं संवेदनं स्वप्रकाशमकालकलितं पूर्णं चिद्रूपात् परमार्थेन अभिन्नमपि भिन्नमिव प्रथते । चिद्रूपतास्वातन्त्र्यादेव परापरस्वरूपोल्लासकारिणस्तदपेक्षया इदन्तोल्लासो युक्त एव, न अनवस्था काचिदिति । एनमर्थं वितत्य आह यतः इत्यादिना । चिन्मात्र इति विशुद्धपूर्णचिद्रूपापेक्षयेत्यर्थः । अद्वयानुपपत्तिः इति ।
उपपादितं च शुद्धचिदपेक्षया सर्वस्य अव्यतिरेकादद्वयमिति आशयः । न संविदपेक्षया, नापि अन्योन्यापेक्षया भावानां भेदो युज्यते, नच न अस्ति असौ । ततो हेतोरिदमुपगम्यम् । किं तदित्याह तस्य इत्यादिना । ईश्वरः परापरावस्थात्मा, तस्य या शुद्धचिद्रूपता, स परावस्थात्मा भागः । तत्रापि इति तस्यामेव विश्रान्तः । पुनः इति ततः परदशाभागात् विशेषमस्य आह अभावरूपत्वादेव इति चिद्रूपता
(पगे ३७३)
प्रकाशपरामर्शपूर्णा स्फुरति । विश्वाभावस्तु विश्वस्य न प्रकाशनं न विमर्शनमित्येवं नञर्थः । स्वयं तु सोऽपि अवश्यं प्रकाशविमर्शावधिशेते एवेत्याह तदभावविमर्शे च इति प्रकाशत्वेन विमृश्यत्वं च स्फुरति यतः । ननु एवं जड एव अस्तु ।
एतदपि नेति ब्रूते नापि इति शब्दादीनां यादृशो भावः पृथक् वेदकात् किञ्चिदिदमिति, तेन रूपेण अस्फुरणात् । ननु अभावो निषेध्यधर्मात्मा निषेध्यस्य बहिरपि आख्यातिधर्मत्वेन स्फुरतिशब्दाभावः, स्पर्शाभाव इत्येवम् । सत्यं, यत्र प्रतियोगी स्फुरति, तत्र एवम्; इहतु न तथेत्याह नहि इति । अवभासः स्यात् इति । स एवच विश्वावभास इदन्तया चिन्तयितुमारब्ध इति अभिप्रायः । कथं तर्हि असावभावविमर्शः । आह किन्तु निर्विशेषण एव इति । ननु तादृशस्य अपि अत्र किं स्वरूपम् । तत्र च कथं न अनवस्था । अत्र आह वेद्यम् इत्यादि चोद्यते इत्यन्तम् । अत्र ईश्वरपदे नञर्थो यः प्रथते, न तत्र ग्राहकान्तरमुपयुज्यते इति सम्बन्धः । वेद्यं नास्तीत्येवं यत् वेद्यमात्रं, तेन अपि अविशिष्टो वेद्यविशिष्टत्वादेव यत् निषेध्यमात्रनिष्ठत्वं ततो हेतोः क्षेत्रज्ञरूपाणां चित्तत्त्वानां मायाप्रमातॄणामपि स निषेधात्मा नञर्थः । विश्वम् इति मातृमेयरूपं सर्वं मायीयं नेति निषिद्धं भवतीत्यर्थः । तस्य नञर्थस्य रूपान्तरं समुच्चिनोति । स च कालस्य प्रथया स्फुटेन रूपेण रहितः । तत्र हेतुरयमिति साक्षात्क्रियमाणतया स इतिच स्मर्यमाणतया, तत एव मिलित्वा अनुसन्धीयमानतया यतो न आभासपदवीमेति, तत आभासे इदम्भागे निष्ठितो यः कालः, स तस्य न विशेषकः । अत एव स नञर्थः ईश्वरस्य शिवनाथस्य द्वितीयमिव रूपम् । वक्ष्यते हि
(पगे ३७४)
सा च रुद्रदशा शिवतत्त्वस्य अपरावस्था
इति । द्वितीयत्वमेव स्फुटयति स्वात्मसङ्कोच इति भेदवादिनामिव संवित्तत्त्वं समस्तात् विश्वराशेः सङ्कुचितमिव नित्यम् । सङ्कोचादेव शून्यशब्दवाच्यं विश्वानवभासं संहारतमःप्रधानेन मायायाः पदे रुद्रनाथेन अधिष्ठितम् । इवशब्दार्थमेव स्फुटयति पूर्णमेव इति वस्तुतः पूर्णमेव संवित्स्वरूपं तत्, प्रथते तु परं तथा सङ्कोचेनेत्यर्थः । ईश्वरस्य वा परापरदशात्मनो द्वितीयमपरदशात्मकं स्वरूपं स नञर्थः, पररूपनिमग्नतैवच अस्येति इवशब्दः । तामेव स्फुटयति सोऽपिच इति ।
विश्वमीश्वरसंविदि यद्यपि अहन्तायामन्तर्भूतं, तथापि सा अहन्ता विश्वतः सङ्कुचिता अपि तत्र स्फुरति प्रकाशविमर्शसारा भवति । कथम् । चिद्घनतयैव परदशानिमग्नत्वेनेत्यर्थः । ननु यावदहन्ता न सङ्कुचिता, न तावदिदन्तोल्लासः, यावच्च न असौ, तावत् कथमहन्ता सङ्कुचेदिति अन्योन्याश्रयम् । भवेत् यदि पौर्वापर्यमत्र स्यात्, नच तदिति दर्शयति एकैवच इति । एतदुक्तं भवति-संविदः स्वातन्त्र्यादनुत्तरादतिदुर्घटमिदमपि सममेव भाति अहमिदमिति ।
तत्र अहमिति पूर्णमेव संविद्रूपम्, इदमित्येतदाक्षिप्तं तु सङ्कुचितम् । यदहमितिरूपं, तत्र अहम्भागस्य पूर्णसंविद्रूपाहम्भावाव्यतिरेकेणैव प्रथा, सङ्कोचभागस्तु यः स इदन्ता उत्तीर्ण इव तत्रैव अहमित्यत्र रूपे प्रतिबिम्बकल्पतया स्फुरन्नपि न स्फुटो न इदम्भावेन, अपितु निर्मलतमे आदर्शे द्वितीयमलिनादर्शवदपरेदन्तानुग्राहकत्वेनेति एकरसमीदृशं संविदः स्वातन्त्र्यम् । न केवलमप्ररूढमायायामीश्वरभुवि इदं रूपं, यावत् प्रतिरूढसङ्कोचायां मायादशायामेषा एव वर्तनीति निरूपयति मायादशायाम् इत्यादिना । नीरूपत्वात् इति पृथक् तस्य न किञ्चित् रूपं संविदः
(पगे ३७५)
संवेद्यात् च निर्भातीत्यर्थः । तौ इति घटाभावपटाभावौ ।
मायापदत्वमेव स्फुटयति सङ्कोचश्च इति । एतदेव स्पष्टयति अहंविमर्शेन इति परिहारो वियोगः । मुख्या तावत् इति महाशून्यरूपा । चित एव इति महासंहाररूपा रौद्री दशा, एषा च ईश्वरसंवेद एव परमार्थतो विश्रान्तेति वाग्रहणेन आह, अन्यथा पृथगेव एनामपरेत्यमुना उपक्रमेण निर्दिशेत् । ननु महासंहारेऽपि पुर्यष्टकरूपत्वेन भाविसंहारवैचित्र्यवन्तोऽणवस्तिष्ठन्ति एव, तत्र कथं चितो विश्वाभावरूपतेत्याशङ्क्य आह पुर्यष्टकसंहारोऽपि इति अपवेद्यप्रलयसमये पुर्यष्टकस्य अपि बीजभावोपगमनं शून्यरूपतायामिति सैव शून्यरूपता तद्बीजवैचित्र्येण प्रमातृभेदात्मिका तत्र रौद्रे महाशून्ये संस्काररूपतया तावदास्ते यावत् सृष्टिमुखं, ततः पुनर्बीजप्रबोधात् पुर्यष्टकसृष्टौ पूर्वान्तर्गतकर्मवासनानुसारेण शरीरकरणादिविचित्रभावः । अपर इति संसारभुवि जाग्रत्स्वप्नदशायाम् । पूर्यष्टकं च बुद्धिशरीरयोरपि उपलक्षणम् । यदाह यत्र इति । तदन्येषां पुर्यष्टके यो भावस्तन्निष्ठा काचिदख्यातिः शुद्धपुर्यष्टकमात्रप्रथारूपा महाप्रलयात् पूर्वोक्तात् मायानिष्ठादन्यत्र प्रलये प्रधानादिविश्रमणरूपेऽवान्तरप्रलये । एतच्च सुषुप्तस्य अपि उपलक्षणं सवेद्यस्य, अपवेद्यं तु महाप्रलयेन उपलक्षितम् । एवं वेदकस्य शुद्धस्य कल्पितस्य च वेद्येन वियोग एक एव, वेद्यस्य अपिवा तेनेति परस्परं वियोगः; सोऽपि अवियोगविश्रान्ते न वेति यथायोगं भेदा एते इति । इदानीं वेद्यस्य वेद्यान्तरेण वियोगः, तयोर्वा परस्परमिति दर्शयति अन्य इति वेद्यगतत्वात् विशेषात् परस्पराभावं पृथगुपक्रमं विनैव वाग्रहणेन आह । सर्वैव इति ईश्वरपदादारभ्य वेद्यमात्रपर्यन्तमभावप्रथायामिदमेव तत्त्वं यदन्यस्य
(पगे ३७६)
तत्र अप्रथनम्; अन्यात्मत्वेऽपिच यत् तथा, तत् भ्रमरूपत्वं संहारशून्याभावादिशब्दाभिधेयं रुद्राधिष्ठितं शुद्धसंवेदनस्य अशुद्धमिदम्भावाख्यं समासूत्रयदाद्यादिच्छारूपादेव स्वातन्त्र्यात् बीजभूतमुन्मिषति ।
तदाह शुद्ध इत्यादि । एतदेव आगमेन संवादयति सच इति साम्यमुभयोर्दशयोर्योजयति तत्र इत्यादिना । साम्येऽपि येन विशेषेण भेदः परत्वापरत्वयोगश्च, तमाह केवलम् इति । सबीजा अपि इति बीजमपि विलीनं परमेश्वरस्वातन्त्र्यशक्तिशेषतामेतीति बीजावशेषा विश्वे भावा रुद्रभूमौ योग्यतादिशब्दाभिधेया इति सम्बन्धः ।
योग्यतारूपतया अपि अंशतः शिवरुद्रदशयोः साम्यमाह तदानीम् इति । रुद्रभुवि बीजपातयोगेन ये मायीया भिन्ना अर्थाः, ते शिवात्मनि अपि वेद्यतया अवस्थिता इति व्यज्यन्ते व्यपदेष्टुम् । ननु योग्यता बीजरूपता, सा अपि तत्र विलीना । सत्यं, भेदरूपत्वे यायोग्यता, सा विलीना भेदाभेदरूपत्वेन परापरतया; तया तु या ईश्वरसंविदि प्रथा स्फुटा, तस्या अवश्यं स एव बीजभावो यत् भगवतः स्वातन्त्र्यमिति विशिष्टैव इयं योग्यता । ननु कारणे कार्यं योग्यतया उचितं, न शिवेश्वरयोः कार्यकारणतेत्याशङ्कामनुवदन् परिहरति यद्यपिच इति अर्वाग्दर्शना ज्ञानयोगाभ्यां तथा पार्यन्तिकीं दशामध्यासीनाः क्रमेण यतो बुद्ध्यन्ते स्वीकुर्वते च, ततस्तदीयाभासापेक्षया पौर्वापर्यं सृष्टस्य अपि भवेत्; तस्य च पारमार्थिकरूपानुलग्नतया
स्वातन्त्र्यामुक्तम्—————————। (१।५।१६)
इति उक्तन्यायेन सृष्टत्वा परमार्थेऽपि तथाभावव्यवस्था, नतु स्वतः । स्वतोऽपिवा कार्यकारणभावोऽस्तु यथा उक्तं
(पगे ३७७)
यत्सदाशिवपर्यन्तं पार्थिवाद्यं च सुव्रते । तत्सर्वं प्राकृतं ज्ञेयं विनाशोत्पत्तिसंयुतम् ॥
इति । सकलप्रलयाकलविज्ञानकेवलिमन्त्रतदीशमहेशानामपि हि इदम्भावांशेन पारिमित्यलक्षणेन अनुवेधात् तदपेक्षया एव कृतकत्वमुच्यते, तद्वत् सदाशिवेश्वरयोरपि । तत एव उक्तं प्राकृतम् इति । तदेतदाह इदम्भाग इत्यादिना । एतदुपसंहारेण स्पष्टयति तदेवम् इति । इदन्तावमर्श एव यदि तत्र स्फुटः स्यात्, तदा विश्वमेव तत् भवेत्; नतु विश्वबीजमिति उचितपदम् । बीजसंस्कारयोग्यताशक्तिरूपं च अस्मदादीनां नित्यानुमेयमपि सर्वज्ञपदे च स्फुटप्रकाशनोचितमेवेति अहन्तायामेव विश्राम्यति, नच असौ शुद्धैव अहन्ता विश्वबीजतायाः परिस्फुरणादनभिव्यक्ततद्रूपचक्रवर्तिपण्डितकविशिल्पिप्रभृतिगत- स्वस्वकरणीयविशेषस्फुरणवत् । अत एव शक्तिवाचोयुक्त्या अत्र व्यवहारः । अत एव आह यन्नान्यग्राहकापेक्षम् इति । नौ एवमेषा शून्यरूपा बीजभूमिर्नित्यमेव ईश्वरसंविदनुलग्ना, ततः शून्यस्य कथं पृथक् प्रमातृता, प्रमेयता वा । अत्र आह तच्च इति शून्यं कर्तृ अहन्ताच्छादनमीश्वरसंविदभेदं विहाय मायाशक्तेर्वशात् विजृम्भालक्षणात् । तथैव इति तेनैव शुद्धेन रूपेण परसंविदनुवेधवन्ध्येनेत्यर्थः । तच्च शून्यं संविन्मात्ररूपं च सङ्कोचाधिकं चेति उभयं दर्शयति तच्च इति शून्यम् । तदा इति सुप्तमूर्च्छासमाधानादौ । ननु बोध एव तथा स्मरिष्यति, किं बोधातिरिक्तशून्यताधिक्येन । एतत् नेत्याह नहि इति ।
स्वयम् इति सृष्टिसृष्टित्वे सङ्कोचाधिक्ये वा यत् स्मरणं, तत् वेद्यांशगतमेव । तदुक्तं
नत्वेवं स्मर्यमाणत्वं तत्तत्त्वं प्रतिपद्यते । (स्प। का। १।१३)
(पगे ३७८)
इति । साच इति तत्र स्पर्शादिमये प्राणप्रमातरि विश्रमः । तथा सति इति प्राणादिप्रमात्रवस्थाने । अत्र अवस्थानम् इति शून्यप्रमातरि एव अवस्थितत्वात् इति हेतुताशयेन व्याख्येयम् । न निवृत्तः इति तन्निवृत्तौ प्रलयाकलवत् देहानुप्राणनतद्देहाद्युत्थानाद्ययोगात् । तथाभाव इति रागद्वेषक्षुत्तृष्णादेरभावः । परिमितमेव इति शालिबीजं हि पलालतण्डुलकणमात्रपूर्णं न्यग्रोधबीजादेरन्तःकृतानन्तशाखापल्लवस्कन्धादेर्महाबीजात् परिमितमेव । एवं संसारिणि क्रमविकासो यावत् सर्वज्ञेषु विकासतारतम्येन, परमो विकासो रुद्रभुवि शून्यस्य । तदाह सर्वभाव इति । तत् इति चित्तत्त्वम् । इवशब्देन वास्तवो न कोऽपि सङ्कोचस्तदाभासमात्रं मुक्त्वेति दर्शयति तथापि इति सङ्कोचेऽपि ।
एवं शून्यस्य अन्तर्गततत्तद्वस्तुन्यूनताधिक्यकृतं सङ्कोचविकासतारतम्यमिति उक्त्वा तदा सर्वावरणलोपे तस्य ज्ञानस्य आनन्त्यात् ज्ञेयमल्पमित्यनया दृष्ट्या ज्ञेयसंस्कारविच्छेदतारतम्येन संविद्भागविकासात् विकासतारतम्यं ग्राह्यग्राहकभावोत्थापकमिति दर्शयति योगिनां च इति नच अनस्थेति स्मारयति तस्य तु इति । शून्यान्तरे वेद्यात् शून्यादस्य विषेशं तुना आह । एवं समावेशोपदेशशून्यानां प्रतियोगिसंवलितमेव निषेधमेव बुद्ध्यमानानामबुद्धानामनन्तसृज्यमानशून्ययोगो योगिनामिति उक्तम् । ये तु समावेशविशारदास्तत्त्वविदस्ते देहादिमेव यद्यपि बोधरूपाविष्टमभिमन्यन्ते, तथापि तद्देहप्राणादिभेदोल्लासनोपयोगिना शून्येन अवश्यमन्तरा भाव्यं, नतु तत्र शून्यान्तरेण किञ्चिदित्येतत् दर्शयति पारमार्थिकपक्षान्तरपरिग्रहेण यदिवा इति । विशेषाभावात् इति घटेन या शून्यता नेति भाति, या च घटपटाभ्यां; तत्र प्रतियोगिभेदं
(पगे ३७९)
मुक्त्वा न स्वरूपतो भेदो विवेकवतामवभातीति न शून्यान्तरं किञ्चिदस्ति । ननु एवं संसारिणां योगभुवि शून्यसंवेदनं केन, नहि तेषामैश्वरी संविदस्ति । क एवमाह, अस्त्येव सा । तदाह सर्वा चैषा इति । प्रतिपादितम् इति पूर्वः पूर्व उत्तरमुत्तरं व्यभिचरति, नतु उत्तरः पूर्वमिति हि उक्तम् । तत्र इति तस्यां प्रमातृपरम्परायाम् ।
मध्ये रौद्र इति सोऽपि मायीयत्वेन हेयः । तथापि न हेयः इत्याह स तु इति । एवं शून्यप्रमातृस्वरूपं प्रदर्श्य वृत्तिं व्याचष्टे अत्र इति ।
क्षेत्रशब्देन शरीरं वदता तच्छून्यानां न अस्ति विकल्पनशक्तिरिति उक्तम् । अपोह्यमान इति संविदमपेक्ष्य या विकल्पनशक्तिः, सा भेददृष्ट्या तत्त्वरूपतामापन्ना मनोऽन्तःकरणम् । तच्च प्रतियोग्यपोहनसहितार्थावमर्शनव्यापारम् । तत्रैव च रूढता संसारिता, तत एव पश्चादपोहप्रकरणं सम्बन्धस्तु शक्तिस्पर्श इति बोधाबोधात्मा प्रमाता परमार्थप्रमातरि अजडे चिद्विमर्शात्मनि विश्राम्यति । तत एव अपोहनान्तं प्रसरतीति प्रकरणपञ्चकस्य प्रतिलोमानुलोमभावनायां तात्पर्यम् । तदपोहने परः प्रधानम् ।
एतदेव स्फुटयति मनो हि इति । सा च इति विकल्पनशक्तिः
शब्दराशिसमुत्थस्य—————————। (स्प। का। ३।१७)
इति
स्वरूपावरणे चास्य—————————। (स्प। का। ३।१५)
इति च नयेन शब्दनशक्तय एव प्रतिप्राणि प्रत्यवस्थं विचित्रतया लोकशास्त्रव्यवहारानुबद्धं विकल्पनव्यापारं ग्राह्यग्राहक- विषयं विचित्रमुत्थापयन्त्यो मलत्रितयमनुप्राणयन्ति । यत् निरूपितं
पीठेश्वर्यो महाघोरा मोहयन्ति मुहुर्मुहुः ।
इति
(पगे ३८०)
विषयेष्वेव संलीनान्—————————। (मा। वि। ३।३१)
इति च । ता एव तु शुद्धविमर्शावशेषतां विकल्पनमपि नयन्त्यो मुक्तिदायिन्यः । यदादिष्टं
——————-जन्तुचक्रस्य शिवधामफलप्रदाः । पराः प्रकथितास्तज्ज्ञैरघोराः शिवशक्तयः ।
(मा। वि। ३।३३)
इति
एकैव मामिका माया स्थिताष्टाष्टकभेदिनी ।
इति
—-स्वमार्गस्था ज्ञाता सिद्ध्युपपादिका । (स्प। का। ३।१६)
इति । तदाह सञ्ज्ञाविकल्पे इति
सैषा संसारिणां सञ्ज्ञा बहिरन्तश्च वर्तते । (वा। प। १।१२७)
इति प्रतिप्रमातृविचित्रतया शब्दनशक्तिमयी शब्दभावना, तत्कृते विकल्पवैचित्र्ये । इयत्येव इति मूलपरामर्शभूमिमस्पृशति, तत्स्पर्शे हि विकल्पेऽपि न बन्धरूपता । एतच्च वक्ष्यते संसारो विश्रान्तः संसरणस्य हेयतामाह बन्धरूप इति । स्वरूपजीवितं तु अस्य आह मलत्रय इत्यादि । मायीयत्वं त्रयस्य अपि उक्तं
—————–मायाशक्त्यैव तत्त्रयम् । (३।२।५)
इति । इयता शब्दमय इतिवृत्तिर्व्याख्याता । एतच्च परमुपदेशतत्त्वमिति आह अत्रैव इति । अवधानेन विकल्पस्य प्रशमनं वा
विकल्पहानेन—————————। (४।१।११)
इतिभाविनीत्या, शुद्धपरामर्शशेषीकरणं वा
सर्वो ममायं विभवः—————————। (४।१।१२) इतिस्थित्या कार्यम् ॥ ८ ॥
(पगे ३८१)
ननु एवं विकल्प्यमान एव अर्थो बन्धक इति उक्तम्, तच्च अयुक्तम्, ।
विकल्प्यत्वे यावान् यथा वा, अविकल्पत्वेऽपि तावानेवहि सोऽर्थः । तत् को विशेषः प्रमेयस्य पतिपशुप्रमातृतायाम् । अयमिति हि
तस्यासाधारणी सृष्टिरीशसृष्ट्युजीविनी । सैषाप्यज्ञतया सत्यैवेशशक्त्या तदात्मनः ॥ ९ ॥ स्वविश्रान्त्युपरोधाय चलया प्राणरूपया । विकल्पक्रियया तत्तद्वर्णवैचित्र्यरूपया ॥ १० ॥
तस्य इति पशुकर्तृका सृष्टिरीशसृष्टिपृष्ठपातिनीत्वेन तदुपजी- विनी सती असाधारणी प्रतिप्रमातृ प्रतिकालं च प्रमात्रन्तरदशान्त- राद्यनुवर्तनविहीना । तथाहि इदं हृद्यमिति येन यदा सृष्टं, तत् तस्यैव तदैव । ननु पशोः स्रष्टृत्वं चेत्, ईश्वर एव तर्हि असाविति तत्सृष्टेः किं न साधारणता स्यात् । यदि स्वशक्तिः सा अस्य विदिता स्यात्, किन्तु तस्य अज्ञाता परवशस्य एव सतो विकल्पनशक्तिरुदेति । केन सा अस्य प्रबोध्यते इति चेत्, ईशत्वेन एव । तदपरिज्ञानपरिज्ञानमात्रतो हि बद्धमुक्तता । तथाहि ईश्वरस्य विश्वपरामर्शविग्रहत्वेन शब्दरा- शिशरीरस्य या मायाख्या शक्तिर्निजस्वभावविश्रमणात्मकपारमै- श्वर्योपरोधप्रयोजना तत्तद्ब्राह्म्यादिदेवताचक्राधिष्ठितवर्गाष्ट- कमयी, तत एव ककारादिवर्णगतव्याससमासवैचित्र्यशतसहस्रगर्- भतया अष्टाष्टकभेदसहस्रवैचित्र्यविचित्रा, तत एव प्राणापानादि- प्रेङ्खारोहणचञ्चला क्षणमपि एकत्र रूढिमनासादयन्ती, मित्रमिदं शत्रुरयमित्येवमादिकं विकल्पनं यया क्रियते; तदात्मन ईश्वरस्वभावस्य एव पशोरसाधारणी सृष्टिर्दशरदनो दन्तीत्यपि पृथगाभासानीश्वरसृष्टानेव उपजीवति,-इति सूत्रार्थः । तं तात्पर्यत आह एष च इत्यादिना ।
(पगे ३८२)
यतः इति ऐश्वर्या एव शक्तेरुत्थित इति यावत् । यथाच इति तथापरिज्ञान- मात्रेणेतिभावः । निरूपादानानेव सृजति इति महावाक्येन सर्वः सूत्रार्थः सङ्क्षेपेण व्याख्यातः । तत्तत् इत्यादिना संस्कृत इत्यन्तेन समासपदेन ईशसृष्ट्युपजीविनी इति व्याख्यातम् । ननु नियतदेशकाला एव स्वतन्त्रविकल्पेऽपि आभासन्तेऽर्थाः, तत् कथं वृत्तौ सामान्यरूपान् इति उक्तम् । एतत् परिहरति सामान्यरूपत्वेन इति स्मृतिविषयो विकल्प्यमानोऽपि न स्वोत्थापितदेशकालयोगी, किन्तु निरूढदेशकालयोगी एवेति स्वलक्षणात्मा तेन स्वसृष्टदेशकालाभासमेलना एव अर्थाः स्वातन्त्र्यविकल्पशक्तौ, नतु निरूढावेषां कौचन देशकालाभासावित्येतत् तात्पर्यम् ।
सामान्यरूपान् इतिवृत्तिग्रन्थस्य पुनरपि उपलभ्यते केवलम् इत्यत्रैव च्छेदः । तत्र द्वितीय उपलम्भः पुनरुपलम्भः इतिभ्रमं भिनत्ति पूर्वानुभव इत्यादिना स्फुरति इत्यन्तेन । पूर्वक एव उपलम्भः पुनरुन्मीलनामात्रमस्तीति यावत् । केवलम् इति यदुक्तं तदेव स्पष्टयति ननु इत्यादिना । ननु मुमूर्षमाण एव स्मरति, तत् कथमुक्तम् अप्रभविष्णुत्वात् इति । अत्र आह अन्यूनाधिकभावेन इति यथा दिदृक्षमाणेऽपि पश्यतिना अर्थांशे तदिच्छा प्रभवति, तथा अत्रापीति भावः । ननु पूर्वमसौ स्फुटः, अधुनातु न तथेति कमनूनाधिकता । अत्रापि आह अस्फुटत्वम् इति ।
तात्कालिकेन्द्रियव्यापारविषयीकार्यतायां स्फुटत्वव्यवहारो लोकस्य, स च अत्र नास्तीति यावत् । ननु एवं पशोरनुभवगोचरे न अस्त्येव सर्गशक्तिः । न न अस्ति; सभित्तिस्तु सा निर्भित्तेर्विलक्षणेति आह अनुभूयमान इति । रागादिविषयत्वं हृद्याभासादिरूपं क्षेत्रज्ञनिर्मितिरेवेति
(पगे ३८३)
सम्बन्धः । अत्र हेतुः स्वच्छ इत्यादि । प्रतिप्रमातृ इति असाधारणत्व- मुक्तम् । यः पुनर्थोऽवभासते, स क्षेत्रज्ञसृष्टिरेव । अथ तथात्व- शङ्काबीजमाह पूर्व इत्यादिना । हृद्यता हि न बहीरूपं किञ्चिदनु- भूतम् । इहतु कूपजलाभासतन्त्र्याभासाद्यनुभूतमेवेति क्व अंशे पशुरभिषिच्यते स्रष्टृतयेति शङ्काबीजम् । ननु एतदेव अस्तु, सृष्टिस्तु तस्य सा कुतः । आह तत्कूप इत्यादि । मोक्ष इत्यन्तेन प्रथमश्लोकव्या- ख्यानेन पशुं प्रति इति अपुनरुक्तता । मायाशक्तावेव अस्यां मलत्रयं संसारमन्तर्भावयन्
सेयं क्रियात्मिका शक्तिः शिवस्य पशुवर्तिनी ।
बन्धयित्री————————————————। (स्प। का। ३।१६)
इत्याम्नायमनुसरति निषेधमात्र इत्यादिना । तुच्छताभासोपक्रमो वैपरीत्याभासो नञर्थः । वैपरीत्यज्ञाने क्रियायां चेति त्र्यंशा इयं माया मलत्रयेण प्रसरतीति तात्पर्यम् । अनुपपन्नम् इति स्फुटयति भिन्नं परिमितं च इति । ज्ञेयं प्रकाश्यं कार्यं च विमृश्यं, तच्च प्रकाशविमर्शरूपात् संवेदनात् देशाद्यपरिमितादव्यतिरिक्तं सदभिन्नमपरिमितं च उपपन्नं, तद्विपरीताभासमनुपपन्नम् ।
आभासयन्त्याः इति ज्ञेयीकुर्वत्याः । कार्यं च कुर्वत्याः इति विमर्शनीयीकुर्वत्या इत्यर्थः । क्रियाभास एव विततात्मनि कार्ममलस्थितिरित्याह कार्यकारण इत्यादिना । ककारादि इति ।
स्फुटास्फुटाव्यक्तभावेन वैखर्यादिवैचित्र्येण च विचित्रताभाजां समस्तव्यस्तविपर्ययभेदेन विकल्पाभिव्यञ्जनव्याप्रियमाणत्वेन व्यञ्जनसञ्ज्ञानां वर्गदेवताभिः सृष्टिस्थित्यादिवैचित्र्यनिर्भास- नशक्तियोगेन ब्रह्मविष्णुरुद्रप्रभृत्यनन्तप्रमातृवर्गतत्कार्यराशि- तद्भोगविभवसमधिष्ठानकारितादिना
(पगे ३८४)
च प्रतिलब्धतत्तदागमप्रसिद्धानन्तनामधेयाभिरुत्थाप्यमान- स्थाप्यमाननिरुध्यमानयोज्यमानवियोज्यमानादिरूपाणां परमेश्वररूपानुप्राणकबीजभूतशब्दनात्मना अन्तःसुखादि- परामर्शपीडनेन समस्ताक्षेपकत्वेन च अकारादिभिः स्वयं राजत्तया स्वरस्वरूपैरनुप्राणितानां ककारादिवर्णानां वैचित्र्यं यतो गणनातीतम्, अतस्तासामपि अनन्तत्वं दर्शितम् आग- मेषु । स्वोपलभ्यान् इति चित्तवृत्तिभेदमयान् इति च ।
प्रतिपुरुषमयन्तः इति असाधारणत्वमुक्तमान्तरप्रतीतिमात्रसा- रत्वं च । क्षणमात्र इति प्रतिक्षणं यन्तीति चञ्चलत्वं प्रकारान्तरेण अपि उक्तम् । तत एव आगमेषु वर्णेषु कालभेदो ह्रस्वमितिवदुक्तः । कालोत्तरसंविदन्तःप्रत्ययसञ्ज्ञान् इति । आगमे हि तत्त्वभूतभुवनपृष्ठपाती भावसर्गः प्रत्ययसर्ग उक्तः । तत्र च शब्दराशिभागवर्णदेवताधिष्ठानमुक्तं
स्वरूपावरणे चास्य शक्तयः सततोत्थिताः ।
यतः शब्दानुवेधेन न विना प्रत्ययोद्भवः ॥ (स्प। ३।१५)
इति । श्रीमायावैभवागमे
एकैव मामिका माया स्थिताष्टाष्टकभेदिनी ।
इत्यादि । श्रीसर्ववीरेऽपि
न तैर्विना भवेच्छब्दो नार्थो नापि चितेः—–।
इति । कादि इति तैर्वर्णैरधिष्ठेयैस्तासामनन्ता गणना । ताश्च ईश्वरशक्तेरेव विजृम्भाभूताः । यथोक्तं
तं शक्तिचक्रविभवप्रभवं शङ्करं नुमः । (स्प। १।१)
इति । तथा इति वर्णभेदशतानन्तगणना इति वृत्तिगतेन बहुब्रीहिणेत्यर्थः । स इति क्षेत्रज्ञः । कुम्भकृत् इति कुम्भनिर्मितिमयः । स इति तथाप्रत्ययसर्गः कुम्भ इव
(पगे ३८५)
कुम्भकारनिर्मितताभासशरीरः । परमेश्वरैकनिर्मितत्वेऽपिहि स्वप्नसङ्कल्पादिवदिदमवभासवैचित्र्यमिति अवोचाम बहुशः ।
उभयम् इति । यत उत्थितोऽयं भेदप्रतिभासो, यथाच भन्धरूपतां धत्ते इति यदवतारणिकायामुक्तं, तदनेन निर्णीतम् । ईश्वरशक्तेरेव मायात्वं प्राप्ताया उत्थितः स्वरूपावरणकारिणीभिश्च वर्णदेवताभिर्विकल्परूपतां यतो नीतः, ततो बन्धरूपतां धत्तेऽयं भेदप्रतिभास इति । वक्ष्यमाण इति अनन्तरसूत्र एव । उपरि तदुपजीवित्वेन सभित्तिकत्वमुक्तम् । ननु दूरादेव झटिति दृश्यमाने यदयं रज्यति विरज्यति वा, तत्र अस्य रागद्वेषात्मिका सृष्टिः स्वयङ्कृता अपि पारतन्त्र्यादेव उत्पन्ना अनिच्छोरेव कामक्रोधभय- त्रासाद्युदयात् । ततस्तत्र स्वरूपापरिज्ञानं बन्धकारणत्वेन वर्णाधिष्ठातृविमोहकशक्तिचक्रोत्थापितमस्तु, यत्र तु एष राजाहं वर्ते, शत्रुर्मयायं हतः इति मनोराज्यादौ स्वेच्छाप्रयत्नवशादेव रागद्वेषादिप्रयुक्तात् वाहनमात्मनो निर्दलनकारिणं शत्रोर्दन्तिनमन्तर्निर्मिमीते, तत्र स्फुटमेव स्वातन्त्र्यमस्येति तत्र स्वरूपावरणाभावात् कथं बन्धरूपतेति स्वयमाशङ्क्य अपाकरोति यापि वा इति । वाशब्दः समुच्चये । रागद्वेषादिग्रहणं पूर्वपक्षे स्वातन्त्र्यस्य प्रयोजकमिति उद्दीपकमभिमतं परस्य तदेव तु प्रतिसमाधानावकाशकारणमिति दर्शयति बलात् इत्यादिना वाक्येन । यतोऽसौ क्षेत्रज्ञो बलादाक्रम्य अनिच्छुरिव रागादिपरीतो विकल्पप्रत्ययैः ककारादिवर्णविग्रहाभिर्मोहनीभिः शक्तिभिरुल्लासितैः क्रियते, तथाकृतश्च तां सृष्टिं देवताधिष्ठितैस्तैर्बलादाक्रम्य कार्यते मनोराज्योदयेऽपि अस्य पारतन्त्र्यात् सौमनस्याधायकमनोरथोत्थापनेच्छायामपि भयदौर्मनस्यादिनिदानभूतानां मनोराज्यान्तराणाभोजःक्षयादावुदयात् । ततः स्वाधीनतया प्रमुखे
(पगे ३८६)
भासमाना अपि सा सृष्टिः पराधीना एवेति सम्बन्धः । एतदेव द्रढयति क्षेत्रज्ञताया एव इति । उन्मीलितस्वातन्त्र्यो हि असौ क्षेत्रज्ञ एव न भवति, अपितु भगवानेवेति । विकल्पाख्यव्यापार इतिवृत्त्या सूत्रे विकल्पक्रियया इति बहुब्रीहिरयं शक्तिं विशिनष्टि,-इत्याह ॥ १० ॥
यदि पाशवी बन्धरूपा, पारमेश्वरी तर्हि सृष्टिः किमित्याशङ्कायां सूत्रं
साधारणोऽन्यथा चैशः सर्गः स्पष्टावभासनात् । विकल्पहानेनैकाग्र्यात् क्रमेणेश्वरतापदम् ॥ ११ ॥
ऐश्वरस्य सर्गस्य स्पष्टावभासत्वम्, अत एव अविकल्प्यतेति रूपम् । सच घटादिः साधारणः सन् चकारादसाधारणो वा द्विचन्द्रप्र- मुखादिः, उभयोऽपि पाशवसृष्टेरन्यथाभूतः; किञ्च साधारणो वा अन्यथा चेति असाधारणः । सोऽयं सर्गो यदा विकल्पहानक्रमेण अविकल्पकपरिगृहीतस्पष्टवस्तुविषयैकाग्रतावलम्बनेन अहमिदमिति ऐश्वर्यपरामर्शपदत्वमेति, तदा अन्तर्लक्ष्यबहिर्दृष्टिनिमेषोन्मेष- परिहारदृशा क्रमादभ्यासतारतम्यपर्यन्ते पशोः पशुत्वं हन्ति, ईश्वरतां च दर्शयति । यथोक्तं
कैवल्यं जायते सद्यो नेत्रयोः स्तब्धमात्रयोः । (वि। भै। ११३)
इति । किञ्च पाशवोऽपि सर्गो अन्यथेति परिज्ञातया ईशशक्त्या परिज्ञात- तादात्म्यस्य यदि स्पष्टावभासो भवति, तदा सोऽपि साधारण एव भवन्नीश्वरतामस्य ददाति आप्यायनाभिचरणादिविकल्प इव न्यस्तमन्त्रस्य भावितान्तःकरणस्य । सोऽपि च ऐश्वर एव सदा सर्ग इत्याशयेन विवृतौ वृत्तौ च न व्याख्यान्तरमेतदाश्रितम्, अस्माभिस्तु अभीष्टं स्पष्टतरमेव अभिधेयमित्येवं विभक्तम् ।
(पगे ३८७)
सूत्रार्थमवतारयति एवम् इत्यादिना । इति च इति वक्तुमिति सम्बन्धः ।
ऐश्वरः सर्गो यतः साधारणः, तस्मात् पाशवात् सर्गादन्यथाभू- तः; चकारात् योऽपि असाधारणः, सोऽपि द्विचन्द्रादिसर्गस्तस्मादन्य- थाभूतोऽतिस्पष्टाभासत्वेन अविकल्प्यतया,-इत्येवं सूत्रं विवृणोति ऐश्वर इत्यादिना अन्यथात्वमेव इत्यन्तेन । सर्गस्य प्रमातृसाधारण्यादिचिन्ता क्व उपयुज्यते इति चेत् प्रमातृसाहित्येन प्रमेयस्य सृष्टिर्न अन्यथा भेदावभासभाजनं विना तदनुपपत्तेरिति दर्शयति सह इत्यादिना । उक्त्या इति वृत्तिगतया । एतावता इति वृत्तिग्रन्थेन । अत एव इति यत एकप्रमातृगतत्वमपि ऐश्वरसर्गस्य, ततोऽत्र सूत्रे साधारणोऽन्यथा च इति साधारणासाधारणपदे द्विधा ऐश्वरः सर्ग इत्यपि सूत्रार्थो वाच्य इत्यर्थः । ननु यदि स्पष्टास्पष्टावभासतया ऐशपाशवसर्गभेदः, सा तर्हि स्वप्नेऽपि अस्ति । सत्यं, तत एवहि सर्वत्र अपि उभयी स्थितैव सृष्टिः । तदाह स्वप्नेऽपि इति । तत्र इति । स्वप्नेऽपि हि सङ्कल्पनादि संवेद्यते एव ।
स्पर्शरसादि इति । आदिग्रहणात् गन्धरूपशब्दविशेषा अपि केचिदसाधारणा एव । अत एव
————दृश्यं श्रव्यं च यद्भवेत् ।
इति सकलप्रमातृसाधारण्यं न अपि अस्य मुनिना दर्शितम् । सा च अहमिदमित्येतावत् इति वृत्त्येकदेशः पठितः । तदवभासस्य इति ।
मायीयस्य क्षेत्रज्ञस्य योऽवभासः, स यतः प्रतियोगिना अपोह्यमानेन सहितः; ततः प्रागुक्तमत्र विकल्पलक्षणं
——————स ह्युक्तो द्वयाक्षेपी विनिश्चयः । (१।६।१)
इति सम्भवति । इयं च भेदोदयसहिता स्पष्टावभासिता सर्वप्राणिसाधारण्येन
(पगे ३८८)
पशोरनिच्छत एव सतो भवति । नच रागादिवदभ्यासापेक्षिणीति ब्रह्मणा अधिष्ठिता उच्यते । एवम् इति । भेदानुदयात् इति । अनेन ऐश्व- रस्य सर्गस्य पाशवात् सर्गात् वैलक्षण्यं दर्शितम् । यत एवं, तदिति तस्मादीश्वरसृष्टिर्न बन्धहेतुः, अपितु तत्पृष्ठे या पाशवी; सा अपि न ब्रह्माधिठिता भेदोदयमात्रसारा मायीयाणवमलमात्रोल्लास- रूपा, अपितु कार्ममलाप्यायिका प्रत्ययसृष्टिरेव परामृतरसः स्ववि- श्रान्त्यानन्दघनता, ततोऽयमेव अपायोः यः प्रत्ययसृष्टेरुद्भवो यतस्तेन अयं क्षेत्रज्ञतामस्वातन्त्र्यं प्रतिपद्यते । स च प्रत्ययोद्- भवः परमेश्वरसृष्टशब्दादिविषयपृष्ठ एव रागद्वेषाद्यात्मा उदेतीति । यदुक्तं
तेनास्वतन्त्रतामेति स च तन्मात्रगोचरः । (स्प। का। ३।१४)
इति । एवं श्लोकार्धं व्याख्यातम् । अथ विकल्पहानेन इत्यादि यत् सूत्रं, तद्वृत्तिं तत्रान्तर इत्यादिकां व्याख्यातुमुपक्रमते तस्याश्च इति प्रत्ययसृष्टेर्यावदेव तानवापत्तिः । तत्र हेतुः विकल्प इत्यादिः । कस्मात् तथाभ्यास इति चेत्, आह बन्ध इत्यादि । इहैव इति सति अपि देहाहम्भावापरित्यागे । यदाह भट्टदिवाकरवत्सः
जाते देहप्रत्ययद्वीपभङ्गे प्राप्तैकध्ये निर्मले बोधसिन्धौ ।
अव्यावर्त्यैवेन्द्रियग्राममन्तर्विश्वात्मा त्वं नित्यमेकोऽवभासि ॥
इति । अनेन सर्वेन्द्रियसाक्षात्कारकक्ष्यायामेव देहाद्युचितप्रत्ययसर्ग- प्रक्षये घटाद्याभासमात्रे सर्वप्रमातृसङ्कुचितनित्यसंवेदना- वशेषत्वमबाह्यतासारमद्भुतत्वेन उक्तम् । यद्यपि इति । सहभावे च अन्तरान्तरा इति युक्तमिति भावः । तथापि इति न अत्र विकल्पसृष्टेरन्त- रान्तरा सम्भव उक्तः, किन्तु तन्निर्ह्रासस्य । मध्ये च विकल्पस्य निर्ह्रासो दृष्टः
(पगे ३८९)
संहृत्य सर्वतश्चिन्तां—————————।
इति
विकल्पयन्नप्येकार्थं यतोऽन्यदपि पश्यति । (पा। वा। ३।२०७)
इत्यादिदशासु । तमेवच विकल्पनिर्ह्रासं यदि परिशीलयति, तदा अनवरत- निर्विकल्पकसंवेदनरत्नमालाभूषितहृदयः परमेश्वरपदमावि- शतीति एवं सूत्रवृत्ती व्याख्याय, न अत्र दुर्लभतया अवसादः कर्तव्यः इति दर्शयन् कारुणिक आचार्यः संसारिणामपि एषा भूर्न न गोचरः केवलं तामेव उपदेशावधानाभ्यासनिःश्रेणिक्रमेण आरोहयेदिति उत्साहयन् पूर्वोक्तं प्रमेयमेकीकरोति संसारिणाम् इत्यादिना । इह च तत्त्वार्थसङ्ग्रहप्रकरणे पूर्वोक्तानि प्रमेयरत्नानि यदवान्तरायातप्रमेयान्तरेभ्यः प्रोच्चित्य दर्श्यन्ते सारत्वेन हृदयगञ्जे निवेशनया परमेश्वरतासिद्धये, तत् भूषणमेव; नतु पुनरुक्ताशङ्क्या दूषणमिति भ्रम्यम् । तत्र भागनिर्विकल्पकममुनैव निर्णीतं भवेदित्याशयेन सर्वं निर्विकल्पसंवेदनमीश्वरभूरिति दर्शयितुमाह सामान्य इति ।
सामान्यकरणरूपे ये विद्याकलाशक्ती, तयोर्विजृम्भारूपत्वेन सम्बन्धीनि यानि अन्तर्बहिष्करणानि, तेषु ये शब्दावभासनचिन्तननिर्माणादय आकारविशेषास्तैरभिव्यक्तो यथायोगं ज्ञानक्रियाशक्तिलेशोऽपूर्णत्वेन येषामिति शब्दयोजनामात्रं कृतं प्रमेयस्य वितत्य निर्णीतत्वात्
घटोऽयमित्यध्यवसा—————————। (१।५।२०)
इत्येतत्सूत्रटीकावसाने, आदिसिद्धसूत्रे, अन्यत्र च । एवं निर्विकल्पे वृत्तान्तमुक्त्वा अनेकदर्शिन एकविकल्पनेऽपि अयमेव वृत्तान्त इत्याह अनेक इत्यादि । एतदेव प्रमेयद्वयं घटयितुं प्रथमं तावत् प्रमेयं घटयति यतः इत्यादिना एव इत्यन्तेन प्रकृत एतत् योजयति ततः इत्यादिना घटादिगतापि इत्यन्तेन ।
(पगे ३९०)
अत्र च अहमिदमिति प्रतीतिरिति पूर्वेण सम्बन्धः । फलमस्य प्रमेयस्य आह तावति इति । ननु एवं संसारिता कथमित्याशङ्क्य मलत्रयमेव निरूपयन्नेतद्दशानुशीलनमेव मलनिवारणकारणं सत् मोक्षमाक्षिपतीत्यादिना? केवलम् इत्यादिना भक्तजन इत्यन्तेन ।
कथ्यन्ते इति । इयति न किञ्चित् संवेदनमुदितं सहजस्य आवृतत्वात् कृतकस्य निर्जितत्वात् । उक्तम् इति आदिसिद्धसूत्रे । तत् इति प्रकाशाप्रकाशात्मकं सत्तानन्दसूत्रे (४।१।६) यत् रजः उक्तम् । तदा इति मायीयमातृमेयाभिव्यक्तौ । एतद्दशानुशीलनं च मोक्षहेतुरित्याह ततः इति । तन्मलद्वयव्यपगम एव मायोर्ध्वलाभ इति इति संसाराभावात् कैवल्यरूपा मुक्तिर्जाता ।
यदितु आणवमलविदलनमनवलिप्ततया कुर्यात्, शिवतावेशमपि लभत इत्याह तत्रापि इति भक्तजनः इति यो भगवच्छक्तिपातात् तथाभूतद्रढीयस्तमवासनातिरस्कारकसांसारिकवासनो, नतु तिरस्करणीयस्वविभवो, न भवति; तेन एतददुर्लभमेवेति भावः । इयत् च सर्वं स्वप्रकाशमेवेत्याह सर्वं च इत्यादि । तम् इति सहजमिदन्तावमर्शम् । ननु यदि इयम् इति विमर्शस्तत् निर्विकल्पकता कुतः । अत्र आह नच इति इहच अहन्ताच्छादनात् न प्रतियोग्याभास इति आशयः । आन्तर इति यतः सन्तमसेऽपि देहाभिमानः । सर्व एव इति दर्पणप्रतिबिम्बवत् शरीरस्पर्शादि बाह्यघटादि वा तदा भातीत्यर्थः । एतत् इति आन्तरस्पर्शादिप्रभृति घटाद्यन्तं यत् प्रकाशनं, तत् ग्राह्यग्राहकयोर्भेदेन विना न उपपद्यते इति यत् शङ्क्यते, तत् न । अत्र हेतुं स्मारयति यतः इत्यादिना । ननु एवं किं शास्त्रोपदेशादिप्रयासेन । अत्र आह एवञ्च इति स्वप्रकाशेऽपि विकल्पमोहेन तिरोहिते । ननु प्रकाशादभेदे नीलादिरूपता कुतः ।
(पगे ३९१)
आह चित्तत्त्वस्यापिच इति स्वतः इति संवेदनसन्निधौ नीलादि भासते इतिहि दर्शनेनान्तरविप्रलम्भाभावे भाति एव । प्रवादः इति मायीय- लोकशास्त्रकल्पितः । ननु यत् नीलादि भासते, यत् वा अवधानातिशयवता योगिना अधिकमपि भास्यते; तावदाभासनरूपत्वं संवित्तत्त्वस्य अस्तु संवेदनसिद्धम्, विश्वावभासनरूपत्वं तु परमेश्वररू- पत्वं कुतः, अधिकाधिकसंवेदनदर्शनात् तथाभावेऽपि योग्यता अस्येति चेत्, सा तर्हि कुतः प्रमाणात् । स्वप्रकाशत्वेन प्रत्यक्षादेवेति दर्शयति । विश्वाभेदावभासरूपपारमेश्वर्येऽपि या योग्यता, न केवलं स्वरूपामात्रं यावत्, सा अपि स्वतःसिद्धैव । कथम् । आह उक्तनीत्या यत् चित्स्वभावस्य पर्यालोचनमनवरतं
————–प्रयत्नेन परीक्ष्यं तत्त्वम्———-। (स्प। का। १।७)
इतिनयेन परिशीलनं, तेन संस्कृतोऽधिवासित आशयो विकल्पो यस्येति ।
ननु योग्यता कार्यतः कल्प्या, न प्रत्यक्षसिद्धेत्याशङ्क्य बोधस्य तद्विषये स्वभावहेतुं वदतः सा प्रत्यक्षसिद्धैव सर्वः स्वभावहेतुर्व्यवहारमात्रसाधनफलः इति निर्णीतत्वादिति दृष्टान्तोपक्रमं निरूपयति अग्नीन्धनादि इति कालपरिवासापेक्षनपेक्षाविशेषणः कार्योदयादुभयोपादानम् ।
आदिग्रहणात् वैकल्यम् । ननु कारणता नाम शक्तिरूपो धर्म इति परोक्षैव सा । नेत्याह कार्य इत्यादिना दर्शनम् इत्यन्तेन । तदत्र पूर्णकारणत्वे प्रत्यक्षतया निरूप्ये सम्भावनीयकारणत्वे दृष्टान्तीकरोति यथा इति यदिहि अग्नेर्धूमं प्रति न सम्भावयते कारणतां धूमार्थी, तस्मिन् दृष्टेऽपि लोष्ट इव न सहकारिणः सम्बिभृयात् । एतत् दार्ष्टान्तिके योजयति तथा इति । यथाहि पूर्णता पत्यक्षीकृता तदधिकसम्भरणप्रयत्नादर्शनात्, तथा पूर्णकारणता अपीति
(पगे ३९२)
यावत् । ननु न अग्नेः स्वरूपमात्रदर्शनं कारणतादर्शनम्, अपितु अग्नेः पश्चात् नियमेन धूम इत्येवं दर्शनीयं तत्कारणत्वदर्शनम् । एतदपि अस्तु, तथापि अग्नेरेव तत् तथादर्शनं जातं येन कालान्तरे धूममपश्यतो धूमार्थिनो वह्निसम्भरणम् । एतदाह कार्य इत्यादि । इत्यपि यदुच्यते, तत् युज्यते यतस्तेन उक्तेन तत् न उल्लङ्घितं भवति यदस्माभिरुक्तं-कारणताविषयं प्रत्यक्षसिद्धत्वम् । कथमेतत् न उल्लङ्घितम् । आह तथा इति अग्न्यनन्तरं धूमज्ञानमित्येवंसंस्कृतस्य पुरुषस्य अग्निमात्रनिष्ठस्तथावभासः कारणतावभासोऽस्ति यथा धूमपश्चाद्भावावलोकने साहित्यम् । अत्र निश्चयापेक्षानियतपौर्वापर्यतैव प्रत्यक्षानुपलम्भगोचरीकार्या मन्तव्या । एवं दृष्टान्तं विचार्य प्रकृते योजयति एवम् इति । सा च इयं सर्वार्थावभासनयोग्यता नाम ईश्वरत्वात् प्रभृति शिवतापत्तिपर्यन्ता सती अपि ज्ञानियोगिदीक्षितानां निवृत्तमलत्वेऽपि मलसंस्कारस्य सद्भावादनभिव्यक्ता तस्य प्रक्षयेऽभिव्यज्यते यतो देहक्षये मुक्तः । मलसंस्कारस्य वा देहाद्यावरणरूपस्य सत एव अभ्यासेन शिवतामावेशयति यदा, तदातु न पूर्णा सा शिवता ईश्वरता वा अभिव्यक्ता भवति । देहादिसंस्कार एवहि तथा विलुप्येत, तत एव सा न परा सिद्धिः, अपितु अपरा, परापरा वेति । इह अपि पूर्वमुक्तं कञ्चित् विभूतिभागम् इति । एवं निर्विकल्पकरूपमवभासनं चिद्रूपस्य ज्ञानशक्त्यात्मकं स्वसंवेदनसिद्धमैश्वर्यं समर्थ्य क्रियाशक्त्यात्मकमपि समर्थयते भेदपरामर्शोऽपि इत्यादिना । पूर्वं च यद्यपि स्वप्रकाशे प्रमाणव्यवहारो यत्नेन अपसारित आदिसिद्धसूत्रे प्रमात्रेकवपुषः इति, तथापि सिद्धे वस्तुतत्त्वे स्वप्रकाशतैव यदि एताभिर्वाचोयुक्तिभिरुच्यते ज्ञानमाला इव आत्मशब्देन शाक्यैः, तत् वस्तुनि
(पगे ३९३)
का क्षतिरित्याशयेन सर्वजनाश्वासस्थानभूतप्रत्यक्षादिवाचोयुक्- त्या व्यवहारोऽपि अदुष्ट एव । आदिपदेन आगमादिः ।
एवमदूरतोपपादनेन अस्य
————————अन्तिकं च तत् । (भ। गी। १३।१५)
इति स्मारणेन शिष्यान् प्रोत्साह्य प्रकृतं सूत्रार्थं निगमयति तदेवम् इत्यादिना ॥ ११ ॥
एवं विकल्पनं तनूकृत्य निर्विकल्पकसात्मीभावेन विश्वात्म- साक्षात्कारलक्षणः स्वप्रत्यय एव स्वप्रकाशत्वेन मोक्षो दर्शितः, विकल्पनिर्ह्रासाभावे तु यथा स, तथा दर्शयति सूत्रेण
सर्वो ममायं विभव इत्येवं परिजानतः । विश्वात्मनो विकल्पानां प्रसरेऽपि महेशता ॥ १२ ॥
न प्रत्यगात्मा नाम कश्चिदन्योऽहं, किन्तु ग्राह्यग्राहकप्र- काशघनः परमेश्वरो यः, स एव अहम्; सच अहमेव, न अन्यः कश्चित् ।
ततो विकल्पसृष्टिरपि मम स्वातन्त्र्यात्मा विभवः,-इत्येवंविमर्शे दृढीभूते विकल्पा अपि अस्य महाविमर्शपतिता अविकल्पीभवन्ति । यथा उक्तं श्रीपारदर्शने
शङ्कापि न विशङ्क्येत निःशङ्कत्वमिदं स्फुटम् ।
इति । केवलम् इत्यादिना बन्धात्मकमपरिज्ञानं प्रदर्श्य इतरत् दर्शयति परिज्ञानं तु इति । स्वावरणरूपो विभवः क्व दृष्ट इत्याशङ्कां
यथा नृपः सार्वभौमः प्रभावामोदभावितः । क्रीडन् करोति पादातधर्मांस्तद्धर्मयोगतः ॥
तथा प्रभुः प्रमोदात्मा—————————। (शि। दृ। १।३८)
इति शिवदृष्ट्याशयेन दृष्टान्तान्तरेण शमयति यथावा इति प्रकृतित्वमपि प्राप्तान् विकारानाकरोति सः ।
(पगे ३९४)
स एव ब्रह्मलक्षणः स्वस्वभावो विकारान् स्वं स्वं रूपं विकिरतः खण्डयतो विकल्पादिरूपानाकरोति स्वशक्तिविक्षोभात्मकान् प्रकटयति ।
ते च विकाराः प्रकृतित्वं विश्वव्यवहारबीजत्वं प्राप्ता यथा ऋतून् धत्ते इति ऋतुधामा आदित्यो धर्मान्ते कुलीरमृगराजराशियुगभोगात्- मके सञ्चारविशेषे प्रावृडिति प्रसिद्धे स्वस्वविभवभूतानन्तःसौ- षुम्ननाडिकतादात्म्यप्रतिपन्नपूर्वप्रसरणप्रारम्भयोगिविश्वरस- प्रचयरूपान् स्वरूपस्य भास्वरस्य विकीर्णतामावृत्तिं च निर्भास- यतो महतो विश्वौषधीफलादिरसप्रकृतिभूतान् मेघसम्प्लवानाक- रोति,-इति भर्तृहरिपठितागमग्रन्थसंवादो दर्शितः । प्रत्यापद्यन्ते इति स्वरूपमेषां विमर्शमात्ररूपं, तदेवच पुनरापतितं मायाप्रमात्रुत्थापितविशेषावभासभङ्गादिति प्रत्यापत्तिरियमुच्यते । महेश्वरतैव इति वृत्तिं विवृणोति प्रत्यभिज्ञा इत्यादिना ॥ १२ ॥
ननु एवं बद्धमुक्तयोः प्रमेयं प्रति को भेद इत्याशङ्कायां सूत्रं
मेयं साधारणं मुक्तः स्वात्माभेदेन मन्यते । महेश्वरो यथा बद्धः पुनरत्यन्तभेदवत् ॥ १३ ॥
श्रीमत्सादाख्यपदात् प्रभृति आक्रिमि यो मातृवर्गस्तदधिष्ठा- तृयदहमितिरूपं, तदेव आत्मतया मुक्तोऽभिनिविशते । ततश्च विश्वस्य यत् प्रमेयं, तत् मम अपि; यत् मम, तदन्यस्य अपि । मेयं च इदं ममैव अङ्गभूतं, मेयान्तरपि तथा,-इत्येवं मेयं परस्परतो मातृवर्गात् च अव्यावृत्तमिति एकरसाभेदविश्रान्तितत्त्वमस्य सर्वं परामर्शपदमभ्येति । यत् निरूपितं शिवदृष्टौ
घटो मदात्मना वेत्ति वेद्म्यहं च घटात्मना ।
सदाशिवात्मना वेद्मि स वा वेत्ति मदात्मना ॥ (५।१०६)
अत्राकारे न यन्मेऽस्ति तदाकारान्तरेऽस्ति मे । (७।९१)
(पगे ३९५)
अत्राकारे न मे पूजा साच सादाशिवात्मनि ॥ (७।९३)
इत्यादि । बद्धस्य तु सर्वमेतत् विपर्ययेणेति एकघनभेदविश्रान्त एव स इति सूत्रार्थः । तुल्यम् इति क्रियाविशेषणम् । तस्य अर्थः साहित्येन अविशेषेण च इति । तदिति वैलक्षण्येन आह । ग्राहकोऽपि भेदैकरस एव भाति, न केवलं ग्राह्यमित्येनं भेदस्य अतिशयं विवृत्य ग्राह्यगतस्य एव भेदस्य प्ररूढलक्षणमतिशयं पक्षान्तरपरिग्रहदिशा विवृणोति अथवा इति । तथापि इति आस्तां तावदभेदः परमः, परापररूपतया अपि स न अस्तीत्यर्थः ।
तथात्वस्य इति यथायोगं बद्धमुक्तभेदेन परिज्ञानापरिज्ञाने योज्ये, नतु यथाक्रमम् ॥ १३ ॥
ननु सदाशिवेशभूमौ जीवन्मुक्तिपदे पशुप्रमातृगोचरे च प्रमेयवृत्तान्तः परीक्षितः, परमशिवे तु कथमसौ; विकल्पाविकल्प- भुवि च योगिनः प्रोन्मीलितकरणस्य उक्तः प्रमेयक्रमः, निमीलितसकल- करणस्य तु कीदृगसौः; न कश्चिदेव तत्र असाविति सूत्रेण आह
सर्वथा त्वन्तरालीनानन्ततत्त्वौघनिर्भरः । शिवाश्चिदानन्दघनः परमाक्षरविग्रहः ॥ १४ ॥
सर्वथापदस्य व्यवच्छेद्यं विवृणोति सर्वम् इत्यादिना ।
अवभास एव इति प्ररूढिं न प्राप्त इति तु अन्यदेतदिति आकूतम् । निर्भर- पदं विवृण्वानः परत्वमत्र अन्वर्थेन दर्शयति अहम्प्रतीतिरेव पूर्यते इति शूद्धत्वं स्फुटयति स्वाङ्गभूतेऽपि इति । दूरापेता तावत् भिन्नप्रमेयाकाङ्क्षा, दैन्ययोगिनी प्रमातृतेति अपिः ।
चिदानन्दघनः इति सौत्रम् अहम्प्रतीतौ पूर्णायाम् इतीयता व्याख्यातमिति प्रकटयति पूर्णे वा इत्यादिना उच्यते इत्यन्तेन ।
परमाक्षर इत्यपि अनयैव व्याख्यया व्याख्यातम् ॥ १४ ॥
(पगे ३९६)
एवमधिकारचतुष्टयोक्तं यत् वस्तु, तत्फलमाह सूत्रेण
एवमात्मानमेतस्य सम्यग् ज्ञानक्रिये तथा । जानन् यथेप्सितान् पश्यञ्जानाति च करोति च ॥ १५ ॥
एवमिति ईश्वररूपमात्मानं, तस्य शक्तिरूपे ज्ञानक्रिये पश्यन्, नतु कापिलकाणादादिदिशा समावृण्वन्, यत् यदिच्छति; तत् तत् जानाति करोति च समावेशाभ्यासपरोऽनेनैव देहेन, अतत्परोऽपि सति देहे परमेश्वरप्रमातृतद्दर्शनदृढहृदयो जीवन्मुक्तः, तत्पाते परमेश्वर एवेति पूर्वोक्तं समस्तमर्थं सङ्क्षेपान्तरेण सूत्रवृत्त्यर्थयोजनादिसमस्तविघ्नलेशविरहितेन निर्मक्षिकमेव शिष्यधियि निवेशयितुं परमकारुणिकत्वेन प्रत्यावर्तयन् एवम् इति सौत्रं विवृणोति इह इत्यादेः । मायापदेऽपि एवम्भूतश्चित्प्रकाशः ।
अस्य च देशकालास्पृष्टत्वम्, अतोऽयं पूर्णः शिवसञ्ज्ञ इत्येवं परमशिवत्वं दर्शितम् । सदाशिवेशरूपतामपि आह सच इत्यादिना ।
एवं परमेश्वरपरमशिवान्तर्वर्तितच्छक्तिरूपसदाशिवेशदशा- दर्शपतितैव इयं मायामयी संसारभूमिरित्याह तथा इत्यादिना ।
सा च चिद्रूपं न खण्डयतीति दर्शयति अत्रापि च इति । काचित् इति नेति सम्बन्धः । तेन न स्वरूपेण शक्तौ काचित् खण्डनेति उक्तं भवति ।
अत्र हेतुः मनागपि इति नीलाद्याभासत्वं भिन्नभिन्नं, शुद्धप्र- काशात्मता च कालास्पृष्टेति एकस्या एव संविद इयत् वपुरिति दष्टान्तेन घटयति यथा बौद्धानाम् इति । अभावात् तस्य इति निमित्तान्तरस्य, तदपि अप्रकाशतायां न किञ्चित्, प्रकाशत्वे चिदेव इयत् । प्रथमत एव इति स्वप्रकाशत्वेन अयत्नसिद्धतामाह । तथापि उपदेशोपयोगमाह केवलम् इति । पूर्वपक्षमपि सङ्क्षिप्य स्मारयति यत्त्वत्र इति विवदन्तीति सम्बन्धः । एषाम्
(पगे ३९७)
इति भिन्नानामवभासानामाश्रयभूतस्य प्रमातुः प्रतीतिर्न विषयैवेति सम्बन्धः । अत्र हेतुः अव्यतिरिक्तविषया इति अहमिति तावत् विकल्परूपः प्रत्ययोऽव्यतिरिक्तस्वात्मविषयश्च, व्यतिरिक्तो हि इदमिति विकल्पः । तत्र स्वात्मविषयत्वं विकल्पत्वमेति असङ्गतमदः स्वात्मनो विकल्प्यत्वासम्भवात् । अत्र च
अशक्यसमयो ह्यात्मा—————————। (पा। वा। ३।२४९)
इत्यागमोऽनुसर्तव्यः । ननु यदि एतदसङ्गतम् । किं तर्हि एतत् ।
आत्मग्रहोऽयमविद्या इति असत्ख्यातिरूपं भ्रममात्रमेतदिति यावत् ।
तादृश एव क्षणस्थितिधर्मा स भाव उत्पन्न इति का विरोधचिन्ता यत उक्तः असतो नाम विरोधात् इत्येवं विर्वर्णयता बौद्धेन विरुद्धधर्माध्यासपरमास्त्रत्यागस्तावत् कृतश्च एवमपि शक्यते वक्तुम्-आमुद्गरसम्पातस्थायी सञ्जात इति । तदेतदाह नच इत्यादिना ।
ननु यदैव भावः सन्, तदैव यदि न सन्; तदा विरोधः । यदातु क्षणान्तर एव असन्, तदा कालभेदात् को विरोधः । एतदाह द्वितीयेऽपि इति द्वितीयक्षणे नाशेन सह न विरोध इत्येतदपि यदुच्यते, तदपि न नाशकृतत्वादेव क्षणद्वितीयतायास्तस्या एव पर्यनुयुक्तत्वात् विरोधचिन्तया । तदाह सत्यम् इति । एवं कालसङ्कोचं क्षणिकतानिबन्धनमपाकृत्य परमाणुतानिबन्धनं देशसङ्कोचमपि अपास्यति देशभेदेऽपि इति । आभासस्वभावस्य कथमनाभासरूपतेति अस्माभिः पर्यनुयुक्तं, तत् कथमेतदेव उत्तरीकर्तुं युक्तमिति आशयशेषः । इयता क्षणपरमाणुमात्रतोद्ग्राहणेन भावतत्त्वं सङ्कोचेन दूषितनिजरुचि रचयन्तो जडानामुद्गारैरित्यत्र पक्षे निक्षिप्ताः । ततो भावानां परमविकास एव तत्त्वमिति उक्तं
(पगे ३९८)
भवति, जडानां वा यदस्ति, तदस्तु; संविदस्तु कालादिसङ्कोचः सर्वथा न युक्त इत्याह नच चितः इति । ननु नीलादिप्रतिष्ठास्थानं संविदुच्यते, सा च साभासैव । नेत्याह निरवभासा इति । यदुक्तं
यद्यप्यर्थस्थितिः—————————। ( अ। प्र। सि। २०)
इति । तत्प्रसङ्गेन इति । एतदेव स्फुटीकृतं क्रियाकारक इति ।
अर्थभेदेन अपि इति एकानेकरूपता इति पूर्वेण सम्बन्धः । तयोरपि इति देशकालयोः । ननु यथा शुक्तिरजताभासस्य विमर्शानुवृत्तिभङ्गेऽस्थैर्यं शुक्तिविमर्शस्य अनुवृत्तिघनत्वेन स्थैर्यमित्येवं शुक्तिरेव इयं, न रजतमिति विप्लवत्वं व्यवस्थाप्यते; तथा प्रमातरि भविष्यति । एतत् निषेधति न आभासीय इति आभासेषु एव एतदुचितं वक्तुं येषु व्यतिरिक्तो विमर्शः, नतु संविदि अव्यतिरिक्तविमर्शायामिति तद्धितस्य अभिप्रायः । सति च बाधके युज्यते एतत्, इहच तत् नेत्याह नचापि इति । प्रत्युत परदृशि बाधकमस्तीत्याह अथैर्य इत्यादि । ननु अविचारितचारुतासारमसमञ्जसमुपप्लुतमिदं सर्वम्, अस्तु तावदेतदपि बाधयितुं, बाधश्च सति स्थिरे प्रमातरीत्याह आसमञ्जस्य इति । अत्रैव इति स्वस्यामुक्तौ तृतीयराश्यभावेन परैः समर्थित इति अभिप्रायः । एवं तुष्येदिति सम्बन्धः । तदपि इति अन्यत्वं संवेदनात्, संवेदनं च एकसामान्यविषयमपि अस्त्येवेति विशेषरूपतया अनेकत्वं, सामान्याकारेण च एकत्वमिति एकानेकरूपताप्रतीतिः । ननु राज्ञो विशेषणत्वेन अहम्प्रत्यवमर्शनीयत्वे स्वरूपमेव लुप्तमिति अविशिष्ट एव पुरुषः स्यादित्याशङ्य आह इदन्तापरामर्श इति इदन्तया इति निरूढयेति शेषः । एवंशब्दार्थं व्याख्याय
(पगे ३९९)
एतदेकवाक्यत्वेन आत्मानम् इति व्याचष्टे एवमेकश्चिन्मयः इत्यादिना । ननु ऐकाधिकरण्येन एकरूपा संविदीश्वरता, सैव व्यवहारकाले, ननु शिवता । एतदाशङ्क्य परिहरति तयोश्च इति । ततश्च ईश्वरता अपि परमशिवरूपान्तर्लीनैव स्फुरति, तत एव उच्यते
यत्र स्थितमिदं सर्वं कार्यम्———————-। (स्प। का। १।२)
इत्यादि,-इति शिवम् ॥ १५ ॥
इति श्रीमहामाहेश्वरश्रीमदाचार्याभिनवगुप्तविरचितायामीश्वर- प्रत्यभिज्ञाविवृतिविमर्शिन्यां तत्त्वार्थसङ्ग्रहाधिकारे मातृमेयबन्धमोक्षतत्त्वविमर्शस्तृतीयः ॥ ३ ॥