०१

अथ प्रथमो विमर्शः ।

शिवममृतवपुषममृतकलाचतुष्टयतृतीयभागजुषम् । प्रणमामि भासयन्तं क्रमरहितेऽपि क्रममनेकम् ॥

एवं ज्ञानशक्तिरूपं वितत्य निर्णीय क्रियाशक्तिस्वरूपं तथैव निर्णेतव्यमिति क्रियाधिकार आरभ्यते । तत्र च श्लोकाष्टकेन

अत एव यदप्युक्तम्—————————————।

इत्यादिना

तथा विज्ञातृविज्ञेयभेदो यदवभास्यते ।

इत्यन्तेन भगवति वस्तुतोऽक्रमाया अपि क्रियायाः पशुप्रमातृगतक्र- मावभासनयोगात् सक्रमत्वमिति उपपाद्यते । तथाहि एकेन उक्तपूर्व- पक्षनिवारणम्, एकेन सक्रमत्वाक्रमत्वविवेकः, त्रयेण क्रमस्व- रूपम्, द्वयेन सक्रमत्वाक्रमत्वयोर्विषयविभागः, विषयविभागेऽपि तयोस्तत्त्वत एकत्रैव विश्रान्तिरिति श्लोकेन,-इति प्रकरणस्य अर्थः, प्रतिसूत्रं तु निरूप्यते । अधुना ज्ञानशक्तितत्त्वनिर्णयोपयोगिना न्यायेन प्रकृतं प्रमेयान्तरमपि सिद्धमधिकरणसिद्धान्तदिशा,- इति सूत्रम्

अत एव यदप्युक्तं क्रिया नैकस्य सक्रमा । एकेत्यादि प्रतिक्षिप्तं तदेकस्य समर्थनात् ॥ १ ॥

(पगे २)

अनुभवविकल्पात्मना सन्तानवृत्तीनि ज्ञानानि एव प्रकाशन्ते, नतु एषामाश्रयः कश्चित् । स्मृतिश्च संस्कारत एव सिद्धा । ज्ञानं च यदि जडं, कस्य अर्थप्रकाशता । अजडं चेत्, न अस्य देशकालयोगात् भेदाः,-इत्यात्मनः कथमन्यत् तत्,-इति पूर्वपक्षीकृतं तावत् । तत्र यदुत्तरीकृतम्-भिन्नानां संवेदनानां न व्यवहाराङ्गता, न संस्कारमात्रात् स्मृतिः, ज्ञानं च असङ्कुचितस्य एव संवेदनस्य स्वशक्तिनिर्मितज्ञेयोपरागसङ्कुचितरूपं-शक्तिरिति, धर्म इति च उच्यते,-इति । अत एव हेतुकलापात् क्रियाविषयमपि प्रतिपक्षायितं प्रतिक्षिप्तम् । न केवलं ज्ञानविषयं दूषणमिति अपिः । तथाहि यत् चोदितम्-एका क्रमिका च कथं क्रिया, आश्रयस्य च तद्योगे कथमेकस्वभावता, सम्बन्धश्च द्विष्ठादिरूप एकः कथम्,-इति, तत्र इयान् सङ्क्षेपः-एकमनेकस्वभावं कथं स्यात्,-इति । तत्र दर्पणस्य इव अनेकाभास-भेद एकतामनपबाधमानो न विरोधमावहति,-इति उक्तेर्निर्बाध- प्रत्यभिज्ञाप्रत्यक्षप्रसाधितैकभावः पदार्थ आभाससारस्तथा- भूतानेव विरुद्धानाकारान् स्वात्मनि उपगच्छन् हठादेव क्रमिकांस्तानाभासभेदानात्मनि अभिन्ने भासयन् क्रियाश्रयः,-इति युक्तमेव । सम्बन्धादेरपि अयमेव सिद्धिप्रकारः । एवमेकस्य आश्रयस्य समर्थनात् हेतोः क्रियाशक्तिचोद्यानि अपि प्रतिसमाहितानि,-इति सूत्रार्थः । सर्वत्र इति बहिरन्तश्च । इच्छन्ति इति काणादाद्याः । इह तु इति आभाससारवस्तुवादे । प्रतीतिसारो हि यदि भावः, तत् प्रतीतिमुल्लङ्घ्य भेदेन कथं शपथैरपि व्यवस्थाप्येतेति आकूतम् ॥ १ ॥

(पगे ३)

ननु क्रमिकत्वमेव क्रियायाः प्राणितम् । क्रमश्च कालानवच्छिन्ने भगवति कथं स्यात् । एतत् समाधत्ते सूत्रेण

सक्रमत्वं च लौकिक्याः क्रियायाः कालशक्तितः । घटते नतु शाश्वत्याः प्राभव्याः स्यात् प्रभोरिव ॥ २ ॥

उत्क्षिपति अवक्षिपति । हस्तमिति ये हस्तस्य पूर्वोत्तरे क्षणाः, ते तावत् क्रमवन्तः । तत्र केषाञ्चित् ते एव क्षणाः क्रिया एका विभाग- संयोगनिमित्तभूता, केषाञ्चित् तद्धस्तगतोक्तरूपभेदसम्पादिका नित्यानुमेया अपि क्रमिककार्यबलात् क्रमिका एव अनुमीयत इति लौकिक्येव भेदविश्रान्ता क्रिया सक्रमा युज्यते आभासविच्छेदोत्थापकभगवत्- स्वातन्त्र्यलक्षणया कालशक्त्या हेतुभूतया । प्रभोस्तु कालानवच्छिन्नत्वात् या क्रिया, सापि कालानवच्छिन्नैव प्रभुरिव शाश्वती सा यतः । एतदुक्तं भवति-लौकिकज्ञानव्यवहारमूल- ज्ञातृज्ञेयप्रकाशने सामर्थ्यं ज्ञानशक्तिर्देवस्य । तत्रैव संयोजनादिस्वतन्त्रतात्मा विमर्शशक्तिरेव वस्तुतः क्रिया । उक्तं च एतत्

क्रिया च परवाग्वृत्त्यादिका—————————-।

इत्यादिप्रदेशेषु । सा तु वेद्यच्छायाच्छुरणमच्छत्वादवच्छेदकम- भ्युपयती क्रमवती भाति वस्तुतोऽक्रमत्वेऽपि,-इति सूत्रार्थः । वृत्ति- विवृती स्पष्टे । कालग्रासादपि इति कालानवच्छेदात् तावदक्रमत्वं स्थितमेवेति । किमत्र उच्यते । उन्मिषितेऽपि वेद्यग्रामे मायाप्रमातृपद- मपि अध्यासीनो भगवान् यावदेव बाह्यान्तररूपं वेद्यकुलं स्वात्मनि

प्रकाशस्यात्मविश्रान्तिः—————————–।

(अ। प्र। सि। २२)

(पगे ४)

इदमित्यस्य विच्छिन्नविमर्शस्य——————-।

(अ। प्र। सि। १५)

इत्यादिनयेन ग्रसते विश्रमयति, तावत् तन्निष्ठोऽवभासनक्रमोऽपि ग्रस्त एव,-इति अहमिति या संयोजनादिचित्रितसमस्तभावप्रकाशोपसंहार- पर्यन्तदशाविशेषविमर्शलक्षणा क्रिया, सा निष्क्रमा एव ॥ २ ॥

ननु कोऽसौ कालः, यो भावानामवच्छेदक उच्यते । यो हि कैश्चित् नित्यद्रव्यविशेषात्मा उपगतः, स एकत्वात् संयोगविशेषात् चित्राकार- चिरक्षिप्रादिधीहेतुः कथम् । उपाधिबलात् तथाभिधाने ते एव उपाधयः सन्तु । किं तेन । गुणकर्मादेश्च तेन असंयुक्तस्य न कालावच्छेदो भवेत्,-इत्याशङ्क्य भगवत एव शक्तिः क्रममवभास-यन्ती कालशक्तिः । तदवभास्यश्च मायाप्रमातृलग्न एव प्रधानतया भवेन्नेतद्विषयीकरणीयभावनिष्ठः क्रम एव कालः,-इति दर्शयितुं सूत्रं

कालः सूर्यादिसञ्चारस्तत्तत्पुष्पादिजन्म वा । शीतोष्णे वाथ तल्लक्ष्यः क्रम एव स तत्त्वतः ॥ ३ ॥

नियतपरिमाणं यत् प्रतिवर्तकादि तेन, कनकं मीयते; नच अत्र अनवस्था अन्योन्याश्रयो वा । तद्वत् प्रसिद्धपरिमाणया क्रियया अर्कोदयास्तमयमय्या चैत्रगमनम् । तदुच्यते-दिवसं चैत्रो गच्छतीति । आदित्यक्रिया अपि यदा परिमित्सिता भवति, तदा प्रसिद्धाभिर्नालिकास्रुति- भिर्मीयते-त्रिंशतं नालिकाः सूर्यो दृश्यते इति । तेन यस्य यत्र यदा आभासवर्ग इयत्तया परिनिष्ठितश्चन्द्रसूर्यशीतोष्णकोकिलसम्म- दादेः, तस्य तत्र तदा स एव कालः । तेन सूर्यादिगतो यो नियतः स्वभावभेदः, स क्रमः; स एव

(पगे ५)

कालः । तेन सूर्यसञ्चारादिभिर्योऽन्यो लक्ष्यते प्रवहणधर्मा नवपुराणतादिरूपपरत्वापरत्वतद्वैचित्र्यतद्बाहुल्यादुपकल्पितयौग

-पद्येतरचिरशीघ्रताद्यसङ्कीर्णभावस्वभावोत्थापको वैशेषि- काणां द्रव्यरूपः, कापिलानां रजःस्वभावः प्रवर्तनात्मकत्वात्, वैयाकरणानां नित्यानाश्रितप्रवृत्तिस्वभावः, सौगतानां सन्तन्यमानभावैकपरमार्थः; सोऽपि वस्तुतः क्रमरूपतां न अतिक्रामतीति क्रम एव नाम बहिः कालः,-इति व्यवह्रियते । स्वप्नसङ्कल्पमायेन्द्रजालप्राये चेतनस्य आभासवर्गे क्रमस्य इयत्तानियमो हरिश्चन्द्ररजनीवृत्तान्तक्रमस्य इव । तदत्र संविच्छक्ति-रेव प्रतपति तन्निर्मितत्वादाभासचित्रतायाः ।

तदाश्रयत्वाच्च क्रमस्य यत्रापि कारणे कालाख्येति उच्यते, तत्रापि दिवसे जातो मध्याह्ने जात इति अर्कसञ्चारक्रमस्यैव कारणताप्रतीतिः सिद्धा, नतु नित्यद्रव्यात्मनः परिनिष्ठितरूपस्य कस्यचित् । द्रव्यमपि तत्प्रवहणधर्मकमेव नवपुराणतारूपपरत्वापरत्वतद्वैचित्र्योत्थापकमिति चेत्, तर्हि पुनरपि क्रमरूपता एव अस्य अनुभवानुसारेण व्यवतिष्ठते, न रूपान्तरमिति क्रम एव आभासनेऽनुप्रवेशात्मा कालः,-इति सिद्धम् ।

वक्ष्यमाणात् इति

क्रमो भेदा———————————————-(२।१।४)

इत्यादिसूत्रेषु । नालिकादि इति मुहूर्तादेः कल्पावसानपर्यन्तस्य परि- ग्रहः । ननु येन कलति क्षिपति परिच्छिनत्ति, स कालः । क्रिया परिच्छेद्या, तत् कथं सा कालः । अत्र आह विशिष्ट इति । इयत्तया प्रसिद्धत्वमनेन लक्षयता तस्यामपि परिमातुमिष्टायां नालिकास्रुत्यादिक्रियान्तरमेव काल इत्याह । अनवस्थादि च कनकप्रतिवर्तकवृत्तान्तेन कृतसमाधानमेव ।

(पगे ६)

प्राक्सिद्धध्रुवककल्प्यप्रसिद्ध्यन्तरोपजीवनेन च कालो व्यवह्रियते ।

सर्वो हि व्यवहारः प्राक्सिद्धरूपोपजीवनेनैव । तृप्तिलाभोऽपि हि पूर्वप्रसिद्धतृप्तियोगत एव । तत एव चिन्मय एव इति । सर्वे व्यवहारास्- तस्य एव पुराणत्वेन प्राक्प्रसिद्धतायामविवादात्,-इति दर्शितमेव ।

संविदेव हि प्राणनक्रियया प्राक्कालमुल्लासयेत् । महाप्रलये च ब्रह्मणि स्वपत्यपि तन्निःश्वासोच्छ्वासादिक्रियया, उत्तरविष्णुरुद्रप्र- भृतिकारणवर्गगतया च क्रियया कालव्यवहारः । भगवति तु न कालव्यवहारः कश्चित् । तच्छक्तौ तु मायायां प्रभवन्त्यामाभास- भेदश्चेदुत्थितः, तत् क्रमात्मा कालोऽपि विजृम्भत एव । ननु यदि सञ्चा-रेण गोदोहादिर्लक्ष्यते, नतु आदिग्रहणेन स्वीक्रियते; तर्हि सूत्रे किमर्थं तत् । उच्यते । अन्यग्रह इति चन्द्रादेरन्यस्य ग्रहस्य परिग्रहः ।

युक्तं च एतत्-गोदोहादिसङ्ग्रहाय चेदादिपदं स्यात्, सञ्चारादिरिति ब्रूयात् । तत् सर्वम् इति उक्तमुपलक्षितम्, आदिशब्दोपात्तं च यत् सूत्रे; तत् सङ्क्षेप-वृत्तौ वीप्सया व्याख्यातम् । नतु वाशब्दास्त्रयो वा कर्तव्याः प्रत्येक-सङ्क्रान्तविकल्प्यमानत्वधर्माभिधानाय, एक एववा विकल्प्यमान-ताया एकत्रैव उक्तायाः स्वभावमहिम्ना अनेकोपक्रान्तनिष्ठत्वप्र-तीतेः । तत् कथं द्वौ वाशब्दौ सूत्रे ।

मैवम् । आद्यो वाशब्दो द्वयोः पक्षयोर्विकल्प्यमानतामाचक्षाणस्तुल्यवृत्तान्ततामाह । तथाच प्रथमौ पक्षौ परिच्छेदक्रियोपयोगी काल इत्यनेन आशयेन स्थितौ, तृतीयस्तु कारणे कालाख्येत्यनेन आशयेन । तत्र च कारणस्य

(पगे ७)

सतोऽवच्छेदकत्वमेव कालतायामुपयुज्यते । अवच्छेदकत्वे च क्रम- रूपता एव आगच्छति,-इति वक्तुं वाशब्दः । एवञ्च अकारणरूपो वा कारणरूपो वा अस्तु कालः इति पक्षद्वयशेषता एव पर्यवस्यति,-इति वाशब्दद्वयमेव प्रयोक्तुं युक्तम् । एतदाह न केवलम् इत्यादिना ।

सिद्धरूपः क्रियात्मा, आदिपदात् स्वलक्षणस्य उपादानकारणमपि ।

एतत् इति सर्वम् । ननु स्वेच्छा अपि प्रसिद्धिमनवलम्ब्य वर्तते अवच्छेदक- कल्पनायै । सत्यम् । प्रसिद्धिरपितु न एकघना,-इत्याह प्रसिद्धेश्च इति ।

शीतादिः काल इत्यमुं पक्षं शोधयन् कारणे कालाख्या,-इति सूत्रस्य उक्तरूपमर्थं व्याचष्टे शीतादीनाम् इति । शीतादेरपि अवच्छेदकता एव कालतायामुपयुक्ता, सा च प्रवहणधर्मक्रमरूप-त्वावेशेनैवेति तद्गतः क्रम एव कालः- इत्युक्तं भवति । एतच्च इति अवच्छेदकत्वम् । एतेन सर्वेण सूत्रोक्तेन उपलक्ष्यमाणं यत्किञ्चित् कल्पितमवच्छेदकम् । स्थिररूपम् इति प्रसिद्धं व्यवहर्तॄणामेक-रूपत्वेन, सर्वत्र च क्रमस्य तादृशत्वमेव प्रवहणधर्मणः काललिङ्गाविशेषात्,-इत्येकं यत्, तदेव कालः । स च पदार्थानां प्रमेयाणां प्रतीतिमवच्छिनत्ति ।

प्रमेयं हि प्रमीयमाणमेव अन्यथा न भवति यावदासीत्, अस्ति, भविष्यति,-इत्यमुना रूपेण क्रमात्मना न अनुगृहीतम् । तेन प्रतीतिद्वारेण समस्तक्रियावच्छेद-कत्वं कालस्य,-इत्युक्तं भवति ।

स्थिररूपपदार्थ इति वा समस्तं पदम् । क्रम एव इति । क्रम एवहि विशिष्टः परत्वापरत्वलक्षणां पुरातननूतनस्थितिं दर्शयन् सन्तताभ्यां परत्वापरत्वाभ्यां चिरव्यवहारम्, अन्यथाच अचिरव्यवहारं, स्वरूपेण क्रमस्थितिं,

(पगे ८)

भावान्तरोपाश्रयेण अनेकभावपरिच्छेदेन यौगपद्यं मूर्तिकृत- दूरत्वादूरत्वरूपाभ्यां परत्वापरत्वाभ्यां सङ्कीर्यमाणतया भावेषु विदधत् कालः,-इत्युच्यते । तत्रैव च उक्तनीत्या नित्यत्वैकत्वे यदि व्यवह्रियेते, द्रव्यत्वं च स्वातन्त्र्यारोपणेन; तदा काणादमतस्य अपि न काचित् क्षतिः सत्यस्मद्दर्शनशरणभावोपगमने,-इति आकूतम् । ननु वसन्तादिः कालः प्रसिद्धः, स च कथं क्रमात्मा । इत्थमित्याह तथाहि इति ।

मीनमेषराशिसञ्चरणनिमित्ता अर्कस्य उदयादिक्रिया वर्त-माना वसन्त इत्यनुभूयते । ननु स वसन्तः कालोऽर्कस्य क्रमरूपः सहकारोद्भेदस्य कथं कालः,-इत्याशङ्क्य ब्रूते तेनैव इति ।

वाशब्देन अस्य एव पक्षस्य दार्ढ्यं द्योतयति । यथा कनकस्य स्वमेव रूपं माषक इति परिच्छिन्नमुच्यते, प्रतिवर्तकगतं तु तत्र उपलक्षणमात्रं-नतु अन्यत्रत्यमन्यत्र सङ्क्रामति-तथैव सहकाराभासस्य आन्तरत्वग्राह्यत्वबाह्यत्वाभासानां कोरकमु- कुलविकस्वरादिवैचित्र्यभाजां यो निजः क्रमः, स एव वसन्तः । स तु अर्कोदयस्तस्य उपलक्षणमात्रम् । एवं सर्वत्र मन्तव्यम् । ननु वसन्तादिशब्देभ्योऽक्रममेव सिद्धरूपं वस्तु प्रतिपत्तिपथमभ्येति, न क्रमः । अत्र उच्यते वसन्तादि इति । एतच्च

—————————-तिङ्वाच्यकर्मवत् । (१।५।१७)

इत्यत्र वितत्य उक्तम् । आख्यातपदादेव हि यथा क्रिया प्रतीयते, न अन्यतः; तद्वत् तत एव क्रियास्वरूपहृदयप्रविष्टः कालः । अभूदिति हि भावाव-भासस्य भवनक्रिया अवभासस्फुटत्वतदस्फुटत्वक्रमोपश्लिष्टा निर्भासते ।

भविष्यदादयस्तु घटादितुल्यमेव अर्थमाहुः । तत एव भविष्यत्, अभवत्, इदं वर्तमानं दिनम्,-इत्यादौ न कालस्य सङ्कीर्णता काचिदभवदित्यस्य

(पगे ९)

एव अत्र कालत्वेन उन्मेषात्, वर्तमानभविष्यच्छब्दार्थस्य सिद्धरूप- दिनविशेषणतैकविश्रान्तिसतत्त्वतया क्रियावच्छेदकत्वायोगात् । एतच्च अग्रे वितनिष्यते,-इत्यास्तां तावत् । यस्मात् क्रियाशरीरान्तरनुप्रवेश- वशोन्मिषितशरीरः क्रम एव कालः, तत् इति तस्मात् हेतोरेवमवतिष्ठते- यत् किल भावविकारषट्कक्रमपरमार्थ एव कालः । नहि भावविकाराधिका काचित् क्रिया अस्ति । यथाह तत्रभवान्

जन्मादयो विकाराः षड् भावभेदस्य योनयः । (वा। प। १।३) इति ॥ ३ ॥

ननु एवं भावानां स्वभाव एव कालः,-इत्यस्तु । ततश्च कालशक्तिर्नाम का अन्या, येन उक्तं

सक्रमत्वं च——————————। (२।१।२)

इत्यत्र कालशक्तितः इति । एतत् समाधत्ते सूत्रेण

क्रमो भेदाश्रयो भेदोऽप्याभाससदसत्त्वतः । आभाससदसत्त्वे तु चित्राभासकृतः प्रभोः ॥ ४ ॥

स्वभावभेदमात्रं चेत् कालः, अङ्गुलीनामपि कालभेदः स्यात् । तस्मादाभासनानाभासनाभ्यां यो भेदः, तथाभूतभेदनिमित्त-कः कालात्मा क्रमोः; न भेदमात्रनिमित्तकः ।

आभाससद्भावासद्-भावौ च यौ वैचित्र्येण, तौ स्वप्नसङ्कल्पनादौ क्रमोत्थापनदृष्ट-सामर्थ्यस्य प्रभविष्णोरेव सकाशात् भवतः ।

यदुक्तं तत्रभवता

एकस्यैव तु सा शक्तिर्यदेवमवभासते । (वा। प। २।२२) इति, तथा अन्यत्रापि

तमस्य लोकयन्त्रस्य सूत्रधारं प्रचक्षते । प्रतिबन्धाभ्यनुज्ञाभ्यां तेन विश्वं विभज्यते ॥

(पगे १०)

यदि न प्रतिबन्धीयात् प्रतिबन्धाच्च नोत्सृजेत् । अवस्था व्यतिकीर्येरन् पौर्यापर्यविनाकृताः ॥

इति । अनेन हि स्वातन्त्र्यमाभासनानाभासनयोर्वदता ऐश्वर्यमुक्तम् ।

स हि भगवान् चित्रतया आभासान् करोति । तत् यथा-दृढलोहितोन्नत- घटाभासान् सामानाधिकरण्येन, घटपटाभासौ सहैव पृथक्- त्वावभासेन, स्वात्मनि एकरसेन आभासेन, अन्योन्यं तु एकरसेन अनाभासेन । इयति न क्रमः कश्चित् । यदा तु वसन्ताभासं ग्रीष्माभा-सेन, इममपि तेन शून्यं समाभासयति; तदा क्रमस्य उन्मेष इत्येवं भगवत एव आभासानाभासप्रथनसमर्थता या, सैव कालशक्तिः । ततो भवन् भावोपाधिभूतः क्रमः कालः,-इति सूत्रार्थः । एनमव-तारयति क्रम इति । पर्यालोचनया इति अन्यथानुपपत्त्या क्रमस्येति आकूतम् । विचित्रम् इति आभासानाभासयुक्तं कृत्वा यत् घटपटाद्य-वभासकरणम् ।

इयमेव भगवतः कर्तुः कलनक्रिया । एतदेवच भावोपाधिभूतस्य क्रमात्मनः कालस्य आविष्क्रियमाणस्य आविष्करणसामर्थ्यम् ।

इत्यादौ इति अस्मिन् वाक्ये यत् अवभास इत्यादि शकलकं, तत् कर्तृ, तत् इति विवृतिप्रारम्भे यदुक्तं, तत् कर्मभूतमाह,-इति सङ्गतिः । अस्य इति सौत्रस्य । एकाश्रयत्वायोगात् इति क्रमोत्थापकयो-रिति मन्यते । अन्यथा घटो न आभासेत, आभासेत च,-इति किमेकाश्रयता न युज्येत इत्यनयोः भेदहेतुत्वेन च इति क्रमोत्थापकभेदनिमित्ततया । उपादानात् इति सूत्रे । भिन्नत्वम् इति क्रमं प्रति उपयोगि,-इति भावः । अत एव इति यतोऽस्मिन्

(पगे ११)

प्रकृते क्रमे द्वयमुपयोगि । उपात्ते इति वृत्तौ भिन्नावभासवैचित्र्य- शब्दाभ्यां नपुंसकैकशेषोऽत्र द्वयस्य उपयोगितां दर्शयति ।

चित्रत्वम् इति । बोधात्मनः इति चित्रज्ञानस्य । तथाच इति चित्रबोधैकत्व- भेदैकत्वयोश्च विरोधे वाग्भरमार्यवचनेन करोति । आद्यं हि पादत्रयेण अत्र उक्तम्, अन्यत् तु तुर्येण । एतत् वचः सङ्क्षेपेण व्याचष्टे नीलादीनाम् इत्यादिना । अनेन तुर्यपादो व्याख्यातः बोधः इत्यादिना शेषः । अन्योन्यापरित्यागेन परिच्छेदात् इत्यनेन

—————————-अनन्यभाक् । अशक्यदर्शनः———————-। (पा। वा। ३।२२०)

इत्यस्य प्रसङ्गस्य यत् विपरीतमभीष्टमर्थतत्त्वं, तत् व्याख्यातम् । तैरेव इति उक्तरूपैर्नीलादिभिर्ब्रह्मवादिभिर्वा एवं तावत् वदद्भिरनक्षरमक्षरमपि ब्रह्मतत्वं चित्रमङ्गीकृतं भवति । सर्वज्ञबोधस्य सार्वकालिकसार्वदेशिकभावाभावाभास- चित्रस्य स्वयञ्च बोधरूपतया देशकालानाकलितस्य अङ्गीकरणात् यैर्दूषयितुमभीष्टं, तत् तेषामेव संवित्परामर्शकुशलपरिपाक- प्रसन्नमहेश्वरप्रसादोदितावदातप्रतिभाप्रतिलम्भादेव स्फुरितमिति एवकारः । चित्रं कृत्वा या विश्वात्मभावेन भगवतः स्थितिरिदमेव कालप्रथने निमित्तम् । ननु अवभासरूपतां मुक्त्वा के परे भावा नाम, येन उक्तं भावेषु इति । तत्र आह माया इति । उभयरूपापि इति ।

अनेन इदमाह-सूत्रे वृत्तौ च उभयरूपोऽपि अयं देशकालक्रम आभासानाभासोपकृतभावभेदाश्रयत्वेन तावदुक्तः, सूत्रान्तरे च विभक्ष्यते । मया तु विवृतिकृता-क्रियाप्रसङ्गायातः कालशक्तिविचारः,-इति कालक्रमाभिप्रायेण सूत्रवृत्ती नीते इति ॥ ४ ॥

(पगे १२)

चित्राभासकृत्त्वं दर्शयति सूत्रेण

मूर्तिवैचित्र्यतो देशक्रममाभासयत्यसौ । क्रियावैचित्र्यनिर्भासात् कालक्रममपीश्वरः ॥ ५ ॥

मूर्तीनां संवेद्यरूपाणां भावानां यत् वैचित्र्यं गृहप्राङ्गणविपणिदेवकुलारामारण्यादिभेदेन, ततो हेतोस्तत् वैचित्र्य- माभासयन् परमेश्वरो देशक्रम वैतत्यावैतत्यात्मकमवभासयति । एकप्रत्यभिज्ञाबलात् तु यत् स्वरूपेण अभिन्नं हस्तादि, यद्वक्ष्यति

विमर्शैक्येनातिरोहिताभिन्नद्रव्यात्मनः

इति; तस्य यदन्यान्यदेशत्वमन्यान्यधर्मत्वं स्वरूपैकतामबाध- मानं-गच्छति चैत्रः, पच्यते फलम्,-इत्येवम्भूतं क्रियावै- चित्र्यं, तस्य निर्भासनात् हेतोरीश्वरो विरोधमविरोधं च स्वातन्त्र्यात् निर्भासयन् कालाख्यं क्रममेकस्य विरूद्धरूपतया अनुचितमपि अवभासयति,-इति सूत्रार्थः । अनेकस्मिन् वस्तुनि देशक्रमो गृहाङ्गनवत्, कालक्रमः सहकारमल्लिकादिवत् । एकस्मिंस्तु न देशक्रमो दूरतादेर-भावात् । वैतत्यमपि अंशानाम् । तदेकत्र कालक्रम एव पच्यमानाम्र-फलवत्,-इति वृत्तितात्पर्यम् । वेद्ये एव कालावस्थितिः, न संविदि । ज्ञानेऽपि वेद्यांशे एव कालः, न स्वसंवेदनांशे; नच विमर्श-रूपशब्दानांशे,-इति घटयति स्वरूपमात्रम् इत्यादिना । आकाशी-यस्य इति प्राणप्रेरणनैरपेक्ष्येण एव इच्छाप्रयत्नमात्रप्रक्षोभिते आकाशे हृदयगगने अहमिति परिस्फुरतो ग्राहकरूपस्य ज्ञानभागे वा पश्यन्तीमध्यमात्मना स्फुरत इदमिति ग्रहणरूपस्य ।

भेदाभावात् इति अवेद्यत्वादित्यर्थः । यदाह तत्रभवान्

अव्यक्तः क्रमवाञ्शब्द उपांशु योऽभिधीयते । अक्रमस्तु वितत्यैव बुद्धिर्यत्रावतिष्ठते ॥ (वा। प। २।१९)

(पगे १३)

इति । वायवीयादेः इति घट-इत्यादेर्वैखरीपदापन्नस्य शुकशुकादेश्च वायवीयस्य, धगधगादेस्तैजसस्य, छलछलादेः सालिलस्य, टकटका-देः पार्थिवस्य शब्दस्य दूरादिभेदः सजातीय विजातीयापेक्षया भवत्येव । विवृता इति नतु असर्वगतद्रव्यपरिमाणमिह मूर्तिः काठिन्यं वेति आशयः । अत्र कश्चित् शब्दस्य मूर्तत्वमसहमानो देशक्रमं च मृश्यमानो, न मूर्तता देशक्रमोपयोजिका,-इति पूर्व-पक्षयति ननु इति । कार्य इति शुकशुकादि । कारणम् इति शब्दतन्मात्र-मपि हि वायोः कारणम् ।

शब्दस्पर्शजो हि वायुराविशति,-इति न वायुरेव असौ येन मूर्तः स्यादित्यर्थः । ननु तस्य असौ धर्मः । सत्यं धर्मः, नतु शब्द एव वायुः । स्पर्शगुणादेर्बहिर्वायुर्विलक्षणः । एतत् दर्शयति आविशन्नपिवा इति । तस्य इति वायवीयस्य । अन्यस्य इति तैजसादेः । यदिच मूर्तिर्निबन्धनं देशक्रमे, शब्दस्य तर्हि स न स्यात् । अस्ति सोऽस्य,-इति दर्शयति युगपदेवच इति । अनेन सजातीयापेक्षया स्फुटं दूरादूरादि दर्शयता न कारणाद्युपाधिकृतमत्र तदिति दर्शितम् ।

एवमनया भङ्ग्या परमार्थत आकाशे एव शब्दो, न वाय्वादौ; येन तस्य मूर्तत्वात् तद्धर्मोऽपि अभेदेन प्रतीयमानः शब्दो मूर्तो भवेत् । तथाहि विशिष्टं हि अपरं परेण इति न्यायेन वाय्वादौ तदुपलम्भः । वाय्वादि च मूर्तं न आकाशमिति असर्वगतद्रव्यपरिमाणं मूर्ति- मुपगच्छता चोदिते प्रत्याह अस्त्वेवम् इति । लोके भवतु अमूर्तव्यवहारः शब्दस्य, शास्त्रान्तरे वा । लोको हि सङ्ग्रहपरिग्रहदानादियोग्यं मूर्तं मन्यते, न शब्दम् । तदनुसारेण एव परिभाषितमसर्वगतेति ।

मूर्तौ घनः

(पगे १४)

(३।३।७७) इत्यत्र च काठिन्यं मूर्तिरुक्ता, सच न इह प्रकार इति दर्शयति विशेषं द्योतयन् इहतु इति । क्रियारहितम् इति । न अत्र देशक्रमे, क्रिया उपयुक्ता । सा अस्तु मा वा भूत्, वेद्यस्वरूपं तु यत्, तदेव मूर्तिर्देश- भेदक्रमोपकाराय आलम्ब्यते इत्यर्थः । अनेकस्य इति पदेन अनेन मूर्तिर्विवृता वेद्यवस्तुरूपत्वेन । लक्षणे इति इत्थम्भूतलक्षणे तृतीया, ज्ञापकस्य वा लक्षणया हेतुत्वविवक्षायां हेतौ । नच इयं स्वमनीषिका,-इत्याह तत्रभवत् इति । इच्छन् इति अन्यैरपि

मूर्तिक्रियाविवर्तावविद्याशक्तिप्रवृत्तिमात्रम् ।

इत्यादिभिः श्रुत्यन्तवाक्यैर्व्यवहृतमभ्युपगच्छन्नित्यर्थः । ननु ज्ञानविमर्शावपि न निःस्वरूपाविति तत्रापि स्यात् देशक्रमो मूर्तिप्र- युक्तः । मैवं, न स्वरूपमात्रं मूर्तिः, अपितु आभास्यमानं वेद्यान्तरेण तुल्यकक्ष्यतां सहमानम् । नतु एवं ज्ञानशब्दने, विद्योपरक्ते हि ते, नतु वेद्ये । एतदाह ज्ञान इत्यादिना । अथवा इति अमूर्- तस्य अपि शब्दस्य मूर्तास्तावत् पवनादयः आश्रयाः । गुणिदेशकश्च गुणः । तत् गुणिनि वाय्वादौ मूर्ते यो देशभेदः, स तत्रापि संयुक्त- समवायात् लक्ष्यते, न पारमार्थिकः,-इति मूर्तानामेव देशक्रमः,

-इति शास्त्रान्तरीयमूर्त्युपगमेऽपि न किञ्चित् खण्डितम् । प्रथमं श्लोकार्धं व्याख्याय अपरं तु व्याख्यातुमुपक्रमते संवेदनात्- मन एव इत्यादिना । गौणी कर्तृता इत्यत्र हेतुः कर्तृतोपचारात् इति ।

वेद्यस्य वेदनान्तःप्रकाशमानत्वेन निमित्तेन कर्तृताध्यारोपादुपचारे

(पगे १५)

मुख्यार्थबाधं हेतुमाह संवेदनात्मन एव इति ।

मूर्तिमतामपि इति वेद्यत्वेन असंवेदनात्मनामपीत्यर्थः । एवं परमार्थस्थित्या गौणत्वं निरूप्य प्रसिद्ध्यनुसारेण आह यथा प्रतीति मुख्यां वा इति । कालभेदोऽपि इति अनेकस्य न परं देशभेदः, यावदयमपि,-इति अपिरनेकतामाक्षिपति । एकस्य कालक्रमोऽग्रे वक्ष्यते एकस्य पुनर् इत्यादिना । तं कालं विभजति आभासानाभासयोगेन तथाच इति । यस्य इति प्रमातुः । यस्य इति अर्थस्य । तस्य इति प्रमातुः । स इति अर्थः । वर्तमानो भाति इति सम्बन्धः ।

वाक्यान्तरे यस्य इति अर्थपरामर्शकमनुवर्त्य सम्बन्धः कर्तव्यः ।

प्रमातुरर्थस्य यस्य अनाभासमानस्य कारणसत्तावभासनेन वर्तमानावभासत्वं कल्प्यते कारणावभासस्य वर्तमानस्य प्रत्यक्षस्य विनाशाभासेन सह, सोऽर्थः प्रमातुर्भाति,-इति सङ्गतिः ।

भूतवर्तमानयोः प्रसिद्धत्वात् न उदाहरणमुक्तम्, भाविनि तु भविष्यति प्रमाणाभावात् इति न्यायेन कर्किविष्ण्वादिवृत्तान्ते भविष्यदुदाहरणे विचिकित्सुरुदाहरणान्तरमाह यथा इति ।

अद्यतनदिनकरणीयमिव ह्योदिनसङ्कल्पिताद्यतनकर्तव्यस्य अप्रतिहतेच्छस्य स्वामिनः सत्ताविनाशौ द्वाविति भावविकारौ द्वाभ्यामेव अवभासभावाभावाभ्यां सङ्गृहीतौ,-इति दर्शयति ।

ननु किमत्र प्रमात्रा प्रयोजनमवभासनेन वा जन्मादिभावविकार- वैचित्र्यक्रियाबलेन एककालक्रमसिद्धेः, तत् किमर्थं प्रमातुः इति भाति इति च विवृतौ दर्शितम्, यत् वृत्तौ न स्पृष्टं; क्रियामुखेन इति इयती वृत्तिः । एतत् परिहरति अस्खलित इति । वस्तुचिन्ता हि इयं

(पगे १६)

प्रसिद्धौ तु निदानं कृमिसर्वज्ञाद्यपेक्षया यतः शाश्वत एषां चित्सम्बन्धः । एतत् एवकारेण सूचितम् । वक्ष्यते इति कार्यकारणतत्त्व- विमर्शप्रकरणे

आभासभेदादेकत्र——————————————-। (२।४।१९)

इत्यादौ सूत्रे मूर्तिवैचित्र्यवतोऽनेकस्य क्रियावैचित्र्यात् कालवैचित्र्यं वर्तितं विवृतं च । अपिशब्दसूचितं तु तद्वैचित्र्यविकलस्य अपि एककालवैचित्र्यं यत्, तस्य या वृत्तिः एकस्य इत्यादिका; तां विवृणोति एकस्य पुनर् इत्यनेन देशक्रमाभावं दर्शयता तु व्याख्याता ।

गृहेऽपि यत् वैतत्यं, तत् न गृहस्य देशभेदं करोति; अपितु गृहावयवानाम् । भेदा भिन्ना एव । अत एव अवयवी न देशभिन्न एकत्वात् । ततस्तद्देशत्वातद्देशत्वचोदना तत्र अनुभवबहिर्भूता एव ।

पट इति हि नियतपरिमाणे तत्र प्रत्ययः । नच परिमाणमेव वैतत्यम् ।

वैतत्यं हि भूयोदेशसंयोगः । देशस्य भूयस्त्वं भेदात् ।

भेदश्च अस्य आधेयभेदात् । आधेयश्च अवयवी नाम एकः, नतु अनेकः । अनेकत्वं तु तन्तूनाम् । तेषां देशक्रम एव वैतत्यम् । तन्तुबुद्धौ च न पटः परिस्फुरति, पटधियि च न तन्तवः । आभासनसारं च वस्तु । कश्चित् प्रमाता हि क्वचिदाभासे प्रतपति । ततोऽसङ्करेण एव अवयवा अवयवी च,-इत्यास्तां तावत् । मात्रपदेन देशक्रमम्, एवकारेण स्वरूपभेदं निरस्यति । तेषामेवच इति क्रमवताम् । तत्रापि क्रमो यावदेकः क्षणः । स च पूर्वापरमध्यपाती

(पगे १७)

व्यवहार्यो, नतु शुद्धः,-इति तत्रापि क्रमवत्ता एव । यत् तत्रभवान्

पूर्वोत्तरैस्तथा क्षणैः (दा भागैः) समवस्थापितक्रमः । एकः सोऽपि तदध्यासादाख्यातैरभिधीयते ॥

(वा। प। ३।८।११)

इति । अचेतनगतमपि परिणामं भेदेन व्याचष्टे दाडिमादिफले इति ।

पाकाख्योऽयं परिणाम इत्यर्थः । उद्भवन्ती इति अविच्छिन्नत्वेन अबाधितत्वं दर्शयता सन्तानाध्यवसायं सन्निवर्तकधर्मक- बाधकशतैरिच्छन् बौद्धोऽङ्गीकरणीय एव । क्रियातत्त्वप्रतिभास- मुखप्रेक्षिणावेव हि विरोधाविरोधौ, नतु शुष्कावेव अङ्गुलिमोटन- टङ्कितौ वस्तुसिद्धिं कुरुतः,-इति निरूपितम् । एकाश्रयत्वेन इति एकस्मिन्नपि प्रत्यभिज्ञाप्रत्यवमर्शैक्येन सिद्धेर्यतो भवति, ततो देशक्रमादनेकत्रैव वर्तमानात् भिद्यते, न अत्र देशक्रमः सम्भावनीयः,-इति यावत् । नतु एकाश्रयता एव कालक्रमे प्रयोजिका वसन्तग्रीष्मादौ तस्यामसस्यामपि तद्दर्शनात् । ननु भवतु एवं क्रमरूपता कालस्य, वर्तमानादिरूपता तु कथम् । इत्थमित्याह स्नान इत्यादिना । उत्तरसूत्रवक्ष्यमाणेन न्यायेन वर्तमानः स आभास उच्यते यस्य स्फुटादिरूपता । तादृशश्च कः । यस्य ग्राहकाभासेन शरीरादिना मायीयेन सहैव प्रथनं, स सहभावः,-इति चेत्, आह अन्तर् इति । यदा स ग्राहकाभासः, तदा तस्य ग्राह्यस्य आभासनं न; यदाच स ग्राह्याभासस्तदा तस्य ग्राहकस्य आभासनं न,-इत्येवम्भूतो योऽन्योन्यमभावस्य आभासः आभाससत्त्वम् इत्येवं पूर्वमुक्तः; तेन यो व्यवधानाभावः,

(पगे १८)

तमवलम्ब्य सा सहप्रथेति उच्यते-अयमसौ सहभावो नाम । एतत् लोकेन संवादयति स्फुट इति । ननु एवमभावव्यवधाने सति वर्तमानत्वा- भावे तुल्ये कथं भाविभूतत्वभेदः,-इत्याशङ्क्य तमुपपादयति असत्त्वम् इति । एवकारव्यवच्छेद्यं दर्शयन् भूतकालमुपपादयति बालः इत्यादिना । भवनधर्मापि इति एवं स्फुरितस्य बाह्यरूपस्य एव बाल्यस्य अधुना अपि संस्कारतया अन्तरपरिक्षतं भवनमित्यर्थः । अवभासस्य इति बाह्यतारूपस्य । इदानीमेतस्य कालक्रमस्य सकललोक-सिद्धत्वेन स्वसंवेदनसिद्धत्वेन च अनपह्नवनीयस्य बाह्यार्थनये भेददृशि समर्थना न कथञ्चित् युज्यते । तदवश्यसमर्थनीयेऽस्मिन्-नाभासवस्तुवाद एव शरणम्, न बाह्यवादः,-इति दर्शयन्नीश्वर-प्रत्यभिज्ञोपयोगमस्य कालप्रकरणस्य दर्शयति अत एव इति उक्तनयेन योऽयं काल व्यवहारो भावाभावानुप्रवेशे निमित्तत्वेन उक्तः, तत एव हेतोरेकस्य तौ विरुद्धौ तन्निमित्तकस्य अपि कालाख्यस्य क्रमस्य विरोधमुत्थापयतः ।

तथा इति विरुद्धः । स्यादेतत्-न एकस्य कश्चित् कालक्रमः । अपितु स एव भूत्वा न भवति, अभूत्वा च भवति । अयमेवच परमार्थो भूतभाविवर्तमानविकल्पैर्व्यवह्रियते । नैवं,-इत्याह सतः इति ।

असतश्च उत्पत्तिः,-इति मन्तव्यमिह । एतच्च

यदसत् तदसत्—————————–। (२।४।३)

इत्यत्र वक्ष्यते । यदातु न कश्चिदर्थो नाम परमार्थतः, तदा तु कस्य विरोधपर्यनुयोगः । यत् किल अस्य तत्त्वं, तत् चिद्रूपं स्वतन्त्रं चेति तस्य अपि कः पर्यनुयोगः । एवं प्रसङ्गादाभाससारत्वं

(पगे १९)

वस्तूनामभिधाय, प्रकृतमेव निरूपणीयम्,-इति दर्शयति योगिनां तु इति । तुशब्द आशङ्कामिमां सूचयति-यदि स्फुटाभासमानता एव वर्तमानता, तर्हि योगिनो यदतीतानागतवस्तुसाक्षात्कारि ज्ञानं, तत्र तयोरतीतानागतयोः स्फुटत्वं तावत्-साक्षात्क्रिया हि अन्यथा का- ततश्च तयोर्वर्तमानताप्रसङ्गः इति । अत्र निराकरणहेतुः अन्योन्य इति ।

एतदुक्तं भवति-योगिनोऽपि सर्वदा परित्यक्तमायाप्रमातृपदस्य को नाम अतीतादिभेदः । तत्तु अपरित्यजत एव संस्कार शेषतया भवेत् सः ।

तदपरित्यागे च देहाभासेन समाधानकालभाविना सह तस्य ह्राह्याभासस्य उक्तस्थित्या सम्भवत एव आभासानाभासौ,-इति कथं वर्तमानता । नहि स्फुटत्वमेव सा सत्त्वमिति उक्तम् ।

अतीतग्रहणं भाविनोऽपि उपलक्षणम् ॥ ५ ॥

ननु उक्तनीत्या देशकालक्रमावाभासेषु एव स्याताम्, न प्रमातरि । निराभासो हि असौ । तस्य हि सर्वमाभासते, नतु कस्यचित् सः ।

नच असौ कदाचित् न आभासते । अनाभासानुप्रवेशनिमित्तकौ च तावुक्तौ । तत् सततप्रकाशस्वभावे कथं स्याताम् । कारणानुपलम्भात् हि तदभाव एव युक्तः । दृश्येते च एतौ-अभवम्, भवामि, भविस्तास्मि,- इति; गृहे, ग्रामे, अरण्ये तिष्ठामि,-इति; प्रासादात् मञ्चकस्थानम्,-इति च । प्रमातरि च तदभावे भावेषु स्वात्मनो भूतादेर्दूरादेश्च अयोगः,-इति कृत्वा प्रतीतिपर्यालोचनया तदपेक्षया एव भावेषु निरूपितौ तौ ग्राह्येषु अपि कथं स्यातामिति कुत्र इमौ बद्धनिवेशाविति यो मुह्येत्, स प्रत्याय्यते सूत्रद्वयेन । तत्र कालक्रमस्तावदुपपाद्यते प्रथमसूत्रेण

(पगे २०)

सर्वत्राभासभेदोऽपि भवेत् कालक्रमाकरः । विच्छिन्नभासः शून्यादेर्मातुर्भातस्य नो सकृत् ॥ ६ ॥

अपिशब्दः प्रमेयं समुच्चिनोति । सर्वेषु एकानेकरूपेषु भावेषु यः कालक्रम उक्तः, तस्य य आकरः प्रथमोत्पत्तिनिमित्तभूत आभासस्य भेदो भवनाभवनवैचित्र्यं, स शून्यधीप्राणदेह- लक्षणस्य प्रमात्रीकृतस्य भवति,-इति सम्भाव्यते, यतोऽसौ विच्छिन्नभाः । तस्य हि भासनं न स्वरूपं नीलादिवदेव जडत्वात् ।

संवित्स्फुरणमेवहि अस्य अपि भासनम्, यदाहि न संवित् तदात्मतया स्फुरति, तदा न अस्य भासनं मूर्च्छायामिव । ततस्तस्य अनाभासन- योगादस्ति भूतादिरूपता, तदपेक्षया च भावानामपि । यस्तु सकृद्विभातः । इत्यनया ब्रह्मविद्वाचोयुक्त्या सततमविच्छिन्नप्रकाश- नैकस्वभावः परमार्थप्रमाता निरूपितः, तस्य न कदाचिदाभास- भावाभावौ । ततो न कालयोगस्तत्र, नापि तदपेक्षया भावेषु अपि स इति सूत्रार्थः । यदविचलं भावस्य, तत् न अन्यापेक्षं नीलत्वमिव; नच अविचलमेतत्,-इति अनन्यापेक्षत्वव्यापकाविचलत्वविरुद्धं विचलत्वमुप-लभ्यमानमनन्यापेक्षतां व्याप्यां निषेधति,-इति विचलत्वमुप-पादयति तथाहि इति अतीतानामागामिनाम् इति एवं हि सर्वज्ञब्रह्म-विष्ण्वादयो मन्त्रेश्वरादयश्च व्यवहरन्ति ।

ऐदंयुगीनो व्यवहारो रामादेरागामितया परिस्फुरणयोग्यः कर्किविष्णुप्रमुखानां च भूततया,-इति यदा तदा इति तस्मादित्यर्थे । विवृतम् इति भावे क्तः । सूत्रानुपात्तमर्थपदं वृत्तौ प्रक्षिप्य सूत्रार्थो व्याख्यातः । तद्व्याख्यानं तत एव इति उक्तरूपमर्थमभिप्रेत्य । स हि इति ।

(पगे २१)

शून्यदेहाद्याभासप्राक्काल इति बहुब्रीहिः । स्मृतिम् इति स्मृतौ केवलं भासते इत्यर्थः । अविशेषेण इति प्रमातृभागो वा अर्थभागो वा न अत्र उद्दिष्ट इत्यर्थः । आभासाभावं देहादेर्द्दृढीकरोति शरीरादेः इति । अवस्थाभासो यथा विच्छिद्यते, तथा अवस्थातुरपि स्वरूपम्,-इति वक्ष्यते

तावन्मात्रस्थितौ प्रोक्तं सौषुप्तं प्रलयोपमम् । (३।२।१५)

इत्यत्र । तथा इति । प्रकाशनमस्य स्वभावः । वाग्रहणेन वाचोयुक्तिद्व-यस्य आपाते भङ्गीभेदेऽपि फलतुल्यतामाह । ननु एकत्वेक आवर्त-नार्थः इति एकशब्दात् कथं कृत्वोऽर्थप्रत्ययप्रयोगः,

-इत्याशङ्कां निवारयति एकस्याः इत्यादिना । स्थितिरेव आवृत्तित्वेन उपचर्यते, निमित्तं च अत्र द्वितीयतृतीयादौ स्थितौ; तदेकभावविश्रान्तक्रियाया यदावृत्तिरू-पत्वमस्ति, तत् साहचर्यं नाम । द्वितीयादिकां हि स्थितिं निषेद्धुं यावत् तामाद्यां स्थितिं विवक्ष्यति, तावत् सा प्रथमा स्थितिर्द्वितीयादि-स्थितिभिर्निषिषित्सिताभिः सह स्फुरति । प्रयोजनं च उपचारे आवृत्तिप्रति-पत्तिः । एका स्थितिरावृत्तिः,-इति हि उक्ते द्वितीया अपि आवृत्तिरूपत्वेन अस्ति,-इति सम्भाव्यते । अवश्यं च एतदेव मन्तव्यम्, अन्यथा लोकस्थितिः प्रसिद्धा विपर्यस्येत,-इति दर्शयति अन्यथा इति उपचारे न अङ्गीकृते, आवृत्तिशब्देन द्विवचनान्तेन आवृत्ती इत्यनेन द्वे स्थिती न उच्येयाताम् । आद्या हि स्थितिरेव, न आवृत्तिः; द्वितीया तु स्थितिः, एका आवृत्तिः; तृतीया स्थितिः, द्वितीया आवृत्तिः,-इति द्विर्भुङ्क्ते इति तिस्रो भोजनस्थितयः प्रतीयेरन् । तदाह एकारब्धत्वात् इति । द्वे हि स्थिती एकया आवृत्त्या द्वितीयस्थितिरूपया

(पगे २२)

आरब्धे न द्वाभ्याम् आवृत्तिभ्यां, एवञ्च सकृदित्यनेन द्वे स्थिती उच्येयाताम् । नच एवं लौकिकः शब्दार्थ इत्येवमयं ग्रन्थो गुरु- पादैः सङ्गमितः । द्वे इति द्वयोः इति च आवृत्तिविषयत्वेन चेत् स्पष्टेन पथा व्याख्यायते, तत् द्वयोरावृत्त्योः का अनुपपत्तिस्तिसृषु स्थितिषु ।

तस्मात् यथोक्तैव गमनिका युक्ता । तेन इति उक्तेन न्यायेन औपचारिक- वृत्त्या सकृच्छब्दार्थः इति लोकप्रसिद्धः,-इत्याशयः । यदि नाम इति श्रीसदाशिवेशदशायाम् ॥ ६ ॥

देशक्रमस्य अपि एषा एव वार्ता,-इति सूत्रेण उच्यते

देशक्रमोऽपि भावेषु भाति मातुर्मितात्मनः । स्वात्मेव स्वात्मना पूर्णा भावा भान्त्यमितस्य तु ॥ ७ ॥

मितात्मन इति हेतुः, षष्ठ्यन्तं च इदम् । आवृत्त्या तु ल्यब्लोपे पञ्चमी वृत्तौ व्याख्याता, नतु पञ्चमी एव तत्प्रक्रमे षष्ठीनिर्वाहे प्रक्रमविरोधे तुशब्दस्य असङ्गतेः ।

स्वात्मापेक्षषष्ठीयोजने क्लिष्टता । स्वात्मना पूर्णा यतः प्रकाशमात्रस्वभावा अपरिमितस्य प्रमातुर्भावा भान्ति, ततः स्वात्मतुल्या एव, अमिता एव, देशक्रमवि-हीना एव भान्ति आत्मनि; इति शुद्धस्वात्मापेक्षया न ईश्वरस्य देश-क्रमो, नापि ईश्वरापेक्षया भावानाम् । घटादेः पदार्थस्य स्वं रूपं देशः, शरीरप्राणशून्यादेरेवम्; ततः परस्परदेशपरिहा-रेण अवस्थानमिति स शरीरादिः प्रमाता घटादिं पदार्थवर्गं स्वतः परस्परतश्च भिन्नदेशं पश्यति । देशभेदमेव बहुधा दर्शयति पुरः इत्यादिना । संस्थानं वक्रादिरूपं तस्य प्रथते । तच्च किंरूपम् । आह, दिशा पूर्वापरादिरूपया, देशेन विततादिना यः क्रमविशेषः,

(पगे २३)

तस्य य आभासः-एतदेव रूपं चतुरश्रतादेः संस्थानस्य तथा च चतसृषु दिक्षु समेन देशवैतत्येन यदाभासनम्-इदमेव चातुर- श्रयम् । एवमन्यत् । स तर्हि दिग्देशक्रमः किन्निमित्तकः । आह चित्राभासकारित्वलक्षणया उक्तरूपया संविच्छक्त्या युगपत् समकालमुपपादितौ यावाभासस्य नीलादेः सद्भावासद्भावौ- नीलं भाति, न भाति चेति, ताभ्यामानीतो यो भेदोऽन्यत्वं; तन्निमिताकोऽसौ । अत एव मया स्तुतम्

आभासप्रतिभासतद्विरहयोश्चित्रात्मनोश्चञ्चला स्वातन्त्र्यादवभास्वरस्ववपुषोस्त्यक्तक्रमं या स्थितिः । तत्संवेदनसागरस्य विलसच्चन्द्रार्धशोभाभृतो रूपं भावविभातृतामयमहं नित्योदितं संस्तुवे ॥

इति । न क्वापि अप्रकाश इति वृत्तिवाक्यस्य इयं योजना-

सकृद्विभातोऽयमात्मा पूर्णस्यास्य न क्वाप्यप्रकाशनसम्भवः ।

इति सारस्वतसङ्ग्रहसूत्रैकदेशार्थोऽध्यासदृष्ट्या शब्दे हेतुत्वेन उक्ते कथित एव भवतीति आगमोऽयं, न स्वमनीषिका,-इति च प्रथितं भवति,-इत्याशयेन अनुकरणात् पञ्चमी विधाय हेतुतया वृत्तावुक्तः इति । यथा न वेति विभाषायामर्थग्रहणमिति वाक्यैकदेशात् पञ्चमी- विग्रहेऽपि नञः पर्युदासवृत्तित्वं समर्थयिष्यते इतिवा आशयेन अप्रकाशस्य असम्भवात्,-इति योजना । घनता यद्यपि काठिन्यं मूर्तौ घनः इति वचनात्, तथापि तेन इह असम्भवता स्वसहचारिविजातीयाव्यवधानं लक्ष्यते ।

चिद्धनमात्मपूर्णं विश्वम्—————————–।

इति हि सूत्रम् । कर्तृत्वात् इति भावतया अयभासने स्वातन्त्र्यादित्यर्थः ।

(पगे २४)

पोषयति सहते इदम्भाग इति पूर्वेण सम्बन्धः । क्रियाप्रसङ्गात् कालशक्तौ वक्तव्यायां तद्दृष्टान्तत्वेन देशक्रम इति

मूर्तिवैचित्र्यत——————————-। (२।१।५)

इत्यत्र स पूर्वमुक्तः, चरमं तु कालक्रमो दृष्टान्तस्य पूर्वं वक्तव्यत्वात्; इह तु उपसंहारश्लोके प्रकृतः कालक्रमः प्रागुक्तः ॥ ८ ॥

ननु एवं भगवति न अस्त्येव क्रियेति आयातं क्रियास्वरूपव्याप- ककालक्रमयोगाभावादित्याशङ्कां शमयन्नुभयमपि इदं क्रमरूपं क्रियाशक्तेरेव विजृम्भितमिति च दर्शयन्नस्य कालप्रकरणस्य ईश्वरप्रत्यभिज्ञोपयोगमपि दर्शयति सूत्रेण

किन्तु निर्माणशक्तिः साप्येवंविदुष ईशितुः । तथा विज्ञातृविज्ञेयभेदो यदवभास्यते ॥ ९ ॥

न एतावत् देशकालक्रमतत्त्वम्, अपितु अन्यदपि अत्र वक्तव्यमस्ति ।

तदुच्यते तथा इति देशकालक्रमवांस्तत एव भिन्नः प्रमातृप्रमेय- वर्गोऽवभास्यते । एतत् यदवभासनं, तत् भगवत एव निर्माणसा- मर्थ्यं क्रियाशक्तिरूपम् । तच्च एवमिति तं भेदं विदुषस्तज्ज्ञान- शक्तिमयस्य तत एव तथा इच्छाशक्तियुक्तस्येति अक्षरार्थः । एतदुक्तं भवति-इह इच्छैव भगवतः क्रिया, यदुपसंहरिष्यते

——————-एवमिच्छैव हेतुता कर्तृता क्रिया । (२।४।२१)

इति । चैत्रस्य अपि पचामीति यैव इच्छा, सैव अधिश्रयणादिस्पन्दसहस्रेऽपि अनपायिनी स्वात्मना अक्रमा अपि क्रमरूपभावाभासरूषिता भाति, तथैव परमेश्वरस्य अपि ज्ञातृज्ञेयक्रम उल्लसतु,-इति या स्वात्मनि इच्छा ईशे स्फुरामि प्रत्यवमृशामि घूर्णे इत्यादिपरमार्था, सा स्वयमक्रमा अपि प्रमातृप्रमेयभेदोपरागात्

(पगे २५)

सक्रमा भाति, मकुरमण्डलमिव अक्रममपि नित्यप्रवहद्विततसरित्- क्रमेण उदयमानव्ययमानतडित्सहस्ररूपेण च उपरक्तं सक्रमम् । ततः सर्वत्रैव इयं क्रिया स्वयमक्रमा एव उपरागात् क्रमं प्रतिपद्यते इति न अस्याः शुद्धमेव क्रमरूपं व्यापकं येन व्यापकानुपलब्ध्या भगवति सा निषिध्येत,-इति सूत्रार्थः । इदमेव संवेदनस्य संवेदनत्वम्-यदेवम्भूताभासनस्वातन्त्र्यमिति ।

यथोक्तं

परिच्छिन्नप्रकाशत्वम्———————————। (बो। पं। ८श्लो।)

इत्यादि । अनेन आशयेन अवतारयति तदत्र इति अत्र उक्तं तदधिकमुच्यते इति किन्तु इति व्याख्यातम् । एवं विदुषः इति व्याचष्टे स्थितैव इत्यन्तेन ।

ज्ञानशक्तिरूपा हि श्रीसदाशिवादिदशा । तत्र तु इति पूर्णतायाम्, अन्यथाहि नाममात्रेण पूर्णता सा भवेदिति भावः । निर्भरतया चमत्कृतिमतो या परमेश्वरता-एषा शक्तिः-इति वाक्यमध्ये वृत्तिखण्डयोजना । महच्छब्दं व्याचष्टे यत्र इति । अपिशब्दादन्ये कोटिशः सृष्टिसंहाराः । ननु संहारः सृष्टौ प्रविष्टः-इति का भाषा विरोधात् । न विरोधोऽयमित्याह संहारेऽपि हि इति । बीजात्मना इति संस्कारशेषतौचित्येन । ननु एवं कः संहारार्थः । आह केवलम् इति । आभासानां योजनायोजनयोरयं व्यवहारभेदः,-इति यावत् ।

अस्याः इति महत्याः सृष्टिशक्तेर्यो ब्रह्मादिरूपतया विशेषो ज्ञातॄणां प्रजापत्यादिस्थावरान्तानां गुणमयानां प्रमेयानां च घटसुखादीनां गुणमयानां तथा तथा सृज्यमानानामेकघनसृष्टितायामपि इयं सृष्टिशक्तिः, इयं स्थितिशक्तिः, इयं संहारशक्तिः,-इति समुच्चीयमानः, स मायाशक्त्या कृतः । तत्र हि इति मायापदे ईश्वर

(पगे २६)

एव ब्रह्मादिरूपेण स्थितः । अनेन महासृष्टिकर्तृत्वेऽपि परमेश्वरस्य सृष्टिस्थितिसंहारकारित्वेन पूर्णमेव सर्वकर्तृत्वमुपपादितम् ।

सर्वदा ब्रह्मरूपेण विष्णुरूपेण रुद्ररूपेण ईश्वररूपेण च नवतया अनुवर्तमानतया बीजावशेषितागमनेन च अवान्तरवैचित्र्य- मात्रात् सृष्टिस्थितिसंहारशब्दवाच्या, अपिशब्दाच्च शुद्धरूपेण महासृष्टिशब्दवाच्या सृष्टिर्नाम या उच्यते; सा उक्तस्य ज्ञातृज्ञेय- विभागस्य यदवभासनं, तदात्मिका एव । तदेव महासृष्ट्यन्तर्- भूतं सृष्ट्यादित्रयं सृष्टिरूपं व्याचष्टे तादृशां च इति विभागेन अवभासितानाम् । अनया भङ्ग्या सा मितसृष्टिर्व्याख्याता माभूत् पुनरुक्तता,-इत्याशयेन । एवं त्रैरूप्येण इति ब्रह्मादिरूप-त्वोचितेन सृष्ट्यादित्रयेण । ननु एवं देवतात्रितयस्य सदासन्निहितत्वे रुद्रभट्टारकोदितः संहार उभयविपक्ष इति न सृष्टिस्थिती दृश्येयाताम् । अत्र उच्यते तत्र च इति देवतात्रयमध्ये ।

एतदुक्तं भवति-आभासपरमार्थवस्तुवादे यस्य प्रमातुर्येषु यथा मम एवममी भासन्ते इति व्यवहारः, तस्य ते तथा । क्वचित् तु आभासांशे भगवदिच्छात एषां मेलनमिति उक्तम् । ततश्च आद्यत्वे भगवद्रुद्रप्रमात्रपेक्षया परनिरोधसमवस्थितसुषुप्तिभूमिका- रूढयोगिप्रमात्रपेक्षया प्रलयाकलविज्ञानाकलप्रमात्रपेक्षया गाढसुषुप्तापन्नजीवदपेक्षया च बीजभाव एव भावानां भाति ।

ते हि तत्र आभासे मिलिताः । ब्रह्मविष्णुभट्टारकापेक्षया जाग्रत्स्वप्न-पदचारिसंसारिप्रमात्रपेक्षया च नूतनता अनुवर्तमानता च भाति ते अत्र अन्योन्यं मिलिता यतः । ननु अनेन विभागावसायेन विभागस्य एव अवभासनात् प्रकाशाविभागो विच्छेदितः इति प्रकाशमानत्वं न स्यात् भावानामित्याशङ्क्य या वृत्तिः नच इत्यादिका, तां

(पगे २७)

विवृणोति महेश्वरस्य तु इति । विद्यादिशिवान्तकतत्त्वपञ्चकमयस्य ब्रह्मादिरूपतया विभागं कुर्वतस्तद्रूपस्य सतो भेदनिर्देशयोग्या अपि स्वात्मनि अहन्तया सामानाधिकरण्येन एकलोलीभावगमनपर्यन्- तेन अवच्छादितास्तथाविधसमापत्तिलक्षणतुर्यतदतीतपदभाजां च भासन्ते कर्तृताया उद्रेकात्

मुख्यत्वं कर्तृतायाः—————————-। (३।२।१२)

इत्यत्र वक्ष्यमाणात् । एतेन इति नच इत्यादिना वृत्तिग्रन्थेन विरोधः परिहृतः । कोऽसौ । यः पूर्वके वृत्तिग्रन्थे सौत्रस्य अपिशब्दस्य विवरणे अपिशब्देन आशङ्कितः सम्भाव्यमानत्वेन उक्तः । कस्य असौ विरोधः ।

ज्ञात्रादिविभागस्य अवान्तरोक्तस्य प्रकाशघनत्वस्य पूर्वसूत्रार्थ-प्रस्तावादिहापि आपन्नस्य । ननु भगवन्तं शिवादिविद्यान्तमपेक्ष्य यत् भावाभासनं महासृष्टिशब्देन उक्तम्, तत् संहारोऽपि न कस्मात् । आह, भवतु असौ संहारः; यथाहि बीजतोपगमनं संहारः, तथा अहन्तान्तर्मग्नतापि । शिवत्वे तु भावानां नाम अपि नास्ति,-इति नतु सृष्टिर्न संहारः । तदर्थमेव उक्तं सदाशिव इति । उक्तिः इति वस्तु एकमेव सृष्टिसंहारवाचोयुक्त्योरत्र । ननु पूर्वावस्थायां सृष्टि-रूपता, उत्तरावस्थायां संहाररूपता; तत् कथं वस्तु अत्र न भिद्यते इति । अत्र आह नतु इति । नहि अत्र पौर्वापर्ये किञ्चित् परमार्थता । एवंरूपप्रथा च अनुग्रहः, स्थितिसृष्ट्यवान्तररूप एवच विलय इति कृत्यपञ्चकप्रपञ्चनशक्तिसारो भगवानिति तात्पर्यार्थः इति शिवम् ॥ ९ ॥

इति श्रीमहामाहेश्वरश्रीमदाचार्याभिनवगुप्तपादविरचिता- यामीश्वरप्रत्यभिज्ञाविवृतिविमर्शिन्यां क्रियाधि- कारे क्रियाशक्तिविमर्शः प्रथमः ॥ १ ॥