अथ तृतीयो विमर्शः ।
(पगे ७०)
एकमनुत्तररूपात्प्रभृतित्रिकशक्तिपूरितानन्दम् । अमृतास्यमस्य जगतः प्रमाणभूतं शिवं वन्दे ॥
क्रियाशक्तिविजृम्भा इयमिति अभिधातुं सम्बन्धोपक्रमं सामान्यादीनां तत्त्वमुपपादितम्, अधुनातु सम्बन्धतत्त्वमेव उपपाद्यते वितत्य । तत्र परमार्थतो द्विविध एव सम्बन्धो ज्ञाप्यज्ञा-पकभावो यो जडाजडनिष्ठः, कार्यकारणभावश्च यो जडनिष्ठः । तत्र पूर्वो मानमेयात्मको यन्निष्ठितमुक्तं वक्ष्यमाणं च सिद्ध्यति । प्रमाणाधीना हि वस्तुसिद्धयः इति प्रसिद्धमेतत् । अत उक्तवक्ष्यमाणवस्तुसमर्थनोपयोगितया सम्बन्धरूपतया च अवश्यनिर्णेतव्यं मानमेयव्यवहारं निरूपयितुं विमर्शान्तरं सप्तदशभिः सूत्रैः
इदमेतादृक्———————————-।
इत्यादिभिः
———-ईशादिव्यवहारः प्रवर्त्यते ।
इत्यन्तैः । श्लोकद्वयेन च अत्र प्रमाणतत्फलस्वरूपं निरूप्यते; ततः प्रमेयतत्त्वनिरूपणाय प्रत्याभासं प्रमाणव्यापारः, नतु नियमेन स्वलक्षणात्मकवस्त्वेकविश्रान्तः,-इत्यमुना तात्पर्येण विमर्शबलादाभासव्यवस्थेति दशकेन; तत्प्रसङ्गतो मिथ्याज्ञान- तत्त्वमेकेन; प्रमेयतत्त्वं च प्रकृतमेव ईश्वरवादे घटते इति एकेन; मानमेयफलविभागः सति एव उक्तरूपे प्रमातरि उपपद्यते, तत एव न अस्य प्रमेयत्वं येन भगवत्यपि प्रमाणम् उपयुज्येत आञ्जस्येन, व्यवहारमात्रसाधनं तु अत्र प्रमाणमिति त्रयेण,-इति प्रकरणार्थः । प्रतिसूत्रं तु अर्थो निरूप्यते । यदुक्तम्- क्रियादिबुद्धयो
(पगे ७१)
न भ्रान्ताः-इति, तत् निर्णेतुं प्रमाणतत्फलस्वरूपं प्रसिद्धमेव अनूद्यते श्लोकद्वयेन
इदमेतादृगित्येवं यद्वशाद्व्यवतिष्ठते । वस्तु प्रमाणं तत्सोऽपि स्वाभासोऽभिनवोदयः ॥ १ ॥ सोऽन्तस्तथाविमर्शात्मा देशकालाद्यभेदिनि । एकाभिधानविषये मितिर्वस्तुन्यबाधिता ॥ २ ॥
वस्तु बाह्यं नीलादिकं, आन्तरं च सुखादि यद्वशात् यस्य सामर्थ्यात् व्यवतिष्ठते विभक्तां नियतां मर्यादां न अतिवर्तते इदमिति स्वरूपेण, एतादृगिति नित्यत्वादिविशेषणभूतधर्मान्तरयोगेन; तत् प्रमाणमिति तावत् प्रसिद्धं लोके । तत्त किं स्यादिति विवेचको यावत् विमृशति, तावदिदमापतति-इह वस्तु स्ववशादेव न व्यवतिष्ठते, तदाहि मम नीलं प्रकाशते चैत्रस्य वेति न स्यात्; तदिदमन्यवशेन व्यवतिष्ठते । अन्यश्च यदि जडः, तदिदमन्धेन अन्धस्य मार्गदर्श- नम्, तस्मादन्योऽसौ संविद्रूपः । सोऽपि निर्विशेषो नीलपीतादि कथङ्- कारं विभागेन अवस्थापयेत्, तदसौ नीलोपहितो नीलोन्मुखो नीलप्रकाश इति स आभासो नीलस्य व्यवस्थापकः ।
नीलप्रकाशस्वभावताया हि न अपरा व्यवस्थापकता काचित् । नीलस्य च अव्यतिरिक्तस्य चेत् प्रकाशस्तथा भवेत्, स तर्हि पीतादेरपि न किं भवेत् संवित्तत्त्वतादात्म्याविशेषात् सर्वस्य । ततो व्यतिरिक्तस्य नीलस्य स आभासः प्रकाशः । इत्थञ्च अस्य व्यतिरिक्तता यदि महाप्रकाशादव्यतिरेके पारमार्थिके स्थितेऽपि व्यतिरेक आभासते ।
ततश्च इदं जातम्-शून्याद्युपाधिसङ्कोच एव यः प्रका-शस्य, अयमेव एकयैव सृष्तिशक्त्या प्रमातृप्रमाणप्रमेयोल्लासः ।
यथोक्तं सिद्धपादैः
उदेत्येकः समालोकः प्रमाणार्थप्रमातृजः ।
(पगे ७२)
इति । तेन देहाद्यपाधिसङ्कोचवतोऽनन्तकालान्तर्मुखसंवेदनल- क्षणात् मायाप्रमातुर्यतिरिक्तीकृत इव स आभासो बाह्यप्रमेयोन्मुखो यावत् वर्तते, तावत् प्रमेयगतदेशकालोपरक्ततया क्षणे क्षणे अन्या- न्यरूपतया नवनवोदयः संस्तस्मिन्नेव स्वशब्दवाच्ये एकस्मिन्नेव अनन्तकालव्यापिनि मायाप्रमातरि सम्बन्धित्वेन निर्भासमानो मम नीलाद्यवभासो यस्यैव पीताद्यवभास इत्यादिना रूपेण यः, स एव प्रमाणमिति यतः स आभासः प्रमानिष्पत्तौ सव्यापारः । का खलु प्रमा,-इति चेत्, आह स एव बोधात्मा आभासो मितिः प्रमाणस्य फलमिति सम्बन्धः । नच पर्यायता, यतो बाह्योन्मुखत्वेन प्रकाशरूपतया तत् प्रमाणम्, अन्तर्मुखात्मना विमर्शरूपेण केवलं विषयोपरागसङ्-कुचितेन शब्दनात्मना फलम् । एकनिष्ठे हि शूरत्वविजयित्वे विवेकिना हेतुफले इति निरूप्येते, तथा नीलप्रकाशतद्विमर्शरूपे । तत एव उक्तं
तद्वशात् तद्व्यवस्थानात्———————–। (पा। वा। ३।३०८)
इति । व्यापारात्मकमेव हि करणस्य प्रथमसाध्यत्वात् फलम् । व्यापा- रश्च व्याप्रियमाणात् कर्तुर्व्यापार्यमाणात् वा करणादनन्यात्मक एव युक्त इति मुख्यत्वेन प्रमाणफलयोरभेद एव न्याप्यः, फलफलेन तु प्रयोजनापरपर्यायेण प्रवृत्तिप्राप्त्यादिना व्यतिरिक्तेन भूयतां नाम । अतो विमर्श एव फलम् । तद्बलेन बोधः प्रमाणम् ।
विमर्शश्च शब्दं देशकालविशेषाभासानालिङ्गितसामान्यरूपाभास-विश्रान्तं जीवितत्वेन अपेक्षते । अयम् इत्यपि हि यत् वर्तमानं पुरश्च, तावन्मात्रमाह । किं बहुना, चैत्रोऽयमिह अधुना तिष्ठति,-इत्यपि यावत् शब्दगोचरः, तावदेषैव सरणिः । प्रोक्तृगतप्रत्यक्षात्मकवस्तु- स्वालक्षण्यबलात् तु विशेषनिष्ठता,-इति आभासमात्रे प्रमाणस्य व्यापारः । स्वालक्षण्याभासेऽपि
(पगे ७३)
मिश्रणाभासस्वभावे शुद्धे एव प्रमाणं व्याप्रियते । तत् तु विमिश्र-णाभागिषु अनन्तरेषु गृहीतग्राहित्वादप्रमाणम् । ततः प्रमाणविष-यताभाजः पृथगेव आभासवर्गस्य वस्तुत्वम् । सच विमर्शो द्विचन्द्र-बोधादुत्पन्नोऽपि उन्मूलनमन्ते सहिष्णुः पूर्वमपि उन्मूलित एव । अन्तर्मुखेन हि वपुषा स एव असौ, न अन्यः ।
स्वसंविदेवच अत्र साक्षिणी तदैव इदं न रजतमितिप्रतीतेः ।
द्विचन्द्रमपि परस्य विस्मयाय दर्शयन् परोपहासावज्ञाकृपादिपात्रीक्रियमाण एव द्विचन्द्रविमर्शं प्राच्यं तदैव वर्तमानतत्प्रकाशबलोपनतमपि एवमुन्मूलितमेव अभिमन्यते इति । तत उक्तं सोऽन्तः इति । एवं सूत्रार्थमवतारयति इदानीम् इत्यादिना । अत एव इति यत एवमुक्तमादिसिद्धसूत्रे इति व्यवहित- मुपजीवनीयम्, तर्हि आदौ मा भूत् (?) तन्निर्देशः, एतत्स्थाने तु किमर्थः । आह आनुषङ्गिक इति क्रियाशक्तिविस्फारणप्रसङ्गात्मका- दनुषङ्गादागता एकप्रमातृतत्त्वविश्रान्तिलक्षणानुषङ्गप्रयोजन- काश्च ये जात्यादयः, तेषां व्यवस्थाने आदिसिद्ध इति येन अनवस्थादि न आपतति इति व्यवह्रियते इति न प्रमेयवत् इत्यन्ते पृथग्भूतस्तत एव धर्मतया असौ युक्त इत्यर्थः । ननु नित्यत्वादि वस्तुनो विशेषणं सर्वप्रत्यक्षेण गृह्यते, कामं कतिपयं गृह्यतां, तत् कथमुक्तं विशेषणं च इति । अत्र आह नित्यतादि इति । ननु विशेषणव्यतिरिक्तं किमन्यत् स्वरूपमित्याशङ्क्य आह वस्तुमात्रेण इति । संसर्गैकान्त- वादिनापि हि धर्माधाररूपं स्वरूपमभ्युपेतमेव यदेकनिष्ठ- तया तद्धर्मसहस्रसामानाधिकरण्यप्रतिपत्तिः-अयं घटो रक्तो रौक्मो महान् हृद्य इति । ननु अविसंवादित्वं प्रमाणस्य यत् लक्षणं, किमिह त्यक्तमेव तत्, न त्यक्तं लोकिकत्वादिति दर्शयति वस्तु इति । वस्तु
(पगे ७४)
व्यवतिष्ठते इति हि अनेन तदेव उक्तम् । प्रमात्रधीनम् इति प्रमात्रधी- नतां तस्य प्रकटीकर्तुं वृत्तौ णिच्प्रयोग इति यावत् ।
प्रमात्रधीनतां स्फुटयति विमर्शोदये हि इति विमृश्यते इति णिजर्थो दर्शितः, व्यवतिष्ठते इति णिजर्थोऽपि प्रकृत्यर्थ एव प्रधानमिति सौत्रमपि व्यवस्थानमनु-सृतम् । अस्यैव इति प्रमेयतां मायाशक्त्या नीतस्येत्यर्थः । व्याकुलीक-रणात् इति बहिर्मुखत्वादरणेन अन्तर्मुखताया अवभाताया अपि अनुप-लक्षणात् । अत्र च इति सम्बन्धित्वेन सिद्धावुद्गच्छन्नेव हि अवभासः स्वप्रकाशतया इत्थं प्रकाशते । ननु बाधितमेतत् स्वसंवेदनमिति किं न सम्भाव्यते । नैवमित्याह द्विचन्द्रादि इति । भ्रान्तबोधेऽपि स्व- संवेदनमभ्रान्तं सर्वत्रेति घटयति । अत्र हि इति । बाह्यं प्रति इति चक्षुरालोकबोधैः सम्भूय जनितेऽपि बोधे बोधरूपता बोधादेव, इन्द्रियात्तु विषयाकारतेति; ततो यथा कुम्भकारबुद्धिप्रभवो दोषः कुम्भस्य सन्निवेशं परं दूषयेत्, न मृदंशमपि; तथा चक्षुरुप-रञ्जकविषयांशमेव, न बोधांशं भ्रान्तीकुर्यात् ।
चाक्षुषं बाह्यं प्रति भ्रान्तं स्वसंवेदनं तु सर्वदैव अभ्रान्तमिति वाक्य-सम्बन्धः । मध्यग्रन्थस्तु बाह्यं प्रति भ्रान्ततासमर्थनाय । यतश्चक्षुर्विकृतं, ततो बाह्यं प्रति भ्रान्तमिति कुतः । विषयाकारता हि अर्थात्, न इन्द्रियात् । आह नच इति ।
प्रमा हि विषयोपरागयोगिनी तथा भवति । विषयश्च इन्द्रियेण सन्निकृष्टो वा इन्द्रियवृत्तिनिपतितो वा तथा कुर्यादिति इन्द्रियविकारे सत्येव न ऐन्द्रियिको विभ्रमः । ननु गच्छतो मरुदर्शनादौ न इन्द्रियविकारः, अथच इष्यते अस्य विभ्रमस्य ऐन्द्रियि-कत्वम् । क एवमाह-न इन्द्रियविकारोऽत्रेति दर्शयति तावन्मात्र इति इन्द्रियविकार एव केवलोऽक्षविभ्रमस्य हेतुः ।
(पगे ७५)
अविकृते हि इन्द्रिये भवन् कथमैन्द्रियिको विभ्रमः स्यात् । तदेव घटयति नौयानादिभिः इति । आशुभ्रमणनौयानवातप्रकोपादिभिरिन्द्रियमेव भ्रमरूपारूढमशक्तं च सम्पाद्यते,-इति चक्षुष एव तत्र विका- रः । ननु स्वसंवेदनं न बौद्धवदिह स्वतन्त्रम्, अपितु महाबोध- पर्यन्तपशुप्रमातृलग्नम् । ततश्च बोधमात्रता स्वसंवेदनेन सिद्ध्येत्, न द्विचन्द्रबोधता दृष्टे; नापि प्रकृते नीलमाभाति इत्येवंरू-पता,-इति । एतत् परिहरति अव्यभिचरित इत्यादि अभिन्नोऽत्यन्तं पृथक्ता-भूमिमप्राप्तोऽपितु सादाशिवपदमध्यासीनो यः आभासविशेषो द्वि-चन्द्रनीलादिस्तद्विषयो यस्तथाभावः संवेदनरूपताप्रकाशत्वं, तदव्यभिचरितमभ्रान्तमनपायि च यस्य, तत् तथा । एतदुक्तं भवति-भिन्नाभिमतं यत् नीलद्विचन्द्रादि, तदवश्यमभिशङ्कनीयम् । यत्तु बोधे दर्पण इव निर्भासते, तत् बोधसिद्ध्यैव सिद्धमिति द्विचन्द्रनीला-द्याभासरूपे अत्र स्वसंवेदनमभ्रान्तमेव । द्विचन्द्रप्रतिभास इव इति दृष्टान्तं निरूप्य दृष्टान्तान्तरं समुच्चयेन आह यथाच इति यथा साधारण्येन नीलाभासविकल्पकाले स्वसंवेदनादेव प्रतिपद्य-ते; यथा मम एवमाभासते इत्यपि यत् प्रकृतं, तत् स्वसंवेदनादेव प्रतिपद्यते इति योजना । अत्रच अर्थे स्वसंवेदनं यत् प्रमाणमुक्तम्, तत् साकारबोधवादिना अपि अवश्याभ्युपगन्तव्यमिति दर्शयति अत एव इति ।
यथा स्वसंवेदनं मुक्त्वा बोधस्य आकारभूताः इति, बोधस्य सम्बन्धिनः इति, बोधस्य नियमेन कर्मताव्यवस्थया विषय इति च यदुच्यते, तत् स्वसंवेदनादेव सिद्ध्यति, न अन्यतः प्रमाणात् । तथापि सम्बन्धित्वेन सिद्ध एवेति यदुक्तम्, तत्सिद्ध्या प्रकृतमपि प्रमेयान्तरं सिद्ध्यति,-इति अधिकरणसिद्धान्ततामपि अनेनैव ग्रन्थेन
(पगे ७६)
दर्शयति । अत एव इति बोधसम्बन्धित्वेन सिद्धत्वात् बोधमात्रपरमार्- थत्वं नीलादीनामिति यत् प्रकृतं प्रमेयं, तदपि सिद्धमेव भवति सम्बन्धस्य अभेदविश्रमप्राणत्वेन तादात्म्यपर्यवसानात् । एवमिति हि यत् नीलात्मकं रूपं, तदवभासते इति सामानाधिकरण्येन अव- भासब्रुडितम् । स च अवभासो बोधस्य सम्बन्धी सन् बोधतादात्म्या- पन्नः । तत् किमन्यदवशिष्यते यत् बोधातिरिक्तं नीलस्य स्वरूपं स्या- दिति । ननु एवं स्वसंवेदनसिद्धो नीलाभासविकल्पो बाह्ये नीले कस्मात् न प्रमाणमित्यत आह यतश्च इति । चः शङ्कां द्योतयति । आन्तरे विकल्पे नीलं मम अवभासते इत्येतावन्मात्रमस्ति, नतु बहिर्मुखाकारत्वे । बोधावभास एव एतत् नीलमित्येवंरूपः इह तु अस्ति । यत एवं मम आभाति, तत् एतत् नीलमिति । ततश्च बहिष्करणप्रत्यक्षेण प्रमितं गृहीत-मेतदिति नीलादि बाह्यमुच्यते, नतु विकल्पस्वसंवेदनप्रमितं तत् बाह्य-मुच्यते । एवं स्वभासमन्यथा व्याख्याय अभिनवोदयः इत्यस्मिन् व्यावर्त्यमपश्यतो मोहमपहर्तुमाह स च इति पुनःपुनरिति कालभे-देन सर्वदैव अभिनवत्वादनवोदयो न कश्चिदाभासः, किन्तु वेद्योपरा- गादन्यत्वानन्यत्वे तत्र, वेद्यस्य अपि ते प्रत्यवमर्शबलादिति तात्पर्यम् ।
वास्तवाभेद इति अवभास एव स्थितः इति वृत्तिपदैराभासव्यतिरिक्तं न अन्यत् स्थितं रूढं सत्यं किमपि अस्ति,-इतिवदद्भिरभेद उक्त इति यावत् । एवं प्रमाणसूत्रे वृत्तिं व्याख्याय फलसूत्रे व्याचष्टे स एवच इति । अत्र इति वृत्तिवाक्ये । अत्रापि इति न केवलं पूर्वमिति अर्थसिद्धम् ।
बौद्धा-दृशि दर्शनाध्यवसाययोः कालभेदात् कथमैक्यमिति न प्रमाण-फलयोरभेदः, तद्दृष्टाविव त्वद्दर्शनेऽपि कथमसावित्याशङ्कते
(पगे ७७)
चक्षुरादि इत्यादिना यद्यपि इत्यन्तेन । तथापि इत्यादिना अत्र उत्त्रमाह ।
बौद्धदृष्ट्या अपि विकल्पा हि प्रत्यक्षायन्ते इति दर्शनाध्यवसाययोरे- कत्वव्यवहारः । एवं परदृष्ट्याशयेन उपपाद्य स्थितदर्शनाशयेन उपपादयति अथवा इति अत्रैव एकघने प्रकाशविमर्शात्मनि रूपे । उक्तं हि
साक्षात्कारक्षणे——————————-। (१।५।१९)
इति । तदेव घटयति एकैवहि इति । एकस्यां प्रतीतौ चिन्मात्ररूपतया तावता प्रमार्थप्रमातृरूपा वेद्यच्छायोपरक्ता संविद्रूपा च ईश्वरता प्रमाणात्मिका । वक्ष्यते इति आगमाधिकारे । ननु शिवता प्रमातृदशाः; ईश्वरता तु प्रमाणदशा, फलदशा तु का । आह तदेवच । इति अयम् इति स्वसंवेद्यः । सव्यापारविमर्शं व्यापारसं- पत्त्या प्रमातृताया उल्लासो विद्यातत्त्वात्मा विमर्शो भावस्वरूप- मात्रे विशेषणे वा द्वये वा यः, तदेव प्रमाणस्य फलं; संसार- भूमौ तु सर्वमेतत् मायास्पृष्टत्वात् मलिनमिति आशयशेषः । ननु वस्तुनो विशेषणैः इति उपक्रान्ता वृत्तिः, तत एवं वृत्त्यन्तरेण भवि- तव्यम् इदमिति नित्यमिति वा, तत् पुन्निर्देशे क आशयः । अयमित्याह आभास एव इति । स एवच आभासः इति हि वृत्तिग्रन्थे य आभासः प्रमाणत्वेन उक्तः, तमेव अतिनिकटमपेक्ष्य निर्देशः प्रकृतं प्रमाणप्रमेययोरभेदं तात्त्विकमाचष्टे इत्यर्थः । ननु एवं प्रतीतिः प्रमातृप्रमाणमयी,-इति कथम् । पूर्वं प्रमाता, ततोऽपि तद्व्यापार्यमाणं करणं, तद्विषयश्च प्रमेयमिति हि युक्तम् । नैव- मित्याह सति इति । ननु एवं चेत्, कथमयं लोकव्यवहारः-पूर्वं प्रमातेत्यादि । उच्यते अन्यदा तु इति । यत् व्याख्यातमस्माभिः- मायास्पृष्टमेतत् सर्वमिति,
(पगे ७८)
तदेव भङ्क्त्वा निरूपयन्नेवम् एकाभिधान इत्यादिवृत्तिं व्याचष्टे सांव्यवहारिकस्य च इति सम्भूय संवृत्त्य सङ्कोचेन च व्यव- हारः, तत आगतस्तत्प्रयोजनस्तत्रभवश्च यः प्रमाता; तस्य । प्राक् इति
तदतत्प्रतिभाभाजा—————————–। (१।६।३)
इति प्रकरणे । अभिलापेन साधारणो य एव अभिलापविषयः, स एव अर्थो यस्य तद्भावस्तत्ता; तया । अभिलापसाधारणश्च अभिलापेन सह तस्य यः प्रथते, सोऽभिलापसंवलित इति यावत् । यद्यपि अभिलापसाधारणार्- थत्वमेकसामान्यविषयतायां हेतुः तथापि पूर्वप्रतिपादनमात्र- तात्पर्येण समुच्चित्य अनयोरभिधानं तत् यथा शब्दस्य कृतकत्वमनि-त्यत्वं च उक्तमिति । इयता विमर्शविशेषमनुसरति अवश्यं य एकैकः शब्दस्तद्वाच्य इति या वृत्तिः, सा व्याख्याता । अत एव इति यत एकसामान्ये प्रमातृव्यापारः । एकैकमेवच सामान्यं वस्तु प्रमात्रध्यवसाया-दर्थक्रियायोगाच्च,-इत्याह भिन्नाभिन्नसन्धान इति कश्चित् प्रमाण-विषयः । वस्तु इति प्रधानं द्रव्यम् । भवति इति विधेयं वस्तु अपेक्ष्य स्थित्या निर्देशः, एवमुत्तरत्र विशेषणमपेक्ष्य । तदेव कुतोऽस्य विशेष्यत्वम् । उच्यते तदन्तर् इति ।
तद्विचित्रीकरणव्यापृतैरेव तैः पृथु-बुध्नोदराकारसाध्यैर्वा अर्थक्रिया निर्वाह्यते । यद्यपि च तेषां निजनिजा नाना अस्ति सा, न च न अर्थ्यते भिन्नाभिसन्धानादेव; तथापि चित्रपटेन आतानवितानात्मना यैव आवरणरूपा कर्तव्या, तस्यामेव शोभाभिमानादि अनुप्रविशत् चित्रताधायकम् । नहि रहसि कान्तसमेता रमणी चित्रपटं परिधत्ते शोभामाधातुम्, नरपतिरास्थानमण्डपे वा रचयति शिरसि मणिनिचितमपि कनककलशमित्याशयेन
(पगे ७९)
आह प्रायेण इति अत एव इति पृथगनर्थ्यमानत्वेन । अत्र इति तु विशेष्यप्र-धानभूतद्रव्यवाची । यथा पूर्वमुक्तं
किञ्चित् वस्तु भवति ।
इति
आत्मा वस्तु स्वभावश्च शरीरम् ।
इति च । अग्रे इति
तथैव सद्घटद्रव्य—————————-। (२।३।५)
इत्यत्र । विकल्पस्यैव इति, अनेन विमर्शभेदानुसारित्वमेव द्रढयति ।
कदाचित् इति सन्निहितानामपि मध्ये एकैव अर्थ्यते, तावता तु न तावतीना-मसन्निधानमिति भावः । सर्वथा इति एकस्मिन् सामान्ये तत्समूहे वा भवतु विमर्शः, इदं तु अहेयं मायापदे इति व्यवहारपदेन आह । अत एव इति यतोऽर्थक्रियाप्रापकत्वमस्य, ततः ।
ननु अर्थक्रियाप्रापकत्वं च अस्तु बाध्यत्वं च, को विरोध इत्याशङ्क्य विरोधं दर्शयति अर्थ-क्रिया इति । अर्थक्रियाकारि बाह्यं साधारणमेतत् न भवति,-इति बाधस्य रूपम् । एतद्विपरीतं च प्रमाणप्रतिलब्धस्य अर्थक्रियाक्षमवस्तुप्रा-पणस्य,-इति युक्तो विरोधः । ननु अर्थक्रियाक्षमरूपस्य बाधकं किं करोति । उच्यते ऐन्द्रियिकमानसविभ्रमभेदेन उदाहरणद्वयमुक्तम् । नो रुणद्धि इति झगित्येववा उत्पन्नमपिवा आन्तरोन्मूलनेन । एवकारार्थं स्वयमेव स्फुटीकरोति अनुवृत्तिभङ्गकरणेन हि उन्मूलनं प्रायशो विमर्शस्य, बाधकेन तु उत्पत्तिविरोध एवेति स्पष्टयितुं ननु इत्यादिना । अत एव इति यत् सम्पन्नं प्रतिभासनं, तत् किं बाधकशतैरपि शाप-शतैरपिवा न सम्पन्नं भवति,-इति यतः, ततो हेतोरबाधितत्वमिति प्रमाणतायाम्, बाधनीयत्वमिति अप्रमाणतायाम् ।
(पगे ८०)
अनेन विरोधो बाधप्रमाणत्वयोर्निर्वाहितः । मायापदे च अवश्यमेत- दुपयुज्यते इति दर्शयति प्रमाणं हि इति ज्ञानमेव प्रमाणम् । उपयु- ज्यते इति प्रमाणतया उपयुज्यते । एवमर्थम् इति अन्वयद्वारेण प्रयोज- नं दर्शितं तन्निश्चायितः इति व्यतिरेकोपक्रमेण । तेन विसंवादभी- रुभिः प्रमाणमर्थ्यते इति संवादकमेव प्रमाणमिति । ननु किं संवादनेन, प्रवर्तकतामात्रेणैव तथा अस्तु । न,-इत्याह प्रवृत्तिः इति अपिशब्दादज्ञस्य अपि विपरीतवेदिनोऽपि अर्थितातारतम्यात् । मत्तोऽपिहि प्रवर्तते सविषेऽपिच अन्ने ज्ञाते मूढः, अन्यथा दृष्टप्रत्यवायेऽपि परस्वहरणादौ कथं प्रवर्तेत अनर्थनिश्चयवानपि । एवमियता मायापदे बाह्यदर्शने इव प्रामाण्यं यदुपपादितं, तत् विज्ञान- वादी विघटयति सिद्धान्तिमते मध्य एव अनुप्रविश्य एवं तर्हि इत्या- दिना प्रतिपत्तव्यम् इत्यन्तेन त्वया कुतः प्रकारादेतदङ्गीकर्तव्य- मित्यर्थः; सिद्धान्ती वा पूर्वापरविरोधमाशङ्क्यमानं परिहर्तुं स्वदर्शनमेव विमृशति अनेन ग्रन्थेन, शिष्यो वा विमर्शयति एवम्ब्रु-वाणः । निश्चीयेत इति अर्थक्रियासमर्थतया अपि भास्वरतैव निश्चीयते इति सम्भाव्येतेत्यर्थः । नियतिशक्तेः इति पञ्चमी, तया हेतुभूतय अर्थक्रियासमर्थ इति पूर्वेण सम्बन्धः । उक्तं हि चिन्मयत्वसूत्रे
अर्थक्रियापि बाह्यत्वे सा भिन्नाभासभेदतः । (१।८।६)
इति, वक्ष्यते च
अर्थक्रियापि सहजा नार्थानाम्———————। (२।३।१२)
इति । भवति इति यत् सम्भाव्यते । तथाच इति एवं सतीत्यर्थः ।
केशादेर्दर्-शनमात्रात् विशेषो न अवधार्यः, अयमित्यादिरित्यन्तश्च विशेषस्य आकारः काममियत्यपि यदुक्तं, तदपि
(पगे ८१)
विघटयति अर्थक्रियाज्ञानावसरेऽपि इति । एतदवभासे इति केशार्थ- क्रियावभासे यो लोकाकर्षणादिः कान्तायाः । कूटकार्षापणादपिहि मूल्यप्राप्तिर्भवति । विधिवशतोऽनर्थकारिणोऽपि इति अर्थक्रियाकारि- त्वेन यो न अभिमतः, तस्य अपि । ततोऽपि इति सुखाद्यर्थक्रियातोऽपि न अर्थ- क्रियासमर्थोऽवधार्यते अयमेव तथा, अयं तु न तथेति । नच युक्तं वक्तुं-प्रमातृव्यवसितार्थङ्क्रियाकारित्वेन सत्यत्वमिति प्रमात्रभिम-तत्वस्य बहुधाविघटनदर्शनात् । स एवहि रूपकविशेषः कदाचित् तृण-शतं प्रापयेत्, कदाचित् तृणपञ्चाशतमिति भूयाननियमः । अत एव तदर्थक्रियाकारित्वं यथानियतं, तथा तत्कारणजन्यत्वमपि । तथाहि अरणिलोहयन्त्रगल्वर्केन्धनपाषाणप्रभवेषु वह्निषु कतमं वह्नि- माचक्षीमहि । अतस्तज्जन्यत्वं भावाभासस्य स्वभाव इति अयुक्तम् ।
नहि यावान् व्यावृत्तिवर्ग एकदा भावाभासस्य दृष्टः, तादृशेन तेन सदा भवितव्यं तद्देशत्वतत्कालत्वाद्याभासानामपि अन्यतानुवृत्तेरयुक्-ताया अपि प्रसङ्गात् । अथ यावता व्यावृत्तिवर्गेण सामान्यसमूहेन वा तत् भावशरीरमवश्यं व्याप्यते, तावत् तस्य वपुः । तत्रापि न इयत्तां विद्मः । प्रतीतिपर्यालोचनया च भावस्य आभासमानरूपतात्यागेन रूपान्तरमुपपद्यते इति ।
तदसत्याभिमतेऽपि केशे केशतया प्रतिभास-माने कथं न सत्यतेति ।
एवमर्थक्रियासमर्थरूपावधारणस्य अशक्यत्वमुपपाद्य व्यर्थत्वमुपपादयति उत्तरकालम् इति । अनिश्चितप्रा-माण्यादेवहि प्रवृत्तेः पश्चाल्लब्धायामपि अर्थक्रियायां प्रमाणं परीक्षणमिति न तत्र प्रामाण्यनिश्चये सा उपयोगिनीति
प्रवृत्तिसामर्थ्यादर्थवत् प्रमाणम् ।
इति वात्स्यायनीयमपि अयुक्तमेव । एवं प्रत्यक्षमुपप्लुतीकृत्य अनुमानमपि
(पगे ८२)
तथा करोति तत् इति । प्रत्यक्षस्य प्रामाण्यमनिश्चितं चेत्, तर्हि पक्षधर्- मत्वसपक्षसद्भावविपक्षव्यावृत्तिप्रायं स्वरूपं प्रत्यक्षेणैव मूले निश्चेतव्यं यस्य लिङ्गस्य, तदपि न सिद्धमप्रमाणगृहीततत्त्व- स्य अलिङ्गत्वादिति लिङ्गतोऽर्थदृक् इति यदनुमानं, तदपि न किञ्चिदिति न प्रमाणव्यवस्था काचित् । प्रामाण्यावधारणस्य अशक्यतामुपगम्य यत् निष्फलत्वमुक्तम्, तत् तावत् परिहरति अशक्यता हि पूर्वपक्षवादिनैव अभ्युपगमं दर्शयता शिथिलीकृतेत्याशयेन ।
इह इत्यादिना विभगव्युत्-पत्तये प्रामाण्यमवधारणीयम् । सा च यत्नहातव्ये यत्नोपादातव्ये च अवश्यमुपयुज्यते । तदाह कदाचित् इति ।
विनापि इति ग्रामात् स्ववेश्म प्रत्यागच्छन् न दग्धं, न लुठितं, न ततो धनसुतदाराः केनचित् नीताः इति कथं निश्चिनुयात् । तथाच इति तेन प्रकारेण योऽभ्यासस्ततो हेतोरित्यर्थः । युक्तं च एतदित्याह तथाहि इति सन्निवेशान्तरे तु इति दूरदेशविगुणेन्द्रियास्पष्टालोकादौ सति ।
अर्थाः इति अर्थविषयज्ञान-स्वरूपमेवं भवति,-इति सम्बन्धः ।
तेन हि इति संवादेन । तत्स्वरू-पं दर्शयति यत्तत् इति लोकप्रसिद्धमेव, नतु अपूर्वं स्वपरिभाषितं किञ्चित् प्रमात्रैव क्रियते इति । प्रमातुः स्वातन्त्र्यं यदुक्तम्, तत् दर्शयति अव्यभिचार्यर्थान्तर इत्यादिना ।
व्यवतिष्ठते इति परोक्षेऽर्थे ज्ञान-मिति सिद्धन्तः । एतदुक्तं भवति- प्रत्यक्षमर्थसामर्थ्यात्, अनुमान-मर्थान्तरसामर्थ्यात्, आगमः प्रमातृसामर्थ्यात् तथा विततावितत-प्रमात्रन्तरसामर्थ्यादिति विशेषः । तिरश्चापि इति । ते हि दण्डमुद्यतं दृष्ट्वा प्रहारमनुमिमते, उपदेशं गृह्णन्ति, स्वजातिप्रसिद्धिं च आद्रियन्ते ।
असकृत्परिशीलितेऽपि अवधानरक्षणा भवति उपदेशे
(पगे ८३)
इति दृष्टान्तेन घटयति असकृत् इत्यादिना । तदर्जनोपाय उपदिश्यते इति सम्बन्धः । परस्य लोकायतस्य सम्बन्धिनं श्लोकोक्तमाक्षेपमा- शङ्क्य ननु प्रामाण्यविषयोऽनवधानजनितो मोहः किमिति यत्ननिवर्त-नीयः । आह अदृष्टे च इति । दृष्टेऽपि तावत् प्रामाणिको जनः प्रवृत्तो विफलतया विडम्बनातस्त्रस्यति, अदृष्टे पुनर्महान् प्रत्यवायो दुःख-वेदनीयनरकात्मा, अनन्तं च क्रमतारतम्येन स्वर्गापवर्गलक्षण-मानन्दरूपमवश्यं हानोपादानविषयः प्रेक्षावताम् । अनर्थ इति दृष्टविषय इति मन्तव्यम् । तथाहि राजिलसर्पं मालात्वेन निश्चित्य उपा-ददानो मरणे नरकपातानुबन्धिना प्रयुज्यते इति प्रत्यक्षं विवेक्त-व्यम् । अनुमानं च तत्र अनुसरणीयम्- एवंविधे महति कान्तारे कुतश्-चित्रकुसुमोम्भितस्रक्सम्भवः इति ।
एवमियता प्रत्यक्षानुमानयोर्दृष्ट-विषयतया सातिशयान्वेषणीयं सत्यादौ चित्रादौ दृष्टविषयताया-मागममपि अनुग्रहीतुमस्ति सामर्थ्यमिति दर्शयता परस्परानुग्रह-तन्त्रत्वं प्रमाणानामुक्तम् । तथाहि प्रत्यक्षदृष्टमपि अर्थक्रियासु शिष्टैर्योज्यमानामागमलक्षणां प्रसिद्धिमपेक्षते एव-इयं सा गौर्यस्याः क्षीरं पथ्यं पवित्रं च, इयं सा गर्दभी यस्याः पयोऽग्निसादनमपवित्रं चेति । तत एव प्रमाणसमूहादेव प्रवृत्तिरिति वक्ष्यते
सा तु देशादिका———————। (२।३।९)
इति । सच एकान्तर्मुखस्वतन्त्रपरामर्शसंयोजितवियोजिताभासस्वसंवे- दनरूपपरमेश्वरस्वातन्त्र्यवाद एव युज्यते,-इत्येतदपि अग्रे भविष्यति । इह आस्तां तावत् । ततश्च इति यदवश्यानुसरणीयमुक्तम् । इदं च अस्माभिरादिवाक्य एव व्याख्यातम्, विवृतिकृत्तु पूर्वमाख्यातमधुना सङ्क्षेपतो व्याख्यातुं पठति
(पगे ८४)
प्रसिद्ध इति । प्रतीतेर्निरूढिर्दृढता । शब्दनरूपत्वं विमर्शनं यदान्तरं चित्स्वभावस्य अन्तरङ्गं रूपं प्रत्यक्षादेरपि जीवित- कल्पं, तेन यत् विमृष्टं, तत् तथैव भवति,-इति न अत्र विवादो यथा गरुड एव अहं क्रीडामि पन्नगैर्विषममृतीकरोमीति । तथाच आहुः
आत्मानं यादृशं योऽत्र भावयेत्तादृशो ह्यसौ ।
इति,
आत्मानं यादृशं वेद देवा एनं तथा विदुः ।
इति च । ततः स एव विमर्श आगम इति उच्यते मुख्यतया, तदुपयोगितया तु उपचारेण तज्जनकोऽपि शब्दराशिः । परोक्षे च अर्थे तस्य प्रामाण्यम् ।
प्रत्यक्षप्रमिते हि तत्फलमकिञ्चित्करमिति धूम इव अग्नेरित्यादिकं केवलमप्रमाणम् । एतत् हि प्रमाणमध्ये निषेध्यत्वेन वा उपयोगान्त- रेण वा देशकालभेदसृष्ट्यन्तरादिनिरूपणेन वा प्रमाणतां भजतां नाम अञ्जनादि इव प्रत्यक्षताम् । यत्र यदा इति व्याचष्टे यथा यस्य अर्थस्य इति । अनेन च एतत् परिहृतम्-यदाहुरेके वक्तव्यं कोऽसाविति वृद्धाम्भिरिति, तथा कस्य क आगमः इति परस्परविरुद्धोपदे- शिनो हि आगमाः, नच य एकस्य आगमः, सोऽन्यस्य अनागमः इति युक्तं प्रमाणस्य अपक्षपातित्वादिति । तथाहि अपक्षपातित्वं कीदृक् प्रमाण- स्य । किन्नु खलु भोः प्रत्यक्षानुमाने चैत्रीये मैत्रस्य नीलवह्न्यादिक-मवभासयतो येन अपक्षपातिनी स्याताम् । चैत्रं प्रति वा यः सिद्धा-देशः प्राप्तः-ते निधिलाभो भाविता-इति, स किं मैत्रस्य आगमः । अथ तथाजातीये प्रत्यक्षानुमाने मैत्रस्य अपि कदाचित् भवत इति अपक्षपा-तिता, सा तर्हि आगमस्य अपि अविशिष्टा ।
अवश्यं हि सौगतचार्वाकादेरपि
(पगे ८५)
क्वचन प्रत्ययितपुरुषवचसि प्रतीतिनिरूढिर्भवेदेव । तथाहि दृढवि- मर्शरूपं शब्दनमागमः आ समन्तादर्थं गमयतीति तत्र यथैव अप्रमाणभूतद्विचन्द्रसंवेदन उपयोगमुपगच्छदालोकेन्द्रि-यादिकमप्रमाणम्, नच इयता सम्यक् प्रत्यक्षस्य पक्षपातिता प्रसज्यते काचित्; तथा ज्योतिष्टोमादिवाक्ये शूद्रादीनामनधिकारिणामदृढ-विमर्शरूप आगमाभासे उपयोगं व्रजन्नप्रमाणभूतोऽपि श्रद्धादरवति द्विजे दृढविमर्शात्मकसम्यगागमरूपशब्दनोप-योगे प्रामाण्यमासादयन् न पक्षपातादिवाच्यतार्हः । सर्व एवहि आगमो नियताधिकारिदेशकालदशासहकारिप्रभृतीनामृश्य विधिनिषे- धादिविमर्शमयः । ततश्च कश्चित् पुरुषः कञ्चिदेव देवसिद्धाद्यन्य-तमकरणीयोचितविमर्शं स्वात्मसंयोजनेन विमृशन् भगवता सृष्टः, अन्यस्तु अन्यं विमर्शमिति रिक्तस्य जन्तोः इति असदेतत् । दृढनिरू-ढिरेवच तत्तदधिकारिलक्षणं मुख्यमिति दर्शितं श्रुत्यैव यश्चैन-मेवं वेद । इति विद्वान् यजेत् । इति ।
तदर्थमेवच उक्तं श्रद्धामयोऽयं पुरुषः । इत्यादि । एतच्च अग्रे स्फुटीभविष्यतीति । युक्तिमान् इत्यादि व्या-चष्टे तस्याश्च इति प्रतीतिनिरूढेः । न्यायः इति अनुमानम् । ईश्वरसद्-भावे हि सन्निवेशकार्यादिलिङ्गजमनुमानमस्त्येव, तत्त्वभुवनादी-नां तु इयत्तायां नास्ति अनुमानमिति आगम एव तत्र शरणम्; एवं शास्त्रनिबद्धायामुभयं व्याख्याय लोकपरस्पराप्रतिष्ठितायां व्याचष्टे लोकेऽपि इति । कश्मीरेषु इति मध्यपूर्वकालदेशादौ हि धी- वरा एव गृहकरणीयं भूयसा विदधते; शास्त्राश्रितायां शास्त्रेण गृहीतव्याप्तिका युक्तिरनुमितिः, तया अनुगमः संवादो मुख्यमिति तेनैव वस्तुनो निश्चये कृते युक्तेर्गृहीतग्राहित्वम् । ननु विपर्ययो न कस्मादित्याशङ्क्य आह यतः इति । प्रत्यक्षेण
(पगे ८६)
हि तावदिन्द्रियजेन स्वसंवेदनेन योगाभ्यासजेन च नीलसुखब्रह्मलो- कादिरर्थः साक्षादेव अवभासते । तत्र संशयाभावात् युज्यते इति न युज्यते वक्तुम् । यत्र हि परोक्षत्वं तत एवच संशयास्पदत्वम्, तत्र यो निश्चयो विषयभावोऽर्थस्य; स युज्यते इति व्यपदिश्यते । तत्र हि अद्रौ दृष्टे परेण किमत्र अग्निर्नवा,-इति पृष्टे अग्निरस्ति अत्रेति प्रयुक्ते कथमिति पुनः पृष्टे धूमादिति उक्ते प्रथम आह युज्यते इति हेतुर्न उपपाद्य इति यावत् । तथाच तत्रभवानाह
प्रसिद्धन्यायकरणो युजिर्भाष्ये उदाहृतः ।
इति । अतो युज्यते यया सामग्र्या अर्थः, सा युक्तिरनुमानमेव उच्यते । यत्तु कैश्चित्
बुद्धिः पश्यति या भावान्—————————–।
इति युक्तिर्युक्तिरेव इति अमन्दत्वं प्रज्ञायाः इति अनुमानपरिकर इति युक्ति- स्वरूपमुक्तम्, तदग्रे परीक्षिष्यते योगिनिर्माणतासूत्रे प्रतिबन्धचिन्- तायाम् । ननु युक्तिरनुमानं यदि, तथापि कथमियममुख्या । आह तच्च इति अनुमानम् । कार्यादि इति कार्यस्वभावद्वयरूपं कार्यं, कारणं संयोगि समवायि विरोधि चेति लैङ्गिकमिति वा पञ्चकरूपम् ।
इदमस्य कार्यम्, अस्य स्वभावः; अस्य कारणम् अस्य संयोगि अस्य सम- वायि अस्य विरोधि नियमेन,-इत्येवम्भूतो यः कार्यादिभावः, स दुर्लक्षः सन्नपि अवधारयितुमशक्यो यस्य, तथाभूतं लिङ्गम् ।
ततश्च सुविवेचितम् इत्यादि यदुक्तम्, तदशक्यानुष्ठानमेव शेषशिरो- रत्नधारणसम्पाद्यव्याधिविध्वंसवत् । एवं सदपि नियतविषयं कार्यादित्वमनवधारणीयमुक्त्वा तदपि न सदिति दर्शयति योगि इति ।
योगिनिर्मितं वा इदं स्यात्, इतरत्
(पगे ८७)
वा लौकिकमित्यपि न अवधारयितुं शक्यम् । प्राक् इति
अर्थक्रियापि बाह्यत्वे सा भिन्ना————–। (१।८।६)
इत्यत्र । ननु धूमस्य पाण्डुरत्वोद्गच्छत्त्वादिवदग्निजत्वमपि रूपम्, तदनग्निजो धूम एव न भवति; यदि स्यात् इहापि अनग्निजत्वमेव अस्य आपतेदिति अग्नेर्न स्यादसावित्याशङ्क्य आह कार्यकारणभावश्च इति आस्वाभाविक इति । यदिहि कश्चिदग्निर्नाम भवेत् धूमो वा, तदा तयोर्यो नियमः पौर्वापर्यलक्षणः; स स्वभावो भवेत् यावता तावेव न कौचित् संविद्विजृम्भां मुक्त्वा । संविदेवहि तथा प्रथते स्वप्नसङ्कल्पयोगि-निर्माणादाविव । केवलं संविद्विजृम्भावशादेव यत्र नियतिशक्त्या आनन्तर्यनियमोऽवभास्यते, तत्र जाग्रद्व्यवहारः कारणतानिश्चय-श्च । तत्र कुतोऽयं निश्चयः-अग्न्यनन्तरेणैव धूमेन भवितव्यं तात्कालिकस्य दर्शनस्य सर्वत्र अव्यापारात् भूयोदर्शनेऽपि अनाश्वा-सात् । भूयोदर्शने च सामग्रीमध्ये स्वात्मसन्निधानस्य प्रवेशितत्वात् मयि एतावद्देशविशेषांशमात्रमनधितिष्ठति अद्रष्टरि न भवति धूम इत्यपि स्यात्, परदर्शनोपजीवनेन तथा निश्चये आगमोऽङ्गीकृतो भवेत् ।
ननु एवं धूमस्य किं रूपम् । आह एकप्रत्यवमर्श इति धूमस्य हि धूमाभासतैव प्रयवमर्शदार्ढ्यमापन्ना रूपम्, न अग्न्यनन्तरता, नापि क्ण्ठाक्षिविकारपूर्वता । एवंहि सति वह्नेरपि किं रूपं, यदि इन्धनाद्यन्तरता, धूमादिपूर्वभाविता चेति; अनेन क्रमेण अनवस्था अन्योन्याश्रयत्वं च । एवं कण्ठाक्षिविकारेऽपि धूमापेक्षया अन्योन्याश्रयत्वं, स्वकार्यापेक्षया च अविश्रान्तिरिति न कदाचित् धूमो दृष्टो भवेत् । ततश्च सर्वोऽन्धो बधिरश्च भवेत् भाव-तत्त्वादर्शनात् । नच यावत्यो व्यावृत्तय एकदा दृष्टाः, तावत्यः सर्वदा भवितुमर्हन्ति देशकालान्तरायोगप्रसङ्गादेकस्वलक्षणाव-शेषतापत्तेः ।
(पगे ८८)
कतिपयव्यावृत्तियोजनं च परिभाषितं भावस्य रूपं स्यात्, कतिपय- त्वे च अवधिर्दृश्यः, परामर्श एव अवधिनियमहेतुरिति चेत्, तदिदमस्म- दुक्तमेव आपतति धूमप्रत्यवमर्शनीयो धूम इति, नतु एतत्कार्यमेतत् कारणमिति । एतद्देश एतत्काल एतद्दृश्य इति हि यथा न भावांशप्र- विष्टमेतदाभासान्तरत्वात्, तथा कार्यकारणाभासोऽपि केवलं नित्य-ताभासभेदव्यामिश्रणया स्वलक्षणोत्थापनं क्रियतां नाम, नतु तदकारणत्वे तदकार्यत्वे वा धूमाभासो न धूमाभासः । अत्र उदाहरणमाह यथा इति । लोकस्य हि प्रतिपत्तिः-अहो मणिमन्त्रादेः प्रभावो यदग्निरपि अयमविकलो न दहतीति । एवं यथा कार्ये न नियमो भावस्य, तथा कारणेऽपि, इति दर्शयति शालूकं च इति उत्पलकन्दम् । शालूकपरामर्शानिवृत्तेश्च तज्जातीयमेव तत् । तत् कथमिति । कारणभे-दात् कार्यभेद इतिनये बीजात् यत् कन्दं कन्दाच्च यत् कन्दं कदलीजन्म व्यवधिना उद्भिन्नमेव कन्दद्वयमिति, तत्कन्दद्वयोद्भवे कदल्यावपि भिद्येयाताम्, तद्भेदाच्च कदलीफलादीनामपि भेदः स्यात् । ततश्च यदुच्यते-अनन्तरं कारणं कार्यमनुमापयति तत्तुल्यरूपाणां तुल्यं यथा प्रबद्धयोः कदल्योः कन्दोद्भवः; यत्र तु साक्षात् हेतु-भेदः, तत्र रूपभेदोऽपि यथा तयोरेव बीजकन्दोद्भवयोः-इति, तत् विघटितं स्यादाद्येन हेतुभेदेन सर्वत्रैव कार्ये साक्षाद्धेतुभे-दस्य समानत्वात् । यथाच मरुदेशनिवासी गोमयमेव वह्नेः कारण-त्वेन नियमयन् मूर्खः, तद्वत् धूमस्यापि अन्ग्निं सोऽपि हि कल्पयेत्; यदि अगोमयोऽग्निः स्यात्, अयमपि स्यात्; नच अस्ति, तस्मादन्योऽपि अग्निर्गोमय एव भवति । अत्र इन्धनमात्रमेव तेन कारणतया कल्प्यम्, धूमस्य
(पगे ८९)
अपि अनन्तरं किञ्चित् वस्तुमात्रमिति को विशेषः । ननु तयोरपि कदल्योरस्तु भेदः । एतदपि अनुवदति दूषणाय तदस्तु इति ।
अस्मदापादितमङ्गीकृत्य अपि न फलसिद्धिरिति दर्शयति तथापि इति । असौ इति भेदः । तथाहि किमिदं रागादुदिताया वक्तुकामताया वचनम्, उत करुणात इति यथा सन्नपि कारणभेदात् कार्यभेदो दुर्ज्ञानः, तथा सर्वत्रेति सुविवेचितत्वोपाया-भावादशक्यानुष्ठानोपदेशोऽयं यत्
भवद्भिरेव शक्येत ज्ञातुं सोऽतिशयो यदि ।
इति । किञ्च सामग्री सर्वत्र कारणम्, तस्यां च सहकारिवर्गोऽपि विचित्रो भवन् कार्यभेदं यदि विधत्ते, तत् फूत्कारात् पवनजवात् निघर्षाच्च उत्पद्यमाना अन्य एव ते वह्नयः इति किङ्कार्यस्य इदानीं धूमतेति न विद्मः । तस्मात् दुर्लभमनुमानमिति । धीवरस्पर्शो हि पापस्पर्शत्वात् पापाधायीति कारणात् कार्यानुमानमेतत् योग्यतानुमानं वा । तत्र च प्रतिबन्धकसम्भवात् नियतिविजृम्भादेर्न भवेदपि पातकहेतुतेति तत्र अनुमानमनादृत्य स्पर्शपरिहारे अङ्गतामगम एव आगच्छति स्वच्छ-प्रसिद्धिरूपः । तदाह तत् इति । प्रसङ्ख्यानवतामेव इति सावधाना-नां विवेकिनां विडम्बनभीरूणां च । आगमो हि नाम अयं शब्दनसङ्क्रान्तिशरीरः । यथाह भगवाननन्तः
परत्र स्वबोधसङ्क्रान्तये शब्देन उपदिश्यते ।
इति । तत्र स्वबोधः प्रत्यक्षेण स्वसंवेदनात्मना, शब्दश्च श्रोत्रेन्द्रि- याध्यक्षेण प्रमेय इति प्रत्यक्षस्य चेत् प्रामाण्यं प्रति दौर्बल्यं स्यात्, तदा आगमस्य अपि तदापतेदित्याशङ्कां शमयति प्रत्यक्षं च इति । एतत् सविशेषणं कर्तृ, सामान्यं तु अवस्थाप्यमानं कर्म ।
अत्र उदाहणं यथा इति । प्रत्यक्षादेव इति प्रत्यक्षेण हि गृहाभासः प्राप्तिप्रेप्साविषयत्वेन निश्चित एव । ननु एवन्निश्चये
(पगे ९०)
कथं तद्विरुद्धः संशय इति कथमवादि संशयादपि इति । अत्र आह केवलम् इति आभासान्तरेऽप्रमाणाभिमते स संशय इति यावत् । गुड इति, नहि मधुरमात्रे कठिनमात्रे रक्तमात्रे वा गुडव्यवहारो मधुनि लोष्टे लाक्षायां च तदभावादिति मिलिते एव रूपाद्याभासवर्गे तद्व्य-वहारः । तत एव इति । प्रत्यक्षात् । नास्ति इति अबाधितविमर्शेनहि प्रतिभा-सेन तदवस्थापितं साक्षात्, तत् कथमन्यथा भवेत् । ननु एवं रजतं स्यात् वा, न वेति, रजतमेव इदमिति, नतु रजतमिदमिति कथं सकृदेव रजततत्त्वग्राहिणा प्रत्यक्षेण अवधारिते रजते संशयनिश्चयविपर्य-यविभागः; निश्चयरूपतयैव हि एकरसतया युक्तं भवितुम् । सत्यमे-वं, रजताभासांशे संशयविपर्ययौ तु देशकालाभासान्तरमि-श्रणपुरःसरो योऽर्थक्रियाभासस्तन्महिम्ना भवत इति त्रैधं न अनुपपन्नम् ।
तदाह सर्वत्र च इति । पूर्ववत् इति । यथा पूर्वमुक्तं
सुखादिषु च सौख्यादिहेतुष्वपिच——————। (१।८।३)
इत्यत्र प्रकरणे ग्राह्यत्वबाह्यत्वाद्याभासान्तरसम्भेदादिचिन्तनम्, तथा अत्रापि अनुसरणीयम् । यद्वा पूर्वमत्रैव विवृतिग्रन्थे यदुक्तम- नन्तरमेव केवलं देशकालभेदापेक्षया इति, तदतिदिश्यते पूर्ववत् इति । ननु सामान्यमात्रे तावत् विमर्शोदयः इति उक्तम्, तत् किमनेन देशादिविशिष्टं पुनः स्वलक्षणम् इत्यादिना । आह निश्चिते च इति । यद्यपि प्रत्यक्षेण एकसामान्यविषय एव प्रामाण्यमासादितम्, तथापि मिश्रणाभासांशे प्रामाण्यमखण्डितमेवेति सामान्यं सर्व-देशकालगतं सिद्ध्यति, स्वलक्षणं तु असर्वदेशकालमिति विभागो-ऽयं सिद्धेः कृतः सर्वदेशकालगामित्वेऽपि । तथैव इति देशादिविशिष्टम् ।
(पगे ९१)
पुनर् इति वाक्यद्वयेन । विषय इति सामान्यादौ इति च वैयधिकरण्येन ।
अनेकसामान्यमेलनेन इति तत एव सिद्ध्यति इत्यन्तं यदुक्तम्, तदेव व्यवहारे स्वभावहेतुसमर्थनाय हेतुत्वेन उपजीवति अत एव इति । अत्र इति शिंशिपात्वे । तस्य इति वृक्षत्वस्य । सच इति यदेतत् नियतिमहिम्ना त्रैकाल्ये-ऽपि शिंशिपात्वमन्तर्भावितवृक्षत्वम्, एषोऽसौ तन्मात्रानुसम्बन्धः शिंशिपात्वमात्र समाकृष्यत्वम् । यदाह
तन्मात्रभावान्वयिनिःस्वभावो हेतुरात्मनि ।
इति । स्यात् इति ननु सम्भाव्यमेतत् भिन्नत्वादनयोराभासयोः । ननु वृक्षत्वं समुज्झ्य भवन्ती शिंशिपा निःस्वभावा कथं भवेत् ।
अत्र आह अग्रे इति योगिनिर्माणतासूत्रे । तथा इति प्रत्यक्षागमवदिति यावत् । लोकसंव्यवहारे तु का पीडा (?) न्यायेन उपयुज्यते । तत एव परमेश्व-रागमप्रसिद्धिमूलत्वेन देशदशापुरुषविशेषान्तरेऽपि या प्रसिद्धि-रबाधिता नियति स्वरूपानुवर्तिनी, तन्मूलानामेव अनुमानानां करणकर्त्रनुमानानामिव निर्विवादं प्रामाण्यम्; नतु स्वयङ्कल्प-नोत्थापितानां सद्वितीयान्यतरत्वादीनाम् । आ जन्मनोऽनन्तपूर्वजन्-मकोटिसहस्रावधेर्वा यत् व्यवहारपरिशीलनं, तद्बलेन वा; परकीय-परिपक्वप्रतिभोपजीवनेन अर्थक्रियालाभेन वा प्रतिभापरिपाके जाते प्रमाणस्य सार्वत्रिकवस्तुतथात्वनिश्चये व्यापारोऽखण्डितः । तदाह अभ्यासात् इति । अत एव इति । यतोऽभ्यासादेवं भवति, ततो यदुक्तम्पश्- चात्संवादेन किं कृत्यमिति, तत् निरस्तं भवति अभ्यासांशे तस्य उपयोगादिति तात्पर्यम् । तदा इति साक्षात्कारसमये । एतस्मात् वस्तुसिद्धिर्जाता, स साक्षात्कारः स्वसमये
(पगे ९२)
प्रमाणमिति यो निश्चयः, स तदा तद्वस्तुसिद्धिनिश्चयः । अन्यथा इति अन- भ्यासेन अर्थक्रियारूपनिश्चयाभावे । तथाहि तदा संवादान्तरम- पेक्षन्ते । संवादोऽपिच इति तस्य अर्थक्रियादेः । कार्यसहचारिप्रभृ- तेर्या प्राप्तिः, स संवादः इति सम्बन्धः । एतत् सर्वं बाह्यर्थसिद्धि- सम्मतमपि तद्दर्शने न कथञ्चिदुपपद्यते अभ्यासादेः संस्कार- सारत्वात् तस्य च प्रमात्रेकतायामुपपत्तेरिति हि दर्शित्तं
दृक्स्वाभासैव————————। (१।३।२)
इत्याद्युद्देशेषु । तदस्मद्दर्शने तु उपपन्नमित्याशयेन पुनरिह वितत्य दर्शितं मन्तव्यम्, नियतिशक्तिस्तु महाभाससारतया तत्र प्रवेशनीयेति अधिकमियत् । तथाच इति येदेतदुक्तं प्रमेयं, तेन हेतुप्रकारेणेत्यर्-थः । तावत् इति संव्यवहारे दृष्टविषय इति मन्यते ।
क इव इति एकप्रमा- तृरूपसङ्कुचितप्रकाशावेशिनीलाद्यवभासविमर्शनरूपात् प्रत्य- क्षात् समस्ताविगीतविमर्शनरूपपरिच्छेदशून्यासङ्कुचितप्रकाश- विश्रान्तभावतत्त्वावभासविमर्शनस्वभाव आगमो बलवानिति यावत् । एनमागममविगीतप्रसिद्धिलक्षणं विभजति तथाहि इति ।
वेदशैववैष्-णवादीनां हि योऽर्थो विमृश्यमानः परस्परानुष्ठानेन प्रसिद्धः; सोऽनेनैव उक्तः, अनेनैव उत्पादितः, अमुष्मात् कालादारभ्यैव प्रवृत्त इति न अवच्छेदभागीति अनवच्छिन्नप्रकाशधर्मो विमर्शात्मा परमे-श्वर एवेति अनादित्वमेव तत्र । कठादिभिर्भार्गवमतङ्गादिभिर्नारद- प्रभृतिमिश्च प्रसिद्धानुष्ठानमनादि एव निबध्यते यतः शब्दनं समासव्यासोपकल्पितवाक्ययोजनाभिः । नच अस्या यत्नसाध्यं पारमेश्वरीत्वमिति दर्शयति सर्वैव इति । उपपादितम् इति
तत्र ज्ञानं स्वतः सिद्धम्————————। (१।१।५)
(पगे ९३)
इत्यादौ । उपपादयिष्यते इति
इत्थं तथा घटपटाद्याभास——————-। (२।४।२१)
इत्यादिस्थानेषु । यदि सर्वा मानसी वाङ्मयी वा प्रवृत्तिः पारमेश्वरी, तर्हि, मनोराज्यादावपि सा प्रवृत्तिः कथं विसंवादिनी ।
आह तस्यास्तु इति । बाह्यार्थपर्यन्तीभावेन सता असता च उपलक्षितो योऽस्याः प्रवृत्ते-राद्याया ऐश्वर्याः सम्बन्धिनि पाशववाङ्मनसव्यापारे रूपवैल-क्षण्यभेदः प्रातिस्विको विशेषः सम्भवन्नपि दुर्लक्ष इति प्रवृत्तिरुप-पन्ना लोकस्य, प्रवृत्तौ च विसंवादोऽपि उपपन्नः पाशववाङ्मनस-व्यापारभावापत्तौ, तत्र च बाह्यार्थपर्यन्तीभावाभावाभ्यां रूपवैलक्षण्ये तस्य दुर्लक्षत्वम्, ततश्च प्रवृत्तावपि विसंवादे परमेश्वरेच्छया इति हेतुत्वेन योज्यम् । निरुध्यमानापि इति निरोद्धु-मिष्टा अपीत्यर्थः ।
निश्चलैव इति निरोधेच्छया चाल्यमाना अपि अविचला । प्रतिभासञ्ज्ञा इति प्रतिभानलक्षणा इयं शब्दभावनाख्य आगम एवेति यावत् ।
भावितम् इति ।
अत्थिविसण्णत्थिविसण्णत्थितिहु अणेस अले ।
इत्याद्युपदेशविशेषैः शब्दनरूपैरोतप्रोतीकृतं व्याप्तमन्तःकर- णं सङ्कल्पाभिमाननिश्चयवृत्तित्रयमयं यस्य, मन्त्रा अपिहि शुद्धसंविद्रूपपरमेश्वरसम्बन्धिपुराणतमसिद्धैकरूपवि- शिष्टविमर्शस्वभावा यस्यैव प्रमातुर्विमर्शमात्मना अभिव्याप्नु- वन्ति; तस्यैव तथारूपतां बलादेव उल्लासयन्तस्तथाविधविशिष्टफल-दाः । तत एव उक्तं
सहाराधकचित्तेन———————। (स्प। का। २७)
इति । ननु पशुप्रमातुर्योऽभिमानात्मा शब्दनविशेषः, सा कथं पारमेश्वरी वागित्याशङ्क्य परमेश्वररूपता सर्वत्रैव अनिरुद्धा, केवलं तदिच्छयैव तस्याः क्वापि अंशे विचित्रे प्रोन्मज्जननिमज्जने भवत
(पगे ९४)
इति दर्शयति संसारिणो हि इति । तदानीम् इति परमेश्वरतापरिहारकाले लोष्टादिवदस्वातन्त्र्यात् । प्रमातृता इति प्राणादेः प्रमातृता कथ्यते व्यवह्रियते परम्, न तात्त्विकीति यावत् । पारमैश्वर्यस्य अशेषप्रकाश- विमर्शमयस्य योगस्ततः । एतदुक्तं भवति-यथैव विश्वप्रकाशात्- मा परमेश्वरः, तथा विश्वविमर्शात्मा । तत्र बाह्यत्वग्राह्यत्वार्थ-क्रियातत्सहकारिवर्गस्य यथा प्रकाशः, तथैव विमर्शः । तत ईश्वरे-च्छयैव यो यत्र विमर्शांशे एकीकृतः समुज्झितुमिच्छुरपि न उज्झितुं शक्नोति, तत एव
रुद्रांशो रुद्रभक्तस्तु—————————————–।
इत्यादिना भावांशकप्राधान्यमागमेषु उपदर्शितम् । सा इति प्रतीति- स्तादृशी सार्वज्ञ्यं प्रत्येतव्ये वस्तुनि तथाभावनिश्चायकतेति यावत् ।
ननु ईश्वरेच्छयैव यत् यस्य निरूढं शब्दनं, स एव तस्य आगम इति क इदानीं प्रामाणिकानां प्रोत्कर्षः । आः के वराकाः प्रामाणिकाः । ईश्वर एवहि तथा भाति विमृशति विमर्शयति च । ननु एवं तूष्णीम-वस्थीयताम्, किं शास्त्रप्रणयनोपदेशश्रवणानुष्ठानैः । सत्यम-वस्थीयते यदि स तथा अवतिष्ठासीत परमेश्वरः । तत् सुधाकन्दरोद्वहनमपि ईश्वरेच्छैव । तथाच शिवदृष्टिः
स एव शास्त्रकर्तृत्वे———————————–। (३।७५)
इत्यादि
———————–यावत्तदनुष्ठानतत्परः ।
इत्यपि । इयता मानसीं वृत्तिं विचार्य वाङ्मयीं विचारयति वागपि इति ।
तथाच इति यतः प्ररूढा सती प्रमाणम्, ततः परयूथ्येषु प्ररोहा- भावलक्षणेन बाधनेन अविमर्शीकृता नैव प्रमाणम् । ननु निरूढत्वात् न प्रमाणम्, अपितु प्रमाणोपपन्नत्वात् ।
(पगे
नैवमित्याह युक्त्यंशस्तु इति । न तावत् सर्वत्र न्यायो निर्वहति; यत्रापि निर्वहति, तत्रापि पूर्वोक्तदृष्ट्या कार्यादिरूपस्य दुर्ज्ञानत्वात् दुर्बलः; स्वगृहे बलवानपि वाद्यन्तरोत्थापितन्यायान्तरदृशि दुर्बल- तरीभवति । तथापि च आद्यापि यावदासंसारं प्रवहतां कर्तषट्क-तद्भेदसहस्रोत्थाप्यमानानां न्यायानां न पर्यवसानं किञ्चिदपि लभ्यते । यदाह
यत्नेनानुमितोऽप्यर्थः——————-। (वा। प। १।३४)
इति
सर्वः फलोचितानर्थानागमात् प्रतिपद्यते ।
विपरीतं च सर्वत्र शक्यते वक्तुमागमे । (वा। प।१।१४२)
इति च । परकीय इति क्रमयौगपद्ये क्रमकार्यकारित्वस्य व्यापके इति यदुच्यते, तत् किं वस्तु अपेक्ष्य; अथ सम्भाव्य, न तावत् विरुद्धे द्वे एकस्य व्यापके वस्तुनो भवितुमर्हतः, अन्यतरस्य अपि एवं कथं व्यापकत्वम्, क्रमश्च न असकृत् वा करणं, तच्च असम्भाव्येव वस्तुत इति तदपेक्षया द्वितीयोऽपि राशिर्न कश्चिदिति तदतद्रूपपरिच्छेदव्यव- च्छेदाभ्यां तृतीयराश्यभावनिश्चयो नास्ति,-इति गत्यन्तरक्षयोऽपि न कश्चित् । सम्भावना तु विकल्पमात्रं, न तया समुत्थापितो व्याप्यव्या- पकभावो वस्तु आविशति,-इति क्षणिकोऽपि न तावत् क्रमेण करोति अननुवृत्ति-धर्मकत्वात्, न अक्रमेण एकेन वपुषा कार्यकरणे तद्भेदायोगात्, अनेकेन अपि करणे यौगपद्यायोगात्, सहकारिसम्पातात् तथा करणे तस्यैव व्यापकत्वं स्यात् न क्रमाक्रमयोरित्यादिको नैय्यायिकोक्तो दुर्बलीभवति न्यायः । एषा पिशाचोक्तिः, अन्योक्ता शक्यपरिहारेति सर्वथा तर्कोऽप्रतिष्ठ एव । तथैवहि परमेश्वरेण स सृष्टः । तत एव इह शक्तिसंवर्धनक्रमेण अन्तःसङ्कुचितविमर्शशक्तिसमाकर्षणेन
(पगे ९६)
तथैव भोगापवर्गोपयोगिना उपयुज्यमानः प्रमेश्वरेण सृष्टस्तर्क- संसारः काव्यसंसारवदपर एव । विचित्रा हि अमी संसाराः । अप्र- तिष्ठितत्वेऽपितु तर्कस्य न अस्मद्दर्शनस्य खण्डना काचित् ।
आभासमा-नवस्तुवादे हि परमेश्वरेच्छया अयमाभासनियमः । सा च वैचित्र्येण आभासानुत्थापयन्ती तत्संयोजनवियोजनवैचित्र्येण च प्रमातॄन् विचित्रीकुर्वाणा अपर्यनुयोज्या,-इत्येतावदेव न्यायमवतिष्ठते । तदय-मलब्धगाध एव तर्कः शोभते । अत्र तु स्वबुद्धिगर्वेण प्रतिष्ठां पश्यन् स्वगृहप्राङ्गणन्ध्यकल्पितनिःशेषभूगोलकमध्यध्रुवकस्- थानवत् मूढो वा डिम्बविडम्बको वेति आस्ताम् । सर्वथा अनुमाने न आश्वसितव्यम्, अपितु आगम एव । स च यो यस्य हृदये निरूढिमुपगतः, स एव । ननु एवं यस्य न किञ्चित् निरूढं, तस्य किम् । ननु एवं यस्य चक्षुषी न स्तः, तस्य किम् । तत्कर्तव्यहानोपादानविरह इति चेत्, इहापि आगमविशेषसम्पाद्यभोगापवर्गोपादाननरकपातादिपरिहारविरह एवेति । यदाह मीमांसकाग्रणीर्भट्टनायकः
महान्ति पातकान्याहुर्यदाज्ञावशतः सुराः । पावनानि नमस्तस्मै स्वच्छन्दाय हराय ते ॥
इति । अत्र त्रिधा विध्यनुवादयोगो व्याख्यातव्य इति । निरूढतया आगमो मानम् । तदाह प्रसिद्धं तु इति यत् यदा यथा यत्र इत्यनेन क्रमेण सर्वागमानां प्रामाण्यम् । म्लेच्छाद्यागमो हि तावति प्रमाणं भवन्नपि अनार्यसम्पर्कसम्भाव्यमानम्लानिरागमाभासः । तथा श्रुत्युक्तेषु एव
महाजं वा महोक्षं वा————————–।
इत्यादिकर्तव्येषु मध्यात् तदिच्छावशात् महोक्षप्रोक्षणेऽत्यन्तविरु- द्धेऽपि
(पगे ९७)
चिरजीविनामृषिप्रायाणामेवं बुद्धिर्जायते अद्य एतत् युक्तमिति अद्य न विधीयते, नतु पूर्वमयुक्तकारिणो वयमिति । यत्र तु अन्यागमसंवल- नया प्रमातुः पूर्वमेव अहमयुक्तकारी अभवमिति प्रत्ययो जायते, तत्र न आगमत्वमेव । तत्रापि भगवन्नियत्या पारमेश्वरागमे एवं- विधबुद्ध्युत्पादे विलयव्यवहारोऽनन्तप्रत्यवायफलः, अन्यत्रतु तथात्वोदये पारमेश्वरागमसमाश्वासेऽनुग्रहव्यवहारोऽऽनन्ता- भ्युदयलाभात् । तत्रापि च तदागमत्यागप्रत्यवायपरिहारो लिङ्गोद्धा-रादिदीक्षया परमेश्वरेणैव निरूपितः, नतु शैवागमाद्यसमाश्वस्-तवैष्णवादौ तथा दर्शितमिति वस्तुतत्त्वानुसारिण आगमाः । पुरुषप्र-ज्ञास्तु स्वोत्थापितपक्षपातयुक्ताः स्वबलेन उत्कर्षापकर्षावुत्थाप-यन्त्यः सम्भाव्यमानबाधाः,-इति अलमतिजल्पितेन । नतु एवं यदि अनियतकर्तृकैव वाक् पारमेश्वरी, तर्हि सिद्धान्तश्रुत्यादेः प्रामाण्यं स्यात्
अदृष्टविग्रहाच्छान्ताच्छिवात्परमकारणात् । नादरूपं विनिष्क्रान्तं शास्त्रं परमदुर्लभम् ॥
इति
अमूर्ताद्गगनाद्यद्वन्निर्घातो जायते महान् । शान्तात्संविन्मयात् तद्वच्छब्दाख्यं शास्त्रम्——॥
इत्यनेन क्रमेण अनादित्वात् परमेश्वरे प्रकाशविमर्शस्वभावे काला- नुल्लासात्, बुद्धादिप्रणीतत्वात्तु न बौद्धागमादीनां भवेत् । अत्र समाधिः बौद्ध इति । नहि बुद्धो नाम नियतः कश्चित्, अपि तु भावना- बलप्रतिलब्धक्षणिकादिदृढविमर्शः । तस्य क्षणिकादिभावनोपदेशी गुरुः पूर्वबुद्धः, तस्यापि अन्यः,-इति क्रमेण अनियतवक्तृकत्वात् पार- मेश्वरविमर्शमयतैव वस्तुतः । एवं चतुर्विंशतितत्त्वभावनाभा- वितः कपिलो मन्तव्यः । अत एव सर्वागमा
(पगे ९८)
अनादय एव । तथाच पारमेश्वरेषु अपि शास्त्रेषु तद्वृत्तान्ताः श्रूयन्त एव
बुद्धितत्त्वे स्थिता बौद्धा अव्यक्ते पाञ्चरात्रिकाः ।
इति
यत्किञ्चिद्वाङ्मयं लोके बौद्धमार्हतवैदिकम् । वैमलं पाञ्चरात्रं च लाकुलं साङ्ख्यमेव च ॥ तद्ग्राहयेन्न सन्देह—————————————–।
इति
इत्येवंवादिनां तेषां वादिनां तु शतत्रयम् ।
त्रिषष्ट्यभ्यधिकं च————————————-। (स्व। १०।६८०)
इति
एतत्पुरुषविज्ञानं कपिलाय महात्मने । मया प्रोक्तम्————————————–॥
इत्यादि च । तेन कण्ठोक्तिवत् सुगतोक्तिस्तत्र, नतु तत्कृतं प्रामाण्यम् । तत्- कृतत्वमेवहि प्रसिद्धिमन्तरेण किम्प्रमाणकमिति प्रसिद्धिरेव एका प्रमाणम् । परमेश्वरेछावशाच्च सुगतकपिलादयोऽपि तत्प्रसिद्ध्यनु- प्रविष्टाः कृता अनुग्राह्यास्तानेव अन्यांश्च अनुग्रहीतुम् । लोकप्रसि- द्धिः इति यो यत्र व्यवहारे व्यवहर्ता, स तत्र लोकः । देशे इति तत्तद्व्यव- हारस्थाने । एतत् संवादयति कामम् इति । केनचिदागमनिश्चयेन यद्यपि निर्मितमन्यलोकाचारेण च विरुद्धं तथाविधमपि चरणं चेष्टितं यत्; तदपि प्रतिपद्यन्ते कामं बहवोऽपि एकवाक्यतया अङ्गीकुर्वन्ति, नतु तत्र एषां विचिकित्सा भवतीत्यर्थः । तत्र हि इति तथाविधविरुद्धव्यव-हारनिमित्तभूता वागित्यर्थः । यदि पारमेश्वरी वाक् प्रमाणं, तदा वेदः कथम् । आह ईश्वराज्ञा हि इति आ समन्तादप्रतिहतम्,
(पगे ९९)
आ च फलसिद्धेर्व्याप्रियमाणम्, आविनयं हृदयं व्यश्रुवानं विमर्शरूपमाज्ञा
नुमस्त्वामृग्यजुःसाम्नां शुक्रतः परतः परम् ।
यस्य वेदात्मिकाज्ञेयमहो गम्भीरसुन्दरी ॥ (स्त। चि। ६९)
इति, यस्येति ऋगादीनां शुक्रं सारं वीर्यं वाक्त्रयं पूर्वं व्याख्यातमिच्छादिशक्तित्रयमयं, ततो यत्परं परशक्त्यात्मकमा- नन्दधाम; ततः परं समस्तशक्तिप्रतिष्ठारूपपरमशक्तिविश्रान्ति-धाम; तत् नुमः । अहो इति गाम्भीर्यस्य सौन्दर्यस्य च अतिशयं द्योतयन्- नध्यात्माधिभूताधिदेवादिविषयार्थसहस्रगर्भत्वमाचक्षाणः सर्वागमाविसंवादितां वेदागमस्य आह । यथोक्तं
————————–सर्वज्ञानमयो हि सः ।
इति । उभयी इति निबद्धा, अनिबधा च । विपर्ययो विरुद्धा प्रसिद्धिः प्रामाण्यलक्षणमश्नुते इति सम्भाव्यते इति सम्बन्धः । तथाच
——————शुक्रात्प्रभृति मद्यस्यापेयता द्विजैः ।
इत्यादि श्रूयते इति सापि प्रसिद्धिरेव । सापिच अनादिः । अनादिकालभाविन्यो हि सर्वाः प्रसिद्धयः । तत्र तु काचित् कदाचिदुन्मज्जति, काचित् निमज्जति,-इति उन्मज्जननिमज्जने एव उदाहरणेन स्पष्टयति तथा च इति । तदुपचार- वस्तु इति नामाक्षराणि श्रोत्रमनोगोचरीकार्याणि अपि लिपौ यतः उपचर्- यन्ते चिरतरबहुजन्माभ्यस्तव्यवहारपरिचयदृढनिरूढेन परमे- श्वराज्ञानुवर्तितया श्रीमत्सर्ववीरभर्गशिखाद्यनुगतया तथैव सत्येन सामानाधिकरण्येन दृढविमर्शवशात् व्यवह्रियन्ते ।
दृढस्य च विमर्शस्य सत्यत्वम् । ततस्तेषु आप्यायकसन्तापकादिरूप- वरप्रमुखवर्णोपचरितरूपलिप्यक्षरयुक्त्यैववा आप्यायकसन्तापकादिरूपक्षीरावसेकखदिराङ्गारतापनादियुक्त्या
(पगे १००)
वा आप्यायनादिकर्मप्रैषाद्यभिधायिवर्णोपचरितरेखायोगेन वा आप्यायितेषु अथवा सन्तापितेषु तल्लिप्यक्षरतादात्म्यविमृष्टवर्णरूप- प्रत्यवमर्शाभेदप्राप्तप्रकाशस्वभावोऽसौ पुरुष आप्यायितः, तन्तापितो वा भवतीति । तत्र ईश्वरेच्छया स भावो यथिव प्रकाशे प्रति- बिम्बात्मना सृष्टो विशिष्टरूपादिप्रकाशमयः, तथा विशिष्टरूपोप- रागविचित्रविमर्शविशेषमय इति कथमेवम्प्रायाणामर्थासंस्पर्- शित्वं शब्दानाम् । तदेव द्रढयितुं निदर्शनान्तरमाह तन्नाम- नक्षत्रे च इति । षडृक्षोपतापादिविचारे जन्मनक्षत्रादपि मुख्यना- माक्षरद्वारायातं नक्षत्रमवकहडादिषु चक्रेषु स्वरोदये मुख्य-तया गण्यते । तच्च अतीवसंवादि दृष्टम् । एवं शास्त्रदिशा कार्यकारि-त्वेन तस्य शब्दस्य तदर्थात्मकत्वं प्रदर्श्य लोकप्रतिभामुखेन अपि आह तथा इति । पशोर्मातापितृप्रायस्य यद्यपि इच्छा तत्र व्यापृता, तथापि ईश्वरेच्छैव अत्र मुख्यत्वेन विजृम्भते वास्तवतात्पर्यात् । उदाहरणस्फुटीकृतमागमलक्षणं सर्वत्र सञ्चारयति एवम् इति । अत्र इति व्यवहारे । तेन इति ईश्वरेण । अन्यथा इति तदध्यासं विना । एतच्च
घटोऽयमित्यध्यवसा————————–। (१।५।२०)
इति सूत्रे विवेचितम् । निबद्धः इति विशिष्टवाक्यरचनाभिः, अनिबद्धस्तु यत्र तथा नास्ति । महाजनो यत्र कर्तव्ये यः प्रसिद्धिं यातो वर्गः, स एव मन्तव्यः-यथा वेदानुष्ठाने च्छान्दसः, वैष्णवानुष्ठाने भागवताख्यः । यथाह वराहमिहिरः
विष्णोर्भागवता मघाश्च सवितुः शम्भोः सभस्मद्विजा मातॄणामथ मातृमण्डलविदो विप्रास्त्वथ ब्रह्मणः ।
शाक्याः सत्त्वहिताय बुद्धवपुषो नग्नास्तथैवार्हतो
यैर्यो देव उपास्यते स्वविधिना तैस्तस्य कार्या क्रिया ॥
(पगे १०१)
इति । ते ते हि तत्तद्विमर्शतादात्म्यप्रतिपत्तिसंवेदनास्तत्तत्फलमयत्नत उल्लासयितुं समर्थाः । कश्चित् पुनरागमो महेशताविभागलक्षण- परमनिर्वाणफलो भवन्ननन्तसामान्यनिकुरुम्बस्वीकारिघटाभा- सवदनन्ताभासस्वीकारेण वर्तमानोऽधरशासनाभिहितभोगाप- वर्गसमर्थोऽपि भवति, नतु अधर ऊर्ध्वफलदानसमर्थः । तत उच्यते
शैववैष्णवबुद्धार्हदागमार्थव्यवस्थिताः ।
उत्तरोत्तरसामर्थ्याः पूर्वपूर्वविघातिनः ॥
तस्माच्छैवागमे तिष्ठन्नन्यानुग्रहणेच्छया ।
वैष्णवाद्यागमज्ञेभ्यस्तत्तदागमयेन्मतम् ॥
नतु वैष्णवदीक्षादिसंस्कृतस्य कदाचन ।
शैवागमेऽधिकारोऽस्ति विना तद्दीक्षया पुनः ॥
इति । तेन यथा इति प्रसिद्धिरूपेण वादेन । तेन इति प्रतिपत्त्रा । तत्र इति देशे । तदा इति काले । एवकारेण शास्त्रान्तरलोकाचारविरोधेऽपि न विचिकित्सित-व्यमित्याह विगाने इति तद्विरुद्धविमर्शोदये । अनिबद्धापि इति महाजना-नुष्ठानशेषतयैव स्थिता । ननु अदृष्टविषये प्रसिद्ध्या पर्यन्तफलो-दयया भवितव्यम्, नतु असावर्थसंस्पर्शिनीति कुतः प्रामाणादवसे-यमित्याशङ्क्य आह निर्विचिकित्सा इति । यथाहि वृक्षत्वं शाखादिमत्त्व-रूपं प्रत्यक्षेणैव सकृदुद्गतेन मध्ये बाधकवैधुर्यमनासाद-यता त्रैकाल्ये त्रैलोक्ये च निश्चितम् । एवं निर्विचिकित्सप्रसिद्धेर्बाह्यार्थ-पर्यन्तत्वं नामनक्षत्रादौ विषभूतग्रहादौ चेति प्रत्यक्षेणैव प्रामाण्यनिश्चयः । ननु मध्ये बाधकं न उदेश्यतीति कथम् । अत्रापि आह अदृष्टविषय एव इति ।
दीक्षातो मोक्षः इति
(पगे १०२)
नास्ति दीक्षासमो मोक्षः———————। (स्व। ११।११९)
इत्यागमात् निरूढेर्बाधकसम्भावना नास्ति, मध्ये तु उदिते बाधके विलययोगादप्रामाणतैव । अत एव इति यतः प्रसिद्धिरूप एव आगमस्ततो हेतोः । तदाह
अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते । तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥
इति ।
इदं पुण्यम्——————————————-।
इत्यादिमुनिवचनं भर्तृहरिणा (वा। प। १।४०) आगमप्रमाण्यदार्- ढ्याय उपन्यस्तमिति तन्मुखेन इह लिखितम् । तथा प्रस्तावदार्ढ्यार्थ- मेव शास्त्रशब्देन विशिष्टवाक्यरचना अत्र उक्तेति दर्शयति ननु इति ।
एवं प्रतिभारूपेण निबद्धानिबद्धप्रसिद्धिद्वयात्मना च त्रिविध- मागमं प्रदर्श्य रूपान्तरमपि अस्य दर्शयति अन्योऽपि इति । एतासु तिसृषु प्रसिद्धिषु प्रमाणान्तरमूलत्वं न अन्वेष्यम्, आप्तवादे तु तदन्वेषणीयमेव । आप्तिर्वक्तव्ये वस्तुन्यधिगतिस्ततश्च वक्तव्यवस्त्वधि-गतिः, सा विद्यते यस्य, स आप्तः । अत एव तदा लोकवचनरूपो वा शास्त्र-वचनरूपो वा नियताकारं कर्तारं च अपेक्ष्य अपि वर्तमानोऽपि शङ्कनीय एव मूलभूततत्प्रमाणसम्भवे विचिकित्साभावात् । तदाह आप्तश्च इति ।
निर्विचिकित्सा इति व्यस्तं प्रतीतेर्विशेषणम्, समस्तं वा अनुष्ठानस्य ।
तेनापि इति आप्तसम्मतेन । अस्त्येव इति, नतु नास्तीति अनुभ-वस्य अनपह्नवनीयतामाह । य उपदेश्यो यस्य आप्तस्य सम्बन्धि ज्ञानं प्रमाणान्तरमूलतया उत्पन्नं न अभिशङ्कते, नैव संशयविपर्ययाज्ञानरूपतया अभिमन्यते; तमुपदेश्यं तथा- भूताप्तवाक्योपदिष्टवस्तुसंवेदनादनुष्ठानपरोपदेशपर्यन्तात्
(पगे १०३)
निवर्तयितुं न केनचित्प्रकारेण अन्यो भवति शक्तः । यतोऽसावुपदेश्यस्- तत्र आप्तसम्बन्धिनि ज्ञाने प्रत्यक्षपक्षाश्रयेण स्थितः । यदाप्तेन उक्तं-मया साक्षादेतत् ज्ञातमिति, तत्र असावुपदेश्योऽभिमन्यते- मयैव एतत् साक्षात्कृतमिति । नच बालोऽपि साक्षात्कृतात् युक्तिशतैरपि शक्यनिवर्तनः । यथाहुः परेऽपि
निरुपद्रवभूतार्थस्वभावस्य विपर्ययैः । न बाधा यत्नवत्त्वेऽपि बुद्धेस्तत्पक्षपाततः ॥ (पा। वा। १।२२३)
इति । बुद्धिपक्षपातेन हि दृढतमतया अनुन्मूलनीयविमर्शत्वमेव प्रामाण्यस्य निबन्धनं व्यापकमिति तत्सद्भावो यत्र यत्र, तत्र तत्र प्रामाण्यमेव । तत क्रियासम्बन्धादिधियः सत्याः इति आवेदितं प्राक् (२।२।१) । आगमः प्रमाणमबाधितविमर्शतयेति स्वभावः । ननु आप्तत्वमस्य कथं निश्चितमिति चेत्, आह चेष्टाविशेषैः इति । तत्रापिहि कार्यस्य सुविवेचना किं न सह्यते । प्रतिचरणम् इति शास्त्राप्तवादः ।
तथाहि पाणिनिवररुचिप्रभृतेर्व्याकरणे आप्तता प्रसिद्धा, न अक्षपा- दादेः । पुरुषाप्तवादेन तु लोकाप्तवादपरिग्रहः । तदाह चरणाप्त- वादः इति । अयं च आप्तवादः पूर्वोक्तमागमभेदं यथायोगं व्याख्यानादिद्वारेण अनुगृह्णाति । तत एव सर्व आगम आप्तोपदेशशब्- देन भगवत्पतञ्जलिप्रभृतिभिः सङ्गृहीतः । आगमस्य स्वरूपमभि- धाय प्रत्यक्षस्य आगमस्य च अनुमानात् बलवत्त्वं यत् प्रदर्शितम्, तदेव संवादयितुमुपसंहरति तदेवम् इति । सर्वमेव इति भ्रान्तावपि स्वसंवेदनस्य प्रामाण्यानपायात् । उक्तक्रमेण इति अभ्यासादिना ।
आर्षम् इति प्रतिभारूपवेदादिप्रसिद्धिरूपसदोदितलोकप्रसिद्ध्यात्मक- मृषिणा सम्यक् द्रष्ट्रभिमतेन आप्तेन उत्थापितमनुमानस्य बाधकमेव । प्रत्यक्षागमयोर्हि
(पगे १०४)
यत् प्रकाश्यं च विमृश्यं च, तत् यथाक्रमं प्रकाशविमर्शमुखे-न अन्यापेक्षाशून्यम् । प्रत्यक्षे हि प्रकाशद्वारेण विमर्शोऽन्यत्रतु विपर्ययः । अनुमाने तु नान्तरीयकवस्त्वन्तरप्रकाशविमर्शापेक्षानु-मेये प्रकाशविमर्शयोग इति सापेक्षत्वात् दूरा इयं प्रमितिः प्रमेयात् ।
तत्रापिच नान्तरीयकताज्ञानं दुर्लभमिति उक्तम् । नच वाच्यमागमे- ऽपि शब्दविमर्शनपूर्वकमर्थविमर्शनमिति तत्रापि सापेक्षतादि भवेदिति । नहि शब्दविमर्शनादपरमर्थविमर्शनं किञ्चित् शब्दस्य स्वपरविमर्शात्मकत्वात्
घटोऽयम्———————————–। (१।५।२०)
इत्यत्र उपपादितात् । ननु न सर्वैरागमस्य प्रामाण्यमभ्युपेतं तत् कथमस्य विमतिपदपतितस्य अनपेक्षत्वं भवता उक्तम् । अभ्युपेतमे- वेत्याह प्रसिद्धिः इति । ननु लक्षणेन ज्ञायिष्यते छागादिशब्दार्थः, किमत्र प्रसिद्ध्या । अत्रापि आह चतुष्पात्त्व इति । सोऽपि इति लक्षणान्तर्गतः । ननु इति हासपुराणादिव्यवहारात् ज्ञास्यते इति चेत्, तत्रापि प्रसिद्धिशर-णत्वं न विघटते इत्याह पुरापिच इति । तथाच आह लोकेयेष्वर्थेषु इति । प्रागपि इति प्रथमसूत्र एव । न केवलं दृष्टानुमितार्थ एव आप्तः, यावदाप्तान्तरोपजीव्यपि,-इत्याह उपदेश इति । आगमेषु हि गुरव आप्ताः पठ्यन्ते एवं वै तत् । ननु शास्त्रितेऽर्थे ये स्वयमशास्त्रज्ञाः, परम्-परया च तदर्थवेदिनः; तेषां तत्र प्रमाण्यं भवति वा न वा भवतीत्याह उपदेशपारम्पर्येपि इति ।
आगमग्रन्थावभोधेन विनापि उपदेशपरम्परायां केवलायामपि आप्तागमस्यैव तत्र प्रस"गादाप्-तागमता प्रसज्यते प्रसिद्धिरूपता च पर्यवस्यति, येन आप्ततया मध्य-वर्तिन्या मौलिक्या च पारमेश्वरानादिप्रसिद्धिरूपतया तादृशा अपि
(पगे १०५)
गुरवोऽन्यस्य उपदेष्टारो भवन्ति । यत एवं समस्तेषु आगमग्रन्थेषु पठ्यते
मुखान्मुखागतं ज्ञानं कर्णात्कर्णमुपागतम् ।
इत्यादि । समस्तागमग्रन्थपाठादितिपाठे नञमन्ये पठन्ति व्याच- क्षते च-नहि समस्तमागमग्रन्थं केचित्पठन्ति, अपितु गुरुपरम्पर- यैव उपदेशेन व्यवहरन्ति,-इति; यदिवा यद्यपि केचित्पठन्ति, तथापि न समस्ताः पठन्ति, तेऽपि च गुरवो भवन्ति; यदिवा इत्थमवतारणा- आगमरूपता काचित् स्वमात्रोपकारिणी या समय्यादित्रयस्य, तत्र उपदेशपारम्पर्यमेव केवलम्; या तु स्वपरोपकारिणी गुरुत्वे सति, सा समस्तस्य आगमग्रन्थस्य अर्थावबोधे यः पाठः, तत एव; अन्यथा पुनराप्तागमत्वं तत्र न प्रसज्यते, नापि प्रसिद्धिः पर्यवस्यति । तत एव तत्र तत्र आगमे उच्यते
चतुष्पात्संहिताभिज्ञं गुरुत्वे योजयेत्पुनः ।
इति,
सर्वलक्षणहीनोऽपि ज्ञानवान् गुरुरिष्यते ।
इति,
यतश्च मोक्षदः प्रोक्तः स्वभ्यस्तज्ञानवान् गुरुः ।
इति । एवमेतत् लोकप्रसिद्धसमस्तव्यवहारोपयुक्तैकदेशगुरुताभिप्रा- येण पूर्वं व्याख्यातम्, अन्यत्तु प्रक्रियाक्रमायातशास्त्रोक्तसमस्त- गुरुताभिप्रायेणेति उभयथा अपि इदमस्मद्गुरुभिर्निरूपितम् ।
मध्यगत आप्तः, प्रसिद्धिश्च मूलत इति प्रधानम् । यतः समस्तेषु आगमग्रन्थेषु गुरवः पठ्यन्ते
एवं परम्पराख्यातमिदम्————————-।
इति,
(पगे १०६)
मयाप्येतत्पुरा प्राप्तमघोरात्———————–।
इत्यादिचेति । एतत्प्रमाणं यदुक्तं, तत्किं नित्यमुत अन्यथेति विवेचयति तच्च इति यत् प्रमाणत्वेन उक्तम् ।
केवलं भिन्नसंवेद्य———————————–। (१।५।२१)
इत्यत्र च इदं पूर्वमुक्तम् । प्रत्यक्षस्येवच इति आभासांशः प्रमा- णं, विमर्शांशः फलमिति । ननु अनुमाने एतदस्तु ज्ञानात्मके, आग-मस्तु शब्दरूपत्वात् जडः; तत्र कथमियं व्यवस्था,- इत्याशङ्क्य अस्मन्नये तस्य अपि अजाड्यमिति उपपादयति आगमोऽपि इति ।
ननु अस्तु एवं प्रसिद्धिरूपे निबद्धानिबद्धे, आप्तोपदेशे तु आप्तसम्बन्धि यत् शब्द-नात्मकं ज्ञानं, तत् कथं परस्य संवेदनरूपं प्रमाणं स्यात्; प्रतिपत्तरि तु तदुदीरितशब्दद्वारेण यदुत्पन्नं, तस्य प्रतिपत्त्रेक-विश्रान्तस्य आप्तात् भिन्नस्य कथमाप्तसम्बन्धिता भवेत् । उभयथा अपि न दोष इति दर्शयति ।
आप्तस्यापि इति । च उक्ताशङ्काद्योतकः गुणप्र-धानतास्तु च इत्युक्तः । अत एव इति यतस्तदानीं तयोरभेदापत्तिस्ततो हेतोः । प्रतिपादयितरि हि असौ सक्रमः शब्दोऽक्रमविमर्शात्मकप्रतीति-मूल इति तथैव प्रतिपाद्ये सङ्क्रामन् प्रतीतिपर्यवसायी ततोऽनन्यत्वात् तस्य । उपयोगः इति आगमत्वेनेति शेषः । श्रोत्रज्ञानगम्यत्वे हि असौ रूपादिवत् विषयमात्रं, न प्रमाणरूपः । ननु वाचकः सन्नाग-मः, सच पूर्वं वक्तरि, ततः श्रोतरीति भिन्नकालयोः कथं तादात्म्यम् ।
नैवमित्याह प्रमातृता इति । अन्तःसंवेदनभूमौ वाचकत्वं, साच कालास्पृष्टा; देहाद्युपचारात्तु कालभेदव्यवहार इति सर्वमनवद्यम् । तदियता नित्यं संवेदनरूपं यत् भगवति, तत् न प्रमाणमिति उपपादितम्, नहि भगवति विद्यातत्त्वान्तं प्रमेयस्य पृथक् प्रकाशः कश्चिदहमित्येवविश्रान्तेः ।
(पगे १०७)
सर्वज्ञानामपि कालस्पर्शे तत्प्रमातृतासङ्कोचादशेषप्रमेयनिष्ठ-मपि ज्ञानं कालस्पृष्टमेव, यदि परं नित्यप्रवृत्तवर्तमानतोद्रेके-णैव तेषां ज्ञानं व्यवह्रियते, तदा सर्वं विदन्तीति ॥ २ ॥
ननु
एकाभिधानविषये मितिः————————-। (२।३।२)
इति उक्तं, तत्र स्वलक्षणं चेत् तथा, तर्हि प्रत्याभासं प्रमाणमिति कथं युज्येत; आभासमिश्रीकारे हि स्वलक्षणमितिशङ्काशान्त्यै सूत्रं
यथारुचि यथार्थित्वं यथाव्युत्पत्ति भिद्यते । आभासोऽप्यर्थ एकस्मिन्ननुसन्धानसाधिते ॥ ३ ॥
घट इति आपाते यद्यपि एक एव अर्थ इति लोकस्य अभ्यासादविवेकितया प्रसिद्धिस्तथापि असौ विवेकेन पृथग्निर्भज्यमानतां न न सहते । विवे- कश्च त्रिधा-स्वातन्त्र्येण, अर्थित्वानुसारेण, पूर्वप्रसिद्ध्युपजीवनेन वेति । तर्हि एकत्वमर्थस्य कथम् । आह आभासानां पृथग्भासमाना- नां प्रकाशप्रमाणभूतो विमर्शः कदाचित् प्रत्याभासं विश्रान्तो यत्र सामान्यव्यवहारः, जातुचित् गुणप्रधानतया अत्रेदमित्थमितिव्या-मिश्रणाप्राणोऽनुसन्धाननामा । तत्र अन्त्येन साधिते एकस्मिन्नपि स्व-लक्षणात्मनि अर्थे रुचिं स्वातन्त्र्यं वा, अर्थक्रियार्थित्वं वा, वृद्ध-व्यवहारं वा अनतिक्रम्य आभासा भिद्यन्ते इति सूत्रार्थः । वृत्तावेवेन अप्यर्थ एव आख्यात एकत्वं तत्र न न युक्तमित्याचक्षाणे-न । अत एव अवतारणिकायामविचारितत्वमेकनियमं प्रति निमित्तं मन्तव्यम् । अग्रे इति
पृथग्दीपप्रकाशानाम्————————–। (२।३।७)
इत्यत्र यस्मादेवं वक्ष्यते, तस्मात् कथं तत् स्वलक्षणं सन्निवेश- बुद्धिमात्रविषयः, कथञ्च तत् मृन्मयतामात्ररूपम् । नहि आभा- सान्तरगम्यमाभासान्तरगम्येन एकरूपं भवितुमर्हति घटस्य अपि
(पगे १०८)
पटेन एकताप्रसङ्गादिति यो दोषः शङ्क्यते, स न । अत्र हेतुः पूर्वतर इति
तात्कालिकाक्ष———————————-। (१।८।१)
इत्यत्र प्रकरणे तावदाभासवैचित्र्यमुपपादितम् तत्संयोजनवियोजन- स्वातन्त्र्यं भगवतः इति । येन इति येन विमर्शसामर्थ्येन सा एवं- भूता भवति पृथ्वादिता या सन्निवेशमात्रे मृण्मयत्वराजतत्वाद्य- नपेक्षिणि व्यवहृता । कीदृशी भवति । आह अन्यैराभासैर्मृण्मयो लोहित उन्नत इत्यादिभिर्विशिष्टैरेकरूपे विशेष्यरूपत्वादेव केवलं सन्निवे- शसामान्याभासात् विलक्षणाभासेऽपि भवन्ती पूर्वप्रतिपन्नात् सामान्यात् सन्निवेशमात्राकारात् रूपादभिन्ना । एवं मृण्मयता ।
एतदन्यत्र अतिदिशति एवम् इति महत्त्वादि । यदेकैकमनामिश्रमनेकं बहुसङ्ख्याकं सामान्यं, तद्विषयत्वेन ये निश्चिताः परामर्शास्ते पुनरेकस्मिन् स्वलक्षणे प्रवर्तमानास्तं सामान्यात्मानं विशेषी- भूतमपि पूर्वं सामान्यप्रतिपत्तिव्यवहारकाले प्रतिपन्नेन विविक्तेन अनामिश्रेण बहुसङ्ख्याकेन तदेकपरामर्शविषयेण सामान्येन एकतां नयन्ति । तदेवच इति एकत्वापादनम् । इयता एकस्मिन् इत्यादौ सूत्रांशे वस्तुनि इत्यन्ता वृत्तिर्व्याख्याता ।
शेषसूत्रांशवृत्तिं व्याचष्टे पुनर् इति । हिशब्देन अस्य अर्थस्य पूर्वसूत्रार्थे प्रत्याभा-सं प्रमाणव्यापारः इत्यस्मिन् हेतुत्वमाह । स्वेच्छा बहिष्करणे व्याप्रियते, अन्तःकरणे वेति दर्शयति भागशः इति प्रयत्न इति च । अथ इति यदिवेति यावत् । सन्निवेशेऽपि स्वेच्छातो वैचित्र्यान्तरं दर्शयति चित्र इति पृथुबुध्नादितावैचित्र्यं सन्निवेशतामात्रं वा तत्सामान्यं भाति । अत्र दृष्टान्तमाह तथाहि इति भित्तिरिव स्वलक्षणं रेखाविभाग इव सामान्यविभागः ।
एवं यथारुचि भवत्येकत्रापि
(पगे १०९)
भिन्न आभास इत्यत्र अर्थे भित्तिचित्ररेखादृष्टान्तेन स्फुटीकृते यथार्- थित्वम् इति विभजति अरूपमात्रतया इति एतदीयावयवविभागानादरे- णेति यावत् । यथाव्युत्पत्ति इति व्याचष्टे अविशेषेणैव इति । इदमपि शाखादिमत् स्वलक्षणमिदमपि, तत एव शाखादिमन्त एते अर्था इति प्रतिपत्तिः । तत्रापि वृद्धव्यवहारनैपुणेन विभागोल्लासः- धवोऽयं, खदिरोऽयं, कदरोऽयमिति स्फुटीकरणार्थं रुच्यर्थिताव्युत्पत्तय उदाहरणभेदेन निदर्शिताः । एकत्रापितु घटस्वलक्षणे त्रयमपि शक्ययोजनमेव ॥ ३ ॥
दीर्घवृत्तोर्ध्वपुरुषधूमचान्दनतादिभिः । यथाभासा विभिद्यन्ते देशकालाविभेदिनः ॥ ४ ॥ तथैव सद्घटद्रव्यकाञ्चनोज्ज्वलतादयः । आभासभेदा भिन्नार्थकारिणस्ते पदं ध्वनेः ॥ ५ ॥
प्रसिद्धेन जडाजडगतेन रुच्याद्युत्थापितेन भेदेन सामान्या भासात्मना प्रथमश्लोकोक्तेन अप्रसिद्धमाभासभेदं घटगतं श्लोकान्तरेण स्फुटीकरोतीति सूत्रद्वयस्य तात्पर्यम् । वृत्तिकारो द्वयं द्वयं भिन्नविषयं व्याचक्षाणो जडरूपं दृष्टान्तद्वयमजड- रूपमेकं व्याचष्टे । घट एवहि ऊर्ध्वावयवेषु एव अवहितनेत्रस्य दीर्घः प्रतिभासते । तदाह भागान्तर इति भागान्तराणां यो देशस्-तान्येववा देशस्तत्परिहारेण तत्र चक्षुषोर्मनसश्च प्रणिधानेन । त्र्यश्र इति द्विगुर्मत्वर्थीयाजन्तः । यथारुचि इति पूर्वसूत्रोक्तमुदा-हृतं (दन्तोदाहरणं कृतं) दीर्घवृत्त इतीयता । यथार्थित्वमपि उदाहरति ऊर्ध्वपुरुष इति, व्युत्पत्तौ तु उदाहरणं धूमचान्द-नता इति । तत्र च न वृत्तौ निदर्शनान्तरं दर्शितमित्याह व्युत्पत्तौ इति । न केवलमत्र उदाहरणं, यावदुदाहरणेऽपि प्रसिद्धं निदर्शानान्तरमुक्तमिति अपिशब्दः ।
ननु
(पगे ११०)
प्रत्यक्षज्ञानमत्र विचार्यते, तत् किं निदर्शने सम्भवति,- इत्याशङ्क्य सम्भवत्येवेति भर्तृहरिवचनेन दर्शयति
परेषामसमाख्येयमभ्यासादेव जायते । मणिरूप्यादिषु————————————–। (वा। प। १।३५)
इति । अनेन आप्तोक्तत्वमानुमानिकत्वं च नेति दर्शयता आभ्यासिकप्रत्य- क्षत्वमुक्तम्, तत एव व्युत्पत्तावेतदिति स्फुटं निदर्शितम् । अत्र च इति उदाहरणत्रयेऽपि । नतु स्वलक्षणान्तरत्वम् इत्यत्र ह्तुः देश इत्यादिः । न स्पृशति इति व्याचष्टे अत्र इति । एकस्वलक्षणत्वम् इति दीर्घवृत्तादिद्व-यपरामर्शावस्था । सधूमत्वं जातिः, चान्दनत्वमिति व्यक्तिः । एकत्वम् इति एकस्वलक्षणता । एवं दृष्टान्तश्लोकं व्याख्याय दार्ष्टान्तिकं वाक्यं व्याचष्टे एवम् इति । दार्ष्टान्तिकतां समर्थ-यते अनुपलक्ष्य इति उपलक्षयितुमशक्यः, तत एव अप्रसिद्ध आभासा-नां भेदो यत्र स्वलक्षणे, तत्र धर्मभेदेषु आभासभेदेषु अवभा-सवदस्य प्रकाशनभेदस्य सम्भवो दृष्टान्तानुसारेण अनुसरणीयः । कथम् । आह अवधित्सादि इति रुच्यादिभेदत्रयाश्रयेणेत्यर्थः । एवमिह घट एव ऊर्ध्वतादीर्घताद्यवभासेन प्रसिद्धभेदेन दृष्टान्त उक्तः, अप्रसिद्धभेदेन तु सत्त्वघटत्वादिना दार्ष्टान्तिकः । ननु न अत्र आभासस्य वैलक्षण्यं, शब्दः केवलमन्यः सन्निति । एतत् न सहते नहि इति । एवंहि पर्यायमात्रतैव भवेत्-सन् घट इति, नच एवमित्याशयः ।
ननु सन्नित्याभासेन घटेऽपि विश्रान्तेन यतः पटशकटादिकमाभा-सान्तरमाक्षिप्यते, ततो घटाभासात् भिद्यते; नतु सदाभासो नाम कश्चिदन्य इत्येतदपि निषेधयति नापि इति । तदेवहि इति यत् त्वयैव उपगतम् । अस्मदुक्तदृशि तु एतत् युज्यते इत्याह यदाहि इति यत्र
(पगे १११)
अभ्युपगमावसरे । तेषाम् इति पटाद्याभासानां मध्ये घटादेः कस्यचिदेकतमस्य अनियतस्य अर्थस्य सन्नित्यस्यां धियि अवभासः सम्भाव्यते यतः सत्स्वलक्षणेन साध्या सा अर्थक्रिया प्रस्तुता, नतु पटेनवा घटेनवा । तत् यथा द्वयोः पणपूर्वके विवादे गृहेऽत्र न किञ्चिदस्ति किञ्चिदस्तीतिवचनात् सम्भाव्या अत्र अर्थक्रियेति दर्शयति सत्ता इति सदित्याभासस्य देशाद्यवच्छेदेन विशेषीभूतस्य तदभावेन वा सामान्यरूपस्य परस्परं विलक्षणा अन्यतश्च पटद्याभासादस्त्ये-वेति शेषः । ननु सदित्याभासान्तर्वर्ती सत्परामर्शः, स कथमर्थक्रि-येति उक्तः । अर्थक्रिया हि कार्यं, नतु स्वभावः । अत्र आह परामर्श इत्यादि ।
हृद्भङ्गपरिहारनिमित्तभूता या धृतिश्चित्तस्य, सा अपि अर्थ-क्रिया ।
सदाभासस्य पौनरुक्त्यं शङ्क्यमानं वृत्तौ प्रतिहन्ति महासामान्यम् इति । एकपदप्रयोगे हि सामान्यविशेषता अपि गम्यते ।
ननु च वृत्तौ वक्ष्यमाणेषु घटक्राञ्चनाद्याभासेषु अन्यात्मता- परिहारो वक्ष्यते-तत्रैव घटे घट इत्याभासो यः पटादिषु नास्ति, काञ्चन इत्याभासो यो मृण्मयादिषु नास्तीति, तद्वत् सत्ताभासोऽपि कस्मात् उक्तः । अत्र उच्यते बहिष्करण इति । सदित्यवभासो हि घटाद्याभासेभ्यो निकृष्टः केवलं
————————मनोऽनुव्यवसायि सत् । (२।२।३)
इत्युक्तनीत्या अन्तःकरणेन आभास्यते, नतु बहिष्करणेन शुद्धोऽसावा-सादयितुं शक्य इति तेषां सद्व्यतिरिक्तानामन्येषामभावाभासा-नां परिहारो न उक्तो वृत्तौ ।
सन्नित्याभासो यो घटादिविविक्तेषु अभावेषु नास्ति इतिनैव उक्तो वृत्ताविति यावत् । तत् इति पटादिप्रतियोगित्वं वृत्तावुक्तम् ।
सामान्यशब्दः इति वृत्तिगतः । तत्र इति मृद्विकारेषु ।
ऊहापोहाभ्याम्
(पगे ११२)
इति अनुगमाननुगमसंवेदनाभ्यामित्यर्थः । नहि यदेव अनुगमबु- द्धिग्राह्यं, तदेव व्यावृत्तिसंवेदनस्य विषयः,-इति उक्त आभासभे- दोऽत्र स्यादेवेति भेदप्रसिद्धिरिति सम्बन्धः । स्वात्मनः इति स्वसंवेद-नेन सिद्धेऽनपह्नवनीयतामाह । एवमाभासभेदा भिन्नार्थका-रिणः इति विवृत्य ते पदं ध्वनेः इति विवृणोति तथा शब्दैरपि इति । सौत्रमादिपदं लेशतो व्याख्यातुं या वृत्तिः चैत्रः इत्यादिका, तां व्याकरोति अवस्था इत्यादिना । स्वलक्षणैकरूपत्वेन अपि यः सम्मतस्-त्रापि इत्थं सामान्यरूपत्वेन चैत्रशब्दप्रवृत्तिरिति दर्शयति स्वलक्ष-णैका इत्यादिना । एकसन्तानतामात्रेण प्रत्यभिज्ञा भविष्यति, अलमत्र सामान्येन यथा सौगतो मन्यते । एतत् निषेधयति अन्यथा इति सामान्य-रूपतानङ्गीकरणे । ह्योदृष्टेन इति यत्र सदृशापरापरोदयप्रबन्ध-प्रत्ययोऽविच्छिन्न इति यावत् । ननु एवं सर्वत्र सामान्यरूपतानुप्रवे-शोऽस्तीति शुद्धं स्वलक्षणं कदा भवतीत्याशङ्कामपास्यति सामान्यत्व इत्यादिना । अनभिव्यक्तेः इति उदितस्य अस्य अस्फुटतायाम्, अनुदिते तु सर्वथा मायाप्रमातरि सर्वमिदमहमिति श्रीसदाशिवभू-मिका स्वलक्षणरूपता । तत एव आह सहजेदन्ता इति अनेन समयानुप-योगादनुमानुपयोगमाह ।
अन्यदा इति अवस्थाप्राधान्याभावे । वित-तावयविवत् इति अवयवी देशविततो भाति, अवस्थाता पुनरवस्थाभेदानु- सन्धानैकताविवक्षायाम्-अहो खलु अयं चिरजीवी दृष्टव्यवहारस- तत्त्व इति आभासनीय एकः कालविततः अवयव्याभासवदिति एकस्मिन्नेव क्षणे शिरःपाण्यादिमनेकमवयवमवभासयन्त्येव यथा एकघन- रूपग्राहिणी अवयविबुद्धिस्तथा जन्मप्रभृति वा स्वकानन्तावस्थाभासनमङ्गीकुर्वती
(पगे ११३)
एकघनरूपग्राहिणी अवस्थातृबुद्धिः । ननु एवं यथा एककालवितते प्रत्यवस्थं भेदेनैव व्यक्तितया गृहीते सत्येव एकानुसन्धेः सामान्यरूपता अवस्थारूपव्यक्त्यनुयायिनी कल्पिता, तथा देशवितते- ऽपि कस्मादेकक्षणेऽपि सा न कल्प्येतेति भ्रमं भिनत्ति ननु इति । तत्र हि अवयवेन अवयवानुसन्धाननिरपेक्षैव प्रत्येकं चैत्रबुद्धिर्न उदेति शिर एव चैत्र इत्यप्रतीतेः । बाल्याद्द्येकतमावस्थाभाजि पुनरवस्थातु- रनुसन्धानवन्ध्यतायामपि उदेति चैत्रबुद्धिः, शिरोबुद्धिस्तु भवन्ती पाण्यादिकमवयवान्तरमवश्यमनुसन्धापयति; ततो भवत्यपि शिरसि तादृशी चैत्रबुद्धिः, नतु सर्वथा न भवतीति मुख्यग्रहणम् । तदेव- माभासादेकैकतैव अर्थक्रिया । तत्र तु आभासान्तरस्य अन्वेषणनान्त-रीयकतया वह्न्यर्थितायामिव पात्रस्य तत एव अनियतस्य अन्वेषणमिति प्रतिभासविमर्शार्थक्रियाभिराभास एव वस्त्विति प्रसिद्धतरप्रसिद्धा-प्रसिधाशयेन एकोऽपि अर्थो विचित्रतया विभक्तः सूत्रे दीर्घवृत्त इति धूम इति सद्घट इति ॥ ५ ॥
ननु एवमेकोऽर्थो घटत्वलोहितत्वाद्यात्मा न वस्तु भवेत्, भवतीत्याह सूत्रेण
आभासभेदाद्वस्तूनां नियतार्थक्रिया पुनः । सामानाधिकरण्येन प्रतिभासादभेदिनाम् ॥ ६ ॥
आभासानां मिश्रत्वे कश्चिदाभासः प्रधानम्, सोऽन्येषां समानमधिकरणम् । तेन सह यस्तेषां सम्बन्धस्तत्सामानाधिक- रण्यम्, तदुपलक्षितो यः प्रतिभासः स्वानुरूपेण एष इह-इदानीं घटोऽस्तीति वाक्यार्थविमर्शेन अनुप्राणितस्ततो निमित्तात् येऽभेदिन एकस्वलक्षणतामाप्ताः स्वं भेदमनुज्झन्तस्तेषामन्या अर्थक्रिया समुदायरूपा, आभासविमर्शभेदे पुनरन्या नियता
(पगे ११४)
एकैकमात्रस्वभावा । पुनःशब्दो विशेषद्योतकः । भेदापरित्यागाच्च स्वालक्षण्येऽपि यदाभासमात्ररूपत्वं, तदेव समानव्यक्त्युपरञ्- जकं परमार्थतः सामान्यम्, शुद्धघटाभासमात्रावमर्शे तु योग्यतामात्रेण सामान्यरूपतेति सूत्रार्थः । अनेकस्यैकता इतिवृत्तौ सम्बन्धरूपं स्मारितम् । ननु अनेकामर्थक्रियां कुर्वत् कथमेकम् । आह प्रमाणेन इति एकां कुर्वदेकमित्यपि हि न पितृभ्यां प्रीणितमिति अङ्गीकार्यम्, अपितु प्रमाणेन । तच्च आभासप्रत्यवमर्शात्मकम्, नच प्रत्यवमर्शोन्मूलनमित्याह बलग्रहणेन । वृत्तितात्पर्यं व्याचष्टे प्रत्याभासम् इति । अत्र इति एकस्मिन् इत्यादौ वृत्तिग्रन्थे । ननु तथ प्रथनं चेदन्तर्लीनत्वं वस्तूनां कुत इति मोहमपोहति प्रथात्म- कत्वाच्च वस्तुतत्त्वस्य इति । ननु यदि ता एव अर्थकिर्यास्तेभ्य आभासे- भ्यः, तर्हि भिन्ना एव ते सन्तुः; किमेषामुपरि वृथैव इदमेकत्वामा- रोप्यते । वृथैवेत्याह एकप्रथा इति । वक्ष्यते इति पृथग्दीपसूत्रे (२।३।७) ततोऽपि इति आभासनविमर्शनाभ्यां तावदेकत्वं सिद्धमेकार्थक्रि- याकारित्वमपि परलालितमनयोर्हस्तं ददातु को दोष इति अपिः । निरुक्तः इति निर्भज्य व्याख्यातः । पुनःशब्देन इति भेदपृष्ठ एव अभेदात्मा विशेषो द्योतितो भूयस्तावानेकत्वाभ्यामाभासस्य यौगपद्येन, नतु द्वितीयवारवाची पुनःशब्दोऽत्र पुनर्भुङ्क्ते इत्यादाविव । तदाह नतु इति । ननु पृथक्त्वावभासात् कथमधिकरणव्यवहार इत्याशङ्क्य आह अधिकरणं च इति । तथात्वम् इति समवायः । एतद्विवक्षित इत्यादि समा-सपदम् । एकाधिकरणत्वं समानाधिकरणत्वमिति यद्यपि शब्दप्रयोगो न विवक्षितः, तथापि अर्थभेद एव वस्तुतो नीलोत्पलशब्दयोः सामानाधिकरण्यं चैत्रमैत्रयोः
(पगे ११५)
समानमधिकरणमितिप्रतीत्योरत्यन्तवैलक्षण्यात् । ननु विकल्पोत्थापित- मेतत् सामानाधिकरण्यादि, नतु वस्तु; तत्तु अस्य न किञ्चित् । आह बुद्धि इति यद्यपि समवायादि एव सम्बन्धरूपं, तथा सम्बन्ध एवच अनेकस्य एकता; तथापि समवायः पृथक्पदार्थः ।
सामानाधिकरण्याद्यपि अदृष्टरूपं वस्त्वन्तरं वा धर्मात्मकं पृथगेवेति येषां दृष्टि-स्तदाशयेन सम्बन्धस्य सर्वानुग्राहकत्वमभिधातुं पृथगुक्तमे-कत्वमपिच अनेकस्य वास्तवमिति । तथाहि तत्रभवान् समवायस्य रूपमभिधाय अभ्यधात्
तां शक्तिं समवायाख्यां भेदाभेदप्रदर्शिनीम् । अनुगृह्णाति सम्बन्ध इति पूर्वेभ्य आगमः ॥ ( वा। प। ३।११) इति
शक्तीनामपि सा शक्तिर्गुणानामप्यसौ गुणः । (वा। प। ३।५)
इत्यादि च । एतदर्थ इति स्वलक्षणवाची, नतु आभासमात्रवाचीति यावत् ।
एकत्वं विरुद्धं मत्वेति सम्बन्धः । तथाभिमाने हेतुः समर्थनाय अशक्तत्वम् । हेतौ शता । पर्वतात् लुठन् यथा कुशकाशमवलम्बमा-नस्तेनैव सह पतति, नतु तदस्य प्रतनुकामपि रक्षां विधत्तेः; तथा यन्न्यायावलम्बनं क्रियमाणमपि न प्रकृतपरिपुष्टये प्रभवति, तदेवमुच्यते । कुशकाशावलम्बनं च तेषां समवायादेर्व्यतिरिक्त-पदार्थरूपता गङ्गोदकपवित्रतावच्च स्वयं वृत्तिस्वभावतेत्यादि । अत्र हि पक्षे
तौ च भावौ तदन्यश्च———————।
इति दूषणशल्यमशक्योद्धरणमेव, इहतु दर्शने न विरोधः कश्चिदिति निरूपयति बुद्धि इति । बुद्धिप्रतिभासित्वं सतो लक्षणम् । तत्रापि अर्थ- क्रियाकरणोपाधित्वे सत्त्वस्य विशेषो वस्तुसत्त्वमित्येतदधिकं नाम ।
तदेतावत् विवेच्यं-प्रकृतं यदेकस्य अनेकत्वं
(पगे ११६)
तद्वस्तुसत् स्यात् न वेति । अत्रापि उच्यते एवं वस्त्ववस्तुनोः इत्यादि । प्रति- भासासम्भवं दर्शयति भावे हि इति आ समन्तात् रुप्यते इति तथा नच सर्वतो यद्रूपितं तत् न कथञ्चन रूपितमिति भवति । एकप्रथा इति एकतया प्रथेत्यर्थः ॥ ६ ॥
ननु न अत्र एका काचिदर्थक्रिया यत्क्रियायै स्वलक्षणमेकमङ्गी-क्रियते । अर्थक्रियाः किल बह्व्यो बहुभ्य आभासेभ्यः इत्येतावदस्तु, प्रत्युत आभासा भिन्ना मिश्रीभवन्ति,- इत्युच्यमाने नियमनिदानं वक्तव्यं येन जलाग्न्याभासयोर्घटपटाद्याभासानां वा न मिश्रीभाव इति वदन्तं प्रत्याययितुं सूत्रं
पृथग्दीपप्रकाशानां स्रोतसां सागरे यथा । अविरुद्धावभासानामेककार्या तथैक्यधीः ॥ ७ ॥
पृथग्वर्तिन्यः प्रदीपप्रभाः सूक्ष्मतमा अवलोकनशक्त्या- धानं न अकार्षुः, एकभवनसम्मूर्च्छितास्तु कुर्वते । तत्र न बह्व्योऽर्थक्रिया याः प्राक् पृथगपि भवन्ति । सागरपतितानि स्रोतांसि बहुतरतरङ्गसम्भारभाविततया अद्भुतसंरम्भारम्भीणि भण्यन्तां, कोऽत्र अर्थक्रियाणां समुदायः । तद्वत् घटः काञ्चनो लोहितो महानिति, अतः शिवलिङ्गस्नपनोचित इति तीव्रप्रीतिरूपामेकामेव अर्थक्रियां विद्धत्ते इति कथं तत्कारि एकं स्वलक्षणं भवेत् । अर्थक्रि-याकारितया हि लुकिकं वस्तुसत्त्वमिति उक्तम् ।
यत्तु उक्तं नियमनिदानमि-त्यादि, तत्र उच्यते-येषामेव अविरोधस्तेषामेव मिश्रता, न रूपाभास-पवनाभासादीनां; विरोधोऽपिच नियतिशक्तिमहिम्नैवेति । पृथक् ये दीपप्रकाशास्तेषां सम्बन्धि यदेकं वस्तु गृहे तन्मेलनात्मकं, सागरे च महत्याशये स्रोतसां सम्बन्धि यदेकं वस्तु महाजलावयविरूपं; तेन एकेन कार्य यथा
(पगे ११७)
ऐक्यधीरिति ऐक्यबुद्धिस्तदुपलक्षितश्च एकविमर्शः, एकाच अर्थ क्रिया; तथैव अविरुद्धा येऽवभासा घटलोहितोन्नतादयस्तेषां सम्बन्धिना एकेन स्वलक्षणात्मना मेलनेन कार्या ऐक्यधीर्व्याख्यातरूपा,-इति सूत्रार्थः । एकधा इति एकस्य भाव ऐकध्यमित्यकारान्तता उपपन्ना, अन्येतु अमुञन्तात्स्वार्थेऽनुदर्शनमित्यत्र ध्यमुञन्तादपीति स्मरन्ति । व्याख्यानेन वृत्तिगतेन इतीदमुक्तं भवतीति सम्बन्धः । किं तत् ।
आह सूत्र इत्यादि । ननु वृत्तौ चकारैस्त्रिभिर्भाव्यमेकेन वा । अत्र आह चका-रेण इति एकएन अविभागेन इत्यादिका क्रिया समुच्चिता चकारेण आकृष्टेति, द्वितीयेन तु द्रव्यसमुच्चय इति आशयशेषः । तद्गतत्वेनैव इति चिन्तागत-मवस्त्वपि भवेत्, वस्तु च इह दृष्टान्त इत्यर्थः । ननु नीलं पीतमिति दृष्टं विशेषणत्वं यथा नीलं वस्त्रं तव अस्ति, पीतं तु हृद्यतम-मिति; तदपि सज्ज्यतां त्वयेति केनचिदुक्ते प्रत्याह नीलमेव मम पीतमिति । एतत् समर्थयति गुणगुण्यादि इति । गुण्यते आरोप्यते हृद्यतादिधर्मेण साधर्म्यादिति गुण आरोप्यमाणः; यत्र आरोप्यते, स गुणी । तत औपचारि-कमेवमादि सामानाधिकरण्यमिति उक्तं भवति ।
आदिग्रहणात् निषे-ध्यादि तथा पीतं नीलमिति नेति उपचारे दृष्टान्तमाह सिंह इत्यादिना । ननु एकविचित्रचमत्कारात्मकार्थक्रियाभावेऽपि पानकबुद्धिर्दृष्टा ।
नेत्याह अव्युत्पन्न इति । वृत्ति वाक्यं व्याचष्टे शौक्ल्याद्याभासाः इत्यादिना । प्रथमप्रसिद्ध्यनुरोधतो वाक्यभेदेन वृत्तिं व्याख्याय एकवाक्यतया शास्त्रन्यायावलम्बनेन व्याचष्टे अथ इति । न ब्राह्मणो-ऽब्राह्मणः इति वृत्तिसमानार्थत्वात् वाक्यस्य अनित्यसमासत्वाच्च नञ-समासस्येति मन्यते । शिष्टाश्च प्रयुञ्जते एवम् । तथाहि अक्षापादमुनिः
(पगे ११८)
तेषां मोहः पापीयान्नामूढस्येतरोत्पत्तेः । (४।१।६)
इति अवोचत् । अयं हि अत्र अर्थः-अमूढस्य इतरानुत्पत्तेरिति । यद्यपि अनेका- भासयोग उक्तस्तथापि न पूर्णता स्वलक्षणस्येति तस्यापि इति अपिशब्दः । ततश्च अन्यदपि देशकालाभासरूपं तत्र योज्यमिति द्वितीयोऽपिशब्दः । तद्योजनं विना तु न पूर्णता, तद्योजने तु अन्यायोजनेऽपि पूर्णता स्व- लक्षणस्येत्याह देशकालभेदादेव इति । ननु उक्तेन प्रकारेण य एका- भासः, स भ्रान्तोऽस्तु,-इति सामान्याभासा एव वस्तुसन्त इति कश्चित् ।
तं निषेधति तथाच इति चः शङ्काद्योतकः । तथा इति तेन प्रकारेण ।
तथा शौक्ल्येन दार्ष्टान्तिकता तथाशब्देन सूचिता । स कोऽपि अर्थक्रियाविशे-षोऽस्ति,-इति सम्बन्धः । ततश्च इति अर्थक्रियाविशेषसम्भवात् । अन्यदा इति द्वयोर्विरुद्धयोर्युगपत्समकक्ष्यतया प्रतिपत्तुमेकविषत्वेनायोग्य- त्वात् । तथापि इति न समकक्ष्यतया प्रतिपत्तिः, अपितु गुणप्रधानभावे- नेति तात्पर्यम् । अन्यथावा इति समुदायासमुदायित्वादिना न अत्र दर्श- नान्तरसमर्थनेऽस्माकमभिनिवेश इति यावत् । अन्यथा इति यदि तदापि तथाप्रतिभासो न भवेत्, तदा तावतो विमर्शात् भेदं न सहते यः प्रकाशः, स न स्यात् । अत्र दृष्टान्तः यथा इति । अननुभूयमानोऽनेको रसो येन प्रमात्रा यस्य पित्ताद्यन्यतमोद्रेकात् कटुरेव मधुर एववा भाति, न तस्य प्रमातुः पानकरसः प्रतिपन्नो भवति । ननु प्रत्यक्षेऽपि यदि एकमनेकं च भाति, तर्हि
तद्द्वयालम्बना एता मनोऽनुव्यवसायि————। (२।२।३)
इति कथमुक्तमित्याशङ्कां निकृन्तति केवलम् इति । येन हि प्रमात्रा मरिचगुडादि न आस्वादितं कदाचित्, पानकमेवतु
(पगे ११९)
आस्वाद्यते इति; तस्य स भिन्नो रसो विकल्पेन व्यवहार्यतां न नेतुं शक्यः प्रत्यक्षावभातोऽपि, अपरस्य तु शक्यस्तत उच्यते- पूर्वसंस्का-रापेक्षत्वाद्विकल्पेन स्फुटीक्रियेते भेदाभेदाविति । न केवलं तावत् विमर्शसहत्वं यत् प्रकाशस्य, तदेव अनेकप्रतिभाससम्भवहेतुर्या-वत् कार्यकारणगतस्य वैलक्षण्यस्य भावोऽपीति दर्शयति कार्यकार-णभावोऽपि इति । अन्यस्य इति मृद्दण्डादिकात् । ननु अनेक एव आभासोऽस्तु विमर्शभेदात् कार्यभेदात् कारणभेदाच्च, एकाभासता तु कुतः । आह एकाभासश्च इति तदनेकाभासपृष्ठे सोऽपीति चः । न केवलमनुभव- विमर्शबलात्, कार्यबलादपि एकाभास इत्याह अर्थक्रियाभेदः इति ।
तेषाम् इति विवेकिनाम् । तदा इति एकाभासापह्नवे सत्येऽर्थक्रिया । ननु ज्वरादिशमन इत्यादिन्यायेन अनेकस्मादपि एका सा भविष्यति । नेत्याह नच इति । ननु ज्वरादिशमनं पञ्चमूलादेः कथम् । उच्यते द्रव्यान्- तर इति । तत्र हि पृथक् रसवीर्यादिना दोषांशशमनं यत् यस्य प्रसिद्धं द्रव्यस्य, तदेव द्रव्यान्तरसम्पर्केण उपबृंह्यते दोषान्तरोद्दीपकत्वं परिरक्ष्यते इति न्यायः ॥ ७ ॥
ननु मरिचादीनां गुडादिद्रव्यान्तरसम्पर्कात् रसान्तरमेव उदेष्यति रूपान्तरमिव ताम्बूलीदले चूर्णकसितखदिराणाम् । नैतदिह सममिति दर्शयति तदाविर्भावे वा इति । अस्ति च कुशलस्य पातुस्तथा पृथक्त्वेन परिज्ञानं मरिचादिना एतत् कृतमितिप्रत्ययादिति भावः ।
कारणमपि एकसामग्र्याभासरूपमस्ति प्रसिद्धमिति तु न दर्शितम् ।
ननु न मरिचादिषु शौक्ल्याभासादिष्विव सामानाधिकरण्यमस्ति पृथग्भूतान्त्यावयविद्रव्यस्वभावत्वेन एषां प्रसिद्धेः । सत्यम्, सामानाधिकरण्ये तु न
(पगे १२०)
अयं दृष्टान्तः । क्व तर्हि । आह एकतापत्तेरुपपत्तौ इति । ननु न दृष्टा-न्तमात्रात् वस्तुसिद्धिः । उच्यते पृथगनेकाभासत्वे विमिश्रतायां च एकाभासत्वे यतः साधनं प्रकाशविमर्शकारणकार्यभेदाभेदा-भासलक्षणमस्ति, तेन हेतुना; न दृष्टान्तेन । दृष्टान्तेन तर्हि किम् । आह मरिचादीनाम् इत्यादि । अनेको विलक्षणो रूपस्पर्शरसादिर्गुणो यस्य द्रव्यस्य, तद्रूपाणाम्; पृथगिति पृथग्देशानां मरिचादिनां द्रव्यान्तरेषु गुडदध्यादिषु पृथग्देशेषु तथैवेति विलक्षणगुणेषु भिन्नजातीयेषु अनुप्रवेशे व्यामिश्रतायां सत्यामापन्न उपनत ऐक्यावभासस्तावदुपलभ्यते, नच काकतालीयेन, अपितु असकृत् । एवं यत्र उपलभ्यते व्यवहारे सति तस्मिन् सत्त्वादीनां व्यवहारे कदाचिदपि पृथगननुभूतस्वतन्त्रभावानां का विमतिरैक्यावभास इति परस्य असम्भावनां निराकर्तुं दृष्टान्तोऽयं सत्यपि हेतौ ननु इति । एतदेव घटयति नहि इति । मरिचगुडदध्नां न धर्मधर्मिभावेन गुड एव दधि मरिचमेव गुड इति वा न प्रख्या, न उपाख्या पानकभूमौ गङ्गायमुनावितस्तादीनां सागरे । गुण इति लौहित्यस्य घटद्रव्यस्य च पटत्वादेश्चेतनगतस्य धर्मपदार्थमध्ये गृहीतस्य चैत्रस्य धर्मधर्मिभावो वास्तव एवेत्याशङ्कापूर्वकं सूत्रमवतारयति
तत्राविशिष्टे वह्न्यादौ कार्यकारणतोष्णता-। तत्तच्छब्दार्थताद्यात्मा प्रमाणादेकतो मतः ॥ ८ ॥
एकैक इति, चोऽप्यर्थे शङ्क्यमानत्वमर्थस्य आह । अद्यपि प्रत्य- क्षस्य प्रत्याभासं प्रामाण्यमुपगतं, तथापि अविशिष्टे वह्न्या- भासमात्रे प्रत्यक्षेण गृहीतेऽपि इन्धनकार्यताभासो धूमकारण- ताभास इत्यादिवस्त्वन्तरापेक्षो य आभासवर्गः उष्णताभास इति अनपेक्ष इत्येतावानकृत्रिमः सर्वदेशकालगतो नियतिशक्त्या
(पगे १२१)
कृतो, यश्च तस्य तस्य शब्दस्य अयमर्थस्तत्तच्छब्दाभिधेयताभासः कतिपयदेशकालनियतः सङ्केताभिव्यक्त्यपेक्षी नियत्या कृत आत्मा स्वभावः आदिग्रहणादुर्ध्वदिक्संयोगिता रसगन्धाभावविशिष्टता जलविरोधित्वमिति; स आत्मा एकस्मादेव नियतिवदनावलोकिनं प्रत्यक्षात् मतः सिद्ध इति सूत्रार्थः सङ्क्षेपेण व्याख्यातः सर्व इत्यादिना ।
सर्वशब्देन यथोचितनियतिनियमितदेशकालकार्त्स्न्यमुच्यते । सूत्रे द्वितीयतृतीयपादौ समस्तावेव । वृत्तौ हि समास एव स्फुटीकृतः ।
अर्धयुक्पादवृत्तान्ते विश्रान्तिः——————–।
इति तु काव्येऽयं समयो, न शास्त्रे; अपेक्षानपेक्षापौरुषेयत्वादिविभा-गप्रदर्शनाय विभागेन भावप्रत्ययः । ननु प्रत्याभासं संव्य-वहारे प्रमाणस्य प्रवृत्तिर्न अनुभूयते देशकालाभासयोः सर्वत्र अन्ततो व्यभिचाराभावादित्याशङ्कामनुवदन् परिहरति प्राचुर्येण यद्यपि इति । ननु किमर्थं प्रकारान्तरेण वस्तुस्वभावं जिज्ञासते । आह तत् इति । तस्मिन्नेव व्यवहारे उपयोगिनी सा प्रत्याभासं जिज्ञासा भवेत् तत्तत्कार्याद्यंशसिद्धये । तत्तत्कारणांशसम्भरणं हि ऊहापोहाभ्यामभ्यस्ते विभागे सति सम्भवति, न इतरथा । कदाचित् इति जिज्ञासावसरे इति यावत् । वृत्तौ देशकालाभासावेव त्याज्यत्वेन कस्मा- दुक्तावित्याशङ्क्य आह देश इति । तावेवहि आकारस्य आक्रियमाणस्य अर्थस्य भेदमन्यत्र अन्यदा च अननुगामितां प्रतिष्ठापयतः, तद- भावे हि आभासान्तरमिश्रणा विशेषरूपतां विश्राणयन्ती अपि न स्वालक्षण्यमाक्षिपति । तत् निदर्शयति तथाहि इति । शावलेयादिः इति सत्त्वद्रव्यत्वप्राणित्वपशुत्वगोत्वाभासानन्त्यमव्यभिचरन्नपीति भावः । तेन महाविषयत्वाल्पविषयत्वाभ्यामापेक्षिकाभ्यां
(पगे १२२)
सामान्यविशेषरूपत्वमनियतम्, स्वालक्षण्यं तु नियतम् । एवं स्वा- लक्षण्यस्य देशकालाभ्यां व्यतिरेकमाभासान्तरैश्च तदभावं प्रदर्श्य, तस्यैव ताभ्यामन्वयं, तैश्च तदभावं दर्शयति देश- कालाभास इत्यादिना । एतदेव घटयति देश इति । तत् इति देशकालत्यागे ।
इयति च नियतिरेव अनुप्राणिकेति घटयितुमुक्तपूर्वमेव स्मारयति देश- कालभेदोऽपि इत्यादिना । अत्र च इदं तात्पर्यम्-इह त्यागो य उक्तः, स कयोः; देशकालयोरिति चिन्तायां स्वरूपीभूतयोर्मूर्त्यवभासक्रिया- वभासात्मनोर्मन्तव्यः । सहि भेदस्वरूपनान्तरीयक एव । ततः सदा- भासोऽपि असदनाभासात् मूर्तिभेदरूप एव । तत्र तु घट इत्यस्ति मूर्त्याभासान्तरेण सम्भेद इति सामान्यतैव । इयतिच अत्र सामान्यवि-शेषता सर्वत्र प्रकाशापेक्षया । यत्र तु पर्यन्तवर्तिनि मूर्तिक्रियाभा-सेऽन्यसम्भेदासम्भवः, स विशेष एव । तदेतदाह आभासभावा-भावौ च इति । स्वलक्षणं स्वरूपमाभासान्तरादौष्ण्याद्याभासात् व्यावृत्तं येषां रूपाद्याभासानां, ते तथाभूता एव सृष्टा इति स्वरूपीभूतदेशकालात्याग एव भवेत् व्यतिरिक्तदेशकालयोगस्तु त्या- ज्यः । सोऽपि विशेषरूपतया शक्यत्यागो, न सामान्यरूपतया । नहि एतत् भवति-भास्वररूपाभासो न केनचित् देशेन कालेन वा विशिष्ट इति ।
अनेन आशयेन आह इति च यत् वृत्तावुक्तं तद्देशकालसामान्ययोगेऽपि तस्य रूपाद्याभासस्य सामान्यरूपत्वं न हीयते इति प्रतिपादयितुमिति । ननु देशादिसामान्याभासः कस्मादहेयः । यत इत्याह स्वरूप इति स्वरूपभेदावभासेन आक्षिप्तत्वात्स एव असावुक्तः । तदेव आक्षिप्त- त्वं दर्शयति नहि इति । वस्तुरूपौ इति पृथगर्थक्रियाकारी भूतलादिरादित्योदयादिश्च भवत्येव देशकालात्मा । अत्र
(पगे १२३)
आह यद्यपि इति । उपचर्येत इति व्यवह्रियेत, यदिवा गौणवृत्त्या उच्येतेत्यर्थः । भेदावभासेनैव इति स्वरूपभेदपर्यवसायेनेति यावत् । तं भेदावभासं दर्शयति भिन्नेन च इति एकश्चो ह्यर्थे ।
एतदुपसंहरति तत् इति तस्मात् । स्वात्माभासस्य रूपादिलक्षणस्य विशिष्टदेशकालयोगाभावे न भेदस्तदवश्यं क्वचिद्देशे काल इति वा सर्वत्रेति वा तत्सामान्यावभासः, भिन्नेन तु योगो दण्डेन इव पुंसो भवन् स्वरूपमेव भिन्दंस्तथा भवति । एतदुक्तं भवति- स्वरूपमेव सङ्कोचि देशकालौ, तत्रापितु मध्ये सङ्कोचान्तरात् सामान्यता, यावत्सङ्कोचान्तरं मूर्तिभेदान्तरमसहमानं विशेष एव, न सामान्यम्; मूर्तिभेदगर्भतासहं तु महासामान्यं सत्ता । एतत् स्फुटयति तथाहि इति । देशो दूरादिभेदानपि सन्दधानः स्फुटताधानेनैव उपकारीति स्मर्यमाणत्वमस्य दिवसादिवत् न निदर्शितम्, कालस्तु त्रिधा भवन् वर्तमानात्मा स्फुटतया, अन्यस्तु अस्फुटत्वेन भवत्युपकारीत्याह अथवा इति । स्मर्यमाणेन अत एव अस्फुटाभासेन सहितः क्रियाविशेषो यस्य अवभासते, स भूतः । प्राक् इति कालचिन्तायाम् । अत्र च स्मर्यमाणेन उत्प्रेक्ष्यमाणोऽपि उपलक्षितः । चकारेण च अनागतः सङ्गृहीतः, यदिवा अनागतेऽवभासनं प्राचुर्येण निश्चितं न सम्भवति,-इति न असौ दर्शितः । ननु सूर्यसञ्चारादेरपि वर्तमाने इव गतिरस्ति, सा कथम् । इत्थमिति दर्शयति स्वात्मन्येव इति । देहावस्थानां प्राणगमागमानां च वैचित्र्यात् कालभेदः सूर्यादेरिति यद्यपि, तथापि पर्यन्ते प्राणादीनपि अयं परित्यज्य बुद्धावपि चित्तरूपायां प्रमातृत्वाभिमानेन प्रमेयतया वा यदा विश्राम्यति, तदा
(पगे १२४)
व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ । (यो। सू।
३।९) इति
शान्तोदितौ तुल्यप्रत्ययौ । (यो। सू। ३।१२)
इति च नयेन अवश्यं स्फुटास्फुटरूपत्वं सम्भवत्येव । ननु चित्तव्यापारस्य केन रूपेण स्फुटत्वमस्फुटत्वं च । चित्तं व्यवसायरूपम्, अवसायश्च विमर्शः; सच प्रकाशस्य आत्मा, प्रकाशश्च अदेशकालकलितः । अत्र आह विषयावभास एव इति ।
विषयोपरागसङ्कुचितत्वादेवहि तत् चित्तमुच्यते, अन्यथातु चिदेव, नतु चित्तं किञ्चित् । विषयश्च वेद्यरूपः, ध्येयाद्याकारो वा चित्तप्रलयादवस्थितस्वरूप एवेति तदात्मना स्फुटास्फुटत्वयोगो युक्त एव । तदेवमियता रूपाद्याभासानां सामान्यदेशकालयोगेऽपि तद्विशेषायोगात् सामान्यरूपतैव, तस्यामेवच प्रमाणव्यापार इति उपपादितम् । ननु यत्र एकव्यक्तिरूपत्वं चैत्रो मैत्र इत्यादौ, तत्र सामान्यायोगे किन्निष्ठः प्रमाणव्यापार इति चोदयितुं विस्मरणशीलतां दर्शयति एकावयवि इत्यादिना । अवस्थातृरूप्ं हि तत्र एकं सामान्यमिति उपपादितम् ।
एकमेकैकसामान्यस्वरूपमुपपाद्य प्रकृतं सूत्रार्थं तत्र योजयति तथाभूते च इति भित्तिकल्पे ते स्वभावा धर्म्यवैचित्र्यात्मानः । ननु यत् रूपग्राहि प्रमाणं चाक्षुषं, तदेव कथमौष्ण्यग्राहि । औष्ण्यं हि स्पार्शनं, न चाक्षुषम् । अत्र आह एकत्वं च इति । न अस्माभिरुक्तम्-येनैव भास्वरं रूपं गृह्यते प्रमाणेन, तेनैव औष्ण्यमिति; अपितु एवमुच्यते-येनैव प्रथमप्रथमप्रवृत्तेन प्रमाणेन भास्वरसन्निवेशविशेषरूपमौष्ण्यादि अव्यभिचारितया गृहीतम्, तेनैव त्रैलोक्ये त्रैकाल्ये च भास्वररूपसन्निवेशविशेषस्य तदौष्ण्याव्यभिचारित्वं निश्चितमिति न तत्र प्रमाणान्तरोपयोगः ।
(पगे १२५)
एवमौष्ण्यविशेषोऽपि तथारूपाव्यभिचारितया येनैव प्रमाणेन प्रथमं निश्चायितः, तेनैव सार्वत्रिकस्तथैव व्यवस्थापित इति । तत् तु कतमत् प्रमाणं स्यात् यदेवमव्यभिचारनिश्चयाय अभिषिच्यते इति अदूरे एव वितनिष्यते । अत्र इति वृत्तौ । ननु स्वभावे एवमस्तु, कार्यकारणादियोगे तु परापेक्षके कथम् । कथञ्च न स्यादित्याह कार्यत्वादि इति । प्रमाणेन न विषयीकृतं तदिति तावदशक्यवचनं प्रतीत्यपह्नवापत्तेः; विषयीकृतं चेत्, स्वभावभूतमेव तत् जातमन्यापेक्षमपि व्यवह्रियमाणम् । अत्रैव उपपत्तिं सूचयंस्तत्तच्छब्दवाच्यत्वेऽपि अयमेव न्याय इत्याह अत एव इति एकवारप्रवृत्तं प्रमाणं यदि सार्वत्रिकतया भावनिश्चये मन्दीभवेत्, तदा अयमग्निरिति महानसे गृहीतसङ्केतः श्मशाने कथं व्यवहरेदग्निरयं ज्वलतीति । यत्र च साङ्केतिकेऽपि अयं मन्दस्तत्र अकृत्रिमे तत्कार्यत्वतत्कारणत्वादौ का नाम अनवकॢप्तिरित्येवं वक्तुमत एवेति मध्ये निरूपितम्, नतु एकरसमेव उक्तमग्निशब्दवाच्यतापीत्यादि । आदिग्रहणात् इति वृत्तिगतात्, टीकागतादपि आदिशब्दात् पवनसखत्वादेर्ग्रहणम् ।
स्वभावशब्देन इति वृत्तिगतेन । अधुना तत् वितनोति यदुक्तं कतमत् प्रमाणं तत् स्यादिति । तत्र पूर्वपक्षं तावत् करोति अत्र च इति । चः प्रमेयसमुच्चये । अत्र सूत्रे यदेवंविधं वक्तव्यान्तरमुपयोगि, एतत् कथं व्यवस्थापनीयमिति अतिदूरेण सम्बन्धः । का अस्य व्यवस्थापने दुर्घटतेति चेत्, आह एकस्मात् इति सन्धिग्धसत्ताकमर्थान्तरं भूतलान्तर्निधानादि । परस्पर इति यत् सत्, तदुष्णमिति । एवमेकैकस्य परस्परस्वभावताग्रहणे कुण्ठशकित्वमुपपाद्य समूहस्य अपि उपपादयति अनेकेनापिच इति शिखरस्थसंवेदनेनैव
(पगे १२६)
गृहापणरथगजादि । ननु प्रमाणसमूहानन्तरभावि विकल्परूपं सङ्कलनाज्ञानमन्योन्यस्वभावतां व्यवस्थापयिष्यति । नेति ब्रूते सङ्कलना इति । दण्डपुरुषप्रतिसन्धानवदेतदपि भविष्यतीति उत्तरं
—————–तदसिद्धं यदसिद्धेन साध्यते ।
इत्युपालम्भेन भिनत्ति दण्ड इति अवभास इति अवभासेन । ननु अनेकाभासं यत् विज्ञानं, तत् विषयमेलनां कुर्वदेव एकं प्रमाणं भवेत् । उक्तमत्र
गजतुरगरथादेर्मेलनं नैकदृष्टौ ।
इति । तावत् दोषान्तरमपि आह अन्यथा इति । परस्परं विषयस्वरूपमपेक्षमाणमेव यदि प्रमाणं स्यात्, तदा द्विचन्द्रमपेक्ष्यैव नभोग्राहि प्रमाणं नभसि प्रमाणं भवेत्, न द्विचन्द्रोऽस्तीति अप्रमाणमेव स्यात्; गगनमपेक्ष्य वा द्विचन्द्रे प्रमाणमिति गगनस्य वस्त्वन्तरस्य आलोकादिरूपस्य वा सम्भवात् तदपेक्षया द्विचन्द्रेऽपि स्यात् प्रमाणम् । अथ द्विचन्द्रेऽस्य पृथक् व्यापारः पृथगवगमविषयीति, तर्हि सत्येषु अपि प्रमेयेषु पृथगेव अस्य प्रामाण्यम्, न अन्योन्यापेक्षयेति । ननु एकैकता अस्तु प्रामाण्यमेकैकं तु स्वलक्षणरूपमुच्यते, तच्च अनेकव्यावृत्तिकल्पनीयधर्मतामात्रमिति तेनैव रूपसन्निवेशोर्ध्वगामितात्मकं वह्निस्वलक्षणं गृहीतम्; भवन्मतेऽपि एकं स्वलक्षणमनेकसामान्यमेलनरूपमिति एकस्वलक्षणताग्रहणबलादनेकस्य तस्य अन्योन्यापेक्षा अपि सिद्ध्येदेव । एतत् निराकुरुते अनेकावभासित्वेऽपिच इति ज्ञानस्य परामृशत एव प्रामाण्यादिति सम्बन्धः । अत्र हेतुमाह बौद्धमते क्षणिकत्वादौ भातेऽपि अनिश्चितेऽध्यक्षस्य माभूत्प्रामाण्यमिति अपरामृशतोऽपि हि प्रामाण्ये क्षणिकत्वेऽपि———
(पगे १२७)
वा व्यतिरेकितया गृहीते स्यादेव प्रत्यक्षं प्रमाणम्, नच एतदिष्टं परस्य । ननु परामृशत एव प्रामाण्यं चेदियता किम् । आह परामर्शानां च इति ।
यावन्तोऽर्थसमारोपास्तन्निषेधेऽपि निश्चयाः । तावन्त एव————————————————–॥ (पा। वा। १।५१)
इतिनये प्रतिव्यावृत्ति भेदेन वर्तमानः परामर्शः प्रमाणमपि एकैकस्यां व्यावृत्तौ सामान्यरूपायां पृथगेव वर्तमानं पर्यवसाययति । ननु तेन प्रमाणेन समस्ततावद्व्यावृत्तिरूपसामान्याभासानामेकस्वलक्षणविश्रान्ता
-वभासानामभेदो गृहीतः । सत्यं गृहीतः, किन्तु तं गृहीतमपि अवधीर्य पृथगेव प्रामाण्यं युक्तम् । अवधीरणे हेतुर्यतोऽसाववभासो ग्रहणात्मा विमर्शवशेनैव उपयुज्यते प्रवर्तकत्वादिना प्रामाण्यं भजते । प्रमेयमुपसंहरति ततश्च इति पृथक्पृथग्व्यावृत्तौ प्रामाण्यादित्यर्थः । स्वविषये एकव्यावृत्तिमात्रं विशेषणविशेष्यत्वं यत् भास्वरं, तदुष्णं; यो धूमजातीयः, सोऽग्निकार्य इत्येवम्भूतं ज्ञातुमशक्यम् । ततश्च पूर्वोक्ता इति एतत्सूत्रदर्शिता अनन्तरसूत्रदर्शयिष्यमाणा च प्रवृत्तिर्न भवेत् विशिष्टार्थितया विशिष्टस्य प्रमाणेन क्वचिदपि अप्रदर्शितत्वात् । ननु अर्थिताबलात् प्रवृत्तिरिति उक्तं, सत्यम्, अर्थितापि सति अर्थसंशयादौ भवेद्यत्र क्वचिदर्थिताकृतप्रवृत्त्यभावः । नच क्वचिदपि कदाचित् विशिष्टं दृष्टमनेन किञ्चिदिति अर्थसंशयाद्येव अस्य न भवेदिति प्रेक्षकश्चेत् न प्रवर्तेत क्वचिदप्रवृत्तेरेव प्रेक्षकता तदानीम् । तदाह प्रेक्ष इति । किञ्च अर्थितातारतम्येन प्रवृत्तिमान् मूढलोको भवति, न प्रामाणिकः । सोऽपि च वर्तमानो दृष्ट इति तत्प्रवृत्तिर्न भवेदेव उक्तक्रमेण । तदपि आह प्रेक्ष इत्यादि । येषाम् इति
(पगे १२८)
सौगतकाणादादीनाम् । अपरिहार्यः इति सर्वथा अत्र नास्ति परिहारः ।
तथाहि यदुच्यते तैः-अग्निर्धूमकारणतां, धूमश्च अग्निकार्यतां त्यजन्नकारणको भवेदौष्ण्यादिकं च त्यजन् निःस्वभाव एव स्यादिति, तत् सिद्धेन कारणकत्वाद्याभासेन सह धूमाभासादेस्तादात्म्येन भण्यते नाम । तदेव तु पृथगाभासेषु प्रमाणेषु न सिद्ध्यति । तथाहि-ग्राहकं कियतीति परामर्शबलात्परामर्शाच्च पृथगेवेति दर्शितम् ।
एकग्रहणगृहीतवस्तुविषया यावन्तः परामर्शास्तदध्यवसिततावद्व्यावृत्तिमय एकोऽर्थात्मेति चेत्, एतदेव दुर्ज्ञानमेकग्रहणेन कियद्गृहीतमिति । एतावन्तश्च परामर्शा एतद्ग्रहणपूर्वका इत्यपि दुर्ज्ञानतरम् । उक्तं हि
दृक् स्वाभासैव——————————। (१।३।२)
इति । ततश्च केन एतत् तृतीयेन ज्ञेयं ग्रहणानन्तरमयपरमर्शात्माध्यवसाय इति । स्वसंवेदनतया हि उभे अपि ज्ञाने स्वात्मानं जानीतां नाम, न अधिकं तु ज्ञातुमर्हतः । अत एव इदमपि अयुक्तमुक्तमनग्नौ भवन् धूम एव न स्यात् । अग्न्यनन्तरस्वभावो हि सः, अतथात्वे पुनरेकवारमपि तथा न स्यात् । यदिहि एकवारमपि एतत् सिध्येत्, सार्वकालिकता यावगता, तद्गले ग्रन्थिर्लग्न इति न शक्यं किञ्चिदौषधमुपयोक्तुमाक्रष्टुं वा दोषजातम् । तत एव तन्मात्रनिमित्तत्वं तन्मात्रस्वभावं तन्मात्रप्रापणत्वं तन्मात्रानुबन्धित्वं तन्मात्रलक्षणत्वं धूमवत्त्वादेर्वह्निमत्त्वादिना,-इत्यादिवाचोयुक्तिसहस्रमपि वैराटैरिव रटितं बलवद्भिरुपचिते ग्रहेऽकिञ्चित्करमिति अस्मद्दर्शनमेव ऐश्वरानुग्रहार्जितार्जुनतेजोऽत्र शरणीकर्तव्यम् ।
तदाह अस्माभिः पुनः इति उपपन्नं युक्तमभिन्नप्रकृतित्वं पारमार्थिकमेकस्वसंवेदनात्मकत्वं यासां, तादृश्यः समर्थिताः संविदः । नच शुष्केण एकत्वमात्रेण अपि एतत्
(पगे १२९)
निर्वहति । तत आभासमेलनां नियतां कर्तुमैश्वर्यमुपेयमिति ख्यापयति प्रत्यवमर्श इति । सा इति संवित् । प्रमाणम् इति स्वसंवेदनलक्षणम् । ननु ऐक्यं गृह्णत्या तया संविदा स्वालक्षण्ये न गृहीतेऽभेद एव तात्त्विकीकृत इति सामान्यात्मान आभासा एव परमार्था इति आभासवस्तुवादस्त्रुट्यति । न त्रुट्यतीति दर्शयति ऐक्यमपिच इति अपराग्निशब्द इति वाच्यभाग इव वाचकभागेऽपि अभेदात्मा सामान्यरूपतयैव प्रधानमित्यर्थः ।
सापि संवित् सामान्यविषयैव यत ऐक्यमपि सामान्यरूपतया प्रमिमीते इति सङ्गतिः । एवमेवच इति स्वसंवेदनरूपतया देशेन सम्बन्धो धरायां वह्निरिति, कालेन ग्रीष्मे दावाग्निरिति, द्रव्यान्तरेण पवनोऽस्य उद्दिपको जलविरोधीति; आदिग्रहणादूर्ध्वज्वलनादिक्रियाद्यात्मना धर्मवर्गेण सम्बन्धः । इत्थमेवच इति इदं च असकृत् निरूपितम् । ननु यत् सौगतैरत्यन्ताननुगामि स्वलक्षणमुच्यते, तत्र का वार्ता । आह यत् पुनः इति । तत्र मायाशक्तिवशादत्यन्ताननुगामिताभिमानः परम्, अनुगामितैव तु परमार्थः । तहाहि-यदा तावदयं भावात्मा मायीयपरामर्शपदवीमेति, तदा अयमिदानीं विशिष्टो घटो मया चैत्रेण इह मीयत इति वाक्यार्थपरामर्शोऽपि एवञ्जातीयतयैव पुनःपुनरुदयोचितः । ततः सामान्यरूपतैव तात्त्विकी ।
मायीयत्वानुदयेऽपि अहमिदमिति शुद्धा अपि इदन्ता या सङ्केतानपेक्षिणी तत एव कालान्तरानुवृत्त्यादिशून्यस्वालक्ष्ण्य- मात्रपर्यवसिता, सापि अहन्तायामभिन्नायां लीयते मायीयताया अनभिव्यक्तेरिति कोऽस्य अवसरः कुत्र भेदस्तात्त्विकतां प्रतीत्यनुसारेण अवलम्बते मुक्त्वा तदभिमानमात्रं मायोत्थापितम् । सर्वत्र हि
(पगे १३०)
इदमित्यस्य विच्छिन्नविमर्शस्य—————–। (अ। प्र। सि। १५)
इतिनयेन प्रमातृतायामेव विश्रान्तं स्वरूपं सर्वं, प्रमातृता च अभिन्ना । एतदाह यत्पुनः इत्यादिना उपपादिताविभेदत्वम् इत्यन्तेन ।
बहुब्रीहेरयं भावप्रत्ययः । ननु सत्यं प्रमातुरभेद उपपादितः, किन्तु मायीये प्रमातरि नीलस्वलक्षणप्रतीतिर्विश्राम्यति; सच नीलावच्छिन्न इति कथं तस्य अभेद इत्याशङ्कां निराकरोति तथाविधार्थ इति । नीलस्वलक्षणप्रमातृता अपि उक्तवाक्यार्थपरामर्शरूपा देशकालसाधारणी एव ।
तथाविधोऽपि इति स्वलक्षणात्मा अपि । तात्त्विकः इति मायीयाभिमानमात्रकृतस्तु भेदः पूर्णस्वात्मरूपाख्यानमात्रसार इति यावत् । तदाह
सत्यासत्यौ तु यौ भागौ प्रतिभावं व्यवस्थितौ । सत्यं यत्तत्र सा जातिरसत्या व्यक्तयः स्थिताः ॥ (वा। प। ३।३२)
इति । एतदुपसंहरति तेन इति स्वलक्षणमपि यत्नेन यथा उपपादितं, तथा दर्शयति सामान्यपदेन । अत्रैवच इति स्वलक्षणतायाम् ।
भेदमात्रात् इति स्वलक्षणताव्यतिरेकादित्यर्थः । प्रसिद्धं हि समानोपरञ्जकत्वं, लक्षणं तदेव । एवं स्वदर्शने तत्त्वमुपपाद्य, परः स्वदर्शनमेवं यदिहि उत्पादयेत्-ननु मा भूदध्यवसायबलेन प्रतिव्यावृत्ति प्रामाण्यं, निरंश एव अस्तु स्वलक्षणे भास्वरोर्ध्वगामिरूपे प्रामाण्यमिति, तत् कोऽस्य दोषः ।
अयमित्याह तदेकत्रैव इति । तदिति तस्मादभ्युपगमात् हेतोः क्षणिकत्वांशे न प्रमाणं, स्थैर्यांशे तु प्रमाणमिति हि विषयभेदे सति शोभते, नतु एकवस्तुविषयतायाम् । तदुक्तान्येव इति यानि सर्ववाद्यन्तरोपमर्दनपरमास्त्राणि विरुद्धधर्मापादनानि ।
(पगे १३१)
ननु मा भूदेषा प्रमाणाप्रमाणादिविभागप्रक्रिया, किम् हि अनेन वादान्तरगमनेन । प्रकृतं हि तावत् सिद्धम्-वह्निरेकस्वभावो, नतु व्यावृत्तात्मा प्रमाणात् सिध्यतीति । प्रकृतमेव न सिद्धमिति दर्शयति तैश्च इति सौगतैर्भास्वरत्वसन्निवेशोर्ध्वगामित्वादावेकेन्द्रिय- ग्राह्यस्य एष क्रमो, भिन्नेन्द्रियग्राह्यस्य तु एकेन ज्ञानेन ग्रहणासम्भवे कथं भास्वर उष्णोऽग्निरित्येकस्वभावताव्यवस्था-पनं; ततश्च भास्वरः शीतमपनुदतीति अविदिते भास्वरं दृष्ट्वा अपि शीतापनोदार्थी कथमुपसर्पेदिति तथापि व्यवहारलोपः । यदि नाम इति विशेषणविशेष्यतात्मकसम्बन्धप्रतीतौ नास्ति व्यापारोऽध्यक्षस्य, किञ्च एकघनाध्यवसायोदयो नास्ति,-इति क एकघनो गृहीत इत्येतदेवाबद्धप्रायमिति । अत्रापि अवज्ञां दर्शयति मनोविज्ञाने इति विकल्परूपे । तत् हि काममेकस्मिन्नेव क्षणेऽनेकं रूपादिकमतद्व्यावृत्तिमात्रेण सामान्यरूपमनियतं विषयीकुर्यात्, नतु अन्योन्ययोजनामविकल्पकेन अकृतपूर्वां कर्तुं योग्यं भवति ।
एक्तत्र इति एकत्वेन सम्मतेऽर्थे न स्यादेवमाकारा प्रत्तिपत्तिर्यत एवम्भूतं विज्ञानस्य स्वरूपमिति सङ्गतिः । सप्तमी निमित्तार्थे । अत्र पराभिप्रायं शङ्कते अथ इति । रूपाश्रय इति रूपस्य आश्रयोऽधिकरणं समवायिद्रव्यं तत्र, रूपमेववा आश्रयोऽतिनिकट इति रूपसन्निकर्ष इति साधारण्युक्तिः । अत एव उपसंहरिष्यति नतु एकदेशता सन्निकृष्टतासन्निकृष्टता वा इति हस्तसन्निकर्षे स्पर्शग्रहणं रूपं च तत्रैव उपलभ्यते इति । एषा च सा तृतिया संवित् सिद्धान्तिमते पारमार्थिकी स्थिता लोकस्य, परन्तु एतत् न उपपद्यते इति विकल्पयति परमाक्षिपन् ननु इति । अत्रापि इति अस्मिन्वस्तुतत्त्वे स्थितेऽपि तव कथमेतदिति यावत् । हस्तो हि
(पगे १३२)
रूपस्पर्शात्मा वस्तुतस्तत्र विकल्प्यते यो हस्तस्य स्पर्श आन्तरो नैर्मल्याद्विषयस्पर्शग्रहसमर्थ इति इन्द्रियतया उक्तः, स तन्नैरन्तर्येणेति तावद्युक्तम् । एतेन आशयेन विकल्पद्वयं कृत्वा अन्त्यं विकल्पं घटयति स्पर्श एव हि इन्द्रियम्, अनुमेयता तु तस्य यतो नियते देशे नियतेन कर्कशसुकुमारशीतादिना रूपेण अवधार्यमित्येवं यद्यपि उक्तं, तथापि यावद्गति विचारणीयमिति दर्शयति तत्र यदि इति । एनं पक्षमसम्भवेनैव प्रतिक्षिपति केन इति ।
रूपस्पर्शोभयग्राहिणा रूपस्पर्शनैरन्तर्यं गृह्यते, नच तद्विज्ञानमस्ति । ननु रूपमुपलभ्यैव स्पर्शमुपलभते, विपर्ययो वा सकृत् सतु धियः । इति दृशि वा युगपद्रूपस्पर्शोपलम्भद्वयम् ।
भवतु एवं तावत्, प्रकृतं तु न प्रसिद्ध्यतीति दर्शयति केवलम् इति पौर्वापर्यात् नियतात् कार्यकारणता यौगपद्यादेककार्यता सिद्ध्येत्, नच अयं नियमः-कार्यकारणयोरेककार्ययोर्वा नियमेन एकदेशत्वं सन्निकर्षो वा-इति धर्माधर्मादीनां भस्मधूमादीनां च पूर्वापरसमानक्षणात्मनो विश्वस्य अपिवा कार्यकारणसमानसामग्रीकरूपस्य अपि सन्निकृष्टतया दर्शनात् ।
एतदेव च अस्मद्दर्शन एव उपपद्यते
प्रत्यक्षानुपलम्भानाम्———————। (१।७।४)
इत्युक्तयुक्त्येत्याशयेन अभ्युपगममात्रमेतदिति सूचयति यदि नाम इत्यनेन । अथ हस्तस्य यः स्पर्शः, स न इन्द्रियं स्पर्शग्राहकम्; अपितु
तद्विज्ञानाश्रयरूपप्रसादाच्चक्षुरादयः । (अ। को। १।९)
इति आभिधार्मिकनीत्या हस्तस्य यद्रूपं तत् स्पर्शग्राहि, रूपं च चाक्षुषप्रत्यक्षेण उपलभ्यते हस्तस्य च अग्नेश्च; अग्निरूपसन्निकर्ष- परिगृहीतहस्तरूपसन्निकृष्टश्च तेनैव हस्तरूपेण स्पर्शनेन्द्रियसं-ज्ञाभाजा
(पगे १३३)
स्पर्शाग्निस्पर्श उपलभ्यते इति । एतदपि दूषयति तत्परोक्षम् इति हस्तरूपं हि यदिन्द्रियीकृतं, तत् न उपलभ्यते इति तस्य अग्निरूपसन्निकृष्टता दुर्ज्ञाना अभ्युपगम्या अध्याहार्यापीति ।
हस्तरूपं हि चाक्षुषेण ज्ञानेन गम्यमग्निरूपं च, अग्निस्पर्शश्च स्पर्शनेन्द्रियताभिषिक्तहस्तस्वरूपजेन ज्ञानान्तरेणेति द्विग्राहकं न ज्ञानं समर्थितं किञ्चित् । एवं रूपस्पर्शयोः सन्निकर्षमेकाश्रयतां वा ग्रहीतुं न किञ्चित् संवेदनकुशलमिति उपपाद्य जितकाशितया हस्तस्य नैरन्तर्यमग्निस्पर्शस्येत्येतदपि दुरुपपादमिति दर्शयन् हस्तनैरन्तर्येणैवेति भाषामात्रमेव तव न युक्तमिति दर्शयति अथापि इति युक्तमपि पक्षमुपगच्छता दुष्टं च त्यजतापि भवता दुरुपपादमिति यावत् । अनेन इति करणस्य अध्यक्षतामाह । नच इति तेन रूपस्य करणता स्पर्शं प्रतीत्ययुक्तपक्षत्यागं ब्रूते । तेन इति हस्तस्पर्शेन इन्द्रियभूमिकामाश्रयता । स्पर्शान्तरम् इति अग्निस्पर्शः । नहि इति आन्तरता हि तस्य आत्माभेदेन वर्तमानता,-इति आत्मनि अविदिते कथं विदिता भवेत् । ततश्च इति ततोऽपीत्यर्थे । तदयमर्थः- प्रत्यक्षमिन्द्रियं स्वपरप्रकाशकमिति तावदत्यन्तमलौकिकम्, ततोऽपितु अङ्गीकृतादग्निस्पर्शो हस्तस्पर्शेन निरन्तर इति सिद्ध्येत्, न हस्तरूपेण निरन्तर इति । अथ इति लोकप्रतीतिमात्रावलम्बनेन इदमुच्यते ।
एकस्य इति हस्तस्य स्पर्शेन सन्निकृष्टं रूपमिति अग्नेरपि तथा तज्जातीयत्वात्, किञ्च एकस्येति हस्तसम्बन्धिनः स्पर्शस्य यत् सन्निकृष्टं हस्तरूपं, तदस्य अपि स्पर्शस्य अग्निसम्बन्धिनः स्पर्शजातीयत्वात् ।
ततश्च इदं जातमित्याह येन इति एवंव्यवस्थापनेन । अत्र मूलमेव निकृन्तति तत्रापि इति । तज्ज्ञानयोः इति हस्तसम्बन्धिरूपस्पर्शज्ञाने
(पगे १३४)
हि स्वात्मनिष्ठे एव, एवं रूपस्वलक्षणे स्पर्शस्वलक्षणे च देशक्रमेण नैरन्तर्यमान्तरत्वादिना अवधारयितुमशक्यं परमते इति उपपाद्य कालक्रमेण अपि अवधारणमशक्यमित्याह यथाच इति कालक्रमे च भिन्नाक्षज्ञानविषयत्वं न उपजीवनीयम् । तथैव इति स्वरूपनियतिस्थितिकत्वेन । एकत्र इति क्रमो हि ययोर्विचार्यते, तौ कथमेकत्र ज्ञाने भासेयाताम् । तत्रापि इति विकल्पे न इति वास्तव इति भावः । ननु एकविकल्पप्रतिभास्यतैव अस्तु क्रम इत्याशङ्क्य आह नहि इति । एवं प्रसङ्गतो मध्ये कालक्रमं परमते निराकृत्य देशक्रममेव प्रस्तुतं विचारयति देवदत्त इति । यदिहि कश्चित् ब्रूयात्- भावयोः प्रातिस्विकस्वरूपदर्शनमेव देशकालादिभेदग्रहणमिति तदनेन विहतमोहः क्रियते तथात्वेन इति वास्तवेन नैरन्तर्येण । स एव इति य आवृत्तः, अथवा स एव यो दृष्टपूर्वो, नतु अन्य इति शङ्कया द्वितीयता ? नैव निश्चयो देशविशेषेण सह अपेक्षाया अग्रहणे घटमात्रस्यैव उचितत्वात् । द्वितीय इति द्वितीयस्य यत् किल दर्शनं नक्षत्रस्य, तत् न अपेक्ष्यते नक्षत्रान्तरदर्शने तेन ज्ञानेन ।
पृथगेवहि स्वे स्वे विषये एकस्यापि ज्ञानस्य प्रामाण्यमिति उक्तम् । अनेन युगपद्ग्रहणेऽपि परमते न कथञ्चित् समर्थ्योऽयमर्थः इति दर्शितम् । ननु नक्षत्रद्वयनिरन्तरताप्रत्ययो भ्रान्तोऽतिदूरव्यवहितत्वात् नक्षत्राणाम् । अत्र आह नैरन्तर्य इति विकल्पोऽपि इष्यमाण इति सम्बन्धः । सर्वदैव इति मनोराज्यादावपि । ततश्च आभासवस्तुवादोऽयं स्यादिति आशयः । एतदुपसंहरति तस्मात् इति ।
व्यवस्थितम् इति वस्तुस्थित्या देशकालक्रमवदपीत्यर्थः । एवं क्रमचिन्तायां
क्रमो भेदाश्रय——————————। (२।१।४)
(पगे १३५)
इत्यत्र य उक्तो न्यायस्तेन उपलक्षिते ये आभाससदसत्त्वे, ताभ्यां साध्यो यः, स न सिध्येत् तयोरेव अनिश्चयात् परमते । यस्मादेवं तयोरनिश्चयस्तस्मात्परस्य नैव सिध्येदिति हिशब्देन आह । तस्मात् इति प्रवृत्तपूर्वघटाभासाभावोपलक्षितं तादृशं सन्तं पटमपेक्ष्यं निरन्तरः पूर्व इति लोकदृशं पदार्थवादिदृशं च आश्रित्य विशेषणद्वयम् । काणाददर्शने हि परत्वापरत्वे दिक्संयोगकार्ये । अग्रेअ।पि एवं मन्तव्यं भूतता पूर्वता च इत्यादौ । क्रमः पौर्वापर्यम्, व्यवधानं सान्तरत्वम्; आदिपदात् दूरत्वादिकम् । इयदेषां घटादीनां प्रमातृशरीरादिकमनपेक्ष्यैव स्वगतमन्योन्याभासाभावमन्योन्यत्र एकप्रमातृस्वतन्त्रप्रकाशविमर्शमहिम्ना उत्थापितमपेक्ष्य भवतीति उक्तम् । पौर्वापर्यादि तु इति पूर्वमिदं, पश्चादिदं, दक्षिणत इदम्, उत्तरत इदमित्यादि । अपिशब्दादन्योन्याभाससदसत्त्वकृतत्वमपि अनुजानाति घटस्य दक्षिणतः पट इत्यपि व्यवहारात् । एवं देशक्रम एकप्रमातृतत्त्वाधीन इति उपपाद्य कालक्रमोऽपि उपपाद्यते काल इत्यादिना एवम् इति देशवदेव आभाससदसत्त्वापेक्षत्वादित्यर्थः ।
एवं स्वतन्त्रद्रव्याणां विचार्य, धर्मरूपाणामपि तं क्रमं विचारयति रूपरसादीनां च इति आदिपदादेकसामग्र्यधीनतैकार्थसम-वायित्वाविरोधित्वादि । एवं जडगतत्वेन विचार्य, चेतनगतं विचारयति ज्ञानानामपि इति रूपरसादीनां च क्रमो बोध्यैरेव साध्यस्तेऽपि च विचार्या इति दर्शयति । ततश्च प्राक् यद्यपि
एवमन्योन्यभिन्नानाम्—————————-। (१।३।६)
इत्यत्र प्रकरणे निरूपितम्, तथापि एकप्रघट्टकावस्थितं प्रमेयं कर्तुमत्र स्मारयति कदाचित् इति युगपज्ज्ञानसत्तोपगमपक्षे । तस्याः इति असत्तायाः न स्वयं प्रथा शक्या इति ज्ञातुमसत्तेति
(पगे १३६)
पूर्वेण सम्बन्धः । तत् इति तस्मात् रसज्ञानात् । सर्वदैव इति रसज्ञानसत्तोपगमेऽपि । सर्वदैव इति सत्यपि रसज्ञाने नास्ति व्यतिरिक्तं रसज्ञानमिति असत्ता अस्य निश्चीयते । तत् इति रसज्ञानस्यैव यत् स्वरूपेण अभावः, स एव तर्हि अभावव्यवस्थाया अभावनिश्चयस्य हेतुस्तदन्वयव्यतिरेकानुवर्तनात् । स च नीलरूपो न प्रथते इति उक्तम् । अत्र परकीयमाशङ्कते अथ इति । तस्य इति रसज्ञानस्य । एतत् दूषयति तत् इति ।
तस्मात् त्वदुक्तादेव वचनात् हेतोरेतादृक् चेत् रूपज्ञानस्य सामर्थ्यं
-यत् रसज्ञानाभावं निश्चाययति, तत् पूर्वोक्तं दूषणमविघटितमेव । प्रदेश इति नास्ति इति सम्बन्धः ।
स्वरूपमात्रनिष्ठितो हि सदा भावः । ननु प्रदेशज्ञानं यथा घटेन सहितं च सम्मिश्रं च भवति, तथा इहापि भविष्यतीति । एतत् परास्यति न तथेह इति । अत्र हेतुः स्वप्रकाशस्य इति । स्यात् इति तत्र असम्मिश्रत्वे रसज्ञानाभावनिश्चयो युज्येतेति आशयः । एतत् निगमयति तस्मात् इति । ननु केन इन्द्रियेण रूपरसौ तत्संवेदने वा मेलयेदसौ ।
आह प्रणालिका इति न अस्य इन्द्रियाधीनं कर्तव्यसर्वस्वं स्वातन्त्र्यशक्त्यैव तन्निर्वाहात्, मायाप्रमातृतापरिग्रहे तु नियतिरस्य विजृम्भमाणा प्रमुखे तावदिन्द्रियोपयोगं करणभावेन आदर्शयति; परतस्तु तदिन्द्रियज्ञानानुप्राणकविमर्शशक्तिविस्फाररूपेण विकल्पशब्दवाच्येन प्रमातृव्यापाररूपेण भावान् व्यवस्थापयति ।
तदेतदाह स हि इति एकः प्रमाता । आत्मनि इति स्वरूपे । व्यतिरिक्त इव इति ज्ञानशब्दवाच्ये धर्मरूपे कथं तुल्यकालतां तयो रूपरसयोर्न व्यवस्थापयेदन्यथाच भिन्नकालतां कथं न व्यवस्थापयेदिति सम्बन्धः । भिन्नकालतायां
(पगे १३७)
हेतुः अन्यथावभासनात् इति । ननु परदर्शने विकल्प एव एवं रचयिष्यति, रूपरसवस्तुस्पृक्त्वं च अस्य न दुःसमर्थम् ।
अनुभवायन्ते हि विकल्पाः । एतदेव तर्हि प्रकृतमपाकरोतीत्याह रूपानुभव एव इति आत्मकालमनुभवकालमपेक्ष्य । तथा इति तदनुभवसमानकालत्वेन अध्यवस्येत् । ननु स्वसंवेदने विकल्पानां पूर्वानुभवापेक्षा काचित्, तत् कथमुक्तं-निजं जीवितमेषां नास्तीति । अत्र आह स्वसंविदंश इति स्वयम् इति संवेदनरूपतायां वेद्यधर्मः कालो न उन्मिषति, उन्मिषन्नपिवा रूपरसयोरकिञ्चित्कर इत्याह बहिर्मुखत्वाभावाच्च इति स्वसंवेदनं रूपरसविकल्पसंवेदनविकल्पस्य यत्, तदेव करिष्यतीति चेत्, आह स्वसंवेदनपरिपाट्या अपि न तुल्यातुल्यकालादिव्यवस्थापकता युक्ता ।
नहि तत्रापि स्वसंवेदने कल्पिते रूपरसद्वयविषयमेककमनुभवान्तरमस्ति भिन्नेन्द्रियवेद्यत्वात् तयोः । ननु च स विकल्प एव अनुभवायते । सत्यम्, यत्र अस्य विकल्पता स्वसंवेदनात्मकस्वरूपातिरिक्ते रूपरसांशे, तत्र अनुभवायतामनुभवायैव तु प्रकृतोपरोधिनी तदेतदाह यत्र पुनः इति । अनेन इति विकल्पेन अनयो रूपरसयोर्न कालप्रतीतिसङ्गतिः । साहि अन्योन्यापेक्षणेन भवति । तच्च नास्ति अयोजितयोरेव तयोस्तेन विकल्पेन अवभासनात् । स्वानुभवेनेव इति साधर्म्यदृष्टान्तः । स्वेन स्वेन अनुभवेन यथा तावयोजितावेव गृह्येताम्, तथैव तदनुसारिणा विकल्पेन अध्यवसायबलादवभास्येते, नतु अन्यथा । असादयेत् इति नतु इति सम्बन्धः । ननु विकल्पो येन विकल्पान्तरेण विकल्प्यते, तेनैवं करिष्यते रूपरसौ पूर्वं विकल्पितौ यौ तावेककालाविति । नेत्याह विकल्पस्य इति रूपरसविषयमैन्द्रियिकं
(पगे १३८)
मौलमेव अनुभवमनुसरति सोऽपि अपरो विकल्पः । ननु विकल्पोऽनेन विकल्प्यते, न अनुभवः; तं कस्मादनुसरति । इत इत्याह नच इति विकल्पस्य विकल्पनव्यापारं विकल्पयति विकल्पो न स्वसंवेदनम् । एतच्च
अशक्यसमयो ह्यात्मा———————————। (पा। वा। ३।२४९)
इति वदता परेण उपगतं विकल्पव्यापारश्च परमांशः इति तदनुभवस्य मूलभूतस्य अवश्यमपेक्ष्यम् । ततश्च तत्र यत् नास्ति लालाटे इव तर्जनयत्नसहस्रेषु ? इव तत् विकल्पनसहस्रेषु अपि कुतः ।
तदाह अनुभवेन अवभासितस्य अर्थस्य रूपादेर्या वृत्तिर्यो वृत्तान्तो निरूपितोऽन्योन्यापेक्षकालभेदशून्यत्वं, तस्यामेव पर्यवसाने विश्रान्तौ सत्यां विकल्पपरम्पराशतेऽपि उदितेऽनुभवादतिरिक्तोऽर्थावभासनव्यापारो नास्ति, अनुभवश्च न एवङ्कारी,-इति पुनः पुनः स्मारयति नच इति । ननु त्वत्पक्षपातितोऽपि विकल्पः कथमेवं कुर्यात् । सत्यं कुर्यात् । अस्मन्मते हि असौ प्राणितान्तरमेव प्रतिपन्नः । यदभिनवभारती
प्रभुपरिचयाद्धर्मं धैर्यं धियं च पराक्रमं परिजनजनो धत्ते नास्य स्वकं स्फुरितं क्वचित् । रजनिशरणाः शोच्यत्वं ये तमोभिरशिश्रय- न्नहरभि सृताः पश्यैते किं भवन्ति मुहूर्तकाः ॥
इति । तदाह स्यात् पुनर् इति । इदनीमेव भवत्पक्षपातित्वं दूषितं विकल्पस्येति अपिशब्दः । अयम् इति विकल्पः । कालाविभागेन इति देशोऽपि अत्र उपलक्षितः । स्वात्मना देशकालास्पृष्टोऽपि मायाप्रमातृभूमिकावतीर्णः स्वात्मनि कालं देशं च अवभासयंस्तेन सह भावस्य तद्देशतां तत्कालतां निर्भासयन्नेव तस्य भावस्य भावान्तरेण सह तामवभासयति,-इति न किञ्चित्
(पगे १३९)
दुःस्थम् । कालावभासं घटयति तथाहि इति, देशभेदं तु देशभेदोऽपि इति । एकद्रव्यात्मताम् इति द्रव्यबुद्धेः सत्यत्वे समर्थितत्वात् । अपिशब्दः सौगतसम्मतं सन्निकर्षं सूचयन् परदृशि दूषितं स्वदृशि समर्थयितुमाह यः पुनर् इति । सन्निकर्षो हि नैरन्तर्यमन्तराभावः । तस्य च इत्थं संवेदनं यदि तस्य अन्तरस्य व्यवधायकस्य उपलम्भलक्षणप्राप्तत्वं भवेत्, नच तदस्तीति तात्पर्यम् । ननु एवं पृथगनुभूतयोर्गृहयोर्यदि देशक्रमो न सञ्चेत्यते, तर्हि तौ क्रमशून्यावेव किं निर्भासेते । सत्यमेवमेव, देशक्रमापेक्षया यो हि क्रमोऽवभासते तत्र, स कालतो, न देशतः ।
एतं दर्शयति पृथक् इति । ननु पृथगनुभवे कालक्रमोऽपि कथं भासते तस्यापि परस्परापेक्षाप्राणितत्वमेव ननु, किं सहानुभवे कालक्रमः कश्चित्, तर्हि कथमयमुपपादयितव्यः । इत्थमिति दर्शयति विकल्प इति विकल्पकाले ये सह भासेते, नच एकरसतया, अपितु स्फुटत्वेन एकमपरं च अस्फुटत्वेन; तयोः पृथगनुभवबलादेव तथाभूते सति आभासभेदे कालक्रम एव भाति, न देशक्रमः ।
कश्मीरकान्यकुब्जादेस्तु सहानुभवाभावे देशक्रमोऽनुमीयते, नतु प्रत्यक्षः । एतेन तदपि प्रदर्शितपरमार्थं कृतं यदुक्तं निरन्तरयोर्घटयोः इति । तत्र हि कालक्रमेऽनुभवक्रियापेक्षे प्राङ्निरूपितस्थित्यपेक्षया पश्चात्तनस्तथानुभवापेक्षो विकल्पो देशक्रममनुमापयति यदि स पूर्वो घटोऽपसारितः, अन्यथा पश्चाद्भाविसहानुभवबलेनैव प्रत्यक्षतया विकल्प्यतेऽनयोर्देशक्रमः । अथ यदुक्तं नक्षत्रद्वयम् इति । तत्र आह नक्षत्रयोश्च इति विप्रकृष्टत्वेन यावभिमतौ पूर्वपक्षे निरूपितौ, आगमादिना वा तथा सम्मतौ नक्षत्ररूपावर्थौ; तयोः सहप्रथने सन्निकर्षो नैरन्तर्यं यदवभासते, तत् तथैव इति सत्यरूपमेव ।
यदिहि
(पगे १४०)
उपलम्भलक्षणप्राप्तमन्तरं भवेत्, तदुपलभ्येत; नच एवमिति असदेव अन्तरम्, सदपितु पिशाचादिकल्पं; न सान्तरता व्यवहारहेतुः ।
अत एव आगमेऽपि एवमुच्यते
अनयोरद्य समागम एकर्क्षगतत्वम्——————।
इत्यादि । एवं स्वदर्शनमुपपाद्य तीव्रं व्यामोहस्थानमिदं मूढानामिति मन्वानः स्वदर्शनपरदर्शनयोर्महदन्तरं भवदपि अनिश्चिन्वानान् परान् प्रत्याययितुं तुलारोहणपौनःपुन्ये- नैव तयोरन्तरं कर्तुकामः पुनरपि परदर्शनानुपपत्तिं दर्शयति अनुभवात् इत्यादिना यदि परमिति तौ तथाभूतौ भावावेव द्वौ दृश्यमानौ सन्निकृष्टत्वविप्रकृष्टत्ववर्तमानकालत्वं चेतीयतैवोत्तरेणेति मन्यते, नतु अत्रापि परस्परापेक्षा निर्वहतीत्याशयः, कालविशेषस्य वर्तमानतामात्रस्येति मन्तव्यम्, नतु प्राज्ञस्य अव्यवहितस्यापि च प्रतिपत्तुं शक्यो देशकालविशेषावभासो देशभेदे कालभेद इन्द्रियभेदे वा सतीति सम्बन्धः । ननु इन्द्रियभेद इत्येव अवश्यम् । नेत्याह एकेन्द्रिय इति । अत्र हेतुः अर्वाक् इत्यादि । ननु
विकल्पयन्नप्येकार्थं पुरोऽन्यदपि पश्यति । (पा। वा। ३।२०७)
इतिन्यायेन घटं च अनुभवेत् पटं च अस्फुटं विकल्पयेदयमेव तयोः कालभेदः । नैवमित्याशङ्कापूर्वकमाह यद्यपिच इति येन इति स्वातन्त्र्येण । स्वकालो विकल्पनस्य वर्तमानता स्फुटत्वेन, स्वदर्शने तु नायं दोष इत्यभिमतत्वादनुबध्नाति सर्व इत्यादिना ।
सर्वेषामनुभवज्ञानानां यदान्तरं संवेदनस्वरूपत्वमेकं, तदेव स्वातन्त्र्यादनुभवमयीं तां बहिर्मुखतां परामृशत् स्वरूपस्य अनुभवस्य च एकीभावात् स्वयङ्कृतमनुभवकृतं च स्वयङ्कृतमभिमनुते इति वस्तु एव इदं, न अन्यथा । एतदेव घटयति सहि
(पगे १४१)
इति विकल्पः । अन्यथा इति अनुभवरूपानपेक्षया । योगी हि न प्राच्यानुभवान्तरसापेक्षप्रतिपत्तिकः । ननु इति भिन्नत्वेन संवेदनेभ्यः प्राच्येभ्योऽभिमतो यो विकल्पः, स कथं विषयोन्मुखो भवेत् विषयवेदी च । यदेवम्भूतं वस्तु उक्तं वक्ष्यते च
अत एव हेतुभूतादस्य दर्शनस्य पराभ्युपगमाद्विशेषः ।
तत् वस्तु दर्श्यति यस्यैव इति संवेदनलक्षणस्य आन्तरप्रमातुः । अनेक इति अनुभवभूमिकापरिग्रहे । स एव इति विकल्पभूमिकावगाहने । नतु इति सौगतादिवदित्याशयः । काणाददृष्टिषु अपि दुःसमर्थमेतत् ज्ञानानामेकरूपत्वाभावे सत्येकसंविद्रूपाश्रयमात्रयोगस्य अकिञ्चित्करत्वादिति उक्तमेव प्राक् । स्वदर्शनं क्रमेण पूरयति स एवच इति । तथाच इति किञ्चेत्यर्थः । अनेकात्मकम् इति रूपस्पर्शादिमयम् ।
बहुतरप्रमेयतरङ्गान्दोलितं सूत्रार्थं स्थिरीकृतत्वेन उन्मीलयति एवम् इति नतु अन्यथेति यावत् । अर्थस्वभावः इति एकैकाभासरूप इत्यर्थः । एतत् तावत् इति । अनेन सूचितं प्रमेयान्तरमपि उपपन्नमधुनेत्याह यदपि इति वस्तु इति अनेकाभासात्मकमेकमिति यावत् । सैव इति दाहकादिरूपैकाग्निप्रतीतिः । उभयत्रापि इति आभासभेदेषु, तदेकाभासे च । ततः इति प्रमातुः । अतः इति यत एवं वस्तुतः प्रमातैव प्रमाणं, तत एष सिधान्तो जायते इत्यर्थः ।
सङ्कोचतः स प्रमाता चाक्षुषप्रमाणरूपतां प्रतिपद्यते इति सङ्गतिः । स्वात्मापेक्षया इति प्रमातृप्रकाशतादात्म्यवृत्तेराभासस्य ऐक्यापेक्षया । एवमेव इति तस्य च नाम क्रियमाणं युक्तिरिति समुचितं प्रमाणपरिगृहीताभासभेदयोजनात्मकत्वात् गन्धयुक्तिवत् । अत एव अनेकप्रमातृगताभासभेदयोजनं यथा यथा स्फुटीभवति, तथा तथा
(पगे १४२)
प्राज्ञत्वं प्रकृष्यते, अपरथाच विप्रकृष्यते । एतदपिच भगवत्स्वातन्त्र्यमय्या इच्छाशक्तेरेव विजृम्भितमिति सैव सर्वत्र शरणम् । तदुक्तं
बुद्धिर्ज्ञानमसम्मोह—————————–। (१०।४)
इत्यादि । अत्रापि इति अनन्तरूपरसाद्याभासमिश्रीकरणाभासे । एतत् इति अनेकात्मकैकसाक्षात्कारात्मकं प्रत्यक्षम् । न केवलं साक्षादनुभवयोजनात्मिकैव युक्तिः, यावत् स्मृतिद्वारेण अपि अनुभवयोजनात्मिका सेति दर्शयता विततस्वभाववस्तुव्यवस्थापनमिव विततकालवस्तुव्यवस्थापनमपि इत्थं युज्यते इति दर्श्यते शरत् इत्यादिना । प्रमात्रैव तत्काले एकप्रत्यक्षरूपतां प्रतिपाद्य एवम्भूता वितताकारा परिपाटी प्रतीयते इति सम्बन्धः । परस्य तु एतत् न सम्भवतीत्याह नहि इति । तत् इति निरन्तरपरिपाट्याभासात्मकं वस्तु सत् । ननु परेण चेदेतदुररीकृतम्, कस्तर्हि स्वपक्षे पक्षपातः । आह तच्चैतत् इति परेण उपगतं यत्, तत् क्रमिकेभ्योऽनुभवेभ्यस्तद्विकल्पे-भ्यस्तत्स्मरणाच्च व्यतिरिक्तेन एकसंवेदनात्मना युक्तिवाचोयुक्त्युक्तेन निरूपयितुं शक्यम्, न अन्यथेति । एतत् इति यदेव तदैक्याभासे साक्षात्काररूपे, तत् पुष्पस्वरूपं पुष्पस्मरणात्मकम् । एवं विततकालवस्तुव्यवस्थापनेन मुहूर्तादेर्महाकल्पपर्यन्तस्य आभासस्य वस्तुतां व्यवस्थाप्य विततदेशवस्तुव्यवस्थापनया क्रोशयोजनादेः समस्तकालानलभुवनप्रभृतिसदाशिवान्तभुवन- वर्गगतस्य अपि अभेदात्मन आभासस्य सत्यतामवस्थापयति सन्निकर्ष इत्यादिना । अर्थान्तराणामल्पत्वं महत्त्वं च आभासमानं विद्यते ययोरर्थयोः सन्निकृष्टविप्रकृष्टाभिमतयोराभास्यमानयोस्तावा-भासेते यस्मिन् ज्ञाने, तेन यथासङ्ख्यं सन्निकर्षेतरौ व्यवस्थापयितुं
(पगे १४३)
शक्यौ । यस्तु मन्यते-वस्तुनी एव ते द्वे सन्निकर्षोऽन्यो वेति, तस्य अन्तरालवर्तिषु वस्त्वन्तरेष्वपि अगृह्यमाणेषु तद्गृह्यमाणवस्तुद्वय- मात्रनिष्ठितौ तावपि व्यवस्थापनयोग्यावभविष्यताम् । नच एवम् ।
तदाह नत्वन्तराल इति । सर्वत्र च दूरतादिग्रहणेऽन्तरालग्रहणं प्रयोजकं मन्तव्यमिति उपपादयति यत्तु इति । निशीथसमय इति यत्र अन्तरालवर्तिनां नदीपर्वतादीनां ग्रहणमसम्भाव्यमित्याशयः । सन्निकर्षमादिग्रहणात् विप्रकर्षं, तत्रापि च तारतम्यं व्यवस्थापयतः प्रमातुर्यत् प्रवृत्तौ वैचित्र्यमिह शीघ्रं गन्तव्यं न गन्तव्यमित्यादि; तत्र अन्तरालस्य न अग्रहणमपितु ग्रहणमेव । तत् दर्शयति यतः इति । द्वयम् इति दिग्द्वयादुत्थितम् । तस्य इति शब्दप्रवाहद्वयस्य । ननु न देशद्वयवर्तितया प्रवाहो गृह्यते, अपितु श्रोत्रशष्कुल्यवच्छिन्न एव नभोदेशे गृह्यते यथा काणादा मन्यन्ते, उत्पत्तिदेश एववा गृह्यते यथा कापिला मन्यन्ते श्रोत्रवृत्तिः शब्दोत्पत्तिदेश एव शब्दसाक्षात्कारात्मना परिणमतीति, नतु उभयत्र ग्रहणं, नापि अन्तरालग्रहणम् । एतत् दूषयति अनुभवं प्रमाणयन् श्रोत्रदेश एवच इत्यादिना । तदैव इति उत्पत्तिकाले । ततश्च कालभेदेन प्रतिपत्तिर्न भवेत्, साच अस्तीत्याह न चैवम् इति उत्पत्तिदेशस्य दूरत्वे उत्पत्तिकालमतिक्रम्य चिरेण प्रतिपत्तिर्दृष्टा, अतिदूरत्वे चिरतरेण; अत उभयदेशमध्यवर्ती प्रवाहस्वभावोऽसौ शब्दोऽवगम्यते इति उपगम्यम् । योऽपि आह उत्पत्तिदेशे शब्दस्य श्रोत्रेण न ग्रहणम्, अपितु श्रोत्राकाशावकाशाश्रित्या अन्त्यशब्दविशेषणलिङ्गेन अनुमानत इति, तेनापि आनुमानिकं तावदन्तरालग्रहणमुपगतमेव; तेन दिग्विशेषदिग्द्वयागतत्वं शब्दस्य दुर्ज्ञानम् । शब्दस्य हि
(पगे १४४)
विशेषः कामं दूरतादि ज्ञायतां, नतु दिगादिविशेषणं सम्बन्धिग्रहणकाल एव तदपरिज्ञानात् चक्षुषा भेरीदण्डादिसंयोगप्रभृतिकारणावलोकनेऽपि
नावश्यं कारणानि————————–।
इति न्यायेऽन्यकारणतासम्भावने संशयानिवृत्तेः । नच दिग्विशेषजेन शब्देन जनितस्य अन्त्यशब्दस्य विशेषेण भवितव्यं क्षणिकदृशि इव दक्षिणोत्तरप्राक्पश्चिमदिगागतानां पुरुषाणां पुरो नेत्रपातिनामिति अलमवान्तरेण सर्वथा तावदुत्पत्तिदेशेऽपि गृह्यते शब्दः, नतु अन्त्य एव मन्दतमः । अतश्च एवं-यदतिदूरादपि गीतमाकर्णयन्नवैति-तारतारं गायतीति, तत् तीव्रता अपि तत्र अन्या गृह्यते । यथातु दूरात् गृह्यमाणोऽन्तरालपतितरजःप्रभृतिभावान्त- रावरणवशादस्फुट इति प्रतीयते, तथा स तीव्रनादेन आरभ्यते यस्तीव्रोऽपि मध्यवर्तिरजःस्थानीयसम्भाव्यमानवायवी- यादिशब्दावरणवशादस्फुटः प्रतीयते; अन्त्य एवतु स्फुटः ।
अनुभवसाक्षिकं च इदं-यत् निःशब्दायां रजन्यां यत एव दूरात् ध्वनिराकर्ण्यमानः स्पष्टवर्णत्वेन अवभाति तत एव प्रवृत्तजनसम्पातवचसि दिवसधामनि अस्पष्टवर्ण एव नादमात्रतयेति । तदेतदुपसंहरति तस्मात् इति । दृश्यते इति प्रमाणोपपन्ना अवलोक्यते इत्यर्थः । ननु किमर्थं शब्दान्तरारम्भणमिष्यते, तदपिच देशान्तरे येन प्रवाहद्वयमित्युक्तम्, तावन्तं कालं स एव शब्दोऽवस्थास्नुरस्तु; आरभमाणो वा तत्रैव आरभताम्; आरम्भे वा कोऽस्य विरामावसरः; सर्वतश्च आरम्भे चर्तुदिक्कमपि शब्दश्रवणप्रसङ्गः-इत्याशङ्काः शमयति अग्रस्थित एव च इति ।
तेन न चर्तुर्दिक्कं श्रवणम् । अप्रतिहत इति वाय्वादिप्रतीघातादेव विरमतीति यावत् । येन इति शब्दान्तरजननेन
(पगे १४५)
दूरस्थिताः प्रमातारो यावति काले शब्दं शृण्वन्ति, तावन्तमेव कालमुत्पत्तिदेशस्था अपि प्रमातारः शृणुयुर्यदि स्थिरोऽसौ भवेत्, तत्रैववा शब्दान्तरमारभेत । उभयथापि हि असौ तत्रस्थस्तत्रस्थप्रमातृश्रोत्रगम्यतां न अतिवर्तते । नच एवं काष्ठपरशुसंयोगाद्धि शब्दः स तत्रस्थैस्तदैव श्रूयते, दूरवर्तिभिस्तु पुनः परशोरुद्यमनकाल एव । तेन अन्तरालवर्तिशब्दग्रहणपूर्वकमेव शब्दस्य अपि दूरतादिग्रहणमिति स्थितम् । यत्तु उक्तं शब्दस्पर्शेत्यादि, तत्र तत्प्रवाहातिरिक्तस्य शब्दस्य अप्रतीतिरुक्ता मन्तव्या ॥ ८ ॥
एवं प्रत्याभासं विश्रान्तेन प्रमाणेन भावस्वभावव्यवस्थापनं क्रियते । परस्परस्वभावनियमोऽपि आभासानां तदाभासनियतभिन्नप्रमाणानुप्राणकान्तर्मुखबहिर्- मुखतोभयभाजा स्वसंवेदनेन प्रत्याभासं गृहीतग्राहिणा अपि मिश्रणांशे प्रमाणभावभाजा प्रमीयते इत्येवं मानस्यां प्रवृत्तौ प्रमाणोपयोग उक्तः; कायप्रवृत्तौ तु यथा प्रमाणव्यापार उपयोगी, तथा दर्शयितुं सूत्रान्तरं
सातु देशादिकाध्यक्षान्तरभिन्ने स्वलक्षणे । तात्कालिकी प्रवृत्तिः स्यादर्थिनोऽप्यनुमानतः ॥ ९ ॥
तुः पूर्वतो विशेषकः । अर्थक्रियाकारिणामपि विशेषाणां प्रकाशपरामर्शमयचित्स्वरूपविश्रान्त्या यद्यपि विशेषरूपता विशीर्यते एव, तथापि मायाशक्त्या दृढीक्रियते इवेति विशेषसाध्यया अर्थक्रियया योऽर्थी, तस्य या तस्मिन् स्वलक्षणे तत्कालमात्रोपयोगिनी, नतु भावस्वभावव्यवस्थापनवत् कालान्तरेऽपि उपयुज्यमाना वाङ्मनःकायप्रवृत्तिः; सा देशे काले स्वरूपे स्वरूपान्तरानुसन्धानादौ च यानि अध्यक्षान्तराणि बहूनि प्रत्यक्षाणि, तेषां भिन्ने भेदे सति सम्भाव्यते; न अन्यथा, प्रमाणसमूहादेवच, नतु एकैकतः प्रमाणादिति यावत्, यदिवा देशादिकानि यानि अध्यक्षान्तराणि
(पगे १४६)
प्रत्यक्षीभूतानि आभासान्तराणि, तैर्भिन्ने स्वलक्षणे सति तन्निमित्ता प्रवृत्तिरिति सङ्गतिः । अत्रापि प्रमेयबहुत्वमुखेन प्रमाणसमूह एव निमित्तत्वेन उक्तो भवति, यदिवा पारमार्थिकरूपाभिप्रायेणैव योजना । देशादिकेषु अध्यक्षेषु सत्सु आभासयोजनया विशेषरूपतायामपि सत्यां तेषामेव अध्यक्षज्ञानानामन्तरिति प्रमातृभूमाव- भिन्नं यत् स्वलक्षणं, तत्र प्रवृत्तिरिति । न केवलं प्रत्यक्षकृतायां प्रवृत्तावयं क्रमः, अनुमानतोऽपि या प्रवृत्तिस्तात्कालिकी, सापि प्रमाणसमूहादेव । तत् यथा-पर्वतग्राहि प्रत्यक्षमग्निग्राहि अनुमानं, शीतापनोदग्राहि अनुमितानुमानं, चौराद्युपद्रवविरह- ग्राहि आप्तवचनमिति । अतः प्रमाणसमूहादेकान्तर्मुखस्वसंवेदन-निष्ठा प्रवृत्तिरिति सूत्रार्थः । तमवतारयति यत्र इति । पुनः इति । तुर्व्याख्यातः मात्रशब्देन अपिशब्देन च । सर्वथा वस्तुस्वभावव्यवस्थापनं न निषिद्धमित्याह सम्बन्धे यदि कायीया प्रवृतिः स्यात्, स तर्हि एकेनैव प्रयोजकेन प्रमाणेन गृहीत इति प्रमाणसमूहात् प्रवृत्तिरिति कामं हीयेत; नतु सम्बन्धे प्रवृत्तिः । अत्र हेतुः अन्तर् इति । प्रवर्तते बहिः, सम्बन्धश्च अन्तरैक्यम् । यथोक्तं
————————–भावा एकप्रमातरि । अन्योन्यान्वयरूपैक्ययुजः—————-॥ (२।२।४)
इति । स्वलक्षणमेव कस्मात् विचित्रामर्थक्रियां करोति । आह सामान्यस्य इति भास्वरतया हि प्रकाशेत परं, न दहेत् पचेत् वा ।
यदातु भास्वरता औष्ण्याभासेन मिलति, तदा दाहपाकादि । तदाह यदा पुनः इति तेषां स्वभावानामाभासात्मनां यदैक्यं, तद्विषयं यत् प्रमाणं योजनाग्राहि; तेन सहभावीनि एकात्मताभाञ्जि अपि न सर्वथैव गलितभेदानि आभासान्तराणि
(पगे १४७)
अपितु कटकतलमिलितविचित्रसन्निवेशोत्थापककनकपृषतकल्पानि प्रवृत्तिं कुर्वते । अप्यनुमानतः इत्यंशं व्याख्यातुमनुमानवृत्तान्तं सङ्क्षेपेण तावदाह अनुमानं च इति शब्दवाच्यत्वं प्रत्याभासमिति कथितमसकृत् । ननु देशायोगव्यवच्छेदाय यदुक्त-मत्रापीति, तत् यदि न दर्श्यते; कोऽनुमानस्य दोषः । न कश्चित्, अप्रमाणं तु तत् भवेदिति निरूपयति धूम इत्यादिना कार्यस्वभावयोरुदाहरणद्वयम् । नापि इति प्रत्यक्षेणेति शेषः । नियते इति देशे तत एव प्रवृत्तियोग्ये । तद्बलात् इति ।
तद्देशप्रतिपन्नाग्न्यव्यभि-चारिधूमबलात् । तत् इति या प्रतीतिरेवम्भूता, तदनुमानमित्यर्थः । एतदेव परिशोधयति नहि इति सर्वेषां सम्भाव्यमानानां प्रत्यक्षाणां सम्बन्धिनो व्यापारस्य यतो न विषयस्ततोऽनुमानेनैव गन्तुं ज्ञातुं शक्योर्ऽहश्च । ननु एवं प्रत्यक्षस्य नैव अत्र व्यापारः ।
मैवमित्याह प्रत्यक्ष इति धूमग्राहिणा प्रत्यक्षेण अत्र आक्षिप्यतेऽग्न्याभासो व्याप्तिग्राहिप्रत्यक्षसामान्यादिति तयोरपि अस्ति व्यापारः । सत्यपि तस्मिन् स्वतो निजरूपमहिम्ना यदि सोऽग्न्याभासः स्फुरेत्, न पृथगनुमानं प्रमाणत्वेन उदघोषिष्यत, नतु एवं; तेन अनुमानं प्रमाणान्तरम् । ननु तर्हि समूहेन न किञ्चित् कृत्यम् ।
कथं न कृत्यमित्याह नच इति । आदिपदात् व्याप्तिलिङ्गादि । यत्र इति स्वयमेव निश्चयस्वभावमनन्यापेक्षमनुमानमिति यत्र गीयते, यत्र च एतद्वक्तुं कश्चिदुद्यच्छेत्-ननु धर्म्यादिग्राहकं प्रत्यक्षादि यत् प्रमाणान्तरं, तदनुमानस्यैव तावत्परिकर इति; तत्रापि यावत् प्रमाणसमूहादेव प्रवृत्तिः किमङ्ग प्रत्यक्षे इति ।
तथाहि सम्बन्धमात्रेऽनुमानं प्रमाणमत्र अग्निरिति । नच तत्र प्रवृत्तिरपितु सम्बन्धिनि; तत्रापि देशविशेषादिनियत इत्येवमाभासान्तरविश्रान्तानि प्रत्यक्षाणि
(पगे १४८)
कथं न प्रवृत्त्यङ्गीभवेयुः । परिकररूपमपि च न तदेव भवितुमर्हति तस्यैव तत्परिकरत्वायोगात् । भिन्नं चेत्, जडमजडं वा; जडं चेत्, प्रमेयमित्यवश्यं तद्ग्राहिप्रमाणान्तरापेक्षा; अजडमपि असङ्कुचितं चेत्, न अस्य नियतपरिकरता युक्ता; सङ्कुचितं चेत्, प्रमाणान्तररूपमिति विधिनापि अशक्यभङ्गा इयं परमार्थकथा ।
तेन प्रमाणसमूहमयी एव सर्वत्र युक्तिः प्रवृत्तौ प्रयोजिकेति स्थितमेव अनेक इत्यादिना प्रत्यक्षोक्तमेव न्यायं मन्दबुद्धीन् प्रति अनुसन्धत्ते । एकतामात्र इति आन्तरसम्बद्धरूपे । ननु एवमेकप्रवृत्तिकारित्वादेक-मेव तत् किञ्चित् प्रमाणमस्ति । नेत्याह नतु एषाम् इति । विषयभेदेन कालभेदमाक्षिपता अवश्यं स्वरूपभेदोऽपि आनेतव्यः । नहि धर्मग्राहकं प्रत्यक्षं लिङ्गजवह्निज्ञानमात्ररूपस्य अनुमानस्य शरीरीभवितुमर्हेदिति समूहादेव प्रवृत्तिरिति युक्तम् ॥ ९ ॥
एवं विमर्शबलादेव भेदाभेदव्यवस्था । संविद्रूपस्य हि भगवतस्तदेव स्वातन्त्र्यमैश्वर्यम् । दूरान्तिकादौ च अर्थाभेदो यः परैरुच्यते, स विमर्शबलादेव उपपद्यते; नतु आभासमात्रबलादिति श्लोकद्वयेन आह
दूरान्तिकतयार्थानां परोक्षाध्यक्षतात्मना । बाह्यान्तरतया दोषैर्व्यञ्जकस्यान्यथापिवा ॥ १० ॥ भिन्नावभासच्छायानामपि मुख्यावभासतः । एकप्रत्यवमर्शाख्यादेकत्वमनिवारितम् ॥ ११ ॥
प्रतिभासमात्रेण व्यवस्थां कुर्वन् दूरादूरादौ सकलासकलावृतानावृतस्पष्टास्पष्तरक्तकृष्णसम्मुखपराङ्मु- खादेर्भिन्नप्रतिभासगम्यस्य कथमेकतां भजेत् । ननु विमर्शोऽपि प्रत्याभासं जीवितकल्पो भिन्न एव । सत्यम्, अपरस्तु तत्र यो विमर्शो य एव मया
(पगे १४९)
दूरादसकलो दृष्टः, स एव निकटे सकलो दृश्यते इति एकस्तेन प्रमाणरूपेण आ समन्तात् ख्यानं प्रथनं यस्य पूर्वाभासापे- क्षया मुख्यस्य तदेकविमर्शतादात्म्यावस्थितावभासस्य, तमवलम्ब्य भिन्नावभासच्छायानामपि भावानामनिवारितमेकत्व-मिति सङ्गतिः । भिन्ना अवभासने प्रकाशने च्च्याया, नतु प्रकाशनस्य स्वरूपपरमार्थो विमर्शमयो भिन्नो येषां, ते तथा तेषाम् । सर्वदा इति सत्यत्वावसरेऽपीत्यर्थः ।
तदेव इति आद्याभासरूपम् । तस्य च इति विमर्शात्मनः फलस्य । अत एव इति यतः प्रमाणाबाधया न सत्यासत्यभावव्यवस्था, अपितु विमर्शाबाधयैव; ततो हेतोः । ते इति सौगताः । तथात्वम् इति नतु तदग्रहणमिति हि शपथशरणमेषां, न प्रमाणवृत्तोपनतम् । नच अतिव्यापकमेतदिति ब्रूते शुक्तिकायाम् इति विमर्शस्तत्र उन्मूल्य एवेति यावत् । उन्मूलनं च या नेत्याभासेन स्ववर्तिना परवर्तिनापिवा तावति प्रमात्रैक्यबलोपनतेन योजना सम्बोध्यते नेत्याभासस्य योजनीयान्तरोन्मूलनरूपत्वात् । साधारण्ये एव च उन्मूलनं, तत एव सुखादावान्तरे नाबोधोऽसकृदुक्तः । अन्यादृशाभासादपि इति पूर्वं या मृण्मयताभासमिश्रितादवलोकिता, सा राजतत्वावभासमिश्रितादपि उपलभ्यते तावदाकाशदेशव्यापकजलधारणादिका अर्थक्रिया । तस्य इति सामान्याभामस्य । दूरान्तिकतया इति व्याख्याय तत्प्रसङ्गात् अन्यथापिवा इति व्याख्यातम् एवम् इत्यादिना । अधुना परोक्ष इत्यादि व्याचष्टे धूमादपि इति । प्रमात्रन्तरैः इति वनेचरैः, सर्वज्ञैर्मन्त्रेश्वरादिभिः, योगिभिर्भावनाप्रभावोद्भूतपरोक्ष- संवेदनैः । एतत् निगमयति तत् इति तस्मात् । बाह्यान्तरतया इति
(पगे १५०)
व्याकुरुते तथा इति । पूर्वोक्तनीत्या इति
स नैसर्गिक एवास्ति—————————–। (१।६।१०)
इत्यत्र उक्तया । दोषैर्व्यञ्जकस्य इति विवृणोति सूर्य इत्यादिना ।
रक्तोत्पलं नीलमिति दीपेन दृष्टं यत्, तदेव सूर्यालोकने रक्तमित्येव भाति । यथा इति येन न्यायप्रकारेण । तथा इति तेन प्रमाणवृत्तप्रकारेण । इदं युज्यते इति वृत्तिमधुना सूत्रेण सङ्गमयति परोक्षस्य इत्यादिना अन्यथाशब्दार्थ इत्यन्तेन । न व्याख्यात इति वृत्तौ । नच सङ्क्षेपमात्रमेतत्, अपितु प्रौढिरपि न्यायव्युत्पादिकेति दर्शयति अवभासमात्र इत्यादिना । अधिक उक्त इति सूत्रे । अनेन दूरान्तिकतया इत्यस्य बाह्यान्तरतया इत्यस्य च पौनरुक्त्याशङ्का शमिता । अत एव इति यतो बाह्यान्तरते स्फुटास्फुटत्वं तच्च वृत्तावुक्तं येन सर्वधर्मसङ्ग्रहस्ततो हेतोः । न विवृत इति वृत्तिकृता । तदपि इति व्यञ्जकभेदाभेदेऽपि परामर्शैक्यादैक्यमित्येवम्भूतस्य तत्त्वतोऽत्र वाक्यार्थस्य परामर्शात् नपुंसकनिर्देशः । नापि सौत्रस्य अन्यथाशब्दस्य अर्थो विवृतः । अत एव हेतोरिति समन्वयः । तन्मुख्य इत्यादिकां वृत्तिं विवृणुते मितिः इत्यादिना पूर्वोक्तं वस्तु अनुवदन् । आभासस्य इति प्रकाशस्य । स्फटिकस्य संविदि यद्रूपमिति वैमल्यम्, तत् नीलादिना; ततो नीलादि तत्र च्छायेति उच्यते । तथैव प्रकाशस्य संविदि स्वसंवेदने यद्रूपं, तत् तेन न अपहन्यते इति योजना संविद्रूपानपहम् इति पाठे । आवहम् इति पाठे तु अयमर्थः-यथा नीलादि स्फटिकस्य च्छाया केवला न संविद्रूपतां स्फटिकस्य आवहति, तथा आभासस्य प्रकाशस्य; विमर्श एव तु अस्य तामावहतीति स एव प्रधानम् ॥ १०, ११ ॥
(पगे १५१)
ननु अस्तु दूरादूरादौ स एव अर्थोऽर्थक्रियैक्यात्, बाह्यान्तरत्वे तु तत् नेति कथमैक्यम् । अत्र आह सूत्रेण उत्तरम्
अर्थक्रियापि सहजा नार्थानामीश्वरेच्छया । नियता सा हि तेनास्या नाक्रियातोऽन्यता भवेत् ॥ १२ ॥
अर्थक्रियापि इति सा तावत् स्वरूपं न भवतीति उक्तम्, अस्वरूपभूतापिच न सहजा अनन्यापेक्षा ईश्वरेच्छानियत्यपेक्षणात् । तेन तस्या अकरणात् न अन्यत्वमिति अवस्तुत्वं, वस्त्वन्तरत्वं वा भवितुमर्हतीति सूत्रार्थः । उल्लेखा एव घटादयस्तेषां बाह्यस्य स्वलक्षणस्य या अर्थक्रिया तया विरहेऽपीति वृत्त्यर्थः । अन्यथात्वम् इति अभावरूपतां घटस्य प्रदेशे कुर्यात् स्वभावोऽसन्, भिद्यमानस्तु स्वभावो वस्त्वन्तरतां तस्यैव घटपटापेक्षया कुर्यादिति सम्बन्धः । पुरस्तात् इति
यदसत्तदस——————————————–। (२।४।३)
इति प्रकरणे । अस्य आभासभेदे इति आभासविशेषे सामान्यरूपे विशेषात्मनि वा । अवभासान्तरम् इति सामान्यरूपम् ॥ १२ ॥
विमर्शैक्यादैक्यं यदुक्तं वस्तूनां, तत् भ्रान्तिवृत्तान्तभङ्गकारित्वादतिप्रसङ्गावहमाशङ्क्य सूत्रं
रजतैक्यविमर्शेऽपि शुक्तौ न रजतस्थितिः । उपाधिदेशासंवादाद्द्विचन्द्रेऽपि नभोऽन्यथा ॥ १३ ॥
रजततया यद्यपि शुक्तिरजतस्य ऐक्यं विमृश्यते, तथापि शुक्तौ यत् रजतमिति भातं मनोविज्ञाने, न तस्य स्थितिः सत्यरजतैक्येन निरूढा । बाह्यता वस्तुता सर्वसाधारण्येन विक्रयादियोग्या न भवति तस्य विमर्शस्य उन्मूल्यमानत्वादुपाधिदेशेऽत्र रजतमितिदेशरूपतया उपरञ्जकस्वभावायां शुक्तावसंवादादुन्मूलनात्
(पगे १५२)
सत्प्रतिपक्षभूतविमर्शस्थैर्यात् न इदं रूपं रजतन्ति ।
सम्यग्वदनं भासनपरामर्शत्मनात्मकं संवेदनं, तद्विपक्षोऽसंवादः । यथाच मानसे भ्रमे, तथा ऐन्द्रियिकसम्मतेऽपि भ्रमे द्विचन्द्रे न स्थितिर्यतश्चन्द्रान्तराक्रान्तो यो नभोदेशो विमृष्टस्तत्र अन्यथाभूतं विमर्शान्तरमुन्मूलकमुदेति
-न अस्मिन् नभोदेशे द्वितीयश्चन्द्र इति सूत्रार्थः । रजते इति सत्यरजते, शुक्तौ च इति रजतत्वेन अध्यवसितायाम्, द्विचन्द्रेऽपि बुद्धिर्मिथ्या इति वृत्तियोजना । सूत्रार्थमवतारयति तथा इति भेदेन यः प्रतिभासस्तदनादरेण, सहार्थे तृतीया । तत् इति विमर्शैक्यम् । कोऽयम् इति न अयं सत्यासत्यविषयविभागकारीत्यर्थः । अनया भङ्ग्या समनन्तरप्रमेयशेषभूतमपि सूत्रं प्रधानप्राकरणिकप्रमाणप्रमेयभावोपयोगिप्रमाणलक्षणशेष
-भूतत्वेन योजितम् । उपपादियितुम् इति सत्यासत्यत्वे विषयविभागेन अवस्थापयितुम् । रजतसामान्यम् इति तद्देशकालादित्यागेन रजताभासमात्रम् । ननु क्षेत्रज्ञनिर्मितं चेत्, तत् स्वलक्षणाभासरूपं तथापि कथं ब्रूमः । आह नच इति । तथा इति क्षेत्रज्ञनिर्मिततया आख्यानमेवच भ्रान्तिरिति वितनिष्यते ।
अस्थैर्यमात्रं च इत्यादि पूर्वमेव निर्णीततत्त्वम् । ननु संवादाभावात् कथं भ्रान्ततेत्याशङ्क्य आह प्रमाणं हि इति अप्रमाणं हि प्रमाणलक्षणविपर्ययेण भवति । भ्रान्तितत्त्वं निरूपयितुं चोद्ये पीठबन्धं करोति ननु च इति । अथापि इत्यादिना अस्त्येवम् इत्यन्तेन ग्रन्थेन असत्ख्यातिमस्थिरख्यातिमसाधारणख्याति- मनर्थक्रियाकारिख्यातिं विपरीतख्यातिं च क्रमेण पर्यवसाय्य केवलमसौ इत्यादिना तामपि असत्ख्यातौ विश्रमय्य अख्यातिपरमार्थतां निर्वाहयैष्यति एतावन्मात्र
(पगे १५३)
इत्यादिना । विरुद्धम् इति प्रकाशमानत्वमेव सत्त्वमिति कथितं ज्वाला इत्यादि । अत्र वक्तव्यशेषं यदस्ति-ज्वालादि खलु तथाभूतमेवेत्यादि, तत् सुखादिविषयवक्ष्यमाणन्यायसाम्यात् न पृथगुक्तम् । तदपि इति यदेवम्भूतं नियतं रूपं भवता दर्शितम्, तत् कथं केन प्रकारेण प्रमाणस्य एवंविधनियमनिदानस्य अभावात् । तमेव आह येहि इति । तत्र इति एवंस्थिते । एवम् इति असाधारणैकस्वभावम् । तत् इति रजतादि । बीजकन्दात् कन्दकन्दाच्च कदली एकजातीयैव स्पर्शोपयोगात् स्रंसिनीव हरीतकी नीलोत्पलकन्दं च कन्दजं गोमयजं च एकजातीयमेव । अनेन इति विमर्शैक्यमेव सर्वत्र प्रतपतीति यावत् ।
अन्यथाभूतमेव इति अभिमतार्थक्रियाशून्यं प्रमात्रन्तरासाधारणं च । अन्यथा इति विपरीतख्यातितां दर्शयितुं यत् प्रयुक्तं, तदेव स्पष्टयति विशिष्ट इत्यादिना ।
दृष्टान्तमेव घटयति तद्धि इति कारणत्वादि । अत्र दृष्टान्तघटनेऽपि वैधर्म्यदृष्टान्तमाह यथा इति । पुनः इति अनभ्या सकलापेक्षया भूय इत्यर्थः । शूद्धत्वेन इति जात्यादिना । ननु यदि कारणत्वादि न अधिकं नीलादिभ्यस्तर्हि पर्यायमात्रता स्यादित्याशङ्क्य आह केवलम् इति उच्यतामेव इति आपेक्षिको व्यपदेशो न वस्तुसत्तामन्यथा करोति यथा न इदमस्माकं सुवर्णं सदिति । एतत् इति प्रथमानस्य प्रमात्रन्तरविषयत्वस्य विरुद्धो न प्रथते इति पूर्णप्रथाभावादपूर्णख्यातिरूपा इयमख्यातिरेव भ्रान्तिः ।
यद्यपि सर्वैव संसारकथोत्था भ्रान्तिस्तथापि स्वप्ने स्वप्नो गण्डे स्फोट इति न्यायेन मायापदेऽपि भ्रान्तिव्यवहारोऽयं तावत्यपि समुचितोपयोगिपूर्णप्रख्याविरहात् । ननु स एतद्विरुद्धः किं कदाचित् प्रथते । सत्यमित्याह
(पगे १५४)
स्वात्मनि इति निश्चितस्तिमिरलक्षण उपघातो नेत्रदोषो यैः । नायम् इति केशादिः । इह पुनर् इति भ्रमत्वे । एवं विधे वा इति आपेक्षिकी विशिष्टधर्मरूपा । एवं व्यतिरेकाभावं विचार्य तदात्म्याभावमपि विचारयति घटः पटो न इति । ननु कस्मादपरामृष्टस्वातन्त्र्यः क्षेत्रज्ञोऽत्र निर्माता । ननु ईश्वर एव, सोऽपिवा क्षेत्रज्ञः प्रत्यभिज्ञानपरामर्शभावनाभावितस्वातन्त्र्य इत्याशङ्क्य ब्रूते प्रमात्रन्तरासाधारणत्वेन इति परतः इति सामानाधिकरण्यप्रयोगानन्तरं न इत्येवमवभासते । अत एव इति यतः पूर्वं सामानाधिकरण्यात्मा समारोपः, परतश्च शून्यात्मा व्यावर्तनरूपो नञर्थस्तत इत्यर्थः । यस्यैवच इति ऐक्यम् इति पटेन सह तस्यैव घटस्य पटे शून्यताख्यो धर्म इति प्रत्यवमर्शबलात् । अत एवहि पदार्थवादिन इतरेतराभावं भावविशेषणं मन्यन्ते । एवमख्यातिरूपत्वे भ्रान्तेः स्थितेऽसत्ख्यातिविपरीतख्यातिनामधेयाधानमपि प्रतिभासप्रत्यवमर्शबलायातम्, तथा परमार्थवस्तुवादेन न सह्यमित्याह तदेवम् इत्यादि । अख्यातेरेवतु भ्रान्तित्वं भ्रमव्यवहार इति दर्शयति वस्तुतस्तु इति । आत्मख्यातिरूपत्वं तु न भित्तिभूत्तमत्रेति दर्शयति आत्मख्यातिर्न इति न किञ्चिदधिकमिति केवलं द्विचन्द्रज्ञानादौ स्मृतेरख्यातिर्न स्फुटेति व्यापकमख्यातिरूपमेव वक्तव्यं यत्र स्मृतित्वाख्यातिरपि अन्तर्भवेदितिभावः । महाभ्रमेऽपि अत्र संसारलक्षणेऽख्यातिरेव तत्त्वमिति प्रथयति मायावशात् इति । भेदप्रतीतिः इति विधिरूपा । अत्र हेतुः भेदस्य इति प्रकाशमानस्य अनाद्यन्तप्रकाशपरमार्थत्वात् ।
यत् नरेश्वरविवेकः
(पगे १५५)
इदं नीलमितीहापि नामरूपे प्रथात्मके । न हेये अनयोर्हेया त्वहम्भावाप्रथैव सा ।
इति । न केवलमत्र समस्तसंसारिप्रमातृसाधारण्यां महाभ्रान्तावख्यातिः परमार्थः, यावत्प्रतिप्रमातृनियतायामपि प्रमातृविकल्परूपायां महाभ्रान्तौ सैव तत्त्वमिति दर्शयति माया इति । मायाप्रमातुर्व्यापारो यो विकल्पो-मम इदं सुखसाधनमित्यादिः, स रूपं यस्या भ्रान्तेः संसारसम्मतायाः, सापि सर्वैव समस्तेषु प्रमातृषु प्रत्येकं भेदेन वर्तमाना अद्वयाख्यातिरूपेति पूर्वेण सम्बन्धः; नतु अपूर्वस्य अर्थस्य या ख्यातिर्विविधरूपः प्रकाशस्तद्रूपाप्रकाशनं भ्रन्तिः । ननु केन सह तत्र अद्वयस्य अख्यातिः । आह निरवभास इति अपूर्वावभासनशून्यः सदाप्रकाशनवपुर्घटाद्यवभासविशेषनिष्क्रमणावधिभूतश्च शूद्धो देहाद्युपाधिसङ्कोचशून्यश्चिद्रूपः परमार्थप्रमाता, ततो व्यतिरेकशून्यो यः स इति मायाप्रमाताः; तद्व्यापाररूपतैव प्रकृतः स्वभावो यस्या विकल्परूपाया भ्रान्तेस्तेन संसारिप्रमातुः परमार्थप्रमात्रपेक्षया यदद्वयं न प्रकाशते, ततो विकल्पव्यापारः पाशवसृष्टिस्वभावत्वेन भ्रम इति उच्यते, अन्यथा तु परमार्थतैव तत्रेति तात्पर्यम् । विकल्पो हि ऐश्वर्यप्रवेशे ऋजुर्मार्गः ।
यत् ममैव
जलात् स्फूर्जज्ज्वालाजटिलवडवावह्निनिवहः सुधादाम्नः पूर्णादिभरदनदम्भोलिदलना । विकल्पादैश्वर्यप्रसरसरणेः संसृतिदरः कियच्चित्रं चित्रं हतविधिविघातात् प्रसरति ॥
इति । वक्ष्यते इति आगमाधिकारे, सङ्ग्रहे च । एवं प्रसङ्गात् महाभ्रान्तिवृत्तान्तं वितत्य प्रकृतमेव रजतादिभ्रममुद्दिश्य विचारयति अभाव इति । प्रमात्रन्तरसाधारणत्वाभावस्य
(पगे १५६)
यदाख्यानं तन्महिम्नैव असत्तावैपरीत्यव्यपदेशौ युक्तावन्वयव्यतिरेकाभ्यामिति दर्शयता येन अन्यथेति व्यतिरेक उक्तस्तं समर्थयितुमुदाहरणं हेतुगर्भतया दर्शयति केशादेः इति । तैमिरिकमात्मानं यो मन्यते, तं प्रति केशादेर्न असत्त्वेन, नापि विपरीतत्वेन व्यपदेशः । तेन हि प्रमात्रन्तरं प्रति न विषयोऽयमिति निश्चितम् । तत् केशादि । हि इति यस्मादेवं तस्मात् युक्तो व्यतिरेकः ।
उदाहरणेऽपि दृष्टान्तमाह ऐन्द्रजालिकम् इति इन्द्रजालेन मायोपाधिमन्त्रलाघवशम्बरादिना चरति यस्तं प्रति यथा अलीकरूपाणां मणिप्रभृतीनामाभासपरमार्थानां तथैव सतां न असत्त्वं, नापि विपर्ययः कश्चित्; तेन असत्त्वविपर्ययव्यवहारस्य व्यापिका अख्यातिरेवेति तद्व्यापकाभावे तस्य अभाव इति निर्णयः । अत एव इति प्रमात्रन्तरविषयत्वाभावस्य अख्यातिरेव यतो भ्रान्तिता, ततो भ्रान्तिनिवृत्तस्य ख्यातिरिति भावः ।
केवल इति रजतस्य यः शून्यताख्यो धर्मस्तद्विशिष्टायाः शुक्तिकाया यत् प्रथनमेतदेव पूर्वमेव प्रमात्रन्तराणामविषयोऽयमित्यस्य रूपस्य प्रथनम् । द्विचन्द्रस्य च इति विषयत्वाभावप्रथेति सम्बन्धः । उक्तम् इति पूर्वव्याख्यातस्य वृत्तिवाक्यस्य पुनरावर्तनात् भूतप्रत्ययः । तत्प्रसङ्गपतितत्वाच्च नभोदेश इति वृत्तिवाक्यमपि उक्तमित्येव उक्तम् । ननु किमत्र शुक्त्याकाशदेशादेस्तच्छून्यत्वाविशिष्टत्वप्रथनेन, रजतस्यैव अभावप्रथा कस्मात् न उच्येतेत्याशङ्काविघटनं हेतुं तच्छून्यत इत्याह । तत एव इति शुक्त्यादेस्तच्छून्यत्वेन प्रथनात्, नतु रजतस्य अभावरूपतया प्रथनात् । तदेव हि स्वातन्त्र्येण उपपद्यते रजताभासमात्रस्य अन्यदेशादिविशिष्टरजताभासमात्रतातादात्म्यप्रतिपन्नस्य अभावायोगात् । एतदेव दर्शयति रजतादेः पुनः इति ॥ १३ ॥
(पगे १५७)
इयता आभासानामेव वस्तुत्वं दर्शयता आगमसिधान्येव तत्त्वानि वस्तूनीति दर्शितम् । तथाहि काठिन्याभासः पृथिवी, लौहित्याभासो रूपं नियतरूपो भावावभासः सन्निवेश; इहेति देशात्मा, अधुनेति कालाभासो, रजोगुणो मेलनाभासो, यावच्छिवरूपता प्रकाशमानताभास इति घटे एव यथा भेदाभेददृष्टिस्तथा पारमेश्वरे प्रकाश इति व्यवहारोऽपि अयं भगवदनुगृहीतानां परमार्थप्रवेशे प्रत्युत अभ्युपायः, नतु विरोधी । तथाच परमेश्वरायत्तैव भेदाभेदात्मकसमस्तप्रमेयसिद्धिः सूत्रेण उच्यते
गुणैः शब्दादिभिर्भेदो जात्यादिभिरभिन्नता । भावनामित्थमेकत्र प्रमातर्युपपद्यते ॥ १४ ॥
अनुवृत्तव्यावृत्तात्मना चकासत्सु भावेषु पुनरुन्मज्जननिरोधकस्य परमार्थबाधकस्य क्वापि भागेऽसम्भवादुभेऽपि अनुवृत्तिव्यावृत्ती संवेदनस्वातन्त्र्यात् निर्भासमाने न उपालम्भमर्हतः । किञ्च अभेदपरमार्थं क्रियासम्बन्धादि यथा सति एव प्रमातरि प्रतिसन्धातरि युक्तम्, तथा भेदोऽपि तद्भेदावधिप्रतिसन्धानक्षमे भगवति एव सति युक्तस्तत एव प्रमाणलक्षणे प्रमातृप्रधानतासूचकं स्वग्रहणमिति प्रमाणलक्षणस्यैव अयमियान्परीक्षाक्रम इति सूत्रार्थः । न केवलम् इत्यादिना एतत् तावत् सिद्धं किमत्र उच्यते, इदं तु अद्भुतमपि अङ्गीकर्तव्यमिति तात्पर्यं ब्रुवाणं द्वितीयं पादं दृष्टान्तत्वेन व्याचष्टे प्रसिद्धत्वादस्य अर्थस्य । चो हेतौ । एकानेकविषयतायां प्रमात्रैक्याक्षेपकत्वं न केवलं यावत् भेदकैकरूपत्वेऽपि,-इति स्पष्टे तु व्याख्याने गुणानामपि एकानेकविषयतेति सम्बन्धनीयं स्यात्, नच तथा युक्तम् । भेदकैकरूपत्वं हि तथा तेषां न स्यादिति पूर्वैव गमनिका अत्र युक्ता । ननु जातिरपि
(पगे १५८)
भेदिका भवतीत्याशङ्क्य तथापि इति गौर्गौः इति गोत्वस्य वपुः ।
स्वगुणकृत एव इति गोत्वाश्वत्वयोर्यो निजः कश्चित् धर्मः पवित्रतालक्ष्मीसम्पत्त्याविर्भावकत्वादिराश्रितोऽस्तित्वमेयत्वादिस- ब्रह्मचारी तद्वृत्तिरेकार्थसमवायी वा, तेन कृतो भेदः । तदाच इति भिद्यमानतायाम् । ननु शुक्लगुणो हंसहिमसुधादिषु अनुवर्तते ।
नैवमित्याह शुक्लत्वेनापिच इति । समानम् इति गुणानां जात्यादीनां च नियतमेव भेदकत्वमभेदकत्वं च क्रमेणेति यावत् ।
शब्दादिभिरेवच विशेषणभावेन अवस्थितैर्योगिसर्वज्ञादीनां परमाण्वादिषु व्यावृत्तप्रत्ययसिद्धिरिति किमन्यैरन्त्यैर्विशेषैरिति आकृतिशब्दवाच्यतया जातित्वमाशङ्कितं निराकृत्य संस्थानस्य गुणत्वमेव विधीयते । अन्यैरपि एतदङ्गीकृतमिति दर्शयति परमाणु इति । परमाणुपरिमाणं हि पारिमाण्डल्यमिति तैर्व्यपदिष्टं, तच्च वर्तुलत्वात्मकसंस्थानमेव । आदिग्रहणात् द्व्यणुकपरिमाणं दीर्घरूपम् । त्र्यणुकपरिमाणादीनां तु विशिष्टदिगवयवसंयोगसचिवानां त्र्यश्रचतुरश्रादिरूपत्वमतिस्फुटमेवेति संस्थानगुण एव । ननु चक्षुरादिगोचरोऽर्थो गुण इत्येव उक्तम् । सच भेदकैकस्वभाव इत्यपि दर्शितं तदानीम् । अधरोर्ध्वादिदिग्व्यवस्था, एकोऽयं घट इत्यवयवी, घटो घट इति जातिः, चैत्रश्चैत्र इत्यवस्थातेत्येवमादि चाक्षुषं च अभेदसारं च कथं स्यात् । अत्र आह एतावदेव इति रूपादिषट्कम् । तन्मुखेन तु इति रूपादय एवहि सूक्ष्मतया क्षुभिततया च एकाकितया मिश्रतया च वर्तमानास्तन्मात्रमहाभूतरूपतत्त्वात्मानः । तेषामेवतु आभासान्तरव्यामिश्रणाकृतमेतत् दिगादीति मायाभूमौ भेदकरूपमेव इन्द्रियज्ञानेन मायाप्रमात्रुचितेन विकल्पात्मना ग्राह्यप्रधानं तन्मुखं, नतु अभेदकरूपोन्मेषः ।
(पगे १५९)
ननु एवमविकल्परूपायां भुवि का वार्ता । आह प्रथम इति । न तत् इति ।
सा हि श्रीसदाशिवावस्था न व्यवहारपदम् । परतः इति अहन्तान्तर्लीनीभवनोचितासाङ्केतिकेदन्तावभासानन्तरं मायाप्रमातरि अभिव्यक्ते । ननु यदि शुक्ल इत्यनेन जातिपर्यन्ततामवाप्नुवता भेद एव आक्षिप्यते साक्षात्, तर्हि गोत्वस्य अपि एवमुच्यताम् । न शक्यं तस्य एवं वक्तुमित्याह नत्वेवम् इति । तस्य हि जीवितमनुवर्तमानतैव । ननु गोत्वस्य इदं रूपं यत् सास्नाद्यवयवसन्निवेशः । एवं तर्हि न तत् सामान्यं भवेत्, अपितु गुण एव । स च भेदक एव, अभेदकता तु जातिपर्यन्ततयेति यदुक्तं; तदभेदमवतिष्ठते । तदाह अवशिष्यमाणमपि इति । ननु आक्षेपोऽनुभूयते, न भेदाभेदौ तौ; दुर्बलेन च प्रमात्रैक्यं कल्पनीयम् । तथाहि भेदावधिमभेदयोग्यं प्रमाता एकः स्वविश्रान्ततया प्रथयतीति । अत्र आह भेदाभेदावपि इति । न केवलमवधिभूतभेदस्य अभेदस्य च विषयमाक्षिपन् प्रमाता उपयुज्यते तत्र यावत् स्वरूपमपि तयोरुपपादयन्निति दर्शयति प्रमातैव इति । ननु देशकालभेदादेव स्वालक्षण्यं नाम भेदः ।
तत्र किं प्रमात्रा कर्तव्यम् । अत्र उच्यते अवभासभेद इति । तेन हि विना देशकालभेद एव कुतः, अवभासभेदश्च प्रमात्रायत्त इति क्रमविचारे चर्चितचरमेतत् । तत इदमायातम्-यदुक्तं प्रमातैव देशकालभेदमपि रचयतीति । ननु एवमवभासभेद एव भेदक इति शब्दादयो भेदका इति व्याहन्यते । नेत्याह स च इति अवभासनभेदो हि अवभासमानावभास्यमानरूपेषु वेद्येषु शब्दादिषु एव भाति । तत एव पञ्चार्थतत्त्वमेव वेद्यम् इति आगमः । ननु एवं शब्दादेर्भेदकत्वेन गुणत्वे जातिर्नाम का अन्या स्यात्, न
(पगे १६०)
अन्याः; अपितु त एव शब्दाद्याभासा देशकालाभासानालिङ्गितात्मानो जातिः । तत्र च आभाससारत्वात् व्यक्तिसर्वगततावादेऽपि
नायाति नच तत्रासीत्—————————–।
इत्यादिदूषणानामवकाशो नास्ति तत्रेत्यादेर्वस्तुतः कस्यचिदभावात् ।
सर्वसर्वगततावादेऽपि सर्वज्ञभ्रमनिषेधारोपादिभूमिषु सार्वात्म्यावभासादङ्गीक्रियमाणे नियतिशक्तेः प्रमातृदेशकालदशावैचित्र्यनियमौचित्येन नियामकत्वात् न सर्वः सर्वात्मक्रियाकारी स्यादित्यादिदूषणाशङ्कार्थम् । तदाह तस्यैवच इति । ननु एवं यतो व्यावृत्तिर्यत्र च अनुवृत्तिस्तदपि इन्द्रियेण निर्भास्यताम्, किं तत्र प्रमात्रैक्येन कृत्यमित्याशङ्क्य आह आक्षेपार्थस्तु इति । नहि सर्वो व्यक्तिग्रामस्तत्र अवभाति यावतो भिन्नं तत् यावति अनुवृत्तं च । तथावभासने हि क आक्षेपार्थः । स च इह अस्तीति दर्शयति स्फुट इति । अत एव इति यतः स्फुटमवभासनं नास्त्यलक्षणं, भवति च भासनं; तत इत्यर्थः । अपिशब्द इति वृत्तौ ।
विरोधच्छायाम् इति स्वातन्त्र्यसूचनायेति आशयः । नच परमार्थतो विरोध इति च्छायापदम् । अतिशयोक्तिं च इति
क्रियासम्बन्ध————————-। (२।२।१)
इत्यादिना क्रमेण प्रमाता सिद्ध्यतीत्ययमर्थो नैव साध्यः, अपि तु सिद्ध एव । किमत्र तेनेति अतिशयोक्तिरव्यामोहस्थानेऽपि जनस्य व्यामोहस्थानतामाह । दुःसाधोऽयमर्थस्ततोऽत्र कथमुत्सोढव्यमिति मन्दोत्साहत्वविहराणाय शिष्याश्वासनमतिशयोक्तिफलम् । तदाह अवश्योपयन्तव्यता इति अनेनैव आशयेन वृत्तौ भेदव्यवस्थैव उपसंहृता, विवृतौ च तत्प्रधानत्वेनैव अवतारणं कृतम् ॥ १४ ॥
(पगे १६१)
ननु एवं भेदाभेदरूपसमस्तप्रमेयनिःशङ्कविश्रमस्थानं प्रमातेति तत्रैव प्रमाणमुपन्यसनीयम्, न प्रमेये । यदाह प्रधाने हि यत्नः फलवान् इति । तदेतदाशङ्क्य शास्त्रप्रारम्भोक्तमेव आदिसिद्धत्वं ज्ञाते प्रमाणस्वरूपे स्फुटमधुना वर्तते ।
एवम्भूतं हि प्रमाणं, तत् कथं परमार्थप्रमातरि क्रमते इति ।
तत् दर्शयति श्लोकद्वयेन
विश्ववैचित्र्यचित्रस्य समभित्तितलोपमे । विरुद्धाभावसंस्पर्शे परमार्थसतीश्वरे ॥ १५ ॥ प्रमातरि पुराणे तु सर्वदाभातविग्रहे । किं प्रमाणं नवाभासः सर्वप्रमितिभागिनि ॥ १६ ॥
सङ्कुचितप्रमातृलग्नः प्रमेयोन्मुखो नवनव आभासः प्रमाणमिति उक्तम् । तत् प्रकाशनमात्रस्वभावे पूर्वसिद्धे कथम् ।
तथाहि तस्मिन् सति यत् तस्य देहादिसङ्कोचावभासि रूपं, तल्लग्नां प्रमेयस्य सिद्धिमादधत् प्रमाणम् । प्रमातुश्च किंलग्ना सिद्धिः ।
विश्वलक्षणं हि वैचित्र्यं तत्र प्रमातरि चित्रमिव समभित्तितले विश्रान्तं सत् प्रकाशते भित्तिप्रकाशमन्तरेण सिन्दूरहरितालादिप्रकाशचित्रप्रकाशासम्भवात् । एकत्र हि निम्नोन्नतादि रहिते भित्तितले रेखोपकल्पितनिम्नोन्नतादिविभागजुषि निम्नमध्या पृथुनितम्बा उन्नतकुचकलशा इयमिति चित्रावभासः ।
एवं प्रकाशभित्तावेव सततप्रकाशमानतायां तल्लग्नत्वेन भेदाभेदात्मकविश्ववैचित्र्यप्रतिभास इति । सा तावदनपायिस्वप्रकाशसदातनरूपेति किं तत्र प्रमाणेन अभिनवाभासात्मना । नच वाच्यं-पूर्वमस्य प्रकाशो न भवति, सति प्रमाणे भवतीति; तर्हि स एव न भवतीति स्यात् । प्रकाश एव हि अस्य रूपम् । नच स एव न भवतीति युक्तं परमार्थसत्त्वादैश्वर्याच्च ।
तथाहि स एव तत्त्वतो भवति, न अन्यत्; अन्यत्तु तत्स्वातन्त्र्यरूपं सम्भवति ।
(पगे १६२)
तदस्य भवनस्वभावस्य अभवनेन कथं संस्पर्शो विरोधात् ।
स्यादेतत्-ऐश्वर्यमस्य अप्रकाशितं प्रमाणेन प्रकाश्यते, तदपि न ।
यदिहि असौ प्रमाता न भासते, क एवमुद्यच्छेत्; भाति चेत् प्रमातृतया, सैव तर्हि ऐश्वर्यमिति सर्वदाभात एव तदीयो विग्रहो विविधग्रहणरूपमसाधारणं स्वरूपम् । अभावानुप्रवेशेन च व्याप्तः कालव्यवहारोऽभावास्पृष्टे व्यापकानुपलम्भात् नास्तीति पुराणोऽसौ । तत्र एवम्भूते किं प्रमाणं कुतः प्रयोजनात् प्रमाणं, निरुपयोगमेव एतदिति यावत् । नच वाच्यम्प्रत्यक्षादि व्यतिरिक्तं किञ्चित् भविष्यतीति । सर्वस्य हि प्रमाणस्य नवाभासतैव रूपं प्रमितिकारित्वेन । सर्वाश्च प्रमितयस्तत्र प्रमातरि विश्राम्यन्ति ।
ततस्तस्मिन् प्रमित्सिते तत्प्रमितिः कुत्र अन्यत्र विश्राम्येत् जडेऽजडे वेति आदिसिद्धसूत्रोक्तमेव अनुसन्धेयमिति । उक्तं यत् मयैव
यत् प्रमेयीकृतोऽस्मीति सर्वोऽप्यात्मनि लज्जते । कथं प्रमेयीकरणं सहतां तन्महेश्वरः ॥
इति सङ्क्षेपेण सूत्रार्थः । ननु प्रमाणविशेषानभिधाय वक्तव्यं किं प्रमाणमिति तत्र ते कस्मात् न सूत्रे लक्षिता इत्याशङ्काशमनपुरःसरं सूत्रमवतारयति एवम् इत्यादिना । तथा इति प्रमाणतया । अत्र इति सङ्ख्यायाम् । प्रमातृविशेषम् इति
——————————-मातुरर्थक्रियार्थिनः । भेदाभेदवतार्थेन———————————। (२।२।७) इति
यथारुचि—————————————–। (२।३।३) इति
तात्कालिकी प्रवृत्तिः स्यादर्थिनः——————–। (२।३।९)
(पगे १६३)
इत्यादिना मायाप्रमातारं प्रतिपाद्येत्यर्थः ।
सामान्यरूपमाभासात्मकमेव वस्त्विति तत्त्वमिति उपपादितम्
एकाभिधानविषये————————–। (२।३।२)
इत्यादिना परिशिष्टेन भेदाभेदमयत्वम् । ननु
निष्प्रपञ्चो निराभास——————————। (मा। वि। २।४२)
इति आगमस्तत् कथमात्थ वृत्तौ नित्यावभासिनः इति । अत्र आह प्रकाशमात्रम् इति आगमे तु आकारेण ईषदर्थवाचिना प्रमेयताधर्म आभासशब्देन उक्त इति यावत् । शेष इति अन्यथातु नियमात् तृतीयैव स्यात् । अर्थावभासो हि धर्मत्वेन उच्यते, नतु स्वरूपावभास इत्याशयः । तं दर्शयति नित्यावभासिनः स्वभास इति । अनन्तरम् इति अप्रवर्तितसूत्रे (२।३।१७) । प्राक् इति आदिसिद्धसूत्रे । प्राक् इति बाह्यार्थवासनादिदूषणावसरे । अत्र इति वैचित्र्ये उपपत्तिः कारणं तदिच्छातः इत्यनेन शब्देन वृत्तावुक्ता । ननु मायाशक्तिवशात् इति समनन्तरग्रन्थः कथम् । आह इच्छाविशेष इति एकरसाकारोऽनुपपद्यमानोऽपि यया अतिदुर्घटकारिण्या भेद उपपद्यते, सा इच्छा मायाशक्तिसृष्टेति । यथाहि भित्तिरेव वर्तुलत्वेन निर्भासमाना स्तनो नाम तनुरेखावशात्, तथा प्रकाश एव पृथुबुध्नादितया प्रकाशमानो घटः । सा तु अनधिका अपि प्रकाशतो मायाशक्तिवशादधिकेव अवभाति । परमार्थसति इति विवृणुते प्रथैकवपुष इत्यादिना । येषां तु इति नीलादीनां जडाभिमतानाम् । यथोक्तम्
एवमात्मन्यसत्कल्पा—————————-। ( अ। प्र। सि। १३)
इत्यादि । कालोत्तरे वा इति आगमभाषया स्वमतं संवादयति ।
मूर्तिवैचित्र्यमन्योन्याभावप्राणितम्, तच्च दिग्देशोत्थापकम् ।
(पगे १६४)
अन्योन्याभावश्च अपोहरूपो न सम्भवति भगवतीति उक्तम्
अहम्प्रत्यवमर्श——————————-। (१।६।१)
इत्यादिना प्रकरणेनेति दर्शयति प्रथामात्र इत्यादिना अन्योन्याभावप्राणितं मूर्तिवैचित्र्यं देशभेदमुत्थापयतीति ।
यदत्र ग्रन्थे प्रथामात्रेत्यादौ गम्यमानत्वेन स्थितं, तत् परकीयमतनिराकरणे हेतुत्वेन उपजीवति अत एव इति ज्ञानानि स्वप्रकाशैकरूपाणि, ज्ञानान्तरवेद्यत्वं च एषां विरुद्धम् । तानि च बहूनि,-इति ये मन्यन्ते बाह्यमर्थमवयविनं च परमाणुरूपं च इच्छन्ति, तेषां मते नीलादिरूपाण्येव ज्ञानानि स्वपरसन्तानगामि-तया युगपदवस्थितानि परस्परस्वरूपपरिहारेणेति स्वरूपलक्षणेन देशेन भिन्नानि, ततश्च मूर्तिमन्ति । ततः किमिति चेत्, आह इति इति । अतो मूर्तिमत्त्वात् हेतोर्बाह्यपरमाणूनां यथा षट्कयोगादसत्तैव आपतति, तथा तेषामपि । विततो हि अर्थो यदि न एकस्तत् विततं ज्ञानमपि कथमेकं स्यात् दिग्भागभेदविबोधस्य तदवस्थत्वात् । ततोऽनेकज्ञानसञ्चय एव विततज्ञानम् । स च अनेकः ।
बहूनि च ज्ञानानि प्रत्येकं स्वसंवेदनविश्रान्तानि,-इति विततप्रतिभासायोगात् देशभेदो न कश्चित् यो विरोधमापादयेदिति चेत्, कालभेदोऽपि कोऽन्यो यो विरोधावहो भवेदिति ज्ञानबाह्यत्वं कुतः ।
नच इति बाह्यार्थाभावात् । ननु अस्तु असौ बाह्यः, तर्हि व्यवधायकतयैव अवश्यं व्यवधेयमध्यपतितस्तेन व्यवधातव्येन सम्पर्कमागच्छेदिति तत्सम्पर्कात् सांशतेति । अथवा ज्ञानानाम् इत्यादिना प्रसङ्ग एव इत्यन्तेन ग्रन्थेन दूषिते ज्ञानबहुत्वे गम्यमानतया यदापतितं संवित्तत्त्वस्य ऐक्यमिति, तत्र कालदिग्देशोत्तरत्वं पूर्वोक्तं हेतुत्वेन
(पगे १६५)
उपजीवितम् । अत एव इति स्वरूपदेशकालभेदाभावादेकमेव चित्तत्त्वमवतिष्ठते इति यावत् । प्रकृतं प्रमेयमुपसंहरति तदेवम् इति । प्रतिपद्यते इति कर्मणि । तम् इति सत्यप्रमातारम् । प्रमातैव इति अनुज्झितकर्तृभाव एवेत्यर्थः । अन्यथाहि स न प्रतिपन्नो भवेत्, प्रतिपादितो वा । तदुक्तं
ज्ञातासि कर्तासि सदैव सिद्धः कर्मापि सत्कर्तृतयैव भासि ।
इति । कर्मता तर्हि कथमिति चेत्, पूर्वोक्तं स्मारयति पूर्वमेव इत्यादिना । प्रमाणादिना इति गुरुशिष्यादिरूपेण । सत्य इति उक्तं यतो
यद्यप्यर्थस्थितिः—————————–। ( अ। प्र। सि। २०)
इत्यादि । एतत् सर्वप्रमितिभाक्त्वमुपसंहरति ततश्च इति चिद्रूपे सत्यप्रमातरि भगवति महेश्वरे, नीलादौ जडरूपे शून्यादौ च प्रमात्रीकारादजडीकृते जडाजडरूपे विविधे प्रमेये प्रमीयमाणे या प्रमा, तद्भित्तिभागेन मुख्यस्य संविद्रूपस्य प्रमातुरव्यभिचारः सर्वथाप्रकाशमानत्वात् ॥ १६ ॥
यदि न सर्वात्मना भगवति प्रमाणस्य उपपत्त्युपयोगौ, किं तर्हि शास्त्रेणेति शङ्काशान्त्यै सूत्रम्
अप्रवर्तितपूर्वोऽत्र केवलं मूढतावशात् । शक्तिप्रकाशेनेशादिव्यवहारः प्रवर्त्यते ॥ १७ ॥
अत्र वृत्तिविवृत्यर्थः स्पष्टीकृतः
किन्तु मोहवशात्————————————–। (१।१।३)
इत्यत्र, योजनामात्रं तु क्रियते । कृती भवति इति घटसाध्यं प्राप्य न क्लिश्यते इति यावत् । सर्वजनात्मनि इति एकस्मिन्नेवेति भावः । यथा इति येन प्रसाधनप्रकारेण । स इति संसारिजनात्मा । तथा इति ईश्वररूपतया प्रकाशमानः
(पगे १६६)
सास्नादिमत्तानिबन्धनोऽयं गौरिति व्यवहारो वामनतासहभावीत्ये- वमाकारो यो मोहस्ततः । दार्ष्टान्तिकं समकक्ष्यतयैव आह अन्यत्र वा इति ज्ञानादिनिबन्धनत्वेन ज्ञातोऽपि मोहात् न प्रवर्तितः । तथाहि अग्रे विश्वाधिष्ठातृशब्देन अष्टमूर्तिशब्देन च इदमाह ।
भेदवादिभिरपि तस्य भगवतो विश्वं शरीरतया अङ्गीकृतम्, तत्र केवलं जडं न संविदः पृथक्, संविदपि न संविदन्तरादिति अभेदवादपरमार्थतयैव पुराणागमादीनां व्यवस्थानम् ।
ततस्तत्प्रमाणसिद्धे भगवति विश्वाभेदादात्माभेदोऽपि सिद्ध इति भेदस्य अस्य मोह एव सारम् । मोहस्य मिथ्याज्ञानस्य आकारतो निर्देशं करोति अन्य इति दूरभुवनविशेषवृत्तित्वादस्मदाद्यदृश्यत्वा-दिना अपूर्वेण अस्मान् प्रति अप्रकाशमानेन अर्थेन असहभवनशीलोऽसावैश्वर्यव्यवहारः स्वात्मनि, तथाभूतापूर्वरूपविरहिणि विरुद्ध इति यो व्यामोहस्तेन ओतप्रोतहृदयः कथं तथा व्यवहरेत् । प्रवर्त्यते इति लोकेन अस्माभिश्च उपदिशद्भिस्तत्समर्थाचरणेन प्रवर्तयंल्लोकः प्रयुज्यते इति सूत्रेऽपि श्लेषच्छायया कारितद्वयं व्याख्येयम् । वस्तुनि ज्ञातेऽपि प्राप्तायामपि च अर्थक्रियायां व्यवहारसाधनमुपयोगवदेव तस्य यद्विशिष्टं कार्यं तत्सम्पादनाय कथम् । आह यत् तत् इति बहुतरं यत्कार्यं विशिष्टशब्दोपधेयपरामर्शगोचरतापुरःसरीभावेन ज्ञातं, तत् यस्मात् तथाभूतोपाख्यालक्षणशब्दव्यवहारप्रवृत्ति- मन्तरेण न आसाद्यते इति सम्भाव्यते इत्यतो हेतोः । ननु शब्देन अभिहितोऽनभिहितो बा तावानेव अर्थः । ननु एवं प्रमितश्च तावानेव अर्थः । ततः किम् । इहापि ततः किम् । किं शब्दप्रवृत्त्यर्थनयेति चेत्, तथापि किं प्रमाणवृत्त्यर्थनया । सा प्रमातुरुपयोगिनीति चेत्, समः समाधिः । एतत् दर्शयति प्रमातुर्हि
(पगे १६७)
इति । प्रमाणस्यैव विमर्शो जीवितं फलं यत्, तदेव शब्दव्यवहारेण पोष्यते इति भावः शावलेयत्वविशेषाभासो यथा गवाभासेऽधिकः ।
न तच्छब्दव्यवहारे प्रवर्तितेऽपि तस्य बाह्यस्य इदन्तापतितस्य स्वरूपं सम्भेदेन आभासान्तरं भासते । शब्दाभासभागेऽस्य इदन्तायामसम्पात इति हि उको
घटोऽयमित्यध्यवसा———————————। (१।५।२०)
इत्यत्र । ननु एवं शब्दे प्रवर्तितेऽपि अनाधिक्यं तस्य अर्थक्रियाकारिणि रूपे चेत्, तर्हि कस्तत्प्रवर्तने भरः । उच्यते केवलम् इति ।
दृष्ठान्तेऽभिधाय प्रकृते योजयति एवम् इति । असौ इति व्यवहारसाधनादृतः प्रमाता । निरूढ इति अहमिति विश्राम्यन् ।
आरभते इति योऽसौ तदारम्भकस्तमेव स्वात्मानमभिमन्यते दार्ढ्येन सत्यपि मायासंस्कारजे देहाद्यहन्ताभिमाने इत्यर्थः ।
ननु व्यवहारसाधनशतैरपि आत्मनो महेश्वरतायामनाश्वासवन्तो जन्तवः सततमुपलभ्यन्ते ।
सत्यमित्याह कदाचित् इत्यादिना । स इति गोरूपो मोहोऽनेन भूयः परं पारमेश्वरं किमपि कृत्यं निर्वाहणीयमिति सोऽसम्भवन्नपि सम्भाव्य एव । प्रयत्न इति चतुर्विधस्य कृत्यस्य तत्प्राणितत्वात् ।
तत्प्रसादादेव इति यत्रैव परमेश्वरात्मा प्रसन्नो देहाद्यभिमानकालुष्यत्यागेन, स एव मोहमहार्णवादुत्तरीतुं समर्थः । तत् इति परमेश्वरोक्ते शास्त्रे या उपपादिता भावेन इति संस्कारो दीक्षादिक्रिया ध्यानादियोगो योगो ज्ञानं तस्याः समन्ततः सामर्थ्यात् तां ताम् इति हेयरूपां देहप्राणपुर्यष्टकशून्यादिप्रमातृमयीं भोगाधारभोग्यादिलक्षणां भुवनभावादिमयीं भुवं परिहरंस्त्यजन् स्वयं ध्यानयोगज्ञानादिषु परमेश्वरगुरुप्रसादद्वारेण च दीक्षादौ स परमेशानुगृहीतः प्रकाशतां नयति ऐश्वर्यमात्मनि,-इति पूर्वेण
(पगे १६८)
सम्बन्धः । इयति दीक्षादीनां सर्वेषां सामर्थ्यमुक्तं यदत्रैव जन्मनि परमेश्वरतालाभ इति योगज्ञानयोः प्राधान्येऽपि ज्ञानदीक्षापूर्वकत्वात् । यदागमो
न चाधिकारिता दीक्षां विना योगेऽस्ति शाङ्करे । क्रियाज्ञानविभेदेन साच द्वेधा निगद्यते ॥ (मा। वि। ४।६)
इति । यदातु ध्यानयोगाननभ्यस्यन्नेव ज्ञानदीक्षासमाश्वस्तस्तदा अस्य किमित्याह भावना इति । केचित् इति योगिनः । विभूतिभागम् इति सर्वज्ञत्वसर्वकर्तृत्वयोरंशमधिकज्ञानकरणसामर्थ्यमणिमा- दिविभूत्यष्टकलक्षणं तत्तद्भुवनविशेषविषयमिति । तदनेन प्रत्यक्षत एव अधिकसद्भावेऽपि न प्रकृतस्य हानिरिति प्रदर्श्य युक्त्या अपि एतदेव उपपद्यते इत्याह नहि इति । आत्मभाव इति परमात्मन इति च ।
उभयत्रापि परस्परं सन्निधानयोर्न विरोध इति उक्तम् । ननु मा भूत् प्राणादेरात्मभावसन्निधानेन परमात्मनः सन्निधाने विरोधः, स्वसंवेदनात्मकस्वप्रकाशत्वविरोधस्तु भवेत् । मैवम्, सन्निहितश्चेत् परमात्मा, तदसौ स्वप्रकाशैकस्वभावः । तदाह नच इति । ननु परमात्मा चेत् स्वप्रकाशः, तर्हि प्राणादेरात्मभावः कथम् । तत्प्रथा इति परमात्मनो या स्वातन्त्र्येण प्रथा, तत्प्रभावादेव तस्य इति प्राणादेः तथा इति आत्मतया प्रकाशनं यतः । एतदेव द्रढयति अपरेषामपि इति प्राणादेर्वेदकतास्पृक्त्वमस्ति वेद्यतायामपीति एकग्रहणम् । भावानाम् इति वस्तूनाम् । एतत् स्पष्टयति अवस्तूनामप्येवम् इति दर्शयन् अभावस्यापि इति । ननु संवित्तत्त्वे मा भूदीश्वरत्वमपूर्वं साध्यम्, प्राणादौ तु आत्मतानिषेधोऽपूर्व एव साध्योऽस्तु । सोऽपि न अपूर्व इत्याह प्राणादीनाम् इत्यादि ।
(पगे १६९)
तथाच इति प्रमेयतया । प्रमेयं हि स्मर्यतेऽनुभवविच्छेदनबलात् ।
प्रमातृरूपं तु यदविच्छिन्नप्रकाशसारं, तत्र स्मरणं न उपपद्यते । तत एव उक्तं
नत्वेवं स्मर्यमाणत्वं तत्तत्त्वं प्रतिपद्यते । (स्प। का। १३) इति । यद्वशात् इति निषेधव्यवहारसिद्धिसामर्थ्यात् । प्राक् इति
एवमन्योऽन्य—————————————-। (१।३।६)
इत्यत्र टीकायामुपपादितमेतत् । चिद्रूपस्य तु इति भवतैव हि उपपादितमिदं वितत्य
भिन्नयोरवभासो हि स्यात्————————। (१।६।२)
इत्यत्र । परम् इति इदम्भावम् । उपजाता इति निरूढिं गतेति यावत् ।
पूर्वम् इति
कैवल्यं जायते सद्यो नेत्रयोः स्तब्धमात्रयोः । (वि। भै। ११३)
इति । उपदेशं स्मारयति परतः इति विकल्पोदये मायाप्रमातुरभिव्यक्तौ । संसारफलः इति धर्माधर्मनिबन्धनजात्यायुर्भोगहानादानप्रबन्धरूपसंस- रणकारीत्यर्थः । यत्र इति ततो युक्तमुक्तं तच्च विरुद्धस्वरूपप्रकाशनेनैव निवर्त्यते इति आशयशेषः । अत एव इति यतश्चिन्मया एव अर्थाः, ततः । अत्र इति अस्मद्दर्शने । नतु इति मुख्यः इति सम्बन्धः । साङ्ख्यानां तु अयमेव मुख्यो मोह इति सम्मतः ।
ननु यदि संविन्मया एव अर्थास्तर्हि प्राणादिरात्मैव, नतु अनात्मा; तत् कथमुक्तं प्राणादावनात्मनि इति,-इत्याशङ्कामपोहति स तु इति ।
अनात्मन्यात्माभिमानस्तदा भवति, यदा घटादिभ्योऽहन्तोचितेभ्यो व्यावृत्त्य घटादितुल्यीकृत एव इदन्तास्पदे प्राणदेहादौ भवति ।
तदाच इति नियते प्राणादावेव आत्मभावेऽहन्तासर्वस्वस्य
(पगे १७०)
समारोपणादुत्थापिते । तदपेक्षया इति अहन्तानुरागसमालम्भनलब्धप्रमातृतासौभाग्यमपि अनुज्झितेदन्तामलकलङ्कप्राणादिकमपेक्ष्येत्यर्थः । तदेव आह सोऽपि इति ननु इति च । ईश्वरस्य येन प्रकारेण सर्वेऽर्था अहन्तास्पदं यतस्तेन किञ्चिदिवजायन्ते तदा प्राणादिर्न अहन्तास्पदमिति योजना ।
एतदेव उपपादयति यतः इति । असौ इति प्राणादिः । अहन्ता इति ईश्वरदशायाम् । एवं प्रसङ्गेन मायाप्रमातुः स्वरूपं निरूप्य तद्विषये निषेधव्यवहार इति यत् प्रस्तुतं प्रमेयं, तदेव अनुबध्नाति तत्र च इति देहप्राणादौ । क्रमेण इति भावनाभ्यासेन । पूर्वं हि इति भावनाक्रमस्य अभावे । अनिवृत्तौ हेतुः घटात् घटादीन् प्रति ग्राहकत्वात् इति । उभयत्र हि कारणमस्ति निवृत्तौ च । तत्र प्रवृत्तिकारणदृढसंस्कारसूत्रनिबद्धं च वर्तमानं चेति निवृत्तिकारणं सदपि उदास्ते, तत् वर्तमानत्वविगमे तत्संस्कारपरिक्षये च फलिष्यति । तदाह केवलम् इति शरीरपातात् इति प्रयाणशब्दवाच्यात् । ऊर्ध्वम् इति प्रयाणान्ते इति पुरानिरूपिते ।
तावतः इति यस्य तावत् देहेऽहम्भावो विगलितः, स देहसम्बन्धोपनतधर्माधर्मनिबद्धदेहान्तरारम्भाभावात् विगते देहे प्रसृतिलयादिभावेऽवतिष्ठते इति बुद्ध्यन्तादध्वन उत्तीर्णः । यथोक्तं
————————————कर्मतश्च शरीरिणः
इत्यादि । एवं प्राणाद्युत्तरणमपि आगमाधिकारे वक्ष्यते । अद्यैव इति शरीरेऽपि अपतिते । अपिशब्देन स्तोकावशेषत्वेन प्राणशरीरादावहन्ताभिनिवेशस्य स्थितिरपि अस्तीति व्याचष्टे सर्वथानिवृत्तौ शरीरपातापत्त्यैव अद्येतिवाचोयुक्तेरयोगात् । ननु तदा अस्य योगिनः कुत्र अहन्तादार्ढ्यम् । आह तदाच
(पगे १७१)
इति । प्राणादौ इति वेद्यीकृते । घटादिष्वपिवा इति समाधानसंस्कारदार्ढ्ये व्युत्थितोऽपि शरीरादि न ग्राहकत्वदार्ढ्येन अधिशेते इति यावत् । तथा इति पृथग्भावबलोदितेन परिमितत्वेन । एतत् प्रसिद्धेन शरीरादिना समीकरोति यथा इति । ननु शरीरादेर्ग्राहकत्वावसरेऽपि प्राणाद्यपेक्षया स्फुटमेव ग्राह्यत्वं, तत् कथमुक्तं योग्यत्वमिति । एतत् निषेधति नतु इति । वक्ष्यते इति आगमाधिकारे । इयता च इदमुक्तम्- ग्राह्यग्राहकभेदपरम्पराया अनिवृत्तौ मायापदे भूषणमियमनवस्था, प्रमातृतायां तु न प्रमेयताङ्गमिति न प्रमेयासिद्धिदूषणमिति । ननु यदि शून्ये शून्यान्तरं ग्राहकमिष्यते, तत्रापि शून्यान्तरं; काममनवस्था । शून्ये तु चित्तत्त्वं ग्राहकमिष्यताम्, ततश्च प्रकाशमिति का अनवस्था ।
एतदाशङ्क्य आह नच इति । अशक्यत्वे हेतुः तस्य ग्राहकत्वाभावात् इति । तत्रापि पूर्वे हेतुः, तत्रापि पूर्व इत्येवं नेयम् । तस्य च इति चित्तत्त्वस्य ।
निराभासम् इति शुद्धे शिवत्वे । विश्वाभासम् इति ईश्वरपर्यन्ते ।
शिवत्वम् इति भावप्रत्ययेन अवस्थारूपत्वमत्र वदता परिपूर्णे धर्मिणि अवस्थातरि अव्यपदेश्यतां पूर्णत्वेन आह यथोक्तं प्राक् पूर्णे तु सर्वमस्ति इत्यादि । अथ अयं देहादावहन्तानिषेधाभ्यासः किं सर्वथैव अत्र उपयुज्यते । ओमिति चेत्, तर्हि सूत्रे सोऽपि वक्तव्य एवेति ।
अत्र आह तच्च इति शिवत्वमीश्वरत्वं च प्रत्यभिज्ञाय सिद्ध्यन्ति शिवरूपा भवन्ति । प्रत्यभिज्ञानस्यैव स्वरूपमुक्तं भक्तिशालिनः हठग्रहगृहीतानपोहनीयतथाभिमाना इत्यर्थः ।
तत्र हेतुः उक्त इत्यादिना उक्तः, तत्रापि सम्प्रदाय इत्यादिना । देहस्य सुखादिशून्यस्य प्रमातृतया संवित् नास्ति, गौर
(पगे १७२)
एव अहं सुखीति हि प्रमातृप्रतिपत्तिः; ततो देहावस्थायामिति न उक्तम् ।
एतदुक्तं भवति-केचन क्रमेण भूमिकासमारोहादभ्यासक्रमेण शून्यमपि यावत् प्रमात्रीकृतं स्फुटत्वेन वेद्यतया अधस्पदीकृत्य परमार्थप्रमातरि अभिमानं गृह्णीयुरिति प्रहतः पन्थाः ।
देहप्राणपुर्यष्टकबद्धास्था एवतु तत्त्यागमनभ्यस्यन्तोऽपि अनिषिद्धतदात्मभावा एव उल्लङ्घनक्रममनाद्रियमाणाः शरीरे चक्राधारादौ महाविदेहानन्दभूमिकादौ च बद्धपदाः प्रत्युत वेद्यान्तरतादात्म्यपरिपोषणेन विश्वात्मानः सम्पद्यन्ते इति तान्प्रति देहादावहन्तानिषेधाभ्यासे न किञ्चित् कृत्यम् ।
तथाविधसम्प्रदायपात्रताविरहितानामेव स उपयोगी अभ्यस्तदेहाद्यात्मतात्यागाय । पर्यन्ते तु तैरपि अनवस्थाभयादिदमेव आलम्बनीयमिति । इदानीं प्रकृतमिदन्ताहन्तयोर्विरोधमुपसंहरति तदेवम् इति । ननु यथा वा गमनरूपगोव्यवहारोऽप्रयत्नसिद्धः पूर्वमूढस्य, तथा आत्मव्यवहारे सति ईश्वरव्यवहारः क्व सिद्धः । यदि तु तत्रापि असिद्धः, तर्हि अनवस्था । तां परिहरति दृष्टान्तत्वेन इति पुनःशब्दो विशेषं दार्ष्टान्तिकात् द्योतयति । नहि अत्र आत्मा ईश्वरो भवतीति व्यवहारः पूर्वं प्रवर्तितः । एतदेवकारेण आह । आत्मैव हि विशिष्ट ईश्वर इति तद्वादिनः । तदाह पुर्यष्टक इत्यादि ।
पुर्यष्टकशरीरप्रभृति यत् मायीयं, तद्रूपशून्ये अपृथग्भूतत्वात् प्रकाशाव्यतिरेकात् ज्ञानादिशक्तियोगाच्च आत्मत्वेश्वरत्वव्यवहारोऽसिद्धः स्वात्मनि चैत्रमैत्रादिभेदिनि ताभ्यामेव निबन्धनाभ्यां साध्यते, नतु अपृथग्भावः प्रकाशाव्यतिरेकः, सच अहमिति व्यवहरणीयः; आत्मायमिति तु अनेन प्रकाशात् व्यतिरिक्तमिव व्यवह्रियते । ज्ञानादिशक्तिमत्त्वं च जानामि करोमीत्येवंरूपमहमित्येवव्यवहारस्य निबन्धनं, नतु ईश्वर इत्यस्य । एतत् स्वयमाशङ्क्य
(पगे १७३)
यद्यपि इत्यादिना परिहरति तथापि इत्यादिना प्रागुक्तमेव स्मारयन् । इह इति न केवलं पूर्वमिति भावः । ननु इह सूत्रे व्यवहारः प्रवर्त्यते इतिवचनेन व्यवहारसाधनं करणरूपं, तद्द्वारेण च क्रियात्मकमस्य शास्त्रस्य अभिधेयमिति उक्तम्, पूर्वं तु
——————————-प्रत्यभिज्ञोपदर्श्यते ॥ (१।१।३)
इति प्रत्यभिज्ञानं, तत् कथं सङ्गमयितव्यमित्याशङ्क्य एकसंवेदनं वस्तुतत्त्वमित्युपपादयति प्रत्यभिज्ञा इत्यादिना । अत्र च करणस्य क्रियायामुपयोगात् क्रियाया एव अभिधेयत्वं शास्त्रं प्रति निरूपितम् । क्रिया च करणस्वरूपविवेचनद्वारेण वाच्येति प्रत्यभिज्ञानं प्रमाणमस्य शास्त्रस्य अभिधेयं लक्षणीयत्वेनेति तत्प्रतिपादनं प्रयोजनं प्रमाणस्वरूपप्रतिपत्तिः, तस्यां फलं तद्व्यापारणं, तस्य फलं प्रत्यभिज्ञोदयः, ततः पर्यन्तफलमपर्यनुयोज्य फलान्तरं पूर्णानन्दानन्तशक्तिपरमेश्वररूपतोन्मेष इति तात्पर्यम् । ननु अप्राप्ते शास्त्रमर्थवत् इतिन्यायात् प्रसिद्धे स्वात्मनि किं शास्त्रव्यापारेणेत्याशङ्क्य आह शास्त्राणां हि इति लोक इति अर्थकामाद्युपयोगिनि प्रमाणे वा इति । यदुक्तं पूर्वं
——————————शास्त्रं मोहनिवर्तनम् ।
इति । असिद्ध इव इति न व्यवहार्यो भवतीति पूर्वेण सम्बन्धनीयम् ।
पुनः इति वृत्त्यन्तरेण इत्यर्थः । ननु प्रमेयादर्थक्रिया, प्रमाणाच्च प्रमेयसिद्धिरिति प्रमेयस्य प्रमाणस्य च उपयोगित्वात् तद्विषयविषमविमोहव्यपोहने हेतुव्यवहारसाधनप्रमाणान्वेषणं क्रियताम्, प्रमाता तु कुत्र उपयुज्यते येन तत्र विमोहापसरणं क्रियते । तस्य अनुपयोगादेवच दूरापास्ता सत्तेति । ततः एतदपि न वाच्यमपुनरावृत्तिफलं तत् भविष्यति व्यवहारफलत्वाभावेऽपि
(पगे १७४)
आत्मा ज्ञातव्यो न स पुनरावर्तते इत्यादिनयेनेति तत् किं प्रमातातरि मोहापसरणेनेत्याशङ्कामादिसिद्धसूत्रार्थप्रत्यावर्तनदिशा शमयति यद्यपिहि इति । सर्वत्र खलु स एव उपयुज्यते च भगवानवभासते च । उपपद्यते तद्यदि न रूप्यते तत्, प्रत्युत प्रमाणप्रमेयवर्गोऽयं न क्वचिदस्ति, न क्वचित् भाति, न क्वचिदुपयुज्यते स्वतन्त्रतयेति तात्पर्यम् । तथाहि प्रमातृप्रमेयवर्गस्य जगदन्तर्वर्तिनः प्रसुप्तप्रायतां दर्शयिष्यति स्वात्ममात्रनिष्ठत्वाशयेन । इहहि प्रमाणस्य तिस्रोऽवस्थाः- प्राक्कोटिः, वर्तमानता, फलपर्यन्तता च । तत्र प्राक्कोटौ प्रमातुरेव विजृम्भेति दर्शयति प्रमेयजिज्ञासायाम् इति । सर्वत्रैव तावदयं प्रमाता
दुःखसंश्लेषविद्वेषी सुखास्वादरसादरः ।
इत्यनेन नयेन प्रमेयजिज्ञासयैव व्याप्तः । मार्गगमनादावपि तत्र जिज्ञासोरपि अविवेकबलोपनत एव मध्ये संशय उपजायते यन्निर्धारणाय प्रेक्षापूर्वकारी व्याप्रियते । स्वशरीरमपिहि पश्यन्नयं तत्त्वमस्य जिज्ञासमानो विवेकबलादेव संशयमुत्थापयति-किं यथैव इदमहन्तास्पदं मे शरीरं, तथैव स्यात्; उत अन्यथेति । ततश्च संशयापाकरणाय प्रमाणमेवं प्रवर्तयितुमिच्छंस्तदनुस्मरति । यत्रापि वस्तुवृत्तादेव विवेकमन्तरेण अपि संशय उदेति यथा उच्चतादर्शनात् स्थाणुनरादौ, तत्रापि एषैव गतिः । तदयं प्रमाणस्य प्रवर्तनेच्छात्मकः सङ्कल्पविशेषो धर्मिणां तद्धर्मद्वयं धर्मनियमनिर्णयं तन्निमित्तं च प्रमाणमेकीकुर्वन् विचार इति अभिधियते विविधं कृत्वा चारणं सञ्चारणं प्रमेयस्य विमर्शोत्थापनेन विवेकोपनतेन, विशेषे चारणं तस्य प्रमेयस्य विशेषावगमनिबन्धनप्रमाणान्वेषणलक्षणं च विशेषचरणे कर्तव्ये तत्समर्थाचरणमिति विचारः । परित आलोचनं सर्वतो विवेचना, अन्यपरिवर्जनेन च
(पगे १७५)
आलोचनं प्रमाणपरिढौकनमिति पर्यालोचनं सम्भवतोऽर्थस्य सम्भाव्यमानतया उपपद्यमानस्य तदेव सम्भवसमर्थाचरणमुपपादनमित्युच्यते । एवमिच्छापूर्वकं प्रमाणस्य प्रवर्तनं सङ्कल्पप्रयत्नरूपं विचार उच्यते । यस्तु आह
-इदमित्थम्भूतं यत्, तदेवमुत नैवमिति विमृश्य एवमेवेत्यनिष्टपराकरणेन स्थापनं विचार इति पञ्चपदो विचार इति, स प्रष्टव्यः-विचार इति किम् वाक्यमभिप्रेतं, वाक्यार्थो वा; वाक्यार्थोऽपि जडाभिमतो, ज्ञानात्मा वा; ज्ञानमपि एकं वा, ज्ञानमाला वा । पदानि च किं सुप्तिङ्न्तानि, तदर्थरूपाणि वा; तान्यपि ज्ञानाज्ञानभेदेन विकल्पनीयानि । पदशब्देन वा भागा विषया वा, उत ज्ञानं वा, ज्ञानमाला वा विचार इति सम्भाव्यते तावदेतत् । तत्र च सुप्तिङ्न्तानामवसरः, सञ्जल्पान्तरावसरेऽपि एकस्मिन् ज्ञाने संशयरूपे निर्णयरूपे वा विचारत्वेन सम्मते बहूनां पदानां कोऽवकाशः, कल्पनायां तु क इयत्तानियमः ।
ज्ञानमालायामपि एतेनैव कृतः पदनियमनिरासः । अथ एकस्य ज्ञानस्य पञ्च पदानि ज्ञेयरूपाणि, तदा पर्वतो धूमवानिति कामं ज्ञेयमस्तु पदद्वयं; ततः परं तु किमिदमेवमुत नैवमिति अग्निमत्त्वानग्निमत्त्वसंशयोऽयं बोधो, न विषयरूपं पदद्वयमेतत् । अग्नेर्भावाभावौ विषयाविति चेत्, अस्तु एवं; सङ्गतिस्तु का । एकत्रैव ज्ञाने पर्वतधूमाग्निभावाभावाग्निनियमाः पञ्च यदि विषयतां गता शिखरस्थस्यैव ज्ञाने घटपटादयः, तत् पर्वतोऽग्निमानेवेति कथं परस्परापेक्षासिद्धिर्भवेत्, अग्निनियमश्चाग्निभावाभावा इति सोऽयमग्निभाव एवेति न पञ्चमं पदमेतत् स्यात्; एकदैव एकत्रैवच ज्ञानं बह्नेर्भावमभावं च कथं विषययेदिति वाच्यम् । अथ पृथग्भूतैर्ज्ञानैर्विषयीकृतानि पञ्च वस्तूनि पदानि अनुसन्दधानं ज्ञानं पञ्चपदो विचार इति उच्यते,
(पगे १७६)
तत्र धर्मिज्ञानं धूमज्ञानमिति ज्ञानद्वयस्य तावदस्तु विषयद्वयम्, ततः परं तु यत् संशयज्ञानं विमर्शाख्यं, तस्य एक एव द्व्यात्मना कल्प्यमानो विषयः स्थाणुर्वेत्यत्रैव वाक्यानुप्रवेशेन पक्षान्तरदोलयोः प्रवेशितत्वादपरथा विषयद्वयमेकमनेकं वा ज्ञानमिति उभयथापि कः संशयार्थः । तदयं किमेवमितिशब्दभेदेऽपि एकस्वभाव एव संशय इति कथं पदद्वयात्मत्वमस्य । एवमेवेतिस्थापनं च निर्णय उच्यते । तस्य धर्मिधर्मसंवेदनं संशय इत्यादीनि कथं पदानि विकल्परूपाणि भवेयुः । उपयोगमात्रात् तानि तस्य पदानि,-इति चेदनिष्टपराकरणमपि पदान्तरत्वेन किमिति न गणितमिति पञ्चपदत्वं कथं स्यात् । कश्च अयमत्र अभिमानः-पञ्चपदो विचार इति न केनचित् ज्ञातमस्माभिरेव अन्धतमसमपसारितं लोकस्येति । बाला अपिहि प्रथमं व्याकरणसूत्रमधीत्य न्यायसूत्रमधीयते यत्र उक्तं
विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः । (१।१।४०)
इति । विमर्शो हि संशयः । सच सति धर्मिदर्शने प्रतिपक्षोपालम्भ एवच अनिष्टपराकरणमिति कोऽयमपूर्वप्रदर्शनाभिमानः ।
एवंविधाभिमाननिर्माणमपिवा भगवत एव स्वातन्त्र्यमिति वन्द्यतेतमामस्माभिः । व्यवस्थापनं विचार इति च प्रतिज्ञा यया लक्षणपदप्रयोजननिरूपणावसरे यदुच्यते-इदमित्थमित्यनभिधाने भित्त्यभावात् विमर्शानङ्गत्वाच्च निरालम्बनो विचारो भवेदिति, तदस्तु; यत्तु उच्यते किमेवमित्यादिपदद्वयानभिधाने नीरूपो विचारः स्यादिति, तदतितमामनुसन्धानवन्द्यत्वं हृदयस्य । अनेन हि वचसा विमर्श एव संशयात्मा विचारस्य लक्षणमुक्तं भवेत्, नतु स्थापनमिति ।
पुनश्च अभिहितं-यदि एवमेवेति पदं न स्यात्, निष्फलो निरवधिश्च विचारो भवेदिति, तदनेनापि
(पगे १७७)
स्थापनं विचार इति प्रक्रान्तपूर्वं सामानाधिकरण्यं विरुध्येत ।
नहि तदेव स्वात्मनि फलमवधिर्वा भवितुमर्हति । तदनेन विचारं विचारयता पूर्वापरं न विचारितम् । नच आनुमानिकनिर्णययोगादेव परीक्षकता विचारकता ख्याता लोके चरमे चेतसीतिनयेन रत्नतत्त्वविचारस्य प्रत्यक्षेण अपि सम्भवात् । आनुमानिकविचारोऽपि ज्ञानमालात्मा यदि उच्यते, तत् षोडशपद इति वाच्यं तावता तदुत्पादात् । नच निर्णयो विचारः प्रसिद्धो विचारितमेतत् सूरिभिः, नच अद्यापि निर्णीतमिति व्यवहारात् । तथाहि महाभाष्यकृत् सन्ध्यक्षरवार्तिके
इदं विचार्यन्ते——————–। (२।३।४)
इतिसंशये सति प्रमाणान्वेषणमेव विवेकावतारणं प्रकल्पितं विचारत्वेन व्यवहृतवान् । आगमेऽपि
तावद्विचारयेद्योगी यावत्तत्त्वं प्रपश्यति ।
इति । तत्त्वदृष्टिलक्षणात् निर्णयात् पूर्वावस्थैव विचारयितृत्वं निरूपितम् । महागुरुणा अपि सविचारसमापत्त्यनन्तरं
निर्विचारवैशारद्येऽध्यात्मप्रसादः । (यो। सू। १।४७) इति उक्त्वा
ऋतम्भरा तत्र प्रज्ञा । (यो। सू। १।४८)
इति निर्णयरूपायाः प्रज्ञायाः पश्चात्स्वरूपमभिदधता निर्णिनीषैव विचारत्वेन उक्ता । किञ्च वितर्क एव सूक्ष्मो विषयतां नीतो विचार इति दर्शितः । नच वितर्को निर्णय इति युक्तमुक्तम् ।
प्रमाणोपन्यासरूपा निर्णिनीषैव विचार इति अलमवान्तरेण । एवं प्राक्कोटौ प्रमाणस्य प्रमातुरेव उपयोगमुक्त्वा परकोटावपि दर्शयति परतोऽपि इति । प्रवृत्तेः इति दिग्योगे हेतौ च पञ्चमी पूर्वोत्तरसम्बन्धेन । मध्यकोटौ तु प्रमाणं प्रतपत् लक्ष्यमाणमपि
(पगे १७८)
प्रमातारमेव वस्तुत उज्ज्वलयतीति दर्शयति । तं प्रति इति प्रमातारं प्रतीत्यर्थः । एवं मध्यकोटौ प्रमाणं प्रतपतु, तत्तु यथा कृतार्थं भवति, तथा पूर्वापरकोटिमेव अनुधावतीति निरूप्यते तथापि इति पूर्वकोटिरपरकोटिश्च तुल्यैव । दर्शितं प्राक् तावदर्थावलेहेनैवोत्तिष्ठतीत्यादिना । प्रतिष्ठां दृढनिश्चयरूपामर्थः प्रमातरि आदादयतीति सम्बन्धः ।
व्यवहर्तरि इति यदुक्तं, तदेव स्फुटयति सास्नादि इत्यादिना ।
व्यवहारश्च सार्वत्रिकत्वेन व्यवहारे उपयुज्यमानोऽनुमानं शरणीकरोति । तच्च मोहमात्रनिवर्तनफलमेव सर्वत्र । विचारयन् इति प्रमाणं प्रवर्तयितुमन्विच्छन् । एतदेव कोटिद्वयेन प्राधान्यं प्रमातुरुपसंहरति । मध्यकोटेश्च अप्राधान्यमपरकोट्या पर्यवसाने व्यवहार्यत्वाभावात् सौगतादिदर्शनेषु निरूपयति ततः इति विचारलक्षणा पूर्वकोटिर्भवन्ती अपि न सर्वत्र स्फुटसंवेद्येति पश्चादुपात्ता । प्रसुप्त इव जगदन्तर्वर्तिनि प्रमाणप्रमेयवर्गे इत्यादिना मध्यकोटिः सूचिता । मोहनिवर्तनमात्रफलत्वेऽपि यत्र प्रत्यक्षप्रमाणदृष्टत्वं वृक्षत्वस्य न पुरःसरीक्रियते हेतुतया, अपितु शिंशपात्वमेव, तत्र तद्वृक्षत्वमप्रमितमेव अभिप्रेतमिति अपूर्वप्रसाधकं तत्र स्वभावहेत्वनुमानम् । तत्रापि प्रमातैव प्रत्यक्षं सार्वत्रिकत्वेन व्यापारयन्नुपयोगीत्याह या या इति । ननु एवं यदि प्रमाणस्य सम्बन्धी स व्यापारः, कथं प्रमात्रा सार्वत्रिकत्वेन व्यापार्यते । अथ एवं न, तर्हि प्रमाणस्य स न सम्बन्धी स्यात्; अपितु प्रमातुरेव । सत्यमेवमिति आह व्यापारोऽपि इति ।
कारणस्य इति परशोरिव उद्यमननिपातनादिकया । इह इति अस्मद्दर्शने यत्र प्रमातृलग्नो नवाभासः प्रमाणं प्रत्यक्षम् । अनेनैव च ग्रन्थेन वर्तमानताकोटावपि प्रमाणस्य प्रमातृप्राधान्यशरणतैवेति
(पगे १७९)
दर्शितम्,-इति तिसृषु अपि प्रमाणावस्थासु प्रमातैव विजृम्भते इति युक्तो मूढं प्रति तद्व्यवहारसाधनव्युत्पादनसंरम्भः । स एवहि प्रमाता वस्तुसाधनं च प्रमाणं व्यापारयति व्यवहारसाधनं च । ततस्तदायत्तमेव प्रमाणस्य विचेष्टितमिति दर्शयति तेन इति तस्मादित्यर्थः । प्रमातृसमानाधिकरणं वापदमप्रवृत्तमस्मदादेः प्रत्यक्षानुमानाप्तोपदेशलक्षणं प्रमाणं यस्मिन् स्वर्गादौ तत्त्वसङ्ख्यानियमे च षट्त्रिंशत्तत्त्वानीति, आदिग्रहणात् मन्त्रप्रभावदीक्षादिसामर्थ्ये च ।
शास्त्राकारेण इति वेदशैवादिरूपतया स्वविमर्शं प्रसिद्धिपर्यन्तं प्रसारयतीत्यर्थः । क्रियते इति तेनैव प्रमात्रा शास्त्रकाररूपेणेति सम्बन्धः । यावन्ति हि आत्मज्ञानशास्त्राणि श्रुत्यन्तसिद्धान्तरहस्यतन्त्ररूपाणि, तानि आत्मनि नैव सिद्धिमपूर्वरूपां रचयन्ति । तस्मात् व्यवहारमात्रसाधनफलानि एव तानीति भावः । अत एव इति यदेतत् तिसृष्वपि कोटिषु तस्यैव प्रतपनमुक्तम्, ततो हेतोर्यत्प्रमातुः प्राधान्यं, तस्मात् हेतोरिदमपि सिद्ध्यति यत् पूर्वमुक्तम्-एकेनैव प्रमाणेन अविशिष्टे वह्न्यादौ कार्यकारणतेत्यादि (२।३।८) । एकत्र हि प्रमातरि प्रधाने तद्व्यापारविमर्शबलात् प्रधानस्य भेदाभेदव्यवस्था । एक एवच असौ सार्वकालिकत्वेन विमर्श इति एकं प्रमाणम् । अन्यथाहि अस्मन्मते भिन्नसंवेद्योपरागात् परदर्शने स्वभावसङ्कोचबलात् कालभेदवत्यः संविदो भिन्नास्तदध्यवसाया अपि भिन्नाः क्षणिकस्वभावा इति कथमेकमेव प्रमाणं तात्कालिकवस्तुप्रकाशनपर्यवसितं स्वानुसारितया सत्यव्यवहारहेतुं विकल्पाध्यवसायं जनयत् सार्वत्रिकत्वे प्रमाणं भवेत्, भिन्नेषु संवेदनेषु सर्वस्यैव अपूर्वग्रहणरूपतेति का गृहीतग्राहिता प्रमात्रन्तरगृहीते इव ।
ततश्च कथमिदमुद्धोष्यते धारावाहिविज्ञानमालायामाद्यमेव संवेदनं
(पगे १८०)
प्रमाणमित्यादि । ननु इदानीं जन्मावसर एव अनेन वह्न्यादिभावस्वभावग्राहिणा प्रमाणेन प्रमाण्यमासादितमिति उत्तरकालं ज्ञानानामप्रमाणत्वमेव स्यात् । आभासमात्रे खलु एवमेव प्रतिपद्यतामायुष्मान्, नच अप्रमाणत्वमेकान्ततस्तेषामाभासान्तरेषु अगृहीतपूर्वेषु योजनाभासे वा अनुल्लसितपूर्वस्य विमर्शलक्षणस्य प्रमातृव्यापारस्य उल्लासनात् । ननु प्रमातृव्यापारो विकल्पः, सोऽपिच ज्ञानस्वभावत्वात् क्षणिक इति कथं प्रमातृव्यापारस्य क्वचिदपि ऐक्यमुचितम् । एतदाशङ्कितं परिहरति तथापि इति ।
अन्तर्मुखताप्राधान्येन असौ वर्तमानः प्रमात्रा यावति स्वातन्त्र्यात् न च्छिद्यते, तावदेक एवेति । ननु अन्तर्मुखस्वभावो न तेन किमङ्गीक्रियते । नेत्याशङ्क्य आह सच इति मायीयभेदसंस्कारात् विकल्पोऽसौ प्रगीयते शुद्धोऽपि विमर्शः । ननु अन्तर्मुखेन अहमित्येतावन्मात्ररूपेण विकल्पताभाजा अपि विमर्शनेन न प्रमाणानां फलवत्ता, अपि तु घटोऽयमिति बहिर्मुखेन । नच तेन बाह्योऽर्थः स्पृश्यते इति कथमुक्तं विमर्शप्राधान्येन अर्थव्यवस्थेति । अत्र उत्तरं योऽपिच इति । इन्द्रियव्यापारात् इति तज्जात् निर्विकल्पकज्ञानादितियावत् । सोऽपि न निर्विषयः, अपितु सार्वत्रिकत्वे सामान्यविषयः; अन्यथा तु स्वलक्षणविषय इति । उक्तम् इति
भ्रान्तित्वे चावसायस्ये———————————। (१।३।५)
इत्यादौ । ननु पुरोऽवभासमानं सामान्यं स्वलक्षणं वा स्पष्टप्रतिभासमस्पष्टप्रतिभासं च विकल्पे, तत् कथमुक्तं तद्विषय एवेति । अत्र आह नचापि इति
भिन्नावभासच्छायानामपि मुख्यावभासतः । एकप्रत्यवमर्शाख्यादेकत्वमनिवारितम् ॥ (२।३।११)
(पगे १८१)
इति उक्तम् । तावद्ग्रहणेन स्वमते तावत् न इदं दुरुपपादमिति दर्शितम्, परोऽपि न भेदमत्र वक्तुमुत्सहते इत्याह योऽपि इति बौद्धः ।
अनवधारणमेव दर्शति निर्विकल्पम् इति कर्त्तृपदमेतत् । स्व इति आत्मीयादवभासादन्यरूपम् । ततः इति परमतेऽपि यतः प्रतिभासभेदोऽशक्यावधारणोऽनेन । नच विमर्शबलादैक्यप्रसाधनेन प्रकृतेऽपि प्रमेये करावलम्बः कृत इति दर्शयति ततः इति शब्दविकल्पे ईश्वरः प्रमाता सर्वशक्तिरात्मैवेति उपदेशावसरे व्यवहारसाधनबलोपनते शब्दैः प्रमेयतां नीतस्य अपि परमार्थपरामर्शेऽहन्तात्मनि विश्रम इति । इदमिह तात्पर्यम्- भगवत इदमेव स्वातन्त्र्यं-यत् पशुलोकापेक्षया अतिदुष्करम्, तत्सम्पादनेऽपि अप्रतीघातः इतश्च किमितरत् दुष्करम्-यत् प्रकाशात्मन्येव प्रकाशमाने एव प्रकाशनिषेधोऽप्रकाशमानताभिमान एव । एवम्भूतं यत् स्वातन्त्र्यं, तदेव ग्राहकोल्लासनं तद्द्वारेणच ग्राह्योल्लासनमपि ।
सैषा मायाशक्तिर्विमोहनीति उक्ता । तत्कृतो यः स्वात्मनि स्वतन्त्रे नित्ये व्यापके च स्मृत्यादियोगात् कालायोगात् देशायोगाच्च प्रकाशमाने एव सति घनतमोऽप्रकाशमानताभिमानो मोहमलादिपर्यायनिरुक्त आभासविशेषस्तद्वशात् स्वात्मनि पूर्णमीश्वरव्यवहारं न प्रवर्तयति मूढः । सोऽनेन इच्छादिशक्तिप्रभावप्रख्यापकेन पूर्णपरार्थानुमानरूपेण व्यवहारसाधनेन प्रत्यभिज्ञाख्येन शास्त्रेण अवबोध्यते । यथाहि भौतः कश्चित् मोहादपहारितम्मन्य एवं बोध्यते-कः खलु भवान् यस्य ईदृङ्मुखमीदृग्वस्त्रमिति चेत्, पश्य स्वात्मन्येतदिति पुनः पुनरभिदधता नच अपूर्वमस्य उत्पादितं किञ्चित्, तथैव पशुलोको भासमाने एव स्वात्मनि न अहमीश्वर इत्यादि मोहादभिमन्यमानो विबोध्यते । यत्र खलु ज्ञानादिशक्तयः, स ईश्वर इति व्यवह्रियते
(पगे १८२)
तन्मात्रनिमित्तकत्वात् तद्व्यवहारस्य यथा पुराणादिप्रसिद्धः; त्वय्यपि च ताः सन्तीति । अथवा यत्र यदायत्तं, स तत्र ईश्वरो राजा इव निजे राज्ये; तथाच त्वयि विश्वम् । यल्लग्नं यत् भाति, तत् तेन पूर्णं निधानकुम्भ इव रत्नैः; त्वयि च लग्नं विश्वं भातीति यस्य यदन्तर्वर्ति भाति, स तावति व्यापको रत्नेषु इव मणिभावः; शिंशपादिषु इव वृक्षत्वम् । त्वयि च संविद्रूपे धरादिसदाशिवान्तं शास्त्रप्रक्रियाद्यवगतं विश्वमन्तर्वर्ति भाति । यस्मिन्सति यदुदेति लीयते च, तत् तत्पूर्वापरभागव्यापि भूमाविव अङ्कुरः; तथाच त्वयि प्रकाशरूपे विश्वमिति ।
एवमीश्वरत्वव्यापित्वनित्यत्वधर्मा व्यवहरणीयाः, अन्येऽपि आगमोक्ताः सहस्रशः शक्तिशब्दवाच्या धर्माः । तत्प्रकटनाय इदं पूर्णपरार्थानुमानरूपं प्रमाणादिनिग्रहस्थानपर्यन्तपदार्थषोडशकनिबन्धनेन सम्यक् परव्युत्पत्तिसम्पादनसमर्थं शास्त्रम् । एवंहि सम्यक् परः प्रतिपादितो भवति हिताहितप्राप्तिपरिहारयोरित्यादिना च प्रत्यक्षादिपदार्थषोडशिका परव्युत्पादनप्रयोजनतया परार्थानुमानरूपेत्यन्यथा प्रामाण्यं प्रतिलभमाने स्वशास्त्रे मिथ्यैव न्यायतत्त्ववेदिमुनिमतविद्वेषोपात्ता कुशलदोषैः परैरपि प्रदर्शितैव । एतच्च मदीयादेव कथामुखतिलकात् विततमवधार्यम् ।
एवं व्यवहारसाधनेन प्रकाशमान एव यत् न प्रकाशते इत्यभिमननं संसारशब्दवाच्यम्, तदपसार्यते । तदपसारणमेव मुक्तिः । अभिमननाभासमात्रपरमार्थौ हि बन्धमोक्षौ भगवदिच्छाविजृम्भितमेव हेत्वंशेऽपि व्यामुढस्य । तत्रापि मोहापसरणमेव कर्तव्यमिति न अपूर्वं किञ्चिदप्रसिद्धं प्रसाध्यते । व्यवहारसाधनप्रमाणप्रभावसमाश्वस्तहृदयस्तु मोहसङ्करकलया परमेश्वरेणैव परोज्जिहीर्षादिकृत्यनिर्वाहणाय कञ्चित्कालं प्रयत्नसन्धार्यमाणे देहादावहन्ताभिमाने
(पगे १८३)
प्रभुद्ध इति अभिधीयते विदितेन्द्रजालतत्त्व इव पश्यन्नपि तदभ्रान्त एव यतः, यस्य श्रुतचिन्ताभावनातद्गाढताभिर्भेद उक्तः ।
शिवशासनोपदिष्टविधिपूर्वकोपायेन भावनाभ्यासदार्ढ्येन तु तत्रैव देहे प्राणादौ घटादावपि वा सञ्चारितपारमेश्वरधर्मप्रबन्धः सिद्धिभाजनं योगीति अभिधीयते यस्य आगमे सम्प्राप्तघटमानसिद्धसिद्धतमभेदोऽन्वर्थरूपो निरूपितः ।
इयत्यपि तु सर्वथा मोहकलासंस्कारस्य प्रक्षयः । प्रक्षये तु अस्य देहाद्यहम्भावनियमविगलनात् परमेश्वरतैव ।
ईश्वरेच्छावशादेव तु कस्यचित् प्रयत्नशतैरपि प्रत्यभिज्ञानं न उत्पद्यते । तस्य अपि श्रोत्रपथगमनमात्रादपि अवश्यं संस्कारपाकक्रमेण स्वरूपलाभः । यथोक्तमागमे
निष्कम्प आत्मसंवित्तौ जीवन्मुक्तोऽभिधीयते । तत्त्वे विकल्पमानस्तु पिण्डपाताच्छिवं व्रजेत् ॥
इति । मया अपि व्याख्यातमेतत्
संसारजीर्णतरुमूलकलापकल्प- सङ्कल्पसान्तरतया परमार्थवह्नेः । स्युर्विस्फुलिङ्गकणिका अपि चेत्तदन्त र्देदीप्यते विमलबोधहुताशराशिः ॥
इति । तदमुना न अपूर्वं किञ्चित्प्रसाध्यते स्वात्मनीति । तदधुना निर्व्यूढं परमार्थतो यदुक्तं शास्त्रादौ
कर्तरि ज्ञातरि स्वात्मन्यादिसिद्धे————————-। (१।१।२)
इत्यादीति शिवम् ॥
इति श्रीमहामाहेश्वरश्रीमदाचार्याभिनवगुप्तविरचितायामीश्वर- प्रत्यभिज्ञाविवृतिविमर्शिन्यां क्रियाधिकारे प्रमाणतत्फलप्रमेयपरमार्थविमर्शस्तृतीयः ॥ ३ ॥