०४

अथ चतुर्थो विमर्शः ।

ऐक्यपरमार्थकलया त्रिशक्तियुगघटितवैश्वरूप्यमहम् । अमृततनुमतनुबोधप्रसरमहाकारणं स्मरामि हरम् ॥

क्रियाशक्तिस्फार एव सम्बन्ध इति उक्तम् । सच ज्ञाप्यज्ञापकभावात्मा निर्णीतः, अधुना तु कार्यकारणतारूपो विमृश्यते श्लोकैकविंशत्या

एष चानन्तशक्तित्वात्——————————-।

इत्यादिकया

———————हेतुता कर्तृता क्रिया ।

इत्यन्तया । तत्र कर्तृकर्मतैव तत्त्वं कार्यकारणताया इति स्वमते श्लोकेन उपक्षिप्य त्रयेण जडस्य कारणता निराक्रियते, षट्केन चेतनस्यैव सा कर्तृतात्मेति प्रसाध्यते, कारणविचारप्रसङ्गाच्च अनुमानेऽवश्यं नियतिशक्तिरुपजीवनीयेति त्रयेण दर्श्यते, शाक्योक्ता अपि कर्यकारणता अस्मन्नयमेव शरणमवलम्बतेऽन्यथातु निस्तत्त्वैव सेति त्रयेण, कापिलोक्ता अपि एवमेवेति त्रयेण, इयता चेतनस्य कर्तृत्वमिति प्रसाध्य तस्य अपि अनीश्वरतायां तत् न निर्वहतीति द्वयेनेति सङ्क्षेपः; प्रतिसूत्रं तु प्रयत्यते । एवं क्रियाशक्तिमुखेन प्रमातृता परमेश्वरे प्रसाधितव्यवहारा, कर्तृरूपा तु तत एव अनायासघटितेति दर्शयति सूत्रेण

एष चानन्तशक्तित्वादेवमाभासयत्यमून् । भावानिच्छावशादेषा क्रिया निर्मातृतास्य सा ॥ १ ॥

एष एव पुराणः प्रमाता अमून् भावानाभासयति अविच्छेदेन ।

कथम् । ईशितुरव्यतिरेकेण अविकल्पा च अक्रमा च या निरूपिता इच्छा, तस्याः सामर्थ्यात् । क्व अस्य ते भावा

(पगे १८५)

इति चेत्, आह अनन्तशक्तित्वादिति । अनन्ता विश्वे भावा हि तस्यैव शक्तयः इति उक्तं

स्वामिन———————————————-। (१।५।१०)

इत्यत्र । यदित्थमाभासनमिच्छाप्राणितमेतदेव भगवतः करणं निर्मातृत्वं स्रष्टृत्वमुच्यते,-इति सूत्रार्थः । तमवतारयति इदानीम् इत्यादिन । निराकरिष्यन् इति

जडस्य तु न सा—————————–। (२।४।२)

इत्यादिना प्रबन्धेन । नित्यस्य इति परस्य एतत्सम्मतमिति भावः ।

स्वमतं तु आह नापि इति । तस्य तु इति अनेन क्रमयौगपद्ये एव स्त इति परस्य भ्रमं भनक्ति । इयता च तत्प्रत्युक्तं यदाहुः-सृष्ट्यादौ यदि नित्यमिच्छा, सहैव सृष्टिप्रलयौ स्याताम्; कादाचित्कत्वे तु अस्या हेत्वन्तरं वाच्यमित्यादि । एषणीयोपरागभेदाशयेन इच्छा इति बहुवचनपाठोऽपि अदुष्ट एव । निराभासे निष्क्रमे च भगवति न कालयोग इति प्राच्यमेव स्मारयति क्रमावभासन इत्यादिना ।

ईश्वरोऽपि इति कुम्भकारादिरपि एवमिति अपिशब्दः । तथाच वक्ष्यते संसारिप्रमातुरपीच्छैव इत्यादि । यतः इति इदन्ताभागोपरागोपनतेन वेद्यत्वेन स्पर्शे भवेत् कालयोगो विकल्परूपतायाम्, नतु सा विकल्परूपा निर्मात्री तदभावेऽपि देशोपक्रमणादिकार्योदयात् त्वरितधावनादौ तत्सद्भावेऽपि तद्वेष्टितो भवेदेकः, द्वितीयश्च अपवेष्टित इति उरोमण्डलादिप्रायकरनर्तनासम्पत्तेः । तत्र हि प्रमातृसंवेदनसद्भावो विशिष्टसंरम्भलक्षणोऽप्रतिहतप्रयत्नतात्मकः-कृतमेव इदं मयेति निष्कम्पप्रतिभानलक्षणो न तस्य कर्तव्यस्य सम्पन्नस्त्वरितवाचनादौ सम्पन्न इति स एव अन्वयव्यतिरेकाभ्यां निर्माणरूपो विश्वस्य । तदेतदाह वाचन इत्यादिना ।

(पगे १८६)

ननु तथाभूतप्रतिभायोगे विकल्पोऽपि क्वचित् निर्माणाय व्याप्रियमाणो दृष्टो मन्थरगमनवाचनादौ । तत् कथं तस्य अक्रमत्वम् । अत्र उच्यते योऽपि इति एतच्च

घटोऽयमित्यध्यवसा———————————–। (१।५।२०)

इत्यत्र उक्तम् । विकल्पस्य च निर्मातृत्वं मायीयपदे, नतु प्रकृतायामीश्वरसृष्टावित्याह ईश्वरस्य च इति । सैव इति इच्छामात्ररूपा । उपपादितम् इति कुम्भकारचैतन्यमीश्वर एव ।

तन्नियतिमहिम्ना तु चक्रदण्डादिवर्गपतित एव कुलालकार्यकारणतावभासः स्वप्नसङ्कल्पादिवदिति हि असकृत् निवेदितम् ॥ १ ॥

ननु बीजादुद्भवति अङ्कुरे चेतनानुप्रवेशो नैव अस्तीति चिद्रूप एव विश्वावभासक इति किमेतत् । अत्र उत्तरं सूत्रेण

जडस्य तु न सा शक्तिः सत्ता यदसतः सतः । कर्तृकर्मत्वतत्त्वैव कार्यकारणता ततः ॥ २ ॥

अङ्कुरस्य सतो वा असतो वा यत् परिदृश्यते सत्त्वं, तत्र न बीजस्य शक्तिर्न अङ्कुरस्य । अङ्कुरो जायते इति हि अङ्कुरवृत्तान्तोऽन्यस्य बीजस्य कथं शक्तिः, अङ्कुरश्च न कश्चन तदा । तस्मात् क्रियाशक्त्या भास्यमानं कर्मैव कार्यं, भासयिता च कर्तैव कारणम् ।

असद्रूपस्य सत इति वा अर्थः । पूर्वं तु वार्थगर्भीकारेण व्याख्यानम्-असतोऽङ्कुरस्य सतो वा बीजस्येति, यदिवा साङ्ख्यातानुदेशः प्रतिवर्ति पदार्थं वावतरतीति यथासम्भवं योजना ॥ १ ॥

यदसत्तदसद्युक्ता, नासतः सत्स्वरूपता । सतोऽपि न पुनः सत्तालाभेनार्थोऽथचोच्यते ॥ ३ ॥

(पगे १८७)

कार्यकारणता लोके सान्तर्विपरिवर्तिनः । उभयेन्द्रियवेद्यत्वं तस्य कस्यापि शक्तितः ॥ ४ ॥

सद्वा असद्वा कार्यं सम्भाव्यते द्व्यात्मकम्, अनुभयरूपम-निर्वाच्यमिति तु स्ववाचैव विरुध्यते । तत्र यदि असत्ता घटस्य रूपं, तर्हि स्वरूपविरुद्धां सत्तां कथङ्कारमङ्गीकुरुतां पादपतनैरपि राजोपरोधैरपिवा नीलमिव पीतताम् । अथ अस्य सत्तात्मकं रूपं, तदयं किमुपयाचतां दण्डादिभ्यः । व्यक्तिविषयत्वस्फुटत्वादयोऽपि सदसत्तया अनुयोज्याः ।

नच इयता तूष्णीमेव आसितुमुचितं प्रामाणिकस्य । लोके हि अप्रतिहता—-

—–प्रहतश्च व्यवहारः । स च इत्थं समर्थ्यते- कुलालहृदयान्तर्मनोगोचरतापत्तेरपि प्राच्यावस्थायामन्तःस्वसंविदि तादात्म्येन विचित्रतया विश्वस्य भेदाभेदमय्या परिवर्तमानस्य स्फुरतो यदन्तःकरणैकवेद्यत्वं सुखादेरन्तर्बहिष्करणद्वयवेद्यत्वं च घटादेराभास्यते यदयमेव स लोके कार्यकारणभावः । तस्य कस्यापि इति अस्मदाद्यचिन्त्यप्रभावस्येत्यर्थः । यथाहि दर्पणस्वप्नसङ्कल्पेषु कुम्भकारनिर्मीयमाणोऽयं घट इत्याभासेऽपि तत्त्वतो दर्पणादिकस्यैव महिमा, तथैव संविद एव घटाभासे महिमा कुम्भकारनिर्मीयमाणत्वाभिमानाभासनोत्थापनेऽपि । एवं संविन्महिम्ना घटे दण्डचक्रकुलालकायादौ सति भासमाने अनेन इदं निर्मितमिति भाति । तत्र च जडो दण्डादिर्न एवंविधाभिमानभाजनमिति चित्स्वभावे कर्तृत्वं व्यवतिष्ठते ।

उभयेन्द्रियवेद्यत्वेन स्फुटमर्थक्रियाकार्याभासरूपं लक्षितमिति सूत्रार्थः । असदिति असन्नङ्कुर इति न अङ्कुरस्य अनेन स्वरूपं किञ्चिदुक्तं यत् सत्तया विरुध्यते । असतश्च सत्ता नाम कार्यत्वमित्यनेन अङ्कुरस्य कञ्चित् धर्मं पूर्वमङ्गीकृतवतस्तद्विरुद्धधर्मोपगम उक्तः । ननु यदि उभयमपि इदं

(पगे १८८)

वैकल्पिकं, वास्तवं तर्हि किम् । आह वस्तुतस्तु इति । अन्यथात्वस्य इति असत्त्वस्य । ननु तुच्छं तत्, सुतरां तर्हि पर्यनुयोज्यः स इत्याह तादवस्थ्यात् इति तुच्छेन अतुच्छस्य वपुषोऽतिरस्कारात् । ननु बीजे सति अङ्कुरोऽस्तीति अङ्कुरस्य रूपमुक्तम्, ततः पदद्वयमपास्य कथं पर्यनुयोग इति परस्य मोहमपहन्ति नच इति अन्तेनेतिना सम्बन्धः । इति यत्परस्य मतं तत्, न किं तत् परस्य मतम् । आह बीज इत्यादि प्रसङ्गपदान्तम् । पूर्वम् इति परावस्था अपि उपलक्ष्यते बीजे सति एव अङ्कुरोऽस्तीत्यनेन बीजानन्तरैकक्षणमात्रसत्तास्वभावस्य उक्तत्वात् ।

ननु कस्मादेतत् परमतं न अङ्गीक्रियते । आह यतः इति । यद्यपिच इति परमते । तथापि इति अस्मन्मते । वृत्तिं व्याचष्टे सिद्धा इत्यादिना ।

वृत्तौ सत्स्वभावताया अपूर्वत्वं यदलब्धमसतः इत्येतत्सन्निधानात्, तेन सह विरोधः सिद्धायाः सत्ताया व्याख्यातः ।

ननु एवं सूत्रेऽपि विरोध एव वक्तव्यो, न निष्प्रयोजनत्वम् ।

सत्यमभ्युपगमवादेन तु सूत्रं मा भूद्विरोधस्तथापि नैरर्थक्यमिति । अत एव सूत्रानुसारेण व्याख्यान्तरं वृत्तेः करोति यद्वा इति । विरुद्धा इति पूर्वेण न अभिसम्बन्धोऽत्र कर्तव्य इति यावत् ।

तथापि च इति अनुचिते द्वैगुण्ये सति अपीत्यर्थः । ननु सा द्वितीया सत्ता पूर्वसत्ताया अविशिष्टा, तत् कथमसत्कार्यता । तर्हि तया अन्यया किम् ।

एतदाह पूर्वसत्तायास्तु इति । दूर इति । सत्कार्यवादो हि स्वदर्शने शक्यावतारणस्तावत् । अत एव इति । एतच्च

भावाभावावभासानां बाह्यतोपाधिः———————।

(१।८।५)

इत्याद्युद्देशेषु दर्शितमेव । नियतैकरूपतावलम्बनेन तु विरोध उपपादितः ।

(पगे १८९)

इन्द्रियद्वयवेद्यता इति स्फुटपरिपूर्णाभिमतार्थक्रियाकार्याभास- तेति यावत् ॥ ३-४ ॥

अमुना विचारेण प्रकृतमपि सिद्धमिति दर्शयति

एवमेका क्रिया सैषा सक्रमान्तर्बहिःस्थितिः । एकस्यैवोभयाकारसहिष्णोरुपपादिता ॥ ५ ॥

सैषेति या स्वरूपत आश्रयतश्च चिरमुपलब्धा परैः, सा अधुना विजयते साम्राज्येन । तथाहि संविद्रूपादान्तरात्प्रभृति बहिष्करणविषयत्वापत्तिपर्यन्तायां स्थितौ सक्रमत्वमुचितमेकाश्रयतादात्म्याच्च एकत्वमस्याः । एकश्च असावाश्रयः संविद्रूपो भगवान् स्वच्छन्दत्वस्वच्छत्वाभ्यां सहते एव उभयमन्तर्बहीरूपम् । एकस्य इति कर्तुः कर्मणश्च ।

कर्तृस्थकर्मस्थत्वेन हि प्रसिद्धा क्रिया, कर्मणोऽपि अन्तर्बहिरुभयाकारसहत्वं परामर्शाभेदात् । अन्यकर्तृक इति पूर्वमेव अस्माभिरेतत् व्याख्यातम्, ततो न पुनर्लिखितम् ।

अर्थसंवेदनस्य इति ज्ञानरूपस्य । स्वसंवेदने तु इति प्रमातृरूपे ।

ननु सुखादिनिर्माणेऽन्तरवस्थैव अस्ति, न बहिरवस्था; तत् क्रमिकत्वमस्य कुतः । तत्रापि तु अन्तर्बहीरूपता अस्त्येव, विपर्यस्ता तु परमिति निरूपयति सुखादीनाम् इति । आदिपदात् वैकल्पिकघटादीनामयमेव विधिः । प्राक् इति । एतच्च पूर्वमुक्तं शब्दादीनामेव सुखादितेति उपपादयता पञ्चब्रह्मन्यासेऽपि हि इत्यत्र । शब्दाद्यनपेक्षतायामपि सक्रमत्वमुपपादयति सुखादि वा इति । अत्रैव स्वदर्शनसिद्धं दृष्टान्तमाह यथा इति । करिष्यते इति आगमाधिकारप्रारम्भे । नहि सुखस्य इष्यमाणतायां य एव आभासः, स एव लाभे लाभानुपयोगापत्तेरिति यावत् । तद्भेदात् इति आभासभेदादेकस्यैव कर्मणः । अनेक इति आभासभेदयोगेऽपीत्यर्थः ।

(पगे १९०)

सर्वैव तावत्क्रिया कर्तृस्था, काचित्तु कर्मण्यपि; विशेषदर्शनातिशयात् कर्मस्था उच्यते । साधारण्येन व्यपदेशा भवन्ति इति तद्यथा पाकः ।

तथाच कर्मभेदात् तस्य भेदोवक्ष्यते, नतु गमनस्य कर्मणि विशेषानाधानात् कर्तृस्थस्य । निर्माणक्रिया तु कर्मणि विशेषमादधाना अपि कर्मणोऽपि प्रकाशमानस्य संविदात्मकप्रमातृसारत्वात् तुल्यकक्ष्यतयैव कर्तृस्था कर्मस्था च उक्ता । पाकक्रियायाः इति एकनरपतिमहानसगतायाः । ननु भिन्नाश्चेत्क्रियाः, कथमेकशब्दाभिधेया इत्याशङ्क्य आह केवलम् इति । अत एव उक्तं न तिङन्तान्येकशेषं प्रयोजयन्ति इति । ननु आश्रयैक्येनैव किमस्याः समर्थितेन, स्वरूपत एव इयमेका अस्तु । आह क्रियाया हि इति । ननु कर्मलक्षणाश्रयैक्यादेकत्वे क्रियायाः कर्त्रैक्यं किमिति कार्यभारे समभिषिच्यते येन तस्य कस्यापि इति कर्तृस्वरूपनिरूपणप्रसङ्गेन इदमुक्तमेकानेका क्रियेति । अत्र उच्यते कर्मणोऽपि हि इति परामर्शबलात् हि कर्मण एव ऐक्यमुक्तं क्रियापूर्वापरभागयोगेन भिन्नाभासस्य अपि । परामर्शश्च कर्तुरेव अनुव्यवसाययोगेन भिन्नानामाभासानामनुसन्धान- लक्षण इति कर्तैव भगवान् प्रधानत्वेन उक्तः ॥ ५ ॥

ननु अचेतने बीजे क्रियाशून्यतया शुष्कैव कारणता युक्ता नेत्याह

बहिस्तस्यैव तत् कार्यं यदन्तर्यदपेक्षया । प्रमात्रपेक्षया चोक्ता द्वयी बाह्यान्तरस्थितिः ॥ ६ ॥

बाह्यताभासनमेव निर्माणम् । यच्च वस्तु यमपेक्ष्य बहिष्करणीयमुच्यते, तत् वस्तु तस्यैव कार्यम्; प्रमातारं च अपेक्ष्य बाह्यान्तारूपतेति बीजादेर्नैव कारणता जडस्य । तथाहि वशनं

(पगे १९१)

समर्थयितृत्वं प्रभावो बलं स्वातन्त्र्यमितीदमिच्छारूपं चित्सम्बन्धि एव । तत्तु नियतिशक्तिपुरःसरीकृते शरीरकल्पे इव चिद्रूपस्य जडे बीजादावौपचारिकं तद्वशात् तत्सामर्थ्यादित्यादि व्यवह्रियते, नतु जडस्य वशादि किञ्चित् । कल्प्यमानापिवा नैका भवेदिति सम्बन्धः । अपितु तत्तद्देशादिजाततेत्येवंरूपैव भवेदिति यावत् ।

कल्पनामाकारतो दर्शयति बीजम् इत्यादिना । एवकारं सौत्रं व्याकर्तुं पूर्वपक्षयति एवमपि इति । अत्र उत्तरम् एतत् इति बाह्यतायामपि आन्तरत्वमत्रुटितमिति नियमग्रहणम् । नच बीजापेक्षया आन्तरत्वं सम्भावनीयमित्याशयेन आह चिद्रूपमपेक्ष्य इति चिद्रूपाभेदसङ्क्रान्ततयैव तु बीजान्तर्गमनमपि सह्यमिहेति आशयः । कुलालादेरेव इति चिरगुणितात् जडकारणवादात् निवर्तित इयत् तावत्परोऽवबुध्यतामित्येव युक्तम् ।

कुलालस्यापितु परमेश्वरसंवेदने एव विश्रान्तिरिति तत्त्वम् ॥ ६ ॥

कार्यं चेत् न जडस्य, ततः कारणं न जडे इति सिद्धं संविद एव कारणत्वम्; तच्च क्रियात्मकमेवेति सूत्रं

मातैव कारणं तेन स चाभासद्वयस्थितौ । कार्यस्य स्थित एवैकस्तदेकस्य क्रियोदिता ॥ ७ ॥

आभासद्वयं बाह्यान्तरतया । अर्थतया इति पूर्वानुभूतबाह्यरूपपरामर्शैक्येनेति यावत् । तेन पूर्वानुभव एव अत्र प्रथमाभोगमात्रम् । यथोक्तं प्राक् सुखादीनां बहिराभासपूर्वोत्तराभास इति । यदिवा अर्थतयेति स्फुटरूपया प्रमातृभागात् पृथक्त्वेन । यथोक्तं

विकल्पे योऽयमुल्लेख———————————। (१।८।८)

इत्यादि । तदाच बहिश्चिकीर्षामात्रं प्रथमाभोगः । एतच्च सुखादावपि योज्यम् ॥ ७ ॥

(पगे १९२)

एतदेव द्रढयति

अत एवाङ्कुरेऽपीष्टो निमित्तं परमेश्वरः । तदन्यस्यापि बीजादेर्हेतुता नोपपद्यते ॥ ८ ॥

सत्यपि ईश्वरे कारणे ततोऽन्यस्य अपि ईश्वरादतिरिक्तस्य जडस्य या हेतुता तैरुपगता, सा न सम्भवति अप्रेक्षापूर्वकारिण इति ।

सन्निवेशो हि नाम सजातीयविजातीयताविभागोत्थापको घटशरावकुण्डादौ मृदुपादानसम्भावी सम्भूयनिविष्टतारूपश्चिद्रूपकार्य इति एकवारमवलोकिते सर्वत्र सन्निवेशेन तथैव भाव्यमिति एकान्त एव अयम् । यत्तु उच्यते- तददर्शनेऽपि तत्कृतत्वप्रतिपत्तिरित्यादि तत् स्वदृष्टिपक्षपातव्यामोहव्याहृतं धूमेऽपि समानत्वादस्येति अलमवान्तरेण । एतत् हि ग्रन्थकारेणैव वितानितमीश्वरसिद्धौ, इहतु एष परमार्थः-ईश्वर एव नियतिशक्तिं निजामनुरुन्धानो बीजभूमिजलाभासपुरःसरीकारेण अङ्कुरात्मानं स्वच्छे स्वप्रकाशे निर्भासयतीति ॥ ८ ॥

सर्वत्र चेतनेन विना न जडस्य कारणता, चेतनश्च कर्ता ईश्वर एव पर्यवस्यतीति सूत्रेण आह

तथाहि कुम्भकारोऽसावैश्वर्यैव व्यवस्थया । तत्तन्मृदादिसंस्कारक्रमेण जनयेद् घटम् ॥ ९ ॥

कुभेति निदर्शनं व्याप्तिघटनाय । चेतनमन्तरेण चेत् जडानामेव पूर्वोत्तररूपतामात्रं कार्यकारणभावः, शिविकस्तूपकादावपि किं कुम्भकारेण; ततश्च उपसर्पणप्रत्ययोऽपि चेतनो न क्वचिदपेक्ष्येत । सोऽपि हि देशात् देशान्तरनियमनाय व्याप्रियते । तदेवच सन्निवेश उच्यते । ततश्च अयं प्रयोगः- यदचेतनं कार्यकृत्, तत् चेतनापेक्षं मृदादि इव, तथाच बीजादीति स्वभावः । कादाचित्कं हि जडस्य कार्यकारित्वं, न अनिमित्तं, न अन्यनिमित्तमिति

(पगे १९३)

व्याप्तिसिद्धिः । ततश्च कुम्भकृदेव तत्र ईश्वरो यतस्तं तं मर्दनप्रगुणीकरणपरिवर्तनादिकं मृद्दण्डचक्रादिकस्य संस्कारं कुर्वंस्तत्क्रमेण शिविकस्तूपकादिना घटं जनयतीति नियोग एषः । ईश्वर एवच तथा नियतिशक्तिस्वीकृतताथारूप्याभासः कुम्भकृद्वा कुविन्दो वा,-इति सर्वत्र स एव कर्ता, अन्यथा कुम्भकृतः इच्छां मृद्दण्डादयः कथमनुवर्तेरन्, तन्तवोऽपिवा पटकरणाय किं न अनुवर्तेरन् । कुम्भकृतस्तु यः कर्तृत्वाभिमानो नियतो धर्माधर्मादिस्थितिः, सोऽपि ईश्वरव्यवस्थयैव स्पष्टाभिमानोत्थापिकया प्रतिभुव इव अधमर्णभाव इति सर्वत्र भगवानेव कर्तेति सूत्रार्थः । चेतनसन्निधिमन्तरेण कार्यानुत्पाद इत्याशयेन यदि ईश्वरः कर्ता इष्यते, बीजादावस्ति एवम्; घटादौ तु कुलालादेर्बुद्धिमतः सन्निधिरस्त्येव, तत् कथं सर्वत्र ईश्वरः कर्तेति यो मोहस्तन्निवारणतात्पर्येण सूत्रमवतारयति बुद्धिमत् इति ।

उदाहृताम् इति तथाहि इति निदर्शनोपक्रमेण उक्तामित्यर्थः । विवृणोति इति सकलेन वृत्तिवाक्येन एकदेशसूचितेनेति मन्तव्यम् । बुद्धिमति स्थिते विशेषो वाच्य इत्यनेन आशयेन वाक्यस्य भागदेशेऽभिप्रायं व्याचष्टे अनेन हि इति कुम्भकाररूपाभिधायिना एकदेशेन । ननु एवं सति बुद्धिमति किमन्यदीश्वररूपात् विशेषान्तरादपेक्ष्यमिति भ्रमं ध्वंसयति बुद्धिमानपि इति । संस्कार इति मन्दरादिके स कुम्भकार उपयुज्यते । ननु संस्कृतात् मृदादेर्घट उत्पद्यते, किमीश्वरताविशेषेण । अत्र अपि आह संस्कारोऽपिच इति । संस्कृतेऽपि इति संस्कृतत्वेन इष्यमाणे मृदादौ सन्नपि कुम्भकारो न अनुसन्धातृत्वं चेतनधर्मतां मृदादेराधातुं समर्थः । नच अचेतनस्य कारणत्वमन्तर्बहिराभासक्रमपरामर्शपरमार्थकर्तृत्व सारमुचितमिति

(पगे १९४)

चितमिति उक्तं पुनरपि इति अङ्गीकृतेऽपि कृम्भकृतीत्यर्थः । अनुपयोगित्वे पूर्वोक्तमेव प्रमेयं सङ्क्षेपोक्त्या हेतूकरोति संस्कारेऽपि इति सोऽपि च न सम्भवतीति अपिः । ततश्च इति यदि चेतःपरिस्फुरणमात्रेण कुर्यादित्यर्थः । संस्कारोऽपि अभ्युपगमवादेन अङ्गीकृतः, सोऽपितु न उपपद्यते इत्याह नच इति । तदिच्छयैव यदि संस्कारस्तर्हि असावाकाशमेव स्वेच्छया संस्कृत्य सङ्कल्पितं विश्वमुत्थापयेत् ।

ननु भवतु अयमसत्कार्यवादिनं प्रति उपालम्भः, सत्कार्यवादिमते तु किञ्चिदेव क्वचित्कारणमस्ति; न सर्वं सर्वत्र, ततश्च चेतनमपेक्ष्य सहकारिमात्रं वा चिञ्चिदेव कुतश्चिदुत्पत्स्यते, किमीश्वररूपतया अत्र कृत्यम् । तदपि न सहते नच इति । नहि चिद्रूपता बीजस्य कदाचित् येन तत्तदन्तर्वर्तिता अङ्कुरस्य भवेत् । वक्ष्यते इति अत्रैव विमर्शे ।

परपक्षं सदोषीकृत्य स्वपक्षमुपसंहरति तत् इति तस्मादुभयस्य अपि चेतनाचेतनरूपस्य उपयोगो यः, स ईश्वरेच्छयेति सम्बन्धः ॥ ९ ॥

चेतनस्य स्वातन्त्र्यं दृष्टमेव कार्यकारणे इति प्रसिद्धेन दृष्टान्तेन आह

योगिनामपि मृद्बीजे विनैवेच्छावशेन तत् । घटादि जायते तत्तत्स्थिरस्वार्थक्रियाकरम् ॥ १० ॥

मृद्बीजे विनापीति सम्बन्धः, व्यक्तिप्रधानतया कारणत्वात् जातिपरता उचिता अत्र, न एकवद्भावः । उभयोपादानं लोकप्रसिद्धं जडैकहेतुकं चेतनापेक्षं च उभयमपि कार्यं निदर्शयितुम् । ननु तत्र घटाङ्कुरादौ शब्दसाम्यमात्रं, वस्तुतस्तु अन्यदेव तदिति परमोहव्यपोहनहेतुं विशेषणमाह तत्तत्स्थिर इत्यादि । तत्तदिति विचित्ररूपम् । स्थिरं च अर्थक्रियाकरं

(पगे १९५)

चेति योजना वृत्तिकृता कृता । तां तां विविधाकारां स्थिरामर्थक्रि- यान्तरानुबन्धिनीं स्वामर्थक्रियां हेतुतच्छीलानुलोमत्वयोगेन करोतीति समासेऽपि न कश्चित् दोषः । योगीच्छापि न उपादानं विना कार्यं कुर्यादिति परमतमनुवदति निषेद्धुं न चैतत् इति अनूद्य यतः इति निषेधहेतुं वक्ष्यमाणमुपक्षिप्य तत्प्राणितोपयोगि परमतं सतत्त्वमनुवदति यस्मात् इति स्वोपादानरूपात् । सजातीयम् इति ज्ञानं ज्ञानस्य । यत्तिरोधान इति बीजमङ्कुरस्य । एतच्च यथायोगं समस्तव्यस्ततया उपादानलक्षणं परेषां मतम् ।

आदिग्रहणादालम्बनं हेतुरधिपतिरित्यादेः परोक्तस्य भेदस्य सङ्ग्रहः । यदाहुः

सतोऽन्ये कारणं हेतुः———————।

इत्यादि । परमतं सतत्त्वमनूद्य यतः इति यो निषेधहेतुरूपक्षिप्तस्तं दर्शयति अङ्कुरस्य इत्यादिना । मनागपि देशकालाकारसहायादि-विशेषव्याप्तप्रसिद्धलोकस्थित्युल्लङ्घनं चेत् सह्यते, किमुपादानपरि-ग्रहदैन्येन योगिनः; अथ न सह्यते, कुम्भकारभेद एव योगी भवेदिति तात्पर्यम् । तेषाम् इति योगिनाम् । एतच्च पूर्वोत्तरयोर्योज्यम् । सूक्ष्म इति एतदभ्युपगममात्रमत्र । तदानींहि परमाणुप्रधानादिदर्शनमनुपकारमेव । तदपिच प्रसिद्धहेतुकमेव उपपाद्यते, नच प्रधानस्य असंवेद्यपर्वत्वेन परमाण्वादेरपि नेत्राद्यगोचरत्वेन प्रसिद्धस्य साक्षात्कारहेतुर्लोकसिद्धोऽस्ति,-इति । ननु सूक्ष्मदर्शित्वमेव योगित्वमस्तु, न अधिकम् । अत्र आह सर्व एव इति अभीष्टकर्तृतापर्यन्तः ।

सिद्धानाम् इति योगिविशेषणं सम्प्राप्तघटमानादीनां व्यवच्छेदाय । क्रमोन्मिषत्प्रभावातिशया हि योगिनोऽत्र भुविसमस्तनियत्युल्लङ्घनेनैव अभीष्टापादनाप्रतिहतप्रभावाः ।

यतः

(पगे १९६)

कुतश्चित् कारणकारणात् व्यवहितादपीति यावत् । अथ इति तस्यां दशायां तदेव कारणम्, नतु तदा व्यवहितकारणं तदितिभावः ।

असतः इति शून्यादेव, असतो वा कार्यस्य । कादाचित्कत्वनियमो हि अहेतुकस्य स्वयन्निःस्वभावस्य कुतः । सहकारी इति दिक्कालाकाशादेः । अथ तत्र व्यतिरेको न उपलभ्यते नित्यस्य अव्यतिरेकत्वादितिन्यायेन, तर्हि योगीच्छैव उपादानमस्तु; योगिनिर्माणमपिच कुविन्दकृतिवत् मायाकृता-भिमानमात्रसारमेव वस्तुतस्तदपि ईश्वरनिर्माणमेव यतः । एतत्प्रमेयं प्रकृते योजयति दृष्टान्तत्वेन तदेव यथा इति ।

लोकप्रसिद्धमपि दृष्टान्तमुपादाननियमाभावे ब्रूते केशादिकं च इति तत्परामर्शयोगाच्च न वस्त्वन्तरम् । परेणापिच क्वचित् देशे कानिचित् द्रव्याणीत्यादिषु विनिश्चयादिप्रदेशेषु क्षेत्रकालसंस्कारादिभेदा-देकामामलकादिजातिमव्यतिक्रामत एव भावजातस्य रसवीर्यादिना उररीकृतमेव बहुप्रकारं वैचित्र्यं कथञ्चिदिति ह्लादतापादनेन अर्थक्रियाकारित्वं तु भवत्येवेति आशयः । ततोऽपि इति दृष्टान्तात् । तत्र हि प्रसिद्धनिजकारणानादरेणैव स्रष्टृत्वमीश्वरस्य ॥ १० ॥

ननु अधुना विधूतं धैर्यमनुमानस्य । तथाहि अन्यस्य कल्पितस्य अकल्पितस्य च अन्यत्र नियमे निदानं तादात्म्यतदुत्पत्तिलक्षणमक्षुण्णमालक्ष्यते । नहि निःस्वभावो भावः, नापि भिन्नस्वभावः पर्यायशः, एकैकत्यागे हि निःस्वभावतैव । एवमहेतुकत्वे भिन्नहेतुकत्वे च वाच्यम् ।

उभयमपिच एतत् कारणनियमादेव शिंशपाया वृक्षस्वभावभाज एव कारणादुत्पत्तेर्हुतभुग्विशेषस्य च धूमजननस्वभावभाजः ।

व्याख्यातनीतिमार्गेण तु समस्तनीतिविप्लवः । योगीच्छया हि शिंशपा अपि अवृक्षस्वभावा

(पगे १९७)

भवेत्, कार्यहेतौ तु द्विगुणोऽसौ धूमोऽपि अनग्निजः, अग्निविशेषोऽपि अधूमकृदिति कथं लौलिकमनुमानं स्यादिति । सत्यमेवम्, इत्थन्तु एतत् घटते इति सूत्रं

योगिनिर्माणताभावे प्रमाणान्तरनिश्चिते । कार्यं हेतुः स्वभावो वात एवोत्पत्तिमूलजः ॥ ११ ॥

यत् कथितमप्रतिहता योगीच्छेति, अत एव हेतोर्योगिनिर्माणताभावे इति विशेषणं प्रमाणान्तरेण यदि निश्चितं भवति, तदा कार्यहेतुः स्वभावहेतुश्च कारणे स्वभावे च अनुमातव्ये हेतुर्भवति, न अन्यथा । ननु स्वभावहेतौ किमेतत् दैन्यम् । नहि तत्र कारणतानियमानियमा- भ्यां किञ्चित् । कथं न किञ्चित्, यावता स्वभावोऽपि स्वभावान्तरनियतो यो जातस्तत्र उत्पत्तिरेव कार्यकारणभावात्मिका मूलम् । तथाहि

एकसामग्र्यधीनस्य————————।

इतिन्यायेन यतो हेतोः शिंशपा अपि अजनि निजात्, तत एव अवृक्षत्वव्यावृत्ता असौ जातेति । ननु विशेषणग्राहि किं तत्र प्रमाणम् ।

उक्तमेव परैः

यौक्तिकं मानसं वा प्रत्यक्षं लोकप्रसिद्धिरागमः प्रतिभाविशेषोऽनन्तजन्माभ्यासमूलस्तत्कालघटितो वार्थापत्तिर्वा ।

इति किमस्माकमनेन संव्यवहारोपयोगिना प्रकृतानुपरोधात् ।

ईश्वरः स्वप्रकाशो विश्वात्मेति हि कोऽस्य प्रमेयस्य खण्डनावकाशोऽनुमान-दौर्बल्ये इत्याहेति सूत्रार्थावतारणम् ।

उपपादित इत्यादिकम् अत एव इत्यस्य सूत्रांशस्य व्याख्यानम् । न एतत्प्रकृतं प्रमेयमस्माकमिति प्रसङ्गपदम् । प्रत्येति इत्यादिना स्वार्थपरार्थभेदोऽनुमानस्य दर्शितः । इह द्विविधः स्वभावहेतुः स्फुटगर्भितकार्यकारणभावो विपरीतो वा । तत्र आद्यमुदाहरति

(पगे १९८)

अग्निमान् इति । धूमवतो हि अग्निमत्त्वं स्वभाव एवं भवेत् यदि धूमोऽग्नेरेव सिद्ध्येत् । द्वितीयमुदाहरति शिंशपात्वादि इति ।

बौद्धानाम् इति काणादादयस्तु भिन्ने एते सामान्ये कथयन्तो न स्वभावतामनुमन्यन्ते । साध्यस्य इति साध्यं यत् वृक्षत्वं, तस्य या शिंशपामात्रं प्रति अनुबन्धिता तत्सद्भावे सद्भाव एवेत्येवंरूपा, सा कार्यकारणभावेनैव उपपाद्यते । कस्मादेवमिति चेत्, आह नहि इति । कारणं हि कार्येऽनुबन्धि कार्यसन्निधाववश्यम्भाविसन्निधानं युक्तम् । ननु यथा कार्यहेतौ धूमस्य अग्निः कारणम्, तथा किं शिंशपात्वस्य वृक्षत्वं कारणम् । वृक्षत्वात्मकमेवहि शिंशपात्वम्, ततश्च स्वभावहेतावन्यत्वमेव नास्तीति कथमुक्तमन्यदत्रेति । अत्र आह अनन्यत्व इति । यदि तदात्मकमेव तत्, तदवश्यं शिंशपात्वसिद्धौ तदपि सिद्धमेव भवेत् । यत्किल यत्सिद्धौ न सिद्धं, तत् चेत् तेन तदात्म; तर्हि विश्वं विश्वेन तथा स्यात् । तस्मात् न सिद्धं चेत्, तत् तदवश्यमन्यत् । अन्यस्य च तन्मात्रानुबन्धित्वमन्यत्र न युक्तमृते कार्यकारणाभ्यामिति स्थितमेतत् । ननु अन्यदन्यत्र न स्वरूपद्वारेण अनुबद्धमुच्यते यदि कार्यकारणभाव आपात्येत, अपितु प्रतीतिद्वारेण ।

यतः शिंशपात्वप्रतीतौ वृक्षत्वं प्रतीयते, ततः शिंशपात्वमात्रानुबधि तदुच्यते । एतत् दूषयति नच इति । शिंशपात्वे हि प्रतिपन्ने वृक्षत्वं प्रतिपित्सुरेवं पर्यनुयोज्यः-किमिति अन्यस्मिन् प्रतिपन्नेऽन्यः प्रत्येतुमारब्धः । स चेदाह-ननु वृक्षत्वप्रतिपत्तिरवश्यं तत्प्रतिपत्तरि भवतीति, तदमुना प्रश्न एव उत्तरीकृतः स्यात् । अथ वस्तुस्वभाव एव अयमपर्यनुयोज्यः इति उत्तरस्य तत्त्वम्, तदा इत्थं पर्यनुयोज्यम्-ननु नालिकेरद्वीपनिवासी अपि कथं तथा न प्रतीयात्,

(पगे १९९)

नहि वस्तुस्वभावः पक्षपातेन उत्तिष्ठति-इति । ननु तेन तन्मात्रानुबन्धित्वमस्य न विदितम् । ननु कस्मात् न विदितम् ।

प्रतीतिद्वारकं हि तत्, प्रतीतिश्च वस्तुस्वभावत एवेति उक्तम् । कथञ्च अन्यस्य अन्यत्र प्रतीतिहेतुत्वं प्रतिबन्धमन्तरेण वस्तुस्वभावो भवेत् ।

भवति चेत्, किमनुमानेन । एतदाह वैफल्यात् इत्यन्तेन । ननु यदा अयं प्रोन्नतां शिंशपां शाखादिमतीं प्रतिपन्नो वृक्षरूपामपि, तदा तन्मात्रानुबन्धिप्रतीतिकत्वं वृक्षत्वस्य कालान्तरे वामनां शिंशपां पश्यन् प्रोन्नतत्वमपश्यन् व्यामोहात् वृक्षत्वमत्र अनवबुध्यमानः स्वयं वा परप्रसादात् वा प्रबुद्धो वृक्षत्वं तन्मात्रानुबन्धिप्रतीतिकत्वेन अनुसरति, तदनुसरणेन व्यवहितवृक्षत्वावबोधोऽनुमानमुच्यते । एतदपि आशङ्क्य निरस्यति अथ इति प्रोन्नतायामपि शिंशपायां कथमयं वृक्षत्वं प्रतीयात् । तत्स्वभावत्वादिति चेत्, पक्षेऽपि तत्स्वभावत्वादेव प्रतीयादिति व्याहन्येत अनुमानम् । नहि सपक्षे दृष्टान्तेऽनुमानसम्भवोऽनवस्थापातात् । तदेतदाह सपक्ष इव इति एवं तन्मात्रानुबन्धिप्रतीतित्वादन्यदन्यत्र तन्मात्रानुबन्धि भवतीति दूषितमङ्गीकृत्य अपि प्रतीतिद्वारेण तन्मात्रानुबन्धे दूषणान्तरमाह प्रतीत्यनुबन्धोऽपि इति । अन्यदन्यत्र नियमेन प्रतीतिं करोतीति हि प्रतीत्यनुबन्ध उच्यते । तत्र एष नियमः कथं प्रतिबन्धमन्तरेण । ननु सति एव प्रतिबन्धे प्रतीत्यनुबन्धो भविष्यति, को दोषः । आह अनुमेयतामात्रं च इति । तन्मात्रानुबन्धी प्रतीतिद्वारेणेति कोऽर्थः, हेतुना अनुमातव्य इति यावत् । एतच्च रूपं कार्यहेत्वनुमेयस्य अपि अस्तीति

तद्भावमात्रान्वयिनिःस्वभावो हेतुरात्मना ।

इति

(पगे २००)

हेतुः स्वभावो भावे वा भावमात्रानुबन्धिनि ।

इति च स्वभावहेतोरेव यो विषयद्वारेण विशेष उच्यते, स न स्यात् ।

तस्मादाभासपृथक्तया तथैव वस्तुत्वात् वृक्षत्वशिंशपात्वयोरन्यत्वमेव परमार्थतः, परमेश्वरनियतिशक्त्यपेक्षेण तु कारणेन शिंशपाभासो वृक्षत्वाभासेन सह मिलितः सृष्ट इति यत् पूर्वमुक्तं

पृथग्दीप—————————–। (२।३।७)

इत्यत्र, तदवलम्बनेन स्वभावहेतुरुच्यतां नामेति इयतो ग्रन्थस्य आशयः । ननु सर्वोऽयमनुमानानुमेयव्यवहारो बुद्ध्यारूढेन धर्मधर्मिन्यायेनेति उक्तम्, ततश्च यद्यपि स्वलक्षणमनंशं, तथापि

यावन्तोऽर्थसमारोपा———————–। (पा। वा। १।५१)

इत्यनेन न्यायेन अशिंशपात्वात् या व्यावृत्तिर्या च अवृक्षत्वात् तयोर्व्यावृत्तिमूलतया व्यावृत्तस्य च ऐक्यात् तादात्म्यमुच्यते, काल्पनिकस्तु भेद इति को दोषः । एतत् न क्षमते काल्पनिकोऽपि इति । इह व्यावृत्ती यदि वस्तु, यदि अवस्तु, तयोस्तर्हि कथं परस्परं व्यावृत्तेन वा सह तादात्म्यं भेवेत् घटपटवत् शशशृङ्गखरशृङ्गशकटवच्चेति; भेदोऽपिच नानात्वलक्षणः कथमवस्तुनोर्व्यावृत्त्योश्च ययोर्गम्यगमकता तयोरेव तादात्म्यं वक्तव्यं तदुत्पत्तिवत्, नतु वस्त्वन्तरेण सह तयोः । नहि घटपटयोर्वस्त्वन्तरेण सह कार्यकारणभावोऽस्तीति कृत्वा गम्यगमकभावो युक्तः । अतः कल्पनया यदेकमेव विश्वसितं वस्तु, तस्य भेदाभावात् न गम्यगमकता । अथ सा कल्पना वस्तुनि न पर्यवसाय्यते, व्यवसायबलेन तदा वस्तुनः सिद्धिः; अवस्तु च न किञ्चिदिति वस्तुनो न सिद्धिर्न काचन असिद्धिरिति उक्तं स्यात् ।

एतत्स्ववचनेनैव परं बोधयति वस्तुनः इति । इयत्तु स्वभावहेतुं प्रति यदस्माभिरुक्तं प्रमेयं, तत्परैरपि अनक्षरमुपगतमेवेति

(पगे २०१)

दर्शयति अत एव इति उक्तात् प्रमेयात् । अयं हि स्वभावहेतुः परेषां सम्मतः । तत्र गोत्वमेव साध्यं युक्तं यत् स्वभावो हेतुर्नतु व्यवहारः । स हि अस्वभावभूतोऽन्यत्वात् । व्यवहारविषयता नाम स्वभाव इति चेत्, एतत् विकल्पितं नच उपपद्यते । तस्मात् व्यवहारः साध्यते इतिवदतां स्वभावस्य सिद्धत्वे तत्स्वभावभित्तौ वस्त्वन्तरमेव साध्यं, नतु स्वभाव एवेति हृदये परिस्फुरितमेव ।

ननु कार्यहेतावपि सर्वत्र व्यावृत्त्योरेव विशिष्टयोर्गम्यगमकभावो धूमधूमध्वजादाविव, तत्कोऽयं स्वभावहेतौ दूषणसंरम्भः । अत्र आह व्यावृत्ति इति अनग्निव्यावृत्तिमुखेन बाह्य एव वह्निः सिद्ध इति अध्यवसायः । यदाह

प्रामाण्यं वस्तुविषयम्——————।

इति । स्वभावहेतौ तु किं सिद्धमनुमानेनेति न विद्मः । न वस्तु तस्य साधनाध्यवसायेनैव अध्यवसायात्, न व्यावृत्तिस्तस्या अवस्तुत्वात् ।

एवं परमतं दूषयित्वा स्वमतमेव परमभ्युपगमयति तदेवम् इति । कल्पनाविषयोऽपि इति विकल्पस्य न निर्विषयत्वमेषितव्यम् । ततश्च आभासौ द्वौ विकल्पितौ, तौ भिन्नावेव; एकस्वलक्षणतापन्नौ तु कथितनयेन । तत्र च नियत्युपजीवी कार्यकारणभाव एव मूलमिति आभासनिकुरुम्बात्मकस्वलक्षणवादेन स्वमतेन स्वभावहेतुः समर्थितः । अधुना निरंशस्वलक्षणवादेऽपि अभ्युपगमवादेन अङ्गीकृते स्वभावहेताववश्यं कार्यकारणभाव उपजीवितव्य इत्यस्य प्रमेयस्य अतिदार्ढ्यं निरूपयति तथास्वभावत्वात् इति भिन्नमपि अन्ये कथयन्ति । एकमपि भेदयन्ति, तमेव भेदितमध्यवसायेन एकयन्ति हि विकल्पानां स्वभावाः ।

ततस्तथाविधविकल्पाध्यवसायबलेन गम्यगमकभावश्च तादात्म्यं च भविष्यति सर्वव्यवहाराणामध्यवसायमुखप्रेक्षित्वात् ।

(पगे २०२)

अत्रापि उच्यते तथापि इति । भिन्न इव इति अध्यवसायबलेन शक्यभेदने इति यावत् । इयता गम्यगमकभाव उक्तः । निरंशमेव इति स्वभावहेतुत्व-मुक्तम् । एतत् परकीयमनूद्य स्वाभिमतं तदुत्पत्तिमूलमेतत्प्रमेय-पृष्ठे योजयति तथाच इति । स्वोक्तिमेव स्फुटयति हेतुः इत्यादिना । स्वभावहेतौ समव्याप्तिके तन्मात्रानुबन्धवैचित्र्यं नास्ति, विषमव्याप्तिके तु अस्तीत्याशयेन आह नतु इति । हेतोः इति जनकस्य हेतोर्या कृतकं प्रति कारणता, सैव क्षणिकत्वं तत्र निवेशयति । शिंशपाबी-जस्य विशिष्टस्य या शिंशपां प्रति बीजता शिंशपाकारणता, सैव वृक्षत्वं तत्र निवेशयतीति गमकं स्वभावं प्रति गम्यस्य तन्मात्रानुबन्धित्वं सिद्धं भवतीति यत्कार्यहेत्वनुमेये नास्ति । नहि धूमकारणमेव अग्निं साध्यं निवेशयतीति । धूमकारणता हि अग्नेरेव, अग्निलक्षणकारणबलादेवच शिखरिणो धूमवत्त्वम्, नतु तत एव अग्निमत्त्वम्; तद्धि इन्धनादिहेत्वन्तरबलादिति न अत्र तन्मात्रानुबन्धः । तद्यदेव तदेव तदवश्यमेवेत्येवम्भूतो हि तन्मात्रानुबन्धो विवक्षित आचार्यस्य, नतु तस्मिन्सति सोऽपीति कथं कार्यहेतौ तादात्म्यमूलत्वं स्यादिति । तेन यत् भट्टेन प्रतिबन्धसिद्धौ स्वभावप्रतिबन्धस्य प्रधानत्वं समर्थितं, न तत् न्यायमनुयातीति दर्शितम् । अतश्च तन्मात्रानुसारेण यो ब्रूते धूमवतोऽग्निमत्त्वमसाधारण आत्मभूतः स्वभावो लक्षणमिति, स प्रत्युक्तो वेदितव्यः । तान्त्रिकहेतुलक्षणसमर्थनाय प्रयोगबलावभासितसामानाधिकरण्याध्यवसायवशादयं स्वभावत्वाभिमानो, नतु वास्तवमत्र स्वभावत्वम् । तथाहि वस्तुतो धूमे दृष्टे अग्निः प्रतीयते । नच धूमस्य अग्निर्लक्षणम् । अग्निजन्यता लक्षणमिति चेदस्तु तावदेवमग्नेस्तु

(पगे २०३)

इयता का लक्षणता । नच अग्निजन्यता अनुमेया, अपितु अग्निरेव शीतापनोद-पाकाद्यर्थिनां परमार्थतोऽनुमेयः ।

तदर्थितापूरणं हि न धूमस्वभावादग्निजन्यात्, अपितु अग्नेः नच धूमवतोऽग्निमत्त्वं लक्षणमिति युक्तम् । धूमवानिति हि किमुच्यते, धूमः पर्वतश्चेति हि सौगतमते, काणादे तु संयोगसमवायादृष्टादिकमधिकम् । एवमग्निमत्त्वमिति चिन्त्यम् । तदा अनयोरुभयोः पक्षयोर्भागशो द्विशः त्रिशः सर्वशश्च विकल्प्यमानं स्वभावत्वं कथं सङ्गच्छेत अन्यस्य अन्यं प्रति स्वभावत्वाभावात् । समवायैकतया पार्यन्तिक्या तथाभिमाने न किञ्चित् कस्यचित् स्वभावो भवेत् । लक्षणं च स्वभाव एव उच्यते यो विजातीयेभ्यो व्यावृत्तिमस्य ज्ञापयति लक्ष्यतेऽनेनेति कृत्वा, नतु उत्पत्त्युपयोगिनि लक्षणव्यवहारः; तथात्वे वा निमित्तमेव लक्षणमिति परकीयं तन्मात्रनिमित्तत्वं दूषयित्वा यत् तन्मात्रलक्षणत्वमङ्गीक्रियते, तेन किमधिकं कृतं स्यात् पर्यायेण अभिधाने वस्तुनि अभेदात् । नच स्वभावमात्रस्य अपि लक्षणता, अपितु ज्ञापकस्य । ज्ञापकश्च प्रमाणसामग्रीमध्यनिवेशी युक्तो, न प्रमेयः । ततश्च

ज्ञाप्यस्य लक्षणं च———————–।

इति दुरधिगतधर्मोत्तरमतानुसारेण यदुच्यते, तदसदेव । तथाहि प्रत्यक्षस्य ज्ञानविशेषस्य ज्ञानान्तरादनुमानादेर्यत् व्यावृत्तरूपज्ञापकं लक्षणं निर्विकल्पाभ्रमरूपम्, तत्र विप्रतिपत्तिनिराकरणाय उच्यते लक्षणं विधीयते लक्ष्यमनूद्येति ।

यदेवम्भूतं लक्षणमस्य प्रसिद्धं लोके, तत् हि मूढानां न विदितं विप्रतिपत्तिस्थानमिति शास्त्रेण व्युत्पद्यमानत्वात् विधेयमुच्यते । यथोक्तं प्राक्

प्रसिद्धानि प्रमाणानि——————–।

इति

(पगे २०४)

—————————-शास्त्रं मोहनिवर्तनम् ।

इति च । नच एवमनुमानकाले धूमवत्तावलोकन एव वह्निमत्त्वं प्रसिद्धं येन अत्रापि मोहनिवर्तनमात्रफलत्वेन लक्षणं व्याप्यं भवेत् । तन्मात्रशब्दान्तरप्रयुक्तेन च निमित्तशब्देन किं दुष्यति, किञ्च पुष्यति लक्षणशब्देनेति न विद्मः पर्यनुयोगस्य परिहारस्य साम्यात् । तथाहि एतन्मात्रमस्य निमित्तमिति कुतः । यत एतन्मात्रमस्य लक्षणम्, तत्र यदि कश्चिदाह एतन्मात्रमस्य लक्षणमिति कुत इति, तदसौ यदि एवमुच्यते-एतल्लक्षणाभिमतराशिव्यतिरिक्तो यो द्वितीयो राशिः, स यतोऽस्य लक्षणं न भवति असम्भवाव्याप्त्यतिव्याप्तिदोषयोगादिति; तर्हि एतावन्मात्रमस्य निमित्तं यतो निमित्तान्तरमस्य न भवति असम्भवादियोगादित्युच्यमाने किं वदनं वक्रिम्णा विक्रियेत ।

लक्षणत्वनिराकरणेऽमी दोषाः प्रसिद्धा इति चेत्, किं निमित्तत्वनिराकरणे न प्रसिद्धा असम्भवादिदोषेषु निमित्तत्वानुपपत्तेर्लोकप्रसिद्धत्वात् । यद्यत्किल दुष्यते किञ्चित्, तत् दोषप्रसञ्जनेन, दोषाश्च अमी सर्वत्र असम्भवादय इति किमेतदपूर्वम् । तथाहि न शब्दस्य पृथिवी समवायिनी तस्यां सत्यामपि असम्भवादसत्यामपिच सम्भवात् तस्येति असम्भवाव्याप्त्यादय एव प्रसङ्गसाधनत्वेन दोषतया उद्भाव्यन्ते । लक्षणं च भावस्य न एकः स्वभाव एव कार्यकारणसहचारिप्रभृतेव्यभिचारिणो लक्षणत्वात् ।

तत्कारणत्वादिस्वभाव एव लक्षणमिति चेत्, न तस्य लक्षणीयत्वात् ।

किञ्च धूमवत्त्वस्य अनग्निमत्त्वं लक्षणं न भवति असम्भवादिप्रसङ्गादिति तावल्लक्षणत्वाभावस्तद्व्यवहारो वा साध्यः । तत्र क्वचित् तस्यैव साध्यता यथा अनुपलब्ध्यन्तरेषु । तत्र न तावदत्र प्रत्यक्षत्वं लक्षणत्वाभावस्य तथात्वेऽसम्भवाद्युपन्यासायोगात् । तद्यमानुमानिको

(पगे २०५)

भावनिश्चयो वक्तव्य इति पुनरपि तदेव आयातं यत् चिरन्तना मन्यन्ते- बाधकप्रमाणेन अनिष्टराशेरपाकरणमिति । ननु अनुमानेऽनवस्था, किं नु खलु नामधेये परिवर्तिते वस्तुदोषाः शाम्यन्ति असम्भवादयो, युक्तिरित्युक्तावपि हि किंवाऽनवस्था । तथाहि असम्भवोऽनग्नौ धूमस्येति सम्भवस्य अभावः, सम्भवश्च नाम धूम एवोच्यते धूमस्य स्वकारणं सत्ता, समवायो वा । तस्य च अभावो यदि संवेदनस्वभाव आन्तरोऽनुपलब्धिरूपस्तर्हि स्वसंवेदनप्रत्यक्षत्वमदः, बाह्यस्तु यः, स वस्त्वन्तरात्मा प्रमाणान्तरेण स्वेनैव प्रत्यक्षादिना ग्राह्यः । तत्र च यत् निमित्तत्वे सार्वत्रिकत्वादि चोद्यते, तदत्रापि शक्यचोदनं यदि नाम कुड्येऽनग्नौ न सम्भवो धूमस्य दृष्टोऽनग्न्यन्तरेऽपितु पिशाचस्थानीयस्य सम्भवो न भविष्यतीति कुत एतत् । ननु यदि तत्रापि असम्भवः स्यादिहैव तदभावे न धूमस्य सम्भवः स्यात् । अत्र एतदेव तावत् चिन्त्यम्-स कश्चिददृश्यः पिशाचस्थानीयोऽत्र नास्ति यो धूमस्य इह जनक इति कुतो गतिः । अथ उच्यते तादृशात् चेत् कुतोऽपि धूमः स्यादग्निरपेक्षणीयोऽस्य न भवेदित्यग्न्यभावेऽपि स्यात्, नच एवमिति हन्त तर्हि व्यतिरेकग्राहि इदमनुपलम्भलक्षणं प्रमाणमिति प्रत्यक्षानुपलम्भपञ्चका-देव अस्मद्दर्शनोचितान्तर्मुखस्वसंवेदलक्षणस्वतन्त्रात्मतत्त्व- विश्रमादेव कार्यकारणभावसिद्धिः । तत्रापिच सार्वत्रिकतानिश्चये व्यवहारतो व्युत्पत्तितो वा आगमाद्वा स्वप्रतिभाया वा जन्मान्तराभ्यासोदितायाः समवधारिता भगवन्नियतिशक्तिरेव प्रभवन्ती निरूपणीया, नतु असम्भवादयः । तेऽपिच उद्भाव्यमानाः प्रसङ्गसाधनरूपाः स्वपर्यायेण अभिमतं साधयन्तोऽनुमानतां न अतिवर्तन्ते । नहि साधनदूषणे कदाचिदप्रमाणात्, साधुतां दुष्टतां च सम्यगवबोधयत् साधनं दूषणं च, अवबोधकतैवच प्रमाणता ।

(पगे २०६)

यच्च उच्यते-व्यक्तिद्वयदर्शनादेव कारणांशानां कार्यांशेषु व्यापारोऽवधार्यते, पलालप्रभवाणि हि वह्निसहस्राण्यपि एकैव व्यक्तिरिति; तत्र इदमपि शक्यं वक्तुं पलालकाष्ठसम्भवगोमयोद्- गतवह्निसहस्रदर्शनेऽपि अकैव सा वह्निव्यक्तिरिन्धनोद्भवा नाम दृष्टा भवति शक्रमूर्धसूर्यकान्तप्रभवाणां व्यक्तीनामदर्श-नात्, ततश्च इन्धनमपि वह्नेः कथङ्कारं कारणतामियात् तासामपि दर्शनेऽनिन्धनानामन्यासामदर्शनमपि सम्भाव्येतेति अनग्निस्वभावः शक्रस्य मूर्धा चेति अव्युत्पत्तिविजृम्भितमेव । एवमसम्भवादीनामपि न सार्वत्रिकत्वेन निश्चयोपायोऽस्ति । अथ समस्तलोकप्रसिद्ध्या यो व्युत्पन्नः, स एव प्रामाणिकोऽनुमानेऽधिकारीति उच्यते; तर्हि सा नियतिशक्तिरेव । किञ्च असम्भवादिभिरलक्षणत्वमित्थं व्याप्यते यदि सम्भवेन व्याप्त्यानतिव्याप्त्या च लक्षणत्वं व्याप्यते । तथाच सति व्यापकानुपलम्भादेव लक्षणनिश्चय इति अनुमानात् न उत्तीर्यते । ननु अनुमानमवस्थापादकं ततः किमसम्भवादयो निह्नुतानुमानशब्दाभिधेयभावाः प्रतिपत्तयेङ्गं भवन्तोऽप्रमाणभूता एव, अप्रमाणाच्च का वस्तुसिद्धिः, प्रमाणं वा ते कतमदिति । ननु भवान् ब्रूताम्-यथा एतत् सिद्ध्यतीति, न चेत् वक्तुं शक्नोति, तर्हि असम्भवादय एव अस्मदुक्ताः स्थिरीभूताः । तदनेन वचसा सत्यं प्रथमश्रावकाः प्रत्याय्यन्ते, न चिरन्तनाः ।

तथाहि ब्रह्मणोऽहमौरसः पुत्र इति रथ्यापुरुषेण उक्ते कश्चित्पर्यनुयुङ्क्ते-किमत्र प्रमाणमिति । स आह ननु उत्पन्नस्तावदहं, नच अहेतुकः । यदिच भवान्पितरमन्यं मे प्रदर्शयति, तत् तमेव अङ्गीकुर्वे; न चेत्, मदुक्तिरेव इयमोमिति प्रतिपूजनीया च अमृतरसवदादरणीया चेतिवचःसब्रह्मचारिवचनमिदम् । असम्भवादीनां च लक्षणत्वेन सह विरोधो ग्रहीतव्यः । सच इत्थं भवति-यदि

(पगे २०७)

असम्भवादयो लक्षणत्वस्य व्यापकास्तेषां च व्यापकत्वमसम्भ- वान्तरादिभिर्ग्रहीतव्यमिति सैव अनवस्था । अनवस्थेतरेतराश्रयसाङ्- कर्यप्रभृतयश्च ये दोषा उच्यन्ते प्रमाणपरिदृष्टमन्योऽन्याश्रय- मवस्थितमसङ्कीर्णं च भावस्वभावमपेक्ष्य अत्यन्ताभावरू- पाः सन्तोऽपि बुद्ध्या उल्लिख्यमाना अभूतं भूतस्य, अभूतस्य वा भूतमभूतस्य भूतस्य वा गमकमितिन्यायेन हेतुतां गच्छन्तो व्याप्तिसिद्धये प्रत्यक्षादिप्रमाणान्तरच्छायातः कथमिव मुच्यन्ते ।

तथाहि भगवानन्तनाथः

इतरेतराश्रयाणि च न कल्पन्ते ।

इत्युक्त्या दृष्टान्तं प्रत्यक्षप्रमाणोपजीवनाय अवोचत्

नहि नौर्नावि बद्धा———————–।

इति । ननु प्रत्यक्षे कथमाश्वसिमः सार्वत्रिकतानिश्चयं कर्तुम् । हन्त प्रत्यक्षेऽनाश्वस्ताः सम्भावनामात्रे तत्रभवन्तः समाश्वसन्तीति महत् प्रामाणिकत्वम् । सम्भावनालक्षणोत्प्रेक्षोत्थापिता हि अमी भवदभिहिता असम्भवादयः । उत्प्रेक्षा च विकल्परूपा । सर्वश्च विकल्पो मूले प्रत्यक्षमेव अपेक्षते । अनुभववासनोत्थापिता हि विकल्पा इति प्रत्यक्षमेव तत्रापि प्रतपति, न अन्यत् । तत एव तर्कतन्त्रनिर्माणप्रथममुनिः

तत्पूर्वकं च त्रिविधमनुमानम् । (न्या। सू। १।१।५)

इति प्रत्यक्षपूर्वकतामेव अनुमानस्य अवादीत् । ननु प्रत्यक्षं कथं सार्वत्रिकतायां व्याप्रियते । ननु सम्भावना अपि कथं व्याप्रियते ।

नहि दृष्टेऽनुप———–तूत्तरं प्रत्यक्षेऽपि न भक्षिते श्वभिः ।

तदेवहि यौक्तिकं प्रत्यक्षमिति केचित् वदन्ति । किञ्च सम्भावना चेदेवम्भूता व्यभिचारविरहिता, तर्हि तदेव मानसं प्रत्यक्षं व्याप्तिग्रहणनिपुणमिति अङ्गीकृतं भवेत् । अथ असम्भवादि स्वीकुर्वाणा सा विचित्रीभवति

(पगे २०८)

सम्भावनेति, तर्हि अर्थापत्तिरेव इयं स्यात् । तथाहि प्रत्यक्षानुपलम्- भैर्दृष्टस्तावदग्नौ धूमः, सच अन्यथेति अनग्नौ सम्भवे सति न उपपद्यते इति अनग्नावभावस्तस्य कल्प्यते इति स्फुटमेव एतत् ।

अर्थापत्तिश्च तार्किकमतेऽनुमानमेवेति सैव अनवस्था । तत्प्रशान्तये च प्रत्यक्षमेव अनुमन्तव्यं मूले । तथापि कापिलैरावीतहेतुप्रयोगेन विपक्षबाधने निरूपिते दर्शनमेव पर्यन्ते शरणीक्रियते । नहि असतः कारणं दृष्टम् । नच सर्वस्य सर्वस्मादुद्भवो दृष्टः । नच अशक्तेन अशक्यं क्रियते इति दृष्टमिति असम्भवादयो निरूप्यमाणाः प्रत्यक्ष एव विश्रमयितव्याः । अतिव्याप्तिश्च साध्यस्य नास्तीति यदुच्यते, तत् सकलमतविपरीतमभिधीयमानं कमर्थं पुष्णाति ।

सपक्षैकदेशवृत्तयो गमका हेतव इति हि षट्तर्क्यां प्रसिद्धिः ।

तदनेन विपर्यासितेन किं सिद्ध्यति । लक्षणत्वमित्थं निर्दोषं भवतीति चेत्, न तस्य दूषितत्वात् । नहि वह्निर्लक्षणं धूमस्य येन धूमवत्त्वस्य वह्निमत्त्वं लक्षणं भवेत् । नहि यथा भ्रमविकल्परूपताविरहितविज्ञानरूपता एव साक्षात्काररूपत्वम्, तां मुक्त्वा न अन्यत् तस्य वपुराभाति, निर्दिश्यते वा; तथा धूमवत्त्वस्य अग्निमत्त्वम् । पृथगेवहि धूमेन लब्धप्रतिष्ठेन अह्नेर्वार्तामपि अस्पृशता पर्वतो धूमवान्कृतः, अन्यथाहि वह्निरूपतास्वीकारे वह्निना अपि स्वकारणस्वीकारे विश्वमत्र स्वीकृतं स्यादिति तावति अनाभासमाने न किञ्चित् भातं भवेदिति अन्धतैव स्यात् ।

यत् चोद्यते-परैस्तावल्लक्षणत्वमङ्गीकृतं केवलव्यतिरेकिरूपानुमानविषयमस्माभिस्तु सर्वानुमानविषयमिति, तदपि मृषा । चिरन्तनैर्हि हेतोर्लक्षणत्वमङ्गीकृतम्, भवद्भिः पुनः साध्यस्येति महान्भेदः । तस्मात्प्रमाणैव सा साधनदूषणे कर्तव्ये । ततश्च वस्तुनिर्णयः । यदाह मुनिः

(पगे २०९)

विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः ।

(न्या। सू। १।१।४१)

इति पक्षशब्देन तद्गतं साधनं, प्रतिपक्षशब्देनच तन्निष्ठं दूषणमिति तत्र का युक्तिर्नाम अन्या भवेत् । प्रमाणस्य सा परिकर इति तु अनया भाषया शब्दप्रयोजन आवर्ज्यते, न वस्तुप्रियः । परिकरो हि कारणं वा कार्यं वा सहकारि वा सहकार्यं वा, न पुनरपरः परिकरः कश्चित् । तस्मात् युक्तिरिति तावदनुमानमेवेति साङ्ख्यादयः ।

आवीतहेतुभ्यो हि विपक्षव्यावृत्तिं ते इच्छन्ति । समाधाननैर्मल्यात्- मिका प्रतिभा इति तु तत्रभवद्भर्तृहरिप्रभृतयः । तदनुसार एवच अयममन्दत्वं प्रज्ञाया इति अर्थापत्तिरिति मीमांसकाः ।

बाधकप्रमाणरूपमेव अनुमानं प्रत्यक्षविकल्पपर्यन्तीभवदेकोपलम्भानुभवादितिन्यायेन स्वसंविदि परिनिष्ठितमिति बौद्धाः । प्रमाणयोजनात्मकं प्रमातृस्वातन्त्र्यमेव युक्तिरिति प्रत्यभिज्ञातत्त्ववित् । यत्किञ्चिदपि च अ"ग्नीकुर्वता अवश्यमेव पर्यन्ते प्रमातृस्वातन्त्र्यमेव ज्ञानक्रियाशक्तियोजनात्मकमङ्गीकर्तव्यमिति असकृदुक्तम् । लोकेऽपिच उपाययोजनमेव स्वातन्त्र्योत्थापितं युक्तिरिति प्रसिद्धम्-युक्त्या कुरु, युक्त्या सङ्कटादुत्तीर्णोऽस्मीति । तत् तत्रैव अवधेयं सुमतिभिरिति अत्र अस्माभिर्निबन्धः कृतः, नतु आहोपुरुषिकयेति अलम् । एवं तन्मात्रानुबन्धित्वं यत्स्वभावहेतुविषयस्य जीवितं, तत्रापि कार्यकारणभाव एव मूलमिति उपपाद्य, आचार्यस्य एतदेव सम्मतमिति उपपादयति अत एव तैः इति । ननु किमनेन उक्तेन भवदभिमतमुक्तं भवति । भवतीत्याह तेन इति इतिशब्दावमृष्टेन पठितेन ग्रन्थेन निरंशेऽपि वस्तुनि तैरिदमुक्तं भवति-यत् गमकस्येत्यादि इतिशब्दपरामृष्टम् । ननु इयता किं सिध्यति । आह एवञ्च इति ।

(पगे २१०)

अस्यापि इति यस्य आपाते कार्यकारणगर्भता न आभाति मन्दमतीनाम्, तस्यापि; न केवलं धूमवत्त्वादग्निमत्त्वमित्यादेः । ततोऽपि इति पूर्वमेष ग्रन्थः स्वभावहेतोर्विशेषणाय उपात्तः स्वभावहेतुं कञ्चिदेव गमयतीत्येवं व्याख्यातम् । अधुना तु सर्व एव स्वभावहेतुरेवम्भूतो वेदितव्य इति परं बोधयितुं विशेषणं प्रयुक्तमिति व्याख्याभेदः । एवञ्चाभिधानस्य फलं कृपया अस्मन्नये सोपानक्रमेणैव परोऽधिरोहणीयो मोहमहान्धकूपात् येन अयं विश्राम्येदिति व्युत्पादनम् । एतमेव स्वपक्षं परिघटयति स्वभावो हि इत्यादिना । मुख्य इति सर्वतो व्यावर्तकः, सच गमक इति यावत् । अन्यस्तु इति यः कुतश्चिदेव व्यावर्तकः, सच गम्यः । सिद्धम् इति सर्वतो व्यावर्तकेनैव स्वीकृतत्वात् । अपर इति उत्पत्तिमत्त्वादेर्गमकस्य स्वभावस्य गम्यो यः स्वभावस्तद्यथा क्षणिकत्वमनित्यत्वं मतान्तरे आश्रितत्वादि, स स्वभावो गमकग्राहिणा प्रमाणेन न सिद्धः; उत्पद्यमाने क्रियमाणे प्रयत्नजन्ये दीपाद्यभिव्यज्यमाने च भावक्षणे दृश्यमाने हि क्षणान्तरे भविष्यत्ययं नवेत्यादिका चिन्ता न कृतैव, शिंशपात्वं तु शाखादिमत्त्वविशेषरूपं गृह्णता प्रमाणेन शाखादिमत्त्वमात्रं स्वीकृतमेवेति न तत्र वस्तुसाधनता । तेन गमकग्राहिणा प्रमाणेन क्षणिकत्वं यत् न स्वीकृतं, तत् गमकादुत्पत्तिमत्त्वादेरित्थमनुमातुं शक्यं यदि गमकस्य उत्पत्तिमत्त्वादेर्यो हेतुर्निजं कारणं तेनैव कारणेन स उत्पत्तिमानिव क्षणिकोऽपि कृत इति । ननु एवं तन्मात्रानुबन्धित्वं क्षणिकस्यैव उक्तं भवेत् वस्तुनः साध्यं, नतु वृक्षत्वस्येत्याशङ्क्य तत्रापि तत् व्युत्पादयति शिंशपात्व इति । तथा भावात् इति वृक्षत्वात् । शिंशपानिष्ठम् इति शिंशपारूपनिगीर्णम् ।

यदि परम् इति एतच्च पर्यायव्यवहारसाधनं,

(पगे २११)

नतु वस्तुव्यवहारसाधनम् । व्यावृत्त्यन्तर इति अध्यवसायः प्रत्यक्षफलं; नच शिंशपां शुद्धां विलोक्य धवतुल्येयमिति अवसा, अपितु धवसहिताम् । एवमिह अध्यवसायान्यत्वात् व्यावृत्त्यन्तरापेक्षा अशिंशपा न भवतीति, एतावता हि न वृक्षः ।

एवंहि धवो न वृक्षः स्यात्, सहि अशिंशपा भवति ततस्तस्या व्यावृत्तेरन्या व्यावृत्तिरवृक्षो न भवतीत्येवमात्माभासमपेक्षमाणं तद्वृक्षत्वं प्रत्याभासं प्रत्यध्यवसायं वा विश्रान्तत्वात् प्रमाणानां पूर्वप्रमाणेन अस्वीकृतं प्रत्यक्षान्तरेणैव तथाध्यवसायपर्यन्तेन स्वीकर्तव्यम्, स्वीकृतमपितु यदि मोहात् न निश्चितम्, तदा वस्तुव्यवहारसाधनमनुमानम् । तत्रापि च कारणमहिमैव अनुमन्तव्यः । क्षणिकत्वाद्यनुमानं तु वस्तुसाधनमिति त्रिधा स्वभावहेतुराख्यातः । कृतकत्वकारणम् इति कर्तृपदम्, शिंशपात्वमपि इति कर्मपदम् शिंशपात्वकारणम् इति च, अर्थात् कर्तृलाभः । तत् इति पूर्वत आकृष्य एतदर्थत्वेन नेयम् । न्यायः इति प्रमाणतत्त्वम् । तं दर्शयति नहि इति । तेन इति हेतुना चेत् नित्यो जन्यते स्वभावापरित्यागात्, न अस्य अन्यदेशकालवस्तुसम्बन्धो भवेत् । ननु अनश्वरोऽपि उत्पन्नो देशादिकृतनाशे तं विरुद्धमवलम्बिष्यते । एतत् दूषयति देशादीनाम् इति स्वभावान्तरापादकत्वेन सम्मतानामित्यर्थः । नीलरूपत्वेन इति ततश्च भावं न करोतीति करणत्वमपाकृतं भवेत्, नतु नाशकरणत्वमुक्तं भवेदिति व्यतिरेकपक्षीभावस्य एतदुक्तम्, पक्षान्तरे तु आह विनश्वर इति । ननु कालान्तरेऽस्य नाशहेतवो विनश्वरं विश्राणयन्तु स्वभावं भावस्य । आह विनश्वर इति । तेषाम् इति नाशहेत्वभिमतानाम्, कर्तुः शेषविवक्षायामियं षष्ठी । उक्तन्यायेन इति अभावस्य वस्तुत्वावस्तुत्वव्यतिरेकाभिधानलक्षणेन ।

(पगे २१२)

तथाच इति अनश्वरत्वे सतीत्यर्थः । दृश्यते च असौ । अनश्वरो हि अवश्यं कालान्तरावस्थायित्वेन उपगम्यस्तदेवच नश्वरत्वं पूर्वस्वभावत्यागात्मकत्वात् । एतत्परिहरति तत् इति यत् वक्तव्यं तदुक्तमेवेति, तदिति वा उत्तरस्य उपक्रमे हृदयाकर्षणेन स्मरणं द्योतयति । न्यायागतत्वमेव नियत्युपजीवनेन विना न नियन्तुं शक्यम् ।

यदिहि एवं बधिरग्रामे श्रूयते क्वचन देशेऽपररात्रे निद्रायमाणे राजनि तन्निद्राच्छेदभयात् भेरीताडनं तत्प्रयत्नेन न किर्यत इति, तदा बधिरैरपि सम्भूय न्यायोऽवस्थाप्यते शतशोऽपि तत्र क्रियमाणे न अस्माकं निद्राच्छेदः कस्यापि दृष्ट इति किमन्यत्र भावस्वभावा विपरिवर्तन्त इति । तस्मात् न्यायो नाम भावानां प्रसाधकं प्रमाणमुच्यते । ते चेदवभाससाराः, किंवा रूपं न सहेरन् । नीलमपि पीततां सहेत चित्रज्ञाने इव । यथोक्तम्

अनन्यभागशक्यदर्शने नीलादिचित्रविज्ञाने ।

इति । सङ्कल्पस्वप्नादौ च अवभासानां संयोजनवियोजनवैचित्र्यसह- स्राणि दृश्यन्ते । तत्र क आभासः किमाभासैकनियत इति कः प्रतीयात् ।

एनमाशयं व्यनक्ति अवभाससार इत्यादिना । ननु मा भूत् धवादीनामभावे तत्साधारणो वृक्षत्वावभासः, असाधारणस्तु केन निवार्यते । तत्र आह धवादिसद्भाव इति, तद्धि असाधारणं भवत् शिंशपात्वमेव, नतु तेन गम्यमपरं किञ्चित् । ननु धवाद्यसृष्टे वृक्षत्वरहितशिंशपाभाससृष्टिः सम्भाव्या, अनित्यत्वरहितकृतकसृष्टिस्तु कथम् । किं खलु कथमित्याह कृतकत्वेत्यादि दिष्ट्या वसनमिदं कारणव्यापारादुत्पन्नमिति य आभासो ह्लादजनको वसनादेः, स एव तावत् न विनङ्क्ष्यतीत्याभासः, अपितु अन्य एव हृद्भङ्गमिव

(पगे २१३)

मितधनस्य विदधानः । तत् पूर्वाभासैकरसे प्रमातृवर्गे द्वितीय आभासो न सृष्ट एव तं प्रति रूपमिव अन्धान् तत्प्रमातृवर्गान्तरैकी- भावेन भगवता तेषामसृष्टेः । किञ्च कापिलाः कार्यं सदेव आचक्षाणाः पूर्वापरदशासु अनपायित्वं नित्यत्वमेव कृतकस्य आचक्षते इति । ननु यस्य असौ भावः कृतक इति आभातोऽपि, अनित्य इति न भातः; स देशान्तरे तं भावं पश्यन् कथं स्वभावान्यत्वेन प्रतीयात् । इत्थमित्याह तदेतत् इति । भिन्नदेशतया हि तदानीं पूर्वस्वभावत्यागादनित्यत्वमनेन विदितम्, नतु कृतकतया । ननु स तर्हि स्वभावत्यागो नाम हेतुर्नियतशक्त्यपेक्षः सुसाध्यो व्यभिचारसम्भावनाविरहादित्याशङ्क्य आह भिन्नदेशता यद्यपि इति । न इदं वस्तुनो, नापि वस्तुव्यवहारस्य साधनमपितु शब्दव्यवहारस्य; तदर्थं मात्रपदं, शब्दव्यवहारश्च नियत्यपेक्ष इति किमत्र चित्रं साङ्केतिकत्वेन अस्य प्रसिद्धेः ।

एतदुपसंहरति तदेवम् इति । यदि गम्यगमकाभिमतयोर्व्यावृत्त्योः पर्यायमात्ररूपता, तदा व्यवहारमात्रं साध्यम्; अथ भिन्नाभासत्वेन अपर्यायता यावस्तु तदा एक आभास आभासान्तरपरिहारेण अपि आसीत योगीश्वरादिप्रभावबलादित्या- शङ्का अवश्यं शमयितव्येति तात्पर्यम् । एतदुदाहरणेन स्फुटीकरोति सत्त्वं हि इति हि यस्मादेवम्भूतं स्फुटं निदर्शनमस्ति, तस्मात् युक्तमेतदित्यर्थः । अत एव इति क्रमयौगपद्याभासात् । तदाच तदेव क्षणिकत्वं स्वभावत्यागलक्षणं क्रमं हि अकृत्वा करणम्, यौगपद्यं तु अकरणं कृत्वा; तदाच शब्दव्यवहार एव साध्यः ।

अन्यथा इति । यदि क्रमयौगपद्याभासपरमार्थत्वमेव अर्थक्रियाकारित्वाभासस्येति न उच्यते, तदा ताभ्यां स

(पगे २१४)

याप्तः इति कुतः । ननु यदि तत एव अनित्यत्वं सिध्यति, तर्हि प्रकृते किम् ।

आह क्रमिक इत्यादि । प्रकारान्तरेण अपि गमके गम्यानुप्रवेशमाह क्रम इत्यादिना । व्यतिरेकतत्त्वे विचार्यमाणे अन्वय आगच्छन् साध्याभासानुप्रवेशं गमकाभासे स्फुटयतीति तात्पर्यम् ।

विपक्ष इति नित्ये । तत्स्वभाव इति क्रमयौगपद्याभासस्वभावः ।

स्वपक्ष इति अनित्यः । तत् इति तस्मात् । ननु एवमर्थक्रियाकारित्वं यदि यदेव क्रमयोगपद्याभासात्मकं क्षणिकतामयं, तदेवच सत्त्वं; तदा तत्त्वक्षणिकत्वव्यवहारसाधने नैव नियतिशक्तिरपेक्ष्यते । भवेदेतदेवं, यदि तदेव सत्त्वं स्यात्, नतु एवमिति दर्शयन्

अर्थक्रियापि सहजा नार्थानाम्———————–। (२।३।१२)

इति पूर्वोक्तं स्मारयति अर्थक्रिया इत्यादिना । तदपि इति अर्थक्रियाकारित्वम् । ईश्वरो यत् करोति, तत्र को नियमः-एवं-भूतमेव करोतीति । तदाह अनियमकरणात् इति । नित्यापेक्षया इति व्यवहारकाले ।

ननु एवं व्यवहारे किं क्षणिकतैव परमार्थः । नेत्याह विनश्वरता तु इति न भावस्य किञ्चित् निजं नित्यमनित्यं वा वपुः ।

ईश्वरस्तु स्वसंविन्मुकुरे विश्वमाभासयन् क्षणिकतामपि आभासयेदिति नः पक्षः ॥ ११ ॥

ननु आभासवस्तुवादे आभासयोरेव कार्यकारणभाव इति अनाभातोऽग्निरकिञ्चिद्रूपः । तेन कथं धूमाभासो जनित इति शक्यं वक्तुम् । घटाभासात् धूमाभासः, धूमाभासाच्च अनन्तरमग्न्याभास इति आभासानां नियतमानन्तर्यमिति कथं नियत्यवलम्बनेऽपि धूमादग्न्यनुमानमित्याशङ्कां शमयति

भूयस्तत्तत्प्रमात्रेकवह्न्याभासादितो भवेत् । परोक्षादप्यधिपतेर्धूमाभासादि नूतनम् ॥ १२ ॥

(पगे २१५)

कार्यमव्यभिचार्यस्य लिङ्गमन्यप्रमातृगात् । तदाभासस्तदाभासादेव त्वधिपतेः परः ॥ १३ ॥

विज्ञानवादी प्रतिसन्तानं भिन्नमाभासमिच्छन् स्वगतयोरेव धूमाग्न्याभासयोः कार्यकारणभावमग्रहीत् सन्तानान्तरगताभासवृत्तान्तमात्रासंवेदनात् । तदिदानीं धूमाभास एव अस्य, कुतस्ततोऽग्न्याभासानुमानम्; अस्मद्दर्शने तु तावत्याभासे भगवता प्रमातॄणामैक्येन सृष्टिरिति बाह्यनये इव व्याप्तिग्रहणकाले तावत्प्रमातृभेदवर्ती धूमाभास एक एव अग्न्याभासश्च । ततश्च प्रमातृभेदत्यागेन प्रत्यक्षानुपलम्भबलेन धूमाभासोऽग्न्याभासात् जायते इति व्याप्तिरेकवारं शक्या ग्रहीतुम् । भूयश्च पुनरपि भूयसां वा अन्वयव्यतिरेकपर्यायेण अनियतानां तेषां क्रिमिसर्वज्ञपर्यन्तानां प्रमातॄणामेक एव यो वह्न्याभासो, नतु सन्तानभेदेन भिन्नः आदिग्रहणात् बीजाभासादि; तत एव धूमाभासाङ्कुराभासादि भवेत् जनितुं शक्नोति, न अन्यतः । तच्च वह्न्याभासादि यतोऽनुमातुः परोक्षं, ततोऽधिपतिप्रत्यय इति उच्यते ।

तच्च नूतनं, नतु धूमजधूमतुल्यम् । तच्च तस्य वह्न्याभासादेर्नियतिशक्त्यपेक्षया अव्यभिचारि कार्यरूपं लिङ्गमिति तदनुमितौ व्याप्रियते एव । वह्न्याभाससामान्यांशे तैः प्रमातृभिः सह ऐक्येन स भगवता सृष्टोऽनुमाता उच्यते इति परमार्थः । परस्तु नूतनादन्यो यो धूमाभासादिः, स धूमाभासादेरेव प्रमात्रन्तरगतादनुमात्रपेक्षया परोक्षत्वेन अधिपतिप्रत्ययरूपादुत्पन्न इति तस्यैव स्वकारणस्य अनुमानाय स कार्यलिङ्गं भवेत्, नतु कारणभूतस्य वह्न्याभासादेरिति सर्वं स्वस्थमिति सूत्रार्थः । धूमाभासोऽग्न्याभासादेव जायमानस्तस्यैव गमकः, जातरूढस्तु धूमाभासादेव जायमानस्तस्यैव गमक इति पूर्वेण सम्बन्ध इति वृत्तियोजना ।

विवृतिकार

(पगे २१६)

आशङ्कां विधाय सङ्क्षेपेण सूत्रार्थं प्रतीकयति तदेतदेवम् इत्यादिना । साच आशङ्का न स्यात् इत्यन्तेन दर्शिता । विज्ञानवादिना च प्रतिप्रमातृसन्तानं भिन्नमाभासरूपमर्थमिच्छता दुःसमर्थमेतदिति आशयशेषोऽत्र । अन्यतोऽपि इति घटाद्याभासात् ।

विपर्ययस्य वा इति धूमाभासानन्तरमग्न्याभासः पर्वतमारूढस्येत्यपि हि दृश्यते एव । पर्वतपृष्ठगतोऽपि इत्यादिना भूयःशब्दस्य अर्थं व्याख्यास्यन् व्याप्तिग्रहणसमयवृत्तान्तं तावत् घटयति सन्निकृष्टदेशवर्तिनि इत्यादिना । तदा इति तत उक्तादन्वयव्यतिरेकरूपात् हेतोरित्यर्थः । तावत् इति तच्छून्यसामग्री नैव कारणमिति यावत् । आगमसिद्ध इति अनेन प्रमाणसमूहयोजनात्मिकां युक्तिं व्यापारयता प्रमाणिकेन भवितव्यमित्याह । आगमिको हि कार्यकारणभावादिरितिनियमो नियतेर्वशादिति । मात्रपदं व्याचष्टे अन्यत्र इत्यादिना ।

मायाशक्तेरवस्थानमुपपादयति तम् इति । तावन्मात्रम् इति मात्रशब्दार्थं स्पष्टयति । विषयावभासस्तु इति सामान्यरूपा आभासा एव तत्त्वशब्दवाच्या वस्तूनि । ते च प्राक्सृष्टिसृष्टा एवेति उक्तमसकृत् । तत् इति सौत्रं व्याचष्टे क्रिमिकीटादयोऽपि इति ।

सूक्ष्मासूक्ष्मत्वेन अनयोर्भेद आगमेषु । आभासोऽपि परोक्षो भवतीत्यादि यदनन्तरोक्तं वस्तु, तत् न उत्सूत्रमिति दर्शयति एतच्च इति ।

बहुतरशब्देन भूयःशब्दस्य व्याख्यान्तरं दर्शयति अन्यथा इति ।

यदि विज्ञानवादिमते इव प्रतिप्रमातृनियतयोरेव आभासयोः कार्यकारणभावोऽभ्युपेयते, तदा शङ्केतेति पर्वते; अतश्च न तत्र अग्निरनुमीयते । पर्वतवर्तिप्रमातृवर्ती हि अन्यो धूमाभासो यस्तेन प्रमात्रा अग्न्याभासकार्यः संविदितः, अन्यश्च अनुमातृसम्मतप्रमातृवर्ती ।

(पगे २१७)

स च शरीराभासादेरेव जात इति शङ्केत । अत्र इति पर्वते । ततश्च साधारण्येन एक एव धूमाभासः इत्याशयः । आगमसिद्ध इति प्रमाणयोजनामुपजीव्यत्वेन स्मारयति । अविगीता च प्रसिद्धिरागम एवेति उक्तम् । ततश्च अशेषव्यवहारव्युत्पत्तिः । आगमतत्त्ववेदित्वमेव विद्यास्थानफलम् । वेदायुर्वेददण्डनीतिकामसूत्रप्रयोगमालाप्र- भृतिग्रन्थज्ञानमेव हि परो विदग्धभावः ।

एवमसाधारणाभासवादे दूषिते परस्तं प्रत्युज्जीवयितुमिच्छन्नाशङ्कते अथ इति । एतत् समीकरणेन तिरस्करोति तर्हि इति । अत्र हेतुः अन्तर इति । पुनः परोक्तिमाशङ्कते अथ इति महानसे तावदेव दृष्टम् । यतः शरीराभासादुद्गच्छन्तं न धूमाभासं पश्यति, किन्तु वह्न्याभासादेव; अन्यत्रापिच तज्जातीयत्वात् धूमाभासस्य तत्कारणकत्वमेव युक्तमिति न भित्त्याभासात् तदुद्गम इति । वह्न्याभासो न व्यभिचारी धूमाभासं प्रतीति आकूतशेषः । तर्हि इति प्रोद्गते धूमे महानसं प्रविष्टवतो यदा ऊर्ध्वादधः प्रसर्पन्ती दृष्टिर्व्याप्रियते, तदा धूमाभासादेव ऊर्ध्वगमनलक्षणप्रवृत्त्याभाससहकृतादग्न्याभासोद्गम इति विपर्ययेण अपि कार्यकारणता स्यात् । ननु तदापि प्रमात्रन्तराणां वह्न्याभासादेव धूमाभासोद्गम इति प्रतिपत्तिः । ततः किम् ।

वह्न्याभासस्यैव कारणत्वं ततः, ततोऽपिच इदम्-यत्परोक्षोऽपि वह्न्याभासो धूमस्य कारणमिति । भवेदेवं सर्वप्रमातृसाधारणमेकमाभासमिच्छतां, नतु सौगतानामिति दर्शयति प्रतिप्रमात्रा इति । ततः इति व्यवहितत्वात् हेतोरदृश्योऽपि अन्यैरेकेन प्रमात्रा उपलभ्यत इति । अतो हेतोः स पूर्वोत्पन्न एवेति सम्बन्धः । अत्रैव इति महानसाभासस्य अपि साधारण्यमुपयोगीति दर्शयति । अविवृतमपि

(पगे २१८)

इति सौगतादिभिः । कस्यचित् इति कार्यस्य । तस्य इति कार्यस्य । कुत इदमधिपतेर्लक्षणमिति चेदाह तथाच इति लक्ष्यात् लक्षणं कल्पितमिति यावत् । समीहां च इति व्यापारादिविषयाम् । सन्तानान्तर इति प्रमात्रन्तरे । सूत्रे यदाइग्रहणं, तत् वृत्तौ त्यक्तमिति यस्य मोहस्तं प्रत्याह वृत्तौ इति यत् सूत्रे सङ्गृहीतं, तत् वृत्तौ न न विवृतमुपलक्षकत्वाशयेन, नतु नियमाशयेन ।

धूमाग्न्योरुपादानं यत एवमव्यभिचारि अस्य लिङ्गमित्यन्तं सूत्रार्थमुपसंहरति तदेवं सति इत्यादिना । अन्यप्रमातृगात् इत्यादि विवृणोति गोपाल इत्यादिना । लेखापदेन वह्निजधूमवैलक्षण्यदिशं दर्शयति । ततः इति । बह्न्याभासात् । देवदत्तस्य इति अनुमातृभूमिकापन्नस्येत्यर्थः ॥ १२-१३ ॥

ननु अग्न्याभासात् धूमाभास इति चेदूरीकृतं, तद्वदेव बीजाभासादङ्कुराभास इत्यादि युज्यते एवेति किमेतदुक्तं

तदन्यस्यापि बीजादेर्हेतुता नैव युज्यते । (२।४।८)

इति चेतन एव कर्तेति । एतत् प्रतिसमाधत्ते सूत्रेण

अस्मिन् सतीदमस्तीति कार्यकारणतापि या । साप्यपेक्षाविहीनानां जडानां नोपपद्यते ॥ १४ ॥

जडत्वात् न अपेक्षा । तदभावात् न नियमः । तदभावात् नियमविशिष्टं न पौर्वापर्यं कार्यकारणभाव इति व्यापकविरुद्धोपलब्धिव्यापकानुपलब्धयः । परस्य यः परत्र नियमः, स न स्वभावभूतः स्वनिष्ठत्वात्सर्वभावानाम् ।

ततोऽनुसन्धानरूपा अपेक्षा तस्य व्यापिका । सा च जडेषु नास्तीति सूत्रार्थः । अत्रैवच सूत्रे पूर्वसामर्थ्ये परस्य सत्तेति पूर्वसामर्थ्यं परस्य सत्तेति पक्षावपि सूचितावेव । सत्तामात्रे घटपटयोर्नियमवती सत्ता

(पगे २१९)

सहभूतयोरेकसामग्र्यधीनयोर्न च कार्यकारणत्वम् । ततोऽत्र प्रयोज्यप्रयोजकतापर्यवसितं यत् नियतापरपूर्वभावं सत्त्वं, सा कार्यकारणता परेण अभ्युपेतेति दर्शयति द्वयोः इत्यादिना प्रसङ्ग इत्यन्तेन सन्दर्भेण । प्रदेशस्य च इति प्रदेशोऽत्र समानकालं भूतलम् । भवतिशब्देन इति अस्ति इत्येतस्य व्याख्यानेन वृत्तिगतेन ।

एवमपि इति । तत्र हि भवद्भूतप्रादुर्भावः । तदापि इति भाविकालविशिष्टस्य अपि स्यादनुमानमिति यावत् । सहभावेन इति अग्निधूमसन्तानौ हि प्रबन्धप्रवृत्ती । तत्र समानकालौ यौ धूमाग्निक्षणौ, तयोः सहसत्तया अस्ति सम्बन्धोऽवश्यम्भावविशिष्टो, नतु बीजमङ्कुरे जातेऽस्तीति सम्बन्धस्यैव अभावादवश्यम्भावलक्षणो नियमः कस्य विशेषं भवेत् । अभूतपूर्व इति प्रकरणात् सत्ता लभ्यते । इयत् सूत्रे सप्तम्या कथं स्वीकृतमिति चेदाह तथाहि इति । यस्य च भावेन इति ।

यस्य च भावेन भावलक्षणम् । (३।२।३७)

इत्येतत्सूत्रनिर्दिष्टा या सप्तमी, सा विशेषणमेनमाहेति दर्शयति सह इति । आदौ इति अग्न्यभावे सता अपि प्रदेशेन तस्य धूमस्य लक्षणं यतो न भवति, तत इत्यर्थः । सहभावं निराकृत्य उत्तरकालभावितामपि निराकरोति उत्तर इत्यादिना । तस्य इति अग्नेः । ननु उत्तरकालमपि भवतोऽग्नेः किं न सिद्धतेत्याशङ्क्य आह स्वकाल इति । अस्य रूपस्य व्यापकतां दर्शयति बीजेन इति अथवा पूर्वं सहकारिलक्षणं वह्निर्धूमस्येति व्याख्यातम्, एतेन तु उपादानलक्षणमिति विशेषः ।

एतत् तात्पर्यतो निगमयति तेन इति । तयोः इति निर्धारणविभक्तिः । एषच नियमार्थः सिध्यतीति सम्बन्धः । तदपि इति अभावस्य

(पगे २२०)

उपक्रमेऽपि नपुंसकं प्रसज्यनिषेधरूपस्य वाक्यार्थस्य असत्स्वभावत्वेन प्राधान्यं दर्शयितुं तस्य न वह्नेरभावेऽन्यतोऽपि अनग्नेर्धूमो भवतीति यदाशङ्क्यते, तत् नेत्ययं हि वाक्यार्थः । ननु सप्तमी कथं नियममाक्षिपेत् । आह अन्यस्मिन् इत्यादि । अघटेऽपि हि सति यः पटो भवति, स घटसन्निधौ विलोक्यमानोऽपि पटो नैवं व्यपदिश्यते-घटे सति भवतीति । अत एव इति यत इति सप्तम्यर्थो विश्रान्तस्ततो व्यतिरेकोऽपि गम्यत एवेत्यर्थः । वृत्तौ तु इति वृत्तिर्हि सूत्रं व्याचक्षाणा वृत्तिर्भवतीति तस्यां व्यतिरेको दर्शितः । ननु पौर्वापर्यस्य विशेषणं नियतमिति । पौर्वापर्यं च भावद्वयम् । तस्मिन् नियमविशिष्टे निरूपिते व्यतिरेकः कथं दर्शितो भवेत् । स हि अभावात्मा भावविशेषणेन उच्यते इति किमेतत् । एतत् दूषयति नियत इत्यादिना । इहहि व्यतिरेको नाम अन्वयसचिवः कार्यकारणभावात्मा प्रस्तुतः । कार्यकारणभावश्च वस्तुनी एवेति व्यतिरेकोऽपि अन्वयवत् नियतवस्तुद्वयपरमार्थ एव । ननु तथात्वेऽसावद्वयात् कथं भिद्यते, कथञ्च असावनुपलम्भेन अभावविशेषेण अवगम्यः स्यात्, घोष्यते च प्रत्यक्षसाधनोऽन्वयः, अनुपलम्भसाधनश्च व्यतिरेक इत्येवं प्रत्यक्षानुपलम्भाभ्यां तैर्वा भावनिष्ठोऽन्वयव्यतिरेकात्मा कार्यकारणभावः साध्यते इति । तदेतत् चोद्यद्वयं व्युदस्यति अनुपलम्भेन इति । भावस्वभावो हि नियत इत्थं व्यवहृतो भवति यदि विधिनिषेधाभ्यां व्यवह्रियते ।

एवंहि स्वरूपमस्य अन्यतो व्यावृत्तं व्यवहृतं स्यात्, ततः स्वरूपमित्यत्र विधिभागेऽन्वयरूपता उच्यते प्रत्यक्षसाधनता च ।

नियतं व्यावृत्तम् इत्यत्र नियततां कारणस्य तावत् दर्शयति नियता धूमेऽग्न्यादिसामग्री

(पगे २२१)

इति । सामग्रीग्रहणेन कारणतामन्त्यदशाप्रतिपन्नत्वेन वह्नेराचष्टे । अत्र अनुपलम्भं साधनत्वेन आह तदा इति धूमव्याप्ताभिमते क्षणे धूमप्रतिषेधमयो घटादिर्नास्ति, भवन्नपिहि घटादिः सधूम एव । घटादिरपिच न वह्नेरनन्तरक्षणभावी अन्यदापि अस्य भावात् । एवं कारणस्य कार्ये नियततां प्रदर्श्य कार्यस्य कारणे प्रदर्शयति धूमोऽपि इति । एतत्साधनाय अनुपलम्भं दर्शयति अग्नि इति अग्न्यभावप्राणितात् हि न प्रदेशात् मृदादेर्वा धूमः, अपितु विद्यमानवह्निकादेव, नच प्रदेशमृदादिकात् धूमस्तद्भावेऽपि अग्न्यभावेऽभावात् । एवं द्वयोरपि नियमे दर्शिते समव्याप्तिकत्वं गम्यगमकयोरिति दर्शयता गम्येऽपि गमकनियमो भवतीति सम्मतं बौद्धस्यैवेति दर्शितं भवति । यत् वार्तिकं

धूमहेतुस्वभावो हि वह्निस्तच्छक्तिभेदवान् ।

इति । ततोऽस्मदुपज्ञमेव इदमिति व्याप्तिशून्यत्वं गम्यस्येति योऽभिमानः, सोऽभिमान एवेति अलम् । ननु किमनेन गम्यस्य नियतत्वेन उक्तेन । वस्तुवृत्त्या हि भवदपि तत् न अनुमानस्य अङ्गम् । अनुमानं हि हेतुबलात्, हेतोश्च कार्यमिति तस्यैव प्रतिबन्धरुपत्वं वक्तव्यमनग्नौ न भवतीति । एतदागूर्य आह कार्यस्यैवच इति । अत्रापि पक्षे प्रतिक्षिप्त एव पूर्वोक्तो दोष इति दर्शयति निषेधमात्रं तु इति ।

अत एव इति विधिनिषेधरूपतया वस्तुन्येव व्यवहार इति यदुक्तं, ततो हेतोः । ननु वस्तुद्वयमात्रं न कार्यकारणभावः, अपितु नियमविशिष्टं तत्, स नियमश्च परापेक्षामपि आपादयति । उच्यते नियमोऽपि इति । नियमविशेषम् इति यत्र नियतमिति व्यवह्रियते वस्तु, तत् ।

कस्तर्हि नियमो नामेत्याह तथा इति निजनिजेन

(पगे २२२)

रूपेण । कथं न इति इयदेवहि नियमस्य वपुर्यत्परस्परं भावात्मानो यथा दृष्टास्तदन्येन रूपेण न भवन्तीति । अन्येन प्रकारेण अभवनं स्फुटयति अयं हि इति । अनयोः इति अग्निधूमयोः ।

कोऽसौ इति भावद्वयं मुक्त्वा न अत्र काचिदपेक्षा स्फुरतीति यावत् एवं पूर्वस्मिन्सति परो भवतीति बौद्धीयं मतं वितत्य अनुभाषितम् । एतत् दूषयति स्यादेतत् इति अभ्युपगम्यते । अस्त्येतदतिप्रसङ्गावहं तु इति यदिवा एतदिति उचितोचितं वाचोयुक्तिवैदग्ध्येन भवेदेतत्, यत् त्वया उक्तं, तत्तु वैदग्ध्येन निर्वहतीति । अतिप्रसङ्गापादनादि दर्शयति एवमपि इति । तथाभावः इति कार्यकारणभावः ।

पूर्वदृष्टत्वावगतैः इति ज्योतिःशास्त्रादेरेतदवगम्यते-न रोहिण्यः कृत्तिकाभ्यो जायन्ते इति । ततः पूर्वदृष्टत्वं कृत्तिकाभ्योऽनुद्भवत्वमासामवगम्यते इत्यर्थः । रोहिण्युद्गम इति विशिष्टदेशको रोहिणीक्षण इति यावत् । एतदेव स्फुटयति उद्गमश्च इत्यादिना जायते एव इत्यन्तेन । अत्रैव दृष्टान्तमाह गोपाल इति विशिष्टधूमलक्षणस्य सा कारणमेवेति यावति । ननु अस्तु एवं क्षणाभिप्रायेण कृत्तिकाः प्रति रोहिणीनां कार्यत्वम् । नेत्याह नच इति । एवम् इति धूमन्यायेन । तथा भूता अपि इति उद्गच्छद्विशिष्टरूपा इति अपिः । रोहिण्यः कृत्तिकाभ्यः कारणभूताभ्यः कार्यरूपतया भवन्त्यो भूताः प्रादुर्भावयोगिन्य इति न लोकस्य प्रतिपत्तिरिति । एतच्च इति अतिप्रसङ्गावहत्वं यदुक्तं पौर्वापर्यस्य कार्यकारणभावलक्षणत्वे तत्सम्भवत्वात् तामुपगम्य, सैव तु नास्तीत्याह पुनः इति । यदि नाम पुरुषो दैवयोगात् घटानन्तरं पटं पश्येत् त्रिचतुरानपि वारान्किमियता भावयोः परस्परनिरपेक्षयोः किमपि ज्ञातेयं

(पगे २२३)

नियामकमुदियात् । निरपेक्षतामेव दर्शयति नहि इति । अग्रे इति तत्र हि पूर्वस्य सामर्थ्यं नाम स्वभावः स परस्य सत्तारूपो नेति वक्ष्यते । यथाच सामर्थ्यं स्वभावस्तथा स्वरूपमपीति, तदपि न पूर्वस्य सम्बन्धि परस्येति युक्तम् । ननु अस्तु भावयोरेव अपेक्षा । सा तर्हि परस्परस्वभावतामानयति । तदाह तथात्वे वा इति सापेक्षत्वेऽभिधेयमाने, सा सापेक्षता अन्योन्यस्वभावतादात्म्यपर्यवसिता आपद्येत प्रसज्येतेत्यर्थः । ननु तादात्म्येन किमत्र अङ्गीकृतेन । अपेक्षा नाम स्वभावविशेषः कार्यकारणस्वस्वरूपमात्रविश्रान्तो भविष्यति । एतत् दूषयति नच इति ।

ननु उपगम्यतामेवं, को दोषः । अयमित्याह एवं हि इति । यो हि यस्य विशेषः, स तं विशेषं विहाय अपि आस्ते वृक्ष इव शिंशपात्वम्, तथाच तथाभूतापेक्षात्मकविशेषशून्यावपि धूमाग्नी भवेताम्, धूम एववेति स स्यादिति सम्बन्धः । एवकारेण स्वरूपस्य अन्यथाभावमाह । वाग्रहणेन इदमाह-अग्न्यादिसामग्री यद्यपि अन्त्यदशाप्रतिपन्ना धूमजनिकेव अङ्गीकृता क्षणस्य अविवेकादप्रतिबन्धनीयत्वात्, अकिञ्चित्करस्य च अप्रतिबन्धकत्वादिति नयेन; तथापि लौकिकप्रत्यवमर्शबलेन अनन्त्या अपि वह्न्यादिसामग्री सैवेतिदृष्ट्या नावश्यं कारणानि कार्यवन्ति इति भवेदपि वचनावकाशो, धूमस्य तु स्वप्नेऽपि अनग्निजत्वं न सह्यते । तदाह तथाच इति । तदेव दर्शयति अर्थ इति अर्थस्य यत् स्वरूपमात्रं, तत्रैव तैरिदं कारणमेव, इदं कार्यमेवेति व्यवस्था उपगता । ननु तयैव व्यवस्थया सर्वं सिद्धं; विशेषणपक्षे च तत्त्यागशङ्का या उक्ता, सा अपि पराकृतेत्याशयं परकीयमाशङ्कते अथ इत्यादिना सर्वसिद्धिव्यवहारश्च इत्यन्तेन । विशेषणत्यागशङ्का ननु इत्यादिना

(पगे २२४)

पराकृता । निषिध्यमानाया अन्यापेक्षायाः स्वरूपं सप्तम्या दर्शयति अनग्नौ इत्यादिना । व्यवहारमात्रे तु इति सप्तमी ।

कार्यकारणभावादिव्यपदेशलक्षणं साङ्केतिकम् । अत्रैव दिक्सङ्ख्यासन्निवेशदृष्टान्तत्रयं निरूपयति यथा इत्यादिना ।

भावस्य यत् विशिष्टं रूपमन्यतोव्यावृत्तं, तदेव साङ्केतिकेन शब्देन अभिधीयमानमपेक्षाध्यवसायं वैकल्पिकमुत्थापयति पञ्चसङ्ख्यारूपस्य विशेषस्य अभावेऽपि । वस्तून्येव इति परमाणुरूपाणि घटादिरूपाणि वा । एतत् दार्ष्टान्तिके योजयति तथैव इति अन्यस्य अर्थस्य सम्बन्धरूपस्य अभावात् व्यतिरेकेण अपि सप्तम्यादिसङ्केतविकल्पाध्यवसितेन उपलक्षितः कार्यकारणभावः ।

स वस्तुद्वयस्य यत् स्वरूपं, तत एव मूलभूतादुत्थितः । निर्मूलत्वे हि तथा विकल्पो न नियमेन उल्लसेदिति निरूपयति न इति स्वरूपानीतत्वेन ।

एतत् परमतं दृष्टान्तदूषणोपक्रमं दूषयति एतत् इति अनियतावस्थानां घटपटादीनां येषां न नियतं पौर्वापर्यं, तेषामपि पौर्वापर्यं दिक्कालकृतं निर्मूलत्वेन विकल्पोत्थापितमिति सम्भाव्यं यत्, तदपि न उपपद्यते इति पूर्वं दर्शितं

क्रियासम्बन्ध—————————-। (२।२।१)

इतिप्रकरणे । कार्यकारणता इति नियतावस्थानां पौर्वापर्यरूपेत्यर्थः । नियततामेव स्पष्टयति यावत् इति नियतो योऽन्योन्यमवियोगस्तदेव रूपं यस्या अपेक्षायास्तच्छरीरसाररूपं यस्याः कार्यकारणतायाः ।

दिगादिसत्ताभावे नियतमपि पौर्वापर्यं न उपपद्यते, दिगादिच सम्बन्धप्राणितं, सम्बन्धश्च तादात्म्यपर्यवसान इति अपेक्षा अपि तादात्म्यरूपैव धूमाग्न्योरिति आशयशेषः । एतदेव स्पष्टयति तथाहि इति । तथैवच इति आत्ममात्रनिष्ठतया अन्यासम्पृक्तः प्रत्यक्षेणैव सिद्धः । एवम् इति वक्ष्यमाणेन

(पगे २२५)

प्रकारेण । एतौ इति अग्निधूमौ । एवम् इति उपादेयगमकरूपौ ।

अपेक्षाविरहेऽपि इति व्यतिरिक्तायामसम्भवन्त्यामपि अपेक्षायामित्यर्थः । परेण अपि एतदुपगतप्रायमित्याह तथाच इति हेतुरन्त्यदशापन्न आकृष्टकार्यरूप एव, कार्यमपि आकृष्टहेतुरूपमेवेत्यर्थः । अर्वाग्दर्शिभिस्तु तद्रूपं द्रष्टुं समर्थनापेक्ष इवशब्दः प्रयुक्तः । अत एव तत्कार्यं हेतुव्याप्त्यव्यतिरेकात् तत्स्वभावाविशिष्टमिति तदनुपलम्भः स्वभावानुपलम्भ एव उक्तः इत्यादिप्रदेशेषु उपचार आश्रितः, वस्तुतस्तु तावत्स्वभावतैव तस्य । एतदर्थमेव आर्यः स्वभावप्रतिबन्धे सति इत्यादौ स्वभावपदमवादीत् । भट्टेन अपि स्वभावप्रतिबन्ध एव प्रतिबन्धसिद्धौ समर्थितः । तत् इति हेतुरूपम् ।

परेण पुनरसमर्थनीयमेतदिति दर्शयिष्यति तेन इत्यादिना । एतत् सङ्क्षिपति सर्वथा इति । आभासविमर्शभेदेन उपलक्षितं यदर्थान्तरम्, तस्य बहिरैक्याभावेऽन्तःसमन्वयलक्षणमैक्यमस्ति एव, इतरथा न अपेक्षार्थः कश्चित् । तद्भवति इति अपेक्षणीयरूपं न भवतीत्यर्थः । पूर्वादि इति अपेक्ष्यम् इति वाक्यत्रये सङ्गमयितव्यम् ।

बाह्यदर्शने च बहिर्भेदः, प्रमातरि ऐक्यमित्येवम्भूतभावस्वरूपानङ्गीकरणादेतदापद्यते इति निरूपयति तेन इति स्याताम् इति नच एवं बहिर्दृश्यते इति आशयः । घट इति अनियते परस्परमित्यर्थः । साध्यतर इति नियमेन सहितोपलम्भेऽपि परस्परमकिञ्चिद्रूप एवेति यावत् । अग्निमात्रतैव धूमकारणतेत्यादि यदुक्तं, तदनुवदति दूषयितुं तस्मात् इति । किमपरम् इति अग्न्यादिरूपत्वादधिकं तत् न किञ्चिदिति शब्दगतमात्रमिदं भवेत् धूमकारण——————य इति च । परस्पर इति दण्डी

(पगे २२६)

विषाणीतिन्यायेन अन्योऽन्यरूपलग्नरूपतैव आपतति । सापिच न युक्ता स्वस्वरूपव्यवस्थितेः सर्वार्थानामिति ख्यापयति नच इति । तथा इति अन्योन्यलग्नतया न अग्निधूमयोरुपलम्भो निर्विकल्पकोऽनुभवः ।

ततश्च सर्वासु गतिषु क्षीणासु इदमापततीति कथयति अभिप्रायवशात् इति । तृषितो हि जललग्नतया न उपलभ्यते, जले च सापेक्षः । तत् हि तस्य संविदि अभिमुखीभावं प्रतिगतमिति । तथैव धूमस्य अग्नौ, तस्य अपि धूमेऽपेक्षा भवेत् । सा इति अभिप्रायकृता अपेक्षा । एवं यत् पूर्वमुपक्रान्तमेतच्च अभ्युपगम्य उक्तमिति, तत् निर्वाहितम् । ननु किमनेन अभ्युपगमेन, दूषणमेव सौत्रं वृत्तौ कस्मात् न दर्शितम् ।

दर्शितमेव तदिदं तु अतिप्रसङ्गापादनमधिकं दूषणमुक्तमिति दर्शयति इति इत्यादि । एतत् वस्तु वृत्तौ विवरीष्यते । कथं पूर्वस्य सामर्थ्यं परस्य सत्तेति । यस्मात् सामर्थ्यपक्षो भविष्यति तेन सह यदैकध्यमेकप्रकारत्वं तुल्ययोगक्षेमत्वं तेन हेतुना । एतदुक्तं भवति अस्मिन् इति यत् सूत्रे भावं सामर्थ्यं च परामृशति, तदेव इत्थं वृत्तौ दर्शितम्; केवलं पूर्वस्य रूपस्य अतिप्रसङ्गावहत्वोद्भावनया सामर्थ्यपक्ष उपक्षिप्तः प्रतिक्षेप्तुमिति । इत्थमेवच पूर्वमुपसंहरन्नुत्तरं पक्षमवतारयति एवम् इत्यादिना एतदाह इत्यन्तेन महावाक्येन ।

इमां कार्यकारणतां दोषद्वययुक्तां प्रतिपाद्य एतत् वस्तु आह ।

किं तत् । इयमपि कार्यकारणता न युक्ता उक्तहेतोरित्येतत् । नच सा उत्सूत्रा, अपितु सूत्रेण निर्दिष्टा,-इत्यतो हेतोर्वृत्तौ वर्तनीयत्वेन आश्रीयमाणा । अस्मिंश्च पक्षेऽतिप्रसङ्गो नास्तीत्यमुना हेतुना शङ्क्योऽयं पक्ष इति हिशब्देन सह आह कृत्तिका इत्यादि ।

नाभिव्यवस्थितध्रुवावबद्धमिदं नक्षत्रचक्रं युगपदवस्थितमपि नित्यमेव प्रवहदित्थं

(पगे २२७)

क्रमेण घटीयन्त्रमिव परिवर्तमानं दृश्यते परं, नतु क्रमेण उदेति । दर्शनस्य इव नियते पौर्वापर्ये भावस्वभावस्य किमायातमिति दर्शयति ननु इत्यादिना । अयमपि पक्षोऽतिप्रसङ्गावहः सामर्थ्यस्य दर्शनादर्शनगम्यत्वेन तुल्यकल्पनाकत्वादित्याशयेन आह यद्यपिच इति । कारणत्वं सामर्थ्यं कृत्तिकानां यद्यपि शङ्क्यं रोहिणीनां तु न कार्यत्वं धूमवत्, तत उद्गच्छत्स्वभावतालक्षणं शङ्क्यमिति चेत्; तत्र अपि उच्यते कार्यरूपतापि इति । नहि अङ्कुरो धूमवत् प्रसरणस्वभावोऽथच बीजात् क्रमेण प्रसृत उच्यते, तथा रोहिण्योऽपीतिभावः । प्रमाणान्तर इति प्रत्यक्षेण तत्सन्ताननिश्चयस्य उत्थापितत्वात् कृत्तिकाभ्य उदयरहितं दर्शनमेव क्रमिकमिति यो विशेष उक्तः, सोऽयुक्त इत्येतदाह न दर्शनमात्रम् इति ।

ननु पूर्वपूर्वदिनेषु अपि रोहिण्यो दृष्टाः । अथ धूमः किं पूर्वदिनेषु न दृष्टः । दृष्टो वह्न्यन्तरस्तु सन्निति चेत्, रोहिण्योऽपि दृष्टाः, नतु सामर्थ्यमस्ति, वह्न्यादौ तदस्तीति निर्निबन्धनो विभागः कथं श्रद्धीयेत । तदाह तथात्व इत्यादि । ननु एवं तुल्यत्वे कोऽस्य पूर्वस्मात् पक्षात् विशेषः । न कश्चिदेवेत्याह तथापि इति ज्योतिःशास्त्रप्रमाण्योपगममात्रमत्र पक्षेऽभ्युपगमबीजमिति आशयः । कारणादिमत्त्वम् इति आदिपदात्कार्यत्वम्, तथा पूर्वत्वपरत्वनियमादि अपि । ननु वृत्तौ स इति वक्तव्ये कथं तत् इति निर्देशः । आह परस्य इत्यादि । न अत्र कार्यकारणभावः परामृश्यते, अपितु तल्लक्षणत्वेन सम्मतो विशिष्टः सत्त्वभूतो वाक्यार्थ इतिभावः । तदपि इति उभयमपि यदविशेषेण सर्वत्र उचितं पौर्वापर्यम् ।

नियममात्रात् इति भावमात्रपौर्वापर्यरूपात् । स्वभावव्यापिनी

(पगे २२८)

इति सार्वत्रिकी । तथाहि स्वनिष्ठतालक्षणं स्वभावमौष्ण्यमिव शीतता परनिष्ठता विरुद्धा सती अपेक्षा कथं व्याप्नुयादिति एका तावदपेक्षा न युक्ता, द्वितीया अपि नतरामित्याह अभिप्राय इत्यादि ।

अन्यानुषङ्गिता इति परनिष्ठारूपा अनुसन्धानरूपा वा सप्तम्युत्थापिता । प्रतीतिमात्र इति धवश्च खदिरश्चेति धवो वा खदिरो वेत्यादौ हि प्रमातुरभिमानस्थितं परस्परं छिदादावपेक्ष्यमाणत्वं विकल्प्यमानत्वं वा स्फुरति, नतु वतुनो रूपं तत् किञ्चित् । तत एव अन्तःसंवेदनधर्मत्वात् चाद्यर्थो बाह्यप्रातिपदिकार्थवदुपचयादिधर्मा सङ्ख्यानधर्मा वा न युक्त इति अलिङ्गसङ्ख्यानमस्य । एवं सामर्थ्यपक्षे सप्तम्यर्थो विघटित इति गत्यन्तराभावात् परस्य यदुचितोपगममत्र, तत् अथ इत्यादिना इति इत्यन्तेन आशङ्कते । तस्य इति पूर्वस्य । ननु परस्य सत्ता कार्यत्वरूपा, सा ततोऽन्यस्य पूर्वस्य सामर्थ्यमिति कथमेतदुन्मीलति । इत्थमित्याह तस्य इति । यदा तावत् परो नास्ति, तदैव कर्य उच्यते; तदाच पूर्व एव अस्तीति तद्गतमेव सामर्थ्यं कार्यकारणभाव इति आपतति ।

असतो हि निःस्वरूपस्य स्वरूपोपरिवर्ती कथं कार्यतालक्षणोऽतिशयो भवेत् । जातस्य तर्हि भविष्यति । आह उत्पन्नस्य इति सत इति यावत् ।

उत्पत्तिरेवहि विमतिपदपतिता असतस्तावत्कार्यत्वमनुचितमिति अपिशब्दः ।

तस्य सतोऽपि स्वरूपेऽतिशयः कार्यतालक्षणः कारणसामर्थ्यादधिको न लभ्यते, तथा वह्नेः कार्योऽयं धूम इत्यत्रापि । अयमर्थः-वह्नेः सामर्थ्यं तत् यदयं धूमो भवतीति ।

तत्र भवतीति धूमस्वरूपं तस्य कार्यस्य च, वह्नेः सामर्थ्यं तच्च; तदेव पूर्णः कार्यकारणभावः । ननु धूमनिष्ठतैव अग्निकार्यता नाम युक्ता———नहि इति धूममात्रता या, सा एकाग्निकार्यता न युक्ता ।

(पगे २२९)

सा हि अग्निनिष्ठा भवति । ततश्च अग्निनिष्ठता अपि धूमे प्रतिपन्ने प्रतिपन्नैव स्यात् । ततश्च प्रमाणान्तरोपयाञ्चा स्यात् व्यामोहस्य अपसृत्यै क्षणिकत्व इव सेति चेदसिद्धमसिद्धेन साध्यते इति आयातम् ।

नहि भावस्वरूपे प्रतिपन्ने तदनतिरिक्तमप्रतिपन्नमिति युक्तम् ।

प्रतिपत्तौ कुतो व्यामोहः । धूमरूपतायामपि कुतो व्यामोहो भवेत् ।

ननु धूमस्य वह्निकार्यता स्वरूपं, ततश्च तामजहत् निःस्वभावोऽयं कथं भवेत् । मैवम् । सा तस्य स्वरूपमित्येतदेवहि विवेक्तुमुपक्रान्तं, नच निर्वहति । तदाह ततः इति । ननु यदि वह्नेरेव सामर्थ्यमुभयमपि, तर्हि कथं धूमो हि अत्र प्रतीतौ प्रविशति । क एवमाह प्रविशतीति । व्यवहारमात्रेण हि विकल्परूपेण अपेक्षात्मा सम्बन्धः परनिष्ठतालक्षणं वा परस्य रूपमध्यवसीयते ।

तदाह व्यवहारमात्रम् इति । इदमपि दूष्यते एतदपि इति । पूर्वा सत्ता यदि अवास्तवी धूमस्य, तदा तत्प्रयोजकत्वं नाम वह्नेरपि यत् सामर्थ्यं, तदवास्तवमेव स्यादिति कार्यकारणे नाम न केचन स्याताम्; अथ सा वास्तवी, तदा धूमस्य सत्ता या पूर्वा; सा अग्निसामर्थ्यादिति वचो घटोऽयं लोहितः, एतत्पटस्य शौक्ल्यमित्येतत्तुल्यं भवेत् । तदाह अन्यस्य इति ॥ १४ ॥

प्रतिज्ञामात्रं पूर्वसूत्रेण कृतं हेतुविषयम् अपेक्षाविहीनानाम् इति । तत्साधनाय हेतुस्तु सूत्रान्तरेण अभिधीयते

नहि स्वात्मैकनिष्ठानामनुसन्धानवर्जिनाम् । सदसत्तापदेऽप्येष सप्तम्यर्थः प्रकल्प्यते ॥ १५ ॥

वृत्तिविवृत्योस्तु एतदर्थोपजीवनं पूर्वसूत्रे कृतमेकवाक्यतादर्शनाय । तत्र प्रथमपादेन अन्योन्यलग्नतात्मिका अपेक्षा निवारिता, द्वितीयेन अभिप्रायकृता कार्यकारणयोरुभयोरन्यतरस्य वा

(पगे २३०)

सत्तायामसत्तायां चेति पक्षचतुष्टयेऽपि सम्भाव्यमानेऽपेक्षा न युक्तेति हेतुः पूर्वो न युज्यते इति अवान्तरेण उक्तं निगमयति पूर्वप्रतिज्ञाया हेत्वपदेशात् पुनर्वचनमेतदित्यर्थः ।

वाग्रहणमुत्तरापेक्षम् । सत्तायाम् इति बाह्ये रूपे, नतु द्वितीये वापेक्षा वैकल्पिके । द्वय्यामपिच अपेक्षायां विकल्पो जीवितम् ।

वह्न्यौष्ण्ययोर्हि व्यावृत्तिमात्रकल्पितो वैकल्पिको भेदः । यदिहि वह्निरिति भास्वररूपं स्वलक्षणमुच्यते, तदा तस्य स्पर्शस्वलक्षणं तुल्यहेतुकं भवदपि कथं स्वरूपं भवेत् । अत एव वस्तुतः एकधा इयमपेक्षा अनुसन्धानजीवितेत्याशयेन पूर्वसूत्रे जडानामित्येव उक्तम् । अनेनैव आशयेन अस्माभिः सूत्रविमर्शिन्यामेकरसत्वेनैव इदं सूत्रं व्याख्यातम्, इहतु यावद्गति विचारयितुमित्थं विभागेन अपेक्षा व्याख्याता । उभयी अपि नास्तीति प्रतिज्ञाय पूर्वस्यास्तावदसम्भवमुपपादयति यदि इत्यादिना नास्ति इत्यन्तेन ।

कार्यता इति बीजमेवहि तावदङ्कुर इति न ईदृगवभासः क्रमविचित्रो भाव इत्यपि उक्तम् । देशक्रमचित्रे चित्रपटे यथा भागशः कार्यकारणताकल्पनं कल्पनमेव, तथा कालक्रमचित्रेऽपि भवेदिति कार्यमेव न किञ्चिदिति कथं सत्कार्यसिद्धिः । तथाहि एकमेव देशकालक्रमचित्रं यत्, तदेव विश्वं स्यात् । भवतु इति प्राप्तकालातिसर्गलोटा भवदपि तत्कार्यमित्यर्थ उक्तः । एवम् इति कालभेदादेवेत्यर्थः । अन्यथा इति कारणस्य यदि कार्यनिष्ठमेव स्वरूपं, कार्यस्य च कारणनिष्ठम्, एवं यदि भवनस्वभावता अनयोस्तदा तदेवेति धूमासम्पृक्तेन वपुषा यत् वह्निरवलोक्यते धूमोऽपि वह्न्यसम्पृक्तेनेति, तदेतत् नियतरूपं न स्यात् । नहि शुद्धं तस्य रूपमस्ति वह्नेरिव औष्ण्यशून्यम् । तच्च इति अन्योन्यरूपतया भवनं यत् सम्भावितम् । ननु द्विप्रकारा अपि यदि

(पगे २३१)

अपेक्षा नास्ति, किमियता सप्तम्यर्थो न कल्पते इति शङ्कित्वा आह एवञ्च इति सप्तमी किमनर्थिका, ततः प्रातिपदिकार्थमात्रेणैव अर्थवती, किंवा प्रातिपदिकार्थातिरिक्तेन वैकल्पिकेन अर्थेन, आहोस्वित्प्रातिपदिकार्थातिरिक्तेन वस्तुभूतेन । तत्र त्रिषु पक्षेषु अनुक्तसमता वस्तुतः । चतुर्थं पक्षमाह उतस्वित् इति किञ्चिद्भूतम् इति वास्तवमकल्पितमित्यर्थः । तत्र नैरर्थक्यं निराकरोति तत्र इति ।

तावद्ग्रहणेन सर्वप्रसिद्धिविरोधोऽत्र हेतुः सिद्ध एवेत्याह ।

चतुर्थपक्षम् अथ इति सम्भाव्य दूषयति । तदेतत् इत्यादिना तद्विशिष्टं रूपं निर्दिशति विद्यमानम् इत्यन्तेन ।

प्रथमान्तादीतिपाठे आदिशब्दस्तिङां सङ्ग्रहाय । तदेतत् इति उक्तविशेषणविशिष्टम् । तावत् इति यत् किञ्चित् कर्मादिकारकशक्तिसम्बन्धतद्भेदरूपं तावदिति, तत् सर्वमपाकृतमुक्ताभिर्युक्तिभिः । ननु सर्वं कस्मादपाकृतम् । आह अर्थान्तरं प्रधानसम्मतमभिलष्यति अनुधावति न स्वात्मनि विश्राम्यति यदेतदेव रूपमन्योन्मुखत्वस्य । ननु द्वितीयादयो गुणविभक्तय उच्यन्ते, तत् प्रातिपदिकार्थस्य ताभिर्गुणभाव आधेयः, नतु अन्योन्मुखत्वमुच्यते, तदेवहि गुणभाव उच्यते । तदाह आसादितः प्रापित एतावन्मात्रलक्षणः स्वात्माविश्रान्त्यात्मको गुणभावो येन प्रातिपदिकार्थस्तत् । आसादिः प्रापणार्थो द्विकर्मकः । अनेन प्रधान इति गुणविभक्ति इति च वृत्तिर्विवृता । बीजे सति अङ्कुरो, बीजादङ्कुरो, बीजेन अङ्कुरोऽङ्कुरस्य बीजमित्येवम्प्रायः कार्यकारणभावो न युज्यते एवेति उपसंहरति सप्तमी इत्यादिना ॥ १५ ॥

एवं सौगतादिदृशि कार्यकारणभावो न उपपद्यते इति उपपाद्य स्वदर्शने तमुपपादयति

(पगे २३२)

अत एव विभक्त्यर्थः प्रमात्रेकसमाश्रयः । क्रियाकारकभावाख्यो युक्तो भावसमन्वयः ॥ १६ ॥

यतो जडानां न अपेक्षा, अत एव हेतोर्भावानां विभक्तिभिः सप्तमीपञ्चम्यादिभिरभिधेयो यः समन्वयः, स सति प्रमातरि तद्विश्रान्तिद्वारेण भवन् क्रियाकारकभावरूप एव प्रमाणोपपन्न इति सूत्रार्थः । तं सङ्क्षिप्य अवतारयन् अत एव इति सौत्रं व्याचिख्यासुः पूर्वोक्तं सर्वं हेतुतया उपजीवति यतश्च इति ।

वस्तुस्थिति इति धूमार्थी वह्निमादत्ते, धूमात्स प्रतीयते इति हि उक्तम् ।

भेदाभेदमयतां व्याचष्टे अन्योन्य इति अनुसन्धात्रेक इति हेतुद्वयेन । अन्येषाम् इति अकार्यकारणात्मनां स्वस्वाम्यादीनाम् ।

व्यपदेश्य इति व्यपदेशार्हः । कृषीवल इति चिद्रूपः ।

शृङ्गादित्यादावीश्वरश्चिद्-रूपः कृषीवलस्य अपिच ईश्वरः इति विशेषणम् ॥ १६ ॥

ननु बीजाङ्कुरादीनां स्वात्मैकनिष्ठत्वे मा भूदपेक्षा, साङ्ख्यसम्मते तु परस्परात्मकत्वे को दोष इत्याशङ्क्य

परस्परस्वभावत्वे कार्यकारणयोरपि । एकत्वमेव भेदे हि नैवान्योन्यस्वरूपता ॥ १७ ॥

सूत्रेण एतत् प्रत्यक्षबाधितं तावत् प्रकृतं च कार्यादिवादं बाधते इत्याह । स्पष्टमन्यत् ॥ १७ ॥

एकमेव क्रमविचित्रस्वभावं वस्तु । तस्य स्वभाववर्गस्य मध्ये पूर्वः स्वभावः कारणमुत्तरः कार्यमिति साङ्ख्यदृशि शुष्क एव कार्यकारणभावः । न शुष्कस्तत्रापि क्रियाकारकभावस्यैव प्रथनादित्याह सूत्रेण

एकात्मनो विभेदश्च क्रिया कालक्रमानुगा । तथा स्यात्कर्तृता वैवं तथापरिणमत्तया ॥ १८ ॥

तत एव अमी सुखाद्या विचित्रवैषम्यभाजस्तदेव इदं बीजमात्मातिशयाद्यङ्कुरावस्थापर्यन्तीभूतमिति

(पगे २३३)

प्रत्यक्षानुमानागमाद्यन्यतममानप्रत्यभिज्ञानबलेन यदेकात्म सङ्कुचितदृशा बीजं, विततदृष्ट्या वा प्रधानम्, तस्य एकाश्रयस्य य आभासानाभासोत्थापितक्रमात्मककालविभागानुगृहीतः स्वभावभेदः, इयमेव सा परिणमनलक्षणा क्रिया पूर्वस्य स्वभावस्य परित्यागेन अनुविवृत्सितस्य परिवर्जनेन अपहानेन उत्तरे स्वभावान्तरे नमनं प्रह्वता औत्सुक्यमिति । ततश्च तद्वतस्तस्य प्रधानबीजादेः शुष्करूपसम्मतस्य अपि हानादानादौ न अनुवर्तनलक्षणपरिणमनक्रियावेशस्वातन्त्र्यात् कर्तृत्वमेव भवेदिति सूत्रार्थः । एनमवतारयति त्रिगुणात्मनः इति सुखदुःखमोहरूपस्य समन्वयबलेन प्रत्यभिज्ञायमानत्वादवस्थितस्य नित्यस्य अभिन्नस्वावस्थाकस्य निःशेषोत्तरदशोपादानभूतस्य वा । महत् इति बुद्धिः ।

पृथिवीपर्यन्ता इति समस्तसुसूक्ष्मव्यूहविभवपर्यन्तेति यावत् ।

बीजस्य वा इति लोकदृष्ट्या । अङ्कुरपर्यन्ता इति सजातीयपरिणामाद्यतिशयप्रमुखेति आशयः । परिणमने क्रियालक्षणे पूर्वोक्तं योजयति क्रिया हि इति गुणस्वाभाव्यात् इति च ।

गुणवृत्तम् इति विविधवैषम्यात्मकविश्वरूपतासहत्वात् केवलं नहि चित्रीभवति नीलमिव, सत्त्वतमसी तु परस्परविभिन्ने रजसा चञ्चलेन विचित्रेण चित्रतया अन्योन्याभिभवादिविचित्रभावेन परिणामसहस्राणि नीयेते । तत उचितं वैश्वरूप्यम् । तदुच्यते नामिश्रं परिणमति इति व्यतिरेकेण । पुरुषार्थत्वेन इति भोग्यरूपत्वेन । दृश्यं प्रधानमविवेकेन दर्शनं भोग्यापरपर्यायं, विवेकेन च दर्शनं कैवल्यकारणतया मोक्षव्यपदेश्यं पुरुषस्य द्रष्टृशक्तिं कृतार्थां विदधत् पुरुषार्थमिति उच्यते, तथापरिणमत् इतीयता परमतानुवादः । शिष्टं स्वदर्शने पातनमस्य उपगम्यम् । अस्य व्यक्तस्य इति महदादेः ॥ १८ ॥

(पगे २३४)

ननु इयता उक्तेन प्रधानस्य कर्तृत्वं समर्थितं भवेत्, न चिद्रूपस्य; तच्च न अनिष्टं परस्येत्याशङ्क्य सूत्रं

नच युक्तं जडस्यैवं भेदाभेदविरोधतः । आभासभेदादेकत्र चिदात्मनि तु युज्यते ॥ १९ ॥

एवम् इति अभिन्नरूपस्य धर्मिणः प्रवहद्धर्मभेदसम्भेदन-स्वातन्त्र्यात्मकं परिणमनक्रियाकर्तृत्वं यत् निरूपितम्, तत् प्रधानादेर्न युक्तं जडत्वात् । जडो हि परिनिष्ठितनिजरूपः प्रमेयत्वात् तदसावित्यपेक्षया भिन्न इव व्यवस्थाप्यो नील इव अनीलापेक्षया, स्वापेक्षया तु अभिन्न एव, नतु स एव स्वभावो भिन्नश्च अभिन्नश्च विरोधात् ।

स्वभावान्तरत्वे कथमेकत्वं

भेदाभेदव्यवस्थैवमुत्सन्ना—————-।

इतिन्यायात् । तस्मात् जडमनेकरूपं न भवति प्रमेयत्वात् नीलादिवदिति अनेकविरुद्धमेकत्वं, तेन व्याप्तं प्रमेयत्वं, परिनिष्ठितरूपतया व्यवस्थापनीयत्वं प्रमेयत्वमिति विरुद्धव्याप्तोपलब्धिः ।

चिदात्मनः पुनः प्रमेयदशानापन्नस्य दर्पणस्य इव स्वच्छस्य स्वतन्त्रस्य च चित्रसंवेदनस्य इव प्रतिबिम्बभूत आभासवर्गो भिन्न एकस्य अपि न्यायेन घटते इति सुत्रार्थः । एनमवतारयति प्राक्तनमुपसंहरन् एवम् इत्यादिना । शुष्कः कर्तृतात्मस्वातन्त्र्यलक्षणोभयमेलनात्मकरसशून्यः । एषा तावदुपद्यते हेतुता, सापितु परदृशि न युज्यते इति अपिः । अत एव इति यतो जडत्वानुपपत्तौ हेतुस्ततस्तद्विरुद्धमजडत्वमुपपत्तौ हेतुरिति अयत्नसिद्धम् । ननु हस्तिपर्वतादीनि किमिति तत्र एकतां न विरुन्ध्युः ।

विरुन्ध्युर्यदि तानि कानिचित् स्वरूपेण भवेयुः । नच एवम् । दर्पण एवहि तानि । तदाह नहि इति । स्वातन्त्र्यविहीनेऽपि स्वच्छतामात्रस्य अयं महिमेति अपिः । नच इति भवदपि एतत्

(पगे २३५)

न अस्माकं पक्षं बाधते । मूलत एवच इदं न उपपद्यते इति उभयथा यदुपक्रान्तं नच भेदेऽपि इति, तत् क्रमेण विभजति भ्रान्त्यापि इत्यादिना नच भ्रान्तिः इत्यादिना च । तावन्मात्रम् इति तथाप्रथनम् । तदेव स्पष्टयति एकम् इत्यादिना । ननु आदर्श इव मृत्पिण्डोऽपि अनेकतया भासताम् । अत्र आह नच इति । अस्वच्छे हि प्रतिबिम्बानेकता विचित्रप्रतिबिम्बधारित्वरूपा हीयते प्रमाणेन न उपपद्यते । अस्वच्छश्च घटशरावाद्यपेक्षया मृत्पिण्ड इति एकः सन्नसौ न अनेको भवति । अथ स्वच्छमेव किञ्चित् घटादि प्रतिबिम्बानेकयोगि भण्येत, तर्हि परिणामवादोऽयं न भवति परिणामवादे परिणामानां पृथगेव वस्तुतोपगमात् । नचापि स्वच्छमिति तु पाठेऽयमर्थः-स्वच्छमपि वस्तु प्रतिबिम्बानेकत्वं हित्वा प्रकारान्तरेण एकं सदनेकं न युज्यते, प्रकृते तु प्रकारे परिणामवादो हीयते बाधकाभावात् इति सर्वसंवादित्वेन विमर्शानुन्मूलनादिति यावत् । ननु सामान्यावयव्यादौ सर्वानुभवसंवादेऽपि यौक्तिको बाधः, तद्वत् प्रकृतेऽपि स्यादित्याशङ्कां शमयति एकस्य इत्यादिना । सामान्यादेरपिहि सर्वसाधारणाभासविषयस्य विमर्शस्य उन्मूलनं न किञ्चिदिति विचारितचरमेव । तथानुभवेनैव इति सार्वत्रिकेन सदातनेन चेति यावत् । ननु एवं प्रधानस्य परिपेलवतमगुणगणरूपस्य स्वच्छस्य जडस्य अपि आदर्शस्य इव न प्रतिबिम्बरूपं भविष्यति महदादि ।

सत्यम्, दर्शनक्षतिस्तु साङ्ख्यस्येत्याशयेन तद्दर्शनमाह जडस्य तु इति । वस्तुसत्ताः इति नतु प्रधानमात्रैकपरमार्थतया अन्योन्यमकिञ्चिद्रूपाः । एतदेव आह नतु इति । परिणामवादे अविद्याकृता सत्ता न इष्यते यथा ब्रह्मदर्शने । ननु अविद्या तुच्छरूपा, सा कथं सत्तां कुर्यात् । आह

(पगे २३६)

उपप्लवरूपा सा सत्ता तुच्छैवेति यावत्, यदिवा अविद्याकृतसत्तायामपि वास्तव्यामुपप्लवात्मकं तुच्छं रूपं येषां, ते तादृशा न इष्यन्ते साङ्ख्यैरिति समस्तपदं पूर्वेण सम्बन्धनीयम् । तस्मात् यदुच्यते

गुणानां परमं न दृष्टिपथमृच्छति । यत्तु दृष्टिपथप्राप्तं तन्मायेव सुतुच्छकम् ॥

इति, तत् प्रधानब्रह्मवादे, नतु प्रधानपरिणामवादे इति मन्तव्यम् ।

एतदेव घटयति अयमेव इति । हि इति यत एवं, ततो युक्तमस्माभिर्विभक्तम् । नच एतत् स्वबुद्धिकल्पनामात्रं यस्मात् परिणामवादे धर्मिणां धर्मरूपता, धर्माणां धर्मिरूपता अङ्गीकृतैव । तथाच इति धर्मधर्मिरूपतया । एवं परिणामवृत्तान्तं प्रदर्श्य विवर्तवृत्तान्तं परोपगतमाह ब्रह्मणस्तु इति । एकस्य इति तत्त्वादप्रच्युतस्य इत्यपि एकत्वेनैव आक्षिप्तमिति पृथङ्म?लिखितम् । भेदानुकारेण इति तु असत्यविभक्तताभिधानेनैव स्वीकृतम् । एकस्य विभक्तरूपग्राहिता मृत्कूटस्य शरावादिरूपग्रहणेन कूटरूपतत्त्वे च्यावस्तु असत्यरूपग्रहणेन परिणामवादात् भेद उक्तः । असत्यविभक्तरूपतेति उक्ते अविभक्तरूपतैव शङ्क्येत रज्जोरिव स्रक्सर्पाद्यवभास इति अन्यपदम् । ननु तानि चेदसत्यानि रूपाणि, कथं ब्रह्मणोऽन्यानीति का विभक्तता; अथ ब्रह्मणोऽनन्यानि, तर्हि भवति विभक्तत्वमसत्यता तु कुतः । अत्र आह चिदात्मनो ब्रह्मतत्त्वात् इति विशेषणेन अनपह्नवनीयतां प्रकाशस्य दर्शयति अस्य इति ब्रह्मणः ।

सर्वप्रवादेषु अविचारितचारुत्वमेव अविद्यायास्तत्त्वं विचारस्य विद्यारूपस्य प्रकाशस्य इव तमस्तत्त्वेऽविद्यासतत्त्वे निरूप्येऽवकाशायोगात् । इयता परिणामवादे तावत् न सत्यत्वमिति उपपादितम् ।

(पगे २३७)

ननु मा भूदसौ, प्रधानब्रह्मवादस्तु भविष्यति यथा उच्यते श्रुत्यन्तेषु । एतत् न सहते तत्र इति जडस्य प्रमेयरूपस्य विरुद्धधर्मयोगेन ऐक्यानुपपत्तिर्हि वितत्य उक्ता

भेदाभेदव्यवस्थैवमुत्सन्ना—————-।

इति । ततो जडब्रह्मवादो न युक्तः, संविद्ब्रह्मवादस्तु उपपन्नः स्वदर्शन इति आवर्तयति चिदात्मनि इति ।

अपरिच्छिन्नप्रकाशस्वातन्त्र्यमेव चिल्लक्षणम् । एषाम् इति भावानाम् ।

ननु च अविद्यारूपत्वं चिद्ब्रह्मणि इव जडब्रह्मणि अपि समस्तोपालम्भसम्भारभञ्जनब्रह्मास्त्रं भविष्यति । मैवम् ।

संविदो हि स्वातन्त्र्यादतिदुर्घटकारित्वं नाम या शक्तिरपूर्णख्यातिपरमार्थामख्यातिं प्रकाशधामनि खण्डनारूपनञर्थोल्लेखनावेदनस्वभावामुल्लासयन्ती, सैव मायाभिधाना अविद्यासमुत्थापकत्वादविद्येति उच्यताम् ; नतु जडस्य इयमस्ति । तत्सद्भावे हि किं जाड्यं नाम । पूर्णमेवहि अजाड्यमदः ।

अत्र इति ब्रह्माद्वये । आदिशब्देन भगवति शक्तिसञ्चयगणनमशक्यमिति दर्शयन्नेतदाह अस्मद्दर्शनानभ्युपगमे ब्रह्मविवर्तवादो जडविवर्तवाद एव । तत्र च अविद्या अपि विवर्ततत्त्वोपपादिका न समर्थयितुं शक्येति वितानितं श्रीशिवदृष्टौ । तदेतदुक्तं यदि इत्यादिना स्यात् इत्यन्तेन ।

परमशिवरूपत्वादि परापरमध्यमपरपर्यन्तं यत् संविदः सतत्त्वं, न तत् वेदान्तवादिनां स्पष्टेन पथा दृश्यते पारमेश्वराद्वयसंवलने तु स्यादिति आशयः । अथ यदुक्तं, चिदात्मनोऽत्यन्तनिर्मलत्वात्प्रतिबिम्बन्यायेन इति तत्र पराशङ्कां व्यपोहति नच इति । इति च न शक्यं वक्तमिति सम्बन्धः ।

हेतुमाह अस्ति तावत् इति स्वच्छस्य वस्तुनः स्वविलक्षणं रूपमादर्शयतोऽपि स्वच्छरूपस्य अनुपाधिकत्वमिति हि आवेदिते

(पगे २३८)

स्वच्छत्वस्य अयं प्रभाव उक्तो भवति, नतु प्रतिबिम्बतायाः प्रतिबिम्बादिरूपस्य स्वयमसारत्वात् ; असारस्य च का प्रभावचर्चेति सारस्वच्छप्रभाव एव अयं वर्णनीयः । तत्तु स्वविलक्षणं रूपं यदन्यत्, तत्सादृश्यमपेक्ष्य आदर्शनीयम्; तदा प्रतिबिम्बव्यवहारः, समर्पकान्तराभावे तु निर्मेयव्यवहारः । अत एव प्रतिबिम्बत्वेनेति न उक्तमपितु प्रतिबिम्बन्यायेनेति । तदाह तत्र तु इति आदर्शे सप्तम्यर्थोपक्रमेऽपि च । चित्तत्त्वस्य इति षष्ठ्या यदाकृतिभेदनं, तदैश्वर्यशक्तिसम्बन्धितां प्रकृतप्रमेयरूपां निर्वाहयितुम् । ननु एवं प्रधानमपि आदर्शकल्पं भवत् महदादिप्रतिबिम्बचित्रितं भविष्यति । न एतदित्याह एकस्य इति अत्यक्तस्वभावस्येत्यर्थः । एष्टव्य इति अन्यथाहि न परिणामवादो भवेत् । विवर्त एवहि तदा स्यात्, सोऽपिवा अयुक्तः समर्पकान्तराभावे प्रतिबिम्बत्वायोगात् जाड्येन च निर्माणसामर्थ्ये निर्मेयत्वायोगात् । ननु स्वच्छ आदर्शः किं पर्वतादिरूपो भवति, उत तथा भासते । उभयथा अपि अदोष इत्याह स्वच्छस्य तु इति । ननु स्वनिष्ठता कथं युक्ता विरुद्धधर्माध्यासापत्तेरपरिहारात् । विरुद्धत एव न काचिदित्याह तथादृष्टत्वादेव इति । ननु एवम् आभासभेदात् इति सूत्रे चिदात्मनि इति च किमर्थमुक्तं स्वनिष्ठोऽपि हि स्वच्छस्य जडस्य अपि च सम्भवत्येव भेद इत्याशङ्क्य आह स च यथा इति येन प्रकारेण तथादृष्टत्वलक्षणेन सोऽविरुद्धीक्रियते भेदस्तेन प्रकारेण फलत आभासनिष्ठतायां विश्राम्यति दर्शनस्य प्रमातृव्यापारत्वेन आभासविश्रान्तत्वात् ।

अगृहीतपुरपर्वतादिप्रतिबिम्बसहस्रसम्भेदिनोऽपि हि आदर्शस्य आभाससारमेव तत्त्वतो वपुः । आभासो दृश्यते हि अत्रेति हि आदर्शः ।

ननु एवं प्रतिबिम्बग्रहणे जडस्य विरोधात् चिदात्मन

(पगे २३९)

एव एकस्य भेदेन स्थितिरित्येतत् युज्यते, जडस्य तु एवमयुक्तम्; अभिन्नस्य भेदस्थितिर्हि विरुद्धेति वृत्तौ किमिति प्रतिबिम्बधारणं दर्शितम् । किञ्च निर्मेयता चिदपेक्षया भावानां, न प्रतिबिम्बतेति । अत्र आह प्रतिबिम्ब इति । दृष्टान्ताशयेन एतदुक्तमिति यावत्, अथवा यद्विना यत् नीरूपमपृथग्भूतमपि पृथग्भूततया इव निर्भासते, तत् तत्र प्रतिबिम्बमिति प्रतिबिम्बसामान्यलक्षणं चिदपेक्षया अस्ति भावानाम् । नच आदर्शोऽपि नाम स्वतन्त्रः कश्चित् जडः । सोऽपिहि तथाभासनपर-मार्थ एवेति जडस्य असम्भव एव प्रतिबिम्बादिति आशयोऽत्रटीकायां वर्णनीयः । अथ बाह्यार्थवादिनो मतं निराकरोति आशङ्कमानः नच इति इतिशब्दान्तमेतत् यदाचार्यधर्मोत्तरादिभिरुक्तम्, तत् न वचनार्हं यत एवमित्यत्र ग्रन्थेन सम्बन्धः । किं तैरुक्तम् । आह यद्यपि इत्यादि अर्थस्य इत्यन्तम् । यद्यपि इत्यादिना अनुपपत्तेः इत्यन्तेन विज्ञानमात्रवादिसम्मतं यदनुमानं-यत् प्रकाशते, तत् प्रकाशादभिन्नमिति, तदनुभाषते ।

अत्रैव प्रयोगे हेतुसाम्ययोर्विरोधं दर्शयितुं तमाह तथापि इत्यादिना । प्रकाशते हि नीलं, नीलतैवच संविद्रूपादहन्तालक्षणात् प्रकाशात् भिन्नता स्वप्रकाशरूपता च । ततश्च अहम्प्रकाशादभिन्नं नीलमिति नीलं न किञ्चित् भवेत् । ननु एवमेतत्, नीलस्य हि संविदेव परमार्थः । एतत् परिहरति चिन्मात्र इत्यादिना । यत् न भाति यस्य रूपं, तत् तस्य परमार्थ इति महती इयं माया । ननु यथा पर्वतस्य दर्पण एव तत्त्वतो रूपं, तथा नीलस्य अपि संविदिति परमतं पराकर्तुं दृष्टान्तमेव अपनुदति दर्पण इत्यादिना ।

स्वदेशगत एव हस्ती दर्पणे रूपसन्निवेशमात्रेण सङ्क्रान्तः, स्वदेशगतात् वा हस्तिनोऽन्यरूप एव सन्निवेशमात्रात् स हस्ती तथाभूत

(पगे २४०)

एव जातः इति न अस्य दर्पणरूपता सत्त्वम् । ननु रूपम्————— कथं मिश्रीभवेत् सप्रतिघधर्मत्वात् तस्य । अत्र आह नहि इति । तत्र तद्दर्शनमिति हि यदि निष्प्रतिघत्वं, तदालोकरूपेऽपि तदन्तर्गतघटादिसहस्रे समस्ति; एकतापत्तिस्तु न हस्तिदर्पणरूपयोरपि अत्र घटरूपयोरिवेति समानम् । ननु आदर्श एव अयमित्थम्भूत इत्यस्ति प्रतिपत्तिः । अत्र आह भ्रान्तिरेवहि इति । एषेति घटस्य दर्पणात्मता भ्रमज्ञानोपकल्पिता, नतु तत्त्वम् । ननु एवं नीलस्य कथं प्रकाशमानता ज्ञानस्यैव प्रकाशधर्मत्वादित्याशङ्कां व्यपोहति ज्ञानस्य चैवम् इति । न खलु नीलं प्रकाशते, ज्ञानमेवतु आत्मना प्रकाशमानमनात्मना अपि प्रकाशते इति नीलप्रकाशरूप- ज्ञानप्रकाश एव नीलप्रकाश इत्येतदायातमङ्गीकार्यमेव । कुत आयातम् । आह अर्थादर्थावभासनस्य अनिह्नवनीलमयत्वात् ज्ञानलक्षणस्य च अर्थस्य अनादिसिद्धैवम्भूतस्वभावत्वात् । ननु आत्मानात्मनोर्विरोधात् कथं तदुभयप्रकाशमनेकस्य रूपं भवेत्, अर्थश्च अणुस्थूलात्मा षट्कयोगरक्तारक्तादिदोषदुष्ट इति । अत्र आह अत्रैव इति उभयरूपत्वसमर्थने संवेदनस्य अवसायग्रहणेन इदमाह-वस्तुतोऽत्र बाधोऽसम्भवत्वादेव परिहृतो वस्तुनः सङ्कुचितात्मनो देशतः कालतश्च अणुरूपस्य क्षणिकस्य विरोधाभावात् ज्ञानस्य च अनादिसिद्धतया स्वभावत्वात्, केवलं तथा निश्चेतुमशक्ताः परैः शुष्कतर्ककर्कशैरसन्न्यायैर्जीयन्ते इति ।

अस्य इति ज्ञानस्वभावस्य प्रतिभासमानस्य च बाह्यस्य अबाधितसंवेदनसाक्षिकस्य उल्लङ्घने स्वच्छन्दवादित्वमापद्येतेति विताननार्थिना बाह्यार्थसिद्धिग्रन्थोऽत्र स्मर्तव्यः । एतत् नेति यदुक्तं, तत्र हेतुमाह यतः इति । अनेन च दृष्टान्तसमर्थनेन स्वच्छस्य विलक्षणरूपान्तरावभाससामर्थ्येन व्याप्तिरुक्ता ।

तथैव इति दर्पणान्तरावस्थानेन ।

(पगे २४१)

भवतैव इति प्रतीतिसिद्धं न अपह्नवनीयमिति वदतेति अयमाशयः ।

ततः इति एवमभिधानात् । देशान्तरस्थ इति यः सत्यसम्मतो हस्ती, स एव तावदसौ न ततो देशभेदेन अवभासात्, तत एव स प्रतिसङ्क्रान्त इति निस्तत्त्वं भाषामात्रमदः, नापि हस्त्यन्तरवत् तज्जातीयो दर्पणपारतन्त्र्यावभासननियमाभावप्रसङ्गात् । तदाह तथाप्रकाशनाभावात् इति । यदपि उक्तमन्य एवायमिति, तदपि अपनुदति आदर्शाभ्यन्तरे इति । रूपैकतत्त्वो हस्ती स्वतन्त्रस्तावत् न भवति दर्पणदेशत्यागेन अनवभासात् । गृहाभ्यन्तर इव दर्पणाभ्यन्तरे भातीति चेत्, आह आदर्शरूपेण इति । निबिडं हि रूपमादर्शस्य, तत्र कथमस्य प्रवेशो भवेत्, तत्परमाणूनां वा सान्तरव्यन्तरतायां दर्पणपर्वतसन्निवेशद्वयमेव न भायात्, आलोकरूपापसारणेनैवच घटादिरूपाणि दृश्यन्ते, नतु तद्देशमात्ररूपाणि । एतच्च पिशाचटीकायां (१।७।११) वितत्य विचारितमेव । प्रतीत्यनपह्नववादिनश्च इदमापततीत्याह तच्च इति ।

दृश्यते इति । नच तथेतिभावार्थः । तमेव हेतुत्वेन निर्दिशति तत् इति ।

अन्यत्र इति आदर्शस्य मध्ये पृष्ठे पश्चाद्भागे स्वतन्त्रे देशान्तरे वा । ननु अभ्रान्तिप्रतीतिसिद्धं न अपह्नवनीयं, भ्रान्ता च इयमादर्शेऽद्रिप्रतीतिरित्याशङ्क्य भ्रान्ततां निराकर्तुं ताद्रूप्यं तावत् परिघटयति पीतमेव इति । वैधर्म्येण दृष्टान्तोऽयमतिरोधानापेक्षया, यदिवा प्रमात्रन्तराणां शुक्लरूपमपि स्फुरत्येवेति साधर्म्येणैव कथं न आदर्शरूपं स्यादितित्येतदपेक्षया तु मुख्यत्वेन साधर्म्यदृष्टान्तः । पीतरूपस्य हि यथा शुक्लरूपपरमार्थत्वमेव इष्यते शुक्लरूपेणैव ज्ञानजनकत्वात्, तथैव पर्वतरूपस्य आदर्शरूपपरमार्थतैव युक्तेति पीतरूपस्य तु असत्यतेति

(पगे २४२)

अन्यदेतत् । नेत्याह तत्रैवच इति पीतशङ्खादौ, नतु दर्पणपर्वतादावितरस्य शुक्लरूपस्य परमार्थसतोऽपि अप्रख्यानात् ।

अख्यातिरेवच अपूर्णख्यातिमयी भ्रान्तेस्तत्त्वमिति उपपादितमेव, प्रकृते तु न अख्यातिः काचिदिति दर्शयति उभयोरपि इति दर्पणपर्वतयोः ।

तेनैव इति द्वयप्रकाशेन एवमवस्थाप्यते दर्पणरूपं पर्वतरूपानाक्रमणेन अपि, पर्वतरूपं दर्पणरूपानाक्रमणेनेति, पीतशङ्खादौ तु नैवमित्याह नहि इति ।

पीतावरुद्धं शुक्लं, शुक्लाकाराक्रमणेन च पीतमिति न व्यवस्थापयितुं शक्यं कामलावतां शुक्लस्य अवेदनादितरेण च पीतस्य । ननु दर्पणोऽल्पदेशोऽल्पपरिमाणश्च, तद्विपरीतस्तु पर्वत इति देशेन परिमाणेन च विरोधात् कथमन्योन्यरूपतालक्षणो विरोधः ।

यदाह

विरुद्धपरिमाणेषु वज्रादर्शतलादिषु । पर्वतादिसरूपाणां भावानां नास्ति सम्भवः ॥

इति । एतत् निराकरोति देशपरिमाणविरोध एव नास्तीति वदन् विततमपि इत्यादिना । तस्य देशादेः इति पर्वतदेशस्य पर्वतपरिमाणस्य च दर्पणदेशपरिमाणोल्लङ्घनेन प्रसरणं यतो नास्ति । ननु अप्रसरणं चेत्, भ्रान्तत्वमस्तु पीतस्य इव शुक्लोल्लङ्घनेन अप्रसरतः ।

अत्र उच्यते अतिरोधनाच्च इति पीतेन तु शुक्लं तिरोधीयते एव यतो न ख्यातिः । ननु पर्वत आदर्शसतत्त्वमिति अतिदन्तुरमेतत् । न काचिदत्र दन्तुरतेत्याह तथाभूतस्य च इति अविरुद्धदेशपरिमाणस्य वस्तुनः इति अभ्रान्तस्य अदर्शनमात्रसारत्वमवलम्ब्य सिद्धिर्यतः । नच सा असम्भविनीत्याह सम्भवित्वेन इति इत्थम्भूततृतीया । तत्र हेतुः तथाप्रकाशसामर्थ्यात् इति । एतदेव स्फुटयति विरुद्ध इति आपाते यद्यपि विरोधोऽवकल्प्यते, तथापि न

(पगे २४३)

असौ विरोध इति । तदाह तथाप्रथनादेव सन् इति । ननु आपाद्यमानो विरोधो विरुध्यते कथम् । इत्थमित्याह विरुद्धत्व इत्यादि । एतदेव हि आदर्शस्य स्वच्छस्वभावत्वं सुस्पष्टमभिष्टुवते निष्टङ्कयतो भावतत्त्वम् । ननु भ्रममात्रमेतदुच्यते, किमत्र यत्नेन वस्तुत्वसमर्थनायामित्याशङ्क्य आह ननु इति । इहच उभयपूर्णप्रख्यायां स्वच्छरूपैवंविधताप्रख्यायां च न काचिदख्यातिरिति भावशेषः । ननु परस्पराविरोधे पर्वततत्त्वं दर्पणरूपमित्यपि न कस्मात्, ततश्च नीलादिपरमार्थं चित्तत्त्वमिति आपतेत् नीलादेः परमार्थत्वम् । एतत्पराणुदति पर्वतादि इति पर्वतादिविरहेण अपि शुद्धस्वच्छतया भावात् तथैवच अर्थक्रियाकरणात् चित्तत्त्वस्य अयमेव विधिरनुसर्तव्यः । नौ दर्पणाकारावरोधित्वे समर्थितेऽपि दर्पणैकरूपत्वं कथं स्यात्, असद्वा कथं न भवेदिति भ्रमं भनक्ति नचापि इति नच न दर्पणरूपं, नच असदिति शक्यं वक्तुमिति । अत्र हेतुः दर्पणाकारस्य अवरोधेन परमार्थतोऽवष्टम्बनेन भासमानमपि इति । ननु एवम्भूतमपि तथा उच्यताम् । आह दर्पणस्येव इति । एतदेव स्पष्टयति तस्य इति अद्रिरूपस्य । तस्मात् इति आदर्शात् । उपपत्त्या विचार्यमाणं प्रकाशमानमपि यदि न उपपद्यते, तदस्य भवतु असत्तेति यो ब्रूयात्; तं प्रत्याययति नैर्मल्यमपि इति । एतदेवहि तत् निर्मलत्वं यत् स्वात्मानतिरिक्तस्य अपि अतिरिक्तस्य इव अवभासनम् । विच्छेदेन इति इदन्तया । एवञ्च इति विच्छेदावभासेऽपि । अस्माभिः इति वयं हि प्रकाशैकसारं सर्वमर्थजातमाचक्ष्महे । तत्रापितु मायाशक्तिवशात् यथैव नीलादयो बाह्यीकृता नाम भावास्तथैव दर्पणपर्वतोऽपीति ब्रूमः । विज्ञानवादिनोऽपि

(पगे २४४)

न स्वसंवेदनांशेन असौ निर्भासते, अपितु नीलादिवदेवेति विज्ञानमात्रतया तस्य उक्तया न आस्माकीनप्रकृतदृष्टान्तताविघटनं किञ्चित् । अधुना उक्तमर्थं सङ्कलय्य ब्रूते एवम् इत्यादिना, प्रकृतं तु भ्रान्तेर्वैलक्षण्यं दर्शयति पीत इति शुक्लशङ्खावभासनिरपेक्षतैव स्वातन्त्र्यमिति दर्शयति नच इति भ्रान्त इति पीतशङ्ख इति सम्बन्धः । एतत् प्रकृते उपयोजयति नतु इति । आदर्शत इति आभासते हि सः, नतु शुक्लकम्बुवत् न आभातीत्यत्र वै भरः । एवं दृष्टान्तं घटयित्वा दार्ष्टान्तिके योजयति तत् इति तस्मात् परिघटितोऽयं दृष्टान्तस्तस्मात् हेतोः । इत्थम् इति दार्ष्टान्तिके साम्यापादनम् । ननु चिद्रूपाभेदेन प्रकाशनमसिद्धमहम्भावबहिष्कारेण नीलादीनां प्रत्ययादित्याशङ्क्य आह मायाप्रमातुः इति षष्ठी अवभासत इत्येतदपेक्षया, तदाच चित्स्वरूपात् इति पारमेश्वरादिति मन्तव्यम्; पञ्चमी वा सामानाधिकरण्येन, तदा अयमर्थः-सङ्कोचभागपि यः प्रमाता अहमिति, तस्य योऽचिदंशस्तत एव नीलादयो भेदेन भान्ति; नतु चिदंशादिति यत् शरीरशून्यादेः प्रमातृत्वेन उत्थानमयमसौ प्रथममेव मायाशक्तिव्यापारकृतो भ्रम इत्यतो हेतोः । एतत् इति ।

तद्व्यतिरेकेन यत् प्रथनं नीलादीनां, तदपेक्षया च अहम्भावबाह्यत्वं; तदस्तु नानङ्गीकृतमेतदित्यर्थः । सच भ्रमोनाट्यतुल्यस्य अपरमार्थसतोऽत्यक्तस्वरूपावष्टम्भननटकल्पेन परमेश्वरप्रकाशेन प्रतीतिगोचरीकृतस्य संसारस्य नायकः सूत्रधारः प्रधानभूतः प्रवर्तयिता इतिवृत्ते नायको वा, यल्लग्नं विश्वेतिवृत्तमाभाति; तत एव प्रथमः । ननु जडस्य यत् प्रमात्रीकरणमयमेव कस्मात् प्रथमो विभ्रमः ।

प्रकाशरूपाणां हि शरीरघटादीनां यत् वेद्यीकरणं, तस्य प्रथमविभ्रमता युक्ता । मैवमित्याह मूलभूतः

(पगे २४५)

इति । नहि अत्र कालप्रवृत्त्या प्राथम्यं तस्या एव अभावात् । यत् नरेश्वरविवेकः

तेन मायाभिधा शक्तिः सहैव कुरुते द्वयम् । वेद्यान्सदसतः सर्वान्कांश्चिद्वेद्यांश्च वेदकान् ॥

इति । तर्हि मूलभूतता अपि कथम् । तथाहि ग्राह्याणां तेभ्यो ग्राहकेभ्यश्च, ग्राहकाणामपि तेभ्यो ग्राह्येभ्यश्च यो भेदावभासलक्षणो विभ्रमः; स मायीयव्यापारकृते भ्रमरूपेऽन्तःप्रविष्टस्तावानेव असौ विभ्रमो भूयस्तमशाखाशतनिचित इति यावत् । सत्यमेवम्, तथापितु सर्वे विभ्रमा ग्राहकलक्षणे आत्मस्वरूपे निपतन्ति । ननु एवं सत्यप्रमातैव इत्थं स्यात्

यद्यप्यर्थस्थितिः————————। ( अ। प्र। सि। २०)

इतिन्यायात् । न खलु पार्यन्तिकी सिद्धिरत्र विश्रान्तिरिति दर्शयति तत्तत् इति तस्य तस्य विभ्रमस्य आश्रयभूतो यो ग्राहकात्मा मायीयः ।

एतदुक्तं भवति-सति मायीये ग्राहके तदपेक्षया विभ्रमान्तरमुचितोदयमिति मायीयग्राहकोल्लास एव मूलभूतः, यत् स एव मूलम्, अन्यस्तु अहम्भावो वेद्येष्वपि आणवो मल इति । एवं मायाप्रमात्रपेक्षया न पृथक्ता किञ्चित् खण्डयतीति उक्तम्, सत्यचिद्रूपापेक्षया तु सा नास्तीत्याह यत्पुनः इति । ननु चिन्मात्रापेक्षया अपि अस्ति नीलादीनां भेदो मन्त्रेश्वरादीनां चिन्मात्रस्वभावत्वात्, तेषां च भेदेन नीलादिप्रथनादित्याशङ्कां परिहरति भ्रमोऽस्तु इति । शरीरादिशून्या अपि ते न चिन्मात्रस्वभावाः, अपितु सजातीयेभ्यो वेद्यात् च पृथग्भावाभिमानसङ्कोचात्मकमायीय- मलाधिकसंवित्स्वभावास्ते भगवता निर्मिताः । यत् वक्ष्यते

(पगे २४६)

बोधानामपि कर्तृत्वजुषां कार्ममलक्षतौ । भिन्नवेद्यजुषां मायामलं विद्येश्वराश्च ते ॥ (३।२।९)

इति । इदन्तयैव इति एवकारेण श्रीसदाशिवप्रमातृपदात् यो भेदः सूचितस्तं स्फुटयति ननु इति । सदाशिवपदे हि इदन्तोन्मेषे सति अहन्ताच्छादनमपि अस्ति । सजातीयेभ्योऽपि भेदाभिमानमेषां दर्शयति स्वात्मनि इति न केवलं वेद्यवर्ग इति अपिः; यस्य असम्भाव्यं भेदनं प्रकाशैकपरमार्थत्वात्, सोऽपि भिन्न इतीश्वरस्य परमेतत् दुर्घटकारित्वमागमे महामायेति विद्येति व्यवहृतमिति दर्शयितुं द्वितीयोऽपिः । यत् वक्ष्यति

भेदधीरेव भावेषु—————————। (३।१।६)

इत्यादि । अत एव इति यतः प्रमातृवर्गात् प्रमेयवर्गात् च सङ्कुचितचिद्रूपा, ततः कृतका अन्यथा शुद्धचिद्रूपतायां नित्यत्वेन कृतकत्वायोगात् । ननु एवं ते मायीया एवेति कथं मायातत्त्वोपरिवर्तिन उच्यते इत्याशङ्क्य आह तावच्च इति ।

वेद्यदेहाद्यहम्भावज्ञत्वकर्- तृत्वविरहावभासनलक्षणपूर्णमायाव्यापाराभावादमायीयास्त् ए उच्यन्ते सत्यपि तावति मायाव्यापारे इत्यर्थः । तर्हि मायोत्तीर्णतया यदुच्यते शुद्धविद्यामयत्वम्, तत् कुत्र । आह ईश्वरस्य तु इति अहन्ताच्छादितेदन्ताभावस्यैव विद्यामयत्वम् । यत् वक्ष्यति

इदम्भावोपपन्नानाम्———————–। (३।१।४)

इत्यादि । ननु अस्ति तावदयं सम्भवो भगवत्प्रभावो बोधस्वभावे देहाद्यसङ्कोचवति अपि प्रमातरि भेदमवभासयतीति, तदिदानीं ब्रह्मादयोऽपि कीटान्ताः शरीरादिप्रमातृभाववन्तः सन्तो भेदं गृह्णन्ति,-इति किमर्थमुद्धोष्यते तेऽपि चिन्मात्रप्रमातृरूपाः सन्त्वित्याशङ्कामनूद्य परिहरति न युक्तम् इति न अस्माभिर्भेदाभिमानान्यथानुपपत्त्या

(पगे २४७)

देहादेः प्रमातृता उन्नीता । स्वसंवेदनादेव हि सा निर्भासते कृशोऽहं सुख्यहमित्यादेः प्रत्यात्मवेद्यस्य प्रत्ययस्य अप्रत्याख्येयत्वात् । उपपत्तिरपि अत्र अर्थे सम्भवतीत्याह बोधात्मन्येव इति चकारो हेतुसमुच्चये । बोधमात्रस्य हि प्रमातुराहरणीयो बोधो नास्ति, यत्र इन्द्रियादिसामग्र्युपयोगः ।

वेद्योपरागमात्रेण हि तस्य नीलादिबोधरूपता, वेद्यं च सदा सन्निहितमिति सार्वज्ञ्यमेव अस्य युक्तम्,

केन नाम न रूपेण भासते परमेश्वरः ।

इति च नयेन भगवता सार्वज्ञ्यमपि निर्भासनीयमेव, तन्मात्रं च एते देहादिप्रमातार इति आशयः ।

प्रसङ्गागतप्रमेयान्तरसान्तरीकृतं प्रकृतं सूत्रार्थम् अभासभेदादेकत्र इत्यादिकं निगमनव्याजेन अनुसन्धत्ते तत् इत्यादिना ॥ १९ ॥

ननु इयता विज्ञानरूपं ब्रह्मैव विश्वात्मना भातीत्युच्यते, किमीश्वरतयेति यो मोहः, तमपहन्ति

वास्तवेऽपि चिदेकत्वे न स्यादाभासभिन्नयोः । चिकीर्षालक्षणैकत्वपरामर्शं विना क्रिया ॥ २० ॥

चित एकत्वं वास्तवं, भेदस्तु अविद्येति अङ्गीकृतेऽपि क्रिया करणं न उपपद्यते आभासेन भिन्नौ घटचेतनौ तयोर्यश्चिकीर्षालक्षण एकः परामर्शो यदि न भवेत् क्रियापेक्षया वा सम्बन्धसामान्ये षष्ठी, पश्चात्तु औचित्यात् कर्मत्वकर्तृत्वाभ्यां स सम्बन्धो विभजनीयः, आभासेन भिन्नयोरिदमहमितिजडचेतनयोर्य एकः परामर्शः परचित्तत्त्वविश्रान्तिलक्षणस्तं विनेति वा, तेन क्रियां चिकीर्षां परामर्शं वा अपेक्ष्य षष्ठीसमासश्च नित्यसापेक्षत्वात् । एतदुक्तं भवति-वास्तवं स्वभावसिद्धं जडस्य इव घटस्य घटत्वं चितो यदि एकत्वमुच्यते, भेदस्तु अविद्येति;

(पगे २४८)

तदा निरूप्यं कस्य सेति । नहि विद्यैकरूपस्य ब्रह्मणस्तदभावरूपमविद्या नाम, नच अन्ये जीवादयः केचित्, अविद्ययैवहि ते उत्थाप्याः । अनिर्वाच्या सेति चेत्, कस्येति न विद्मः । भाति च अनिर्वाच्येति च यक्षभाषा । युक्त्या न उपपद्यते इति चेत् ।

भासनातिक्रमणे का युक्तिः । अविकल्पे शुद्धमेव ब्रह्म आभाति, सविकल्पके तु सेति चेत्; सोऽपि कस्येति पूर्ववत् वाच्यम् । अविकल्पकं च सत्यं, न इतरदिति भासमानत्वाविशेषे कुतो विभागः, बाधादिति चेत् विपरीतत्वे परस्परतस्तुल्यो बाधः । प्रतीतिनिरूढिस्तु भेदे यथा, तथा न अभेदे इति भेदस्यैव सत्यता युक्ता । बाधोऽपि भासमानत्वादेव सन्, तथा भेदोऽपीति सोऽपि कथमविद्या; बाधोऽपिच भेद एवेति सोऽपि अविद्या । तदिदं शशशृङ्गं गगनकुसुमस्य छेदकमुक्तं स्यात् । आगमात् सर्वमिति न आभासनादिति चेत्, आगमोऽपि अविद्येति सर्वमालजालम् । यत् वक्ष्यति

ब्रह्मापीष्टमविद्यया सह ततो नैकान्तवादोऽप्ययम् ।

इति सूत्रतात्पर्यम् । तदाह वृत्तौ अकस्मात् इति निमित्तस्य अलाभादितिभावः । आभासभेद इत्यादिना वेद्यगतं रूपमुक्तम् ।

तद्विषयत्वेन यत् क्रियात्वं नाम कर्तृताधायकं, तत् न घटते इति ब्रह्मगतं रूपमुक्तम् । तत् इति आभासभेदस्य घटनं क्रियात्वम् ।

ननु दृष्टं जडस्य कर्तृत्वम्

अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः ।

इति । नैतदित्याह जडस्य इति अकतृत्वमिति सम्बन्धः । तम् इति जडम् । स इति प्रमाता । एतदभिमतमेव सारस्वतस्य देवतात्मेति विशेषयतः ।

सूत्रार्थमवतारयति चित्तत्त्वस्य इत्यादिना । न इत्यनेन निर्मेयगतं, नापि इति तु

(पगे २४९)

निर्मातृगतं रूपमभिदधता सौत्रम् आभासभिन्नयोः इति स्पष्टं यत् प्रतिपादितं, तत् सङ्क्षेपेण स्मारयति कारुणिकतया यथा इत्यादिना । ऐश्वर्यशक्तिं विना निर्मित्तत्वात् क्रमे निमित्ताभावात् कादाचित्क इति विचित्रः क्रमो न स्यादिति सम्बन्धः ।

अन्तर्गतसर्वाभासोल्लासनस्वभावत्वे हि यौगपद्यमेव उचितमित्याह नित्यमेव इति । ऐश्वर्यशक्तिस्तु समर्था चोद्यमेनं परिहर्तुमित्याह ईश्वरत्वात् इति । तत्तत् इति विचित्रक्रमकमिति यावत् । परामर्श एव क्रियालक्षणो युक्त इति सम्बन्धः । लक्षणं दर्शयति क्रमिकोऽपि इत्यादिना । क्रमिकत्वे हेतुः अन्तर् इत्यादि, एकत्वे कर्तृव्यापार इति तत् इति चोद्यं च उत्तरं च परामृशति क्रमेण वृत्तिग्रन्थद्वयं पठन् ।

क्रिया अपि चेत् वेद्या, तर्हि निर्मेया, तत्र च क्रियान्तरं, तत्रापि एवमिति अनवस्थां मा शङ्किष्ट कश्चिदित्याशयेन परामर्शतत्त्वमुक्तपूर्वमपि स्मारयति सा चैषा इति । अन्यासु पाकादिक्रियासु सम्भवतु कदाचिदियं चिन्ता, नतु अस्यामिति भावः ।

ननु यदि विमर्शः प्रमातुः संविद्रूपादभिन्नो न संवेद्यपदमभिपतति, तर्हि क्रमरूपत्वाभावात् क्रियात्वमस्य कुतः । अत्र आह प्रमात्रभेदेन तु इति अवभासते इति ।

मायाप्रमातृवृत्तान्तश्च असौ परमेश्वरप्रभावादेव भवति,-इति तत्रापि क्रियाशक्तित्वमुक्तम् । उक्तं च एतत्

सक्रमत्वं च लौकिक्याः———————–। (२।१।२)

इत्यत्र । एतच्च इति सक्रमत्वम् । ननु परामर्श एव इच्छा भगवतः क्रिया, ततश्च वृत्तौ त्रितयं यदुक्तं चिकीर्षया इत्यादि, तत् कथमुक्तम् । एतत् परिहरति अभ्युपगमपूर्वं परामर्शोऽपिच इति । तस्य तस्य इति कर्मणि षष्ठी । मात्रग्रहणेन

(पगे २५०)

कर्मणोऽनुन्मेषमाह । तत एव मृज्याद्दूरत्वम् ? । वृत्त्यर्थं व्याकरोति अत्र हि इति वृत्तिग्रन्थे । आभासना च क्रिया, तस्या आद्य एव परामर्शो लक्षणम् । स एव बहिष्करणात्मकाभासनापर्यन्तः । तेन आभासनाया एव अयं रूपविभागः चिकीर्षया परामृशन् इति । तेन त्रयमेतदुपक्रमे भासमानमपि द्वयमेव, वस्तुतस्तु एकमपीति तात्पर्यम् । इत्यपि इति न केवलं परामृश्यमानोपरागात्, यावदिच्छाप्रयत्नरूपत्वादपीत्यर्थः । जडस्य इत्यादिकां वृत्तिं चोद्येन उपक्रमते एवञ्च इति एवं तर्हीत्यर्थः । महाभूतस्य इति देवतारूपत्वे हि युज्यते एतत् । नच देवता दहति तथादर्शनादिति मन्यते ।

ननु इच्छायामचैतन्यमपि अस्ति । सत्यम्, इष्यमाणगतं तु तत्, न स्वरूपगतम् । तदाह नामरूप इति । एतच्च

घटोऽयमित्यध्यवसा————————। (१।५।२०)

इत्यत्र उक्तम् । अनन्तरम् इति वाचकवाच्यरूपशब्दार्थमात्रस्य संवेद्यत्वेन प्रकाशनादिति हि अत्रैव सूत्रे निरूपितम् । अत्र अभ्युपगमेनैव उत्तरमाह आस्ताम् इत्यादिना । स्वगते भवनादौ स्थिरत्वादेव रूपान्तरं नास्तीति कुत्र अनुसन्धानम्, स्पन्दनादौ तु अकर्मके स्यन्दनरूपत्वात् पूर्वापरक्षणविषयमेकमनुसन्धान- मस्ति, दहनादौ तु सकर्मके न केवलं पूर्वोत्तरक्षणविषयनुसन्- धानं, यावत् व्यतिरिक्तकर्मैकीकारलक्षणमपीति अनुसन्धानधाराधिरोहमयमेव; तदचेतने कथं स्यादिति दर्शयति आस्तां तावत् इति । असौ इति व्यापारः । यदा उच्यते, तदापीति सङ्गतिः ।

सत्तामात्र इति स्थिरायां च अभूत्वाभाविन्यां च सत्तायामित्यर्थः । ननु वस्तुवृत्तेन भवन्त्येव तावत् ते स्वतन्त्राः । तत् कथं वृत्तावुक्तं स्वातन्त्र्याभावात् इति । अत्र

(पगे २५१)

आह स्वातन्त्र्यम् इत्यादि मम न भातमस्य अवश्यं भातीत्येतदेव वस्तुवृत्तमुच्यते, नतु अन्यत्किञ्चित् तत् । ततश्च भवनमपि प्रकाशलग्नं सत् तथाभवतीति भवनस्वातन्त्र्येण प्रकाशमुखप्रेक्षिणा किं करिष्यते इति प्रकाशने अनन्यवदनावलोकिनि यत् स्वातन्त्र्यं, तदेव स्वातन्त्र्यमुच्यते; तच्च जडानां नास्तीति युक्तैव युक्तिः स्वातन्त्र्याभावात् इति । प्रकाशस्य च परदशायां चमत्कारमात्रात्मा यो विमर्शस्तदेव स्वातन्त्र्यं, नतु इच्छारूपं; परापरत्वे तु तदिच्छारूपमिष्यमाणोन्मेषात्, अपरदशायां तदेव अपूर्णमिति दर्शयति प्रकाशोऽपि इत्यादिना चिकीर्षैव इत्यन्तेन ।

चमत्कारो हि इति स्वात्मनि अनन्यापेक्षे विश्रमणम् । एवं भुञ्जानतारूपं चमत्त्वं, तदेव करोति संरम्भे, विमृशति न अन्यत्र अनुधावति । चमदिति क्रियाविशेषणम्, अखण्ड एववा शब्दो निर्विघ्नास्वादनवृत्तिः । चमदिति वा आन्तरस्पन्दान्दोलनोदितपरामर्श- मयशब्दनाव्यक्तानुकरणम् । काव्यनाट्यरसादावपि भाविचित्तवृत्त्यन्तरोदयनियमात्मकविघ्नविरहित एव आस्वादो रसनात्मा चमत्कार इति उक्तमन्यत्र । विश्वनिर्माणे तु इति व्यतिरिक्ताव्यतिरिक्तेष्यमाणतया श्रीसदाशिवादिभुवनत आरभ्य अहम्भावाच्छादनस्य क्रमेण सङ्कोचक्रमोन्मेषे च इदम्भावतारतम्यस्य अनन्तादिविद्येश्वरान्तं तथावस्थातुं परापररूपतां दर्शयति भेदाप्ररोहे करणव्यवहाराभावात्, कृतमिति तु व्यवहारभेदनिरूढावेव गाढायां ब्रह्मादीनां कुलालादीनां च । तदाह मायीयसर्ग इति तथा इति सङ्कुचितरूपतायामपि ब्रह्मादेः कुविन्दादेश्च व्यतिरिक्तत्वेऽपि इष्यमाणस्य अपारिमित्यात् परिमित्यात् च विशेष इत्याह एवम् इति परिमाणशून्ये परदशायां नास्ति इच्छाव्यवहार इति शान्तशिवादिप्रवादाभिप्रायेण

(पगे २५२)

उक्त्वा सदाशक्तिरूपाविष्ट एव शिव इत्येवम्भूतदर्शनाश्रयशिव- दृष्टिमतावलम्बनेन आह अथवा इति । सर्वत्र हि चमत्कार एव इच्छा, सच परभूमावपि अस्ति । यदुक्तं

तदेच्छा तावती—————————–। (१।३)

इति । सैवहि इति । चमत्कारिता हि भुञ्जानरूपता स्वात्मविश्रान्तिलक्षणा सर्वत्र इच्छा । क्वचित्तु स्वात्मविश्रान्तिर्भावान्तरमनागूरितविशेषम- पेक्ष्य उत्थाप्यते यत्र सा इच्छा राग इति उच्यते, आगूरितविशेषतायां तु काम इति । आदिग्रहणादभिलाषमलो यत्र भावान्तरं सामान्याकारमपि वासनावशेषमात्रेण आस्ते यथाह

————————भावस्थितानि जननान्तरसौहृदानि ।

इति । सौत्सुक्यं च नित्यतत्सन्निधानव्यपगतशङ्कानुविद्धा इच्छैवेति ।

एवमन्यदनुसर्तव्यम् । तदभावश्च इति स्वातन्त्र्याभावस्य निमित्तमुक्त इच्छाभाव इति सङ्गतिः । इयता वृत्तिरुभयथा गमिता- बुभूषायोगेन यत् स्वातन्त्र्यं, तस्य अभावात्; अयोगेन च यः स्वातन्त्र्याभावस्तत इति । ननु एवं हिमवानस्तीति कथम् । आह कर्तृतोपचारस्तु इति आरोपणे निमित्तं तत्पारतन्त्र्यात्मकं तात्स्थ्यं नामेत्यर्थः । स्वातन्त्र्यस्य गम्यमानस्य अत्र आरोपणमित्यत्र अर्थेऽभिधीयमानस्वातन्त्र्यारोपं दृष्टान्तीकरोति कूलम् इत्यादिना ।

आशङ्कायामचेतनेष्विति प्रत्याख्यातुं यत् वाक्यं न वा तुल्यकारणत्वादिच्छाया हि प्रवृत्तित उपलब्धिरिति, तत्र प्रमातृस्वातन्त्र्यारोपणमेव तत्त्वमवसेयमिति आशयः । तत एव इच्छासम्भवपक्षं वाक्यमदृढं मत्वा परिहारान्तरमाख्यत् उपमानाद्वा सिद्धमिति, तत्तु तृतीयमुनिना न असह्यत न तिङन्तेनोपमानमस्तीति । तदास्तामवान्तरेण । सर्व एव इति नित्यप्रवहत्तां

(पगे २५३)

वर्तमानस्य दर्शयन् मायाप्रमात्रपेक्षमेतदुक्तं, सत्यप्रमात्रपेक्षया तु अनुपचरितमेव इदमित्याशयं सूचयति ।

मायाप्रमात्रपेक्षया तु अनुपचरितमेव इदमित्याह अथवा इति ।

मायीयप्रमातृता पदेऽपिच सत्यप्रमातुरविरोध इत्याशयेन अपिशब्द अङ्कुरपदेन अभूतप्रादुर्भावं पिशुनयति । मम प्रमाता इति मायाप्रमात्रुद्देशेनैव इदं सामर्थ्यम्, परमार्थप्रमातरि तु न किञ्चिदत्र प्रयास्यमित्याह ॥ २० ॥

इत्थं तथा घटपटाद्याभासजगदात्मना । तिष्ठासोरेवमिच्छैव हेतुता कर्तृता क्रिया ॥ २१ ॥

अर्थः स्पष्टः । सैवच क्रियाशक्तिरिति यदुक्तं, तत्र कश्चित् ब्रूयात्-भगवति इच्छा, श्रीसदाशिवे ज्ञानशक्तिः, ईश्वरे पुनः क्रियाशक्तिरिति आगमे शक्तिविभागस्तदेतत् कथमिति । तत्र आह विश्वावभासन इति चः शङ्काद्योतकः । न केवलं लोक प्रसिद्धा क्रिया स्पन्दनरूपा, यावदियमपीति अपिः । यदा तदा इति हेतुहेतुमद्भावद्योतकौ निपातौ, यद्यपि-तथापीत्येतदर्थवृत्ती वा ।

क्रियायां शक्तिरित्येवं व्याख्याय सामानाधिकरण्यमपि स्वाभिमतं व्याचष्टे तस्यामपिवा इति । शक्तिः इति क्रियात्मा ।

यथोक्तं

सुसूक्ष्मशक्तित्रितयं सामरस्येन वर्तते । (शि। दृ। १।४)

इति । तन्मुखेन इति चिद्धनकर्तृमुखेन । यदाहुः इति वैयाकरणाः ।

एवम्ब्रुवाणैश्च अपरकारकपर्यायापायेऽपि सति कर्तरि क्रियातत्त्वस्य दर्शनमसति तु अपरकारकसामग्र्यामपि अदर्शनमिति अन्वयव्यतिरेकाभ्यां कर्तृविश्रान्तिरेव क्रियेति निरूपितं भवति । न इह पच्यते इत्यादावपि अधिकरणाक्षिप्ता एव पाकभोगादियोग्या भासन्त एव कर्तारः । नतु इति कर्मणः

(पगे २५४)

क्रियावेशो न सम्भवति इच्छाविरहितत्वादिति उपरितः सः । उपचारे च निमित्तं कर्तृगतया अपि तया कर्मणि आहिताभिसंहितविशेषदर्शनम् ।

यदाह इत्युक्त्वा यत् वाक्यं पठितं, तत् तादृशं वृत्तौ नास्ति सम्बन्धिनी इत्यस्य पदस्य वृत्तावपाठादित्याशङ्क्य आह शेष इति अध्याहार इत्यर्थः । षष्ठ्या इति वृत्तौ श्रुतया । ततश्च साध्याहारमेतत् पठितमिति उक्तं भवति । करणादीनां च इति कारकत्वम् इति सम्बन्धः । ननु करोतीति कारकमिति कर्तृव्युत्पत्तिपक्षे सत्यमुपचारोऽवश्यम्भावी, अव्युत्पन्नस्तु निमित्तपर्याय इत्यत्र पक्षे किमुपचारेणेत्याशङ्कामपास्यति निमित्तत्वं च इति सदसत्कार्यवादविचारे हि निराकृतः शुष्कः कार्यकारणभावः ।

तेषाम् इति करणादीनाम् । एतत् इति निमित्तत्वम् । ततश्च काष्ठैः पचतीत्यस्यामपि दशायां संवित्तत्त्वस्वातन्त्र्यानुप्रवेशादेव कारकत्वम्, नतु अन्यथा । ननु अवयवक्रियायामस्ति एषां स्वातन्त्र्यं काष्ठानि ज्वलन्तीति कर्तृत्वदर्शनात्, ततश्च सा यदा प्रधानपाकलीना विवक्ष्यते, तदा करणत्वेऽपि कारकत्वस्य का खण्डनेति किमत्र चित्तत्त्वमुखेन । एतदाशङ्क्य आह काष्ठानि इति ।

जिज्वलिषोरेव ज्वलनकर्तृत्वं युक्तमित्यादि पूर्वोक्तवदनुसन्धेयमिति शिवम् ।

इति श्रीमहामाहेश्वरश्रीमदाचार्याभिनवगुप्तपादविरचितायामीश्वर् अ-प्रत्यभिज्ञाविवृतिविमर्शिन्यां क्रियाधिकारे कार्यकारण- भावविमर्शश्चतुर्थः ॥ ४ ॥