(पगे २८) अथ द्वितीयो विमर्शः ।
सञ्जीवनतुर्यकलाकलितविबोधं समस्तभावानाम् । दूषणविषशीर्णानाममृतोद्गारं शिवं वन्दे ॥
अथ
क्रियासम्बन्ध——————————————-।
इत्यादिना
तेन न भ्रान्तिरीदृशी———————————-।
इत्यन्तेन श्लोकसप्तकेन अप्रतिहतमेव स्वातन्त्र्यं क्रियाशक्तिरूपं भगवतो निर्वाह्यते परदूषितस्य क्रियासम्बन्धादिपदार्थस्य बाह्यवादे अनुपपद्यमानस्य अत्र दर्शने पूर्णैव उपपद्यमानता- इति विमृशता । एकानेकरूपं क्रियादि विरुद्धधर्माध्यासात् परैर्- दूषितमपि अवश्यसमर्थनीयमिति एकः समस्तवक्तव्यग्रहणकसूत्र- कल्पः श्लोकः, एकस्तत्र समर्थनोपपत्तिसूचकः, निर्विकल्पकानुभव- वेद्योऽपि अयं पदार्थवर्गो विकल्पावसरे एव स्फुटरूप इत्यर्थसूचक एकः, द्वावेकत्वानेकत्वविषयविभागनिरूपिणौ, प्रथमसूत्रोद्दिष्ट- सम्बन्धस्वीकृतक्रियाकारकभावादिस्वरूपाभिधायी षष्ठः, सप्तमे अर्थक्रियोपयोगमेषां चिन्तयति,-इति प्रकरणार्थः; प्रतिसूत्र- मर्थस्तु विचार्यते । निर्माणशक्त्या निर्मीयमाणस्य अवभासनैव निर्माणं , न अन्यदिति उक्तम् । सा च द्विचन्द्रादेर्नीलसुखादेस्तन्निष्ठस्य क्रिया सामान्यादेरविशिष्टा,-इति असत्यं, सत्यं, संवृतिसत्यमिति विभागेन कथं व्यवहारः । सत्यं, संवृतिसत्यं न किञ्चित् सामान्यादेः सत्यत्वात्, असत्यं तु भवति द्विचन्द्रादि । तथाहि इयमत्र उपपत्तिः-इति सूत्रेण आह
क्रियासम्बन्धसामान्यद्रव्यदिक्कालबुद्धयः । सत्याः स्थैर्योपयोगाभ्यामेकानेकाश्रया मताः ॥ १ ॥
(पगे २९)
संवित्तत्त्वादन्यत्र या क्रियाबुद्धिः क्रियाभास एकानेकरूपं मायाशक्तिविच्छेदितं क्रियातत्त्वं विषयत्वेन आश्रयस्तल्लग्नः सत्य एव यतः स्थिरो बाधकेन अनुन्मूल्यमानविमर्शः संवादवांश्च अभिसंहितायां ग्रामप्राप्तिलक्षणायां क्रियायामुपयोगी । भावो हि अर्थक्रियां कुर्वन् भेदाभेदं स्वीकरोति संवादवांश्च । तत्र यत् तस्य अव्यभिचरणीयं स्वरूपमेव, सा मूर्तिः; यदाभासबलेन अस्व- रूपमपि स्वरूपीभवति मूर्तिलग्नमेव, सा क्रिया । तथाहि तत्तद्देशका-लाकारभिन्नचैत्रमैत्रशरीरं तदेव इदमिति एकतामत्यजदेव निर्भासते । तदेव क्रिया-चैत्रो गच्छतीति । न तथाभूतायामस्यां विमर्शोऽनु-वर्तमान उन्मूल्यते कदाचित्, यथाध्यवसायं चैत्रग्रामप्राप्तिर-खण्डितैव अर्थक्रियाः; द्विचन्द्रसंवेदने तु उन्मूल्यते एव अनुविवर्ति-षितो विमर्शः; आह्लादोद्वेगहेतुत्वेऽपिच एकचन्द्रजातीयतया अधिकतिमि- रापसारणप्रभृत्यर्थक्रियोपयोगवैकल्यादसत्यो विषयस्य । एवं सम्बन्धादिषु कालान्तेषु उत्तरसूत्रानुसारेण योज्यमिति सूत्रार्थः ।
क्रियाशक्त्यैव व्याख्यातया बाह्यापि क्रिया व्याख्यातैव भवति,- इत्याशयेन वृत्तौ क्रियाशब्दः सौत्रो दृष्टान्तस्य अयं द्वन्द्वनिर्देशः इत्येषं व्याख्यातः । सर्वदोपयोगिनाम् इति स्थैर्यमुक्तम् अर्थवत्त्वेन इति अर्थक्रियोपयोगः । सूत्रार्थमवतारयन् प्रकरणेन प्राच्येन प्रकरणान्तरं योजयति तदेवम् इत्यादिना । क्रिया अत्र दृष्टान्तत्वेन उपात्ता,-इति सूचयति यथातथाशब्दाभ्याम् ।
अस्मद्दर्शन एव एतदुपपद्यते इत्याह तदेकेश्वर इत्यादि । नच एतदसमर्थ्य उदासितुं युक्तमित्याशयेन सतताविगीतपदेन स्थैर्यम् एक इत्यादिना स्वरूपं निर्वाहित इत्यादिना अर्थक्रियावत्त्वलक्षणमुपयोगं व्याचष्टे । प्रकाशित इत्यादिना ईश्वरप्रत्यभिज्ञोपयोगमेतस्य सूचयति ।
(पगे ३०)
उक्तं हि
——————————–सम्बन्धे सावधानता । (वि। भै। १०६)
इति । आभासमानतैव भावानां रूपं, नतु अर्थक्रियाकारित्वम्; साच एषामस्ति,-इति हृदये गृहीत्वा अर्थक्रियाकारित्वं परीक्षते इह इत्यादिना उक्तं वक्ष्यते च इत्यन्तेन भूयसासन्दर्भेण । तत्र अर्थक्रियाकारि- त्वं सत्त्वस्य तादात्म्यादव्यभिचारिधर्मतया व्यभिचारिधर्मतया च स्वरूपं वा लक्षणं वा लक्षणसमीपवृत्तित्वेन उपलक्षणण् वा,
-इति विचारयति । तत्र स्वरूपत्वमौपचारिकमिति ब्रूते उपचारात् इति ।
तथाहि शाखादिमत्तैव वृक्षतेति एकव्यावृत्तिमात्रं पर्यायरूपत्वात् न तथा असन्नर्थक्रियां करोति इति लोके पर्यायत्वेन अविदितत्वात् । नच लक्षणत्व-मिति दर्शयति लक्ष्यते च इति । हेतुमति लिङा लक्षणताया हेतुरव्यभिचा-रणीयता अन्योन्यम्, अन्यथाहि अव्याप्त्यतिव्याप्ती स्यातामिति दर्शितम् । यद्यपि हि साक्षात्कारिज्ञानं कल्पनाशून्यं वेदनं चेति न इदं पर्यायरूपं भिन्नव्यावृत्तिनिष्ठत्वात्, तथापि परस्परमव्यभिचारात् लक्ष्यलक्षणभावोऽनयोः । अन्येषाम् इति ज्ञेयानाम् । अनेन इदमाह-यस्यैव यत् साक्षात्कारानुभवरूपं ज्ञेयस्य, तस्यैव तत् प्रत्यक्षं; तेन विकल्पः स्वत एव प्रत्यक्षं; नतु अर्थ इति । प्रकृते तु न अयं न्यायो व्याप्तेः,-इत्याह तत्तु इति लक्षणत्वेन अभिमतम् । ततश्च इति अर्थक्रिया-कारित्वस्य अभवनात् । चो विरोधं दर्शयति । लक्षणाभावे लक्ष्यं भवति,-इति हि विरुद्धम् ।
क्रियावत्त्वमपि न द्रव्यस्य लक्षणम् । अनन्य-वृत्तितामात्रेण लक्षणत्वे घटत्वाभिसम्बन्धोऽपि अस्य लक्षणं स्यात् । नच अन्यतो व्यावर्तकत्वमात्रमेव लक्षणस्य स्वरूपम्, अपितु लक्ष्यते येन
(पगे ३१)
तद्रूपसर्वस्वं निश्चीयते । नच एतदव्याप्तिमतः सम्भवति । तस्मात् क्रियावत्त्वमुपलक्षणं, स्वातन्त्र्यं तु उपलक्षितं सत् तस्य लक्षण- मिति । अथ उपलक्षणतां शङ्कते अथ इति । एतत् दूषयति तथापि इति अस्मिन् वाक्ये यदुक्तं, तदपि न लभ्यते किञ्चिदित्यर्थः । ततः इति स्वरूपव्यति- रेकेण तस्य अनुपलम्भादर्थक्रियाविशिष्टतायामेव तत्सामर्थ्यस्य उपलक्षणं संवेदनं स्यादिति सम्भाव्यते यदि परम् इति । अरुचिं सूचयन्निदमाह-जलं स्नानपानादिकालेऽपि न जलत्वादधिकेन रूपेण लक्ष्यते, प्रमाता केवलं तत्कार्यांवलोकने सति करणमिदं, इदं समर्थमिति विकल्पयन् व्यवहरतीति । अथ परो व्याप्तिमपसारयन् लक्षणतां प्रत्युज्जीवयति ननु अन्ततः इति अन्यस्य ज्ञातुरभावे इत्यर्थः । तदुपलक्षितम् इति तल्लक्षितमित्यर्थः । एतदपि अतिव्याप्त्यापाद- नेन दूषयति तत्रापि इति । ज्ञेयत्वम् इति ज्ञेयत्वबलेन केवलं कल्पनीय-मिति यावत् । ततश्च इति ज्ञेयत्वबलोपनतं ज्ञानजननं द्विचन्द्रकेश-मक्षिकादावसदभिमतेऽपि अस्ति,-इति अतिव्यापकम् । ननु न ज्ञेयत्वमात्र-बलेन ज्ञानं प्रति जनकत्वमर्थस्य, अपितु सति अर्थे पूर्वभाविनि भवति ज्ञानमिति योऽन्वयोऽसति न भवतीति च यो व्यतिरेकः, तदात्मकं तद्द्वारेण व्यवहरणीयम् । तदेतदपि न दृश्यते ज्ञेयता इत्यादिना ज्ञानात् इति कार्याभिमतात्, अनेन अन्वयाभावो दर्शितः । ननु पर्वतस्य उपत्यकामाश्रितो धूमादग्निमनुमाय यदा अधित्यकाधिरूढस्तं पश्यति, तदा तस्मात् दर्शनात् पूर्वसिद्धो वह्निरस्ति,-इति सिद्धोऽन्वयः । एतत् न सार्वत्रिकमिति दर्शयति नहि इति सहचार्येकसामग्र्यधीनं कपित्थे मृदुस्पर्श इव नीलरूपस्य । ननु नीलज्ञानं
(पगे ३२)
कादाचित्कं तत्र चक्षुरादिषु सत्स्वपि न सदा भवति, ततोऽन्यनिमित्तकेन अनेन भवितव्यम् । एवं यस्तदभावे कार्यस्य व्यतिरेकः प्रसज्यमानो- ऽभावः, ततः प्रसङ्गविपर्ययद्वारेण पूर्वसिद्धोऽर्थो हेतुरस्ति,-इति सिद्धं ज्ञानजनकत्वं सत्त्वमिति । एतदाशङ्क्य दूषयति कार्य इत्यादिना । तुर्भिन्नक्रमः । यदि तु इति यदि पुनरेवमुच्यते-कार्यव्यतिरे- केण अपि भवति अनुमानमिति, तदा भवदपि न स्वार्थं पुष्णाति यतस्तादृगनुमानं कस्यचिदेव भासनसमकालात् भासमानात् नीलादन्यस्यैव कारणमात्रस्य स्यात् । तस्यैव इति आभासमानस्य ।
भासनसमकालस्य नीलादेः सत्त्वं किं स्यादिति च प्रस्तुतो विचारः, तदेव हि विचारणीयं, न पुनरितरत् नरशृङ्गप्रायम् । तत एव आभास- मानस्य भासनादनर्थान्तरत्वे सिद्धे कृतकृत्यमानी विज्ञानवादी यदाह
बाह्येऽप्यर्थे ततो भेदो भासमानार्थतद्विदोः ।
इत्यादि, तत्र च तज्ज्ञानकारितया कारणस्य कस्यचिदर्थक्रियाकारित्वं सत्त्वमिति सिध्यति; नतु आभासमानस्य तज्ज्ञानसमकालस्य नीलस्य ।
ननु अस्तु भासनसमकालस्य अपि कारणत्वम् । अत्र एतदेव तावत् वक्तव्यं-तुल्यकालयोः कार्यकारणभावः इति, एतत् तु न उक्तं प्रमेयान्तरपरि-घटनायेति दूषणान्तरम् । अत्र आह तुल्य इति भासमानतैवहि तदानीं कारणताव्यवहारे निमित्तं, तच्च अविशिष्टं द्विचन्द्रेऽपीति भावः । अथ सतोरेव अन्वयव्यतिरेकयोर्यत् निर्भासमानं प्रतिभासनतुल्य-कालं, तदेव ज्ञानकारणं, तौ नीले स्तः, तत् विज्ञानात् पूर्वमभू-देव, नतु द्विचन्द्रे । एतदाह तथा इति । ननु योऽसौ भासनात् पूर्वकालभावी नीललक्षणो यदन्वयव्यतिरेकानुवर्ति
(पगे ३३)
भासनलक्षणं ज्ञानं, स एव भासमानः क्षणो न भवति; ततश्च स एव प्राच्यो दोषो भवेत् तस्यैवच अर्थक्रिया इत्यादिः । एतत् परिहरति नच इति । त्वद्दर्शने तावदयं दोषो न अवतरति,-इति निष्प्रत्यूहमुह्य-तां त्वया अर्थक्रियाकारित्वं सत्त्वमिति दृष्टिः । तेन भवत्पक्षे कारणं ज्ञानस्य यत्, तदेव निर्भासते इति अविरुद्धमेव ।
एवंहि भवतः संवेद्यस्य धर्मः पारिमित्यलक्षणः कालः, वेद्यश्च वेदनमेव, नच तत्र कालस्पर्शः; स्वरूपमेवच क्षण इति च परिभाषा निमेषादिक्रियान्तरेण, तस्य कः सन्बन्धः इति का क्षणिकतेति । ननु भवता इदानीमुत्सवकारिणा दरिद्रेण इव परदर्शनपरिपूरणं कामं कृतं, निजा तु दृष्टिरपूरितैव ।
पूरिता च,-इत्याह क्षणभङ्गेऽपि इति । सन्तानाभिप्रायेण तदेव पूर्वोत्तररूपमिति अभिमानात् सुसमर्थोऽयमर्थो यद्यपि, तथापि किमियता यत्नेन, यतः पूर्वक्षण उत्तरं क्षणं, सोऽपि अनन्तरमित्यादिप्रबन्धेन अर्थक्रिया-कारित्वं सिध्यत्येव सत्त्वमिति परेण समर्थितं स्वपक्षं दूषयति अत्र इति ।
अन्वयव्यतिरेकानुगृहीतं निर्भासमानं ज्ञानकारणं नीलमित्युच्यमाने द्विचन्द्रोऽपि कस्मात् न एवंविधः,-इति न निश्चितम् ।
नहि अनिर्भासने प्राच्यस्य नीलक्षणस्य द्विचन्द्रक्षणस्य वा विशेषः कश्चित् । अत्र अपरमाशङ्कते नीलज्ञानम् इति । अन्यत् इति तिमिरादि । नास्ति इति वेदवाक्यादेस्तथा निश्चय इति मन्यते । तथा इति पूर्वभासि सत् निर्भासमानमधुनेत्येवम् । नान्यत् इति वासनाप्रबोधादि । ननु यदि द्विचन्द्रोऽपि पूर्वक्षणे स्यात् भासनक्षण इव, तदूर्ध्वमपि स्यात्; नच एवमस्ति निवृत्ते तिमिरे तदैव तददर्शनात् । अत्र आह तथा इति ज्वालावत् निरन्वयविनाशस्य अपि सम्भाव्यमानत्वात् घटादेरपि तथाभावात् कपालादिस्थानीयस्य
(पगे ३४)
च कार्यमात्रस्य यादृशतादृशस्य धूलिपवनपुञ्जप्रायस्य मिलितैक-पिण्डीकृतचन्द्रस्यैववा द्विचन्द्रोपादानकतया सुकल्पत्वात् ।
यच्च अपि उक्तमुत्तरोत्तरस्वसन्तानगतक्षणकारणत्वादिति, तदपि अनेनैव प्रत्याह तथा इति । ज्वालायामन्त्यः क्षणो न कञ्चित् सजातीयं प्रसूते क्षणमितीयता अर्थक्रियाकारणं सत्त्वमिति यत् प्रत्यावर्तितं, तत् दूषितमेव । अधुना अधिकदूषणाभिधित्सया अथापि इत्यादिना तत् प्रत्यावर्तयति । यदुक्तम् अथ व्यभिचार्यत्वेऽपि यथा काक इत्यादि रूपमेव इति सस्वरूपतैव सत्त्वम् इति युक्तम्, तच्च एवमनुसृतं भवतीति एवकारः । ननु स्वरूपविशेष एव चेत् तत्, तर्हि अर्थक्रिया अस्य किमर्थ-मुपलक्षणीकृता । उच्यते तत् केवलम् इति । विवेचनीयम् इति शक्येऽर्हे च । निश्चीयते इति सत्त्वासत्त्वविभागेन । केचित् इति आबाल्यादभ्यस्तव्यवहाराः प्रतिभानादियुक्ताश्च । एतत् प्रतिवक्ति अत्रापि इति । मणि इति वैधर्म्येण । मणेर्हि गौरसंस्थानप्रमाणवर्णप्रभास्पर्शशब्दविशेषयोगात् जात्याजात्यव्यवस्था युक्ता, तच्च एवं येन सा उपदिश्यते परस्मै ।
केशस्य तु रूपस्वरूपलक्षणस्वभावस्य न वैचित्र्यमुपलभ्यते व्युत्पन्नैरपि । तिमिरपरीतनेत्रतायां व्युत्पन्नोऽपि केशं केशान्तरजा-तीयमेव पश्यति । तिमिरान्ममैवमित्यपि संवेदयमानो न न पश्यति तावता, अपितु कारणान्तरप्रभावितोऽसौ स्यात्, नतु न केशः । ज्ञानं तत् तथेति चेत्, नीलेऽपि न दुर्वचमेतत् । ननु स तावत् केशोऽन्य एव व्युत्पन्न-स्य प्रतिभासते यो न स्पृश्य इत्याशयेन आह अस्तु वा इति । तत् इति स्वरूप-वैचित्र्यम् । पारिभाषिकी इति स्वरूपे हि सति वैचित्र्यं, स्वरूपमेवच सत्ता,-इति युक्तम् तदेकतरवैचित्र्य एव सत्त्वम्, न अन्यत्रेति समयमात्रमेव इदम् ।
(पगे ३५)
एतदेव घटयति तथाहि इति अञ्प्रयोगे प्रसज्यप्रतिषेधात् तुच्छतैववा प्रतीयते असूर्यम्पश्येति यथा । अत्र हि दृश्यमानविषयदृगभाव एव तात्पर्यम्, शङ्कितपराकरणदिशा तत्सदृशता वा अब्राह्मणेन हुतमिति यथा । अत्र हि क्षत्रियप्रतिपत्तिः । लाक्षणिकविरोधसम्भवे सति वस्तुस्व-भावप्रतिपिपादयिषया प्रसज्यप्रतिषेधयुक्तवस्त्वन्तरप्रतिपत्तिर्युक्ता इतिनयेन तदन्यरूपतामात्रं वा यथा सर्वत्र अनुमानादौ ।
द्वैराश्यकल्पनायां नीलानीलाग्न्यनग्निब्राह्मणाब्राह्मणादौ त्रिधाऽपिच असत्ता न उपपद्यते इति दर्शयति किं सत्ता इत्यादिना । अथ इत्यादि तृतीयप्रकारनिराकरणम् । यदि नाम इति अभ्युपगम एव अयमिति दर्शयति । ननु दृश्यत्वे अस्तु एवम्, विकल्पनीये तु का वार्ता । तत्र आह यदपि इति । तदुक्तं भट्टपादैः तत्राभेदो भ्रमः इति अवपुः इति च ।
एतदुक्तं भवति-न तावदिह निःस्वरूपता युक्ता केशोण्डुकपीतशङ्- खचञ्चलपादपालातचक्रादिसंवेदनानां मूर्च्छाकल्पत्वेन अभेदप्रसङ्गात् । भेदेन सस्वरूपता चेत्, इयमेव तर्हि असामयिकी सद्रूपता,-इति स्थितमेतत्-प्रकाशमानतैव सत्तेति । एतत् प्रमेयमुप- संहरन् प्रकृते उपयोजयति————-मित्यादिना । ननु इयता तैमिरिककच- प्रभृतिना विकल्प्यरूपे घटाभासादिना तुल्यैव सत्ता क्रियासम्बान्- धादेः प्रतिपादिता भवति । नच एतदनङ्गीकृतं परेण । नच इयता परीक्षणीयता युक्ता । अर्थक्रियार्थिनो हि वस्तु परीक्षन्ते लोकिकास्तदुप- देशोद्यताश्च परीक्षका इत्याशङ्कां निकृन्तति उपयोगित्वेन इति स्यादेव इति । ततश्च द्विचन्द्रादेरपि उपदेश्यता स्यादिति चोद्यशेषः ।
एकस्मिंश्चन्द्रे यादृशी दृष्टा तेन अर्थक्रिया, न तद्द्विगुणा सैव द्विचन्द्रात् । ततश्च अपरशशिसमानजातीयो
(पगे ३६)
द्विचन्द्रो न भवति अपरकेशस्थानीयश्च तैमिरिककेशः । आभासान्तर- भावाभावतश्च एवं, न केशाभासेन । नच तथा तत्र केशादिना ख्यातव्येन रूपेण ख्यायते इति भ्रान्तत्वमसत्यता चेति । तेन आभासस्य एव सत आभासान्तरमिश्रितादभिलषितात् केशाभासादन्यो यः केशा-भासः, तत्र असत्यसञ्ज्ञा । तदाह उक्ता इति । सत्याभासाः इति वृत्तौ कर्मधारयपक्षेण तावत् विवृणोति आभाससारत्वात् इति । ननु सम्बन्धादय एकानेकस्वभावाः, नतु तद्विषयाः । सत्यं, यत्तु बाह्यमेकानेकरूपं सम्बन्धादि, तत् बुद्ध्याभासानां विषयः; ततो विषयिणो धर्मं विषयेषु उपचर्य इत्थमुक्तम् । उपचारे प्रयोजन- माह आभाससारताम् इति । एवमुपचारे सति यत् परिनिष्ठितं जातं, तत् दर्शयति सम्बन्ध इत्यादिना । अग्रे इति
स्वात्मनिष्ठा विविक्ताभा—————————–। (२।२।४)
इत्यादिसूत्रेषु । सत्यपदस्य व्यवच्छेद्यं दर्शयति आभासमानत्वा- देव इति । ननु सत्यत्वं विषयस्य वक्तव्यं, नतु आभासानां विषयि- णां; तत् कथं कर्मधारयः । नतु सत्यानामाभासाः इति षष्ठीस- मासो युक्त एकत्रैव वाक्ये सम्बन्धादीनां मुख्योपचारविभागेन युगपदाभासेभ्यो भेदाभेदयोगात् । एतत् परिहरति आभाससत्यतयैव इति । न अयमुपचार उपचार एव, मायापदापेक्षया हि अयमुपचारः ।
यथा उच्यते
भगवदधिष्ठितत्वात् भगवानेव सर्वम् ।
इति । ततो न अत्र आभासादाभासमानस्य भेदः कश्चित् । तदाह तद्रूपत्वात् इति । एवं मायापदेऽपि परमार्थपदमनुज्झता कर्मधारयेण व्याख्यातम् । अथ बहुब्रीहिपक्षाश्रयेण
(पगे ३७)
मायापदमेव आश्रयन् व्याचष्टे अथवा इति । अमीषां तु इति सम्बन्धादीनाम् । सोऽपि इति उपयोगः । अत एव इति अस्मत्प्रसाधितैरेव न्यायैर्योऽर्थक्रियोपयोगः, तत एव हेतोः,-इति वैयधिकरण्येन तसिपञ्चम्यौ योज्ये, अन्यथा एवकारद्वयमसङ्गतमेव स्यात् । एते इति सम्बन्धादयः । एतदेव घटयति संवृति इत्यादिना । केन वचसा ते ऐन्द्रियिकात् मानसाच्च भ्रमात् पृथगुक्ताः । आह तथाच इति । यदिहि भ्रमरूपतो वैलक्षण्यं संवृतिसतोऽभिमतं स्यात्, तत् भ्रान्तिशब्- दोक्तात् मानसात् हि भ्रमात् तैमिरोपलक्षिताच्च ऐन्द्रियिकात् न अस्य पृथक् निर्देशो युक्तः स्यात् । भ्रान्तेरेव प्रपञ्चात् तथा निर्देशः कुतश्चित् विशेषलेशत इति चिरन्तनप्रामाणिकव्याख्यानं दूषणाय आचष्टे तत्पुनः इति । अनेन स्वव्याख्यानात् विशेषो द्योतितः । एतत् न सहते एवं खलु इति । खलुशब्द उपहासं द्योतयति । अनेन इदमाह-भ्रान्त्यन्तरात् विशेषलेशोऽत्र व्याख्याने न लभ्यते येन पृथगभिधानार्हता भवेदिति । ननु विकल्प्येन रजतेन दृश्यं कथमाच्छाद्यते । सामान्या- दिना अपि तर्हि कथम् । दृश्यावष्टम्भेन अध्यवसायादिति चेत्, समानमि- हापि एतदिति निरूपयति शुक्तिदेश इति । ननु न तद्देशावष्टम्भनमात्र- मवच्छादनं, किन्तु बाधकयोगेऽपि सदातनप्रसरत्वं येन तद्वि- विक्तोऽर्थो निजेन वपुषा न कदाचिदवसीयते इत्येवं भूतमवच्छा- दनम् । तच्च सामान्यादिनैव विकल्पनीयेन दृश्यते, न रजतादिना,- इत्येतेन लेशेन भ्रान्तेः पृथगुपादानम् । एतत् अथापि इत्यादिना अनुभाष्य दूषयति तदेतत् इति । इह कारणमविद्याशक्तिस्तिमिरमिव कचकूर्चके, दूरतासादृश्याप्रणिधानानीव च रजते । निवर्तन्ते इति न तावता विशेषलेषः कश्चित् भ्रमत्वस्येति मन्तव्यम्, नतु परेण
(पगे ३८)
उक्तं-भ्रमव्यवहारोऽत्र नास्ति-इति । बाधज्ञानेऽपि इत्यत्र च्छेदः । तस्य इति बाधज्ञानस्य । हिशब्देन हेतुत्वमस्य द्योतयता अयमर्थ उक्तः-ज्ञातबाधत्वेन यतः प्रवृत्तिर्न भवति द्विचन्द्रादिभ्रान्तितः, ततोऽप्रवृत्तस्य विसंवादनं विप्रलम्भात्मिका विडम्बना न सम्भ- वति अप्रवृत्तत्वादेव; तथापि न तत् सत्यरूपग्राहि,-इति भ्रान्तमेव द्विचन्द्रसंवेदनं भवन्मते युक्तम् । यत्तु
भ्रान्तित्वे चावसायस्य————————-। (१।३।५)
इत्यत्र उक्तम्-नहि ऐन्द्रजालिकस्य असत्यवस्तुदर्शनमसत्यत्वेनैव ज्ञायमानं भ्रान्तिव्यपदेश्यमिति, तत् परदर्शनाभिप्रायेणेति न पूर्वापरविरोधः । तादवस्थ्यात् इति अन्यभ्रमेभ्यो निर्विशेषत्वात् ।
अन्यथा इति सविशेषत्वे यतो भ्रान्तिमात्ररूपतैव । तत् इति ततो हेतोः । ननु संवृतिबुद्धिरेवमाच्छादिका भवति यदि बुद्ध्युत्थापित एव न कदाचिदपि यो दृष्टः, स आरोप्यते सामान्यादिरिति आरोपे तुल्येऽपि अनेन विषयेण सांवृतस्य पृथगुपादानम् । एतत् दूषयति नापि इति चन्द्रस्य द्वित्वस्य दृष्टतैवेति चेत्, अनेकग्राह्यसाधारणस्य अपि एकस्य दृष्टतैवेति तुल्यो विधिः । एवमियता भ्रान्तित्वस्य न कश्चिदधिको विशेष इति उपापाद्य भ्रान्तिविशेषता अपि न सम्मता ग्रन्थकृत एव द्वन्द्वेन निर्दिशत इति ब्रूते समारोप्य इत्यादिना । युगपदधिकरणतायां द्वन्द्वः । सा च तुल्यस्वरूपयोरेव । सामान्यं च सकलविशेषानागूर्य वर्तमानं विशेषान्तरवन्तमपि विवक्षितं विशेषं क्रोडीकुर्वन् पृथगप्रतिलब्ध-शब्दनिवेशमेव करोतीति ।
आञ्जस्येन इति लोकप्रतीत्या स्पष्टया । दान्तव-लीवर्दादिशब्दैरेवहि आर्यलौकिकाः पुङ्गवानाहुः, गोशब्देन तु स्त्री-गवीरेवेति तथैव प्रतीतिः । गोमदिदं नगरमित्युक्तौ हि दधिक्षीरसम्पत्तिरेव
(पगे ३९)
निर्भाति । सांवृतत्वम् इति सांवृतस्य लक्षणमेतावन्मात्रमिति परेण अनिच्छतापि इयदेव अङ्गीकर्तव्यम् । तल्लक्षणं लक्ष्यपदेन सह निर्दिशति यत्तथा इत्यादिना । अस्मिंश्च लक्षणे अवभासनोपयोगाभ्यामपासिते अनुपपन्नत्वे अस्माकं जयः, अनुपपन्नतया पुनरपाकीर्णे उपयोगे परस्येत्यनेन आशयेन परापेक्षां तावदाह ननु इति । अवयविना सुप्रसिद्धेन तुल्ययोगक्षेमः सम्बन्धादिः पदार्थराशिरिति अवयविन-मेव प्रसिद्धं पुरस्कृत्य अयं विचारः । तथैव इति एकस्थूलरूपतया ।
तथैवच न इत्यत्र हेतुः स्थूलस्य इत्यादि । ननु परमाणवो बहवः, ते कथमेकां नियमेन अर्थक्रियां कुर्युः । उच्यते-रूपादयो भिन्ना यथा एकं ज्ञानं जनयन्ति नियताः, तथा परमाणवोऽपीति । व्यक्तय एवच भिन्नास्तदेवमुपयुक्तनयेन एकाकारां बुद्धिं जनयन्ति ।
भिन्ना एव च क्षणा एकौदनसम्पत्तिफलाः पाकव्यपदेश्याः । ननु कस्मादेषैव व्यवस्था सर्वत्र,-इत्याशङ्क्य हेतुमाह नहि इति ।
इन्द्रिया-दयो भिन्नत्वेनैव संविदिताश्च अध्यवसिताश्च बीजभूमिजलातपव-दितित एव एकं ज्ञानमङ्कुरबुद्धिं ददीरन्निति युक्तं नाम, इहतु एकमवभातमध्यवसितं च स्वकार्यकारि,-इति कथमन्यस्य प्रकल्प-नम् । नीलेऽपि अवभाताध्यवसिते अर्थक्रियाकारिणी पीतमर्थक्रियाकारि,-इति हि न निर्बन्धनं कल्प्येत । ननु इह अनुपपद्यमानता अस्ति,-इति अन्यकल्पनमित्याशङ्क्य तामेव दूषयति एषैवच इति । अवभाततैव अत्र नास्ति,-इत्याह परः नतु इति । अत्र उपपत्तिमाह स्थूलावभासो हि इति । युक्तः इति वैतत्यं हि देशभेदः, सच स्वरूपभेदमन्वायतते इति सर्वतःसङ्कुचितो मूर्तितः कालतश्च यः, स एव विरुद्धधर्माध्यासवन्ध्यः परमार्थः परमाणुः
(पगे ४०)
क्षणश्च । ननु प्रतिभासत एव स्थूलता । सत्यं, सा तु निरन्तरबहुतर- परमाणुप्रतिभासनान्तरीयकस्वभावैव द्वित्वमिव घटपटाव- भासमात्रनान्तरीयकम् । ननु यदि विकल्प एव स्थूलः, ततः किम् । आह निर्विकल्पश्च इति । एतत् दूषयति तत् इति । विकल्प्यतानिबन्धनमसत्यत्वमा- चक्षाणेन तद्व्यापकविरुद्धनिर्विकल्पत्वोपलब्ध्या विकल्प्यत्वव्याप्तस्य असत्यत्वस्य हठादेव निषेधः कर्तव्य इति द्विचन्द्रपीतशङ्खादीनां सत्यत्वप्रसङ्गः । निर्विकल्पकता च न प्रामाण्यस्य व्यापिकेति दर्शयति अनुमान इति । स्यादेतत् । वस्तुमूलः कोऽपि विकल्पः, कोऽपि अविद्यामूलः । वस्तुमूले प्रथमप्रत्यक्षं निर्विकल्पकमेव प्रतपति, तन्मूलमेव तत्र प्रामाण्यम्; द्वितीये तु अप्रामाण्यमेव, अवयव्यादिविकल्पश्च अविद्या-मूलः ।
एतदाशङ्कमानो दूषयति यदिच इति । ततः इति अनुभववासना चेत् तद्विकल्पोत्थापिका, तर्हि अविद्यावासनाकल्पने किं निदानम् । ततश्च अपिशब्दोऽनुपादेय एव । एतदेव घटयति अतश्च इति । यदि हि अनुभवस्त्यज्- येत, तत् नीलांशोऽनुभूयमानः, तद्गतं च अवभासनम् अनुभवस्य यत् स्वभावभूतं तदनुभूयमानातिरिक्तस्थूलात्मकविकल्प्यैक-निष्ठे विकल्पे सर्वथा परिहीयेत । परः सत्यपि अनुभववासनाया उपयोगेऽस्ति अविद्यावासनाया अवकाश इत्याह तत्तु इति । अननुसरणं स्फुटयति अनुभवो हि इति । विरुद्धधर्मयुक्ता दिग्भेदादिभेदाभाजो बहवः परमाणवो घटाद्याकारेण स्थूलस्वलक्षणस्वभावाः- अनेकधर्मो हि स्थूलता, एकधर्मस्तु परमाणुत्वमिति अवबोधमाह बाह्यार्थवादी-प्रतिभासन्ते यस्मिन्; तथा घटान्तरादन्यदेशकालात् विरुद्धधर्मयोगी घटाद्याकारो यः स्थूलः स्वलक्षणात्मा, नतु सामान्याकारः, स प्रतिभासते यस्मिंस्तादृगनुभवः;
(पगे ४१)
एतद्विपरीतस्तु विकल्प इति ब्रूते विकल्पाभासस्तु इति । एकत्वम् इति नतु बहवः । अनुगतत्वम् इति न स्वलक्षणम् । ननु एवं सदैव विकल्पो- ऽविद्यावासनामपि उपजीवति, ततश्च असावप्रमाणमिति अनुमान- विकल्पस्य कथं प्रामाण्यमित्याशङ्क्य परिहरति केवलम् इति ।
अतद्ग्राहिणापि इति । वस्तु अगृह्णतापि अतत्कारिणस्तदर्थक्रियाकरण- शून्यादर्थात् यत् व्यावर्तनमपोहनं व्यवच्छेदात्मकं संविद्रूपविधिविलक्षणनिषेधस्वभावं, तदेव परं कर्तव्यं यस्य, तस्य भावः; तेन हेतुना यस्य वस्तु विकल्पेन अवसीयते; ततो हेतोर्बाह्येऽर्थे औचिती सा विकल्पस्य । तामेव घटयति बाह्येऽपि हि इति ।
तत्र च इति विकल्पे सति । यत्र इति अनुमाने, प्रत्यक्षानन्तरभाविनि च अध्यवसाये । अन्यत्र इति स्वतन्त्रविकल्पे । तदर्थ इति विकल्पः । तदर्थ इति योऽर्थः परम्परायातं विकल्पमजीजनत्, तस्मिन्नर्थे । ननु विकल्प्यस्य असत्यत्वम्, असत्यस्य च न उपयोगः क्वापि,-इति स्थापिते सांवृतस्य तर्हि किं लक्षणमित्यागूर्य आह तत् इति विकल्पविषयीकृतस्य प्रतीतिः सार्वत्रिकी सदातनी च यतो न निवर्तते । केशरजतादि तु न सार्वत्रिकतया सदातन-त्वेन वा परिस्फुरति, ततश्च भ्रान्तिविशेष एव सांवृतं द्वन्द्वस्तु भ्रान्तिशब्दस्य आसमञ्जस्येन केशरजतादावेव प्रसिद्धेरिति त्वत्प्रतिसमाधानादेव लब्धः । ननु यदस्माभिरुक्तं लक्षणं-क्वचिदुपयुज्यतेऽपीति, तत् किमिति त्यज्यते । आह उपयोगोऽपि । इति अन्यथा इति अनेकतया रक्तस्य अमतया च । सचापि इति प्रदीपः । तस्य इति तैमिरिकस्य । तथा इति अन्यथारूपेण । अभीष्टम् इति वस्तुप्रकाशनादि ।
अपरिहार्यतिमिराविद्यादेरनिवृत्तौ यत् तथेति विचित्रं
(पगे ४२)
मिथ्यादर्शनं तदुपायमात्रं प्राप्तये यस्य प्रदीपस्य परमाणु- सञ्चयस्य वा, तस्मादेव अर्थक्रिया, नतु अवस्तुनो विकल्पात् । नहि विकल्पे किञ्चिदाभासते, अभिमानमात्रं परं तत्र, नतु आभासः कस्यचिदिति ।
अत्र पूर्वपक्षे तदिति समुचितमुत्तरं यत्, तदुक्तप्रायम्, उक्तः प्रायः प्रपञ्चो यस्य तदिति वा उत्तरवाक्यार्थपरामर्शः । अथवा यतोऽयं पूर्वपक्ष एवम्भूतः, तस्मात् न अत्र अधिकं वक्तव्यम् । अनुभवस्य अननुसरणं यत् कथञ्चिदुक्तम्, तत् दूषयिष्यन्ननुभवानुसरणं तावदाह विकल्पेऽपि इति । अननुसरणं तु कथं, किं तावत् तत्रैव आभाते धर्मभेदात्, अनुभवापरिगृहीतवस्तुविलक्षणवस्त्वन्तरोल्लेखात् वा । धर्मभेदात् न अन्यत्वमित्याह स्फुट इति । विचारितः इति
विशेषोऽर्थावभासस्य——————। (१।८।२)
इत्येतस्मिन्विमर्शे । विचारयिष्यते च इति
दूरान्तिकतया——————————-। (२।३।१०)
इत्यत्र । द्वितीयमपि पक्षं निराकरोति सामान्य इत्यादिना । यदेव हि अनुभूतं, तदेव भाति विकल्पे । घट इति हि विकल्पे दृष्टस्वभाव एव भाति अनधिकः पृथुबुध्नोदराकारो लोहितः । गौः पवित्रमित्यपि सास्ना- दिमद्रूपमेव दृष्टम्, नतु दृष्टातिरिक्तं किञ्चिदवयविशब्दवाच्यं सामान्यशब्दवाच्यं वा लौकिकं भाति । ननु यदेव तत् दृष्टं भाति, तदेव सामान्यं तादात्म्यात् तत्समवायाद्वा ताद्रूप्येण प्रवृत्तेः; सिद्धान्तदृशा वा अविशेषणचिकीर्षिताभासान्तरविरहात् दृष्टमेव नीलादि यत्, तदेव सामान्यम् । आदिग्रहणात् क्रियावयव्यादि ।
एवं तर्हि बाह्यमेव तत् तथारूपमिति निर्विल्पकेन अपि किं न गृह्यते ।
सन्निहितविषयबलोत्पन्नं
(पगे ४३)
हि तत् घुष्यते । ततश्च यदुक्तं-न सम्बन्धावयविक्रियासामान्यादी- नामित्यादिकं स्वोक्तकल्पसमर्थनाय, विकल्पाभासस्तु एकत्वानुगत- त्वादिना स्फुरति, न अनुभवाभासः-इति, तत् स्वयमेव त्यक्तं भवेत् यतो बाह्यरूप एव सामान्यात्मनि उपगम्यमाने निर्विकल्पकग्राह्यता अस्य प्रसजति । अत एव हेतोर्विकल्प्यरूपस्य सामान्यस्य बाह्येऽर्थे अनुगमा-भावमवोचत् ज्ञानादव्यतिरिक्तमिति आत्मख्यातौ ज्ञानात्मभूतम्, असद्ख्याताववस्तुभूतत्वेन ज्ञानात् न अन्यत् । ननु न विकल्पेन नीलघ-टादि वस्तु स्पृश्यते येन तस्य समानादिरूपत्वे निर्विकल्पकस्य अपि सामान्यादिविषयता प्राप्नुयात्, किन्तु अनर्थ एव तेन स्पृश्यते वस्तुनि पुनरभिमानमात्रादारोपलक्षणात् प्रवृत्तिप्राप्ती विकल्पात्, तत एव अस्य क्वचित् प्रामाण्यमिति यत् पूर्वपक्षे निरूपितं केवलमनुभवविषयी-कृतस्य इत्यादिग्रन्थेन, तत् दूषयति अध्यवसायोऽपि च इति । आरोपयतौ नयताविव द्विकर्मके प्रधानकर्म बाह्यमजास्थानीयम्, अप्रधान-कर्म पुनरबाह्यं सम्भाव्यव्यधिकरणताकं ग्रामस्थानीयम् । अभिनिविशते इति अभिमन्यते । एतच्च वाचोयुक्तिवैचित्र्यमात्रम्, नतु भिन्नार्थम् । नच असंविद्रूपः संविद्रूपस्य व्यापारो युक्तः । व्यापारो हि नाम तस्यैव फलावच्छिन्नं स्वरूपमुच्यते । अत एव संवेदनसुखादिवदभिमानो धर्म इत्यपि असत् सुखादिवदेव अर्थं प्रति अकिञ्चित्करतापत्तिप्रसङ्गात् । अथ उच्यते दृश्यविकल्प्ययोर्विवेकाप्र- काश एव अभिमान इति उच्यते, तत्रापि आह यदिहि इति । अवभासमान एव इति सप्तमी प्रथमा च श्लेषेण आरोप्यस्य आरोपस्थानस्य च प्रकाशमानतां निरूपयितुम् । प्राक् इति
(पगे ४४)
भ्रान्तित्वे चावसायस्य——————————। (१।३।५)
इत्यत्र । सेति अभिमानशब्देन यदुक्तम्, तत्र मूर्खस्य पण्डितोऽहमिति यथा शब्दप्रयोगः; तथा घट इति विकल्पे भवेत् । एतदुपसंहरन् यत् पूर्वपक्षे कथितं-उपयोगोऽपि न विकल्पप्रतीतस्य, अपितु परमाणू- नामेवेति, तत् दूषयति एवञ्च इत्यादिना तद्विपरीतमाचक्षाणः । नहि अनाभासमानेन अर्थक्रिया काचित् । आभासनं च न अविमृष्टे । नच परमाणुविमर्शो घटादिप्रतीतौ कस्यचित् स्वप्ने सङ्कल्पेऽपिवा ।
विभागे अल्पतरप्रसङ्गे यतो न अल्पीयस्तत्र अवस्थानमित्यनया तु नीत्या भवन्-नपि असौ न घटविषयः कदाचित्, अपितु तन्नाशोत्प्रेक्षायां दूरव्यव-हितवस्त्वन्तरविषयः । नच अन्येन अर्थक्रियाध्यवसायेन अन्यस्य सा कार्या,-इति युक्तमतिप्रसङ्गात् । तदेतत् सर्वं वृत्तिपृष्ठे योजयति युक्तमुक्तम् इति । तदयं प्रयोगः-न असत्यविषया द्रव्यादिबुद्धयो-ऽबाधितार्थक्रियाकारिरूपविषयत्वादिति असत्यविषयत्वविरुद्धेन सत्यविषयत्वेन व्याप्तस्य अस्य हेतोरुपलब्धिः ।
न घटाद्यर्थक्रियासु परमाणवोऽर्थक्रियाकारिणः इति कदाचिदपि तथानध्यवसितत्वात् । अस्य इयमर्थक्रियेत्यत्र व्यवहारे कारणं तथाध्यवसायः, तद्विरुद्धश्च अनध्यवसायः,-इति कारणविरुद्धोपलब्ध्ः
—————————–तेन हेतोः सिद्धिरबाधिता ।
इत्यादेः, अन्यथा परमाणूनामर्थक्रियाकारित्वहेतुरसिद्धो भवेत् ॥ १ ॥
ननु तथापि न हेतोः सिद्धिरबाधितत्वविशेषणस्य असम्भवात्, एकानेकात्मका हि द्रव्यादय इतिवदता भवता यदेव एकं, तदेव अनेकं; तच्च कथमिति स्वयमेव बाधकमुक्तमित्याक्षेपं प्रतिक्षेप्तुं
(पगे ४५)
तत्रैकमान्तरं तत्त्वं तदेवेन्द्रियवेद्यताम् । सम्प्राप्यानेकतां याति देशकालस्वभावतः ॥ २ ॥
तत्र क्रियादौ क्रियादेः सत्यत्वे वा स्थिते सति क्रियादेर्वा ये एकत्वा- नेकत्वे उक्ते, ते वृत्तिगुणीकृते अपि प्रधानप्रमेयतया इह समर्थनीये इति परामृश्य निर्धारणम् । तयोरेकत्वानेकत्वयोर्मध्ये एकत्वमेवं समर्थ्यते, अनेकत्वं च एवमिति नीलादीनां भावानां पारमार्थि- कं यदान्तरं संविन्मात्रलक्षणं तत्त्वं, तत्र न कलना काचिद- भेदघनत्वादेकताया अपि तत्र अभावात् । यत्तु आन्तरमाभासान्तरा- नामिश्रमन्तरङ्गम्, आन्तरं च अन्तःकरणमात्रवेद्यं तत्त्वमेकम्; तदेकम् । तदेव पुनरत्यक्तैकताकं बाह्येन्द्रियवेद्यतां प्राप्य इह- अमुत्रेति अधुना-तदेति कृशोऽकृश इति च देशादिभेदादनेकतां याति ।
नच विरोधः प्रतीतेरखण्डनात् कारणत्वाकारणत्वयोरिव व्यवहार- मात्रपरमार्थतया विषयभेदस्य अपि सुवचत्वात् । तस्मादेकत्वाने- कत्वनेकत्वयोर्न विरोधः कश्चित् चैत्रश्चलतीति क्रियायाम्, एवं सम्बन्- धादौ वाच्यमिति सूत्रार्थः । अन्तरभिन्नं तत्त्वं संविन्मात्रतया, मायाप्रमातुः पुनरन्तःकरणाभासात् बाह्यकरणाभासाच्च बहिर्- भेदात् वस्तु फलत एकानेकम् । अनेकत्वे हेतुः बहिः इत्यादीतिवृत्तिसङ्गतिः । एवं सति इति विद्यमाने क्रियादौ तद्गते च सत्यत्वे इति साधारणी उक्तिः । एवम् इति यथा श्लोकपादेन उक्तम् परतः इति यथा पादत्रयेण शिष्टेन । प्रथमं कलनाशून्यत्वेन अभिन्नत्वं व्याचष्टे सर्वेषाम् इत्यादिना । यदि यत्तच्छब्दौ, तदा एवं योजना- यदेव आन्तरत्वम्, अयमेव एकत्वा-वभासः । यदातदाशब्दपाठे तु स्पष्टम् । अनन्तानि इति एकघटाद्य- न्यतमाभासभित्तिचित्रीकरणेनेत्यर्थः । रसो मधुरादिः षोढा, अवान्तरभेदेन अनन्तः । वीर्यं
(पगे ४६)
जठराग्निसम्बन्धज उष्णादिस्पर्शः, प्रभावविशेषश्च; जठरानल- सम्बन्धकृतं तु रसान्तरं यत् मधुरादि, स विपाकः । गुणा अन्ये गुरुत्वस्नेहादयः ॥ २ ॥
ननु विषयभेदादेकमनेकं चेति यदुक्तम्, तत् केन ग्रहीतव्यम्; चाक्षुषानुभवेन तावत् चैत्रो देशभेदभिन्न एव निर्भासते, न अस्य आभासभेदमिश्रीकरणसामर्थ्यमविचारकत्वादिति हि आहुः, विकल्पेन तु मानसेन वस्तु नैव स्पृश्यते । तदत्र उच्यते सूत्रेण
तद्द्वयालम्बना एता मनोऽनुव्यवसायि सत् । करोति मातृव्यापारमयीः कर्मादिकल्पनाः ॥ ३ ॥
इह यद्यपि अविकल्पेऽपि सन्निति वा घट इति वा सत्तामात्रघट- मात्रावभासादौ सामान्यादेराभासो विततग्रहणे च योगिनः कर्मा-वभासः कालावभास इत्युच्येतापि, तथापि तदा तत् सामान्यादि निजं जीवितं न प्रतिलभते । तथाहि सामनोपरञ्जकता, सम्बन्धिभेदोद्रेकः, सन्तन्यमानक्षणभेदैक्यग्रहोऽवयवराशीकरणमवध्यवधिमद्- भावावभास इति सामान्यसम्बन्धक्रियाद्रव्यदिगाभासानां जीवितं, तच्च विकल्पने स्फुटमभिव्यज्यते । विकल्पनं च मनसोऽनुव्य- वसाये यदवसरे मायाप्रमातुरभिव्यक्तिः । तेन मनः कर्तृ अनुव्यव- सायं साक्षात्कारविमर्शस्य पश्चाद्भाविनं विमर्शं विदधत् क्रियासम्बन्धादिविषयाः कल्पना विकल्पज्ञानानि स्वतन्त्रप्रमातृ- व्यापारप्राधान्येन करोति तदुक्तपूर्वं द्वयमेकानेकलक्षणमा- लम्बनं यासां, तादृशीः तेन विकल्पधियैव एकानेकात्मकरूप- द्वयस्पर्शः, नतु वस्तुस्पृक् विकल्पः । प्रमातुः किल अयं व्यापारः ।
प्रमाता च पूर्वानुभवान्तःस्वसंवेदनरूपो विकल्पनेऽपि पूर्वात्मतां न उज्झति । तस्य तु मायीयताव्यक्तौ मनोऽनुव्यवसाय एव
(पगे ४७)
अवसरः । तत्रैवच व्यावहारिकं क्रियासम्बन्धादि, न शिवतादशा- यां, नापि सदाशिवादिभूमौ, निर्विकल्पकाले च शिवसदाशिवादिरूप- समुदाय इति सूत्रस्य तात्पर्यम् । एतदवतारयति बाह्य इत्यादिना एकीभ- वन्तः इत्यन्तेन । तावत्यां भूमौ प्रत्युत भेदो विगलतीति न प्रमातृ- तावसर इत्याचष्टे तद्दशावियोगं च उत्तरदशायां शत्रेवाभ्याम् ।
स्वस्मिन् निजनिजे प्रमातरि प्रत्यासन्नं यत् मनोलक्षणमन्तःकरणम- साधारणप्रमितिकारितया, तदेव साधनं यस्य अनुव्यवसायव्यापा- रस्य, तत्र प्रवृत्ताः । लोकयात्राम् इति लोकव्यवहारम्, यत्र क्रियासम्बन्- धादिकमेव निविडमुपयुज्यते इति मन्यते । मनसि अयं कस्मात् भर इति चेत्, आह यद्यपि इति तावती न सुखादौ, तत एव अत्र न पूर्णा शुद्धिरिति अव्यवहारयोग्या एव इयं दशा अशनक्रियायां भस्मसूतकादिदशावत् । अंशभेदैः इति
एकाभिधानविषये मितिः——————————। (२।३।२)
इति हि वक्ष्यते । अनुशब्दं व्याचष्टे पश्चात् इति । मन एव परिकल्पनाः करोतीति सम्बन्धः । तस्य स्वरूपविशेषणं करणम् इत्यन्तम्, शत्रन्त-द्वयं तु हेतुतागर्भं कल्पनाकरणे । कयोर्मध्यस्थं मनो वृत्ता-वुक्तमिति शङ्कित्वा ग्राह्यग्राहकयोरिति दर्शयति बहिः इत्यादिना तस्य इत्यन्तेन वाक्येन । प्रमात्रा सह भेदसम्बन्धौ व्यतिरेकविश्रान्ती व्यवहर्तुमशक्यौ येषाम् । तस्य इति प्रमातुः । अत्र हेतुमाह प्रमातुः इति । प्रमाता बाह्यमान्तरं च विकल्प्यं विषयं यदध्यवस्यति विचित्राभिर्योजननाभिः, तदेव उच्यते क्रियासामान्यादि । व्यवहरति इति वृत्तियोजनां करोति मानसीत्वम् इत्यादिना । हेतुः इति वाक्यत्रयशेषः । ननु कोऽन्यः प्रमाता नाम यस्य व्यापारतया क्रियादिविकल्पा
(पगे ४८)
उक्ताः, अनुभवविकल्पात्मकसंवेदनसन्ततिमात्रमेव हि अन्तस्तत्त्वमित्याशङ्क्य आह प्रमातैव हि इति सत्यप्रमाता महेश्वररूप एवेत्यर्थः । प्राक् इति
न चेदन्तःकृता————————————–। (१।३।७)
इत्यन्तः प्रभृति । संस्कारजा इति संस्कारो हि प्रमात्रेकतापर्यवसायीति उक्तम् । ततो बौद्धा यथा अनुभवसंस्कारजन्यतां मन्यन्ते, तथा अत्र न भवति,-इति मन्तव्यम् । चक्षुरादिषु च इत्यादेः निष्ठत्वात् इत्यन्तस्य तात्पर्यं व्याख्यातं सूत्रव्याख्यानारम्भ एव । अत्र च सामान्य-ग्रहणेन सर्वं सम्बन्धादि उपलक्षयति । सामान्यरूपा अपि इति अस्फुटप्राया इति यावत् । सामान्यमुच्यन्ते इति न सामान्यमिति व्यवह्रि-यन्ते । अत्र हेतुं तेषाम् इत्यादिकं वक्ष्यमाणं सावकाशीकर्तुं सामान्यस्वरूपाविष्करणाय आह विशिष्टानामनुगामि इत्यन्तम् ।
ननु अत्र अवसरे स एकाक्याभासः किमुच्यताम्, न तावत् सामान्यमिति त्वमेव अवादीः । नच अविशेषत्वेन अर्थं लोको व्यवहरति । सत्यं न व्यवहरति, अव्यवहरणे तु निदानम्-अर्थक्रियार्थी हि लोकः, नच आभास-मात्रमर्थक्रियाकारीति । एतत् दर्शयति तदर्थक्रिया इत्यादिना, च उक्ता-शङ्काद्योतकः, योगिप्रायस्य स्युरपि,-इत्याशयेन विरलत्वमुक्तम् । नतु अभाव एव अभिलषणीय इति सत् वस्त्रं परिदधातीति ।
ननु गृहे किञ्चिदस्ति नवा,-इतिचिन्तायां सदाभासमात्रेण अपि अर्थक्रिया हृद्भङ्गपरिहारलक्षणा क्रियते एव । वक्ष्यतेच एतत्
तथैव सद्घट————————————। (२।३।५)
इत्यत्र । तत् कथमुक्तम् आभासान्तरमिश्रतायामेव अर्थक्रिया इति ।
अत्र उत्तरमाह देश इत्यादिना । इह इदानीं
(पगे ४९)
सन्नितीयतैव सदाभासस्वलक्षणीभूत इति रूपनीलाद्याभासैर्बहि- रङ्गैः स्वलक्षणतायामप्रयोजकैः किं तत्र कृत्यम् । देशकालाभा- साभ्यां विना न आभाससहस्रैः सम्भेदेऽपि स्वालक्षण्यं पर्य- वस्यति नीलं वस्त्रं विततं कार्पासं मृदु तन्वित्यादौ सामान्य- रूपताया एव स्फुरणात् । इदं तदिति तु देशकालाभाससम्भेदः सामान्यरूपतामपहस्तयति । ततः स एव अन्तरङ्गः स्वालक्षण्यापत्तौ । एतदेव उपपादयति तयोरेव इति देशकालयोः पूर्वापरादिरूपत्वेन । देशो दूरत्वादूरत्वादिलक्षणं परत्वापरत्ववैचित्र्यमुल्लासयति, कालस्तु नवपुराणतादिलक्षणम् ।
ननु परस्परमाभासानां तुल्यमे-लने कोऽत्र नियमो यत् सदाभासस्ताभ्यामाभासाभ्यां मिलितः स्वलक्षणमर्थक्रियाकारीति च उच्यते, नतु जातु देशाभासः कालाभासो वा आभासान्तरमिश्रितः इति । अत्र उच्यते नित्यमेव इति । यत् किल प्रथमा-निर्देश्यं पृथक्परामर्शपदवीमवतीर्णं, तदेव वस्तु प्रधानं द्रव्यमर्थक्रियाकारीति युक्तम् । देशकालयोश्च तथात्वे दिश्यतेऽनेन, कल्यतेऽनेनेति यदन्यपरतन्त्रं रूपसर्वस्वं, तदेव विघटितमिति स्वतन्त्राभासरूपत्वे तयोर्देशकालाभासान्तरसम्भेदेनैव स्वलक्षणीभाव इत्येष एव उन्मीलति पक्षः । तौ च उपसर्जनीभूतौ किं कुरुत इति चेत्, आह व्यापिनित्य इति आभासं मूर्तितः क्रियातश्च प्रसिसीर्षुं सङ्कोचयतः, सङ्कुचितश्च उपयुज्यते सङ्कुचितस्वभावस्य प्रमातुः । एवं मेलनं नाम यत्, तदेव स्वलक्षणम् । ननु यस्य सदाभासस्य उन्मीलनं स्वलक्षणं, स सदाभासस्तस्य स्वलक्षणस्य भेदकतामापन्नो भेद्यशरीरतादात्म्येन वर्तमानं युक्तं यत् भेद्यवृत्तान्तमुद्वहेत् । भेदश्च सङ्कुचितस्वलक्षणात्मा, ततस्तेनापि युक्तं सङ्कुचितुमिति विनष्टं सामान्यं स्यात् । ततश्च कथमुच्यते नित्यव्यापिरूपं सामान्यमिति । एतत्
(पगे ५०)
समाधत्ते विशेषणत्वे इति विशेष्यभागो हि प्रधानम्, तत्रैव च विशेषणकृत उपकारो युक्तः, नतु उपसर्जने विशेषणभागे । ततो नीलः पटो मृदुरिति मार्दवं विशेषणं नीलतांशे विशेषणे यथा अकिञ्चित्-करम्, तथा सामान्यात्मनि आभासवर्गे विशेषणभूते देशकालविशे-षणं न सङ्कोचं विधत्ते । तत्र इति विशेषणत्वे । तस्य इति सामान्यस्य । किमतो जातमित्याह तदाच इति यदुक्तमेतत्, ततो हेतोरित्यर्थः । ख्याप्यन्ते इति एकलोलीभावेन भासनात् । भासनस्य तु प्रधानभूतं यत् विमर्-शाख्यं जीवितं, तद्विशेषरूपं विकल्पो यदादिशति; तद्भावस्तत्त्व-मिति दर्शयति तथापि इति । प्रायेण इति वाक्यार्थविकल्पोऽपि अयमधुना इह घट इति यदा यदा पुरोऽवस्थितघटाभासः तदा तदा इत्थमुदेति,-इति प्रातिस्विकदेशकालतत्त्वस्वीकारायोगात् सामान्यविषय एव । अत एव आह स्यात् इति । तत्र हि तत्कालसन्निहितवक्तृश्रोतृप्रत्यक्षादिप्रमाणान्तरस- चिवात् ततो वाक्यात् विविक्षितविशेषप्रतिपत्तिः कामं सम्भाव्यते, नतु वाक्यार्थविकल्पो नियततत्स्वलक्षणस्वीकाराक्षमः । तत एव
चमसेनापः प्रणयन्ति व्रीहीन् प्रोक्षति षोडशिनं गृह्णाति ।
इत्यादौ लडपि न विशिष्टं वर्तमानावभासमवगमयितुमलमिति शब्दात् प्रतीयमानोऽर्थोऽङ्गुलिनिर्देशादिसाहाय्यकमन्तरेण देश- कालानवच्छिन्न एव प्रतीयते इति अयत्नसिद्धोऽयमर्थः । एतच्च प्रमाण- लक्षणे भविष्यति । इयता अनुव्यवसायव्यापार एव सामान्यक्रियादि- तत्त्वं प्रत्युज्जीवयति । यत् प्रकृतं, तत् निरूपितमिति उपसंहरति एवञ्च इति । अस्मिन् इति यत्र स्वलक्षणसामान्यरूपता चिन्तनयोग्या, तादृशे । न तदा इति मानसावसायकाले । सामान्यम् इत्यत्रैव च्छेदः । अत्र हेतुः
(पगे ५१)
देशादि इत्यादि सम्बन्धोऽपि तदा इति क्रियापि तदेति सम्बन्धः ।
ग्रन्थान्तरं हेतुरूपम् । उक्तम् इति मनोऽनुव्यवसायि इति कल्पनाः इति च । वक्ष्यते इति
———————————-आलम्बन्ते विकल्पनाः । (२।२।५) इति ॥ ३ ॥
एवमियता संवृतौ विकल्पबुद्धौ स्फुरतः सामान्यादेः संवृतिसत्त्वं नाम सत्त्वविशेष एव अवतिष्ठते, न द्विचन्द्रादिवदसत्य-तेति उपपादितम् । तत्र अयमवतरणक्रमः संविदः-सर्वमिदं स्वातन्-त्र्यामर्शनलक्षणायाः क्रियाशक्तेर्विजृम्भितम्-यत् सम्बन्धसामा-न्यादि । तत्रापि सम्बन्धरूपतैव अनेकैकरूपतालक्षणा सर्वत्र तात्त्विकं रूपम् ।
तत्र तु असाधारणरूपान्तरयोगे नामान्तरम् । अनेक-व्यक्तिग्रामस्य य ऐक्यात्मा सम्बन्धः, तत्र गाव इति व्यपदेशान्तर-सहिष्णुत्वं; तत्र सामान्यवाचोयुक्तिरनेकक्षणप्रवाहे आश्रयबला-देकीभवति स्पन्दते इति व्यपदेशबलात् क्रियाव्यवहारः, तन्तूनामैक्ये पटोऽयमिति द्रव्यव्यवहारः, बाल्याद्यवस्थानामैक्ये अवस्थातृव्यव-हारः ।
एवमन्यत्र । व्यपदेशान्तरग्रन्थिवन्ध्यतायां तु निर्विशेषा सम्बन्धभाषैव, प्रातिपदिकार्थात् तु यदतिरिक्तं भाति, तत् सम्बन्ध एव सर्वम् । तत एव
भेदाभेदात्मसम्बन्धसहसर्वार्थसाधिता ।
लोकयात्रा———————————————-॥ (श्लो। १)
इति उक्तं सम्बन्धसिद्धौ भिन्नसामान्यवादिभिरपि समवायस्य सम्बन्धस्य अनुगृह्णाति सम्बन्धः इति नीत्या सम्बन्धेन वा अनुगृहीतस्य अङ्गीकरणात् । सम्बन्धश्च एकानेकतामयः प्रमातृस्वा-तन्त्र्यात्मकक्रियाशक्तिमहिम्ना । ततः सम्बन्धः एव प्रमात्रैक्यसिद्धौ मूलं
(पगे ५२)
———————–सम्बन्धे सावधानता । (वि। भै। १०६)
इत्युक्तेः । तत्स्तमेव विचारयितुं सूत्रं
स्वात्मनिष्ठा विविक्ताभा भावा एकप्रमातरि । अन्योन्यान्वयरूपैक्ययुजः सम्बन्धधीपदम् ॥ ४ ॥
राजा पुरुषश्च विविक्तत्वेन यतो बहिर्भासेते, ततः स्वात्मन्येव समाप्तौ तथाविधावेव यदा एकस्मिन् प्रमातरि ऐक्यं भजतः । तच्च न ऐक्यमात्रं स्वरूपविगलने सम्बन्धायोगात्, किन्तु परस्पररूप- श्लेषसमकालनिमज्जदुन्मज्जद्भेदाभेदकोटिद्वयदोलायन्त्ररूपमन्- वयलक्षणम्; तच्चापि न प्रमात्रैव सह, अपितु अन्योन्यं राज्ञः पुरुषः, यदिवा तस्य राजेति । केवलं तद्भावगमने संवित्स्पर्शः एषामुपायमात्रत्वेन अङ्गीक्रियते कनकपृषतमेलने अग्निरिव स्वरूप- मलुम्पन्नेव । तादृशेन ऐक्येन युज्यमानौ तौ तौ भावौ सम्बन्ध- बुद्धेः राज्ञः पुरुष इत्यादिकायाः पदं विषयः । सर्वत्र द्विष्ठ एव सम्बन्धो यद्यपि कथितनयेन, तथापि सम्बन्धव्यक्तीनामानन्त्य- मभिधातुं बहुवचनमिति सूत्रार्थः । ननु अमायीये पदे अभेदस्य एकरसता, मायापदे भेद एकरसः; भेदाभेदजीवितस्तु सम्बन्धः कां दशामधिशेतामित्याशङ्क्य मायादशामेव शुद्धदशा- क्षेपेणैव वर्तमानामिति दर्शयति कर्तृकर्म इत्यादिना बुद्धिः इत्यन्- तेन । अन्तःकरणप्रवृत्तेरवसरे मायाप्रमातरि उल्लसिते लोकव्यवहाराः प्रवर्तन्ते, नतु पूर्वम् । तदाहि संसारिप्रमाता अनभिव्यक्तः । ननु तदापि समस्तबाह्येन्द्रियकरणम्, तच्च परशुरिव च्छेदकपुरुषसं- सर्गं छेद्यसम्पर्केऽपि प्रमातृसंसर्गं प्रमेयसंसर्गं च न उज्झत्येव,-इति बहिरपेक्षया भेदोऽन्तरपेक्षया च अभेदोऽस्त्येवेति भेदाभेदात्मसम्बन्धमयो व्यवहारः कस्मादनभिव्यक्तोऽभिधी- यते,-इति चोद्यमनूद्य परिहरति
(पगे ५३)
तावती इति । सा हि पशोरपि सदाशिवेश्वरदशेति प्रतिपादितमेव । तस्यां च अभेद एव विश्रमो भेदांशस्य आच्छादनात् । ननु मायाप्रमातरि अभिव्यक्ते भेद एव एकरसः,-इति पुनरपि कथङ्कारं भेदाभेदमया व्यवहाराः । एतदपि परिहरति मुख्य इति । प्रकाशमयत्वं हि न भावात् कदाचित् विचलति । प्रकाशश्च तदा देहादिसङ्कोचाभासभागी अपि स्वरूपादप्रच्युत एव । यदजडप्रमातृसिद्धिः
तदात्मनैव तस्य स्यात् कथं प्राणेन यन्त्रणा । (श्लो २१)
इति । ततो मायीये स्थितेऽपि भेदे प्रकाशमहिम्ना न अभेदो विच्यवते ।
एकैक इति एक एव असौ मायाप्रमातुर्व्यापारो येन सम्बन्धरूपं तत् भावद्वयं सृज्यते च प्रकाश्यते च विमृश्यते च । विभिन्नम् इति पूर्वस्या असम्बन्धावस्थाया विलक्षणमित्यर्थः । अत एव विकल्प- व्यापारेण प्रमातृसम्बन्धिना उल्लासितत्वादन्तःकरणगम्यत्वेन असाधारणत्वात् प्रमातृभेदेन भावस्य सम्बन्धवैचित्र्ये सम्बन्धा-वस्था च भवन्ती न दुष्यति । क्वचन आभासांशे हि परमेशः कदाचि-दामिश्रयति प्रमातॄन्, अन्यांश्च वियोजयति,-इति उक्तं बहुशः । ननु भेदाभेदमयत्वमेव सम्बन्धलक्षणमिति गुणप्रधानतादिना सम्बन्धिनोर्वैचित्र्यं कुतः, कुतश्च सामानाधिकरण्यादिभेदेन षष्ठी, दण्डकपठितभेदसम्भारेण च सम्बन्धवैचित्र्यम्,-इत्या-शङ्कां पराकरोति तच्च इति । न खलु एकरसतयैव आभासानां संयोजनमिति हि उक्तम् । ननु मानसे विकल्पेऽबाह्ये बाह्यं रूपं न स्फुरत्येवेति शङ्कां परिहर्तुं स्वदर्शनं स्मारयति मनसापि इति । अत एव इति यदुक्तं बहिरन्तश्च इति ततो हेतोरिदमवतिष्ठते इत्यर्थः । परिहृतविरुद्धधर्म इति यदुक्तं, तदेव स्पष्टयति बाह्यान्तरतया
(पगे ५४)
इति । ननु एवं भिन्नविषयतया कामं विरोधः परिहृतो बहिर्भिन्नम् अन्तरभिन्नमिति, इयता तु एकस्य एतद्रूपमिति न सिद्धं बाह्यान्तरत्वेन आभासयोर्भेदात् । एतदपि प्रतिसमाधत्ते विमर्शबलादेव इति ॥ ४ ॥
अथ सम्बन्धानुग्रहादैक्यानैक्यमयत्वेऽपि यथा वैलक्षण्यं जात्याद्यवभासानां, तथा भेदान्तरमभिधातुं प्रक्रमते
जातिद्रव्यावभासानां बहिरप्येकरूपताम् । व्यक्त्येकदेशभेदं चाप्यालम्बन्ते विकल्पनाः ॥ ५ ॥
जात्यवभासानामाभासपरमार्थानां जातीनां या ग्राहिका विमर्शिकाश्च कल्पना विकल्पबुद्धयः, ता न केवलमन्तरेव ऐक्यं बहिश्च अनैक्यमेव विषययन्ति; यावत् बहिरपि एकगोत्वानुगमा- दैक्यमेकप्रातिपदिकप्रयोगप्रयोजनं बहुवचनप्रयोगोपयोगिनं च आश्रयभूतव्यक्तिपरिग्रहावश्यम्भाविनं व्यक्तिगतं भेदमालम्- बन्ते प्रकाशयन्ति विमृशन्ति च इमा गाव इति बहिर्मुखतयैव अभेदस्य विशेषणतया भेदस्य च विशेष्यत्वेन उपरञ्जनीयतया प्रतीतेः । एवं द्रव्यावभासानां कल्पना बहिरपि एकतामवयवभेदं च आलम्बन्ते घट इति निःसन्धिबन्धनतया एकस्य वैतत्येन च अनेकावयवस्य प्रति-पत्तिर्यतः । आभाससारतया च चित्रसंवेदनवत् न विरोधः कश्चित् रक्तारक्तादिभेदेऽपि,-इति सूत्रार्थः । एनमवतारयति सम्बन्ध इति । ननु चाक्षुषे मा नाम आभासान्तराणि आभासिषत, देशकालाभासौ तु इह अधुनेति कथं व्यपगच्छतः । इत्थमित्याह यदा इति सामान्येन देशकालानवधानेन च यदा प्रकाशः । पशोरपि घननिद्रामूर्-च्छामदानन्तरप्रथमप्रबोधाद्यवसरेषु तदा वस्तुमात्रावभासः । स्वरूपभेदं हि युक्त्वा न तत्र अपरो भेदः प्रतिभाति । स्वरूपं च आभासमात्रमेव ।
(पगे ५५)
स इति गोमात्रावभासश्चाक्षुषः, चाक्षुषे इति सप्तम्या पाठे व्यवहारे इति मन्तव्यम् । प्रथमापाठस्तु स्पष्टः । स इति यः सामान्य- स्य लक्षणत्वेन उक्तः समानानां भावः । तदापि इति न एकाभासे, नापि अनेकाभास इत्यर्थः । सम्पद्यते इति काणाददर्शनेऽपीति मन्यते ।
तथा च हेतुः अयुत इत्यादि । तथाहि तत्रभवान्
आत्मान्तरस्य येनात्मा तदात्मेवावभासते । (वा। प। ३।३।९)
इति । अत एव इति यदुक्तं-एकानेकरूपता ईदृशी चाक्षुषे न अवभाति-इति विस्तरेण, ततो हेतोरित्यर्थः । स्यात् इति युक्त्या सम्भाव्यते तावत् सन्निहित- वस्त्ववभासितत्वात् चाक्षुषस्य सामान्यावयव्यादेश्च सर्वसाधा- रणतया स्पष्टस्य तदापि सन्निधानात् । यदाह कणव्रतमुनिः
रूपिद्रव्यसमवायाच्चाक्षुषाणि सामान्यानि । (४।१।११)
इति । अनभिव्यक्तेः इति भेदात्मकरूपलक्षणप्राधान्येनैव प्रतीतिविश्र-मणादित्यर्थः । चैत्र इति । यद्यपि घटादिकमपि अवयविसम्मतमेव तथाच वक्ष्यति तिलस्यान्यतस्तिलात् इत्यादि, तथापि अयमहमेतावत् गच्छामि तिष्ठामि वेति एकतापरामर्शस्य न कथञ्चित् जीवशरीरे व्यभिचारोऽस्ति,-इति दर्शयितुमेवमुक्तम् । घटो हि गृहरथग्रामसेनादि-वत् समुदायस्वभावोऽपि एकार्थक्रियाकारी स्यादिति भवेदपि सम्भाव-ना । बालाद्यवस्था इति । न अत्र अवस्थानामैक्यानुसन्धानं विवक्षितं तस्य अवयविबुद्धावप्रयोजकत्वात्, अपितु एतावानहमयमद्य पूर्वरूपादेतावता भिन्नवैतत्यो निःसन्धिबन्ध इतीयति अत्र तात्पर्यम् ।
अत एव भेदितैरवयविरूपैराविष्ट एक इति उक्तम्, एवं प्रमेयस्य रूपसौन्दर्यमेवम्भूतं यत् कल्पनाबुद्धौ, तदवभास इति
(पगे ५६)
उक्तम् । अधुना तु प्रमातृस्वरूपपर्यालोचनातोऽपि एवमेव युज्यते इति दर्शयति पक्षान्तरं परिगृह्णन्न् अथवा इति प्रमाता च इति मायोचितः । सम्बन्धमुखप्रेक्षि च सर्वेषां जात्याद्याभासानां रूपमिति व्यापकमुखेन अपि व्याप्यस्य इत्थमेव युक्तमिति तृतीयं प्रकारं दर्शयति समुच्चयद्वारेण सम्बन्धादीनां च इति ।
तत्प्रसङ्गादपि इति एकप्रघट्टकत्वेन एकरसत्वात् । सम्बन्धवदेव अत्र युक्तं कल्पनाविषयत्वम् । सम्बन्धस्य च व्यापकत्वात् व्याप्यस्य तदेव रूपं प्रसज्यते इत्यपि मन्तव्यम् । ननु एकवचने तर्हि सामान्यमेकमेव अवमृष्टं, न स्वलक्षणभेद इति तत्र न स्यात् समानानां भाव इत्येवंरूपस्य सामान्यस्य प्रतीतिः । अत्र उच्यते यत्रापि इति स्वलक्षणा-संस्पर्शे हि का सङ्गतिरानयेत्यादेः । ननु न बहूनि स्वलक्षणानि स्फुरन्ति प्रतिपत्तुः प्रयोक्तुर्वा अत्र इमा गाव इत्यादाविव बहुत्वस्य अप्रतीतेः । एतदाह यद्यपि इति । अत्र समाधिः तथापि इति । छायापि इति सामान्यमात्रमेव शुद्धमिति । किं तर्हि परिस्फुरति । आह एषाम् इति गोव्यक्तीनामेकतमा व्यक्तिर्या हृदये परिवर्तमाना कृष्णा च आनतशृङ्गा च उत्थिता च अन्यादृशी वा यथा यथा सैव परिस्फुरति अत्र प्रयोक्तुरन्यस्य च न सा स्फुरन्ती सैवेति नियमेन प्रोक्ता प्रकाशते, अपितु तत्प्रमुखीकारदृशा, सा यथेति सापीति सैवेत्यभावरूपा चेति अमुना रूपेण अनियतमेव तत् वस्तु भातं भवति अनियतत्वादेव स्वलक्षणेभ्यो विलक्षणमपि तानि स्वलक्षणानि अभेदेन स्वीकुर्वाणम् । अनियतत्वे युक्त्यन्तरमपि आह अतश्च इति । यदि नामपदमव्युत्पन्नमिदं तम———–वा, तदा एकतममिति वा पाठः । अथ एकाच्च प्राचाम् (पा। सू। ५।३।९४) इति डतमजयं,
(पगे ५७)
तदा डतरादिपाठादड्डादेशे एकतमदिति । प्रतिपत्ता इति प्रयोक्ता प्रति-पत्ता च अत्र विवक्षितः । प्रतीतानुष्ठातृता प्रयोक्तरि, प्रतीतप्रतिपाद-कता प्रतिपत्तरि, प्रतीता आनेतृता । एतदुक्तं भवति- प्रयोक्त्रा कृष्ण-च्छायोपक्रमे गवि हृदयस्थे यदा शब्दप्रयोगः कृतः, तदा शुक्ल-च्छायमपि पुरस्कृत्य प्रतिपत्ता गां प्रतिपत्तुः कपिलवर्णमपि यदि आनयति, तदुभावपि कृतिमानिनौ भवत एव । तत् यदि अनियमो न स्यात्, कथमित्थमुपपद्यते । अनियमाच्च अशेषस्वलक्षणप्रतिपत्तिरयत्नसिद्धा । यत्र इति रथप्रतिभासे ।
अनन्तरमेव इति राजपुरुषादिसम्बन्धन्यायेन । संयोगेन इति असमवायिकारणतया निर्भासमानेन संयोगाभ्यां संयोगैर्वेत्यर्थः । कार्यद्रव्यम् इति यस्य न केवलमान्तरमेव एकत्वं द्वितीयमपितु बाह्यम् । एतदेव स्फुटयति यस्य इति । एतद्वैलक्ष- ण्यं तु रथादौ दर्शयति रथादिषु हि इति । संयोगोऽपि अन्तर् इति ।
एवंहि तत्र प्रतिपत्तिः-अहो सुश्लिष्टमिदं, सुयोजितमिदं सुघटितमिदं चर्मणा सह काष्ठलोहमृदादि-इति, नतु घटे एष प्रतिभासः-कपा-लानि इमानि योजितानि भान्ति-इति । ननु घटचैत्रादिप्रकाशेऽपि कपालपा-ण्यादिकमेव प्रतिभाति, तच्च एवं येन दिग्भेदभिन्नवस्तुग्रहणकृ-त्यं वैतत्यं निर्भासते । अत्र आह चैत्र इत्यादि । न अस्माभिरवयवप्र-काशोऽपह्नुतः, अपितु एकघननिःसन्धिबन्धोऽवयविप्रकाशो भवन्नेव अवयवप्रकाशाक्षेपेण भवति,-इति ब्रूमः । ननु त एव अवयवा एकार्थक्रियाकरणोपाधिभेदात् रथादिवदेकतया निर्भान्तु, किमन्येन एकेन अवयविना कल्पितेनेत्याशङ्क्य एकप्रतिभासोऽत्र अनपह्नवनीय इति दर्शयति यदिच इति । अत्यन्त इति । अनेन दृष्टसजातीयतया
(पगे ५८)
तत्रापि ऐक्याभास इति वचनावकाशं व्युदस्यति । एकदेशमात्रकम् इति दाक्षिणात्यो हि न करभस्य ग्रीवामात्रं स्मरति । स इति एकदेशः ।
प्रथेत इति प्रत्यक्षे । प्रत्युत इति । वैतत्यावभासो यः परेण अवयव- मात्रमत्र प्रकाश इत्यत्र हेतूकृतः, तेन प्रत्युत अवयविनोऽपि प्रकाश आक्षिप्तः । विततं हि भासमानमेकभवभासते । यत्रतु बहुषु घटेषु वैतत्यप्रतीतिः, तत्र भ्रम एव एकत्वाक्षेपेण यतो विततता भाति । तदयं विरुद्धो हेतुरिति । बाह्यवादेऽपि इति शुद्धे काणाददर्शने एवं, किं पुनरस्मद्दर्शने इति यावत् । अत्र बाह्यवादशब्दमाकर्ण्य स्वं पक्षमुद्ग्राहयन् पूर्वपक्षित्वेन शङ्क्यते अथ इत्यादिना स्यादिति इत्यन्तेन । असम्भवम् इत्यादिना नच परिसमाप्त्यवधिरस्ति इति समाधी-यते । तदाऽपिवा इत्येतत् अत्यन्तादृष्टपूर्वम् इत्यस्य समाधानम् । तावत्परमाणुपुञ्जात्मा करभो हि दाक्षिणात्यस्य विस्मयस्वभावं सुखं, बालकस्य वा त्रासस्वभावं दुःखं जनयेत् । तदर्थक्रियो-पाधिबलादेव एकत्वमौपाधिकम् ।
स्वपक्षमुपसंहरति सर्वथा इति । ननु निविडता स्थूलत्वं च यत् भाति, तत् परमाणुषु नास्ति तावत्; तदेतत् कुत्रत्यं भातु । अत्र आह अनेकस्य इति अङ्गुलिपञ्चकं हि युगपत् गृह्य-माणम् एककप्रतिभासविलक्षणस्थूलरूपतया भाति अन्तरालस्य च असत्त्वादेववा प्रतिभानं नीलरूपमध्ये शुक्लादेरिव सत एववा रसादेरिव अतदिन्द्रियवेद्यत्वात् । तदन्तरालस्य अप्रतिभानादेव इदमेकघनमिति प्रतिभासो
———————–दूरादेकघनं वनम् ।
इतिवत् । अनेकस्य युगपद्ग्रहणे अन्तरालस्य च अग्रहणे एवमेव प्रतिभास उपपद्यते औचित्यात् स्थूलमेकघनमिति, नतु अन्यथा ।
(पगे ५९)
ततः प्रतिभासे सति बाह्यस्य अयं धर्मो भाति, प्रतिभासस्यैववा साकारसंवेदनवादे ज्ञानाकारलक्षणस्य एष धर्मो, न बाह्यस्य,
-इति तथाभासोऽयमवयविप्रकाश इति न युक्तं गदितुम् । एवं प्रत्यक्षं प्रमाणं यत् परेण दर्शितमवयविसिद्धौ
सर्वाग्रहणमवयव्यसिद्धेः । (न्या। २।१।३४)
इति सूत्रेण, तत् निराकृतम् । अथ
धारणाकर्षणोपपत्तेश्च । (न्या। २।१।३५)
इति यदनुमानमुक्तं, तदपि निराकरोति हेतुमन्यथासिद्धीकुर्वन् परमाणुसञ्चय इत्यादिना । स्वभाववैचित्र्यात् इति, घटादीनां ये परमाणवस्तेषां स्वहेतुबलेन तत्सत्तानुरूपानुबन्धितया उत्पादात्, घटादीनां च ये भोक्तारस्तत्कर्माणि तत्र अधिपतिप्रत्ययः ।
वाशब्दः समुच्चये । एतच्च अवयविवादिनापि संयोगानामसमवायि- कारणानां परिरक्षणाय पवनसंयोगादिसम्भाव्यमानोदयवि- भागारम्भककर्मानुत्पादे निदानमवश्योपेतमिति । एवं प्रसाध- कं प्रमाणं पराकृत्य बाधकमवयविनि दर्शयति एक इत्यादि । एष स्वरूपागतो बाधकः । धारणगुणपूर्वप्रक्रमधर्ममुखेन अपि तमाह द्व्यणुकादि इति । तथैव तन्तुगतानि रूपाणि पटगतं च रूप- मिति परेण गृह्यमाणे रूपवत्त्व————————-च स्वकार्यापातम- धिकं विदध्युरिति तत्तत्तुलावमानात् पटे अधिकाधिकं तुलाया नमनं भवेदिति । अत्र पूर्वपक्षे प्रतिविधानमुच्यते । तत्र सङ्क्षेपेण तावत् सर्वमेतदयुक्तीकरोति स्यात् इत्यादिना अर्थाः इत्यन्तेन । एष दोषः इति साधकाभावबाधकसद्भावरूपः । अथ एतदेव स्फुटयति एवञ्च इति अस्मिन् सङ्क्षेपे स्थिते इत्यर्थः । परेण च परमाणूनां समूह एव इत्थं भाति,-इति यदुक्तं, तत्र समूहप्रतिभासे
(पगे ६०)
प्रसिद्धं यत् विभक्तावभासत्वमन्तरालाग्रहणोत्थापितसंयोगं नाम सहकृतादेव व्यापकत्वादेकरसभेदोद्भिद्यमानं व्यापकं, तत् दर्शयति राशि इति । तदनुपलब्धिं प्रकृते घटयति योऽयं चैत्राव-भासः इत्यादिना । ननु यदि एक एव, कथं तर्हि उक्तं- एकानेकात्मा अवयवीति । एतदाह विभागानवभासात् पुनर् इत्यादि ।
अत्र उत्तरं तथापि इति । तत् इति पाण्यादीनां पृथक् योऽनेकत्वावभासः, तं व्यभि-चरति यो वैतत्यावभासस्तद्रूपो यतश्चैत्रावभासः; तस्मादेकानेक-त्वम् । तत एव उक्तं - वैतत्यमवभासमानं सति एव वास्तवे एकत्वे भाति-विततोऽयमेकः पट इति । विततं वनमित्यादौ तु आधारभूत- धरणीगोलकगतादेकत्वादेवमवभासः । एतदेव स्फुटयति चैत्रे हि इति । तस्यैव इति अवयविगतस्य । एकावयविव्याप्ततया एव भान्तस्ते अवयवत्वेन भाता भवन्ति, इतरथा तु स्वतन्त्रा एव अयोगोलकनिकरकल्पाः कस्य अवयवतया भासेरन् । एतत् सङ्क्षिपति अत एव विभक्त इत्यादिना । आन्तरम् इति नतु बहिः । एवं प्रत्यक्षमेव प्रमाणमवयविसिद्धौ परिशोध्य अनुमाने भरमकृत्वैव स्वरूपगतं बाधकं निरस्यति अत एव इति । तथैव इति नहि तत् रक्तं, अरक्तं वा किञ्चित् । चित्रमेव तु तदवयविनो रूपम् । अपरमपि परास्यति तुल्य इति स्वप्नमायासङ्कल्पगत इव घट- पटादिर्द्व्यणुकादिप्रक्रममनादृत्यैव उत्पद्यते इति वक्ष्यते निरुपादा- नामिच्छामात्रोपादानां वा भावसृष्टिं निरूपयता । नियतिवशात् तु तथाक्रमावभासेऽपि परमाणुष्वेव गुरुत्वमवयविनिपातकारि भवतु नित्यम्, नतु गुरुत्वमवयविनि उत्पद्यते । यदिवा सदपि गुरुत्वं तथा न उत्पन्नं येन पाताधिक्यं कुर्यात् । विचित्रा हि भावस्वभावाः । घनावस्थास्थं लवणं जलसंयोगि
(पगे ६१)
करोति तुलानतिविशेषणम्, तदेव तु द्रुतं न करोति सदपि रसातिशयोपलम्-भात् । मक्षिकासहस्रमलिकुलमपि च क्षौद्रपूर्णपात्रे न तुलामधि-कं नमयतीति । अत एव इति यतोऽवयवानाम्, अतोऽत्र बहुत्वम् । उक्तम् इति यदुपक्रान्तम् एकानेकाश्रयाः इति, तदिह सूत्रे निर्णीतं प्रागेवेत्यर्थः । विवृतम् इति वृत्तौ ॥ ५ ॥
क्रियाकारकसम्बन्धेऽपि भेदाभेदौ विमृश्येते सूत्रेण, तत्प्रसङ्गेन च दिगादिस्वरूपं
क्रियाविमर्शविषयः कारकाणां समन्वयः । अवध्यवधिमद्भावान्वयालम्बा दिगादिधीः ॥ ६ ॥
अनन्यत्रभावलक्षणा निमित्तता अत्र विषयार्थः । वृत्तिग्रन्थेऽपि एवम् । कारकम् इति द्रव्यं शक्तिश्च । तदियं योजना-शक्त्याधारा- णां द्रव्याणां यः समन्वयः, स संश्लेषकजतुस्थानीयक्रिया- परामर्शनिमित्तको यथा प्रमाणप्रमेययोः प्रमानिमित्तकः; प्रमा च प्रमातृविश्रान्तता,-इति कर्तरि चिद्रूपे यदभेदगमनं भिन्नाना- मपि कारकाणां, स एव समन्वयः । एवं काष्ठस्थाल्यादीनां पक्तरि वाच्यम् । एवं कारकशक्तीनामपि समन्वयः कर्तृविश्रान्तिपर्- यन्त एव क्रियामुखेन तदुल्लासात् क्रियायाश्च कर्तरि विश्रमणात् । एवं क्रियायाः स्वलक्षणापेक्षया आदिकारकापेक्षया च यो भेदो, यश्च एककर्तृविश्रान्त्या फलैक्येन च अभेदः; स एव समस्तसम्बन्धजीवित- भूतः । अस्मादिदं परमपरमिति च या दिक्कालबुद्धिः, सापि अवधिम- वधिमन्तं भिन्नमेव सन्तमन्तरभेदपुर्वकं भेदावमर्शन- मध्यमभेदपर्यन्ततया मेलयन्ती सम्बन्धरूपत्वप्रधानैव ।
तत्रापिच चेतनस्य या परामर्शक्रिया, सैव विजृम्भते इति क्रियाशक्तेर्भगवत्या अयं सर्वः
(पगे ६२)
स्फार इति तात्पर्यमिति सूत्रार्थः । ग्रहणकसूत्रं
क्रियासम्बन्ध———————————–। (२।२।१)
इत्यादि । तत्र क्रियाया एव तावत् भेदाभेदौ कारकमुखेन उपपादयन् भेदं तावदाह कारकाणाम् इत्यादिना । तद्रूपोपरागावेशेन च क्रिया भाता,-इति भेदरूपत्वमस्याः । तथा आह कारकवार्तिके
भिन्नं पचेः स्वरूपं कारकभेदेन तद्बुद्धेः ।
इति क्रियाबुद्धेः । अथ अभेदमपि आह पचतीति च इति चकारेण भेदेन सह अभेदं समुच्चिनोति । पचति-इति अमुत्र परामर्शे क्रियाबुद्धेरभिन्नविष-यता, यत एतद्रूपः पाकस्वातन्त्र्यमयो यः कर्ता, तदेकाविष्टतया सा क्रिया तया बुद्ध्या विषयीक्रियते । तस्य च कर्तुरेकरूपत्वं परमार्थः । एतदुक्तं भवति-काष्ठैः स्थाल्यामोदनं चैत्रः पचतीति वाक्य-गम्योऽर्थः, सा तत्त्वतः क्रिया, तत एव आख्यातशब्दो वाक्यमिति उच्यते अत्रभवता । तत्र च काष्ठगतं ज्वलनादि, स्थालीगतं सन्तपनादि, तण्डुलगतं विचटनादि च यत्; तत् पाकरूपमित्येवं भेदेन आमर्शे स्फुरत्यपि चैत्रचेतनस्वातन्त्र्यविश्रान्त्यामभेद एव पर्यवस्यति । एतत्- प्रमेयमुपसंहरति क्रियामतिरपि इति । न केवलं सम्बन्धधीरनेक- विषया,-इति अपिः । ननु पूर्वमेव उक्तमेतत्
सक्रमत्वं च लौकिक्याः क्रियायाः—————। (२।१।२)
इति । सत्यम्, इदं तु अन्यथा भेदस्य निरूपणम् । तदाह न केवलम् इति ।
कर्त्रैक्याच्च इति न केवलं फलैक्यादिति यावत् । एवं क्रियामेकानेक- रूपामुपपाद्य वृत्तिग्रन्थस्य मतिः इत्यन्तस्य तद्व्याख्यातस्य श्लोकार्धस्य च प्रकृतमर्थं तात्पर्येण व्याचष्टे तत्र इति वृत्तिग्रन्थे श्लोकार्धे च । कारकताबुद्धिरपि
(पगे ६३)
या, सा भिन्नानामपि कारकद्रव्याणां भवन्ती एकविषया अपि अनेक- विषया कारकतायां बुद्धिरित्येतदत्र उक्तम् । क्रियाकारकताभावप्रति- पत्तेः शेषसम्बन्धप्रतिपत्तेश्च एकानेकविषयतायां तुल्यायां वैलक्षण्यमाह राज्ञः इति प्रतिपत्तुरित्यर्थः । ननु शेषसम्बन्धेऽपि क्रियाकारकपूर्वकत्वमुक्तम्,-इत्याशङ्क्य आह अत्रापि वा इति नतु तस्य पृथक्परामृश्यतेति भावः । दिग्देशकाला विमृश्यमाना आन्तरमेक-त्वमाश्रयन्ते यतः प्राग्व्याख्यातया सम्बन्धप्रतीत्या विषयीक्रियन्ते । ते हि द्वितीयसम्बन्ध्यपेक्षया पूर्वापरत्वेन व्यवतिष्ठन्ते । एतदेव उदाहरणेन दर्शयति एषोऽसौ इत्यादिना, मध्यमदूरनिकटावमर्शो-ऽयं क्रमेण । कालोऽपि इत्यादि कालोदाहरणम् । अधुना इति पृथक्काल-परामर्शः, अयमिति तु भावगतावस्थानक्रियया एकशीलस्य वर्तमा-नस्य, स इति अतीतानागतयोः । उभयत्रापिच विमृश्यमानः इति हेतुशान-जन्तं सम्बन्धनीयम् । एवं यतो देशः कालश्च विमृश्यते, ततः सर्वथा एते दिगादयो विमृश्यमानपूर्वापररूपत्वेन व्यवतिष्ठन्ते, ततो बहिर्भिन्नविषया आन्तरमभेदमाश्रयन्ते इति सङ्गतिः । अनुक्तमपि इति सूत्रे । ननु एवं भेदाभेदमयत्वं सर्वत्र तुल्यमिति साङ्ख्यादी- नां को भेदः,-इत्याशङ्कां शमयितुं न एकरसतयैव सर्वत्र आभासानां प्रमातृविश्रमगमनम्, अपितु प्रमातुः स्वातन्त्र्यादनन्-तकल्पेन वैचित्र्येण,-इति दर्शंयति सङ्ख्याति इति ।
सङ्ख्यायमान एव अर्थः सङ्ख्या परस्परव्यवच्छेदने यदा प्रतीयते, नच व्यावृत्ति-मात्ररूपतया नीलानीलवत्, अपितु परस्परापेक्षया, नच तयैव केवलया इतरेतरयोगप्रतीतिवत्, अपितु परस्परव्यवच्छेदकत्वेनेति ।
(पगे ६४)
एतदुक्तं भवति-इह भावाभासे यदा आभासान्तरशङ्काशमनं कर्त्वव्यं भवति, तदा आभासान्तरेण निराक्रियमाणेन अवच्छिद्य- मानो भाव एक इति उच्यते । तत एव एकवचनात् शब्दसंस्कारमात्रेण अपि चरितार्थीकर्तुं शक्यादेकशब्देन अभिधाने विशेषः प्रतीयते-एकः शिवः शरणम् अस्माकमिति । एवमर्थान्तरावच्छेदेनैव इदमर्थान्तर-मिह कार्य इति द्वित्वसङ्ख्या । तत एव द्वावेव पुरुषाविति प्रयोगः । तत्र हि न अन्यः प्रवेशं लभते इति प्रतिपत्तिः । द्वावपूपौ तु उक्ताविति अन्या-प्रवेशः कथञ्चिदपि न तत्परिवर्जनं तेन विना न अन्यस्य तत्क्रियोपयोग इत्येवमाभासान् मेलयति प्रमाता । एवं त्रय इत्यादौ परार्धान्ते पर-स्परावच्छेदेन तदुपयोगो बहुशाखो मन्तव्यः । तत्र च आश्चर्यानाश्- चर्यहर्षविषादाद्यर्थक्रियासहस्रसम्भेदः । तत एव सम्यगिति प्राधान्येन चेत् भावस्य आख्यानं, तदवश्यमागच्छति स्वरूपस्य आभासान्तरेण अपेक्ष्यमाणेन अनपेक्ष्यमाणेन वा च्छेदः । तत उच्यते
न विना सङ्ख्यया कश्चित् सत्त्वभूतोऽर्थ उच्यते ।
इति । तत्र तु प्रातिपदिकार्थस्य सङ्ख्याभास उपसर्जनभावं प्रतिपद्य-ते । विभक्त्यर्थस्य हि स्वभावोऽयं-यत् प्रातिपदिकार्थे गुणीभावः । तत एकादिशब्दैः परस्परावच्छेदाभासः प्राधान्येन अवमृश्यते । तेन च वस्तुरूपमेव सङ्ख्यातद्विभेदात्मकम् । सङ्ख्या तु भेदगणनात्मिकेति उच्यते ।
परिमाणमपि इति
अणु महत् ह्रस्वं दीर्घं च ।
इति यत् परिमाणं काणादानां प्रसिद्धम्, तत्र ह्रस्वं दीर्घं चेति अदस्तावत्
आयामस्तु प्रमाणं स्यात्———————–।
(पगे ६५)
इति प्रमाणलक्षणापन्नम् । प्रमाणं च नाम परिच्छिन्नवस्त्वन्तरा- पेक्षमिति चतुर्विंशत्यङ्गुलतया प्रसिद्धो यो हस्ताभासः, तेन यः समीकरणाभासः, न बहिः संयोगमात्रं; तत् । अत एव आह परिमाण-मपि अन्तरैक्यभागेव परिमेयस्य वस्त्रस्य अपेक्ष्यमाणेन हस्तेन समन्वयगमनात् इति दिष्ट्य (यष्ट्यु)पादानं ह्रस्वदीर्घविभागोत्था-पनार्थम् । अणु, महदिति तु यदुच्यते, तत्र अणुत्वं यदि अभागतामात्रम्, तत् गुणकर्मादीनामभागानां स्यात् । अथ द्रव्यस्य अभावत्वमणु-त्वं, तदाकाशस्य अपि स्यात् ।
तस्मादतिसूक्ष्मतया प्रसिद्धेन सर्षपक-वाटपिटिकपेटकेभ्यो लघीयस्तममेव यत् परितः परिच्छेदयोग्यत्वं, तदेव अणुत्वं, अन्यत् महत्त्वमिति । तदेतत्
———————–परिमाणं तु सर्वतः ।
इत्यनेन गृहीतम् । तदाह प्रस्थः कुडवः इति परिमेयस्य तिलादेरपेक्ष्य-माणेन काष्ठसमुद्गकप्रायेण सर्वत्र सम्मीकरणाभासलक्षणं यत् परिमाणं, नतु संयोगमात्रम्; तदपि अन्तरैक्यभागेवेति । यत्तु उन्मानं नाम ऊर्ध्वमानमिति लक्षितम्, तत् काणादैर्गुरुत्वमेव पतनकर्मकारि उक्तम्; नतु तथा न भवति गुरुत्वमात्रे मानव्यवहारा-भावात्, अपितु प्रसिद्धं यत् प्रतिवर्तकादिगुरुत्वं; तत्समीकरणमेव उन्मानं युक्तमिति वैयाकरणाः । तथाच मानता नाम त्रितये समाना; प्रकृष्टेति, परित इति, ऊर्ध्वतया वा मानोऽत्र मानरूपतयेति विशेषः । एतदेवच युक्तमित्याह माषको रक्तिका इति । परिमेयस्य कनकादेरपेक्ष्यमाणेन प्रतिवर्तकेन गुरुत्वसमीकरणाभासलक्षण-मिति परिमाणमन्तरैक्यभागेव व्यवहारे क्रयविक्रयादौ प्रकर्षा- पकर्षाभ्यामेव परिमाणमुपयुज्यते इति सन्धानेन द्वे द्वे निदर्शने लिखिते । पृथक्त्वमपि भेदग्रहणपूर्वकमन्तःशङ्क्यमानाभेद- मध्यं भेदाभासरूपम् ।
(पगे ६६)
तदेव सङ्ख्यावच्छिन्नमेकपृथक्त्वादिपरार्धपृथक्त्वान्तम् । संयो- गोऽपि अश्लिष्टरूपयोः श्लिष्टताभासः, विभागोऽपि श्लेषाभासपूर्- वको नेति य आभासः, यतो विविक्तता भासते; स एव परत्वापरत्वे दिक्काल-व्याख्यानेन व्याख्यायते । अन्यदपि यदत्र ससङ्गृहीतमन्यापेक्षं भाति, तत् यथा-इतरेतरयोगो द्वन्द्वपदार्थधर्मः, समुच्चयश्चादि-शब्दावशेषश्च; तत् सर्वं सम्बन्धस्य विस्फारमात्रमिति दर्शयति धवः इत्यादिना ।
विकल्पविशेषान्वाचयप्रभृति यदपि अत्य——–न्त चादिनिपातपदार्थरूपं, यदपि समन्वयरूपमेव केवलं पाशव- सृष्टिरूपं; तत् सर्वं साधारणीभावनियमादित्याशयेन काणादैरि-तरेतरयोगादि पृथक्पदार्थत्वे न गणितम् ।
सुखादिवदसाधारणता-यामपि युक्तमेव गणनमिति तु आचार्यो मन्यते । तत एव धर्मपदार्थ-वादिभिर्वैयाकरणैश्च एवमादि न न गणितमिति । एतत् दर्शयति किमधि-केन इत्यादिना । अत एव इति यतो भिन्नानामपि यदभेदावभासनं, तन्निष्ठा एव व्यवहाराः; ततोः हेतोः तत्र इति काणाददृशिसमवाय इष्टः । सहि अयुतसिद्धानां भवंस्तानयुतसिद्धान् पृथग् जतियोग्यता-शून्यानेकरूपतया अभेदेन अवभासनशीलान् करोति । ननु समवाय-लक्षणे सम्बन्धे भवतु अभेदविश्रान्तत्वं, युतसिद्धसम्बन्धे तु संयोगे तत् नास्ति ।
अत्रापि आह दण्डी इति । संयोगो हि दण्डपुरुषयोः समवायेन वर्तमानः संयोगेन अभिन्नौ तावाभासयन् पर्यवस्यति । ननु एवं तैः काणादैरेव यदिष्टम्, तदेव युक्तमिति किममुना दर्शनान्तरपक्षपातेन । उच्यते तेषां पुनर् इति । द्रव्यादयो हि पदार्था यदि भेदेन इष्यन्ते आभासनात्, तदा द्रव्यं द्रव्यत्वाभि- सम्बन्धादिति समवायस्य ऐक्यात् सर्वपदार्थसङ्करस्तावत् द्रव्येन उपलक्षितः समवायो
(पगे ६७)
विशेषक इत्यपि शब्दमात्रम् । तथाहि उपलक्षणमात्रं गृहकाकवत् वा स्यात्, उत्पलनीलवत् वा, स्फटिकरक्ततावत् वा । प्रथमपक्षे न कश्चित् तद्भेदादुपलक्ष्यस्य भेदः । काकचटकश्येनोपलक्षणत्रयेण क्रमात् युगपद्वा उपलक्ष्यमाणं हि गृहं तदेव । द्वितीयपक्षे विशेषणवि-शेष्यभावोऽपि अदृष्टरूपे धर्मरूपे वा समवायेनैव विवृत्त इति तस्यापि न भेदः । तृतीये दृश्यभागः समवायः सर्वरूपोपरागचित्री-कृतो यत् यदनुगृह्णीयात्, तत् सर्वं सार्वात्म्यशवलतासङ्कीर्णमव-भासयेत् समवायेषु भिन्नेषु उपगम्यमानेषु, तत्रापि समवायत्वं सामान्यं, तत्रापि समवाय इत्याद्यनवस्था । प्रमाणसिद्धभेदां-श्च भावानभेदेन समवाय आभासयति चेत्, सततभावितया भास-मानमबाधितं मुक्त्वा किमन्यत् प्रमाणमस्ति यतः सिद्धभेदा द्रव्यगुणादयो भवेयुः । अनुमानं तदस्ति,-इति चेत्, तत् तर्हि अबाधित- प्रत्यक्षबाधितत्वादननुमानमेव । अथ अभेदेन भासनं भ्रान्तं, तर्हि भ्रमोत्थापकः समवायः । ततश्च नियमेन प्रतीतिवैचित्र्यं कुतः । यच्च उच्यते तादात्म्येन इव भासनं समवायादिति, तत्रापि इवार्थः सादृश्यम्, उत्प्रेक्षा वा । सादृश्यं च कल्पितम्, अकल्पितं वा । कल्पनायां विकल्पमात्रसारत्वम्, उत्प्रेक्षायामयमेव विधिरिति अलं वस्तुचिन्तया । अकल्पितं कस्य केन साधर्म्यं घटत्वघटयोः, घटलौहित्ययोः, घटोत्क्षेपणयोश्च साधर्म्याभावात् । अथ अयमपर्यनुयोज्यः समवाय एवं करोतीति, तर्हि श्रुत्यन्तोपकल्पिता अनिर्वाच्याकारा इयमविद्या समवायवाचोयुक्त्या व्यवहृता भवेत् । अथ समवायस्य एवंविधं स्वातन्त्र्यम्, तर्हि परमेश्वर एव, तच्छक्तिर्वा अनेन नाम्ना अभिहिता,- इति अस्मद्दर्शनमेव शरणीकार्यमिति अलमवान्तरेण
(पगे ६८)
बहुना । तदेतदाह भेदाभेदादिविरोधापत्तिदूषणैः इति ॥ ६ ॥
इह सत्तासम्बन्धः सत्त्वमिति अव्याप्त्यनवस्थाव्यर्थत्वोपहतम्, अर्थक्रियेति तु व्यधिकरणं, तत्करणत्वं न सदातनम्, ज्ञानजननेन तथात्वं सदातनमित्यपि न युक्तमङ्कुर इव बीजस्य स्वज्ञाने जनित- व्याभिमते अन्वयव्यतिरेकग्रहणाभावेन कारणत्वानिश्चयादर्थ- क्रियाकरणयोग्यत्वं सत्यासत्ययोर्दुरवधारम्, अर्थक्रियान्तरेण च अनवस्था; सर्वस्य च अस्य अप्रकाशे शशशृङ्गसदृशता,-इति प्रकाश- मानतैव अनुन्मूल्यमानविमर्शा सत्त्वम् । सा च सम्बन्धादीनाम- नातङ्कैवेति स्थितेऽपि यदि दुर्ग्रहात् कश्चिदाचक्षीत-लोकस्तावदर्थ- क्रियामभिलषति, सा किमस्ति सम्बन्धादीनामिति । तस्य हृदयमाश्वासयति सूत्रेण
एवमेवार्थसिधिः स्यान्मातुरर्थक्रियार्थिनः । भेदाभेदवतार्थेन तेन न भ्रान्तिरीदृशी ॥ ७ ॥
यदि सत्यं प्रत्येषि, तत् भेदाभेदमयेन सम्बन्धेन विना न काचित् व्यवहारभूमावर्थक्रिया । यत्रापि स न संवेद्यते, तत्रापि अवश्यमन्तःस्फुरन्नेव आस्ते । तथाहि सुखादि अर्थयमान एवमर्थयेत यदि तत् जानीयात् । एवञ्च जानीयात्, यदि तदेव तत् स्यात् तथापिच अनर्थ-नीयं भवेत् तस्य निष्पादात् । अत इदमापतितमनतिलङ्घनीयम्-यत् तदतद्रूपयोर्भेदाभेदमयता सम्बन्धसामान्यादिरूपेति । एतच्च यदि असत्यं, किमिदानीं सत्यमुच्यते । तेन योऽत्र भ्रान्तिव्यवहारं करोति, स एव परं भ्रान्तः । तत् ग्रहणकसूत्रितौ स्थिरत्वोपयोगौ युक्तावेवेति सूत्रार्थः ।
एनमवतारयति प्रतिभासानामेव इति प्रकाशमानतैव सत्तेति यावत् ।
बहिष्करणं बाह्येन्द्रियम् । तदपिचेति एकमभिलष्यतां
(पगे ६९)
स्मर्यमाणाकारतया आह, अपरं तु यदित्यनेन सङ्गतम् । मायीयम् इति भेद एव अत्र परमसत्य इति यावत् । स वा इति । अस्यां व्याख्यायां भावस्य अर्थक्रियां कुर्वत एकानेकरूपतास्वीकरणमितिकर्तव्यता,- इत्येवम्भूत उपयोग उक्तः, स्थैर्यं तु संवादः; उत्तरव्याख्याने तु स्थैर्यं बाधकाभावः, उपयोगस्तु संवादः इति भेद इति शिवम् ॥ ७ ॥
इति श्रीमहामाहेश्वरश्रीमदाचार्याभिनवगुप्तविरचिता- यामीश्वरप्रत्यभिज्ञाविवृतिविमर्शिन्यां क्रियाधि- कारे भेदाभेदविमर्शो द्वितीयः ॥ २ ॥