०२

अथ द्वितीयो विमर्शः ।

औषधमाधिव्याधिषु पाशत्रयशातनं त्रिशूलकरम् । वन्देऽहममृतमूर्तिं पूर्णत्रिकशक्तिपरमार्थम् ॥

एवं प्रमेयतया तत्त्वराशौ निर्णीते तदनन्तरं प्रमातृतत्त्वं निर्णीतमपि इह स्वात्मनि ईश्वरताप्रत्यभिज्ञापनप्रकृतप्रमेयसारे शास्त्रे प्राधान्येन वितत्य निर्णयार्हम्,-इति तदर्थं विमर्शान्तरं

तत्रैतन्मातृता—————————।

इत्यादिना

—————व्यानो विश्वात्मकः परः ॥

इत्यन्तेन श्लोकविंशकेन आरभ्यते । तत्र श्लोकेन ब्रह्मादित्रयस्वरूपं; ततो द्वयेन हेयोपादेयप्रमातृरूपविभागः; ततस्तदुपयोगितया मलस्वरूपं, तत्कृतं च प्रमातृवैचित्र्यं सप्तभिः; इयता हेयरूपे प्रमातुरुक्ते तदुपादेयरूपाभिधानाय समावेशस्वरूपं द्वाभ्यां; ततः प्रसङ्गात् प्रमातुरवस्थानां सुषुप्तादीनां स्वरूपं पञ्चभिः; तासामेव हेयोपादेयताविभाग- स्त्रिभिः,-इति प्रकरणतात्पर्यम् । अथ प्रत्येकं सूत्रार्थो निरूप्यते

तत्रैतन्मातृतामात्रस्थितौ रुद्रोऽधिदैवतम् । भिन्नप्रमेयप्रसरे ब्रह्मविष्णू व्यवस्थितौ ॥ १ ॥

तत्र इति एवम्भूतेऽस्मिन्नागमसिद्धे संवेदनयुक्त्युपबृंहिते मातृमेयात्मनि तत्त्ववर्गे निर्णीयमाने प्रस्तुते यदेतत् कालादिकञ्चुक- परिवेष्टितं, तदेव यस्यां शुद्धमुपसंहृतप्रमेयतया प्रमेयान्- तर्मुखं भवति दशायां; तस्यामधिष्ठाता तदभिसम्पादनद्वा-रेण स्वोपासकवर्गस्य तद्दशादानेन तदवस्थाध्यानसमापन्नस्य स्वाभिमुख्यसम्पादनेन च भगवान् परमशिव एव ईश्वरतां भजमानः सन् रुद्रत्वेन अधिष्ठाता । तत एव असौ मायापदेऽपि प्राणापानात्मक-

(पगे ३०६)

धर्माधर्मसूर्येन्दुदिननिशामृतकसूतकादिविभागविरहिततद्विभा- गनिबन्धनभूतमध्यमज्योतीरूपप्रमातृभागाधिकस्वरूपसं- स्पर्शादुन्मीलिततृतीयनेत्रः, भिन्नस्य तु प्रमेयस्य प्रसरे सम्पादनेऽ-धिष्ठाता ब्रह्मा, प्रसृते तु तस्मिंस्तत्सन्तानप्रवहणलक्षणे प्रसरेऽधिष्ठाता विष्णुः । अत एव एतौ प्रमेयमेव इदमिति प्रकाशात्मना प्रधानीकुर्वाणौ, अहमिति प्रमातृतासारस्वरूपं न्यक्कर्वाणौ न तृतीयनयनयोगिनौ, देवतैव दैवतमधिष्ठातृरूपं दैवतमधिदैवतम्,-इति सूत्रार्थः ।

तमवतारयति विश्वेश्वरस्य इत्यादिना । विश्वेश्वरस्य ब्रह्मादिरूपैरविशुद्धेन एव स्वरूपेण तानि कथमुन्मीलन्ति । आह बुद्धिगुणत्वेन, नतु शुद्धसंविन्मात्ररूपतया । अत एव आधारत्वेन स्थितं यदैश्वर्यं कर्तृतालक्षणं स्वातन्त्र्यं क्रियाशक्तिपर्यन्तं ज्ञानं, तत् तेषां रूपम् । तर्हि द्वित्वं कुत इत्याह सत्त्व इति य एव अङ्गिभूतो गुणः, तद्विषयमेव तदैश्वर्यं ज्ञानरूपमिति भेदः । शून्ये पुर्यष्टकात्मतात्यन्तसूक्ष्मदेह एववा इति वृत्तिं व्याचक्षाणो मात्रपदं सौत्रं व्याकरोति यद्यपि इत्यादिना । मूर्त्या आकारेण, कालविशेषेण च शरीरिवत् नियतेन पारिमित्यभाजा योऽवच्छेदस्तद्रहितः; सामान्यकालयोगस्तु तस्य अपि अस्त्येव यदिवा मूर्तिद्वारा यः कालभेदो नियतः कालः । पुर्यष्टकस्य देहता अस्त्येव महाभूतैः समन्वयादिति तदपि इह न वचनीयमिति मोहव्यपोहनाय शङ्कोद्भावनार्थं देहग्रहणम् ।

उपादानार्हताभिधानाय अत्यन्तसूक्ष्मग्रहणं न स्थूलदेहस्य अपि उपचरितं पुंस्त्वमस्तीति आह । ननु शून्यं तमोगुणात्मकमिति प्रधानतत्त्वमेव तत्, तत् किमनेन भाषान्तरेण । अत्र आह सत्त्वादि इति प्रधानेऽन्तर्भवति, नतु तदेव तदिति यावत् । तथाप्रतीतेः इति अहमितिप्रमातृताध्यारोपेण । एतदेव परिघटयति

(पगे ३०७)

घटयति आशङ्कामपनयन् अद्यापिच इत्यादिना । एवम् इति युक्तमुक्तं यत् वस्तु तत् तस्मात् हेतोर्यद्यपि तुल्यत्वं सूक्ष्मासूक्ष्मशरीरयोः, तथापि न मातापितृजनस्य मुख्यपुंस्तत्त्वतेति सम्बन्धः । तदभेदे- नैव इति पुर्यष्टकाभेदेन । पूर्वपूर्वरूपावेशेन हि उत्तरोत्तरस्य तथाभाव इति उक्तम् । ननु रूपादिमयत्वं पुर्यष्टकेऽपि अस्त्येव,- इत्याशङ्क्य आह प्रमेयानवभासाच्च इति । नहि तत्रत्यं रूपादि प्रतिभासते । तत्सङ्कोचोपहितं हि संवेदनमेव तत्प्रमातृभावेन निर्भाति, न तद्गतप्रमेयभूतं रूपादि; शरीरे तु तदेव प्रमात्रीक्रिय-माणं गौरोऽहमितिप्रतीतेः । ननु पुर्यष्टकशून्ययोरपि सर्वज्ञान् प्रति अवभासमानतया प्रमेयत्वमस्ति एवेति पुनरपि कथं तयोः प्रमातृमात्रतेत्याशङ्क्य पक्षान्तरेण उपक्रमते अथवा इति तयोरस्तु प्रमेयता, ताभ्यां तु अन्यत् प्रमीयते घटादि बाह्यशरीरेण असम्पर्के भोगसम्पादकत्वायोगात् । अत एव इति यतोऽन्यत् न प्रमीयते ताभ्यां, ततः । परमेश्वरस्य इति स एवहि स्वातन्त्र्यात् तथा भातीति अभिहितमसकृत् । उभयरूपा इति सवेद्या, अन्या च । आणवसञ्ज्ञो योऽज्ञानात्मा मायाकृत एव मलविशेषः, यत् वक्ष्यते

———————–मायाशक्त्यैव तत्त्रयम् । (३।२।५)

इति; तस्य अतिस्फुटतां संवेदनभागे कुर्वन् बुद्धौ तमोगुणमुद्रेच- यति भिन्नाभासयोगं संहरति भगवान् रुद्रः । अधिष्ठातृतामेव स्पष्टयति तस्य इत्यादिना । अत्र च इति सर्वसंहारात्मनि प्रमातृमात्रे ।

स एव इति भगवान् रुद्रः । ननु समस्तवेद्यक्षयश्चेत् वृत्तः, तदेव परमपदमिति का खलु अन्या तुर्यदशा सुषुप्तातिरिक्ता स्यादिति । अत आह तत्र च इति क्षीणेऽपि

(पगे ३०८)

वेद्यान्तरे वेदकतत्त्वस्य सर्वोत्तीर्णसर्वमयसर्वेश्वरतादिधर्मभा- जनस्य अद्यापि वेद्य एव शून्यादौ समुपहितसंवित्सङ्कोचयोगात् परमार्थप्रकाशो नास्तीति तत्प्रकाशसारायास्तुर्यदशाया युक्तमेव वैलक्षण्यम् । ननु भावनाः पुर्यष्टकभावे शून्यस्य भावयितुर्- भावात् भवन्तु, शून्ये तु भावे कोऽसौ भेदभावनाप्रधानो भाव-यिता अन्यो भवेत्; संविद्रूपापेक्षया च न भाव्यस्य भेदोऽस्ति ।

अत्र उच्यते शून्ये च इति समकालमेव यदा शिखरस्थसंवेदनदिशा उभयमपि वाग्रहणात् शरीरघटाद्यपिवा व्यतिरिक्तं भावयति, तदा तन्मध्यानुप्रविष्टभावनीयशून्यान्तरापेक्षया यत् शून्यान्तर- मिति उक्तं, तदेव प्रमातृतामेति; नच अनवस्था संवित्तत्त्वावेशेन एव

यद्यप्यर्थस्थितिः—————————। (अ। प्र। सि। २०)

इति

अपि त्वात्मबलस्पर्शात्———————-॥ (स्प। का। ८)

इति च नीत्या प्रमातृतोद्गमात् । तदाह समर्थितम् इति । एवं सूत्रार्धं व्याख्याय शेषं व्याचष्टे जागर इत्यादिना अर्धम् । सूत्रे य एवमर्थः प्रसरशब्दः, स आभासपदेन वृत्तौ विवृतः इति सङ्गतिः ।

सामस्त्येन देवताद्वयं व्याख्याय विभागेन स्फुटयति जागरं च इत्यादिना । हृदयाब्जगतत्वादेव कमलासनः पलायति इति व्याचष्टे न केवलं तत्रैव प्रथमक्षणे स भावावभासोऽस्ति,-इत्येतावत्, अपितु स्मृत्यवस्थामपि स्वप्नावस्थामपि प्रतिपद्यते,-इत्येवम्भूतमनुवर्- तनं कुर्वाणः पालक उच्यते भगवान् विष्णुर्मध्यमावैखर्यात्म- कानुवर्तनोल्लासपदे परमेश्वरात् प्रभृति पशुप्रमातृपर्यन्तप्रमा- तृवर्गे कण्ठभूमौ वर्तमानः । हृदये हि प्रथमपश्यन्तीप्रसरात्मनि प्रतिभारूपत्वेन

(पगे ३०९)

प्राथमकल्पिकी सृष्टिः

यथेच्छाभ्यर्थितो धाता जाग्रतोऽर्थान्————। (स्प। का। ३३)

इतिस्थित्या । रुद्रावस्था तु समस्तवादोपसंहाररूपानाहतपरवाक्तत्- त्वानुप्रवेशप्रारम्भभुवि तालुनि सर्वोपसंहारात्मकसुषुप्तल्लक्ष- णेऽपि कण्ठदेशेऽपि निरूपिते तदूर्ध्वपदगामित्वादेव लभ्यत इति तालुनि इति न उक्तं विवृतिकृता । तत एव ब्रह्महृदयोविष्णुकण्ठो रुद्रता-लुरीश्वरभ्रूउमध्यः सदाशिवोर्ध्वब्रह्मरन्ध्रोऽनाश्रितात्मक-शक्तिसोपानोपरिपदः कारणषट्कविग्रहः परमेश्वरः इति हृदयादिस्वरूपाभिधानेन सूचित आगमिकोऽर्थः

प्रविभज्यात्मनात्मानं सृष्ट्वा भावान् पृथग्विधान् । सर्वेश्वरः सर्वमयः स्वप्ने भोक्ता प्रवर्तते ॥

इत्याशयेन आशङ्क्तते यद्यपि इति । यदा इति यतः, तदा इति ततः; यदिवा यदा संस्कारवतः स्वप्नः, तदा स्थितिरूपता; स्वातन्त्र्येन तु स्वप्ने जागररूपतैव सा

तथा स्वप्नेऽप्यभीष्टार्थान् प्रणयस्यानतिक्रमात् । (स्प। का। ३४)

इतिनीत्येति यदातदाभ्यामुक्तमभिनवं तावदर्थावभासनं स्थपतिकुम्भकारादिभिर्गृहकुम्भादीनामवभासने स्फुरति एव, तत्सामान्यात् पुनस्तस्यैव दर्शनमित्येवम्भूतविशेषानपेक्षा जागर्यां या सृष्टिरूपता । ननु एवं स्वप्नेऽपि अस्ति,-इति पक्षान्तरेण परिहरति यदिवा इति अभेदबुद्धेः सर्वे वयमेकं विद्मः इत्यस्याः, भेदबुद्धेर्वा पूर्वसृष्टिवैलक्षण्यप्रतीतेरास्पदं पूर्वं प्रमात्रन्तरैक्येन असाववभातः । तथारूपता इति सृष्टिरूपता जाग्रदवस्थाया इति पूर्वेण सम्बन्धः । बुद्धिगुण एव इति एवकारेण शुद्धैश्वर्यस्पर्शोऽपि तयोर्नास्ति, रुद्रभट्टारकस्य तु शुद्धमैश्वर्यं ज्ञानं च

(पगे ३१०)

स्पृशत एव बुद्धिगुणाभ्यामैश्वर्यज्ञानाभ्यां योगः इति दर्शयति । तदेतत् स्फुटेन आगमिकेन अभिज्ञानेन दर्शयति अत एव इति ।

प्रपञ्चविगलने यदीशनमैश्वर्यं, ततः किल बुद्धिगुणस्य ऐश्वर्यस्य प्रत्यस्तमयः सत एव न्यक्करणं, नतु अत्यन्तमभावः

तस्मिन्——————————————————। (स्प। का। १५)

इति,

तदा तस्मिन् महाव्योम्नि——————————। (स्प। का। २५)

इति च । एषां मध्यमे महाव्योम्नि एकघनतासमापत्त्यभावेऽपि अनुप्रवेशमात्रमस्ति,-इति तृतीयेन नेत्रेण उदानमहातेजःप्रबोधात् भेददहनात्मना योगः ॥ १ ॥

अस्यैव मातृतामात्रस्य विभागं निरूपयन् कालादितत्त्वान्तरयोगोऽवश्योपगम्य इति सूत्रेण निरूपयति

एष प्रमाता मायान्धः संसारी कर्मबन्धनः । विद्याभिज्ञापितैश्वर्यश्चिद्घनो मुक्त उच्यते ॥ २ ॥

मायाविमोहितः, अत एव कर्माणि बन्धकत्वेन अभिमन्यमानः, एष इति कालकलादिवेष्टितः शून्यपुर्यष्टकसङ्कुचितसंवित्स्वभावः, संसरणशीलः, विद्यया तु स्वरूपप्रकाशनशक्त्या प्रत्यभिज्ञाप्रा-पितमैश्वर्यं विशुद्धं स्वातन्त्र्यं यस्य, अत एव चित् यस्य घना निबिडा अचिद्रूपानुप्रवेशशङ्काशून्या, स पुनर्जन्मबन्धविरहात् सत्यपि देहे मुक्तः, पतिते तु अस्मिन् शिव एव, को मुक्तः भूतपूर्वगत्या तु मुक्तशिवः इति व्यवहार आगमेषु,-इति सूत्रार्थः । तं सङ्क्षिप्य आह इदानीम् इति । तत इति अन्यथाहि संविद्रूपत्वे तस्य प्रत्युत शक्तिर्माया, नतु तदधीनोऽसौ येन तस्याः स इत्युच्येतेतिभावः । वक्ष्यते इति

देवादीनां च—————————। (३।२।१०)

(पगे ३११)

इति उपक्रम्य

तत्रापि कार्ममेवैकम्—————————। (३।२।१०)

इतिसूत्रे । स एवच इति यस्यैव बन्धः, तस्यैव मुक्तत्वमुचितमिति यावत् ।

आदिग्रहणात् ज्ञानचर्याभक्त्यादयः । यथा उक्तं श्रीसर्ववीरमते

कदाचिद्भक्तियोगेन कर्मणा दीक्षयापिवा । संसारिणोऽनुगृह्णाति—————————॥

इति । श्रीमतङ्गेऽपि

—————————मोक्षो वाथ चतुष्टयात् ।

इति । ननु आत्मतत्त्वं प्रत्युत हेयमागमेषु उक्तं

ते त्वात्मोपासकाः शैवे न गच्छन्ति परमं पदम् ॥

(ने। तं। ८।४)

इति शक्तिशिवात्मताया उपादेयत्वेन उक्तत्वादिति शङ्कित्वा आह आत्मन इति षष्ठीसमासोऽयं वृत्तावित्यर्थः । ऐश्वर्यशब्द इति सौत्रः । ननु चिद्धनत्वं कथमनेन विवृतं भवतीत्याशङ्क्य आह चिन्मात्र इत्यादि । सदा इति बन्धापेक्षा च मुक्ततेति आकूतशेषः ॥ २ ॥

अस्यैव प्रमातुरागमिकं सञ्ज्ञाभेदं निर्वचनतो निरूपयति

स्वाङ्गरूपेषु भावेषु प्रमाता कथ्यते पतिः । मायातो भेदिषु क्लेशकर्मादिकलुषः पशुः ॥ ३ ॥

योऽसौ मुक्त उक्तः, स भावान् स्वाङ्गवत् प्रमिमीते इति तेषां स्वामी परमार्थरूपार्पणाच्च पालयिता ।

तदयमीश्वररूपतासमा-विष्ट इति ईश्वरवदेव पतिरुक्तः शास्त्रे ।

यदातु मायाशक्त्या कृतभे-दांस्तान् मिमीते, तत एव क्लेशैरविद्यादिभिः कर्मभिः शुभाशुभै-रादिपदात् वासनाभिः कर्मविपाकरूपैश्च भोगैरुक्तकञ्चुकप्र-पञ्चितैः कलुषोऽपहस्तितैकरसस्वातन्त्र्यः; तदा तैरेव पाशैः

(पगे ३१२)

पाशितत्वात् पशुरुक्तः । तदा इति शिवतायां, पाल्यमपेक्षणीयं यत् पतित्वे, तत् न अस्ति व्यतिरिक्तमित्यर्थः । ननु मायातो भेदिषु इति सौत्रं न स्पृष्टं वृत्तौ, अन्यदेवतु उक्तं पुंस्त्वावस्थायाम् इति । सौत्रमेव इत्थमुक्तमिति दर्शयति तदाच इत्यादिना पुंस्त्वावस्थयैव इत्यन्तेन ।

अथ किमनया भणितिचित्रतयेति चेत्, आह प्राधानिक इति पुंस्त्वावस्थ- यैव इति काकाक्षिवत्, तेन तया एव उक्तया अन्यदुपगम्यं प्रधानादा- गतं तत्र च भवं विश्वमित्येवं तावत् पारमेश्वरे दर्शने परमे- श्वरशक्तेरेव तथाभावोपगमादुपगतम् । यानि अपि दर्शनान्तराणि कापिलवैष्णवादीनि, तैरनक्षरारूढमपि बलादभ्युपगन्तव्यमस्म-दुक्तं रागकलाविद्यानियतिकालाद्याधिक्यम् । ईश्वरादीश्वर इति यदुक्तं, तदेव स्पष्टयति अविद्या इत्यादिना । ननु अनीश्वरोऽस्तु ईश्वरविपरीतः, पुमांस्तु तथा कुतः । आह स एवच पुमान् इति । ननु च क्लेशकर्मविपाकाशयैर्युक्तोऽस्तु पुमान्, तत्र क्लेशमध्येऽविद्या मोहनीत्वेन वेदनविषेधरूपतया आत्मानं विश्वमात्मत्वेन अनीक्षयन्ती माया अस्मितया च अनात्मानमात्मतया ईक्षयन्ती कामं स्वीकृता, रागादित्रयेण च रागः, नियत्यादयस्तु कथं सङ्गृहीताः ।

आह नियत्या इति नियतिर्यतः कर्मणो मूलभूमिः । कार्यकारणभावो हि ततः, तन्मूलं च कर्मवासनाविपाकत्रयम्, ततस्तयापि युक्तः ।

रागेण च उपलक्षिते विद्याकले । यदेवहि रागास्पदं, तदेव कलाविद्ययोर्विषयो विपर्ययो वा, ततस्ताभ्यां युक्तः । कर्म च क्रियारूपं, क्रिया च क्रमलक्षणकालानुप्राणितेति कर्मणा अङ्गीकृतेन कालोऽपि अङ्गीकृत इति तेनापि युक्त इति तेषां रसनानारूढमपि अस्ति हृदये । तत् दर्शयति अवचनम् इति अस्माभिस्तु परमेश्वरदर्शनानुगृहीतैः

(पगे ३१३)

स्पष्टमेव सर्वं निरूपितम् । प्रमातुर्हि शुद्धाशुद्धस्वरूपं वितत्य वक्तव्यमध्यात्मविद्यासु अस्यैव अर्थस्य मुख्यत्वेन विस्तारणार्हत्वात् ॥ ३ ॥

पशुस्वरूपं वितत्य निरूपयितुं सूत्रान्तरमिति सङ्गतिं टीका-कारः स्वयमेव करोति पशोः इति । पारमेश्वर इति, अन्ये तु असम्यगेतद्-रूपविदः, तत एतेषां न सम्यक् मुक्तिरिति शिक्षित्वा तु स्वप्रक्रियायां तावदारोपणे परमार्थत इदमेव मुक्तिकारणम्, अङ्गीकृतं च एतत् सद्भिरिति आशयः । तत एव आगम;

ते त्वात्मोपासकाः शैवे न गच्छन्ति परमं पदम् । (ने। त। ८।४)

इति सप्तमीतृतीयाभ्यां व्याख्यातः । विभक्तम् इति लक्षणतो विषयतश्च प्रकटयिष्यतेऽनेन प्रकारेण मलत्रयम् । तत्र प्रथमत आणवमाह सूत्रेण

स्वातन्त्र्यहानिर्बोधस्य स्वातन्त्र्यस्याप्यबोधता । द्विधाणवं मलमिदं स्वस्वरूपापहानितः ॥ ४ ॥

स्वतन्त्रो बोध इत्येतत् तत्त्वम् । तत्र भागान्तरहान्या स्वरूपाप- हारात् मलमणुतां सङ्कोचमादधानमाणवं द्विधा । ननु वृत्तौ मले व्याख्येये निर्मलस्वरूपाभिधानं किमेतत् । एतदित्याह शुद्ध- स्वभावस्य इति । मलं हि अन्येन विजातीयेन योगः कज्जलांशः स्वधा- याः, तदंशोऽपि कज्जलस्येति एकजातीयमेकघनं रूपं यत् निर्मलं विशुद्धं, तत् पूर्वं वाच्यमित्यर्थः । सामान्येन इति अनवभात- पूर्णत्वस्वतन्त्रत्वादिधर्मग्रामस्यापीत्यर्थः । द्वितीयग्रहणेन तच्छक्तिरूपता एव मायाप्रधानादेरित्याह पृथक् इति । यथाक्रमं मन्त्रेशरूपतया ये भविनो विज्ञानाकलास्ते एवमुदिताः, मन्त्रेशास्तु स्वतन्त्रा एव । दर्शनात् इति आगमादिप्रमाणकादितिभावः । ननु विज्ञानाकलादेरहन्तात्मकचमत्कारलक्षणकर्तृतारूपस्वातन्त्र्य- वियोगिनोऽपि

(पगे ३१४)

बोधमात्रं तावत् रूपमिति पशुलक्षणे यदज्ञत्वमुक्तं

पशुर्नित्यो ह्यमूर्तोऽज्ञः—————————।

इति, तत् नास्ति,-इति कथमणुत्वमाणवमलप्रयुक्तं च तदवश्यम्भावि,

-इत्याशङ्क्य आह स्वातन्त्र्य इत्यादि । ज्ञत्वं हि तत्र व्यतिरिक्तवेदकात्- मकं निषिद्धं यत् कलाविद्यारूपतत्त्वान्तरप्रसादात् सकलस्य उदितमुच्यते, तत् च विज्ञानाकलस्य नैव अस्ति । स्वात्मनि अपि वेदकत्वं पृथग्भूततया न उपपद्यते, अपृथग्भावेन भवदपि अहमितिचमत्का- रात्मनो विमर्शस्य तिरोधानादसतो न विशिष्यते । तदेतदाह स्वात्मनि इति । बोधकत्वं भिन्नं बोध्यमपेक्ष्य, न स्वात्मनि । भिन्नं च बोध्य-मस्य न उपपद्यते, न सम्भवति । तेन अज्ञता एव, नतु ज्ञत्वमिति सङ्गतिः । तदेव इति उक्तं वस्तु यदाणवत्वे प्रयोजकं सूत्रे च आणववाचोयुक्त्या अङ्गीकृतम्, तत् वृत्तौ मात्रपदेन स्फुटीकृतम् । ननु व्यतिरिक्ते वेद्ये वेदकता कामं मात्रपदेन निराकृता, अव्यतिरिक्ते तु सा केन निराकृता ईश्वरस्य इवेति शङ्कितमाह मात्रग्रहणेन इति ।

चकारोऽत्र अपेक्ष्यः । मात्रग्रहणेन हि विश्वात्मतां तथैवच प्रथां निरस्यता भिन्नवेद्यवेदकत्वं निरसितुं शक्यम् । तस्य हि सा पूर्वभाविनी निर्विकल्पदशा यस्यामैश्वरो भावः इति उक्तं प्राक् ।

अथ स्वातन्त्र्यस्याप्यबोधता इत्यंशं विवृणोति बोधनिराकृतस्य तु इति । स्थितैव इति अत्र अज्ञत्वं न यदि असाध्यमिति अणुलक्षणं स्फुट- मेव अस्ति । शून्यदिर्हि वेद्यत्वेन स्फुरति उपाधिभावात्, संविदंशोऽपि वेद्यच्छायाच्छुरित एव । द्विविधफलम् इति विज्ञानाकलादयो देवादयश्च फलमस्येति क्रमेण वक्ष्यते । मूलमलता

(पगे ३१५)

च अपि अज्ञप्तौ ग्राहकस्य प्रधान्यात् तद्भावस्य च एतदधीनत्वात्, सृष्टियोगे तु मायाख्यस्य मूलत्वमुक्तमिति अविरोधः । ननु बोधमा- त्रस्य स्वातन्त्र्यमात्रस्य च यत् निर्माणमुक्तं, तेन अनित्यत्वमापतितमिति पशुलक्षणे यत् नित्यत्वं मूर्धाभिषिक्तमुक्तं, तत् त्यक्तं स्यात् । नेति दर्शयति बोधमात्रं च इत्यादिना नित्य एवासौ इत्यन्तेन । स्वतन्त्रबो-धस्य इति स्वातन्त्र्यांशेन बोधरूपस्य, नतु संवेदनांशेन ज्ञेय-त्वस्य असंविद्रूपत्वेदन्तात्मनोऽनपहस्तनात् । न क्वचित् इति अनारोपित-स्वातन्त्र्येऽपि घटादौ चिद्रूपता सन्निहिता प्रकाशैकसारत्वात्, सा कथमारोपितस्वातन्त्र्येण भविष्यति । तदाह विशेषण इति । ननु एवं घटेऽपि यदि चिद्रूपतां कश्चित् पश्येत्, तर्हि किमभ्रान्त एव असौ । ओमित्याह जडस्य तु इति । युक्त एव इति उचित एवेत्यर्थः । शक्त्या शुद्धविद्यारूपया हि अयं सम्यगिति जडरूपतान्यक्क्रियया चिद्रूपताप्राधान्येन आवेशः आ समन्तात् स्वरूपप्रवेशः इत्यर्थः । यदाह

तृणात् पर्णात्—————————।

इति । उद्गमनं हि अचिद्रूपताया न्यक्कारः ।

अष्टमूर्ते किमेकस्याम्————–।

इत्यत्र तु स एव तोषः । ननु अनात्मनि जड आत्मत्वेन अभिमननं विपर्या-याख्यातिरूपा इयमविद्या,-इति साङ्ख्ययोगादीनां मतमनित्याशुचि-दुःखानामात्मस्थित्यादिवचनात्, तत् कथमुक्तं युक्त एव असौ,-इत्या-शङ्क्य आह अत एव इति । यत एवमुक्तं, ततः साङ्ख्यीयमयुक्तमेव बोद्धव्यमित्यर्थः । प्रकृतिपुरुषाविवेके हि प्रकृतावेव पुरुषाभिमा-नः सम्मतः । ननु अभावमात्रं मोक्षावस्थायामपि तद्भावने संसरणप्रसङ्गात् । एतदेव न्यायेन

(पगे ३१६)

घटयति नहि इति । अनात्मनि यदि न सन्निहितः स्यादात्मा, तत् तत्र तदभि- मननं मिथ्याज्ञानं भवेत्; नतु गृहे सन्निहितमाकाशमध्यवस्यन् भ्रान्तो भवति । ननु साङ्ख्यैर्न इदमुक्तमित्याह अथ इति एतद्विषयस्य आत्मानात्मलक्षणस्य प्रकाशनं, तच्च न तैर्बन्धत्वेन उक्तम्; अपितु अनात्मैव आत्मतया भातीति । एतदपि दूषयति केयम् इति । प्रकाशप्रति-भासनं यदि तदा, तर्हि तथैव तद्वस्तु,-इति न अपरमस्य तत्त्वमिति का भ्रान्तता । अथ तथाप्रकाशनाभावेऽपि तथाध्यवसाय इति भ्रान्तता । एतदपि दूषयति आक्षिपन् नतु इति । प्राप्तः इति उचितः । पुरुषसम्बन्धी इति पुरुषविषयतया उचितः । तन्न इति सङ्क्षेपोक्तिं स्पष्टयति आत्मनि इत्यादिना अयुक्तः इत्यन्तेन । अकारप्रश्लेषमकृत्वैव एकवाक्यत्वेन नेयं न युक्त इति । तदिति च निपातोऽत्र पक्षे वक्तव्योपक्षेपद्योतकः ।

अहमित्यवसायः साङ्ख्यदृशि प्रत्युत अनात्मनि एव बुद्ध्यहङ्कार- मये समुचितः, नतु आत्मनि चिन्मात्रस्वभावे । एवं तु एतत् इति परमेश्वरेण हि साङ्ख्यानां तावदेव उपदिष्टमपूर्णम्, इदं तु पूर्णं ज्ञानमितिभावः । स्वकः इति अकृत्रिमः, तत एव उचितः । तच्च इति वाक्यार्थरूपम् । तैः इति साङ्ख्यैः । यत् प्रमेयप्रसङ्गेन इदमाया- तं, तदेव उपसंहारेण निर्वाहयति अस्माकं तु इति । एवम् इति

अहम्प्रत्यवमर्शो यः—————————। (१।६।१)

इत्यादिप्रदेशेषु । यतोऽहमितिविमर्शमयत्वमात्मन उपपादितम्, तदेव कर्तृत्वमुक्तं

विमर्श एव देवस्य—————————। (१।८।११)

इत्यादिप्रदेशेषु; ततः कर्तृत्वं व्यतिरिक्ते कार्ये न उपपद्यते तादृशस्य

(पगे ३१७)

कार्यकारणभावस्य वितत्य दूषितत्वात् । एवञ्च कार्यरूपं जगत् पुरुषमयमेव । यत् श्रुतिः पुरुष एवेदं सर्वम् इति । जगति इति समग्र इति च वदन्नेकक एव देहादौ घटादिवैलक्षण्येन तथाभिमानो विप्लव एवेति दर्शयति । तत एव हि तत्र तत्र उक्तं

—————————द्विगुणोऽयं विप्लवः ।

इति । तत्र इति जगति । प्रत्युत इति निपातसमुदायः परस्य अत्र वैपरीत्येन अयुक्तोऽभिनिवेशोऽयमिति द्योतयति । मूलबन्ध इति सति तस्मिंस्तत एव अनात्मीकृतात् वर्गादेकदेशे शरीरादावनात्मनि एव अनपहस्तितज्ञेय- भावेऽहमित्यात्माभिमानरूपोऽस्तु पश्चात्त्यो बन्धो यदभिप्रायेण द्वुगुणविप्लवोत्थापकत्वं मायाशक्तेरिति ॥ ४ ॥

मलद्वयलक्षणाय यत् सूत्रं, तदवतारयति इदानीम् इत्यादिना

भिन्नवेद्यप्रथात्रैव मायाख्यं जन्मभोगदम् ।

कर्तर्यबोधे कार्मं तु मायाशक्त्यैव तत् त्रयम् ॥ ५ ॥

एतदाणव इत्यादिपदेन अत्रैव इति व्याचष्टे ।

मन्त्रेश्वराणामपि आणवं मलं वक्ष्यते

बोधानामपि—————————। (३।२।९)

इतिसूत्रे टीकायाम् । तेन तत्रैव सति मलान्तरयोगः । द्विप्रकारे सति आणवे मले वृत्ते स्वरूपसङ्कोचे भिन्नस्य यत् प्रथनं, तत् मायाख्यं मायया आख्या यस्य, तत् मायीयं मलं सञ्ज्ञामात्रेणेति, मायाकृतत्वं तु मलत्रयस्य अपि,-इति अत्रैव श्लोके तुर्यपादेन उक्तम् । तत्र अबोधरूपस्य कर्तुर्देहादेर्भिन्नवेद्यप्रथायां सत्यामहेतुषु अपि जडेषु कर्मसु निमित्तावग्रहात्मा विपर्ययः । जन्मनस्तु नियतावध्याक्षिप्तस्य आयुषो भोगस्य च सुखदुःखादेः कारणभूतं कार्मं मलम् । माया नाम शक्तिः परमेशस्य, सा अशुद्धविद्याशक्तिमणोर्व्यन्नक्ति ।

(पगे ३१८)

ततोऽणुरन्तर्बहिरिन्द्रियाणि अधिष्ठाय भिन्नं वेद्यं जानाति । तदा अयमणुर्मायाख्येन मलेन मलिन इति उच्यते अतोऽपि इति न केवलं पूर्वो विपर्ययो य आणवमलात्मा उक्तः, यावदयमपीत्यर्थः । तत्र इति पारमेश्वरागमेषु । कथं सूचितमित्याह त्रयमपि इति । अस्य इति आख्याग्रहणस्य । युक्तश्च अत्र विशेषतो मायया व्यपदेश इति दर्शयति द्वैत इत्यादि । तत्र इति मायाख्ये । तत एव उत्पत्तिक्रमेण मूलमूलत्व- मस्य एव संविदात्मकज्ञप्त्यपेक्षत्वादाणवमलस्य । अत एव

वेद्यीकरणमर्थानां मलो मायाख्य उच्यते । मूलमन्यस्त्वहम्भावो वेद्येष्वप्याणवो मलः ॥

इत्यत्र गुरुभिर्मूलमिति काकाक्षिवदपेक्ष्यमिति व्याख्यातम् । एतदेव स्पष्टयति द्वैतदर्शने च इति । मुक्ताणूनाम् इति संसारितोत्तीर्णानां मन्त्रमहेशादीनामित्यर्थः । एवं सम्भवेत् इत्यन्तेन मुख्यतया मायाख्यमेव व्याख्यातम्, तद्रूपविस्पष्टीकरणप्रसङ्गात् तु मलद्वयमन्यत् निरूपितम्; अधुना तु कार्मं विवृणोति कर्मपराधी-नत्वम् इति । तच्च कर्ममलताया आस्पदं यतो विपर्याससामान्येन तस्य असत्यत्वम् ।

विपर्याससामान्यं तदिति कुतः । आह स्वातन्त्र्य इति प्रमातुः स्वातन्त्र्यरूपा क्रियाशक्तिरेव कर्म, सैवतु यत एनं परतन्त्रीकरोति नियतिशक्त्या येन विचित्रफलभागी अयमनिच्छुरपि जायते; ततो विपर्यासतेत्यर्थः । प्राक् इति कार्यकारणभावविमर्शे । वक्ष्यते इति देवादिसूत्रे (३।२।१०) । विज्ञानेन बोधमात्ररूपत्वेन अकलाः कलोपलक्षिताशुद्धविद्यारागादियोगाभावात् भोगशून्या इत्यर्थः ।

तुर्यं पादं व्याचष्टे तदेतत् इत्यादिना समासपदेन ॥ ५ ॥

(पगे ३१९)

अथ एषां मलानां विविक्तविषयप्रदर्शनेन रूपं स्फुटयितुं

स्वातन्त्र्यहानिर्बोधस्य—————————। (३।२।४)

इत्यमुष्य अंशस्य विषयमाह

शुद्धबोधात्मकत्वेऽपि येषां नोत्तमकर्तृता । निर्मिताः स्वात्मनो भिन्ना भर्त्रा ते कर्तृतात्ययात् ॥ ६ ॥

ये संविन्मात्रपरमार्था अपि अहमितिस्वात्मविश्रान्तिलक्षणस्वा- तन्त्र्यपरमार्थानन्दचमत्कारतिरोधानयोगात् न उत्तमाः कर्तारः, ते भर्त्रा परमेश्वरेण अप्रतिहतपरिपुष्टस्वातन्त्र्येण तथा बुभूषुणा स्वात्मनः सकाशात् घटादिवदेव भिन्ना निर्मिता येन मन्त्रमहेश्व- रादीनां भेदेन भान्ति । परमेश्वरात् भेदे हेतुः कर्तृतात्ययात् इति परमेश्वरस्य च उत्तमस्वातन्त्र्यमयत्वादिति आकूतशेषः ।

अशुद्ध्यं-शस्य कस्यचिदपगम एव तावदत्र शुद्धत्वमशुद्धिघनतानिवृत्त्यव-तरणरूपमिति व्याचष्टे बोध इत्यादिना । अनेन इति वेद्यानुपरक्तशब्-देन । कैवल्यं केवलता ।

उपाध्ययोगः इति एष एव परमार्थापवर्गः साङ्ख्यादीनामिति कैवल्यपदेन पिशुनयति । सौत्रीं पञ्चमीं हेतौ व्याचष्टे तदेतत् इत्यादिना । ननु ईश्वरनिर्माणं किमिति तत्र अपेक्ष्यते । आह ईश्वरनिर्मितिम् इति । स्वातन्त्र्य इत्यादि बहुब्रीहिः । अत एव इति यतो दुर्घटमपि एतत् मुख्यस्वभाववियोजनाभासमुत्थापयति, ततः स्वातन्त्र्यमयत्वमेव; नतु कथञ्चिदपि अस्वतन्त्रता कुत्रचिदपि अप्रती- घातादिच्छायाः । ननु स्वात्मनैव भगवानस्वातन्त्र्येण अपि भाति,- इत्येवंविधं चेदस्य उत्तमं स्वातन्त्र्यं, तर्हि भगवत्स्वरूपात् ते भिन्ना इति कथम् । एतत् परिहरति तेनैवच इति भगवता भिन्नशब्दे समासवर्तिनि । एतदेव स्फुटयति नहि इति । स हि स्वतन्त्रत्वेन भाति,-

(पगे ३२०)

इत्यस्यां वाचोयुक्तौ यत् तथाभाने स्वतन्त्रं रूपं, तदङ्गीकृतमे- वेति अस्वतन्त्रं ततो भिन्नमेव आभातीति आयातम् । ननु एवमस्वतन्त्रो भगवान् स्वातन्त्र्यं जह्यादेव । नेत्याह सचापि इति । स्वातन्त्र्यहानि- रेवं स्यात्, यदि पर एनमेवं कुर्यात्; नच एवम् । तदाह स्वयम् इति ।

ननु वस्तुतस्ते विज्ञानाकलादयः परमेश्वरादभिन्ना एव, ततः कस्य तत् स्वातन्त्र्यमुच्यताम्; किं भगवत एव, उत तेषामपि,-इत्याशङ्क्य आह साङ्ख्यपुरुषादयस्तु इति यो हि तथाबुभूषुर्न प्रतिहन्यते, स स्वतन्त्रः । एतच्च भगवत एव अस्ति तस्य एव सर्वपूर्णत्वेन

स्वामिनः—————————। (१।५।१०)

इत्युक्तनयेन बुभूषालक्षणया इच्छया योगात् । तथा इति अत्र तु भागे ये वर्तन्ते, घटादिवत् ते । तदेतदाह भूतादि इति । आदिपदात् भुवनतत्त्व-भावादिग्रहणम् । ते इति साङ्ख्यपुरुषादयः । ननु न तावदेते परमे-श्वरप्रमातृतापेक्षया भेदेन भान्ति घटादिवदेव, नच अस्मान् प्रति ते प्रकाशन्ते; तत् किमपेक्षया ते भिद्यन्तामित्याशङ्क्य आह मन्त्रेश्वराद्यपेक्षया इति । ते हि तान् स्वतोऽन्योन्यतो ग्राहकवर्गात् च भेदेन पश्यन्ति । यद्यपि अस्मदादिप्रमातॄणामपि ते आगमप्रामाणि-कतया भेदेन स्फुरन्ति, तथापि साक्षात्कारमूलत्वे सति आगमावभा-तस्य बहिः सर्वसाधारणाभासनिष्ठता; अन्यथातु स्वतन्त्रविकल्पा- भासवदसाधारणता एव, न बाह्यत्वम्-इत्याशयेन मन्त्रेश्वराद्य-पेक्षया इति उक्तम् । तदेव आह तदागमसिद्ध इति एवं सति आगमसिद्धास्ते भवन्ति, न अन्यथेति यावत् ॥ ६ ॥

ननु उक्तात् हेतोरस्तु विज्ञानाकलानां परमेश्वरात् भेदः, अन्योन्यतस्तु कथं बोधात्मत्वेन स्वरूपभेदस्य अभावात् देशकालभेदस्य

(पगे ३२१)

च बोधस्वभावं प्रति अभेदकत्वात् । तत् कथं ते इति बहुत्वेन एषां निर्देश इति चोद्यं परिहर्तुं सूत्रं

बोधादिलक्षणैक्येऽपि तेषामन्योन्यभिन्नता । तथेश्वरेच्छाभेदेन ते च विज्ञानकेवलाः ॥ ७ ॥

बोधरूपता नित्यत्वं विभुत्वमित्यादि लक्षणं यद्यपि एषां न भिन्नं, तथापि ईश्वरेच्छा यतस्तथा भिद्यते- नित्यव्यापकबोधमा-त्ररूपो हि अहं भेदेन निर्भासे-इति; ततस्तेषां युक्त एव अन्योन्यं भेदो ग्राह्येभ्यो ग्राहकान्तरेभ्यश्च । ते च शास्त्रे विज्ञानमात्रं कर्तृताशून्यं मायीयभेदावभासशून्यं च एषां स्वभाव इत्येवं विज्ञानाकला इति उक्ताः । नच वाच्यं यदि ईश्वरेच्छा बोधमा-त्राणि अपि भेदवन्ति करोति, तर्हि बोधस्य एव प्रमातृत्वं भिन्ने घटादि-वर्गे सर्वदा निरूप्यताम्; किं शून्यादिदेहान्तान्तरालप्रमात्रन्तर-कल्पनेनेति यत उक्तमसकृदवभासमानमनपह्नवनीयमिति । अवभाति च कृशोऽहं क्षुधितोऽहं सुखितोऽहं सर्वोत्तीर्णोऽहमिति देहप्राणादेः प्रमातृभाव इति सूत्रार्थमवतारयति अचिन्त्य इत्यादिना । भेदश्चेत्, कथं बोधादिरूपता; सा चेत्, कथं भेदः इति भेदे परस्परं बोधादिलक्षणैक्ये च पर्यनुयोगो नैव कार्यः । आदिपदेन सौत्रेण नित्यत्वव्यापित्वादेः सङ्ग्रह इति व्याख्यास्यंस्तदुपयोगि निरूपयति बोधात्मनाम् इत्यादि । ननु इति तथानिर्माणे हि कथं नित्यतादि भवेत् ।

अन्योन्यभेदाभासमात्रमेव निर्माणं, नतु अधिकं तदुपरि नीलाद्याभासान्तर इव येन नीलादेरिव अनित्यता भवेत् । प्रकृत उपयोजयति बोधस्य इति । चकारेण प्रमेयं समुच्चिन्वन्नयत्नसिद्धता- मस्य अर्थस्य आह । ऐश्वर्यं हि संविदः पूर्णं रूपमिति तदनाभासोऽशुद्धिरेव । तदाह नतु शुद्ध इति । साम्यं दर्शयति तैश्च इति चो हेतौ ।

(पगे ३२२)

निषिद्ध इति अहङ्कारवृत्तित्वेन तदभ्युपगमात् । अस्य इति पुरुषस्य ।

उक्तम् इति तैः साङ्ख्यैरिति सम्बन्धः । ननु सूत्रवृत्तिगतं रूपं विद्येशा-नामपि अस्ति,-इति विशेषः कुतः । आह तेषाम् इति किञ्चित्स्वतन्त्राणाम् इति परापररूपस्वातन्त्र्यांशानुगृहीतापरस्वातन्त्र्ययुक्तानामिति यावत् । अनागतावेक्षणलक्षणेन पूर्वापरपर्यालोचनेन तन्त्रयुक्तितो विशेष-लाभः इति तात्पर्यम् । ननु तज्जातीयत्वे तुल्ये प्रायपदेन उपमानता कथमुच्येतेत्याशङ्क्य आह लोकप्रसिद्धेः इति मायीयलोकोत्तरं पारमेश्वरं शासनं यतो पूर्वं लोकस्य, तत्र हि सम्यगागमिते संवेदने परापरसिद्धिलाभः, असम्यगपि गाणपत्यवैचित्र्यं; नतु कथञ्चिदपि पाश्वात्मकता । ततस्तस्मिन् व्युत्पिपादयिषिते मायीयप्र-सिद्धेन व्युत्पादनीय इति प्रसिद्धत्वात् दृष्टान्तीकरणं तज्जातीयस्य अपि यथा अयं गौर्मदीयदान्तप्राय एवेति । शास्त्रमिह पारमेश्वरमेव । इदानीं तज्जातीयतां निवारयन् सादृश्यमेव स्फुटयति साङ्ख्यैश्च इति । अमी तु इति विज्ञानकेवलत्वं मायीयाध्वोत्तरणमात्रादेव परयोजनिकाशून्यात् दीक्षाविशेषात् गीताद्युक्तकार्मबन्धवन्ध्य-केवलपुरुषस्वरूपभावनाबलात् तदन्ताध्वधारणाध्यानसमाधि-बलात् च लभ्यते इति । तल्लाभश्च भोगविशेष एव । तत एव उक्तं

यो यत्राभिलषेद्भोगान् स तत्रैव नियोजितः । सिद्धिभाङ्मन्त्रसामर्थ्यात्——————॥

इत्यादि । ततः साङ्ख्यैः पुरुषैर्यत् सादृश्यं, तदात्यन्तिकं तज्जातीयतापर्यन्तं न भवति,-इति प्रायिकं सादृश्यं युक्तम् ॥ ७ ॥

एवं

स्वातन्त्र्यहानिर्बोधस्य————————-। (३।२।४)

(पगे ३२३)

इत्यमुं भागं विज्ञानाकलेषु उक्त्वा

—————————स्वातन्त्र्यस्याप्यबोधता । (३।२।४)

इत्यस्य विषयमाह सूत्रेण

शून्याद्यबोधरूपास्तु कर्तारः प्रलयाकलाः । तेषां कार्मो मलोऽप्यस्ति मायीयस्तु विकल्पितः ॥ ८ ॥

एतदवतारयति सङ्गतिं कुर्वन् एवम् इत्यादिना । एक इति एकराशि- रणूनामिति यावत् । बोधात्मत्वात् इति बोधस्य्स् यतोऽयमहंविमर्श आत्मा सारभूतस्ततस्तत्र आरोपिते स्वभाविनोऽपि आरोपो जात एव ।

एतदेवच युक्तमिति अभ्युच्चयहेतुमाह व्यतिरिक्त इति व्यतिरिक्तो बोधात् बाह्यो यावदहंविमर्शस्य विषयस्तावत् स स्वयमप्रकाशमानः कथमहमिति विमृश्यते । स्वप्रकाशविमर्शो हि अयम्, ततः स्वप्रकाशतया अपि आरोपितया भवितव्यमेव । एतत् परिहरति तथापि इति स्वप्रकाशता काममारोपिता वास्तवी एव, न असौ प्रतिप्रसूता इव तथापितु अपहस्तितस्वभावैव वर्तते सा परप्रकाशत्वस्य इदमितिवेद्यतारूपस्य तादवस्थ्यात् । तदाह बोधतातिरस्कारेण इति बोधता यतस्तिरस्कृता तत एवं वृत्तावुक्तं सौत्रमबोधपदं व्याख्यातुम्, अहन्ता तु शुद्धस्वातन्त्र्यरूपा आरोप्यमाणा स्फुटैव व्यतिरिक्तत्वस्य विच्छिन्नतालक्षणस्य भुङ्क्ते-करोतीत्येवंरूपस्य पारतन्त्र्यस्य च परानुग्रहादेवङ्करोमीत्येवंलक्षणस्य स्वातन्त्र्यविरुद्धस्य अनवभासात् । तत्त्वज्ञानावतरसम्पत्तये हि यत्नत एवम्भूतोऽवभास उत्थाप्यमानोऽपि न उत्तिष्ठति, ततोऽहमित्यंशे या स्वप्रकाशता; सा विरुद्धपरप्रकाश्यतात्मकवेद्यतापहस्तितस्वरूपेति अबोधता उक्ता ।

या तु अविच्छिन्नता स्वतन्त्रता च तत्रैव अंशे, सा तद्विरुद्धविच्छन्नत्वपरतन्त्रतावभासनेन अन्यक्कृतेति

(पगे ३२४)

कर्तृता उक्ता शून्यादेः । प्रलयाकलार्थव्याख्यानबलादेव तेषाम् इत्यादिसूत्रार्थो व्याख्यानार्ह इत्याशयेन आह प्रलय इत्यादि ।

सर्गोत्थापकः संस्कारः सर्गसंस्कारः । वक्ष्यमाणन्यायेन इति

सवेद्यमपवेद्यं च—————————। (३।२।१५)

इत्यत्र । व्यवस्थितविकल्पश्च अयम् । तथाहि केचन शून्याद्यंशसङ्कु- चितसंविन्मया अपवेद्यसुषुप्तपदभाजः, अन्ये बुद्ध्यादिभागावरुद्- धचिन्मयाः सुखादिशेषसामान्यवेद्ययोगात् सवेद्यसुषुप्तपदजुषः; स्थूलकार्यकरणवियोगात्मकत्वं तु प्रलयाकललक्षणमेषामेकमेवेति ॥ ८ ॥

एवं

————————स्वातन्त्र्यस्याप्यबोधता । (३।२।४)

इत्येतदंशविषयाभिधानप्रसङ्गात् कार्ममलस्य अपि विषयो दर्शितः, मायामलस्य अपि पाक्षिकः; अधुना आणवकार्मद्वयाभावेऽपि मायाख्यमलस्य केवलोऽस्ति विषय इति निरूप्यते सूत्रेण

बोधानामपि कर्तृत्वजुषां कार्ममलक्षतौ । भिन्नवेद्यजुषां मायामलो विद्येश्वराश्च ते ॥ ९ ॥

ये चिन्मात्रमेव आत्मतया अहमितिचमत्कारवन्तं पश्यन्ति तत एव अप्रतिहतज्ञानक्रियास्तत एव आणवमलवियोगिनः कर्मसंस्कारविक-लाश्च संसारोत्तीर्णत्वात्, ते व्यतिरिक्तं वेद्यं कार्यं च पश्यन्तो द्वैतदर्शनाङ्गीकृतेश्वरतुल्या मायाख्यमलयुक्ता विद्यामन्त्रेश्व-रादय इति सूत्रार्थः ।

तमवतारयति स्वातन्त्र्य इत्यादिना । कर्तृताया भेदो वैचित्र्यमुत्तमकर्तृत्वात् वैलक्षण्यम् । प्रकारान्तरम् इति प्रलयाकलगतत्वेन विकल्पनमुक्तः प्रकारः, ततो योऽन्यस्तमाहेत्यर्थः । प्रलयाकलात् सकलात् च नियत्यादि

(पगे ३२५)

इत्यनेन उक्त्वा कर्तृता इत्यादिना विज्ञानाकलात् भेद उक्तः ।

बोधयोगेन विद्यास्पर्शः, कर्तृतया च ईश्वरतेति विद्येश्वरत्वेऽपि इत्यत्र वृत्तिवाक्ये दर्शितम् । तेन इति मायाख्यमलेन, यतो वेद्यादपृथग्भूतरूपता सदाशिवेश्वरोचिता तिरोहिता पृथग्भावेन एव अवभासिता, तत इत्यर्थः । पूर्णता अत्र परावतापि ? । पूर्ववत् इति वृत्तिं व्याचष्टे ईश्वराच्च इति चकारात् भगवतोऽपि । अत इति विवृणोति पूर्ण इत्यादिना प्रतीकेन । अपिशब्दस्य भिन्नक्रमतां दर्शयन्नसम्भाव्यमेषां तावदणुत्वम्, तत्तु न्यायबलायातं भवेदपि-इत्येतत् द्योतयति ॥ ९ ॥

अथ मलत्रयस्य यौगपद्येन विषयं वक्तुं सूत्रं

देवादीनां च सर्वेषां भविनां त्रिविधं मलम् । तत्रापि कार्ममेवैकं मुख्यं संसारकारणम् ॥

१० ॥

सङ्क्षेपेण सूत्रार्थः स्पष्टः, विततस्तु टीकायामेव उक्तः ।

संसारकारणम् इति सामग्रीरूपतया त्रीणि अपि मलानि संसारहेतवः, अन्वयव्यतिरेकवशेन तु मुख्यता कार्मस्येत्यर्थः ।

विचित्रकार्यकरणा इति देहेन्द्रियरूपशक्तिवैचित्र्यादेव चतुर्दशविधो भूतसर्गः चतुर्दश इति स्पष्टयति । तत्र इति त्रिविधम् इति योजयति । एषाम् इति चतुर्दशानामपि मुख्यत्वं व्याचष्टे विद्येश्वर इत्यादिना ।

कार्ममलस्य अभावे सति एव दत्तोऽसंसरणसोपानपदबन्धः, अत एव कार्ममलस्य निराकरणमेव साङ्ख्ययोगपुराणभारतश्रुत्यन्तादौ यत्नेन उपदिश्यते । व्यतिरेक इति कार्मो मलस्ताभ्यां व्यतिरिक्तस्तदनामिश्रो न दृष्टः, नापि स्वकार्यं तौ व्यभिचर्य अप्रयोजकीकृत्य करोति तत्कार्यस्य अपि दर्शनात् । अथवा इति स एव अर्थो

(पगे ३२६)

भङ्ग्यन्तरेण उक्तः । मुख्यतोक्तौ किं मूलम् । आह कार्म इति तेनैव एकेन संसाराख्येन प्रयोजकेन प्रयुक्ते ते मले न भवतः, संसारोत्तीर्णेन अपि विज्ञानाकलमन्त्रेश्वरादिलक्षणेन प्रयुक्तत्वं तयोरस्तीति दीक्षादिना इति पूर्वकृतकर्मवल्ल्याः शोषणमपराधिरोहणविरोधिकर्मप्रशमनमपरं भवति

नहि दीक्षासमं किञ्चित्—————————।

इति श्रीललितायाम् । श्रीमद्गुरुभिरपि उक्तं

कृतमपि फलाय न स्याद्दीक्षोपर्यूषरोप्तबीजमिव । बलवद्विशेषशास्त्रव्यतिकरजातं विहायैकम् ॥

इति तथा

अव्याहतस्य भगवन्—————————।

इत्यादि । वशीकरणादि वा यथा मन्त्राः कुर्वते । नच तत्र रागद्वेषवि- दानरूपाद्यपसारणं ? तेन विना अपि रोगविरुद्धस्य इव भेषजत्वात् तथा रागाज्ञानाद्यवाच्छन्दता ? अपि मन्त्रेण बन्धशक्तिरपसार्यते, ततो

दोषाः स्वबीजसन्ताना दीक्षितेऽप्यनिवारिताः ।

इति अबाधकम् । एवं त्रिभिस्त्रिभिरेकद्विकभेदैरेकेन च त्रिकभेदेन सप्त प्रमातृविकल्पाः, तेषामपि विकल्पसमुच्चयाङ्गाङ्गितादिना असङ्ख्यो भेद इति सूत्रितम् ॥ १० ॥

मलत्रययौगपद्यलक्षितभवितात्मकसकलावस्थाया एव उद्भवतिरोभावभेदेन द्वैधं प्रकटयितुमुद्भूततां तावदाह सूत्रेण

कलोद्बलितमेतच्च चित्तत्त्वं कर्तृतामयम् । अचिद्रूपस्य शून्यादेर्मितं गुणतया स्थितम् ॥ ११ ॥

देवादीनां यत् कर्तृतांशप्रधान्येन मलापहस्तितबोधरूप- तया स्वातन्त्र्यात्मकं चितस्तत्त्वं कलाशक्त्या भगवत उद्बलितं मलेन

(पगे ३२७)

न्यक्कृतमपि समुद्गतबलं कृतं शून्यादेर्देहान्तस्य सम्बन्धि, तदप्रधानत्वेन स्थितं यस्मात् मितमिदन्तापतितदेहादिप्रमेयनिमग्न-त्वेन प्रमेयं च सङ्कुचितं च । यो गौरो, यः सुखी, यः पिपासितो, यः सर्वाकारशून्यः; सोऽहमिति हि इदन्ता एव इयमहन्ताविशेषणीभावेन भविनां स्फुरति, इयं सा जाग्रदादित्रयमयी संसारदशा,-इति सूत्रार्थः । अस्य अवतारणमाह संसारिण एव इति सकलस्य ।

आत्मानात्मनोरहमिदम्भागयोरुपक्रमते इति अनात्मप्राधान्यं तावदादेति यावत् । प्रसङ्ख्यानवतः इति समाहितमनसः । जडस्य इति लौकिकस्य । यदिवा इति वैशेषिकात्मकल्पम् ।

ते हि गुणभूतान् धर्मरूपान् रागादीन् समवेतान् नित्यव्यापकस्वभावस्य आत्मन इच्छन्ति । निर्मेयस्य अपि भिन्नत्वं प्रकरणादशब्दस्पृष्टमपि मन्तव्यम् । शिष्टमत्र स्पष्टम् ॥ ११ ॥

एवमुद्भवमुक्त्वा न्यग्भूततामाह सूत्रेण

मुख्यत्वं कर्तृतायाश्च बोधस्य च चिदात्मनः । शून्यादौ तद्गुणे ज्ञानं तत्समावेशलक्षणम् ॥

१२ ॥

यदा पुनः कर्तृताया मुख्यत्वं, तन्नान्तरीयक एवच शून्यादेर्मेयतांशस्य गुणीभावस्तत्र च अचिद्रूपे गुणीभूते

————————–स्वातन्त्र्यस्याप्यबोधता । (३।२।४)

इति यो मलव्यापारोऽभूत् तस्य अपहस्तनात् बोधस्य अपि चिदात्मनश्चिद्रू-पतायां प्रधानस्वभावस्य मुख्यत्वम्, तदा एतदज्ञानरूपमल-प्रतिद्वन्द्वितया समावेशलक्षणं सत्यस्वरूपे सम्यगासमन्तात् प्रवेशलक्षणं ज्ञानं यल्लाभेन ज्ञानी, यदभ्यासेन च देहप्राणादावनन्तसंविद्धर्मात्मकविभवसमासादनात् योगी भवति । एतदुक्तं भवति-यदा अहम्भावः स्वातन्त्र्यदिशैव व्यापित्वनित्यत्वादिपरामर्शबलात्

(पगे ३२८)

शून्यादेः प्रमेयीकृतादुन्मज्ज्य इव आस्ते, तदा तुर्यातीतता; तदापिच शून्यादिसंस्कारोऽपि अस्ति,-इति अव्यतिरेकतुर्यातीतसमता एव । यदातु परामृष्टनित्यत्वव्यापित्वादिधर्मकैश्वर्यघनात्मना अहम्भाव- सिद्धरसेन शून्यादिदेहधात्वन्तं विध्यते येन प्रमेयत्वात् तत् च्यवत इव, तदा तुर्यदशा; यदापि विद्धोऽसौ प्राणदेहादिधातुः संविद्र-सेन अभिनिविष्टोऽत्यन्तं कनकधातुरिव जीर्णः क्रियते येन स द्रुतरस इव आभाति केवलं तत्संस्कारः, तदापि तुर्यातीतदशा सा भवति । सा इयं द्वयी अपि दशा समावेशो यल्लाभाय अन्यदुपदिश्यते ।

यत् गीतं

मय्यावेश्य मनो ये—————————। (१२।२)

इति उपक्रम्य

अथावेशयितुं चित्तम्————————–। (१२।९)

इति । तस्यैवच पल्लवभूताः परमेश्वरस्तुतिप्रणामध्यानपूजादयः । तेषां हि प्रह्वीभावः स्वात्मगुणीकरणं परमेश्वररूपप्रधानतापादनं तत्त्वम्

अभ्यासेऽप्यसमर्थः सन् मत्कर्मपरमो भव ।

(गी। १२।१०)

इत्यादि, देहपाते तु एकघना एव शिवतेति तदा समावेशादिव्यवहारो न कश्चिदिति सूत्रस्य पिण्डार्थः । तमवतारयति तस्यैव इति । सूत्रवृत्त्योः साम्यं करोति पूर्वसूत्र इत्यादिना । पूर्वसूत्रे तावत् कर्तृत्वमुक्तं तदेव देहानुसृतं केवलं, तस्य पूर्वं गुणता उक्ता; अत्र तु प्रतिपक्षभूता प्रधानता तत्र अस्तीति षष्ठ्या सूत्रे यदुक्तम्, तत् वृत्तौ प्रथमानिर्देशेन निर्दिष्टस्य अपि शून्यादेः पश्चाद्गुणताप्रदर्शनेन विवृतं; नतु साक्षात् । नहि कर्तृत्वस्य प्राधान्यमिति वृत्तिरस्ति । ननु शून्यादेः पश्चाद्गुणीकरणं चेत्

(पगे ३२९)

प्राक् क्षालनाद्धि पङ्कस्य—————————।

इतिनीत्या किं पूर्वं प्रथमानिर्देशेन प्राधान्यं ख्याप्यते । आह विचार्यमाणता इति तत् तावदिह प्रकृतं विचारणीयमिति प्रधानं मुख्यता । गुणता इति तत्पृष्ठे विचारस्य शरीरमित्यर्थः । ननु स्पष्ट- मेव कर्तृत्वस्य प्राधान्यं वृत्तौ किं न दर्शितम्, किमनया भङ्ग्या । आह कर्तृत्व इति कर्तृताया मुख्यत्वे शून्यादेरवश्यं गुणता, तस्य तु मुख्यत्वे तस्या इति अनया वृत्त्या प्रतिपादिते तुलानत्युन्नतिन्यायो लभ्य-ते । एषा हि वृत्तिरवश्यं सूत्रार्थमनुसरन्ती कर्तव्येति योजनायामेवम्भूतो न्यायः प्रतीयते । किमनेन प्रतीतेनेति चेत्, उच्यते इतरथा इति । यदि एष न्याओ न प्रतीयेत, तदा पूर्वसूत्रे

कलोद्बलितम्—————————। (३।२।११)

इत्यत्र शून्यादेर्गुणत्वे प्रतिसम्बन्धित्वनिर्देशेन प्रधानत्वं यदर्थापन्नं, तत् वृत्तौ न प्रकटीकृतं भवेत्; अनेन तु न्यायेन दर्शितेन प्रकटीकृतमेव भवति । पूर्वसूत्रे वृत्तौ कर्तृत्वस्य उपसर्जनत्वं तावत् कण्ठेन उक्तम्, तन्नान्तरीयकत्वेन च शून्यादेः प्राधान्यावगमः इतिन्यायात् प्रधानत्वं यत् शून्यादेर्वक्तव्यं पूर्वसूत्रे, तदर्थापन्नम् । गुणत्वं तु यत् वक्तव्यं, तदिह सूत्रे स्वकण्ठेन उक्तमिति तुशब्दो विशेषद्योतकः इह तु इति । तत् गुणत्वं सूत्रोक्तं सत् प्रथमानिर्देशेन वृत्तौ विवृतम् । अथ किमर्थं प्रथमया विवृतम् । आह प्रधानतया इति स्वतन्त्रबोधरूपता तावत् सदैव प्रधानभूता स्थिता, सातु शून्यादेः प्रधानतावभासेन पूर्वसूत्रेऽर्थापन्नेन न्यक्कृता; ततः स चेदप्रधानत्वमनुभवति सा हि उन्मज्जतीति प्रथमानिर्देशमाह । स एव शून्यादिरात्मनः प्राधान्या प्राधान्ये स्वीकुर्वाण एवं करोतीति हि तस्य प्राधान्यं संसारभूमौ

(पगे ३३०)

पशुत्वे पतित्वे च दर्शितं भवतीति प्रागुक्तनयमेव स्मारयति यदाहि इति । स्वतन्त्र इति । स्वतन्त्रबोधो ना बोद्धृरूपोऽहमिति यो गीयते, स कः इति चिन्तायां यदा देहादिना तद्रूपं पूर्यते यो गौरः, सोऽहं; यः क्षुधितः, सोऽहमित्यादि; तदा देहादिरेव प्रधानीभवति संवित्स्व- रूपं न्यक्कृतं जातमिति वेद्यमेव प्रधानीभवति, न वेदकरूपम्; यदा तु देहादेः किं तत्त्वमितिचिन्तोपक्रमं प्रकाशघनमेव संविद्- रूपमिति, तदा बोधस्वरूपीकृतं तद्रसानुविद्धमेव शून्यादिदेहान्-तमवभातीति अभ्यासात् तस्य संविद्धर्माः शक्तिविशेषाः सम्यगावि-शन्तो विभूतीरुत्थापयन्ति, अनभ्यासेऽपि तु तत्क्षणावेश एव आनन्दोद्- भवकम्पनिद्राव्याप्तिरूपधूर्ण्याविर्भावनक्रमेण जीवन्मुक्ततालाभः । यथोक्तं

प्राप्तेऽपि सिद्ध्यन्ति नास्त्यत्र विवादः ।

इत्यादि

सैषा परमार्थवेधे दीक्षा—————————।

इति उक्तम्

इयं निर्वाणदीक्षा च—————————। (स्प। का। ३२)

इति गुरुभिः, भगवता अपि

य एवं वेत्ति तत्त्वेन तस्य निर्वाणगामिनी ।

दीक्षा भवत्यसन्दिग्धा तिलाज्याहुतिवर्जिता ॥ (पा। त्री। २५)

इति । अलं तावदनेन । तदाह शून्यादौ बोधोऽध्यारोप्यते इति नच कुसूल इव ब्रीहीणामयमध्यारोप इति दर्शयति । तेन कर्तृत्वेन तावदयत्नवशादेकीभूतं शून्यादि यत् स्थितं, तत् तेनैव कर्तृताद्वारेण देशकालधर्माकारानवच्छिन्नबोधस्वभावत्वमभीति तल्लक्षणीयाभिमुख्येन निवेश्यते अभिनिवेश्यते ।

अभिनिवेशपूर्वकं प्राप्यते इति द्विकर्मकं वा तथाभिनिवेश्यमानं विश्वात्मकत्वं

(पगे ३३१)

यतो बोधस्य, ततस्तदपि स्वीकरोति । तदाणोः इति आत्मसंस्कारनिवृत्तेरा- वेश्यावेशकभावो युक्त इति यावत् । विशेषदर्शनेषु इति शाक्ताद्वैत- प्रधानेषु, विशेषः शक्तिलक्षण आत्मनो दर्श्यते साक्षात्कारं नीयते येषु । ज्ञानोल्लास इति अज्ञानविगमादद्वयबोधप्रसरणादुल्लास इति ज्ञानम् इति वृवृतम् ।

तुर्य इति एतद्दशासमापत्तिपर्यन्तरूपा अपि तुर्या-तीतता तत्रैव उक्ता, व्यतिरेकेण तु शून्यादेरवस्थापने बोधस्य तुर्याती-तता तत्रैव उक्ता शुद्धात्मता निष्कलता शुद्धचैतन्यमिति सामान्य-दर्शनेषु सर्वोत्तीर्णैकतद्रूपवेदकेषु दर्शितेति सूचयति । ननु सूत्रे पूर्वत्र इह च कर्तृताया एव गुणप्रधानभावौ वक्तुमारब्धौ, तद-शङ्कितो बोधस्य च इति सूत्रांशः कथम् कर्तृमयतामापन्नस्य इति च वृत्तावुचितायां बोधमयताम् इति किमेतत्,-इत्याशङ्क्य उक्तमेव प्रमेयमेतत्समाधाने सङ्क्षेपेण पुनः परामृश्य हेतूकरोति ।

यदुक्तमधुना एव, अत एव हेतोः सूत्रे इदमुक्तं; तदेवच इत्थं विवृतमिति सम्बन्धः ॥ १२ ॥

ननु एवं पत्युस्तुर्यदशा तदतीता वा अस्तु; पशोस्तु सुषुप्तस्वप्न-जाग्रद्दशा आगमेषु या बोधावरोहणक्रमतारतम्येन दर्शिताः, तासां रूपं वाच्यमिति हृदि गृहीत्वा तुर्यावरोहानन्तरभाविना सुषुप्तस्य श्लोकत्रयेण तत्त्वं निरूपयन्नेकेन प्रथमसुषुप्तस्य तावत् पीठबन्धं करोति

शून्ये बुद्ध्याद्यभावात्मन्यहन्ताकर्तृतापदे । अस्फुटारूपसंस्कारमात्रिणि ज्ञेयशून्यता ॥ १३ ॥

पीठबन्धमेव टीकाकारो दर्शयिष्यति सौषुप्तमुभयरूपम् इत्यादिना । तृतीयश्लोके यदुभयात्म वक्ष्यते, तस्य अपवेद्यभेदपीठिका इयमिति । इह संवित्तत्त्वं स्वस्वरूपमावृण्वानं ज्ञेयात्मना

(पगे ३३२)

बुद्ध्यादिना देहान्तेन घटादिना च आभाति । एकमेवच इदं स्वातन्त्र्यविजृम्भितम्, नतु अत्र क्रमो वा भेदो वा वस्तुतः, भाति तु स्वातन्त्र्यादुभयमपि । एवंस्थिते चित्तत्त्वस्य यः स्वरूपावरणांशः, स एव उत्तरभागान्तरानुदयप्रध्वंसानादरयोगेन प्रलयसमाधाननिद्रामूर्च्छादिषु इव तदसङ्कीर्णाभासः परिस्फुरन् विश्राम्यति । तत्रैवच अहन्तारूपं कर्तृतायां पदं परामर्शस्य स्फुटत्वा भावादीषद्रूपणासारेण संस्कारात्मना लोकप्रसिद्धरूपाभावादरूपेण वावेद्येन निषेध्यात्मना युक्तं यदा भवति, तदा सा दशा नेत्येवपरामर्शशेषा अकिञ्चनोऽहमितिप्रतिपत्तिवदाक्षिप्तसामान्या संस्काराशेषीभूतज्ञेयरूपा शून्य इति उच्यते । तत एव आगमः

अशून्यः शून्य इत्युक्तः शून्यश्चाभाव उच्यते ।

अभावः स तु विज्ञेयो यत्र भावाः क्षयं गताः ॥

(स्व। ४।२९२)

इति । इयमेव संस्कारशेषता भावान्तरे भावान्तराणां सर्वत्र अभाव उच्यते, नतु सर्वात्मना सतां विनाश इति उक्तमसकृत् ।

सूत्रार्थमवतारयति प्राक्तनेन सङ्गतिं कुर्वन् एवम् इत्यादिना ।

प्रस्तौति इति तृतीये तु निर्वाहयिष्यतीतिभावः । कार्याणां भूततन्मा- त्राणां करणानां च त्रयोदशानामभावेन सर्वाभाव उक्तः ।

बुद्ध्याद्यभावात्मनि इति ज्ञेयशून्यता इति च यदुक्तं, तत् निर्वाहयति पराशङ्कामनुवदन् यद्यपि इत्यादिना । ननु तत् सदपि परमशिवादिसंवित्तत्त्व इव वेद्यतामापद्यते इत्याशङ्कायामपि आशङ्कान्तरं ननु इत्यादिना तदात्मतया इत्यन्तेन निराकृतम् । तत्र च हेतुः संस्काररूपतया इति । अभेदेन इति सतोऽपि भेदस्य अनवभासन इतियावत् । एतदेवहि संस्कारत्वं, तत् स्फुटीकृतं पूर्वानुभूतबलादित्येवमाशङ्कामनूद्य परिहरति तथापि इति ।

बोध एव सङ्कुचितः

(पगे ३३३)

शून्यमिति बोधरूपत्वात् का वेद्यता । ननु बोधस्य एव आभासच्छायान्तरयोगे वेद्यता, नतु अपरं वेद्यं किञ्चिदस्ति

—————————देहाभासान्तरं नच ।

इति । एतत् परिहरति शङ्कित्वा शून्यरूप इत्यादिना । लोकप्रसिद्ध्या यत् वेद्यं, तेनापि अधिकेन भवितव्यम्; तत् तत्र नास्ति तस्य प्रत्युत निषेधः प्रतीयते इतिभावः । तावतैव इति वृत्तिगतमेवकारं व्याख्यातुं साम्यं दर्शयति साङ्ख्यपुरुषाणां च इति । विशेषं तु आह केवलम् इति । निरावरणात् इति विमर्शरूपता अनेन अङ्गीकृता स्वाभाविकी, नच सा विज्ञानकेवलावस्थायामस्ति । मायीयायाः इति कलाविद्याकृतायाः । आश्रयाभावात् इति । संस्काररूपता हि वेद्यभागभूमावेव, नतु संविदि तत्र सर्वात्मना तादात्म्यगमनात् वेद्यराशेः, अत एव संस्काराभावात् पुनरदःसृष्टिरेषां नास्तीति लौकिकीषु जाग्रदाद्यवस्थासु सा दशा बीजभूता न भवतीति बीजत्वेन उपलक्षितं यत् सौषुप्तरूपं सवेद्यं, तदरूपत्वमत्र न भवति, अन्यत्र तु भवत्येवेति आकूतम् ।

एतदेव आगमान्तरेण संवादयति अत एव इति । यतो बोधमात्रमेव सङ्कुचितं शून्यमुक्तम्, शून्यरूपता तु न स्फुटवेद्यरूपा; ततो

ज्ञानज्ञेयस्वरूपिण्या शक्त्या परमया युतः ।

पदद्वये विभुर्भाति—————————————॥ (स्प। २।२)

इति जाग्रत्स्वप्नपदयोर्वेद्यसद्भावः स्फुट उक्तः । सुषुप्ततुर्ययोः पुनस्तदभावात् चिन्मयत्वम् । तदयोगादयमिह विभागः शिवतत्त्वे ईश्वरान्ते शुद्धसंविल्लक्षणे यदहमिदमिति स्फुरितं, तत्र इदन्ता एव उल्लसन्ती संविदो भावानां च अन्योन्यं भेदनरूपं निषेधं तावदाक्षिपति । तत्र निषेधस्य गुणतायां संविदः प्राधान्येन प्रमातृतायां मन्त्रमहेशता, विज्ञानाकलता च विमर्शयोगायोगाभ्याम्,

(पगे ३३४)

निषेधप्राधान्ये शून्यप्रमातृता, भावप्रधानतायां सकलतेति ।

ननु अन्योऽपि अस्ति साङ्ख्यपुरुषादस्य विशेषः इत्याशङ्क्य परिहरति सौषुप्त इत्यादिना ॥ १३ ॥

शून्यप्रमातुरेव वक्तव्यशेषमाचक्षाणो द्वितीयसुषुप्तस्य भूमिकां करोति सूत्रेण

साक्षाणामान्तरी वृत्तिः प्राणादिप्रेरिका मता । जीवनाख्याथवा प्राणेऽहन्ता पुर्यष्टकात्मिका ॥ १४ ॥

एष शून्यः प्रमाता अहन्तारूपया कर्तृतया अभिषिक्तो विद्याकलाशक्तिप्रपञ्चरूपस्य बुद्धिकर्मेन्द्रियवर्गस्य बाह्यविषयालोचनविषयनिर्माणलक्षणतो बाह्यवृत्तेः प्रत्येकमसाधारणरूपाया विलक्षणा या, असावान्तरी वृत्तिर्यया वायुरेकः प्राणनादिक्रियापञ्चकप्रपञ्चितः पञ्चात्मकतामभ्येति; तां वृत्तिं जीवनलक्षणां तस्य अक्षवर्गस्य जडस्य

यतः करणवर्गोऽयम्—————————। (स्प। का। १।६)

इतिन्यायेन स्वावेशवशादुत्थापयन् जीव इति उच्यते । सा तथाभूता या वृत्तिस्तस्य शून्यस्य तथोत्थापिका, सा जीवनक्रिया; इन्द्रियशक्तीनामे- ववा या आन्तरी साधारणरूपा प्राणनादिक्रियोत्थापिका वृत्तिः, सा परमार्थतः कर्तुरेव वृत्तिः; न जडानामिति सैव जीवनम् । यदातु प्राण एव अहन्ता, तदा अपि एवम्; तदा तु प्राण एव जीवस्तत्रैव अहन्तावेशात् । उभयोरपिच अयं योन्यन्तरसञ्चारी पुर्यष्टकशब्द- वाच्यो यतोऽत्र प्राणादिपञ्चकमिन्द्रियवर्गौ दौ निश्चयात्मिका च तृतीया स्वीकृतान्तःकरणान्तरा धीर्व्यज्यते । सूत्रार्थमवतारयति अन्य इत्यादिना । स्व इति शून्यकर्तृरूपसंलग्नानां करणस्वभाव- त्वादेव तत्प्रेरणात् सा इति सूत्रे कार्यकारणयोरभदोपचारात् जीवनरूपाक्षवृत्तिसम्पादकत्वादहन्ता

(पगे ३३५)

एव अक्षवृत्तिरिति उक्ता । उपचारस्य च प्रयोजनमक्षाणामाहङ्कारिकत्व- मेव परमार्थः इतिज्ञापनम् । आन्तर इति अहमितिसंरम्भात्मकः ।

एतेन पूर्वसूत्रात् शून्ये इत्यनुवृत्त्या शून्ये या अहन्ता, सा प्राणादि- हेत्वन्तराक्षवृत्तिकारणभूता सती जीवनं यतोऽक्षवृत्तिरूपस्य जीवस्य यत् कारणं जीवनालक्षणमिति सूत्रार्थः सूचितः । एवमुपचा- रेण व्याख्याय करणस्य परमार्थतः कर्तृसमावेशेन करणत्वात् तत्क्रियया एव क्रियावत्त्वं खड्गस्य इवेत्याशयेन मुख्यतयैव सूत्रे योजयन् वृत्तिमन्यथा व्याचष्टे अथवा इति । पूर्वव्याख्याने वृत्तावेवं विग्रहः-सर्वेन्द्रियशक्तिसाधारणं जीवनाख्यं यत् प्राणनादिक्रियापञ्चकं प्राणादिविभागकारणभूतं तस्य व्यापारपञ्चकस्य प्रेरणात्मिका अहमितिसंरम्भलक्षणा वृत्तिर्यस्य शून्यस्य, स तथा उक्तः । इदानीं तु एवं विग्रहः-सर्वेन्द्रियशक्ती- नां साधारणं जीवनशब्दवाच्यं प्राणादिवायूनां प्रेरण- लक्षणमन्तर्वृत्तिशब्दवाच्यं, तत् यस्येति; तद्धि तस्य सम्बन्धि तस्य एव कर्तृत्वात्, नतु तासां कारणत्वादिति आशयः । तदाह तत्समवेतत्वात् इति कर्तृरूपसमावेशादित्यर्थः । इतिशब्दो हेतौ । यत एवं तासामपि क्रिया तस्य सम्बन्धिनी, अतो हेतोरत्र पक्षे स जीवः षष्ठ्या अन्यपदार्थीकृतः; अन्यथा अन्यक्रिया अन्यस्य सम्बन्धिनी कथं स्यादिति आशयशेषः । एतदव्यतिरिक्तानाम् इति आक्षिप्तप्राणादि- पञ्चकवृत्तितादात्म्यापन्नानामित्यर्थः । तेन इन्द्रियाणां सर्वेषां यः प्राणादिपञ्चकोत्थापकस्तद्द्वारेण नागादिविकारान्- तरकारणत्वतो विकृताविकृतान्तरप्राणचक्रद्वारेण च रोमकूपपर्- यन्तनाडीचक्रानुचक्रमयदेहमययन्त्रवाहक आन्तरः साधारणः शक्तिवर्गः पञ्चकः, स प्रेर्यं प्राणादिवर्गं प्रेरकं च इन्द्रियवर्गमधिष्ठात्रीं च शून्याहन्तामाक्षिप्य

(पगे ३३६)

वर्तमानः पुर्यष्टकः इति उक्तः । अस्मिन्नपि इति प्राणाहन्तापक्षे सर्वस्य अभिमतं पुर्यष्टकावस्थानम् । केचित् तु आगमाः शून्याहन्तापदेऽपि तदाहुः । यदाहुः

लीनशून्यसमाधावप्यास्ते लिङ्गशरीरः ।

इति । तथाच इति यत एवं, तत एवं योजना-सा शून्येऽहन्ता प्राणादि- प्रेरिका अक्षवृत्तिरूपा पुर्यष्टकात्मिकेति । अथवा इत्यादि सौत्रं विवृणोति यदा इति । प्राणशब्दः सौत्रः सामान्यवाचीति यावत् । तदा इत्यादिना उत्तरसूत्रोपकरणार्थतां सूत्रद्वयस्य दर्शयति । तदाच प्राणादिपञ्चकमहङ्कारपरमहङ्कारेण प्रेर्यमाणं, न तेन समं गणनार्हम्; अपितु तेन अधिष्ठितमिति यावत् । कीदृगित्याह आक्षिप्त इत्यादि । कारणात्मना वर्गत्रयेण सहितं पञ्चकं संवेदनोपधा- नत्वेन अधिष्ठेयं प्राणादिरूपमहमित्येवम्प्रमातृभावेन अधिष्ठितं पुर्यष्टकमिति यावत् । पूर्वं तु सूक्ष्मतमत्वात् लिङ्गस्य तन्मात्राणामाक्षेपो नदर्शितः, सूक्ष्मत्वादेवच पूर्वत्र अहङ्कारस्तदाक्षिप्तं च मनोऽपि समकक्ष्यतया तत् न गणितम्, अपितु अहङ्काराधिष्ठितमिति । स्थूलतामेव शक्तिमत्पदेन दर्शयति पूर्वं तु शक्तीनामेव इति सूक्ष्मतमत्वमेव दर्शितम् । पेलवशरीरस्य हि तदासूत्रणमात्रम्, उपरिपरिपूरणं तु स्थूलतमं शरीरमिति तदेव मध्यमं प्राधान्येन उत्पत्तिस्थानेषु सञ्चरमाणं संसारीति उच्यते । तत एव प्राणायामैस्तस्यैव शिथिलता उत्थापनीया दीक्षादि- कर्मणा च पुर्यष्टकांशानां कारणेश्वरेषु समर्पणद्वारेण

तन्मात्रोदयरूपेण मनोऽहम्बुद्धिवर्तिना । (स्प। ४।१९)

इतिवचसा । यतस्तन्मात्रपञ्चकमन्तःकरणं चेति केचन पुर्यष्टकमाहुः स्पर्शतन्मात्रेण प्राणादिस्वीकारात्, तत एव अत्र पक्षवैचित्र्ये वस्तुनो न वैचित्र्यमिति ॥ १४ ॥

(पगे ३३७)

यस्य पीठबन्धत्वेन सूत्रद्वयं, तत् सौषुप्तं लक्षयितुं सूत्रं

तावन्मात्रस्थितौ प्रोक्तं सौषुप्तं प्रलयोपमम् । सवेद्यमपवेद्यं च मायामलयुतायुतम् ॥ १५ ॥

शून्यमात्र एव शुद्धे शून्ये यदा स्थितिरहन्ताविश्रान्तिः, यदा च प्राणे; तदा मायया मलावतारणावभासिन्या सुप्तीकृतं चैतन्यं कलाविद्याभ्यामपि न प्रबोधितमिति सुष्ठु सुप्तस्तस्य भावः प्रवृत्तिनिमित्तात्मा तावदवभासः, कर्म च क्रियारूपं तावद्विमर्शात्मकं सौषुप्तम् । विवृतिकृत् तु उत्तरसूत्रानुसारेण प्रकरणलभ्यं पदशब्दं मत्वा सुषुप्तस्य इदमिति व्युत्पत्तिमभिमन्यते । पूर्वमपवेद्यमत एव मायाख्यमलरहितं, द्वितीयं तु तद्विपरीतम् । प्रलयस्य अपि एवंरूपता सर्वा, तत्र परं देहस्य प्रध्वंसानुदयौ चिरतरकालता च; इह तु तस्य अनाचरणमचिरता च । तदपिच श्रमेण चेत्, निद्रा; अभिघातधातुदोषादिना चेत्, मूर्च्छा; मद्यगरोपयोगादिना चेत्, मदोन्मादादि; स्वातन्त्र्योत्थापितात् प्रयत्नबलात् चेत्, समाधिरित्यादयोऽवान्तरभेदाः सौषुप्तस्य । सर्वविषयत्वात् च पूर्वं सवेद्यमुक्तमिति सूत्रार्थः । इदानीम् इति कृते पीठबन्धे श्लोकद्वयेन निगमयतीति । अनेन प्राक्तनं निगमयिष्यति इति स्मारयन् सूत्रत्रयस्य सौषुप्तलक्षणार्थतया एकमहावाक्यतामाह ।

रूपवतः स्फुटस्य वेद्यस्य अभावात् विद्याकले भिन्नं वेद्यं निर्मेयं च प्रथयन्त्यावपि स्वरूपमावृणुत एव संवित्तत्त्वस्येति आवरणांशेन मायाख्यमलत्वं तयोरित्याशयेन आह विद्याकलारूपे इति । प्राणसौषुप्ते तु संवेदनमपीति सम्बन्धः ।

वेद्याभावात् वेद्यसद्भावात् इति पञ्चमीभ्यां सूत्रेऽपि हेतुहेतुमद्भावं सूचयति । पूर्यष्टकावयवा इति, अनेन आगमः सूचितः, तत्तद्वेद्यतत्तदिन्द्रियाद्यनवधानादिना सा यतः सुप्तं ततस्तत्स्वप्नोत्थापनादिवैचित्र्यबलात्

(पगे ३३८)

तत्तदंशप्रधानेऽयं प्राणे निद्राति चेतनः ।

इति हि आगमः । प्राणादौ इति वृत्तौ स्थितौ इति पूर्वकं यद्वैयधिक- रण्येन, तदपेक्षणीयम् । तैः इति रूपादिभिर्येन जाग्रतः स्वप्नात् वा न भेदो भवेदिति आशयः । कालयोग इति चिरादिरूपता हि तत्र स्मर्यते एव ॥

१५ ॥

ननु स्फुटवेद्यविनिर्मुक्ता अन्या अस्तु सुषुप्तावस्था स्फुटवेद्य- योगाविशेषेऽपितु स्वप्नजाग्रद्दशयोः को भेदः इत्याशङ्क्य स्वप्नावस्थां तावत् लक्षयति

मनोमात्रपथेऽप्यक्षविषयत्वेन विभ्रमात् ।

स्पष्टावभासा भावानां सृष्टिः स्वप्नपदं मतम् ॥ १६ ॥

अक्षग्रहणं सर्वबाह्येन्द्रियोपलक्षणम् । तदयमर्थः- गोलकपञ्चाङ्गुल्यादीनि अधिष्ठानानि निस्तिमितानि तावत् निद्रायमाण- स्य उपलभ्यन्ते । अथ चक्षुषा कान्तां पश्यामि हस्तेन आकारयामीति स्पष्टावभासा तात्कालिकैश्वरसृष्टिप्रधाना प्रतिपत्तिरस्ति स्वप्ने । तत्र च मनोमात्रमेव व्यापृतं पूर्वसृष्टतया जाते तु तदेव तावत्येववा अपेक्ष्य परमेशसृष्टिमिन्द्रियविषयतांशे तु साधारण्यं स्थैर्याद्यवभासान्तरसम्भिन्ने विमर्शस्थैर्यानुवृत्तेर्जाग्रत्पदे बाधनात् विभ्रमरूपता,-इति पिण्डार्थः । सूत्रार्थमवतारयति विश्वबीज इति प्रलये सुषुप्ते च यथायोगं निःशेषप्रकृतकृत्स्नाभि- प्रायेण विश्वशब्दः । मनोमात्रमपि अत्र पुर्यष्टकांशताव्यवस्थि- तेन्द्रियविषयभागबीजतानुविद्धं बोद्धव्यम् । स्रष्टृताविषयम् इति प्राधान्यादेवमुक्तम्, भोक्तृता तु जाग्रति अपि अस्ति । एवं यदिति सम्बन्धः । चक्षुरादि इत्यादिना मात्रपदं विभ्रमतां व्याचष्टे ईश्वरस्य इति अनिच्छोरपि तथादर्शनादिति भावः ।

(पगे ३३९)

यदाह अन्यथा तु स्वातन्त्र्यात् स्यात् सृष्टिः इत्यादि । अवद्योतितम् इति वस्त्वपेक्षया मनोरूपतां प्राप्ता या परमेश्वरस्य शक्तिः क्रियात्मा तया,-इति हि अत्र अर्थः । सिद्धाञ्जनादिना इति स्पृष्टमिति अपेक्ष्यम् । अन्यथापि इति इत्थं मा भूत्, प्रकारान्तरेण भविष्यतीत्यर्थः । तत् इति प्रकारान्तरम् । न चेह तथा इति नच तैर्दृश्यते जाग्रति अनुवृत्ताध्यवसितैरपि तैराप्तैरपि वाग्भवस्याकरणात् । कालान्तर इत्यादिवृत्तिं व्याचष्टे यदिच इति ।

उक्तम् इति भवता एव तदुक्तं यत् मम पक्षं दीपयत् तव स्वोक्तिं बाधते इति पूर्वपक्षस्य आशयः । एवमेष इति अस्मन्मते इति आकूतम् ।

मनसि इति प्रतिभासते न विभ्रमः, अपितु विकल्पितेऽवभासान्तरे इति भावः । पूर्वम् इति भ्रमाभ्रमरूपताविचारे बहुशः । तथापि इति नच ते तथा प्रतियन्तीति हि अपूर्णख्यातिरूपत्वेन अख्यातिरेव भ्रमस्य तत्त्वमिति स्मारयति । ततोऽपि इति न केवलं यथा पूर्वमेतदसत्ख्यातिदृष्ट्या व्याख्यातं तथा युज्यते, यावत् तन्मूलता अस्मदुपगताख्यातिदृशा अपि उपपद्यते एवेत्यर्थः । तेन इति अणुना । सुसंवेदनात् दर्शनात् चेति सङ्गतिः । अत्र अपि अस्ति भोक्तृता जागरे इव, तत्रापिच अस्ति स्रष्ट्टता स्वप्न इव; तथापि प्राधान्यकृता निरूपणे व्यवस्थेति दर्शयति जागरे तु इत्यादिना । ईश्वरस्यापि इति पशोरपि भोक्तृत्वं यत्, तत् भगवत एव वस्तुतो

यद्यप्यर्थस्थितिः—————————। (अ। प्र। सि। २०)

इतिन्यायात् । तत्र इति जागरे, अत्र एव अवान्तरवाक्यच्छेदः । अत्र इति जागरे ।

उक्तम् इति आगमादौ । तदन्तर्गतत्वात् इति स्रष्ट्टतैव हि सा भवतीत्यर्थः । अत एव

(पगे ३४०)

प्रविभज्यात्मनात्मानम्—————————।

इत्यत्र

———————सृष्ट्वा भावान् पृथग्विधान् ।

इति सर्गशक्तिं मूलकारणत्वेन उक्त्वा पश्चादुक्तं तन्नान्तरीयकं भोक्तृत्वं

सर्वेश्वरः सर्वमयः स्वप्ने भोक्ता प्रवर्तकः ।

इति ॥ १६ ॥

एवं सा सृष्टिः स्वप्ने पदं विषयस्तद्विषया प्रमातृता स्वप्नावस्थेति अभिधाय तद्विपरितस्फुटवेद्यविषयां प्रमातृतां जाग्रदवस्थात्वेन लक्षयति

सर्वाक्षगोचरत्वेन या तु बाह्यतया स्थिरा । सृष्टिः साधारणी सर्वप्रमातॄणां स जागरः ॥ १७ ॥

सृष्टिर्जागरः इति तत्सृष्टिविषयः प्रमाता व्यामोहहेतुभूत- निद्राप्रक्षययोगित्वेन जागर्तीति यत उच्यते, ततस्तावत्प्रमातृत्वं जाग्रदवस्थेति योज्यम् । प्रमातृत्वस्य हि प्रमेयभेदकृता एताः पञ्च अवस्था आगमेषु उक्ताः । पूर्ववत् इतिवृत्त्या स्वप्नस्वरूपत्वमतिदिष्ट- मिति विवृणोति जागरेऽपि इति । अत एव आगमेषु अवस्थानामपि अन्योन्यानुप्रवेशो बहुशाख उक्तः ॥ १७ ॥

ऊर्ध्वमुपादेयमिति वक्तुं तिस्रो हेयत्वेन आह

हेया त्रयीयं प्राणादेः प्राधान्यात्कर्तृतागुणे । तद्धानोपचयप्रायसुखदुःखादियोगतः ॥ १८ ॥

कर्तृतात्मनि अप्रधानीकृते प्राणादेस्तदपेक्षया प्राधान्येन हेतुना तस्य स्वातन्त्र्यभगस्य उपचयबलोदितसुखदुःखविषयहाना- दानादिपरिश्रमान्तरैस्त्रयीमपि दशां मुमुक्षुर्हेयत्वेन अभिमन्यते इति सूत्रार्थः । तमवतारयति एतासामपि इति पञ्चानामपीति

(पगे ३४१)

यावत् प्रस्तौति इति साधारण्योक्त्या उपादेयतां गम्यमानामपि निर्दिशति । यत् वक्ष्यति सामर्थ्यादपरिशिष्ट इति । प्राणो वा इति शून्यो वेत्येतदपेक्षो वाशब्दः । ननु यदि आत्मना स्वातन्त्र्यमेव, तदेवच उद्रिक्तं, तर्हि का तस्य गुणता येन उक्तं सूत्रे कर्तृतागुणे इत्याशङ्क्य आह विशुद्धं यत्तत् इति । तच्छब्देन अधुना संसारिणां तदविषय एवेति सूचयति आरोप्यमाणस्यापि इति क्रीडायामपि दारकमध्ये राजवदस्येति भावः । तावत्या इति मात्रया । अत एव भट्टश्रीनारायणः

त्रैलोक्येऽप्यत्र यो यावानानन्दः कश्चिदीक्ष्यते । स बिन्दुर्यस्य————————————————-॥ (स्त। चि। ६१)

इति । प्रतिपत्तिविवेके च सर्वत्र लौकिकशास्त्रीयकर्तव्यविषये अन्तर्भक्त्या- नन्दश्रद्धानुवेधो दर्शितः, अन्यथा नैयायिकोक्तबोधादिककर्तव्य- रूपतायामेव न आरोह इति ।

तया शून्यं भवेत् पुंसां शास्त्रं शासनमात्रकृत् ।

इत्यनेन तद्धान इत्यादि सौत्रं व्याचष्टे, आदिपदं तु सर्वथा तु इत्यनेन । वक्ष्यते

सत्तानन्दः—————————। (४।१।६)

इतिसूत्रे । तुर्यादि इति आदिग्रहणात् तदतीततामपि स्वीकरोति । उक्तम् इति सूत्रवृत्त्योः । समावेशे हि देहप्राणादेः प्राधान्याभावात् तन्महिमोपनतक्षुत्परिश्रमादिदुःखानुदये

आच्छादयेद्बुभुक्षाम्—————————। (स्प। ४।८)

इतिन्यायेन तत्प्रशमजं तृप्तिविश्रान्तिरूपं मनागहन्तात्मकनैर- पेक्ष्यस्वातन्त्र्यानन्दकणरूपं सुखमपि चेति परमानन्दमयतैव ।

अग्रे च इति

(पगे ३४२)

साधारणोऽन्यथाचैशः सर्गः—————————। (४।१।११)

इति प्रकरणे ॥ १८ ॥

ननु प्राणादेः प्रधानत्वं हेयताया निदानं, साच त्रय एव उक्ता, न तदूर्ध्व इति तत्र तत् नास्तीति स्यात्; ततश्च समाविष्टस्य देहपात् एव, नच व्युत्थानं स्यादित्याशयेन प्राणादिविभागं कर्तुं यत् सूत्रद्वयं, ततः प्रथमं तावत् त्रयीवृत्तान्ताख्यानमाह

प्राणापानमयः प्राणः प्रत्येकं सुप्तजाग्रतोः । तच्छेदात्मा समानाख्यः सौषुप्ते विषुवत्स्विव ॥ १९ ॥

प्राण इति प्राणनाख्या या असावान्तरवायुसञ्चरिता चिद्वृत्तिर्जी- वनमिति उक्ता, सा सामान्यपरिस्पन्दरूपा देहादेर्जडस्य अजाड्यमेव आपादयन्ती अहमितिस्वातन्त्र्यारोपत्वेन विकल्परूपपरामर्शमयी; सैव प्राणादिविशेषस्पन्दात्मना पञ्चधा भवति । तत्र किञ्चित् त्यजन्ती, क्वचित् पतन्ती क्रमेण प्रश्वासनिःश्वासात्मना प्राणापानरूपा भवति । साच उभयी अपि जाग्रति स्फुटैव देहात् विषये, ततोऽपि देहस्मृत्यादावाभ्यन्तर एव वेद्ये विश्रमणात् । सुप्तेऽपि स्वप्ने सा अस्त्येव परेण स्वपतः प्राणप्रवेशनिर्गमयोरुपलम्भात् स्वयमपि वेद्यसम्पातोपलब्धेः । तेन प्राणापानविशेषद्वयप्रधाना प्राणना जाग्रत्स्वप्नयोः, सुष्ठु सुप्तस्य तु यत् प्रमातुः पदं, तत्र द्विविधेऽपि प्राणापानसद्भावेऽपि निरिन्द्रियहृत्प्रदेशविश्रान्तिरेव मुख्यं सुषुप्तरूपमिति । तत्र प्राणापानयोर्यः कञ्चित् कालं भेदो विश्रान्तिस्तदात्मा सकलरसादिवर्गस्य उर्ध्वाधरतिर्यक्षु समानीकरणव्यापारतोऽत एव हृदयकमलं विकासयन्नशितपीतजरणकारी दिनरात्रिरूपप्राणापानसाम्यविच्छेदात्मकत्वात् विषुवत्तुल्यः समानो नाम विशेषः, तन्मयी सा प्राणनक्रियेति पशुवर्गः प्रलयाकलान्तः, तच्छेदात्मा यः समानस्तस्मिन्

(पगे ३४३)

विशेषरूपे आ समन्तात् प्राधान्येन ख्यानं प्रख्या यस्य; सैवच तदानीं सञ्ज्ञा यस्य प्राणस्य, स तादृक् सौषुप्त इति सम्बन्धः ।

विषुं व्याप्तिमर्हतीति तदर्हम् (पा। सू। ५।१।११७) इति वतिः । उपमाने वतेरेवच अव्ययत्वं स्वाभाविकं

तवेमे लोकाः प्रदिशो दिशश्च परावतो निवत उद्वतश्च ।

(तै। ब्रा। २।८।१।३)

इति दर्शनादिति केचित् । यदाह पराशरः

व्याप्तियोगे हि कालांशे तद्योगाद्विषुवद्दिनम् ।

इति ।

साम्यं वैषम्यजनकं विषुवत् सन्ततं स्मृतम् ।

इति तु श्रीकालपादायाम् । सूत्रे शतरि मुहुर्मुहुरेवमिति कथितम् ।

विशेषं दिनरात्रितदूनाधिकत्वलक्षणं विषमतात्मकमविरतं सुवति प्रेरयतीति वा विषुवत् सन्ध्या अपि । मध्ये मध्ये समानेन व्यवधानं यत् सुषुप्तस्य, इदमेव प्रधानतया प्राणापानरूपतां सतीमपि अधस्पदीकुर्वदिव सुषुप्तरूपमिति सूत्रार्थः । तमवतारयति इदानीम् इत्यादिना । विभजन् इति अविच्छिन्नव्यापारतां दर्शयन् द्वितीयश्लोकव्यापारमपि स्पृशति । स च इति यत्र पूर्वं

————प्राणेऽहन्ता—————————। (३।२।१४)

इति जीवनरूपता उक्ता । आत्मभूतः इति प्राणात्मा इति वृत्तौ कर्मधारयोऽयमिति यावत् । ननु इति प्रत्येकम् इत्यस्य व्यवच्छेद्यमुक्तम् । तत्सहभाविनी इति अन्यथाहि जीवनं विच्छिद्यते ।

अनयोः इति प्राणोऽवभासनेन देहादि रिक्तीकुर्वन्नेव विषयं प्रकाशयन् सूर्य इति तत्कालो दिनं, अपानो विमर्शनेन अन्तर्विश्रान्त्यानन्ददायी देहादिप्रमातृभावमाप्याययतीति चन्द्रस्तत्कालो निशेति प्रमात्रपेक्षाप्रधानतया एवं विभवज्यते,

(पगे ३४४)

प्रमेयापेक्षया वैपरीत्येन अपि । अत एव आह अर्थानां सर्गेऽपि असौ प्राणस्य प्रवृत्तिः प्रमातुः प्रलय एव इति । बहिः प्रशमस्थानं विषयो द्वादशान्तश्च, अन्तस्तु अहमिति हृत्सदनं च । प्रमातुः पुनर्भावात्मतया सृष्टिरेवेति सम्बन्धः । एतावतैव इति भावात्मत्वभागापेक्षामात्रेणेत्यर्थः । तदाह ननु इति । जाग्रतं व्याख्याय स्वप्नं सूत्रे यत्नप्रतिपाद्यत्वात् प्रथमोक्तमपि जाग्रद्दृशैव व्याख्येयोऽयमित्याशयेन पश्चात् व्याचष्टे भेदेन इति ।

अथ तच्छेदात्मा इति व्याख्यास्यन् जागरादावपि न न अस्ति समान इति वदन् सर्वत्र सर्वसम्भवेऽपि प्रधानताकृतो विभाग इति व्याचष्टे बहिः इति । तुः पूर्वतो विशेषद्योतकः । द्वयोः इत्येतदेव स्फुटीकृतं बहिरन्तः इति विषये द्वादशान्तपतिते प्रमातरि च हृदयभूमिगते यौ विश्रान्तिरूपौ क्षणौ, तयोः । वक्ष्यमाण इति तदानीमेव विवृतौ प्रलयत्वम् इति । ग्राह्यग्राहकयोरपि इति सर्वप्रलयोऽसावित्यर्थः ।

इदानीं तच्छेदात्मा इत्यादि विवृणोति यदा तु इति । न्यूनाधिकतया नान्तरीयकस्तां विना न भवति यः, सोऽवश्यं यत्र भवति प्रवृत्तिनिवृत्तिक्रमे तस्य अभावादित्येनेन विषुवद्द्रूपतामासूत्रयति ।

छेदः साम्येन व्याख्यायते इत्यत्र उपपत्तिं घटयति प्राण इति ।

जागरस्वप्नयोः क्षणमात्ररूपेऽन्तराले । अन्यदा इति मूर्च्छागाढनिद्रादिषु चिरकालं तयोरनुल्लसनम्, उभयोर्विच्छेदमेव साम्यमिति बीजतागमनं वैषम्यात्मकोल्लासनिवृत्तिरिति यावत् । अन्वर्थ इति समं कृत्वा आ निजव्यापारविषयमनिति प्राणितीति हि समानः । प्राणनं च तत्र सूक्ष्मवृत्त्या प्रशान्ताङ्गारज्वलनवत् स्थितमेव ।

षट्त्रिंशदङ्गुलश्चारः—————————।

(पगे ३४५)

इत्यादिदिशा तु दीर्घप्रसरणात्मना या प्राणापानरूपता, सा विच्छिन्नेति उच्यते; सूक्ष्मा तु अस्त्येव । छेदः साम्यम् इति दन्तुरमिव पश्यन्नन्यथा विवृणोति अथवा इति । ननु सूत्रे न्यूनतादि न श्रूतमेव, तत् सर्वनाम्ना कथमामृश्यते । अत्र आह रात्रिन्दिव इत्यादि । प्राणापानौ रात्रिन्दिवात्मानौ सूत्रे तावत् निर्दिष्टौ । तौ च प्रवृत्तिनिवृत्तिरूपौ, नच समतुलाधृतौ भवतः, अपितु अवश्यं तत्र न्यूनाधिकभावेन विचित्रेण भवितव्यम्, ततः सोऽव्यभिचारी धर्मस्तदन्तर्गतः सर्वनाम्ना निर्दिष्ट इति भावः । विवृतश्च इति निरोधे विच्छेद ति हि युक्ता पर्यायता । अत एव पञ्चमीनिर्देशात् तच्छेदात् समानाख्य इतिपाठं केचिदाहुः । अत्र वृत्तिमपि साक्षिणीमाहुः स च इति । ननु पूर्वव्याख्याने साम्येति सञ्ज्ञायां निमित्तत्वेन उक्तम्, साम्ये हेतुः निरोधात् इति; अधुना तु एतदेव सञ्ज्ञायां हेतूकृतम्, साम्य इति तु कथं नेयम् । इत्थमित्याह तत्र च इति बीजभूमौ यत् साम्यं प्राणापानयोर्लोकप्रसिद्धबाह्यरात्रिन्दिवयोरिव, तत् हेत्वन्तरानुक्तावपि लोकप्रसिद्धिमेव अपेक्ष्य तत्र निरोधे निमित्तभावेन सप्तमीद्योतितेन आश्रितम् । युक्तं च एतत् यतः पूर्वनिर्दिष्टं तत्, निमित्ती तु निरोधः पश्चात् निर्दिष्टः; निमित्तकृता च सञ्ज्ञा गार्ग्योऽस्मि गोत्रेणेतिवत् । तदाच इति प्राणापानसाम्यकृते न्यूनाधिकतानिरोधे कालाधिकारागमप्रसिद्धा विषुवत्सञ्ज्ञा । लौकिकतद्रूपतुल्यत्वेन तदेव दर्शयति तदापि इति लौकिके मेषतुलाविषुवद्द्वये प्रसिद्धो न्यूनाधिकभावः प्रसरिष्यते । ननु सकलमेव दिनं रात्रिर्वा विषुवदिति लोके प्रसिद्धम्, न क्षणमात्रम् । सत्यं, प्रसिद्धिस्तु इयं तत्क्षणानुगृहीतत्वेन तत्प्रवाहपतितत्वादुपचार इति दर्शयति तदानीं तु न इत्यादि ।

(पगे ३४६)

न केवलं विषुवति एवम्, अन्यत्र अपि दृष्टमेवमित्याह सङ्क्रान्तौ च इति । राशेर्यत् राश्यन्तरचरणं सूर्यस्य, तत् बोधरूपस्य प्रकाशस्य वेद्यात् वेद्यान्तरगमने इव

एकचिन्ताप्रसक्तस्य—————————। (स्प। का। ४१)

इति

उभयोर्भावयोर्ज्ञानं ज्ञात्वा माध्यम्——-। (वि। भै। ६१)

इति

भावे त्यक्ते निरुद्धा चित्—————————। (वि। भै। ६२)

इतिशास्त्रोक्तन्यायेन स्वात्मविश्रान्तिरूपं परं पुण्यम् । यदुच्यते

अयं स परमो धर्मो यद्योगेनात्मदर्शनम् ।

इति । तत्र क्षणमात्ररूपेऽपि

————————दश पूर्वान्दशापरान् ।

इतिन्यायेन उभयतो द्वात्रिंशद्धटिकः पुण्यः काल इति केचन प्रतिपन्नाः, परे तु उभयतः षष्टिघटिक इति । तद्वत् विषुवति अपीति तात्पर्यम् । ननु अपवेद्ये सुषुप्ते ग्राह्याभावात् तदनुसारेण प्रसरणाद्यभावात् भवतु समानरूपता, सवेद्ये तु सा कथमित्याशङ्क्य आह सुषुप्त इत्यादि । अत्र प्रतिज्ञाते हेतुमाह चक्षुरादि इत्यादिना । एतदुक्तं भवति-ग्राहकात् विच्छिन्नं यदवभाति, तत्र अवश्यं प्राणस्य प्रसरणेन भवितव्यम्, नतु वेद्यमात्रे । सुखादि च ग्राहकादविच्छिन्नमिव भवति । ग्राहकस्य हि

अपि त्वात्मबलस्पर्शात्—————————। (स्प। का। ८)

इतिन्यायेन स्वप्रकाशतैव, कस्तत्र प्रसरणावकाश इव । ननु स्वप्ने चक्षुरादिव्यापारो नास्त्येव । अत्र आह स्वप्नेऽपि इति । यद्यपि मनसा केवलेन तदर्थदर्शनं, तथापि तत् मनोबलेनैव चक्षुरादिकृतत्वेन अपि स्थापितम् । एवंहि मनसा उत्थापितं चक्षुषा अपि

(पगे ३४७)

पश्यामि सति अपि मनोव्यापारे इति सा भ्रान्तिरिति तु अन्यदेतत् ग्राहकोऽपि इत्यादि सिद्धान्तवादी स्वयमेव यत्पूर्वपक्षवादिनो हृदये स्थितं, तत् कथयति, वस्तुदृष्ट्या न एतत् मम बाधकमित्याशयेन तामेव दर्शयति यदिच इत्यादिना । मायीयग्राहकेऽपि इति वेद्यग्राहकीभूतेऽवभासमाने । न चैवम् इति न अत्र प्रमाणवृत्तिः संवेद्यते तस्यास्तुर्यतदतीतदशायां सर्वथैव विगलनात् । यदूचे

यत्रोपरमते प्राणो ह्यनिरोधात् स्वभावतः । सा ब्रह्मनिष्ठा तुर्यात्मा————————॥

इति । ननु तस्यां मायीयं ग्राहकमस्तीत्याशङ्क्य आह अन्यथा इति मायीयग्राहकाभावे परसंवित्तत्त्वे या युक् एकता, तया सह वर्तते यस्तस्य भावः सायुज्यम् । प्राणशून्यादेरपि ग्राहकीभावाभावात् ग्राह्यभावैकरसैरेव वायुशून्यादिभिः सायुज्यं प्रकाशमानत्वाच्च परमार्थचिद्रूपेण,-इति पुनर्यदिदं विविधमुत्थानं शरीरचेष्टापर्यन्तं, तत् न स्यात् तद्दशापन्नस्य योगिनो यदि मायीयो न स्यात् तदा ग्राहकः । अस्ति च एतत्, ततः सोऽपि अस्ति; नच तत्र प्राणवृत्तेः सम्भव इति व्यतिरिक्तसम्मते वेद्यतेऽस्या उल्लासो, न वेद्यमात्रे; सुखादि च न व्यतिरिक्तमिति । तदाह सुखादि च इति । न्च बाह्यामात्रेण एवम्, अपितु ग्राहकतादात्म्यादिति दर्शयति तथाहि इति ।

ननु तदा अपि सुखादि स्मर्यमाणं यथानुभवमेव ग्राहकनिर्दिष्टं स्मर्तव्यम्, नच ग्राहके प्राणापानव्यपेक्षेत्याशङ्क्य आह आत्मापि हि इति । एतदुक्तं भवति- स्वसंवेदनभागस्तावत् नित्यानस्तमितः ।

नत्वेवं स्मर्यमाणत्वम्————————। (स्प। का। १३)

इतिन्यायेन स्मर्यमाणार्हः विकल्पितस्तु तथा स्यात् ।

विकल्पनपूर्वकतामेव

(पगे ३४८)

स्मरणस्य अभिधातुमधुना एव वक्ष्यति विकल्प्यमाने स्मर्यमाण इति । विकल्पने च आत्मा अपि बुद्धिभूमिपतितः पृथक् सृष्ट एव वेद्यस्तादृशमेवच सुखादि,-इति पृथगस्य स्मरणं विकल्पनपूर्वत्वात् यथानुभवमेवेति । तदात्मनो ग्राह्यीभावनायां भवति एव प्राणप्रसरोपयोगः, ग्राहकतायां तु एकघनायां न एष क्रम इत्याह ततः इति प्राणमयोपरोहात् यद्यपि वेद्यो वस्तुतः, तथापि ग्राहकीभावभूमिकारूढो न तथा; तथात्वेऽनवस्था भिन्ने वेद्ये ग्राहकान्तरस्य अपि ग्राहकान्तरापेक्षणादित्यादिः । अत एव इति यतो न ग्राहकापेक्षा ग्राहकतायां, ततः । शरीरमपि इति स्फुटो यस्य वेद्यभाव इति अपिः ।

आन्तरस्पर्शरूपम् इति नेत्रनिमीलनादावपि स्थूलोऽहमित्यादिप्रत्ययात् । अयम् इति ग्राहकान्तरापेक्षं स्पन्दग्रन्थमभग्नं पठन्

यतः करणवर्गोऽयम्—————————। (का। ६)

इत्यादि समग्रकरणार्थं स्मारयति । ननु एवं चेत् देहस्य चेतनरूपावेशः, तर्हि पूर्नः स्वातन्त्र्यलाभः कस्मात् न भवतीत्याशङ्क्य आह शरीरगतरूपादीनाम् इति । इदन्तायाः इति पञ्चमी हेतौ । अहमित्येकरसेन अनुवेधे तु यदा इदन्ता आच्छादिता भवति भावनासात्म्यादीश्वरसदाशिवसंविदि इव तुर्यदशायां रसविद्धताम्रकनकन्यायेन, यदावा सर्वथैव प्रध्वंसिता विद्राविता वा भवति तुर्यातीतदशायां शाक्तसंविदि इव तन्निजरूपसम्यग्विद्धकनकरूपतात्यन्तजरणापादिततत्संस्कार- वशपीतलतावशेषविद्रुतरसन्यायेन; तदा पूर्णस्वातन्त्र्योल्लास एव देह एव सति अपि निःशेषविभूतिलाभात् सदाशिवादिशरीरवत् । एवं प्रसङ्गादुक्त्वा प्रकृतमेव सुखादिप्रमेयस्य स्वसंवेदनकाले प्रसरानपेक्षत्वमनुबध्नाति मनसामपि च इति । एवं स्थूलप्रसरणस्वभावः

(पगे ३४९)

संवेदनपूर्वकः प्राणप्रसरः सवेद्येऽपि नास्तीति उक्तम्, अबुद्धिपूर्वकस्तु ईश्वरेच्छाकृतो भस्त्राध्मानतुल्यः सोऽपवेद्येऽपि अस्ति । यदितु शान्ताङ्गारज्वलनन्यायेन अन्तरपि सूक्ष्मस्पन्दो विचार्यते, तदा अस्तु प्राणापानयोगः सूक्ष्मः; सैवतु समानतेति दृढमेतदेव ।

तदेव पक्षान्तरेण दर्शयति अथवा इति ॥ १९ ॥

एवं सर्वत्र प्रमातृविषयेऽवस्थात्रये प्राणादित्रयस्य प्राधान्यमुक्तम्, तद्दृढतावशेन एवहि सति अपि प्रतिक्षणमनेकवेद्यदेहत्वे भावभूतशरीरविभागो भट्टश्रीकल्लटादिभिः श्रीशिवसूत्रे

प्राणाख्यनिमित्तदार्ढ्यम्—————————।

इत्यत्र उक्तः । अधुना लोकोत्तरप्रमातृविषये दशाद्वये उदानव्यानप्रधानतां दर्शयति सूत्रेण

मध्योर्ध्वगाम्युदानाख्यस्तुर्यगो हुतभुङ्मयः । विज्ञानाकलमन्त्रेशो व्यानो विश्वात्मकः परः ॥ २० ॥

प्राण एव हृदयभुवि मध्यस्थाने विश्रान्तः समानतां प्रतिपद्य यदा पार्श्वप्रवाहविच्छेदात् तेन एव ऊर्ध्वं सुषिरमार्गेण प्रवहति, तदा ऊर्ध्वमा समन्तादनितीति उदानः । सच भेदं दहन्नग्निकल्पः । तत एव स तुर्यभूमौ । स एवच तदानीं प्रमातेति विज्ञानाकलरूपात् मायोर्ध्ववर्तिन आरभ्य यत् सदाशिवप्रमात्रन्तं, तत् तस्य एवेति स एव विज्ञानाकलश्च, मन्त्रश्च विविधः, ईशश्च सदाशिवात्मेति कर्मधारयः; स एव तु समस्तं देहवर्ति तत्त्वभुवनादि यदा व्याप्य आ समन्तादनिति, तदा परमशिवस्वभावस्तुर्यातीतरूपतया परः पूर्णो व्यानः इतीयता योगिज्ञानिप्रमातृविषयं रूपद्वयमुपादेयमुक्तम्, ज्ञानिनोऽपि तत्संवेदनलक्षणस्तदावेशात्मैव, योगिनस्तु बहिर्देहान्ततया विभूतये भगवतश्च । सकला एव प्रसरणविश्रमणयोगात् प्राणापानरूपं द्वयम्,

(पगे ३५०)

प्रलयाकला विज्ञानाकलाः समानः, मन्त्रादय उदानः, शिवरूपता व्यानः,-इत्यपि दर्शितमिति सूत्रार्थः । तमवतारयति उदान इत्यादिना ।

निदर्शनमुदाहरणम्, विज्ञानाकलादि विषयः तुर्यादिलक्षणमूर्ध्वभाक्त्वादीति विभागः, समानदशापूर्विका इयं दशेति पार्श्वद्वय इत्यादिना लभते इत्यन्तेन दर्शयन् पूर्वपूर्व उत्तरोत्तररूपमापद्यते इति सूचयति यद्यपि इति । ततश्च तौ प्रवाहौ नष्टावेवेति कथं प्राणापानौ मध्ये ऊर्ध्वेन एकतापन्नौ प्रवहत इति वृत्तौ भणितम् । नहि गतिरेव स्थितिर्भवतीति भवति, प्राणापानयोश्च कथं व्यतिरेकेण तिर्यक्प्रवाह उक्तः इति आकूतम् । एतत् प्रतिसमाधत्ते तथापि इति । पञ्चस्वरूपतया इति एक एव वायुर्धर्मी पञ्च रूपाणि प्रतिपद्यते इति निर्दिष्टमिह । ततश्च प्राणापानशब्देन स वायुरेव उक्त इति उपपन्ना तस्यैव उदानता ।

तदाह चिरकाल इति तया प्रवाहो धर्मो युक्त इति व्यतिरेकनिर्देशो निर्दोषः । तदाह धर्मधर्मिभावोऽपि इति । उक्तम् इति समानरूपता, तावती सेति यावत् । द्वन्द्वं द्वैतदृष्टिः । यथा तृतीयं चक्षुरग्निस्वभावं हेतुत्रयात्, तथा सोऽपि,-इति सम्बन्धः । यत् विज्ञप्तं मया

ब्रह्मादिकीटान्तमनन्तकं यल्लोकत्रये वेदकचक्रवालम् ।

तद्द्वैतदृष्ट्यैव स्ववर्णमित्थं तदीयचक्षुर्युगलं व्यनक्ति ॥

इत्थं विमृश्याहमनन्तशक्तिं विश्रान्तधीर्द्वैतदृशं जिहासुः ।

त्वद्भक्तिसन्दर्शितशुद्धमार्गनिरर्गलीभावितभूरिभावः ॥

समं समग्रोद्गतवेदनाख्यबिन्दुस्थनेत्रान्तरशोभमानम् ।

भवन्तमन्तःकृतविश्वरूपमद्वैतदृष्टिं शिव संश्रितोऽस्मि ॥

यत्तत्परं धाम यदन्यधामविध्वंसनाधायि———।

इत्यादि । एतदेव संवादयति उक्तं च इति सदसती सृष्टिसंहाररूपे

(पगे ३५१)

प्राणापानदिनरात्रिजन्ममृत्युरागद्वेषादिरूपे परस्पराव्यभिचा- रिणी यदा द्वन्द्वरूपतासङ्घट्टयोगेन मध्यं प्रविशतस्तदा प्राणार्कापानचन्द्रयोर्भोक्तभोग्यभावेन अन्योन्यसङ्घर्षात्मकमेलनात् झगिति उद्गत उर्ध्ववाही यो हुताशनः सर्वस्य अर्पितस्य इदन्तापदपतितस्य भोग्यग्रमस्य ग्रसिता, यदागमः

शुचिर्नामाग्निरुद्भूतः सङ्घर्षात् सोमसूर्ययोः । मध्यनाडीमध्यसंस्थबिन्दुसूत्ररुचित्रया ?॥

इति, एतदुदानस्य परमं प्रधानं रूपं ब्राह्मणा ब्रह्माणि व्यानमये वक्ष्यमाणे विश्रान्तिभाजो विदुस्तदारोहे तदुदानभूमिकायाः सोपानकल्पत्वात् । अत एव मायामलदाहप्राधान्येन अद्वैतप्रधानतायां विशेषवैष्णवाद्यागमेषु विष्णुविरिञ्चादेरपि

वीरेश्वरतोदये भिन्नप्रमेयप्रसरः ।

इति उक्तपूर्वरूपपराक्रियया तृतीयनयनस्य दर्शितमेव उन्मीलनमिति अलम् । अस्यां दशायां विज्ञानाकला व्यवस्थिताः,-इति सम्बन्धः । ते च पूर्वमेव उक्ताः । ननु इयं निर्मला दशा, तस्यां ते कथमित्याशङ्क्य आह यतोऽत्र दशायां शुद्धिरस्ति मलद्वयस्य मूलत एव अभावात्, आणवमलस्य अपि अनात्मनि पुर्यष्टकादौ जडे आत्मभावाभिमानः,-इत्येवम्भूतस्य निवृत्तेर्बोध एव आत्मत्वाभिमानात्; नतु अशुद्धिरूपो विपर्ययः, विज्ञानाकलानां च एतद्रूपमित्यतो हेतोरस्यां दशायां तेऽवस्थिताः । ननु एवमागमे तेषां बहुशाखः सुषुप्तावस्थायोगः । यदुक्तम्

अकलौ दौ परिज्ञेयौ सम्यक् स्वप्नसुषुप्तयोः । (मा। वि। २।२८)

इति,

त्रयोदशात्मके भेदे स्वरूपमकलावुभौ । प्रलयाकलभेदेऽपि स्वं विज्ञानाकलाबुभौ । (मा। वि। २।३०)

(पगे ३५२)

इति, तत् विरुध्यते । नेत्याह तेषां च इति । इहतु संसारादुत्तितीर्षतः सा एव उपादेया प्रथमा अवस्था या भगवत्स्वरूपापेक्षया हेयतमा अधमस्य प्रथमं प्रबुभूषत इव आपतितसेनापतित्वपरित्राणप्रकारसदृशी दशेति, ततस्तुर्यत्वेन गणनमिति आशयः । मन्त्रेश्वरा अपिच इति मन्त्रेशशब्दो व्याख्यायते । अस्यामेव इति तुर्यायाम् । यद्यपिच इति ततश्च पूर्णरूपलाभात् तुर्यातीतता युक्तेति यावत् । मन्त्रशब्दात् पृथगेव ईशशब्द इत्येवं व्याचष्टे यदिवा इति । अनुन्मीलितविमर्शाः इत्येतत् मन्त्रेषु दृष्टान्ताभिप्रायेण पुनरनूदितम् । तत्रैव इति तुर्यदशायाम् । तथा ईश्वरोऽपि तुर्येऽवस्थानं यस्य तुर्यावस्थ एवेति सम्बन्धः । ननु बहवस्त उक्ताः । आह तदा न जानाति इति । ईश्वरश्चासौ इति अत्र एकत्वं निर्विवादमितिभावः । कर्मधारयं जातिव्यक्त्योरेकताभिप्रायेण समर्थयते तस्याश्च इत्यादिना । ननु अत्र व्याख्याने मन्त्रेश्वराः केन सङ्गृहीताः । मन्त्रपदेन तज्जातीयत्वादीशपदेन समानवाच्यताकृतेन तन्त्रन्यायेनेति दर्शयति अथवा इति । तास्ताः इति । सवेद्यापवेद्यादिरूपतया मलतानवं यथा प्रकृष्यमाणं विविधभूमिकोद्भावनं करोति, तथा कर्तृता अपि क्रमेण प्रकृष्यमाणेत्यर्थः । ईश्वरशक्त्यावेशात् इति अहमितिप्रमातृशक्त्यावेशात्, प्रमातृविशेषरूपता समला निर्मला कर्तृतातिशयवती च तस्यैव युक्तेति यावत् । व्यानोऽपि इति व्यानो विश्वात्मकः परः । इत्यत्र । विवृतम् इति वृत्तौ । पूर्वम् इति सूत्रवृत्तिभ्याम् । व्यान इति व्याचष्टे तुर्यातीतपदे तु इति प्रवहणव्यापारासंस्पर्शनहेतुः, देशकालभेदापेक्षं गमनं प्रवहणं, देशकालावपिच अत्र अहन्तैकमात्रसारजातौ; नतु कथञ्चित्

(पगे ३५३)

भिन्नाविति । विश्वात्मकः इत्यनेन शब्देन क्वचिदीश्वर उक्तः, इहतु शिव एवेति दर्शयति यद्यपिच इति । प्रथमव्याख्याने मन्त्रेशपदमेकमिति चेतसि निधाय आह अथवा इति । प्रथम इति अयं हि पूर्णतायाः प्रारम्भो विज्ञानाकल इव निर्मलतायाः । प्रलयाकले मायाख्यमलाभावेऽपि न निर्मलता कार्ममलयोगेन तदभावस्य अनात्यन्तिकत्वात् । अस्य इति ईश्वरस्य वेद्यरूपतापरित्यागेन इति ।

क्रमेण संवेदनं वेद्याकारतामवभासप्रधान्येन स्वीकुर्वाणं तदाकारसौक्ष्म्यात् बिन्द्वर्धेन्दुभूमी प्रतिपद्य तद्ध्वंसतमोरूपतया निरोधित्वादवभासभागे न्यक्कृते विमर्शभागस्वीकारे शब्दनभागविश्रान्त्या प्राणपथावलम्बिक्रमसौक्ष्म्यात् नादनादान्तरूपतामारोहति, ततोऽपि प्रवाहात्मकवायुरूपताप्रक्षये सङ्कोचत्यागतारतम्येन शक्तिव्यापिनीसमनस्कोन्मनस्कभावं प्रतिपद्यते, परतः शुद्धस्वभावोन्मीलने शुद्धात्मतया परमशिवतामिति । आस्तामेतत् ।

तदेव आह प्राणशक्तिः इत्यादि परमेश्वराधिष्ठिता परमेश्वरोन्मेषमात्ररूपा चेत्यर्थः । कल्पशब्देन इति वृत्तिगतेन ।

कल्पशब्दः स्वभाववाची । तथाहि परमेश्वरनिःश्वसितरूपः समस्तोऽयं प्रमेयप्रमातृवर्गः । तत्र उक्तं

भूततत्त्वाभिधानानां योऽधिष्ठेयः स उच्यते । पिण्डस्थ इति तं प्राहुः पदस्थमपरं विदुः ॥ मन्त्रास्तत्पतयः सेशा रूपस्थमिति कीर्त्यते । रूपातीता परा शक्तिः सव्यापाराप्यनामया ॥ निष्प्रपञ्चो निराभासः शुद्धः स्वात्मन्यवस्थितः । सर्वातीतः शिवो ज्ञेयो यं विदित्वा विमुच्यते ॥ (मा। वि। २।४२)

(पगे ३५४)

इति । एवं परमेश्वराभिप्रायेण व्याख्याय अस्मदाद्यभिप्रायेण व्याचष्टे योगिनां तु इति । तदपेक्षया इति प्राणादिग्राहकापेक्षया, युक्तिराभाससंयोजनवियोजनप्रकारसहस्राभासपरामर्शः, तया प्रतिपादितायाम् असौ इति आगमार्थसारः बहु वितत्य इति वितत्य विपुलं न विहित इत्यर्थः,-इति शिवम् ॥ २० ॥

इति श्रीमाहेश्वरश्रीमदाचार्याभिनवगुप्तपादविरचितायामीश्वर- प्रत्यभिज्ञाविवृतिविमर्शिन्यामागधिकारे प्रमातृतत्त्व- विमर्शो द्वितीयः ॥ २ ॥

समाप्तश्च अयमागमार्थसङ्ग्रहाधिकारः ॥ ३ ॥