अथ प्रथमो विमर्शः ।
ओतप्रोतं सकलं विद्ध्वा? स्वरसेन शिवमयीकुरुते । योऽनुत्तरधाम्न्युदयन्स्वयममृतनिषेचनं तमस्मि नतः ॥
एवमधिकारद्वयेन निर्णीते वितत्य ज्ञानक्रिये, अधुना तु क्रियाधिकारे यदुक्तं
विश्ववैचित्र्यचित्रस्य—————————–। (२।३।१५)
इत्यादौ सर्वपदार्थावभासनिर्मललक्षणत्वमेव क्रियाशक्तेः स्वरूपमिति, तत्र कोऽसौ पदार्थवर्ग इति वक्तव्यम् । तत्र अस्मदादिप्रत्य- क्षं न अशेषसाक्षात्कारि, अनुमानमपि एवं सर्वस्य लिङ्गव्याप्त्युप- लब्धिसम्भवाभावात् । असङ्कुचितप्रकाशात्मकपरमेश्वरविमर्शात्- मकः पुनरागमो विश्वं प्रमातुं समर्थः, तत एव विवृताववतार्- यते पदार्थतत्त्वोपपादनार्थमिति पारमेश्वरागम एव तत्त्वमुपपा- दयितुं शक्तः; युक्तिस्तु तदुपबृंहणाय । नच विश्वप्रमेयतापा- दनं न उपयोगि प्रकृतायामीश्वरप्रत्यभिज्ञापनायाम् ।
विश्वप्रमे-यीकरणे हि तावत्प्रमेयपदोत्तीर्णा तावदन्तःकरणप्रतिलब्धपूर्ण-भावा सत्यप्रमातृता हृदयङ्गमीकृता भवेत् । यदुक्तं
दिदृक्षयेव सर्वार्थान्यदा व्याप्यावतिष्ठते ।
तदा किं बहुनोक्तेन स्वयमेवावभोत्स्यते ॥ (स्प। का। ४३)
(पगे २५६)
इति । समस्तसम्पत् इतिपदेन बहुब्रीहिपक्षे प्रज्ञाविशेषणेन स्फुटीकृतम् । समस्तस्य हि मूर्तिक्रियान्मनो देशकालप्रपञ्चस्य संविदि अवभासने तदपरिच्छिन्नस्वभावा असौ विभुनित्यरूपा सर्वशक्तिः स्वप्रकाशतैव निर्भासते । तदपि मायावरणादन्यथा अपि भायादिति तत्रापि ईश्वरागमशरणता । तदुक्तं
प्रमाणमेकं तद्वाक्यं तथ्यमीश्वरभाषितम् । तस्योक्तिः पौरुषैः स्थूलैः प्रमाणैर्न प्रबाध्यते ॥
इति । तदनेन आशयेन आगमाधिकार उच्यते । तत्र श्लोकैकादशकेन
एवमन्तर्बहिः———————————।
इत्यादिना
———————————–स्थूलसूक्ष्मत्वभेदतः ।
इत्यन्तेन शिवादिधरण्यन्तानां तत्त्वानां पारमेश्वरागमसिद्धं युक्त्या अपि अनुगृह्यमाणं प्रत्येकतः स्वरूपं दर्शयति । तानि एव प्रमाणव्यापारविषयत्वादेकैकाभासरूपाणि वस्तूनि येषां दर्शनान्तरे सामान्यव्यवहारः । तैरेवच नियतशक्त्यनुग्रहगृहीत- सामानाधिकरण्यवैयधिकरण्यवैचित्र्यैरनन्तस्वलक्षणावभासात्- मकव्यूहविभवविशेषमयः शरीरभुवनादिः समस्तोऽपि अयं सर्ग ओतप्रोत इति प्रकरणतात्पर्यम् । तत्र उक्तार्थोपजीवनेन अधिकारसङ्गतिं कुर्वन् पूर्वपक्षनिराक्रियां च उपसंहरन् शिवतत्त्वमेव सर्वमेतदेवच सर्वभावानां तत्त्वमिति तदेव तावत् ज्ञानक्रियायोगादाभासविमर्शसारं स्वरूपतो दर्शयति
एवमन्तर्बहिर्वृत्तिः क्रिया कालक्रमानुगा । मातुरेव तदन्योन्यावियुक्ते ज्ञानकर्मणी ॥ १ ॥
जडे प्रतिष्ठितः कार्यकारणभावो न उपपद्यते, अपितु चिद्रूप
(पगे २५७)
एव, प्रकाशविमर्शैकपरमार्थोऽपि स्वातन्त्र्यादन्तर्बहिरात्मा अवभासमानः कालक्रममुत्थापयन् ज्ञानशक्तिवपुषा धर्मिरूपः सन् तामन्तर्बहिरात्मतां क्रमिकावभासां क्रियाशक्तिं धर्मत्वेन स्वीकुरुते इति । एवं यत उक्तं तत् इति ततो हेतोरन्योन्यमवियुक्ते ज्ञानक्रिये प्रकाशविमर्शात्मिके । तदेवच सर्वभावानां पारमार्थिकं वपुः । ततः क्रियाशक्तिद्वारस्वीकृतसकलकृत्यपञ्चकप्रपञ्चनस्वातन्त्र्यं भावनाद्युपयोगितया उपदेशेन आभास्यमानमवभासरूपमपि शिवतत्त्वमिति उच्यते । तथोक्तं
श्वातन्त्र्यामुक्तम्——————————————-। (१।५।१६)
इति । तथा श्रीकिरणायां
मायातीतं शिवं तत्त्वं कथं मुख्यं मनोभुवि । विभासेत्—————————————————————॥
इतिप्रश्ने
अधोव्याप्तिः शिवस्यैव स्वप्रकाशस्य सा—————–।
इति निरूपितम् । स्वप्रकाशता हि स्वतन्त्रता, अधोव्याप्तिस्तथा सृष्टिरेवेति सूत्रार्थः । विवृतिकारो
ज्ञानं क्रिया च भूतानां———————। (१।१।४)
इति पूर्वपक्षोपक्षिप्तं स्वात्मनि ईश्वरताभिज्ञानरूपं वक्तव्यं वस्तु समस्तमुक्तं, तत् किमिदानीं प्रमेयान्तरमस्ति यदर्थमधिका- रान्ता रमिति पराशङ्कां हृदि गृहीत्वा प्रकरणार्थं सङ्क्षेपेण अवतारयति ऽएवम् इत्यादिना ऽउपदर्श्यऽ इत्यन्तेन प्रकृतसङ्गतिं कुर्वतशङ्काबीजमपि उपक्षिप्तं ऽउपक्रमतेऽ इतिवचसा सूत्रार्थोऽपि अवतारितः । शिवतत्त्वं हि सर्वपदार्थानां वपुः । तद्भित्तिपृष्ठे च सर्वभावचित्रनिर्भास इति तदभिधानमेव तेषामुपपादनोपक्रमः ।
आगमस्य च समस्तस्य तात्पर्येण शिवतत्त्वमेव अर्थ
(पगे २५८)
इति भङ्ग्या सूत्रावतारणं कृतमेवेति पूर्वशैली अपि अनुसृतैव अवतरणिकायाम् । ननु कर्तुः क्रियेति समुचितं वक्तुम्, नतु प्रमातुः क्रियेति । अत्र आग ऽअवभासनऽ इति । बहिःसत्तादानं यद्यपि आभासन- मेव, तथापि लौकिकसर्वप्रमातृसाधारणरूपसम्पादककरचरणा- दिव्यापारविशेषपर्यन्तीभूतमेव अभिप्रेतं तथा लौकिकानां प्रसिद्धेः । तामेवच सञ्ज्ञाशब्देन दर्शयति शिवतत्त्वलक्षणस्य परप्रमातुरलौकिकत्वेन व्याकर्तुमशक्यतेत्याशयेन । यद्यपि मायीय-प्रमातृमुखेन प्रमातृतत्त्वं व्याख्यातम्, तस्य च न तत्त्वभुवन-वर्गो निर्मेयस्तथापि मायाप्रमातृतत्त्वं शिवतत्त्व एव प्रकारद्वयेन सामान्यात् तदेकरूपत्वाच्चेत्येवं पर्यवसाययिष्यतीति तदभिप्रायेण तत्त्वादिग्रहणम् । आदिपदेन च मायाप्रमात्रवभासनीयघटशरीरा-दिसङ्ग्रहः । ऽआत्मनःऽ इति वृत्तौ तत्त्वभुवनादयोऽर्थाः प्रमात्रव्य-तिरिक्तत्वात् यतो निर्दिष्टाः, तत आत्मानमेव प्रमातृसञ्ज्ञं कर्मभावेन कर्तृभावेन च अवलम्बमाना क्रिया कर्मस्थत्वेन कर्तृस्थत्वेन वा विविच्यमाना एकाश्रयैव भवन्ती वस्तुत एकैव । घटावभासनस्य पटावभासनात् हि न परमार्थतो भेदो घटपटयोरेवं वोधैकपरमार्थत्वेन अभेदात् । मायाकृततद्भेदोपरागावभासितस्तु भवतु क्रियाणां भेद इति वस्तु-स्थितिग्रहणम् । ननु अवभासमानपदार्थविषयं यत् तत् समर्था-चरणं प्रमातुः सम्बन्धि, तत् ज्ञानविरहितं कस्मादन्यत् किञ्चित् न भवेदित्याशङ्क्य आह ऽबोधात्मऽ इति । बोधैकरूपस्य प्रमातुर्यदधि-कमबोधरूपं, तत् निर्मातव्यपक्षे निक्षिप्यते इति तस्य यत् निजं शक्ति-रूपं धर्मः-इतिव्यपदेश्यं, तत् बोधरूपमेव युक्तमिति यावत् । विदुषः कर्मणि अधिकारो दीक्षासमर्चनध्यानादिक्रियायुक्तस्य च तत्त्वज्ञानसम्पत्तिरित्येतस्मिन्नर्थे यद्यपि अयमागमो व्याख्यातः, तथापि
(पगे २५९)
अयमेव अर्थ एतदर्थमूलत्वे सति युज्यते । अन्यथा ज्ञानं यदि क्रियायामुपयोगि, तदस्तु; क्रिआ तु ज्ञानं वर्धयतीति कः प्रकारो भावनामात्रेण अपि तत्सिद्धिदर्शनात् । यदातु क्रिया नाम परं तत्त्वमपि शरीरपर्यन्तीभावेन दृढीभूतो विमर्शः सकलमिदं हृद्यकुसुमविलेपनादि परमेश्वरेऽर्पयंस्तदभेदितया विमृशामीति पूजनं, तदा युक्तमुच्यते-अर्चनादिक्रियाविरहितं ज्ञानं न दृढीभवतीति । तथा च श्रीसदागमः
योगो नान्यः क्रिया नान्या तत्त्वारूढा हि या मतिः । स्वचित्तवासनाशान्तौ सा क्रियेत्यभिधीयते ।
इति । मया च वार्तिके एतत् व्याख्यातं
श्वचित्ते वासनाः कर्ममलमायाप्रसूतयः । तासां शान्तिनिमित्तं या मतिः संवित्स्वभाविका ॥ सा देहारम्भिबाह्यस्थतत्त्वव्राताधिशायिनी । क्रिया सैव च योगोऽपि तत्त्वानां चिल्लयीकृतेः ॥ लोकेऽपि किल गच्छामीत्येवमन्तःस्फुरैव या । सा देहमक्षं देशं चाप्याविशन्ती गतिक्रिया । तस्मात्क्रियापि या नाम ज्ञानमेव हि सा ततः ॥
(तं। लो। १ । १५५)
इति । तदेतत् दर्शयति परस्पराविरह इत्यादिना । ऽअन्यथाऽ इति अपरस्परात्- मतायां वृक्षत्वशिंशपात्वयोरिव तादात्म्येऽभिधीयमाने परमार्थतो व्यतिरेक एव आभासविमर्शभेदादिति प्रतिपादयितुम् ऽअन्यथाऽ इति ऽव्यतिरेकऽ इतिच उभयमुपात्तम् । ऽयदि नामऽ इति चेतनस्यैव क्रिया, रथो धावतीत्यादौ पुनरुपचार इति यदि मतं; तदेव सुवचमिति आशयः । ननु परमेश्वरस्य ज्ञानक्रिये भवेतां परस्पराविरहिते ।
बोधस्वभावो
(पगे २६०)
हि परमेश्वरः सततं नवनवकृत्यपञ्चकावभासनास्वभावः, पशुप्रमातॄणां तु पूर्वनिर्मितविश्ववर्तिनीलादिबोधावसरे नवाव- भासना नास्ति एव । एतत् परिहरति माया इत्यादिना । मुखेन इत्यत्र अवच्छेदः । परस्पराविरहो युक्तः इति च पूर्वेण सम्बन्धः ।
तस्याश्चितो रूपं यदैश्वर्यं, नहि ज्ञानक्रियात्मकैश्वर्यातिरिक्ता चित् काचित्, तन्मुखेन तद्द्वारेण युक्तः पशूनामपि ज्ञानक्रिययोरन्योन्यावि-योगः । यत् नरेश्वरविवेकः
अणवश्चिदचिद्रूपाश्चित्त्वादेको महेश्वरः । तेन केचिदचित्त्वात्तु कथमाक्षेपभूमयः ॥
इति । ननु भगवतोऽपि सदा कथं न अवभासना निर्वहति,-इति शङ्कां भिनत्ति नील इत्यादिना । यदिवा यत् पूर्वं समर्थितमीश्वरस्य, तदैश्वर्यमुखेन मायाप्रमातॄणामपि निर्माणं समर्थितमित्येकरसतयैव ग्रन्थो नेयः । वृत्तौ प्रमातुः क्रियाः इति सम्बन्धे षष्ठी, नतु बहिष्कारापेक्षया कर्तरि । तत्रापि न नियमेन निषेधः शेषे विभाषा इति अभ्यनुज्ञानात् यदि न स्त्रीभावप्रत्यय एव शेषः । स्वातन्त्र्येण वा इति ईश्वरसृष्ट्यनपेक्षया । निर्माणमिति समर्थितमिति सम्बन्धः । उक्तं हि
यथाभिमतसंस्थानाभासनाद्बुद्धिगोचरे ।
अत एव यथाभीष्ट————————————-॥ (१।६।११)
इत्यादि । ननु पशुप्रमात्रुपक्रमेण किमर्थो विचारः । अत्र आह शुद्धैश्वर्य इति । ननु परमार्थतो यदि एते न अतिरिच्येते, तत् किमतिरिक्तताया विचारेण । अतिरिक्तता अपि अवभासमाना न अत्यन्तमसम्भविनीति दर्शयति केवलम् इति । निर्मातृपदे इति ।
मायीयानां कीटान्तानां स्वकार्यकरणावसरे यत् कार्यं पुरा हृदये स्फुरति, तत्र हृदये भेदस्फुरणावस्थायां चिदभेदपूर्वको
(पगे २६१)
भेद इति यद्यपि क्रमोऽस्ति, क्रमानीता च क्रियापि अस्ति, तथापि न तावतैव लोकस्तुष्यति प्रमात्रन्तरसाधारणत्वाकाङ्क्षी बहिरिन्द्रियवेद्यत्वात्म-स्वरूपान्तरापत्तिलक्षणं क्रमं यतोऽपेक्षते, ततोऽपूर्णोऽयं क्रम इति अभिमतविमर्शात्मिका क्रिया अपि अपूर्णेति तामसत्कल्पीकृत्य ज्ञानतयैव व्यवहारो न युक्तः । उच्यते इति व्यवह्रियते इत्यर्थः । ननु एवं यदि सुखादेः साङ्कल्पिकस्य च घटादेरन्तरेव बुद्धिभूमौ करणं निर्माणं, तदा कथं क्रिया ।
आह अन्तः इति । एतदनन्तरम् अपिच इति योज्यम् । न केवलं बहिरिति अपिः । च उक्तशङ्काद्योतकः । एवमन्यत्र । तत्र तर्हि क्रमः किमपेक्षया । आह अन्तरपिच इति । बुद्धिभूमौ हि
स्वामिनश्च———————————-। (१।५।१०)
इत्युक्तन्यायेन चित्तत्त्वान्तर्वर्तिन एव बहिष्कारः । ननु तत्र चिन्मात्रे कथं क्रमः । इष्टमेव एतदित्याह चिन्मात्र इति
सक्रमत्वं च लौकिक्याः———————————-। (२।१।२)
इति हि उक्तम् । ननु तादृशी प्राभवी क्रिया सूत्रवृत्त्योः कथं न दर्शिता । क आह न दर्शितेति । यावदेवहि उक्तम् अन्तर्बहिर्वृत्तिः इति, तावदेव आन्तरत्वप्रतिपादनेन सर्वाभ्यन्तरता अपि आक्षिप्तैव ।
क्रमनिर्भाससामर्थ्यमेव तत्र क्रियेत्याशयव्यक्तये शक्तिपदम् । अस्य च इति पूर्णचित्स्वरूपस्य त्वित्यर्थः । ऐश्वरः शुद्धः सर्गो यत्र उच्यते
शूधेऽध्वनि शिवः कर्ता—————————।
इति, मायीयस्तु अशुद्धो यत्र उक्तं
—————————प्रोक्तोऽनन्तोऽसिते प्रभुः ।
इति । सर्वत्र च वस्तुतः शिवस्यैव कर्तृत्वेऽपि तदिच्छाकृतादभिमानतोऽन्यस्य कर्तृत्वमुच्यते । यत् विद्यागुरुः
(पगे २६२)
उत्तरोत्तरमवग्रहग्रहैः पश्यतोऽप्यधरमुत्तरस्य यः ।
साधनस्य निजभावनाग्रहो हेतुरत्र भवतो मरीचयः ॥
इति । तत्र ऐश्वरसर्गेऽभ्यन्तरचिन्मात्रापेक्षया अन्तर्बहिर्भावस्य सद्भावः, मायीये तु सर्गेऽभ्यन्तरेश्वरवृद्ध्याद्यपेक्षया बहुशाखोऽसौ । स एष द्वयोऽपि सर्गः परमशिवस्य भगवतः शक्तिविजृम्भा । ततः सा शक्तिरन्तरवभासमानस्वभावतया ज्ञानशक्तिरुच्यते, बहिर्भावरूपेण तु क्रमोपबृंहितेन विमर्शदार्ढ्येन उपलक्षिता क्रियाशक्तिरिति व्यपदिश्यते । यदागमः
एवमेतदिति ज्ञेयं नान्यथेति सुनिश्चितम् ।
ज्ञापयन्ती जगत्यत्र ज्ञानशक्तिर्निगद्यते ।
एवम्भूतमिदं वस्तु भवत्विति यदा पुनः ।
जाता तदैव तत्तद्वत् कुर्वत्यत्र क्रियोच्यते ॥
(मा। वि। ३।८)
इति । भगवत एव परमशिवस्य अक्रमत्वेऽपि युक्तो ज्ञानक्रियाशक्तियोगः । ननु मायीये सर्गे कालतत्त्वोन्मेषात् भवतु क्रमः, विद्यातत्त्वान्ते तु मायानुन्मेषात् कालयोगाभावे कथमसौ क्रमयोगः उक्तः । अत्र आह अत्र च इति । इह द्वैतवन्तो मायीयाः प्रमातार उपदेश्याः, ते च कालक्रमभाजः सदाशिवावस्थायामपिच इदन्तोन्मेषस्य अहन्ताच्छादनीयस्य अपि सम्भवमुत्थापयन्तस्तेऽवश्यंसम्भा-विनः । अपरदशावेशो हि तत एव । अतस्तानपेक्ष्य क्रमो भवत्येव, सतु अप्ररूढ इति किमवान्तरेण अनेन । द्वैतवत् इति भूमादिषु यथायोगं मतुप् । यत एवं, तस्मात् शिवदृष्टौ यदुच्यते
(पगे २६३)
यदातु तस्य चिद्धर्मविभवामोदजृम्भया । विचित्ररचनानानाकार्यसृष्टिप्रवर्तने ॥
भवत्युन्मुखता चित्ता सेच्छायाः प्रथमा तुटिः । (२।८)
इति । परमशिवेऽपि भगवति औन्मुख्यरूपाया आनन्दशक्तेरिच्छाशक्त्य-पेक्षया प्रथमत्वं पूर्वभावित्वं तुटिरिति कालांशरूपत्वं तदुपपद्यते; अन्यथा क्रमाभावे कथं पूर्वापरीभावव्यवहारः, किन्तु उपदेश्यापेक्षया अन्तर्गतमायीयप्रमात्रपेक्षया च युक्तोऽसाविति । ननु अत्र सूत्रे क्रमवन्तो मायाप्रमातारः सृष्टाः, नतु शिवतत्त्वम् । आह प्रमातृसामान्यात् इति । तत्रापि हि उपपादिता क्रम्स्थितिः । अत एव उक्तं तदेवम् इति । ते वा न केचिदिति वास्तवं पक्षमाह अथवा इति ॥ १ ॥
ननु एवम्भूतं चेत् शिवतत्त्वं, तर्हि तदतिरिक्तं किं तत्त्वान्तरं भवेत्; विशेषतः सदाशिवेश्वरौ कथं तत्त्वान्तरं स्याताम् । यदागमः
लयाधिकारभोगाध्वत्रितत्त्वोक्तिनिदर्शनात् ।
पदार्थः पतिनामासौ प्रथमः परिकीर्तितः ॥ (म। तं। २।१।१४)
इति । अनेन पत्युरेव ईश्वरता उक्ता । एकचित्तत्त्वविश्रान्तानां च तत्त्वानां देशकालायोगात् कः क्रमः । एतदभ्युपगच्छन्नेव समर्थयते सूत्रेण
किन्त्वान्तरदशोद्रेकात्सादाख्यं तत्त्वमादितः । बहिर्भावपरत्वे तु परतः पारमेश्वरम् ॥ २ ॥
सत्यं शिवतत्त्वमेव एकं वस्तु सत्, विशेषान्तरमपितु अस्ति ।
तदुच्यते । तत् हि स्वशक्तितः स्वात्मनि प्रतिबिम्बकल्पेन वैचित्र्यं भासयत् कालदेशक्रमं भासयेदेव वैचित्र्यस्य क्रियामूर्तिभेदमयत्वात् । अत आन्तर्या ज्ञानरूपाया दशाया उद्रेकावभासने
(पगे २६४)
सादाख्यं सदाख्यायां भवं सृष्टिक्रमोपदेशादौ प्रथम- दर्शनीयं तत्त्वं यतः प्रभृति सदिति सदिति प्रख्या तदा सदाशिव- शब्दवाच्यं च । इदन्तोन्मेषेऽपि शिवतेतिहि सदाशब्देन उक्तम् ।
बहिर्भा-वस्य क्रियाशक्तिरूपस्य परत्वे उद्रेकावभासने भगवतोऽत्यन्तदुर्घ-टाकारितापरिपोषणौचित्यात् परमेश्वरशब्दवाच्यमीश्वरतत्त्वं सादाख्यस्य पश्चान्निरूपणार्हम् । एतदुक्तं भवति-इह तस्य भावस्तत्त्वमिति वर्गाणां विशेषरूपाणामेकीकरणनिमित्तं सामान्यमुच्यते मृत्पाषाणदार्वस्थिमांसादीनां पृथिवी, सरित्कूपसरःसमुद्रादीनां जलमिति । तदुक्तं श्रीमतङ्गागमे
तत्त्वं यद्वस्तुरूपं स्यात्स्वधर्मप्रकटात्मकम् । तत्त्वं वस्तुपदं व्यक्तं स्फुटमाम्नायदर्शने ॥ यदच्युत्ं स्वकाद्वृत्तात् ततं चात्मवशं गतम् ।
ततमन्येन नो तस्मात्तत्तत्त्वं तत्त्वसन्ततौ ॥ (१।५।४)
इति । तत्र शुद्धचैतन्यवर्गस्य मन्त्रमहेश्वराख्यस्य यत् भावचक्रमस्मदाद्यन्तःकरणवेद्यभावराशिसदृशं ध्यामलप्रायमुन्मीलितमात्रचित्रकल्पं प्रथमसृष्टौ, संहारे च ध्वंसोन्मुखमिव प्रतिबिम्बतया भाति; तत्र भावचक्रे तस्य चैतन्यवर्गस्य तथाप्रथनं नाम यत् चिद्विशेषसामान्यं, तत् सदाशिवतत्त्वम्; मन्त्रेश्वरादिरूपस्य तु बहिष्करणवेद्यसदृशि पूर्णचित्रप्रतिमे स्थित्यवस्था ईश्वरतत्त्वम् । यदागमः
तस्मिन्नेवेश्वरे तत्त्वे संस्थिताः परमेश्वराः ।
शिवेच्छानुमताः सर्वे जगतः प्रभविष्णवः ॥ (म। तं। १।५।५)
इत्यादि । सदाशिवेश्वरभट्टारकौ तु तथाभूततत्त्वाधिष्ठायकौ यत्र उपास्यादि ब्रह्मविष्ण्वादिवत्, तत एतदनवकाशं- ब्रह्मादीनां किं न तत्त्वमध्ये गणनमिति सूत्रार्थः ।
वृत्तिर्विवृतिश्च स्पष्टा । आन्तरदशाशब्दाभ्यां
(पगे २६५)
शिवतत्त्वमाक्षिप्तमिति ईशितुः इति वृत्तौ दर्शितम् ॥ २ ॥
नामान्तरेण इदमेव तत्त्वद्वयमुक्तम्, नतु अत्र किमेतत्स्यादिति भ्रमितव्यमिति अर्धसूत्रेण आह
ईश्वरो बहिरुन्मेषो निमेषोऽन्तः सदाशिवः । यस्योन्मेषादुदयो जगतः—————————।
इत्यत्र उन्मेषशब्देन बाह्यत्वस्फुटताविधायि यत् विश्वस्य चैतन्यसामर्थ्यमीश्वरतत्त्वं, तत् निर्दिष्टम्;
यस्य निमेषात्प्रलय—————————।
इत्यत्र तु निमेषशब्देन अन्तारूपमस्फुटमुत्थापयत् सदाशिवतत्त्वम् ।
तदेतदुभयमचलस्य अपि चित्तत्त्वस्य चलनावभासनेन किञ्चिच्चलनात्मकमिति शुद्धस्पन्दोऽयमुक्तः । सर्वाणि हि तत्त्वानि भगवतः शक्तिरूपाणि स्पन्द एव । यथोक्तं
गुणादिस्पन्दनिःष्यन्दाः सामान्यस्पन्दसंश्रयात् ।
लब्धात्मलाभाः—————————————–॥ (स्प्। का। १९)
इति । काचित्तु शक्तिरनन्ताः शक्तीराक्षिप्यैव वर्तमाना नेदीयसी भगवतः, अन्यास्तु दूराल्पतमा दवीयस्तमा इति उपासना विचित्रा आगमेषु दर्शिताः ॥
एवमुन्मेषनिमेषात्मकेश्वरसदाशिवलक्षणरूपद्वयस्वीकृत- समस्ततत्त्वं पूर्वसूत्रोक्तं शिवतत्त्वमिति अर्धश्लोकेन उक्तम्, परिपूर्णेश्वरताकस्य तु तस्यैव व्यापारो विमर्शलक्षणोऽहम्बुद्धीदम्बुद्ध्योः समानाधिकरणत्वेन यः, सा
सामानाधिकरण्यं च सद्विद्याहमिदन्धियोः ॥ ३ ॥
सती शुद्धा विद्या; अशुद्धविद्या ततोऽन्यैवेति अवान्तरस्य अर्थः ।
इदं तात्पर्यम्-अहमिति अनन्योन्मुखः प्रकाशविमर्शः,
(पगे २६६)
इदमिति अन्योन्मुखः । एकः शिवभट्टारके, द्वितीयो विद्येश्वरवर्गे ।
मायाप्रमातरि च तौ ग्राहकग्राह्यलक्षणे पृथगधिकरणे सिद्धौ ।
यदातु मध्यकोटौ समधृततुलावत् विश्राम्यतस्तदा अहमिदमिति ग्राहके ग्राह्यस्य प्रक्षेपोऽत एव ध्यामलग्राह्यांशो विमर्शः सदाशिवनाथे । इदमहमिति ग्राह्ये स्फुटीभूतेऽहमितिप्रक्षेपात् सामानाधिकरण्यं विमर्श ईश्वरभट्टारके । एनं सूत्रार्थमवतारयति उन्मेष इत्यादिना । शास्त्रकृताम् इति स्पन्दादिशास्त्रप्रणेतॄणाम् । तस्य च इति येन शिवस्य ऐश्वर्यं सदाशिवतत्त्वोपक्रमं पूर्यते, तेन उभयोरपि असौ व्यापारो विद्याख्यः । उभावपिच तद्व्यापारमयौ परमशिवनाथस्य एकघनमैश्वर्यम् । ननु विश्वं निमिषितं चेदेकरसैव अहन्ता युक्ता, सा च शिवतेति निमेषः कथं सदाशिवरूपता; ततश्च कथं गुरुभिरुन्मेषः, कथं निमेषोऽपि भगवतो व्यतिरेकेण निर्दिष्टो
यस्योन्मेषनिमेषाभ्याम्—————————। (स्प। का। १)
इत्यत्रेति शङ्कां परास्यति नतु इति । विश्वं निमिषितम् इति हि विश्वस्य इदन्तास्पर्श एव किञ्चिद्रूपं वक्तव्यम् । नच शिवपदे विश्वं किञ्चित् ।
सर्वथा त्वन्तरालीना—————————। (४।१।१४)
इति हि वक्ष्यते । आगमे हि
स्वभावेनैव शान्तात्मा घोरः संसार एवहि ।
स यस्मान्नेष्यते पत्युरघोरहृदयस्ततः ॥ (म। तं। १।४।१४)
इति पठितम् । ततश्च विश्वस्य या अन्तरिति अहन्तायां परिवर्तमाना ध्यामलता, स एव निमेषः । अत एव तदा तत् विश्वं प्रलीनमुच्यते व्यवहारणीयत्वाभावात् । एतदाह सदाशिवदशा हि इति अशेषाणां पुरुषाणां मायाप्रमातॄणां बुद्धितत्त्व
(पगे २६७)
एव, नतु बहिः स्फुरन्तोऽत एव असाधारणतया प्रत्येकं निजनिजया सं-विदा वेद्यास्तत एवच साधारण्याभावेन अव्यवहार्यतया ध्यायम-लत्वेन प्रलीनशब्दवाच्या येऽर्थास्तत्सामानाधिकरण्यप्रथा सदा-शिवपदम् । यद्यपि विवृतावहमेतदिति तुल्यतयैव प्रदर्शितम्, तथापि एतत्ताया अस्फुटत्वाभिधानात् पूर्वदशायामहमित्यत्र भरः, ईश्वरपदे तु स्फुटत्वोक्तेरेतदित्यत्र । ननु अत्र ऐश्वर्यस्य पूर्णत्वादी-श्वरता, पूर्वत्र तु सदा ईश्वरोपलक्षितः शिवव्यवहारः कुत इति शङ्कमान एतदीश्वरदशाव्यतिरेकं स्मारयन् सदाशिवपदं व्याचष्टे सर्वथा इति । इदन्ता तावदीश्वरपदं स्फुटत्वेन उक्ता, तत एव देदीप्यमाना । यदातु सा प्रशान्त्युपलक्षिता ध्यामलत्वेन अस्फुटा सम्पद्यते, तदा वेद्ययोगेऽपि शिवताया उन्मज्जनात् सर्वेण कलनाप्रकारेण शिवतेति सदाशिवता उच्यते । सा च मायापदव्यवस्थि- तानां भूतानां ग्राहकग्राह्यरूपाणां प्रलयः सर्वथैव मायीयरूपप्रध्वंसात् । मायातत्त्वे च तदा भूतानि निधीयन्ते, तच्च परमेशशक्तिरूपं सदाशिवपदे इदमित्यंशस्पर्शेन विश्राम्यतीति निमेषः सदाशिवता । एवमेष ग्रन्थो नेयः, नतु पूर्वः ननु इत्यादिग्रन्थार्थोऽत्र स्मार्य इत्याशयेन परमशिवता व्याख्यातव्या तथासति निमेषतः प्रलयः सदाशिवव्यापार इत्यनेन विरोधापत्तेः ।
ननु यदा समस्तग्राहकग्राह्यमहाप्रलयस्तदा भवतु एवम्, यदातु मायाया अप्रलीनत्वे सति पार्थिवप्राकृतादिवेद्यवर्गप्रलयः पुंस्तत्त्वानि ग्राहकाणि स्थितानि यदा पुंस्तत्त्वानामेव अन्तःकरणेषु संस्काररूपतया सुषुप्तवदवस्थानं विश्वस्य प्रलयो, नतु अहन्तान्तःप्रवेशस्तदा कथं निमेषोऽन्तरिति उच्यते । अत्र आह ग्राहक इत्यादि । अन्तर् इति पुंस्तत्त्वेषु, निमेषः संस्कारशेषतेति यावत् । ननु एवमपि सदाशिव
(पगे २६८)
इत्ययं सूत्रांशो न वाचकीकृतः, वाचकीकृतश्चेत्याह तदानीं च इति तस्यां सवेद्यावस्थायामपि यो मायीयग्राहकान्तःकरणपरिवर्तन-संस्काररूपो निमेषः, सोऽपि तत्त्वतः
इदमित्यस्य विच्छिन्नविमर्शस्य———————। ( अ। प्र। सि। १५)
इतिन्यायेन अहमितिपदे विश्राम्यन्नहमिदमितिसदाशिवतामेव स्पृशति ।
यदातु संस्काररूपत्वेऽस्य अहन्तैव तत्त्वं, तदा प्रमुख एव सदाशिवता इदन्तया मायीयाहन्तया वा संस्कारतेति हि वक्ष्यति ।
व्याख्याद्वयमपिच युक्तमित्याह अत एव इति । यतः प्रलयो द्विधा पुंस्तत्त्वावशेषतायां तत्संस्काररूपताभाजां वेद्यानामर्थानां सद्भावे सवेद्यतया, पुंस्तत्वानामपितु मायाशक्तौ प्रलीनत्वेन सदाशिवपदान्तर्गमने पृथक्प्रमातृत्वाभावात् तदपेक्षया वेद्यानां प्रतिष्ठानादपवेद्यतया । ततश्च तादृशस्य सुषुप्तस्य अपि उभयरूपत्वं वक्ष्यते
तावन्मात्रस्थितौ प्रोक्तं सौषुप्तं प्रलयोपमम् । (३।२।१५)
इत्यत्र । एवं यस्य निमेषात्प्रलय इति व्याख्याय यस्योन्मेषादुदय इति व्याचक्षाणः सदाशिवपदादीश्वरपदस्य व्यतिरेकमाह ईश्वरदशा इति । दशाशब्दोऽवस्थाशब्दस्य अर्थे । मायायां स्फुटेदन्ताभाजोऽर्था ईश्वरपदे सृष्टा भवन्ति तत्रैव परमार्थत इदम्भावस्य स्फुटतापत्तेः । ननु
यस्योन्मेषनिमेषाभ्याम्—————————। (स्प। का १)
इत्यत्र जगद्ग्रहणेन वेद्यवर्ग एव कस्मात् सङ्गृहीतः, यावता सदाशिवपर्यन्तेऽपि प्रलयः सर्गश्च आगमे श्रूयते
यत्सदाशिवपर्यन्तं पार्थिवाद्यं च सुव्रते ।
तत्सर्वं प्राकृतं ज्ञेयं विनाशोत्पत्तिसंयुतम् ॥ (स्व। १०।१२६४)
(पगे २६९)
इति । ततश्च तयोरपि उन्मेषनिमेषस्वीकृताभ्यामुदयप्रलयाभ्यां व्यपदेशः कर्तव्यः । किञ्च यथा शिवस्य उन्मेषनिमेषव्यापारौ तत्त्वान्तरं सदाशिवेश्वरावुक्तौ, तथा तयोरपि उन्मेषनिमेषव्यापा- रौ कस्मात् न उक्तौ तत्त्वान्तरतया । तदेतदाशङ्काद्वयमेकेन वाक्येन निराकरोति सदाशिव इत्यादिना । इदन्ताभागस्यैव अपररूपस्य तत्र आगमे प्रलयोदयौ परमार्थत उक्तौ मन्तव्यौ । तदभिप्रायेणैव च तत्र
मायाकालं परार्धानां गुणयित्वा शतेन तु । ईशे दिनं रात्रिरेवम्—————————————॥
इत्यादिक्रमेण शक्तितत्त्वान्तेऽपि श्रीस्वच्छन्दादिग्रन्थेन
गुणयित्वैश्वरं कालं परार्धानां शतेन तु । सादाशिवं दिनं रात्रिर्महाप्रलयः—————॥
इत्यादिना कालयोगो व्यपदिष्टः । ननु ईश्वरशक्तिरूपयोस्तयोः प्रलयोदयौ युक्तौ; तथा तयोरपि यत् प्रलयोदयव्यापारवत्त्वं, तत् परमार्थतः शिवस्यैवेति पृथक् तयोर्न व्यापारान्तरमुक्तं तावतः पूर्णशिवरूपत्वात् । एतदेव आह एकमेवहि इति । येषु इति येषु भावेषु मध्ये । तदानीं च इति अवभासनाकाले । न केवलं ग्राह्याणामिति अपिः । शून्यतारूपाणाम् इति अपवेद्ये प्रलये संस्काररूपतया स्वरूपमात्रावशेषवेद्यता पुर्यष्टकरूपाणां, सवेद्ये ग्राहकायत्तत्वात् च ग्राह्याणामपि असौ प्रलये इति न स भेदेन अभिहितः । एवञ्च सदाशिवेश्वरौ शिवतत्त्वात् न भिद्येते । ततः कथं तयोः सृष्टिप्रलयौ व्यापारान्तरं व्यपदिश्यते इत्येतत् प्रकृतं निर्वाहयितुं न एतत् प्रयाससाध्यमित्यमुना आशयेन प्रमेयान्तरं निरूपयति तदेतादृश इत्यादिना प्रत्युपस्थापयन्ति इत्यन्तेन । त्रिंशत् इति भूततन्मात्रबुद्धिकर्मेन्द्रियविंशकं
(पगे २७०)
मनोऽहम्बुद्धिप्रकृतिपुरुषरागनियतिविद्याकलाकालाश्चेति ।
प्रविशन्ति इति शता । इच्छा इति शक्तितत्त्वसङ्ग्रहः, मयटा उत्तरोत्तरतत्त्वानां तत्पूर्वपूर्वानुप्राणितत्वमाह । ज्ञानक्रिये सदाशिवेश्वरौ, तद्व्यापारोऽपि विद्यातत्त्वं तत्रैव अनुप्रविष्टम् ।
मायातत्त्वं देहे न उपादानकारणमात्रत्वेन पृथक्त्वेन सम्मतम्, अपि तु परमेश्वर-शक्तितया । तथाहि मृदादिः पदार्थः परमेश्वरशक्तिरूप एव संस्तदिच्छावशात् घटकारणतया अपि नियतौ निर्भासमानः पृथक् कारणमुच्यते । अत एव सर्वभावानां शिवः स्वभावस्तेन विना निःस्वभावत्वात् सर्वस्येत्याशयेन स्पन्दशास्त्रे
तमधिष्ठातृभावेन स्वभावम्—————–। (स्प। का। ११)
इति कथितम्, वृत्तावपि
स्वस्वभावस्यैव शिवात्मकस्य । (स्प। का। वृ। १)
इत्यादि । श्रीत्रिशिरोमते हि
सामूह्यं चैव तत्त्वानां ग्रामस्तद्धर्मता शिवः ।
इति सर्वं शिवशक्त्यात्म उक्तम् । तद्वत् मायापि इति । पञ्च एतानि तत्त्वानि । ततोऽपि इति तेभ्योऽपि तत्त्वेभ्यो हेतुभूतेभ्यः । शिवतत्त्वस्य षट्त्रिंशत्तमस्य न भेदः इति सम्बन्धः । अभेदात् इति । प्रतिबिम्बे हि भेदोऽसन्नपि आभाति तावत्, शक्तौ तदपि नेति आशयः । आदिपदेन नियतिरागौ । तासाम् इति कालादिशक्तीनाम् । शिवतादशायाम् इति यथा घटादपृथग्भूतावभासमुदकाहरणसामर्थ्यं मकुरापेक्षया पृथग्भावावभासि एव, नहि तत् मकुरस्य शक्तिरित्यवभासः परमार्थतस्तथात्वे प्रतिबिम्बमेव हि उच्यते, तथा प्रकृतेऽपि मन्तव्यम् । एतच्च इति । कालादयो ग्राहकत्वे उपयुज्यन्ते ।
अधुना न किञ्चित्करोमि जानन्नभिष्वक्तोऽहमिति हि कालकलाविद्यारागानुविद्ध एव
(पगे २७१)
अणुर्नियत्यनुप्राणितो ग्राहक उच्यते । अन्यैः इति शैवव्याख्यातृभिः ।
तथाहि शिवब्रह्मतनुग्रन्थे गुरुपादैर्निरूपितं
पञ्चत्रिंशत्तत्त्वी शिवनाथस्यैव शक्तिरुक्तेयम् । तत्र चतस्रस्तु परा अन्त्यं वै पञ्चविंशकं स्थूलाः ॥ मध्यास्तु सूक्ष्मरूपाः शक्तय इह साञ्जनास्तु परम् ।
इत्यादि । ग्राह्यायत्तत्वात् ग्राहकताया यद्यपि कालादिशक्तयोऽपि ग्राह्यं स्पृशन्ति, तथापि सामान्यत एव न विशेषतः; बुद्धिकर्मेन्द्रियशक्तयस्तु ज्ञेयतया कार्यतया च विशेषत एव ग्राह्यं स्पृशन्ति,-इति शब्दादिपदस्य आशयः । ता अपि इति स्थूलसूक्ष्मतया उभय्यः । मायाप्रमातुरपि परमार्थतश्चिदेव तत्त्वमिति शिवस्य एव एताः शक्तयः । तथाहि
यतः करणवर्गोऽयं—————————। (स्प। का। ६)
इतिनीत्या, वस्तुतस्तु स एव सर्वं जानाति करोति चेति । एतदाह ग्राहकान्यपि इति । निराभासे इति वेदकैकरूपे । समुद्यमरूपा इति ।
अहं शब्दं जानामि करोमीति हि श्रोत्रवाक्शक्त्योस्तत्त्वम् । अत एव आह विमर्शजातीय इति अहमितिविमर्शस्य विशेषरूपा एताः, विमर्शश्च भगवत एव शक्तिरिति उक्तं
विमर्श एव देवस्य—————————।
इति । तदेतदुक्तं
गुणादिस्पन्दनिःष्यन्दाः सामान्यस्पन्दसंश्रयात् । लब्धात्मलाभाः————————————————-॥
(स्प। का। १९)
इति । येऽपि प्रतिबिम्बरूपा ग्राहकास्तेषां चिद्भागः शिव एवेति उपपाद्य अचिद्भागोऽपि वेद्यात्मा तच्छक्तिरेव सदाशिवरूपेति उपपादयति
(पगे २७२)
ग्राहका अपि इति । एतच्च पूर्वमेव अस्माभिर्विमृष्टम् ।
चितिशक्तिर्विश्वरूपा भवति नचाधिक्यं स्पृशति इति सम्बन्धः । चेतना अतिदुर्घटकारित्वादिना अद्भुततां व्यनक्ति । एतत् सङ्क्षिप्य घटयति यो हि इति इदन्ताभाक् इति । निरूढेदन्ताकोऽर्थावभासः इति सम्बन्धः ।
एतत् प्रमेयं प्रकृते उपयोजयति एवम् इति । ईश्वरादि व्यवह्रियते शिवत्वाद्भेदेनेति सम्बन्धः । आदिपदेन सदाशिवादि । ननु एतावन्ति तत्त्वानि शिवप्रलीनानीति न अस्माभिः श्रुतम् । श्रोष्यते इति दर्शयति वक्ष्यमाण इति । प्रमाणभूमौ सदाशिवपद एव स्थितिः, वस्तुभूमौ तु प्रलय इत्याशयेन सर्गस्थिती सर्गप्रलयाविति च दर्शितम् ।
ननु सदाशिवता पूर्वकूटावपि अस्ति, कथं प्रलयतैव अस्याः । अत्र आह प्रपञ्च इति । अस्फुटतैवहि प्रलीनत्वमुक्तं शुद्धेन प्रलयपदेन । व्यपदेशे हेतुमाह प्रलयस्य इति ।
व्यक्तिस्फुटत्वप्रपञ्चाद्युपपादविरहितः प्रलयशब्दो भूतपूर्वस्फुटदशादर्शनं यदस्फुटनं विनाशशब्देन प्रसिद्धं, तत् ब्रूते इति लोके निरूढिः । एवं श्लोकार्धं व्याख्याय अवान्तरं विवृणोति तस्य च इति । सदाशिवेश्वरोभयरूपस्य यः स्वरूपादभेदपरामर्शस्तद्विद्या नाम तत्त्वम् । अत्रैव सच्छब्दार्थनिरूपणाशयेन हेतुमाह स्वात्मोल्लास इत्यादिना । तस्य इति वर्गस्य । ननु यथादृष्टं भेद एव स्वकारणपरम्पराधीनजन्मा अस्तु,-इत्याशङ्क्य अत्रापि पूर्वोक्तं हेतुत्वेन स्मारयति प्रकाशात् इति । अत्र इति वृत्तौ । अनेन घटादीनां यादृगान्तरत्वमन्तःकरणभुवि रूढत्वं, न तादृगिहेत्याह । ननु ईश्वरदशायां स एव प्रमाता शून्यपुर्यष्टकादीनां, तत्र एकरसैव वेद्यता; ततश्च कोऽन्यो वेदकस्तत्र स्यात् यस्य न वेद्येन साकमेकत्र चिन्मात्रात्मनि अधिकरणे विश्राम उचित इति चोद्याशङ्कायामाह वेदकश्च इति । वक्ष्यते इति
(पगे २७३)
ते तु भिन्नावभासार्थाः—————————। (४।१।८)
इत्याद्युद्देशेषु । ननु यथा नीलगुणोत्पलजात्योर्द्रव्यात्मनि अधिकरणे विश्रान्तिस्तृतीये, तथा अहन्तेदन्तयोरपि सा वाच्या; नच तृतीयमस्ति चिदचिद्द्वित्वमेवेति यत्नेन उपोद्धाते समर्थितत्वादित्याशङ्क्य आह स च इति । वेदकश्चिद्रूपमेव पूर्णतया सङ्कोचन्यक्कारेण स्थानान्तरसङ्क्रान्तमिव तृतीयमधिकरणमिति यावत् । मतिशब्देन इति वृत्तौ । अनेन मनोव्यापारो मतिः । सा कथमिन्द्रियवर्गनिरपेक्षसंवेदने भगवति ईश्वरे भवेदिति शङ्कां कृन्तति ततः ई चित्स्वरूपादीश्वरात् । यथैव इति उपदेशभावनाद्यर्थं सृष्टेन कल्पनायातेन विभागेनेत्यर्थः ।
ननु शक्तितत्त्वे एव तर्हि विद्या अन्तर्भवेदिति कथं पृथक् तत्त्वं तत् । अत्र अपि आह येनैव इति । शुद्धशब्देन इति वृत्तौ । इयं च प्रमेश्वरेण चितावहमित्यस्यामिदमितिसमस्तस्वीकारिणी मतङ्गमुनिप्रश्नानन्तरं निरूपिता शुद्धविद्या । तथाहि तत्र प्रश्नग्रन्थो
मायान्तर्वर्तिनः प्रोक्ताः पशवः पाशधर्मिणः । मायातीता परा विद्या विशुद्धाध्वप्रदर्शिका ॥
सा कथं युज्यतेऽणूनां छिन्धि सन्देहजं तमः ॥ (१।१०।२२)
उत्तरग्रन्थस्तु
शिवाद्यवनिपर्यन्तो योऽयमध्वातिविस्तृतः ।
स समस्तश्चितौ ज्ञेयो नाशिवत्वाद्विमुच्यते ॥ (१।१०।२३)
इति । अयमिति हि इदन्ता उक्ता, चिताविति अहन्ता ॥ ३ ॥
अस्या विद्यायाः कथं शुद्धतेत्याशङ्कायां सूत्रम्
इदम्भावोपपन्नानां वेद्यभूमिमुपेयुषाम् । भावानां बोधसारत्वाद्यथावस्त्ववलोकनात् ॥ ४ ॥
अवलोकनं वेदनं विद्या । सा च इयं वस्त्वनुसारिणीति
(पगे २७४)
शुद्धा । तथाहि वेद्यदशामङ्गीकृतवतामपि अत एव उचितेन इदन्तापरामर्शेन परामृश्यानां बोध एव प्रकाशात्मा सारं वस्तु, प्रकाशश्च अनन्योन्मुखाहंविमर्शमयः । तत्रैवच प्ररूढत्वेन इदन्ताया अहमिदमिति भवतीति शुद्धमिदं वेदनमिति सूत्रार्थः । एतमवतारयति । अशुद्ध इत्यादिना ।
शुद्धाशुद्धयोर्विद्ययोः पटान्तरपरीक्षणादन्योन्यव्यतिरेकेण स्वरूपमुपलक्ष्यं भवतीति मनसिकृत्य अशुद्धविद्यां तावत् दर्शयति माया इत्यादिना वक्ष्यते इत्यन्तेन वाक्येन । अशुद्धविद्याया उपयोगं दर्शयितुं पशोः स्वरूपमाह प्रथित इत्यनेन स्वात्मैव अस्य परं प्रकाशते, न परं किञ्चिदित्यर्थः । मायीयानां कालभेदसङ्गतिः, नतु परमेश्वरशक्तिरूपाया मायायाः । ततो मायामूलोऽपि मलोऽनादिरेवेति नित्य एव पशुः । यत् श्रीकिरणोक्तिः
पशुर्नित्यो ह्यमूर्तोऽज्ञो निष्क्रियो निर्गुणोऽप्रभुः ।
इति । तत एव सर्वतःसङ्कोचादणुः । सोऽणुर्यद्वशाद्भिन्नवेद्यवेदक- स्तन्मायीय इति सम्बन्धः । मायीयत्वं वक्ष्यामि इति शुद्धविद्यातो व्यतिरेको दर्शितः ननु इत्यादिना । तदभेदेन इति विद्याभेदेन । परम् इति ततोऽन्यदमायीयम् ॥ ४ ॥
अधिष्ठातृदेवताव्यतिरिक्तमेव तत्सनामकमेतत् तत्त्वद्वयमिति भङ्ग्या प्रतिपादयितुं सूत्रम्
अत्रापरत्वं भावानामनात्मत्वेन भासनात् । परताहन्तयाच्छादात्परापरदशा हि सा ॥ ५ ॥
अपरत्वमपूर्णता अन्याकाङ्क्षित्वमिदमिति, परत्वं पूर्णत्व- महमिति । अत एवच तत्त्वद्वयेऽपि तावंशौ स्त इति वेद्यभावनिष्ठा दशा तत्त्वस्वरूपा तदवभासयितृशुद्धमातृवेद्यवस्तुसाधना ।
तद्वेद्यनिष्ठसंवेदनदशा
(पगे २७५)
तु शुद्धविद्या, तत्प्रमातृरूपमन्त्रमहेश्वरादिवर्गाधिष्टातृत्वं श्रीसदाशिवेश्वरभट्टारकरूपतेति तात्पर्यतः सूत्रार्थः । तं सङ्क्षिप्य आह आगमेषु इत्यादिना । तत्त्वगतशब्देन देवतारूपात् व्यतिरेकः सूचितः । ईश्वरावस्थायां स्फुटीकृतत्वादिदन्तयास्तुला- धृतं परत्वमपरत्वं चेत्याशयेन आह ईश्वरावस्था इति । एतद्द्वा- रेण च सदाशिवदशा अपि न स्वीकृता भवेदिति अभिप्रायः । न अत्र साङ्ख्य इव परिणामक्रमेण दशाव्यवहार इति दर्शयति आत्मीयस्वा-तन्त्र्य इति । परापरत्वे शुद्धे कीदृशे स्यातामित्याकाङ्क्षायां परत्वं तावत् निरूपयितुमाह तत्र इति ।
तद्विपरीतम् इत्यादिना शुद्धमपरत्वमाह । तावत् इति द्वितीयविपर्यासानुदयेऽपि इयतैव अपरत्वमुल्लसितं विद्येशानामिव, तदुदये तु तदेव ब्रह्मादिकीटान्तानामिव स्फुटतामेष्यतीति आशयः ।
तत्रापि इति द्वितीयप्रकाशने । स्थित इति तदधिकमित्यर्थः ।
पूर्णतायोग्यस्य इति इदमितिपरामृश्यतयैव हि पूर्णता निरवकाशीकृता राज्ञ इव अभाग्यवशात् दासदशामधिशयानस्य अहमितिपरामृश्यतायां भवितव्यं पूर्णतयेति तया न भवन्त्या शोच्यतमत्वं तस्यैव प्राप्तेऽपि स्वामिपदे शक्तित्रितयानियोग इव ।
अनेन इति अपरत्त्वम् इत्यन्तेन वृत्तिग्रन्थेन । पुंस्तत्त्वग्रहणेन ब्रह्मादेः सङ्ग्रहेऽपि मायीयैश्वर्यांशोद्रेकात् साम्यमपरसंसारिभिरल्पबुद्धिभिर्न सम्भावयेतेति पृथगुपादानम् । एतेन इति परता इत्यन्तेन वृत्तिवाक्येन । शुद्धे द्वे दशे निरूप्य मिश्रीकारेण तृतीयामाह वृत्तौ इति अतो हेतोरुभयांशवशादेषा दशा परापरावस्थेति । साकल्यवादिना इति, नतु जात्याख्यायामायातेन, अपितु व्यक्तिभूमानमभिदधता ।
पूर्णत्वं पूरितम् इति सम्बन्धः । विद्येश्वरदशा तर्हि का भवेदिति
(पगे २७६)
निरूपयितुं व्यतिरेकप्रसङ्गात् पुनरपरावस्थां स्पृशति द्वितीयार्थ इत्यादिना । अत्यन्त इति अपरत्वं भवति, नतु संसारिजनतुल्यमिति यावत् ।
तेन वेद्यांशे संसारितुल्या एव ते इति निरुप्य वेदकांशमुखेन उत्कर्षं दर्शयति पक्षान्तरेण चिद्रूपाचलनाद्वा इति ॥ ५ ॥
एवमहमिदमिति संवेदने यदाछादकमहमितिरूपं, तत्प्राधान्येन व्यापारः शुद्धविद्येति प्रतिपादितम्, इदमिति तु य आच्छादनीयोऽत्र भागस्तत्प्राधान्येनेति तु मतान्तरं दर्शयितुं सूत्रं
भेदधीरेव भावेषु कर्तुर्बोधात्मनोऽपि या । मायाशक्त्येव सा विद्येत्यन्ये विद्येश्वरा यथा ॥ ६ ॥
शून्यादिरूपमायाप्रमात्रनुल्लासेऽपि संविन्मात्रे एव बोद्धरि कर्तरि च भावेषु तन्मयेष्वपि भेदप्रकाशनलक्षणं यत् स्वातन्त्र्यं मायाशक्तिरूपमिव तत् प्रमातृभागे विपर्ययाभावात् शुद्धविद्या येन प्रकारेण अनन्तभट्टारकाद्या विद्येश्वरा वर्तन्ते ।
ते हि शुद्धचिन्मात्रबद्धाहम्भावा एव भिन्नं भाववर्गं पश्यन्ति द्वैतदृशि इव ईश्वरः । तेन परमेश्वरस्वातन्त्र्योपजीविनी विद्येश्वर-शक्तिः शुद्धविद्येति तात्पर्यं सूत्रस्य । तदाह विद्येश्वराणाम् इत्यादिना । अथच इति निकृष्टा, इदम्भावस्य प्ररूढत्वात् निकर्षः । तामेव आह विद्या इति । शब्देन इति सङ्गतिः । अत एव इति स्फुटपशुभावा-प्रादुर्भावात् । कर्मणाम् इति लौकिकवैदिकात्मनाम् । दीक्षाध्यानार्-चनादेरेव तु तद्वशेन कृतात् तत्प्राप्तिः, अकृतप्रायश्चित्तश्च गृहीताधि-कारोऽपि अकृताधिकारो योग्यविधिलाभेऽपि तत्पदमेति । यदागमः
अधिकारं न चेत् कुर्याद्विद्येशः स्यात्तनुक्षये ।
इति । एवमागमोऽपि अवश्यमभ्युपेय इत्याह ईश्वर इत्यादि
(पगे २७७)
सार्थकम् इति विद्यातत्त्वे स्थिता ईश्वराः सर्वज्ञाः सर्वकर्तारश्चेति विद्येश्वराः । ननु एवमपि कस्मात् पृथक् तेषां न तत्त्वान्तरताप्र- सङ्ग इत्याशङ्क्य आह तत्त्वानां च इति मायायाम् इति । पार्थिवे ब्रह्मा, प्राकृते विष्णुः, मायीये पदे रुद्रः; इयच्च मायाशक्तिविजृम्- भितमिति सामान्येन मायायामिति उक्तम् । वृत्तिं व्यचष्टे मन्त्रविद्या- नाम् इति । ऐक्यं शुद्धानादिपरामर्शसारशब्दराशिकलाशरीरत्वेन, अवान्तरभेदस्तु मुक्तिसिद्ध्योः संवेदनवाच्यस्पन्दयोः शक्तिमच्छक्ति-रूपयोश्च क्रमेण प्राधान्यात् । तथा श्रीमतङ्गादौ विद्येश्वरेभ्यः पृथगेव विद्याराज्ञ्योऽम्बिकाद्या निरूपिताः ॥ ६ ॥
स्वातन्त्र्यात्मिका तावदिच्छैव भगवतः शक्तिः । सा तु कृत्यभे- देन बहुधा उपचर्यते । तत्र यथाप्ररूढस्फुटास्फुटेदन्ताप्रका- शने सदाशिवेश्वरता ज्ञानक्रियाशक्तिरूपा, चिन्मात्रग्राहकत्वेऽपि इदन्ताप्ररूढौ क्रियाशक्तिशेषरूपैव महामाया विद्येशशक्तिः, ग्राह्यग्राहकविपर्यासे पशुप्रमातृषु मायाशक्तिः, तथा ग्राहक- ग्राह्योभयविपर्याससंस्कारशेषत्वेऽपि योगिज्ञानिविषयं यत् वस्तु- परमार्थप्रथनं, तत्र यत् भगवतः स्वातन्त्र्यं मायाशक्तिविप- रीतं, तदवश्यं तत्त्वान्तरम् । यत् विवरीष्यते पृथक्प्रयोजन इति तदेव विद्यातत्त्वम् इति । मायाव्यतिरेकेण तद्रूपं दर्शयति सूत्रेण
तस्यैश्वर्यस्वभावस्य पशुभावे प्रकाशिका । विद्याशक्तिस्तिरोधानकरी मायाभिधा पुनः ॥ ७ ॥
पशुभावे ग्राहकग्राह्यविपर्यासोभयात्मनि पाशयोगलक्षणे स्थितेऽपि तस्य प्रमातृपरमार्थरूपस्य ऐश्वर्यलक्षणस्य स्वभावस्य या प्रकाशिका भगवतः शक्तिः, सा निष्कलप्रमातृषु वर्तमाना विद्या । यत् वक्ष्यते
(पगे २७८)
विद्याभिज्ञापितैश्वर्यः—————————। (३।२।२)
इति । मायाशक्तेर्न अत्र व्यापारः । सा हि तिरोधानस्वरूपावरणं हेतुताच्छील्यादिना करोति । यत् भविष्यति
एष प्रमाता मायान्धः संसारी————–। (३।२।२)
इति । तेन स्वरूपप्रकाशनशक्तेर्व्यतिरिक्तैव सेति सूत्रार्थः । तमवतार- यति माया इत्यादिना । तथा इति ऐश्वर्यात्मना । मायातो व्यतिरेकं व्याख्यातुं यत् तिरोधानकरी इत्यादि सौत्रं, तत् विवृणोति ऐश्वर्यस्व- भाव इत्यादिना । तिरोधानमावरणं स्वरूपाप्रकाशनं मालम- ज्ञानं प्रसज्यप्रतिषेधात्मकं यत्, तदेकम्; तत्पृष्ठ एवतु तदुप- प्राणितपर्युदासात्मना विपरीतप्रकाररूपं द्वितीयम् । तदाह अन्यत् इति । तथाप्रसिद्धम् इति रूढिमात्रात्, तथा मायाशक्तिकृतत्वं तु सर्वस्य अपि । एतदर्थमेव
अथात्ममलमायाख्य—————————।
इतिश्रीरौरवसूत्रे आख्यग्रहणम् । सृष्टिस्थिति इति प्रलयविपरीतता जागर-स्वप्न इति सुषुप्तविपरीतता उक्ता । प्रलयसुषुप्तयोः सर्वासर्वसाधार-णेतरशीघ्रचिरत्वादिना भेदो मन्तव्यः । एवं त्रीणि सृष्ट्यादीनि कृत्यानि तिरोधानरूपाणि प्रतिपाद्य चतुर्थमपि विलयनामकं तिरोधानशब्देन प्रसिद्धं तिरोधानं मायाकार्यमाह नरक इत्यादिना । ननु ब्रह्महत्यादितो नरकगमनमिति सृष्ट्यादित्रयमेव एतत् । मैवमित्याह कर्मफलातिरिक्तम् इति । यत् किल पारमेश्वरसमयमङ्गी-कृतवतोऽपि अन्तस्तद्विषयं द्वेषकालुष्यं तत्कर्मानपेक्षया एव शुद्धया परमेश्वरेच्छया एव प्रकोपापरपर्यायया भवति, तेन ये सुखदुःखे नियतिवदनावलोकिशुभाशुभबलात् भवतस्ते धर्माधर्- मनिमित्ते; ये तु शुभाशुभानुसरणमन्तरेण एव, ते परमेश्वरेच्छात एव
(पगे २७९)
केवलायाः । तत्र तत्कृता दुःखावाप्तिर्विलयस्तिरोधानं च उच्यते । तच्च तात्कालिकमात्रं वा कालान्तरानुबन्धि वा । पूर्वं कामान्धकत्रिपु-ररावणादीनाम्, उत्तरं तु शिवगुरुशास्त्रसमयादिद्वेषिणां नरकपातमयम् । अत एव इति यतः कृत्यान्तरमुक्तं, ततः । ननु पञ्चमं तत् किम् । आह अनुग्रहश्च इति ।
सोऽपि क्रमिको वरदानात्मा नन्दीश्वरादिषु, अक्रमिकस्तु दीक्षाप्राप्त्यादिर्झगित्यपवर्गदः । सर्वम् इत्युक्तेऽनुग्रहस्य अपि मायाकार्यता उक्ता, तत् किं व्यापारान्तरेण अत्रेति शङ्कां ध्वंसयति वरदानादिरपि इति । आदिग्रहणेन सिद्धिप्रेप्सया धनादिकाम्यया आर्तिविवारयिषया अपिच यत् परमेश्वरसमयप्रतिपा- दनं, तदपि अनुग्रहरूपमेवेत्याह । उन्मेषशब्देन तीव्रत्वं तत्र विद्याया आचक्षाणस्तीव्रविद्याकृतानुग्रहबलेन रुद्रशक्त्याविष्टो मोक्षप्रेप्सुरेव गुरूपसदनादिकं दीक्षाज्ञानयोगचर्यादिकमेतद्दे-हपात एव अपवर्गफलं प्राप्नोति,- इति दर्शयति । स्यात् इतिपदेन इदमेव अस्य सूचितम् । यद्यपि वरदानादौ मायाया अविनिवृत्तिः, तदाशयेन च सर्वम् इति उक्तं, तथापि सम्भाव्यत एव अत्र विद्याशक्तिकृतो लेशेन आवेशः, यः परिपाके मोक्षफलः । अत एव गीतम्
चतुर्विधा भजन्ते माम्——————–। (७।१६)
इति उक्त्वा
उदाराः सर्व एवैते—————————। (७।१८)
इति । तीव्रविद्याशक्त्यनुग्रहस्तु दर्शितः
————————ज्ञानी त्वात्मैव——-। (७।१८)
इति । एतच्च प्रपञ्चितं प्रथमत एव, तथा नवधा मुख्यतयैश्वरः शक्तिपातः (१३ आ।) इति सुविवेचितं श्रीतन्त्रालोकादौ ॥ ७ ॥
(पगे २८०)
विद्यास्वरूपं स्फुटयितुं मायातो व्यतिरेचनं यत् वक्तव्यं, तदाशयेन यत् मायाया स्वरूपमुक्तं तिरोधानकरी इति; तदेव सूत्रान्तरेण स्पष्टीक्रियते
भेदे त्वेकरसे भातेऽहन्तयानात्मनीक्षिते । शून्ये बुद्धौ शरीरे वा मायाशक्तिर्विजृम्भते ॥ ८ ॥
अत एव अवतारण्यां विपर्ययद्वयहेतुः इति तद्धेतुत्वेन स्फुटेन रूपेणेत्यर्थः । सुषुप्ते प्रलये वा इति न इति अभावसमाधौ च यत् व्योमकल्पमनात्मरूपमिव आभाति, तदनुस्मर्यमाणत्वेन वेद्यं सदहमिति आत्मत्वेन स्वातन्त्र्येण अभिनिविश्यते । उच्छ्वसिमि, निःश्वसिमि,-इत्यत्र प्राणो वायुकल्पः, बुभुक्षे, पिपासामि,-इतिप्रत्यये मन्युप्रज्वलनादौ च स एव तेजःसमुपबृंहितः । अन्तरहं वेद्मि सुखी दुःखी मूढोऽहम्,-इत्याद्यवस्थासु स्वच्छसलिलाशयसदृशी बुद्धिः, कृशः स्थूलो गौरोऽहम्,-इत्यादौ शरीरमेव पृथ्वीप्रायम् ।
अत्र च चिन्मात्रतापरमार्थेऽपि यत् वेद्यताभासनम्, एतदाद्यं विपर्यासं मायीयम्; अतिरस्कृतवेद्यभावमेव तु तत् जडमपि सत् यदहमिति आत्मत-या भाति, तत् द्वितीयम् ।
एवंविधातिदुष्करविमोहनव्यापारसम्पत्त्य-प्रतिघातरूपा इयमिति कथयितुं विजृम्भते इति । वाग्रहणेन विवेकाव-गम्यतायामपि बुद्धिप्राणशून्यप्रमातृभावस्य हेयत्वेन अविशेष इति वदता दारसुतधनभवनादावपि गाढामहन्तां सूचयति,-इति सूत्रार्थः ।
सामानाधिकरण्यं च—————————। (३।१।३)
इति या विद्या दर्शिता, तामनुवदति मायाशक्तिं ततो व्यतिरेचयितुम् ईश्वरस्य इत्यादिना । शरीरस्य शीर्यमाणतां दर्शयति जरा इत्यादिना । अग्निरूपम् इति तदव्यभि चारिणमिति
(पगे २८१)
यावत् । प्राणत एव वर्गपञ्चकस्य त्रितयस्य च अनुप्रवेशात् पुर्यष्टकरूपतामिच्छन्ति । स्मर्यमाणत्वात् इति संविद्रूपं हि अविच्छिन्नप्रकाशस्वभावः कथं स्मर्यते । तदुक्तं
नाभावः—————————। (स्प। का। १२)
इत्यादि उपक्रम्य
यतोऽभियोगसंस्पर्शात् तदासीदिति निश्चयः ।
इति उक्त्वा
नत्वेवं स्मर्यमाणत्वं तत् तत्त्वं प्रतिपद्यते । (स्प। का। १३)
इति । यदावा एवं, तदा अनात्मा एव अहन्तया प्रतिपन्न इत्येवं सर्वोऽयं द्वितीयो विपर्यासः इति महावाक्यस्य सङ्गतिः । तथैव इति आत्मतया । एष एवच द्वितीयो विपर्यासोऽनात्मनि आत्मभावनाख्यः साङ्ख्यादिशास्त्रे सर्वत्र हेयत्वेन सिद्धः, नतु पूर्वः । तेनैवच प्रथमेन विपर्ययेण अन्तःक्रोडीकृत एव अयं द्वितीयो विपर्यासः, यदुपसंहरिष्यति तदेक एवायम् इति, नतु समशीर्षिकया द्वाविमौ विपर्यासाविति निर्णयन् मलत्वमस्य उपपादयति अदर्शनं च इत्यादिना । ननु अदर्शनयोग्यं पुर्यष्टकादि प्रकाशमानतया नाम सम्भाव्यतां घटादिवदेव, तस्य तु किमहम्प्रतीत्या अधिकया येन उक्तं प्रतीतौ इति । आह तस्यैव इति । केवलम् इति इयदधिकमवश्यमङ्गी- कार्यम् । अहम्प्रतीत्यभावे हि स एव शुद्धाज्ञत्वसहित इति आत्मतया यो न दृश्यते भाववर्गो नीलादिः, स नैव प्रकाशेत, प्रकाशते च असौ ।
नीलमिदमिति हि न मूर्च्छान्धतमसपदमदः । तदवश्यमहम्भा- वेन अधिकेन अत्र भवितव्यं येन केवलं कृत्वा शुद्धा तत्र अज्ञता न भवति । ननु अस्ति अहम्भाव ऐश्वर आच्छादकः, तत् किमपरेण पृथग्भूतेन तेनेति चोद्यं परिहरति
(पगे २८२)
पुर्यष्टकाद्यपि इति । तेन अहम्भावेन अज्ञता सर्वथैव तिरोधीयते इति पुनरपि नीलमिदमिति न प्ररोहेत् । ततस्तादृगपरोऽहम्भावोऽत्र विषेक्तव्यो यस्तत्र ज्ञतां निर्मलतया तिरस्कर्तुं न शक्तः इति आशयशेषः । प्रथमः इति आद्यः प्रधानभूतश्च । यत् नरेश्वरविवेकः
वेद्यीकरणमर्थानां मलो मायाख्य उच्यते । मलम्——————————————————–॥
इति । मलत्वेन एवच तत्र निदानापेक्षया मायाख्यतया प्रसिद्धिराग- मेषु भगवता उत्थापिता, द्वितीयस्य तु मलस्य विषयप्रयोजनापेक्षया आणव इति । तत्र अस्य प्रथमस्य शुद्धं विषयमाह आणवो यत्र नास्ति तत् यथा इत्यादिना । सर्ववित्त्वादेव आणवाभावः । वाचकः इति परामर्शसारो, नतु केवलश्रवणविषयरूपः शब्दविशेषो मायीयवर्णानुप्राणनकृदमायीयः । यथा उक्तं
ते तैरालिङ्गिताः सन्तः—————————। (मा। वि। ३।२८)
इत्यादि । स आत्मा अहम्भावभाजनं येषां ते तेन शब्दशरीरत्वात् सङ्कुचिता वेद्यवर्गादन्योन्यतश्च, शब्दस्य च अत्यन्तं प्रकाशं प्रति निविडावरणरूपत्वाभावात् न सर्वज्ञताहानिः । एतच्च विशेषग्रह-णेन प्रमात्रित्यादिविशेषणोपादानेन च आसूत्रीतम् ।
एतदेव समर्थयितुमुत्तरो ग्रन्थः । अत्र च
घटोऽयमित्यध्यवसा—————————। (१।५।२०)
इत्येतत्सूत्रविवृतिप्रमेयमनुमन्तव्यम् । अन्योन्यं भिन्नं मन्त्राणां वर्गं सामान्यात्मना तावत् साधारणेन रूपेण ब्रह्माङ्गवक्त्रेषु इव मूलमन्त्रांशरूपतया अनुयन्तः सामान्यविशेषगोत्वाश्वत्वा-दिन्यायेन भिन्नाः स्वयं तु वाचकशब्दशरीरा एव । तदाह उभये च
(पगे २८३)
इति मन्त्रा मन्त्रेशाश्च । मन्त्रेश्वरा अपि वाचकशब्दशरीरमन्त्रेश्वर-रूउपमन्त्रविशेषाधिष्ठातारो मन्त्रेश्वररूपतैव अत्र सङ्गृहीताः । यत् वक्ष्यति
बोधानामपि कर्तृत्वजुषाम्————। (३।२।९)
इत्यादि उपक्रम्य
—————————विद्येश्वराश्च ते ।
इति । तदपेक्षया इति वाचकशब्दविशेषात्मकशरीरोपाधिसम्बन्धप्रति- लब्धसङ्कोचवशेनेत्यर्थः । परस्परव्यतिरेकेण स्वलक्षणता प्रमेय- स्य भवति,-इत्याशयेन मायाप्रमातॄन् विद्याप्रमातॄंश्च सान्तर- विचारेण व्यतिरेचयति मायाप्रमातारः इत्यादिना मन्त्राणां हि इत्यादिना च । इदन्ता एवहि शरीरबुद्धिप्राणादिषु प्रधानभूता । नहि एते शब्दनरूपवत् संवेदनगामिनः इति संविदं सङ्कोचयन्तो निबिड-तममावृण्वते ननु । एवं शब्दनशरीरो मन्त्रात्मा हृदयाकाशे विमर्शरूपतया विपरिवर्तमानः, अत एव अनाहतशब्दवाच्यो नित्योदितो मन्त्रः । तादात्म्यं दर्शयति स्पर्शादेः इति । एतदल्पमुक्तम्, इयं तु उचितोक्तिरिति वाग्रहणम् । अत एव पुनरादिपदम् । भूतान्तरवर्तिनः इति खटखटाच्छलच्छलादिरूपस्य मेयैकरूपस्येत्यर्थः । तत्रापि यस्तत्- परामर्शकस्तदव्यक्तप्रमेयभूतस्वलक्षणात्मकशब्दानुकरणत्वे
-न वैयाकरणैर्गीतः, स आकाशीयो वाचक एव प्रमातृविश्रान्तिसतत्त्वः । अनेन आकाशीयपदस्य व्यवच्छेद्यं दर्शितम् । शिवतापि इति इदन्तानुन्-मीलने प्रमातृपदे । ईश्वरतापि इति इदन्तोन्मीलने प्रमाणभूमौ । तत् इति तस्य भगवतो या कर्तृता अहमिति स्वातन्त्र्यात्मा, सा यत्र उपचर्यते समारोप्यते स्पर्शादौ सोऽर्थो यतो वेद्यैकरूपस्ततस्तत्तादात्म्याविभागगामिन्यौ ते शिवतेश्वरते अपि
(पगे २८४)
तच्छरीरप्रभृतिगतस्पर्शशब्दरूपरसगन्धादिनिष्ठमेव देशकाल- सङ्कोचं भजत इव । बुद्धिः इति प्रकाशभागेन, पश्यन्ती इति विमर्शांशेन । तत एव प्रमेयता वाच्यता च प्राक् पृथगुक्ता ।
तयोश्च इति निर्धारणपदेन पूर्वकस्य एव अर्थस्य इदं स्फुटीकरणमिति दर्शितम् । ततः इति यतः प्रमातृप्रमाणे देशकालवच्छेदवती, ततस्तयोरायत्ता वेद्यसंवित्तिस्तथैव आभाति ।
मुख्यम् इति प्रमाणपदे यतः करणताया अवस्थानं, नतु कर्मताप्रमेयता तत्र अवस्थिता । तदा मुख्यं सम्पूर्णं वेद्यवेदकतालक्षणं मायाप्रमातृत्वं नास्ति, वेद्योपाधानसङ्कोचात् तु तदपूर्णमस्ति एव । मन्त्रात्मना इति शुद्धविमर्शरूपेणेत्यर्थः । असौ इति सङ्कोचः । तच्च इति ककारादि- विभागात्मकम् । प्रतिबिम्बकल्पम् इति प्रतिबिम्बकल्पतया एव सर्वस्य निर्भासनमिति आकूतम् । अत्र शरीरघटादि अपिहि वस्तुतः प्रतिबिम्बप्राय-मेव । तत्र स्फुटपृथग्भावेन वेद्यत्वं नैव भासते, नतु एवं वाचकपरामर्शनिष्ठः ककारादिविभागः । एतदाह नतु विजातीयम् इति पृथक्परामृश्यत्वेन संवेद्यमिति यावत् । तत् इति वर्णविभागरूपं कर्तृ । अज्ञत्वम् इति कर्म । दृष्टान्तो वैधर्म्येण ।
प्रतिबिम्बकल्पत्वेन भासमानत्वात् इति हेतुमुक्त्वा हेत्वन्तरमपि आह स्वप्राधान्याभा-वाच्च इति । शरीरादौ मायाप्रमातॄणां परमास्था बन्धस्थान-त्वेन भाति समस्तानां तद्भङ्गभीरुस्वभावत्वात् । ककारादिवर्ण-ग्रामस्तु विद्याप्रमातॄणामुपाधानवत् मायाप्रमातृगतनीलादि-भेदवत् निजकृत्योपकरणतया भासते । संवेदन एव आत्मताभिमानो हि एषाम् ।
उपाधानतामेव दर्शयति केवलम् इति । ननु
कर्मतश्च शरीराणि—————————।
(पगे २८५)
इति तावदुच्यते । तेषां तु विद्यामयानां निर्माणे किं कारणम् । आह परमेश्वरेच्छा इति । कर्माद्यनपेक्षामेव प्राह सा च इति इच्छा ।
एवं विषयद्वारेण अशुद्धं मायाख्यमलस्वरूपमुक्तमुपसंह- रति तदयम् इति । परम् इति केवलम् । एतदेव स्फुटयति ननु इति । अग्रे इति
बोधानामपि कर्तृत्वजुषाम्———————-। (३।२।९)
इत्यत्र । एकवचनान्तम् इति वृत्तौ देहादिरित्येतदपेक्षया चकारेण स्फुटत्वेन वाक्यभेदोऽत्र आनीत इत्याशयेन एवमुक्तम् । तत्र इति
माया विमोहिनी नाम कलायाः कलनं स्थितम् ।
इति हि श्रीरुद्रयामलसारवाक्यम् । तद्वशादेव इति । विवर्तपरिणाम- कार्यकारणतावादा हि वितत्य निराकृता इति भगवच्छक्तिरूपा एव माया विपर्यासान्तराक्षेपिप्रथमोक्तविपर्यासक्रमेण स्वात्मनि भावात्मातः ? करोतीति ॥ ८ ॥
ननु अनात्मा शून्यादिरात्मतया यावदभिनिविश्यते, तावत् चिद्रूपतया अभिनिविष्टो भवति । सा च अनावृतेति पुनरपि विशुद्धैश्वर्य-योग एव अस्य युक्तः इत्याशङ्कां तत्त्वपञ्चकसंवलितपुंस्तत्त्वप्रदर्शनेन अपोहति
यश्च प्रमाता शून्यादिः प्रमेये व्यतिरेकिणि । माता स मेयः सन् कालादिकपञ्चकवेष्टितः ॥ ९ ॥
स्यादेव दोषो यदि प्रमातृतायां शून्यादिर्मेयतां जह्यात्, नतु एवम् । तथाहि सति व्यतिरिक्ते मेये कथं माता भवेत् । पारिमित्यं हि अत्र प्रमेयत्वे मातुर्व्यतिरेके च प्राणः । तदेवच कालादिपञ्चककञ्चु-कनिचितत्वमिति सूत्रार्थः । तं सङ्क्षिप्य अवतारयति इदानीम् इति । स्यात् इति
(पगे २८६)
अपि त्वात्मबलस्पर्शात्—————————। (स्प। का। ८)
इतिनीत्या । सा इति अहमिदम् इति ऐश्वरसंवित् । अत्र इति शरीरे । वक्ष्यते इति
कलोद्वलितमेतच्च—————————। (३।२।११)
इत्यत्र सूत्रे । तद्रूपता इति । आत्मरूपताहि सती अपि संसारित्वे निवर्तते एव शरीरे गृहवस्त्रादाविव । मान्यपदेन अपूर्णं प्रामाणिकत्व- माह । शङ्कितानवस्थापरिहाराशयेन विशिनष्टि नित्योदिता इत्यादिना ।
अतथा इति तदधीनत्वादेव अज्ञमकर्तृ चेति अणुलक्षणं यिजितमत्र ।
ननु स्त्रीबालादीनां पुर्यष्टकादि न भवेत् आत्मा शरीरमेव इति उक्त्या, ततश्च अपरलोकिनस्ते स्युः । अत्र आह शरीरात्ममानिनामपि इति । एतत् च प्राक् व्याकृतमेव अयमेव हि अनात्मनि आत्माभिनिवेशावतरण- क्रमः इत्यत्र । अष्टादशविधनिषेध्यापसरणे नञ्परामर्शविशेष- मपि यदा अयमभ्यासवशादुज्ज्ञति
—————————येन त्यजसि तत्त्यज ।
इति, तदा नेत्यपिविशेषस्य अस्तमयात् विशुद्धमेव चित्तत्वं भाति; केवलं तत्संस्कारात् भेदोऽत्रेति व्युत्थानादिसम्भवः । सङ्कोचितम् इत्यन्तं कर्तृपदम् । अनुभूत इत्यादि कर्मपदम् । सा इति आत्मरूपता ।
यत्पदेन क्रियापरामर्शेऽपि क्रियायाः कारकोत्कलितशरीरत्वात् करणस्य प्रकृतस्य परामर्श उचित एव, नतु वासनापेक्षमेतत् लिङ्गं पुनः संस्कारापेक्षया पुन्निर्देशान्तरप्रसङ्गात् । अथवा इति न इदन्तया वेद्यम्, अपितु मायीया तावदागृहीतरूपा सा अहन्ता एव युक्तेत्यर्थः । तथाहि व्याख्याता तावत् संस्कारवन्तमात्मानं मन्वानो व्याख्यातुमुद्यच्छति, नतु तान् संस्कारान् पृथग्वेदयमानः । रुद्रादेस्तुलनम् इत्यादौ
(पगे २८७)
च सोऽहम् इति तावत् संस्कारपूर्ण एव अहमितिपरामर्शात् गर्वकोपाद्यु-दया युक्ताः । स्वकृतसङ्कोचसंस्कारवती या चित्, तन्मयतया प्रलीन-मपसारितशब्दादिरूपविशेषमेकमिति पुर्यष्टकान्तरादेर्भिन्नम् । द्वितीयविपर्यासस्य आद्यविपर्यासनान्तरीयकं स्वरूपं विषयद्वा-रेण उपसंहरति तदेवमेतत् इति । प्रथमविपर्यासभित्तौ रूपान्तरमिद-मिति अज्ञपदेन असमस्तपदेन आह । एवं माता स मेयः सन् इत्यन्तं व्याख्याय कालादिक इत्यादि व्याख्यातुमारभते अन्यदपि इति । इयमपि आशङ्का अनेन एव परिहृता यदुत कलननियमनादि कार्यमशेषप्रमे- यनिष्ठं दृश्यते, तदमी कालाद्याः प्रमातृधर्मत्वेन एव किमुच्यन्ते इति । पारतन्त्र्यं तत्त्वान्तरसम्बन्धे सति समर्थता स्वयमसमर्थता तु अप्रभुत्वमित्यनया भङ्ग्या भेदनोपादानम् ।
तत्र विशेषणतातिरेकेण न कालादीनां स्वरूपमस्ति । विषेषणं च प्रतीत्यारूढमेव तथा भवति । तत्र दण्डादीनि विशेषणानि अपि न आभासनक्रियां भिन्दन्ति तथा भवन्ति, अपितु पुरुषादिकमेव विशेष्यं संयोगादिद्वारेण । ततस्तेषां वस्त्ववच्छेदकतया पुर्वं प्रमातृभागावच्छेद उपयुज्यते दण्डी अयमिति इयता एव कृत्यस्य पूर्णत्वात् । कालः पुनः स्फुटास्फुटरूपतया आभासक्रियामेव भावाभाववतीं निर्भासयता परमेश्वरेण सृष्टः । स च आभासनक्रियया एव भावाभाववति इदन्ताभागे पतितत्वादहमिति अवभासलीनत्वात् च प्रमातरि एव प्रथमं स्फुरति । तद्द्वारेण तु घटादौ योऽहमयमि-दानीं स्फुटरूपो वर्ते, परिकृशो भूत्वा स्थूलतरश्च भविष्यामि अश्वगन्धघृतोपयोगेन तत्सहभाविनोऽमी घटादयः स्फुटरूपा वर्तमाना इत्येवंवर्तमानात्मकध्रुवकालावधिपरिग्रहेण भूतभविष्यतोः प्रमातृगतयोरेव सतोः प्रमेये विश्रान्तिः,-इति
(पगे २८८)
प्रवहद्वयःकालः स पुंस एव कञ्चुकत्वेन युक्त इत्यागमेषु तथा निर्दिष्टः । नियत्यादेरेष एव नयः । एव इति वत वत इति किञ्चित् इति ह्यः इति आस इति हि विमर्शा नियतिरागकलाकालविद्यात्मानः संविदि एव, न वेद्ये । तदयं वर्गो न स्वतन्त्रः, नापि सामान्येन प्रमेयधर्मः,-इति तात्पर्यम् । तदुक्तं श्रीकालपादायां
यावत्येव हि संवित्तिरुदिता सुस्फुटा भवेत् । तावान् क्षणो वर्तमानः कल्पो वान्यद्वयावधिः ? ॥
इति । एतत् तथा च इत्यादिना स्फुटयति । सर्वमिह आभासरूपमिति उत्सर्गः, तत् किं वृत्तावाभासपदेन,-इत्याशङ्क्य आह सर्वं हि इति । बहिर्वस्तु इति सकलसाधारणतया एव बाह्यत्वं, सा च न विशेषणतायां नीलस्य अपि कञ्चित्प्रति विशेष्यत्वात् उत्पलस्य च विशेषणत्वात् । यत् मध्यममुनिः
विशेषणविशेष्ययोरुभयविशेषणत्वात्
इत्यादि । देवदत्तं प्रति इति अप्रतीतत्वेऽर्थक्रियासम्बन्धे च उभयत्र योज्यम् । ननु अप्रतीतं सा अवच्छिददर्थक्रियान्तरं तु करिष्यति,-इत्याह नच इति । नीलं हि पृथगेव सुखदुःखादिकं जनयत् न विशेषणमुच्यते । एतत् निदर्शनेन स्फुटयति नहि इति ।
दण्डिप्रतीतेरुपयोग्यानिनीषितपुरुषा-वच्छेदनादित्यर्थः । तथाहि इति एवञ्च सतीत्यर्थः । प्रमातृभूमौ प्रमातृभूमौ इति वीप्सा, अव्ययीभावेन साधारणतारूपबाह्य-त्वाभाव उक्तः । एकतामय इति सम्बन्धरूपः । प्रथते इति अनपह्नव-नीयतया वस्तु एव । तात्कालिक इति तथैव तदा सृष्टः । अन्यदाहि तस्यैव प्रमातुरसौ अन्यथा स्फुरत्येव । एवं विशेषणवृत्तान्तं प्रकृत उपयोजयति ततश्च
(पगे २८९)
इति । यत एवम्भूतो विशेषणमात्रस्य अपि वृत्तान्तस्ततो हेतोः कालादीना- माभासनक्रियामुखेन प्रवृत्तानां कथं प्रमातृप्रतीतेर्बहिर्- भावः शङ्क्येतेत्यर्थः । आदिपदात् नियत्यादीनाम् । अत एव आगमेषु
रागेण रञ्जितात्मासौ कालेन कलितः प्रिये । नियत्या यमितो भूयः पुम्भावेनोपबृंहितः ॥ कलोद्वलितचैतन्यो विद्यादर्शितगोचरः ।
इति उक्तम् । निपातावमर्शनीया नियमादयः, स जातः इत्याद्यवमृश्या रागादयः संवेदनगताः सन्तः संवेद्यान् स्पृशन्तीति ।
अपृथक्सिद्धानाम् इति प्रमातृशक्तिरूपाणाम् । विशेष्यस्य या विशेषणक्रिया अवच्छेदलक्षणा, तस्या या प्रतीतिस्तत्र अनुपयोगिनां ततो बहिर्भूतानां सिद्धिरेव न सम्भाव्यते । दण्डादिबाह्यविशेष- णेन वस्तुतः प्रमातृधर्मत्वमेव एषामुचितम्,-इति भावः । कालस्य इति सर्वसामान्यमपि विशिष्यत इति यावत् । मात्रपदेन सर्वप्रमातृसाधारण्यं निराकृतम् । अत एव आह आभासोऽपि इति दूरत एव तावदवच्छेदनक्रिया, दूरे च अर्थक्रियान्तरम् ।
आभासनमपि दण्डवत् न कालस्य पृथक् सर्वसाधारण्येन बहिरस्ति ।
कुन्दचूतमल्लिकाकुटजकमलमालतीसन्तानं हि क्रमिकं पश्येत्, नतु तत्प्रतीतेर्बहिर्भूतं दण्डमिव कालं क्रमरूपम् । एतदेव श्रीपूर्वागमे स्वरूपलक्षणादाद्यात् भेदात् प्रमात्रपेक्षभेदान्तरोक्त्या दर्शितं
शक्तिमच्छक्तिभेदेन धरातत्त्वं——। स्वरूपसहितम्———————————-॥ (मा। वि। २।२)
इत्यादौ । ननु भवतु एवं कालस्य प्रमातृलग्नत्वम्, परमेश्वरस्य तु कथं तच्छक्तियोगः,-इत्याशङ्क्य आह विचित्र इति ।
विचित्रानाभासनानाभासोपबृंहितानाभासान् कुन्दादिमयान् यतः
(पगे २९०)
परमेश्वरः करोति, ततः परमेश्वरस्य शक्तिः प्रमातृधर्मं कालमुत्थापयति; ततः प्रमातुर्धर्मः कालः । प्रमाता हि कलितः सन् कलयिता कालेन कलित इति उक्तः । परमेश्वरस्य तु कालशक्तिः क्रियाशक्तिप्राणितरूपेति । प्राक् इति
क्रमो भेदाश्रयः—————————। (२।१।४)
इत्यत्र प्रकरणे । एष एव अन्यत्र कञ्चुकवर्गे वृत्तान्तः, इति दर्शयितुं नियतिं व्याकर्तुर्त्या वृत्तिः, तां विवृणोति कार्यकारणभावश्च इति ।
कार्यलक्षणशब्देन तद्भाव उच्यते । स च कर्तृत्वपर्यवसान इति तस्य कर्तृत्वस्य कालशक्त्या वक्ष्यमाणया दत्तस्य यो नियमो यतो नियम्यमानतापूर्वकनियन्तृत्वलक्षणात् धर्मात्, सा नियतिः प्रमातुर्धर्मः । तच्छक्तिस्तु क्रियाशक्तिशेषरूपा भगवत एव चिदुचिता । कर्तृता चित्कर्तृता । तत्र इति नियतिविषयत्वे । कार्यकारणशब्देन तदाभासः । ततश्च अयमर्थः-वस्तुतो भगवानेव तथा निर्भासते इतिस्थिते न बीजस्य अङ्कुरं प्रति घटं वा उपादानतापि मृद इति तुल्यमसामर्थ्यं द्वयोः, तथापि सर्वप्रमातृसाधारण्येन एवमाभाति-बीजमुपादानमङ्कुरस्य, न मृत्; सा तु घटस्य, न बीजम्,-इत्येवम्भूतो य आभासविषये नियम्यमानतालक्षणो धर्मः, स वस्तुतः प्रमातरि एव, न प्रमेये । तत्र तु
मात्राभासनद्वारेण—————————।
इति प्रमातुर्धर्मो नियतिः सर्वज्ञेन उक्ता । यदुक्तं
नियत्या यमितो भूयः—————————।
इति । साधारण्यमेव दर्शयति तथा इति । अनेनैव कर्मतत्फलनियमव्या- ख्याने सिद्धे पृथक् तदभिधानं संसारवृत्तान्ते तत्प्राधान्यात् ।
तदाह यश्च इति । वृत्तौ कर्मशब्देन चेत्
(पगे १९१)
क्रिया, तदा फलं तत्कृत आत्मवर्ती संस्कारः; अथ स एव कर्मशब्देन, तदा फलं स्वर्गादीनि । उभयथा वृत्तिर्विवृता । रागं व्याचष्टे कर्तुः इति । मत्सरादेः इति अभिधर्मादौ भारतादौ च दर्शितश्चित्तवृत्तिगणो रागमूल एव । अत एव
वीतराग—————————। (न्या। सू। ३।१।२५)
इति द्वेषोद्धर्षमत्सरादिविगमोऽपि अस्य प्रतीयत एव । ननु अवैराग्यं शैवदृशि बुद्धिधर्मत्वेन अपि वक्ष्यते, तत् किमन्येन रागेण । काणा- दानां तु न अन्यत् तदस्ति,-इति युक्तमिच्छाद्वेषयोरात्मगुणत्वमित्या- शङ्कामपनुदति बुद्धिगुणश्च इति । तत्त्वान्तरतया इति । राग इति अनेन कञ्चुकत्वेनेति यावत् । तथाहि बुभुक्षा, पिपासा, स्त्रीसम्बुभुक्षाल-क्षण उल्लासो यः, तदवैराग्यम् । तत्र च भवति वृद्धातुरादेरभि- ष्वङ्गो भवति एवं भूयादेतत् मम इतिप्रतिपत्तेः । ततो रागतत्त्वं प्रधानभूतम् । तस्य तु बहिष्पर्यन्तताप्रसरणं यत्सम्पत्तये वृद्धातुरादीनां भैषज्यं भविष्यति, तदवैराग्यम् ।
धर्मादयोऽपि अभिष्वङ्गवासनाया एव पल्लवाः-इति समस्तोऽयं रागवर्गः । ते तु विशेषोल्लासात्मानो बुद्धिधर्मत्वेन गणिताः । तत एतत् सर्वमेव मायामूलत एव स्थितम् । तथाच दीक्षासमये तदन्तर्वर्तिन एव सर्वस्य शोध्यत्वं श्रीस्वच्छन्दादिशासनेषु निरूपितं मूले दग्धस्य पुनः प्ररोहाभावात् । रागनियत्यादौ तत् पल्लवितमुकुलितप्रायं, बुद्धौ पुनः फुल्लितं च फलितं च । तदेतत् सर्वमाह बुद्धिगुणश्च इत्यादिना विषयविशेष इत्यन्तेन । रागं व्याख्याय कर्तृत्वज्ञत्वात्मना विकसितस्य चैतन्यस्य भिन्नकार्यज्ञेयविषयस्य अभिव्यञ्जनाय द्वयोर्व्यापार इति सममेव कलाविद्ये निरूपयति शून्यादेश्च इति । चो धर्मिणि धर्मान्तरं समुच्चिनोति । चैतन्यमनिरुद्धं
(पगे २९२)
सततानावृतं, तत्र किमभिव्यञ्जनेनेत्याशङ्क्य सत्यमेवं परमार्- थचैतन्ये, भिन्नविषयकल्पितचैतन्यचर्चा पुनरियं वर्तते इत्याशयेन आह चैतन्यं च इति । इह इति पुंस्तत्त्वे । तद्विवक्षाभावे हेतुमाह चिन्म-यत्वात् इत्यादिना । कर्मकक्ष्याम् इति पारतन्त्र्येण प्रकाश्यमानताम् । चित् इत्यादि ग्राहकात् भिन्नमिति यावत् । अर्थान्तरात् ग्राह्यान्तरात् विलक्ष-णम्; तत एव अविभक्तमपि ग्राहकग्राह्याभ्यां विभागमापादितम्, तथाभावेऽपि स्वयम् इति स्वेन रूपेण संविन्मात्रमयतां प्रकाश-मानत्वेन अनुज्झदपि नीलादि जडमुच्यते । कुतः । पदार्थान्तराणां विविक्ततया भेदेन यत् संवेदनवैचित्र्यं, तत्र असमर्थत्वात् । तत्र च हेतुः इदन्ता इत्यादिना उक्तः । अभेदप्रकाशनं तु अनस्तमितमेव शव-शरीरघटादावपि,- इति न तत्कृतो लौकिकोऽयं जडाजडविभागः इति यावत् । तदाह नतु इति ।
ननु अनेन प्रकारेण हेतुना जडमुच्यते सम्बन्धः परस्य भिन्नस्य सतो यत् संवेदनं कर्तव्यं लोकयात्रोत्थापकं तस्य अकरणात् । न केवलं शून्यादावेवं, घटादावपि एवमित्याह अत एव इत्यादि पराधीनतया इत्यन्तम् । यदर्थमियत् विचारितं, तत् प्रकृतमनुबध्नाति विद्याकलाभ्याम् इति । सर्वशब्दो योग्यतां प्रमाणवैचित्र्येण आह, अर्थशब्दो भेदम् । ननु ते विद्याकले ज्ञत्वकर्तृत्वे व्यक्ते चेत्, वास्तवेन रूपेण अभेदात्मना व्यङ्क्ताम् । अत्र आह मायीयत्वात् इति । ननु भेदेन ते सर्वविषये स्ताम् । उच्यते नियति इति ।
एतानि हि कञ्चुकानि मोदकरसवदन्योन्यानुग्रहलक्षण–मेलनवृत्तीनि, तत एव वेष्टित इति उक्तमागमेषु । अत एव अमीषां विचित्रेण पौर्वापर्यक्रमेण अभिधानमविरुद्धम् । तथाहि मालिनीसारे
(पगे २९३)
हृदये यः स्थितो ग्रन्थिरध-ऊर्ध्वन्नियामकः ।
इति उपक्रम्य उक्तं
कदलीगर्भदलवन्मोदकादिरसादिवत् । कदम्बगोलवच्चित्रात् क्रमात् कञ्चुकसम्भवः ॥
इति । एतेनैव आशयेन आह न चात्र इति । इयत् तावत् प्रथते च आगमानुगृ- हीतं च । अधुना इदं विदन् कुर्वन् रक्तो नियमवान् यः, सोऽहमित्येवं- प्राये तत्त्वग्रामे संवेदनानुसरणनिमित्तमवधानं धीधनैर्न अत्यन्तमाद्रियते । यदितु आदरोऽत्र भवेत्, तदेतद्वितानयेदिति । किं तत् । आह अयमेव क्रमोऽन्यथावा इति उल्लासस्य चित्रक्रमत्वात् । तत्त्वान्तरा- णाम् इति अधिकानां वाग्रहणात् न उपयोगो वा इति । अनादरे हेतुः निष्प्रयोजनत्वात् इति । कुत्र तर्हि आदरः ,-इत्याह एतावत् तु इति । आदर्तव्य- तायां हेतुमाह एतावच्च इति । मध्यवर्तिनस्तु प्रयोजनशून्यतां दर्शयति अन्यत् तु इति । अनुपयोगि इति दूरेण सम्बन्धः । कथमनुपयोगि ।
आह इदानीम् इत्यादि एवम् इत्यन्तम् । संविदितम् इति सद्भावोऽनेन लक्ष्यते । ततश्च अयमर्थः-इदानीमियदस्ति, अन्यदा तु अधिकमपि स्यात् । अत एव पक्षान्तरमाह अवधानाभावात् इत्यादिना । इदानीं षष्ठविषयादि सन्निहितमपि असंवेद्यं स्यादिति शङ्क्यत इव, तदवलोकनेऽपि सप्तमादि-विषयसम्भावनानिवृत्तिः । तदाह अचिन्त्य इत्यादि । एतेन षट्षोडशादि-भेदेन मध्यमप्रमेयगणनं बालुकागणनप्रायमशक्यं निरुप-योगं चेति दर्शयति पारतादीनां पार्थिवादिरूपविलक्षणानामपि सम्भवात् । एतदेव संवादयति तदुक्तम् इति प्रकृतं यदस्माकमभिधेयं, तत् भाति च उपपद्यते च
(पगे २९४)
उपयुज्यते च; नच मध्यमप्रमेयासंवेदने तस्य सर्वोर्ध्वपदवर्ति- नः काचित् खण्डनेत्याह इयं तु इत्यादि । तथारूपत्वम् इति स्वात्मा ज्ञाता कर्ता स्वतन्त्र इति । अनेन विना न किञ्चित् प्रकाशते, अन्यद्वा कल्प्यमानं दूरे तिष्ठतु,-इत्याशयेन आह नापीयम् इति । यत्र तु एतदुपयोगि, तत्र दीक्षादिविधौ सर्वमेतत् सुनिरूपितमेव ॥ ९ ॥
—————————प्रमेये व्यतिरेकिणि । (३।१।९)
इति उक्तम्, तत् प्रमेयं युगलकेन आह
त्रयोविंशतिधा मेयं यत्कार्यकरणात्मकम् । तस्याविभागरूप्येकं प्रधानं मूलकारणम् ॥ १० ॥ त्रयोदशविधा चात्र बाह्यान्तःकरणावली । कार्यवर्गश्च दशधा स्थूलसूक्ष्मत्वभेदतः ॥ ११ ॥
सङ्क्षेपेण स्पष्टमेतत्, प्रपञ्चस्तु विवृतावेव अस्ति,-इति पृथङ् न विमृष्टम् । प्रमेयं वचश्च शोधयितुं चोद्येन उपक्रमते ननु इत्या-दिना भवेदिति इत्यन्तेन । अत एव इति यतः सामान्यलक्षणसङ्ग्राह्यतैव उचिता, तत इत्यर्थः । एतदेव व्यतिरेकेण आह अवास्तवे च इति । तत्तु इति असं-वेदनीयत्वादेषाम् । एतच्च कर्मेन्द्रियविषयेऽपि सञ्चारणीयम् । करण-त्वमपि अनुचितमेषामिति दर्शयति तथा इति । कालकलादयो हि प्रमातृतां पूरयन्तः प्रतिप्रमातृभिन्नस्वभावाः, क्वचित्तु नटमल्लप्रेक्षादावी- श्वरेच्छया तावति एकीभवन्त एकविषयतया वा अन्यत्र रक्तोऽन्यत् नियत्- या कार्यते इत्यादिस्थित्या करणांशगामिनः; तत् किमन्येन करणेनेति प्रमेयं चोदयित्वा वचनचोद्यमाह तथा इत्यादिना । अत्र इति प्रधान- स्य एव परामर्शो युक्तः, नच तस्य उदितो निरावरणायोगादिति भावः ।
उक्तम् इति इदमपि
(पगे २९५)
वचनचोद्यमेवेति आशयः । इतिश्चोद्यसमाप्तिसूचकः । पुनरपि इति विभा-गविभागोऽयमिति यावत् । भुवनादय इति आदिपदात् देहभेदादयः । तथात्वेन च इति करणत्वेन च इति करणत्वयोगिवेद्यत्वेन । बुद्धिपरि-णामादि इति बुद्धेर्गन्धादिरूपपरिणामोपयोगीनि बुद्धीन्द्रियाणि, बाह्यस्य अपितु मृत्पिण्डादेर्घटादिपरिणामाय कर्मेन्द्रियाणि । एतच्च अपिपदेन आह ।
नहि इति । एतच्च आदिसिद्धसूत्रोक्तमेव स्मारितम् । इह कारणानि इति असंविदितस्य अपि बीजादेरङ्कुरादौ कारणता एव यतोऽनुमीयते इति, तेन वास्तवं प्राधान्यमशब्दस्पृष्टमपि आश्रित्य परामर्श इत्यर्थः ।
तावता इति न वास्तवं वचनवृत्त्या बाध्यते इति यावत् । एतच्च प्रौढवादित्वेन उक्तम् । एवं तु सूत्रं नेतुं शक्यमेव यत्कार्यकरणात्मकं वस्तु त्रयोविंशतिधा, यच्च तस्य मूलकारणं; तत् सर्वं प्रमेयमिति साक्षात्पदस्य व्यवच्छेद्यं दर्शयन् प्रमातरि प्रमेयतां निराकरोति विकल्पज्ञाने हि इत्यादिना ।
ननु एवमेव प्रधानस्य अपि असाक्षात्कार्यता अस्तु विकल्पमात्रवेद्यत्वात्, अतश्च एवं यत् कापिलैरिदमपि असंवेद्यपर्वतया एव गणितमिति यो मन्येत, तं प्रति आह प्रधानम् इति । पुनःशब्दः प्रमातुरस्य विशेषं द्योतयन् साक्षाद्वेद्यतां स्पष्टयति अस्मदाद्यपेक्षया अपि प्रमेयतामपि आह अनुमान इत्यादिना । एतदुक्तं भवति-आत्मा विकल्पज्ञान इदमिति प्रकाशमानो मूलपरामर्शेऽहन्तात्मनि एव प्रमातृतैकपरमार्थे विश्राम्यति ।
एतच्च उक्तं
नाहन्तादिपरामर्शभेदात्—————————। (१।५।१७)
इत्यत्र । प्रधानं तु विकल्पे निर्भासमानमपि साक्षाद्वेद्यांशैक- रूपमेव इदन्तयैकरसतया भातीति परामर्शैक्यात् तदेव तत् । एतदपि उक्तं
(पगे २९६)
दूरान्तिकतया—————————। (२।३।१०)
इत्यत्र । ननु एवं स्वकण्ठेन एव कस्मादस्य प्रमेयता न उक्ता । अत्र आह केवलम् इति । अथ एकप्रहारेण सर्वं परिहरति सर्वमेवच इति । अत एव इति यतो लोकयात्रोपयोग एव प्रधानभूतं, तत इत्यर्थः; अन्यथाहि सूत्रानुसारेण करणवर्ग आदौ निर्देश्यो भवेदिति आकूतम् ।
वर्गिप्राधान्येनापि इति चोद्यबीजं यत् परस्य, तदेव वस्तुतः समाधानमिति दर्शयति बहुवचनेन इति । नहि वर्गिभ्योऽपरो वर्गः कश्चिदिति यावत् । अथवा इति बहुवचनेन लोकप्रसिद्धो भावग्रामः समस्तो गृहीतो वर्गशब्देन सूत्रे स एवेति यावत् । सूक्ष्मस्य स्थूलतः प्रतिपत्तिरुत्पत्तिस्तु विपरीता,-इत्याशयेन सूत्रवृत्त्योः क्रमविपर्ययेण निर्देशः । महत्तत्त्वम् इति वाचोयुक्त्या
प्रकृतेर्महांस्ततोऽहङ्कारो निःसत्ता सत्ता निःसदसतः सत्तामात्रं महदभिव्यज्यते ततो महात्मी संविदः सिता ?
इत्यादिकापिलोक्तिस्मारणेन न बुद्धेर्मनश्चक्षुर्वागादिवत् करणस्कन्धता एव, अपितु कारणस्कन्धतापि अस्ति,-इति समर्थयते ।
कार्यत्वस्य शब्दाकाशादिरूप एव विषयो यत्र कारणत्वं नास्ति ।
तेषाम् इति करणदशैकभाजां परिणतस्थूलाकाशादिधर्मतारहितानामिति यावत् । तथा इति कार्यतया । प्रकारान्तरेण अपि सैव साङ्ख्योक्तिः समर्थयते कार्यत्वञ्च इति भोक्तृभोग्यतत्करणविचारं हि करोति भोगक्रियाविश्रान्तः । तथा इति कार्यत्वेन । वृत्तिगतं क्रममुत्पत्तिनिरूपणेन समर्थयते कार्यं च इति । आविर्भवत् इति व्यज्यमानतया सत्कार्यवादमाह । सूक्ष्मम् इति न परमाणुरूपम्, अपितु विभागरहितं परिपेलवात्मकं कार्यवर्गापेक्षया व्यापकरूपम् । स्थूलता अपि एतद्विपरीता मन्तव्या
(पगे २९७)
मात्रपदं व्याचष्टे विशेषरहिता इति एतत् कारणरूपं परं सामान्यं मृद्रूपता इव घटादेः, सादृश्यलक्षणं तु अपरं सामान्यं घटानामिव घटत्वमिति । पुरस्तात् इति योगिनिर्माणतादिसूत्रेषु (२।४।११) । स च इति क्रमः । नियतिशक्तिमेव प्रमाणतो दर्शयति आगमतोऽपि इति अनुमानमत्र दुर्बलमिति आह । ननु असकृत् इति ननु आगमान्तरमन्यथाक्रमप्रतिपादकमपि अत्र नास्ति,-इति कुतो निश्चयः । तत्र अयमेव क्रमो नियतेरिति दुरवगममेव । अस्तु एवम्, प्रकृते तु न काचित् म्लानतेति आह नचासिद्धेऽपि इति । संवेदनस्य अनपह्नवनीयस्य यत् संवेद्यात्मत्वं, यच्च तत्संवेद्याभाससं- योजनवियोजनबहिरन्तर्भावापादनादिस्वातन्त्र्येण ईश्वरत्वं, तत् सर्वं स्वप्रकाशम् । एतत् तु मूढं प्रति उपदेशतया प्रमेयमिह प्रकृतं, तस्य न हानिः काचिदसिद्धेऽपि सत्त्वसङ्ख्याक्रमनियमादा- विति सङ्गतिः । एतदुक्तं भवति-संविदः सर्वशक्तितामेव पश्यन् कृतार्थः, सर्वं तु मध्यवर्ति कियत् स्यादिति गङ्गागतसैकतकण- गणनं क्व उपयोगि परयोगिनः । यदाह
कीटसङ्ख्यापरिज्ञानं तस्य न ह्युपयुज्यते ।
इत्यादि । तन्मात्राणि उपसंहरन् महाभूतानि आसूत्रयति तदेवम् इत्यादिना । सन्निवेश इति आशयसङ्ग्रहाय । अन्योन्यसम्पर्कं च इति भूतान्तरविषयम् । पक्षद्वयनिरूपणं वा इति एकैकगुणमहाभूतदर्शने हि गुणान्तरोपलम्भो भूतान्तरसम्पर्कत इति सन्निवेशत इति भूतरूपता स्थूला ।
एकैकगुणवृद्धतापक्षे तु परस्परसम्पर्कस्तन्मात्राणाम्, आकाशे तु सन्निवेश एव स्थौल्यापत्तिः सम्पर्काभावात्, चेष्टाव्यूहनक्रिया वायोः । आदिपदात् पक्तिसङ्ग्रहधृतयोऽपि तेजोम्बुधराणां वृत्तयो गृहीताः ।
(पगे २९८)
यद्वा इति आकाशसङ्ग्रहाय पक्षान्तरम् । एतदेव स्फुटयति सन्निवेश- विशेष इति न अत्र अन्योन्यसम्पर्क इति एवकारः । शब्दपरिणामस्य उभयथा अवकाशदातृत्वं सम्भाव्यते वाचकशब्दस्य नादात्मनो विचित्रसमयसहिष्णुशाब्दवृत्तमूलानेकवर्णग्रामबीजभूतस्य यतोऽनेकवाच्याध्यासवतः सर्वावकाशदानक्षमतेति एकः प्रकारः, वाचको वा अस्तु अवाचको वा खटखटादिरपि शब्दः सर्वावकाशसहः स्पर्शसहचारितारहितो मूर्तताभावादप्रतिघातको यत इति अपरः प्रकारः । तन्निरूपयति नादात्मा इत्यादि यद्वा इत्यादि च । अपि इति पृथिव्यादीनां तावदवकाशदातृता नैव सम्भाव्यते कथञ्चित्, दृश्यमाना अपि न तेषां सा स्वभावः; अपितु तत्सहचारिण आकाशस्य एवेत्यर्थः । तत्त्वान्तरात्मनः इति पृथिव्यादिगुणस्य स्पर्शसहचा-रिणः प्रतिघातकृतस्तत्र आकाशे प्रवेशो यस्य न स्पर्शसहचारी स शब्द इति तस्य एव आकाशस्य एव अवकाशदातृता वृत्तिः, नतु शब्दगुणा-नामपि भूतान्तराणामिति तात्पर्यम् ।
स्थौल्यभाग इति योऽसौ सन्निवेशात्मना सुषिरस्वभावः, तदाकाशमेव; नतु तन्मात्रम्, यत्तु असन्निवेशात्मकं क्षोभमयं रूपं, स शब्दो गुण इति अभिप्रायः । अत एव इति यतः शब्दसन्निवेशरूपता तत्र अव्यभिचारिणी, ततो हेतोर्वायोराकाशमेव एको देशः स्वरूपात्मत्वेन अव्यभिचारात् । एतदेव लोकप्रसिद्ध्या प्रमाणयति तथा चाहुः इति । सर्व एवहि लौकिकालौकिक- खवाय्वोरव्यभिचारमिच्छन्ति,-इत्याशयेन
नित्यमेवाविविक्तत्वं मरुदम्बरयोरिव । (भ। गी। ९।६) इति
यथाकाशस्थितो नित्यं वायुः————-।
(पगे २९९)
इत्यादि च नियतमिह न पठितम् । पक्षान्तरमाह अथवा इति । अत एव इति यतः शब्दभाग आकाशपदपतितः । मतान्तरेण अपि एतत् संवादयति तथाच इति । यदिहि आकाशमेव गुणान्तरस्पर्शाधिक्यात् वायुरित्येषा दिक् न भवेत्, तदा शब्दस्पर्शाभ्यां स्पर्शादेव वायोर्जन्म; एवमुत्तरे-षाम्, ततः पूर्वस्य महाभूतस्य उत्तरं प्रति कथं कारणत्वं स्यादिति आशयः । ननु किमर्थं शैवसाङ्ख्यादय इत्थमाहुः । उच्यते अस्य क्रमस्य इति पृथिवीधारणायां जितायां पृथिवीमपि जलविलीनां भावयन् योगी जलमेव पश्यंस्तत्सिद्धीः प्रतिपद्यते यावदाकाशैक-लीनानि शून्यैकताभाञ्जि पूर्वमहाभूतानि भावयन्नाकश-सिद्धीः । दीक्षाकालेन च विशुद्धं पूर्वतत्त्वं धरामप्सु उत्तरत्र योजनीयमिति योजनासु निरूपितम् ।
येषामध्यवसायोऽस्ति न विद्यां प्रत्यशक्तितः । सुखोपायमिदं तेषां विधानमुदितं गुरोः ॥
इति हि आगमे दीक्षायोजनं सर्वानुग्राहि युक्तम्, तत्र कारणे कार्यस्य प्रविलयो योजनं च । युक्तः इति स एव अयं बहुतरागमानुगृहीतः पक्षः इति यावत् । एनामेव पक्षद्वयशैलीं भूतान्तरेषु दर्शयति एवमेव इति । एकगुणता एव भूतानामित्येतत् संवादयति अत एव इति
विषयवती प्रवृत्तिरुत्पन्ना स्थितिनिबन्धनी ।
इतिसूत्रभाष्यकारः पृथिव्यादिक्षेत्रेषु एकैकगन्धादिगुणसंवेदन- मेव न्यरूपयत् । श्रीमतङ्गशास्त्रेऽपि
क्षुभितात् स्पर्शतन्मात्राद्द्विगुणो व्यूहतो मरुत् ।
इत्यादिग्रन्थेन स्वभावतः एकैकगुणत्वे पूर्वभूतान्तरव्यूहनयो- गात् तत् द्विगुणत्वादि निरूपितम् । तान्येव इति वृत्तिं व्याचष्टे
(पगे ३००)
तान्येवच इत्यादिना नतु वस्त्वन्तरम् इत्यन्तेन । अप्रत्यक्षत्वात् इति सौक्ष्म्यात् तेषां महाभूतद्वारेण एव उपलक्षणमन्यथा माया- तत्त्वमेव एकं शिवतत्त्वमेव एकमिति वस्तुवृत्तम् । ननु एवं घटाद- योऽपि तत्त्वरूपतया गण्यन्ताम् । नेत्याह प्रत्यक्ष इति परत्वं प्रकृत्- यन्ते, सूक्ष्मता तन्मात्रान्ते, व्यूहता धारणान्ते पूर्वपूर्वसञ्च- येन गुणाधिक्यस्य अनन्तरमेव वर्णितत्वात् । ततः परो विभवो देहघ- टादिः । न अत्र व्यूहनादधिक्रमस्ति । तेषाम् इति निर्धारणे । ननु एषां
रूपादिषु पञ्चानाम्—————————। (सा। का। २८)
इति आलोचनेन्द्रियता उचिता, न बुद्धीन्द्रियतेति चोद्यं परिहरन् बुद्धिबो- धोपयोगितया इत्येतदेव स्फुटयति इन्द्रियाणामध्यवसायात्मतया यतो विषयबोधो निष्पद्यते, ततो बुद्धीन्द्रियता । ननु तानि स्वालक्षण्येन आहङ्कारिकत्वसामान्येन प्रत्यगात्मनः शक्तिरूपत्वेन चेति सर्वात्मना परोक्षाणि, तत् कथमध्यवसायात्मता एषाम् । सत्यम्, अमीभिः प्रकारैरेवमेव; किन्तु स्वविषयाकारैः परिणतानि सन्ति बुद्ध्यामनुप्रविष्टानि तदाकारतां बुद्धावर्पयन्ति, तेन विषयाकारतापरिणामेन अध्यवसायमयानि भवन्ति, नतु स्वालक्षण्यादिना रूपत्रयेण । स एवच एषां लोकयात्रोपयोगी, नतु तत् ।
ननु च आलोचनमेव इयति मूलमिति तेन कस्मात् न व्यपदेशः । अत्र आह आलोचनमात्रेण इति बुद्ध्यध्यवसायपर्यन्ततामागच्छता । तेन बुद्धो मम अयमर्थः इति न प्रमातुर्विश्रान्तिस्तस्यां तु सत्यां सा भवतीति । एतत् स्वरूपदर्शनयोरपि सम्मतमित्याह अध्यवसायो हि इति अन्यत्रापि इति च । परैरपिच युक्तमेतदुपगतमिति वदन् स्वदर्शनस्य सर्वसम्मततया द्रढिमानमाह इन्द्रियवृत्तेः इत्यादिना
(पगे ३०१)
मायापद एवच आलोचनं द्वारं, द्वारीणि अन्तःकरणानीत्यादिका प्रक्रिया, नतु विद्यापदे इति दर्शयति यतश्च इति । अनुगम्यते इति अस्माभि- रपि न न अङ्गीक्रियते इति यावत् । सौक्ष्म्यादिक्रम इति घ्राणेन्द्रियं स्थूलं यावत् परमसूक्ष्मं श्रवणमिति, एवं परमसूक्ष्मं वागिन्द्रियम् । विषयाणां शब्दादीनां यथायोगं स्वरूपं निर्वर्णयन्ति घटादिकरणावसरे त्यागो ग्रहणं द्वयमिति बहिः पायुपाणिपादस्य, अन्तर्वागिन्द्रियस्य, तत्प्रक्षोभविश्रान्तिरुपस्थस्य,- इति असाधारणक्रियाणि सकलशरीरव्यापीनि केवलं नियताधिष्ठानस्पष्टस्ववृत्तिकानि कर्मेन्द्रियाणि । तेन रुग्णपाणिरपि दोर्भ्यामादत्ते इत्यादि सिद्धम् । एषाम् इति निर्धारणे । केचित् इति आहुः ।
अपरे तु इति प्रतिपन्नाः इति सम्बन्धः ।
तस्मात् त्रिविधं करणं द्वारि द्वाराणि शेषाणि । (सा। का। ३५)
इति यदुच्यते, तत् तावदेकरसमेव । अन्तःकरणस्य अपितु परस्परं द्वार- द्वारिभावे नियतः क्रमो यथिव कालकलादीनां प्रमातृभावोपग- मने यतोऽत्र अभिष्वङ्गः, ततो वेदनं, ततः करणम्; यतो वा वेदनकरणे, ततोऽत्र राग इत्यादेः प्रमातृदेशकालादिभेदनक्रमस्य विचित्रत्वात् । ननु सर्वाणि करणानि मायाकृतभेदानुसारेण बहिरिति युक्तम्, मायाप्रमात्रुपयोगादन्तरङ्गत्वेन वा अन्तरितीदं चोद्यमाशङ्क्य अन्तर्बहिष्करणताविभागं घटयितुं बुद्धिकर्मेन्द्रियाणामुक्तमपि स्वरूपं प्रत्यावर्तयति एषु च इति सर्वप्रसिद्धेष्वित्यर्थः । प्रमात्रन्तर इत्यादि समासपदम् । मनसि ग्राहक इत्यादि अहङ्कारे, तन्निष्ठ इत्यादि बुद्धौ, सर्व इत्यादि त्रितयेऽपि अन्तःकरणतायां हेतुत्वेन योज्यम् । अन्ये इति विन्ध्यवासिप्रभृतयः । ते हि अहङ्कारबुद्ध्योः
(पगे ३०२)
कारणस्कन्धतामेव आहुः, न करणस्कन्धताम् । स्वदर्शनस्य युक्ततामाह-इहतु द्वित्वेन उक्तमन्तःकरणं भिन्नवृत्तिवशात् योजना यतस्त्रिधा एव, अन्यथाहि एकमेव तत्त्वमिति उक्तम् । अत एव उक्तमागमे
मनो गर्वस्तथा बुद्धिर्द्वारमेतत् सदात्मनः । भूतये भूतनाथेन निर्मितं करणं त्रिधा ॥ (म। तं। १८।८३)
इति । ज्ञानक्रिया इति । ज्ञानशक्तिरेव मायाप्रमातरि भिन्नज्ञेयविषय-त्वेन सत्त्वम्, एवं क्रियाशक्तिर्भिन्नकार्यविषयत्वेन रजः, माया एव भिन्नवस्तुविमोहमयी तम इति वक्ष्यते
स्वाङ्गरूपेषु भावेषु पत्युर्ज्ञानम्————-। (३।२।३)
इतिसूत्रे । अतस्तासां यो भेदोल्लासो विभिन्नज्ञेयकार्यविस्फारविषयः, सा परा पकृतिर्मूलकारणम् । प्रधानत्वं प्रथमतो धीयते विश्वं सृष्टौ, यत्र च प्रलीनं सत् प्रलये । ननु इत्यादिना विभागरूपतां व्याचष्टे । सर्वतत्त्वानामादिभूता, अत एव पराप्रकृतिर्या; सा प्रधानतत्त्वमिति सम्बन्धः । अविभागात्मतां स्पष्टयति सकलभेदानभिव्यक्तिरविभागरूपता इति । नतु सा तुच्छं प्रसज्यप्रतिषेधमात्रमित्याह मूलकारणरूपे वस्तुनि इति तेन तद्वस्तुस्वभावभूतं तदविभागात्मकत्वमेकत्वं व्याचष्टे ।
एकत्वं च अस्याः सर्वत्र । अत एव सकलभेदानां हि अविभागः सा ।
ततश्च कथमसावन्यान्यरूपा भवेदेकया एव समस्तभेदग्रासीकारात् । ननु प्रधानं सत्त्वादि अविभागरूपं, तत्त्वादीनां च भवता शक्तित्वं न सहिष्यते
भेदस्थितेः शक्तिमतः—————————। (४।१।५)
इतिसूत्रार्थनिर्णये; पतञ्जलिप्रभृतयस्तु अत्र शक्तित्वेन व्यपदेशं कुर्वन्ति, तत् कस्मात् मतभेदः इतीदृशि चोद्ये । प्रतिसमाधत्ते
(पगे ३०३)
सत्त्वरजस्तमोरूपत्वेऽपि इति । भेदस्थित्यभिप्रायेण अस्माभिः शक्तिता निषिद्धा, नतु वास्तवेन वृत्तेन । यत् वक्ष्यते
—————-पत्युर्ज्ञानं क्रिया च या । मायातृतीये————————————॥ (४।१।४)
इत्यादि, तत्त्वागूर्य मायाशक्तिव्यपदेशो युक्त एव पातञ्जलादौ
दृग्दर्शनशक्त्योरेकात्मता एव । (यो। सू। २।६)
इति हि सूत्रं
प्रधानशक्तिः पुरुषस्य—————————।
इत्यादि च भाष्यम् । एकत्वे प्रकारान्तरमाह परमेश्वर इत्यादि । तेन मूलपृथक्त्ववादो न अङ्गीकृत एव इह । इहहि शैवैर्मायातत्त्वमुपा- दानकरणं निर्दिष्टं, तदेव परप्रकृतिरूपेण उक्तम्; माया तु परमेश्वरशक्तिरुक्ता । अत एव पार्थिवाण्डानामिव प्राकृताण्डानां यदसङ्ख्यत्वमुक्तं
पृथग्द्वयमसङ्ख्यातम्—————————। (मा। वि। २।५०)
इति, तत्र गुणतत्त्ववैचित्र्यभेदो जीवितम्, मायातत्त्वं शक्तिश्चेति तु एकमेवेति न तत्र अण्डविभाग आगमेषु दर्शितः । तदुक्तं
पृथग्द्वयमसङ्ख्यातमेकमेकं पृथग्द्वयम् । (मा। वि। २।५०)
इति । अत्र च प्रतिपुंस्तत्त्वं न भेदोस्ति,-इति अभिदधता तदधरवर्तिनां तत्त्वानां सोऽस्ति,-इति सूचितम् । ननु अत्र किं प्रमाणमित्याह एष च इति ।
एष तत्त्वक्रमोऽनुमानेन अपि प्रत्यक्षपूर्वकेण अन्वयव्यतिरेकिणा वा साधयितुं शक्यते । ननु अनुमानेन प्रतिबन्धो दुरवधार इति उक्तम् ।
सत्यम्, किन्तु परमेश्वरनियतिशक्तिमुपजीवता स्ववधार एव असौ । सा तर्हि तादृशी कुतो ज्ञाता । उच्यते, परमेश्वरशास्त्रप्रामाण्येन
(पगे ३०४)
उपपादितः सम्पादितो नियतिशक्तिव्यापारं प्रति विषयभावो यस्य तत्त्वक्रमस्य, स तथाभूतः । एतदुक्तं भवति-पारमेश्वरस्य तावदागमस्य अखण्डितप्रामाण्यमुपपादितं पूर्वम्, स च नियतिमेवम्भूतां दर्शयति-यदुत स्थूलमवश्यं सूक्ष्मपूर्वकं, क्रिया करणपूर्विका, अविभागपूर्वको विभाग इति ।
तत्र प्रतिबन्धात् सिद्धादखण्ड्यते ? पारमेश्वरागमद्वारेण अपि आभासितस्य तथैव वस्तुत्वेन धारणादीक्षादिफलानामाभासत एव सिद्धः । ननु उच्यतां तर्हि पारमेश्वरागमोक्तो विस्तर इत्याशङ्क्य आह इह इति । अस्माभिस्तु आगमग्रन्थनिष्ठे वार्तिकभाष्यवृत्तिग्रन्थे श्रीतन्त्रालोकादौ प्रपञ्चो न्यक्षेण दर्शितः । इयत्तु इह तात्पर्यम्- धराद्याभासा एव मिश्रीभूय घटादिस्वलक्षणीभूताः कर्मेन्द्रियैर्जनिताश्च उपसर्पिताश्च, बुद्धीन्द्रियैरालोचिताः, अन्तःकरणेन सङ्कल्पनाभिमनननिश्चयनपर्यन्ततां नीताः, अशुद्धविद्याविवेचिताः, कलादिभिः प्रमातारमुपदधद्भिरनुरञ्जिताः, मायाप्रमातरि विश्रान्तिद्वारेण अभिन्ना अपि सन्तो
यद्यप्यर्थस्थितिः—————————। (अ। प्र। सि। २०)
इतिन्यायेन सत्यप्रमातरि एव भेदविगलनतारतम्येन विगलित- स्वकभेदाः प्रकाशविमर्शपरमार्थतया एव विश्राम्यन्तीति शिवम् ॥
इति श्रीमहामाहेश्वरश्रीमदाचार्याभिनवगुप्तविरचितायामी- श्वरप्रत्यभिज्ञाविवृतिविमर्शिन्यामागमाधिकारे तत्त्वविमर्शः प्रथमः ॥ १ ॥