०३

अथ तृतीयो विमर्शः ।

इच्छाशक्तिसुनिर्भरममृताभमनन्तभुवनजननपटुम् । वन्दे स्वशक्तिलहरीबहलितभैरवपरानन्दम् ॥

अथ अस्मिन् पूर्वपक्षेऽधिकारद्वयेन सिद्धान्तो निरूप्यते ।

तत्र

सत्यं किन्तु————।

इत्यादिना

———स्मृत्यपोहनशक्तिमान् ।

इत्यन्तेन श्लोकसप्तकेन परदर्शनानुपपत्तिं विमृशता तत् निराक्रियते ।

यदुक्तं

ननु स्वलक्षणाभासं————। ( १ । २ । १)

इत्यादिना पीठबन्धमुपरचय्य

संस्कारात् स्मृतिसिद्धौ स्यात्स्मर्ता द्रष्टेव कल्पितः । ( १ । २ । ६)

इति, तत् ज्ञानविचारोऽयमधिकारः । क्रियासम्बन्धविचारस्तु द्वितीयेऽधिकारे भविष्यति । तत्र श्लोकाभ्यां ज्ञानं स्वसंविद्रूपमिति स्मृतावनुभवस्य न प्रकाशस्तत्संस्कारोत्थायामपि,-इति उक्तम् । श्लोकाभ्यां स्मृतेर्भ्रान्तित्वं शङ्कापूर्वकं निरस्य तृतीयेन

(पगे २०८)

प्रसङ्गात् सर्वाध्यवसायानां तत् निरस्तम्, सत्यपि संस्कारे परदृशि स्मृतिरयुक्तेति व्यवहारलोप इति एकेन उक्त्वा स्वपक्षे तदुपपत्तिः श्लोकेन उक्तेति तात्पर्यम् । तत्र पूर्वपक्षे सर्वात्मना शमयितव्ये नेति प्रयुज्यते, ईषदङ्गीकार्ये उच्यते इति, ईषन्निराकार्ये सत्यं किन्तु इति । एषा प्रेक्षापूर्वकप्रयोगशालिनां शैली । इहच सत्यम् इत्यनेन बहु तावत् पूर्वपक्षवाद्युक्तं सिद्धान्तेऽङ्गीकार्यम् । साङ्ख्यकाणादादिदर्शने ज्ञानं न उपपद्यते,-इति हि यदुक्तं शाक्येन, तत् सम्मतमेव । तत्रैव तु विशेषान्तरं दर्शयितुं किन्तु इत्यनेन शब्देन अधिकं पृच्छामो विरतशिक्षाव्यापारो मा तावदद्यापि भूरिति द्योतयता तद्व्यामोहापसारणे यत्नोऽयमिति उक्तम् । तथाहि

ज्ञानं च चित्स्वरूपं चेत्——। (१ । २ । ७) इति यः प्रसङ्ग उक्तस्त्वया, अयमेव नः सिद्धान्तः । तत्र सत्यम् इति एतत् व्यर्थमेव इत्यन्तेन विवृतम्, केवलम् इत्यनेन किन्तु इति । अनेन च उत्तरग्रन्थाक्षेपः कृतः । तथाहि न कार्यकरः इति । इयता एतत्सूत्रार्थस्य उपक्षेपः, आत्मना महेश्वरेण इति श्लोकसप्तकार्थस्य, ज्ञानमुखेन इति सकलस्य ज्ञानाधिकारस्य प्रथमम् इत्यनेन क्रियाधिकारस्य, तद्वस्तुनिष्ठत्वाच्च परिशिष्टस्य । तत् किन्त्वित्ययं शब्दो विजिगीषुवत् आक्रान्तो न अन्यदाक्रामेत् इति न्यायेन स्वावाक्यं प्रकरणमधिकारान्तरं, समस्तं शास्त्रमुपक्षिपन् प्रधानबीजकल्प इत्याह ज्ञानस्य आत्मतत्त्वस्य भेदं वदति इति । न इयता परः कृतकृत्यः, अपितु संस्कारमपि आहेति अपिशब्दः । ज्ञानात्मतत्त्वे संस्कारेण विना यथा न कार्यकरे, तथा संस्कारोऽपि अस्मिन् नये येन विनेति द्वितीयोऽपिशब्दः । अधुना इति प्राप्तकालतया

(पगे २०९)

पूर्वपक्षानन्तरमिति प्रस्तौति श्लोकसप्तकाभिधेयमेतमर्थं वक्तुं प्रारभते । अनेन प्रकरणोपक्षेपः प्रथमम् । ज्ञानमुखेन इति ज्ञानाधिकारप्रक्रमे समस्तशास्त्रार्थोपक्षेपो ज्ञानमुखेन ज्ञातृत्वसमर्थनार्थमिति वक्तव्ये कर्तृत्वग्रहणं शुद्धस्वातन्त्र्यरूप- मेव ऐश्वर्यमिति दर्शनार्थं यथोक्तमादिसिद्धसूत्रे । तथाहि ज्ञानविषयं यत् यथारुचि संयोजनवियोजनलक्षणं स्वातन्त्र्यं प्रकाशविमर्शद्वयसारतया, तत्र प्रकाशभागमात्रं प्रधानीकृत्य ज्ञानाधिकारे विचारः, विमर्शप्राधान्येन तु क्रियाधिकारे इति मुखग्रहणम् । मुखं द्वारमुपाय इत्यनेन नहि एकांशद्वारेण धर्मिणि पूर्ण एव प्रवेश इति उक्तम् । तेन कर्तृत्वं शुद्धस्वातन्त्र्यरूपं पूर्णमिह समर्थनीयम् । तत्र ज्ञानक्रियाविचार उपायमात्रमिति । इह अनुभवेन सुखहेतुतां निश्चित्य स्मरणादुपादत्ते इति व्यवहारः । तत्र अनुभवसंस्कारात् कामं स्मृतौ विषयप्रकाशः समर्थितः । नच तावता किञ्चिदनुभवस्य अप्रकाशे तदित्येवंरूपाभावात्, अनुभवप्रकाशश्च न घटते संस्कारजतायामपि,-इति प्रकरणतात्पर्यार्थः । तदाह सूत्रं

सत्यं किन्तु स्मृतिज्ञानं पूर्वानुभवसंस्कृतेः । जातमप्यात्मनिष्ठं तन्नाद्यानुभववेदकम् ॥ १ ॥

स्मृतिज्ञानम् इति । स्मृतिरूपं ज्ञानं पूर्वानुभवसंस्कारात् यद्यपि जातं , तथापि आत्मनि स्वरूपे निष्ठा विश्रान्तिर्यस्य तादृशम्, नतु आद्यस्य अनुभवस्य ज्ञापकं, तत् भवति । नहि तत् तेन सह आत्मानं मिश्रयति । तदाह अन्योन्यभिन्नावेव इति । एवकारः कथञ्चिदपि अस्मन्नये इव अन्तर्मुखतापि भवन्मते नास्ति अभेद इत्याह । तत्र ज्ञानस्य विषयेण

(पगे २१०)

व्यपदेश्यत्वात् तन्मुखेनैव भेदं समर्थयते स्फुट इति । स्फुटो ज्ञाने स्वाकारार्पणेन ग्राह्यः स्वलक्षणात्मा ज्ञानसमकालावभासो विषयोऽवभासतेऽस्मिन्, स्मृतौ तु अस्फुटो न स्मृतिज्ञानजनकः, नापि तत्समकालावभासः । यस्मिन् ज्ञाने यादृगर्थो भासते, तत् ज्ञानं तावदेव स्वकाले एव तथाभूतस्य स्वात्मविषयमात्रस्य स्फुटस्य अस्फुटस्य वा उपदर्शनं न ज्ञानान्तरावभासिनो विषयस्य संस्पर्शेऽपि क्षमम् ।

आस्तां तु तत्प्रकाशनम् । ननु स्मृत्या अनुभवकालभाविनोऽर्थस्य प्रकाशनम् । सत्यम्, किन्तु स्वकाले एव स्वविषयस्यैव सतः स्वविषयतयैव च प्रकाशनं, नतु परविषयस्य परविषयतया वा । घटोऽयमासीदस्ति भविष्यतीति त्रिकालविषयावभासिना विकल्पेन स्वकाले एव स्वविषयस्यैव प्रकाशः, परकालतया अध्यवसायेऽपि प्रकाशनेऽपि वा न परकालस्य अध्यवसायः, वस्तुनः सतः प्रकाशो वा । रजतद्विचन्द्रतया अध्यवसायप्रकाशेऽपि हि न रजतद्विचन्द्रयोरध्यवसायादिः । तदेतदाह तत्तदिति तेन तेन भूतभविष्यदादिना कालभेदेन सम्भिन्नमनुविद्धं यद्यपि अर्थवस्तु अवगाहते अध्यवसायमुखेन स्वीकरोति, तथापि तावदेव स्वकाल एव स्वविषयमेव च स्वीकरोति । यथा स्वप्नदृष्टः कान्ताजनः स्वकाल एव स्विविषय एव च गृहीतः, नतु कान्ताज्ञानकालस्तद्विषयो वा तथात्वे कान्ताजनस्य तथाप्रतीति प्रसङ्गात्; तथा अत्रापि तत्तत्कालभेद इति टीकया पूर्वानुभवसंस्कारप्रबोधजन्मापि इति वृत्तिर्व्याख्याता ।

सङ्कारवशाद्धि पूर्वानुभवकालालिङ्गितोऽसौ भाति स्मृतौ विषयः, न ज्ञानान्तरे इति तु ग्रन्थेन व्याख्यातम् आत्ममात्रनिष्ठत्वात् इति वृत्तिवाक्यम् । मात्रपदेन ज्ञानान्तरविषयनिरासः, नतु आत्मविषयनिष्ठमिति

(पगे २११)

सूत्रे वक्तव्यम्, वृत्तौ च स्वविषयसंवेदिकैव इति । ननु किं विषयवेदनेऽपि स्वनिष्ठता घटते विज्ञानस्य । क एवमाह । किन्तु विषयमुखेन इयं चेदप्रस्तुता स्मरणाभिलाषेण विषयोपादानादिव्यवहारच्छेद इति ।

तदाशयेनैव टीकाकारो विषयपुरः सरीकारेणैव उत्थितः स्फुटविषययादृगर्थार्थवस्तुस्वात्मविषयवाचोयुक्तिभिः । तत् कथमुक्तम् आत्मनिष्ठस्वरूपसंवेदिकैव इत्याशङ्क्य आह आत्मानात्म इति ।

आत्ममात्रप्रकाशनं तावत् न नास्ति ज्ञानं समाधानादौ, इह तु विषयनिष्ठं विचार्यते इति अपिशब्दः । तस्यैव इति अनात्मप्रकाशनं ज्ञानम् इत्यस्यां भणितावनात्मनः प्रकाशनमिति यदुच्यते, तत्र प्रकाशनमित्यनेन अंशेन अनात्मा घटादिर्न आलिङ्ग्यमान उच्यते विषयधर्मत्वाभावात् प्रकाशस्य, अपितु ज्ञानमेव अनात्मप्रकाशतया वा अनात्माकारधारितया वा प्रकाशते इति प्रकाशनं स्वनिष्ठमेव ज्ञानस्य । अत एव सुशिक्षितनैयायिकम्मन्यैरन्तर्मुखबहिर्मुखत्वे ज्ञानस्य विरुद्धरूपत्वात् भेदापादके शाक्यदर्शनान्तःप्रवेशेन उक्ते स्थूलदृशः प्रत्याययितुमित्यास्तां तावत् । ननु विज्ञानवादे मा भूत् स्वरूपाधिकं नीलप्रकाशनम्, बाह्यार्थवादे तु नीलं प्रकाशते इति कथमध्यवसायमपह्नवीमहि,-इत्याशङ्क्य आह बाह्यवादेऽपि इति । अपिः पूर्वपक्षसूचकः । प्रकाशो न विषयमाश्लिष्यति प्रकाशरूपत्वात्, विषयस्य अप्रकाशरूपत्वात् वेद्यत्वमिति । तदावेशे प्रकाशोऽपि अप्रकाश एव स्यात् यथा मिथ्याकचकूर्चकज्ञाने । प्रकाशश्चेत् कचकूर्चकमाविशेत्, तर्हि असन्नेव स्यात् । नच कचप्रकाशोऽसन्निति युज्यते तस्य सत्त्वादेवेति चिराद्यवगतौ तच्चिकित्सादिव्यवहारनिर्वाहात् । एवञ्च विषयश्लेषिणो रूपस्य

(पगे २१२)

व्यापकं तद्धर्माविष्टत्वम् । नच तत् कचकूर्चकप्रकाशेऽस्ति असत्यताधर्मानावेशादिति बाह्यवादिनि उपगमिते तस्य बाह्यस्य धर्मो वेद्यत्वम् । तद्विरुद्धमवेद्यत्वम् । तेन व्याप्तं प्रकाशरूपत्वं वेद्यत्वेऽनवस्थानादेर्बहुशाखस्य उक्तत्वादिति व्यापकविरुद्धव्याप्तो- पलब्धिः । ननु शाक्यमतमीदृशं यदि स्यात्, तत् स्वसंवेदनमेव एकं प्रत्यक्षं समदर्शयिष्यत, न ऐन्द्रियिकमित्याशङ्क्य आह केवलम् इति ।

कारणभेदात् स्वरूपभेदाच्च अवान्तरभेदकृत एष विभागः इन्द्रियादेः कारणात् परप्रकाशतास्वरूपेण च प्रकाशनात् । तेनैव असाधारणेन व्यपदेश ऐन्द्रियिक इति, अर्थप्रकाश इति च यथा मनसयोगिप्रत्यक्षानुमान- ज्ञानानामसाधारणेन व्यपदेशः । यत्र तु असाधारणं निमित्तान्तरं न उपलभ्यते, तत्र औत्सर्गिकं स्वसंवेदनत्वं व्यवह्रियते इति । तदपि अर्थात् गोबलीवर्दन्यायेन विशेषनिष्ठमेव जायते । ततश्चतुर्विधप्रत्यक्ष- वादिनोऽपि स्वरूपसंवेदकत्वं स्थितमेव । ननु मा भूत् परज्ञानविषयस्य ज्ञानान्तरेण अवभासनम्, स एव तु अनुभवः स्मृतिज्ञानेन प्रकाश्यतामतीतरूपोऽपि धारासार इव नदीपूरेणेति । आह स्मृतिज्ञाने च इति । अर्थवत् इति वैधर्म्येण दृष्टान्तः । अर्थो हि यथा भेदेन भाति, न तथा अनुभवः ।

नच युक्तं स्मृतेर्भेदे स्मर्यमाणस्य भासनम् । (१ । ४ । ३)

इति भाविदृष्ट्या साधर्म्यदृष्टान्तो वा । स्मृतौ निर्दग्धपित्रादिरर्थो यो विषयः, तस्य न स्मृतिज्ञानात् बाह्यस्य कस्यचित् सम्भावना भेदेनेति अन्तर्मुखरूपाभेदेन स्मृत्यनुभवयोः प्रकाशः सिद्धान्त एव भविष्यति ।

एवञ्च इति अनुभवविषयस्य अनुभवस्य वा स्मृतिज्ञानेन अप्रकाशनेऽपि संस्कारेण तावत् सविषयतामात्रं दीयतां स्मृतिज्ञानस्य; अनुभवविषयतया तु योऽध्यवसायो

(पगे २१३)

विषयस्य, स न स्यादिति । तत् यदि तृतीयापि गतिर्न अङ्गीक्रियते अनुभवेन सह स्मृतेरेकमेव रूपमन्तर्मुखमित्येवंरूपा, तदा हि एतत् निर्वहति- स्मृतिप्रकाश एव हि अनुभवप्रकाशोऽन्तः कालभेदस्य विषयोपाधिकस्य संविदि अवास्तवत्वादिति स्मृतावपि अनुभवविषयतयैव आभाति सोऽर्थः ।

तिसृभिर्गतिभिः शङ्क्या तद्विषयता । द्वे च सर्वथा अनुपपन्ने इति तृतीयगतिमुखेन इत्थं सिद्धवदुक्तम् । ततश्च इति तद्विषयत्वेन अवभासाभावात् स्मरणादभिलाषेण या प्रवृत्तिरुपादानादिका, सा न स्यात् । पूर्वानुभवस्य यो विषयः, तेन सह यदि स्मृतिविषय एकतां नीयेत, तदा असावुपपद्येत । तथाहि कपित्थमवलोक्य सुखसाधनमिदमिति स्मृत्वा उपादत्ते । सुखं च पूर्वानुभवैकलग्नमस्यां स्मृतौ न किञ्चिदस्ति ।

यदाह

इदमेव च नः सुखं यत्सातं संवेदनम् ।

इति । संस्कारादेव तु सुखरूपतायां सुखानुभवज्ञानमिव इदं स्यात्; नतु स्मरणमिति । अनेन नतु व्यवस्थापिका घटते इति वृत्तिर्व्याख्यता ॥ १ ॥

ननु मा भूत् परविषयस्य स्वीकारः, यस्तु संस्कारमहिमोपनतोऽध्यात्मसिद्धश्च मम अनुभवोऽभवदिति स्मृतावनुभवस्य अवभासः, स किं न अङ्गीक्रियते इत्याशङ्क्य तन्निराकरणहेतुतया सूत्रं

दृक् स्वाभासैव नान्येन वेद्या रूपदृशेव दृक् । रसे संस्कारजत्वं तु तत्तुल्यत्वं न तद्गतिः ॥ २ ॥

दृक् ज्ञानम् । सा स्वस्यैव आभासः स्वस्य आभासनं नाम तस्यैवेति ।

नच अस्या अप्रकाशमानं रूपमस्तीति । प्रकाशश्च अस्याः

(पगे २१४)

परप्रसादोपनतोऽपि भवेत्, सदाप्रकाशमानत्वेऽपि च नीलाद्याकारच्छायाकल्पं द्वितीयमपि अप्रकाशमानं रूपं स्यादिति अवधारणद्वयमन्यत् । तेन स्व एव अस्या आभास एव, स्वस्या आभास एवेति वेत्येवं वैयधिकरण्यसामानाधिकरण्याभ्यां यदीयः स्वभावः प्रकाशेन सर्वस्य नियम्यते, सा जडात् भिद्यते । तदत्र नियमोपलक्षितेन अनेन लक्षणेन अन्यवेद्यत्वं निराकृतम् । रसे रसविषया दृक् यथा न अन्येन रूपादिज्ञानेन वेद्या, तद्वत् सर्वा दृक् न अन्येन ज्ञानेन वेद्या ।

अनुभवश्च दृग्रूपः इति न स्मृतिज्ञानेन वेद्यः । संस्कारेण तर्हि किं कृतम् । आह विषयस्य जनकस्य अभावात् निर्विषयतायां प्राप्तायां सविषयतारूपं तत्तुल्यत्वं तेन कृतम्, उपचारात्तु कार्यकारणयोरभेदेन निर्देशः । उपचारे प्रयोजकं कार्यान्तराभावेन तदेकप्रवणताधिगमः, नतु तदवगमरूपत्वं पूर्वानुभवाभासकत्वं, संस्कारजन्यं तत्तुल्यत्वमपि वस्तुचिन्तया उच्यते । तस्य तु गतिरवगमो न उपपद्यते ।

स्मृत्यनुभवयोर्हि कस्तृतीयः सादृश्यमध्यवस्येत् । तौ च अनन्योन्यदृश्वानौ न सादृश्यमधिगच्छत इति सूत्रार्थः । न तद्गतिः इत्यत्र द्वावर्थौ तच्छब्देन अनुभवस्य सादृश्यस्य च परामर्शात् । तत्र प्रथमार्थो द्वितीयस्मिन् हेतुत्वेन मन्तव्यः । उपचार इह वृत्तौ स्फुटीकृतः संस्कारजत्वेन इति । एतत् सङ्क्षेपेण अवतारयति आद्य इति । यत आद्यानुभवे वेकदत्वादनुभवस्य यत् मुखं विषयप्रकाशनं तेन स्मृतेरपि विषयप्रकाशनरूपत्वं स्यात्; नच तदस्तीति सूत्रस्य गम्यमानसाध्या- भिप्रायनिर्देशः । यस्मात् इत्यनेन गम्यमानसाध्योपयोगित्वं दर्शितम् ।

सङ्कारजत्वेऽपि इति अभेदोपचारात् तुल्यत्वमपि सङ्क्षेपेण उक्तम् ।

ज्ञानान्तरवेद्यं न भवति इति । अमुना तद्गतिः इत्यस्य सङ्क्षेपेण द्विधा

(पगे २१५)

व्याख्यानम्-न अनुभवस्य अवगमः स्मृतिः, न तत्तुल्यत्वस्य अवभासः स्मृत्या अनुभवेन तृतीयेन वा । सर्वत्र साधारणं हेतुवचनं ज्ञानं ज्ञानान्तरवेद्यं नेति । स्वसंवेदनैकरूपत्वात् इत्यनेन दृगित्यादेरर्धस्य सङ्क्षिप्य अर्थनिर्देशः । एकग्रहणेन एवकारार्थ- व्याख्यानम्-एकमेकादि अनन्यसहितमेकं च, तदेव; नतु कदाचिदन्यत्, एकस्य च तस्यैव अजडस्य रूपं न जडस्य । स्वसंवेदनमेकं रूपं यस्य इति टीकाकारोऽस्य सूत्रस्य शङ्कितपरमतनिरसनहेतुतां हिशब्देन द्योतयति ।

दृगेव स्वाभासा, दृक् स्वाभासैवेत्येवमयोगान्ययोगोपलक्षितस्वाभासनिय- मवत्त्वं दृशो लक्षणम् । तत्र दृगेव स्वाभासा न अन्यद्वस्तु इति यदन्यदाक्षिप्तं जडं, तल्लक्षणपुरःसरमजडाया दृशो लक्षणमाह अयं हि इति । अप्रकाशात्मा जड इत्युक्ते नीलं प्रकाशते यदा, तदा न जडं स्यादिति स्वयङ्ग्रहणम् । प्रकाशमानस्यापि हि तस्य यत् प्रकाशनं, न तत् स्वात्मनि नीलरूपे सम्बन्धितया विश्रान्तम्; अपितु परत्र प्रमातृरूपे । तेन अयं विग्रहः-अविद्यमानः प्रकाशः प्रकाशनं यस्मिन् विश्रान्ततया, तादृगात्मा स्वभावो यस्येति । एतदाह स्वात्मनो न प्रकाशः इति । अस्यैव स्फुटीकरणं भविष्यति-स्वात्मनो न प्रकाशते, अपितु परस्य प्रकाशते इति । सप्तम्यर्थे षष्ठी । यच्च नीलं प्रकाशते इत्यत्र पकाशनं नाम, न तत् नीलस्य स्वभावः; अपितु परभूतमेव तत् नीलात् । चैत्रमैत्रादेः प्रमातुर्हि स्वभावभूतं तत् । प्रकाशनं न आत्मा, अपितु परभूतं यस्येति विग्रहः ।

तदाह स्वात्मना न अस्य प्रकाशः इति । एतदेव व्यक्तयिष्यति पर एव अस्य प्रकाशः इति । एवं नीलं यथा स्वात्मनि नीलं, न तथा प्रकाशरूपं, प्रकाशनं च यथा प्रमातूरूपं न तथा नीलस्येति यस्य अप्रकाशो

(पगे २१६)

रूपं, प्रकाशश्च न रूपं; तत् जडमिति तात्पर्यम् । एतद्विपर्ययेण अजडं ज्ञानं यस्य अप्रकाशो न रूपं, तत् दर्शयति अजडस्तु इति स्वात्मनः प्रकाशः स्वात्मा अस्य प्रकाशः इति प्रकाशनमात्मनि विश्रान्तं यस्येति, प्रकाशनमात्मा स्वभावः, नतु परो व्यतिरिक्तो यस्येति च विग्रहद्वयेन प्रकाशात्मा इति व्याख्यातम् । तदेव क्रमेण स्फुटीकरोति स्वात्मन एव इत्यादिना । एवमप्रकाशात्मा प्रकाशात्मेति च जडाजडयोर्लक्षणं प्रत्येकं द्विधा स्वरूपयोजनमुखेन पररूपव्यावर्तनमुखेन च टीकाकृता व्याख्यातं क्रमेण स्फुटयता ।

अनेनैव टीकाग्रन्थेन स्वाभासैव इति नियमश्चतुर्धा व्याख्यातः । तथाहि स्वरूपस्यैव सा प्रकाश इति व्याख्यातं स्वात्मनः प्रकाशः इति, अप्रकाशमानमस्या न रूपमिति व्याख्यातं स्वात्मा अस्य प्रकाश इति कदाचिदपि न अस्याः प्रकाशः परप्रसादोपनत इति विवृतं स्वात्मन एव प्रकाशते न परस्य इति, नीलाद्याकारान्तरमस्या न रूपमिति विवृतं परोऽस्य न प्रकाशः इति । परो हि यो नीलादिः, सोऽस्य कथं प्रकाशात्मकरूपः स्यादित्यर्थः । एतद्वैपरीत्येन जडेऽपि चतुर्धा लक्षणं योज्यम् । सर्वा हि ज्ञप्तिः इति सर्वशब्देन दृगिति जातावेकवचनं व्याख्यातम्, नतु अदृग्रूपम्; दृगित्यवधारणं च । स्वाभासा हि या काचन वस्तुमात्रा, सा सर्वा दृग्रूपा भवतीति । वाक्यान्तरगतं हि अवधारणमेकत्र अंशेऽपि अवधारिते यद्यपि कृतकृत्यं भवति यत् तत्र तत्र उच्यते भिन्नक्रम इति, तथापि सर्वाङ्गपरिपूर्णं पूर्णं तत् भवतीति सर्वांशगतत्वे बाधकं चेत् नास्ति तथैव व्याख्येयम् । नच एकवाक्यतायाः खण्डना काचित्, प्रत्युत नियतैकघनाकारस्य वाक्यार्थस्य प्रतिपत्तिरेकतयैव स्फुटा भवति,

(पगे २१७)

तत एव ब्रह्मादिषुहन्तेर्भूते क्विप् इत्यादौ चतुर्विधावधारणाश्रयणमनु-पदकारादयः प्रतिपेदिरे ।

व्याख्यानार्थं तु अवान्तरवाक्योत्थापनं न वाक्यभेदमानयति एकस्मिन्नपि नियमे विधावपिवा तस्य अवश्यम्भावात् । ब्रह्मादय एवम्भूतास्तावत् मन्तव्या उपपदत्वेनेत्यादिवाक्यभेदमन्त-रेण व्याख्यानायोगादित्यलं बहुना । ननु एवं नियमे दृग्व्यतिरिक्तस्य जडत्वमिति उक्तं भवति । ततश्च ज्ञानेभ्योऽतिरिक्तो यः प्रमाता, स जडो भवेदिति अजडप्रमातृवादी ज्ञानस्वाभासतावादेन कथं जयेदित्याशङ्कां निरस्यति अत एव इति । यदिदं जडाजडयोर्लक्षणमुक्तम्, तत एव हेतोर्न जडः प्रकाशते स्वयम्, नापि अयमर्थः प्रकाशकारी । व्यतिरेकेण उक्त्वा अन्वयेन आह प्रकाशस्यैव हि इति । यस्मादयमन्वयोऽस्ति, तस्मात् व्यतिरेकोऽपि अयं पारमार्थिक इति हिशब्दः । ननु प्रकाशस्य प्रकाशते इति प्रकाशद्वयं स्यात्, नच एवम् । अस्मदर्थ एव हि प्रकाशते, इति इयं च असौ संविद्वा द्रष्ट्टता वा ज्ञानं वा न मता । आह प्रकाश एव हि इति । हिशब्देन हेतुतां द्योतयता निराकरणीयवस्तु शङ्क्यमानं सूचितम् । प्रमायां स्वतन्त्रः प्रमाता, प्रमा च प्रकाशनम् । तत् यस्य न अन्यतः, अन्यस्य च यत्प्रसादात् तत्; स एव तस्यां स्वतन्त्र इति तात्पर्यम् । प्रकाशात् इति नीलं प्रकाशते इति यः प्रकाशभागः, तस्माद्भिन्नः स्वात्मांशः प्रकाशस्वभावोऽन्यथा वेति विकल्पद्वयम् । य्दि प्रथमः पक्षः, तर्हि अर्थांशगतः प्रकाशोऽन्यः किमङ्गीक्रियते । नहि प्रकाशद्वयं भाति, नचापि प्रकाशस्य देशकालस्वरूपतो भेद इति वितत्य उदितं प्राक् । प्रकटता च न अर्थधर्म इत्यपि उक्तम् । संवित्तु विवेचयिष्यते । तत्प्रथमपक्षे प्रकाश एव प्रकाशकः प्रमातेति सिद्धम् । द्वितीयस्तु पक्षो दोषोपहत

(पगे २१८)

इति उपेक्ष्य एवेत्याह प्रकाशात्मत्वे इति । ततश्च प्रकाशस्यैव नीलं प्रकाशते इत्यत्र अयं परमार्थः-महाप्रकाशात्मकं यत् भगवतो रूपम्, तत्रैव स्वशक्त्या शून्यप्राणाद्यन्तःसङ्कुचितो बहिर्विषयेषु न अत्यन्तं सङ्कुचितो यः प्रमाता प्रकाशते, स एव बहिः सङ्कोचमापद्य नीलप्रकाशत्वेन भातीति । परमार्थत इयं श्रीमतो महादेवस्य शक्तिविजृम्भा महादर्पणान्तरवभासिप्रगृहीतप्रतिबिम्बकबहुतरसूक्ष्म- दर्पणान्तरवदिति प्रकाश एव अजडः प्रमातेति युक्तम् । ननु जड एव अप्रकाशमानः प्रमाता अस्तु । आह तदप्रकाश इति कस्य इति मम इति ।

प्रकाशमानस्यैव हि भित्तिकल्पस्य विचित्रकल्पतया नीलं प्रकाशते इत्यादय उल्लेखाः । तत्रापिच इति अपेक्षणीये प्रमात्रन्तरे । तथात्वे इति जडत्वेन प्रमात्रन्तरापेक्षायामनवस्था । ननु भवतु असौ बीजाङ्कुरवत् । भवेत्, यदि मूलं न निहन्यात्, निहन्ति तु । तदाह अर्थस्य प्रतिपत्तिरवभासो न भवेत् पूर्वरूपविलक्षणस्य प्रकाशमानस्य कस्यचिदभावात् । ननु च इयता प्रकाशमात्रं प्रत्यर्थनियतं सिध्येत्, न प्रमातेति । आह अनुगत इति । स प्रकाशो यद्यपि बहिर्मुखतया वेद्यभेदेन तदुपरागायातेन च देशकालभेदेन सङ्कुचितः, तथापि अन्तर्मुखप्रमातृलक्षणमपि असङ्कुचितमभिन्नं रूपं तत्र सङ्कुचितेऽनुगतम् । तेन विना न कश्चिदर्थानां कार्यकारणभावबाध्यबाधकभावादिसमन्वयो लोकयात्रास्वभावः परमार्थोपदेशपर्यन्तः स्यादिति वितत्य भविष्यति

देशकालक्रमजुषा———। (१ । ७ । ३)

इत्यादौ

समलो विमलो वापि व्यवहारोऽनुभूयते । (१ । ७ । १४)

इत्यन्ते प्रकरणे । ननु अनुगतं प्रमातृरूपं ज्ञानलक्षणानां प्रमाणां

(पगे २१९)

समवायिकारणमात्मा भविष्यतीति किं तत्प्रकाशनाप्रकाशनचिन्तया,- इत्याशङ्क्य आह ततः इति । यतोऽन्तर्मुखप्रकाशस्वभावोऽनुसन्धानप्रत्य- वभासपरामर्शस्वभाव एव समन्वयः, ततो न प्रमाकारणत्वमात्रेण विषयेन्द्रियादिवैलक्षण्येन जडस्य आत्मनः प्रमातृता युक्ता । ननु काणाददृशा जडत्वमनुपपन्नमस्तु प्रमातुः, प्रकाशमानत्वे तु प्रमातुर्घटादेरिव कारकसामग्रीजन्यतद्विषयसंविदुत्पादलक्षणं कथम् । नहि घटं वेद्मीतिवदहमंशः कर्मत्वेन भाति, तत एव अयमजडोऽपरोक्षश्चेति । एतत् प्राभाकरं मतं स्वदर्शनेन समीकरोति अन्यथा तु उपपद्यते इति वचनम् । नीलं हि यथा इदमिति परस्य प्रकाशते, न एवमयमात्मेति । तत्कथं जडः स्यादिदन्तया प्रकाशनाभावात् । नच अयं प्रकाशः । नीलसुखादि हि प्रकाशते इति स्यात् तद्विषया संविदुत्पद्यते । ननु आत्मा प्रकाशते आत्मसंवित्त्यनुदयात्, ततोऽयं न नीलवत् प्रत्यक्षो नीलप्रत्यक्षतायाम् । नच सर्वथा निःस्वभाव एवेति अपरोक्ष आत्मा इति तदित्यपरोक्षताभिधानमेव युक्तमस्मदुक्तया स्वप्रकाशात्मतया, नतु अन्यथा । तथा हि सतो द्वयी गतिः-प्रकाशते चेत्, प्रत्यक्षः; न चेत्, परोक्षः ।

तत्र अप्रकाशनपक्षे परोक्षता स्यात्, प्रकाशनपक्षे प्रत्यक्षतेति अपरोक्षताभिधानेन प्रकारान्तरमुपतिष्ठेत असत्त्वं नाम । नच तद्युक्तमित्याह नहि इति । पुरुषभेदनियतः इति मम प्रकाशते चैत्रस्य प्रकाशते इति । एवं प्रकारान्तरेण अपारोक्ष्यमसत्तायामेव विश्राम्येदिति उपपाद्य स्वदर्शनेन तत् निर्वहति अपरोक्ष्यं पुनः इति । प्रसिद्धं यदैन्द्रियकमानसप्रत्यक्षसंवेद्यं, तदिदमिति प्रमातुर्भेदेन भातीति अक्षप्रतिगमादस्तु प्रत्यक्षम्, नैवं प्रमाता । तत् न प्रत्यक्षो नच न भातीति न परोक्षः । अन्यथा इति एवमभ्युपगतेऽस्य भङ्गीभणितस्य

(पगे २२०)

विषयविभागे परोक्षतैव यदि तस्य अस्तित्वमिति आकूतशेषः । परेण हि एवमुच्यते-अहं घटं वेद्मि, अहं पटं वेद्मीत्यादिव्यवहारेषु घटादिविषयाः संविद उत्पद्यमानाश्च विलीयमानाश्च भान्ति ।

तथाभूतसंविदुदयप्रसादात् घटादीनां प्रत्यक्षता । ताश्च संविदो न विषयधर्मः, न आत्मधर्मः स्वातन्त्र्येण निर्भासनात् । तदेतदस्तु तावत्, यत्तु अहमिति भाति, न तत्र संविदुदयोऽपेक्ष्यस्तदपेक्षणे तद्भानस्य विच्छिन्नतया प्रसङ्गात्, कर्मत्वेन च । नच एवम् । यदाहुः

सकृत् विभात आत्मा ।

इति । तदत्र आत्मनः प्रकाशरूपतैव उपगता भवति केवलं; संविदामपि प्रकाशरूपत्वे स्वरूपदेशकालादिभेदाभावे ततः प्रकाशरूपात् पारमार्थिकात् कथं भेदो भवेदिति मायाकृतनीलादि भेदोपरागसङ्कोचप्रसादोपनतो नैव अङ्गीकर्तव्योऽस्मन्नयानुप्रवेशेनेति प्राभाकराणामपि मोहोऽपसारितः प्रसङ्गात् । तदेतदाह अत एव इति ।

यदेतदपारोक्ष्यं स्वातन्त्र्यप्रकाशनसारमङ्गीकृतम्, तत एव हेतोरिदमयत्नसिद्धमङ्गीकर्तव्यम् । यत् किल वक्ष्यते-अस्तित्वं प्रकाशमानत्वमेव, तच्च प्रकाशस्वरूपे स्वनिष्ठमेव अनन्यापेक्षत्वात् ।

मायाकल्पितभेदत्वेन मायादशायां यो नीलादिर्जडः, स प्रमातृनिष्ठ एव प्रकाशते इति प्रमातुरेव असावस्ति, नतु स्वात्मनः किमपि असौ; स्वात्मैव हि अस्य न कश्चिदिति । तथाच अजडप्रमातृसिद्धिः

एवमात्मन्यसत्कल्पाः प्रकाशस्यैव सन्त्यमी ।

जडाः प्रकाश एवास्ति स्वात्मनः स्वपरात्मभिः ॥ (१३)

इति । नतु संविद्वादी प्राभाकरः कामममुना नयेन स्वदर्शने निपात्यताम्, काणादस्तु कथम् । स हि एवमाह-आत्मनि समवायिकारेण मनःसंयोगादसमवायिकारणात् कार्यैकार्थसमवायेन

(पगे २२१)

प्रत्यासन्नात् दृष्टसामर्थ्याच्च अक्षालोकादेर्निमित्तकारणाच्च ज्ञानमुत्पद्यते चेत्, अर्थः प्रकाशते इति । तदर्थप्रकाशाधीनश्च इच्छाप्रयत्नदेहक्रियाहानादानादिर्व्यवहारः सम्पन्नः इति किं प्रकाशमानत्वेन आत्मनः कल्पितेन । यदापि आत्मा प्रकाशते इति व्यवहारः, तदापि अनुमानेन मनसैव आत्मविषयज्ञानमेव आत्मनः प्रकाशनमिति का हानिः । अत्र उच्यते-किं ज्ञानोत्पत्तिरर्थस्य प्रकाशतां करोति, उत सैव सः । तत्र प्रथमं पक्षमाक्षिपति नच इति । प्रकटता हि एवमर्थधर्मोऽङ्गीकृतः स्यात् कार्यताभ्युपगमे । सा च दूषिता बहुश इति स्वभावतापक्ष एव द्वितीयो युक्तः । तदाह अपितु ज्ञानमेव इति प्रकाशमानता इति सम्बन्धः । तदपि इति आत्माक्षार्थादिस्तावत् न प्रकाशधर्माः, ज्ञानमपिच यदि न प्रकाशधर्मः; तर्हि प्राग्वत् इति तदनुदये यथा न किञ्चित् प्रकाशते, तथा तदुदयेऽपि मा किञ्चित् प्राकाशिष्ट, किं नश्च्छिन्नम् । किं नेत्याह अर्थोऽपि इति । अर्थस्य हि ज्ञानमेव प्रत्यक्षतेति अतत्प्रकाशे कथं प्रत्यक्षत्वेन असौ व्यवहारः शुक्लाप्रकाशे शुक्लत्वेन इव । तद्व्यवहार्यतायां हि कारणं तद्रूपेण प्रकाशनम्, अन्यथा नियमेन तथा व्यवहारः कुत इति कारणानुपलब्धिः ।

अथ प्रत्यक्षतापि ज्ञानान्तरेण प्रकाशते इति उच्यते, तदनवस्थेति प्राग्वच्छब्दस्य अर्थः । एवं प्रकाशस्य तावत् परप्रकाश्यता न उपपन्ना ।

तावद्ग्रहणेन इदमाह-प्रकाशस्य इदं स्वाभासत्वं स्थितम्, तस्मिन् सति परप्रकाश्यत्वं निवृत्तम् । तन्निवृत्तावनुभवः स्मृतिज्ञानेन न प्रकाश्यते इति । यद्यपि इयत् प्रकृतं प्रमेयं, प्रमाता तु न अद्यापि सिद्धः, तथापि तत्त्वचिन्ता इयं वादरूपा वर्तते इति प्रकाशस्य तात्त्विकरूपचिन्तनं टीकायां न असमञ्जसमिति

(पगे २२२)

तत एव न अस्य चोद्यस्य आशङ्का किल । बौद्धेन स्मृतिसमर्थनाय अनुभवज्ञानं स्मृतिज्ञानेन भाष्यतामित्युक्ते कारिकया उचितमुत्तरमुक्तम्, वृत्त्या अपि अदनुसारेण निरूपितम् । तत् न किञ्चित् सूत्रवृत्त्योरयुक्तम् । विवृतौ तु सर्वा हि ज्ञप्तिः इति व्याख्यातुं जडाजडयोर्लक्षणभेदो य उक्तः, स युक्तः । ज्ञानं ज्ञानान्तरवेद्यं न भवति इति हि प्रकृतमेतत् । तदनन्तरं तु तत्प्रकृतप्रमेयसमर्थनग्रन्थ एव कर्तव्यः एकप्रमातृनिष्ठत्वेनापिच इत्यादिः । अनेन हि सन्तानान्तरज्ञानस्य कदाचित् ज्ञानान्तरेण अनुमानादिना प्रकाश्यत्वमस्तु, नतु स्वसन्ततौ तत् कथमपि उपपन्नमिति आवेद्यते । मध्ये तु योऽयं ग्रन्थः अत एव न यस्य प्रकाशः स्वात्मभूतः इत्यादिः पराशयः प्रकाश एव भवति, नतु तदनुमानम् इत्यन्तः; स कथं सङ्गच्छते । नहि अनेन कारिकावृत्त्यर्थः कश्चित् समर्थ्यते, केवलं प्रमातुर्जडाजडत्वचिन्ता क्रियते । स्मृतिबलात् प्रमातृप्रसाधनायैव च अयं यत्नः । तथाहि ज्ञानानां न अन्योन्यविषयस्पर्शनेन अन्योन्यप्रकाश्यप्रकाशकभावस्तदधीनश्च सर्वस्मृत्यादिव्यवहार इति प्रमाता अवश्याङ्गीकार्य इति प्रकरणान्ते निर्वाहयिष्यते

न चेदन्तः कृतानन्तविश्वरूपः———। (१ । ३ । ७)

इति । तस्मात् किमेतदिति यतः प्रकाशस्य वृतान्तस्तिलशस्तत्त्वचिन्तायां विचारयितव्यः । स्वप्रकाशस्वरूपपर्यालोचनप्रसङ्गात् यदायातम्, तत् चेदुपेक्षेत विवृतिकारः, न सुस्पष्टमनेन ज्ञप्तिस्वरूपं विवृतं स्यात् ।

ततश्च तद्विवरीषुणा तत्स्वरूपं च निरूपितं प्रकृतश्च ज्ञानस्य स्वप्रकाशतावादः समर्थितः । अयं हि अभिप्रायः-प्रकाशस्तावदेकोऽस्तु वा, परमार्थतोऽनेको वा, प्रमातृरूपो वा ।

(पगे २२३)

सर्वथा तावत् परप्रकाश्यत्वमस्य अनुचितमिति । वस्तुतश्च अस्य ऐक्यमेव उचितं भेदहेतोः स्वरूपदेशकालादेरयोगादित्याशयेनापि दृक् इति एकवचनं सूत्रे । अनादरमत्र तु ख्यापयितुं सर्वा इति वृत्तौ ।

तत्संवादनार्थमेव सूत्रान्तरवचसा बहुवचनान्तेन संवादनमिति न किञ्चिदत्र अवद्यम् । मध्यग्रन्थावतारणे च अस्माभिरुक्तं यदि बोधः स्वप्रकाशं ज्ञानमुद्ग्राहयन् स्मृतिं समर्थयितुमक्षम इति प्रमाता कश्चिदङ्गीक्रियते, स तर्हि ज्ञानव्यतिरिक्तत्वादेव स्वप्रकाशः प्राप्नोतीति अपसिद्धान्तः सिद्धान्तिनः प्रसज्यते । अयमेव हि एवंविधस्य विषयो यत्र परोपदेशाय वादे क्रियमाणे तत्त्वनिरूपणाय बहुतरं वस्तु समर्थ्यम्, तत्र किञ्चित् समर्थयमानस्य समर्थनीयान्तरघटनमिति । अत एव न अयं हेत्वाभासस्य विषयः । सहि एकसाध्यविषयो भवति ।

तदपसिद्धान्तशङ्कानिराकरणमकारि टीकाकारेण । नहि प्रमाता नाम ज्ञानव्यतिरिक्तं किञ्चित्, अपितु ज्ञानानां बहिर्मुखसङ्कोचभाजां यदन्तर्मुखमदेशकालभेदप्राणितं, तदेव स इति । किञ्च स्वप्रकाशत्वं नाम बोधस्य लक्षणमिह उक्तं, तत्र लक्ष्यव्यतिरिक्तेऽपि विषये यत् लक्षणमास्ते, तदतिव्याप्तिदोषदूषितमिति अलक्षणं स्यात् । लक्षणहेतुश्च अयम् । तदिदं प्रमातरि अपि अस्ति भवन्मते इति सिद्धान्तिनः कथमिदं बोधस्य लक्षणम् । नच परसिद्धतामात्रेण वस्तुसिद्धिरित्यपि बौद्धस्य भवेत् वचनावकाशः, तमपि उपशमयितुं मध्यग्रन्थः,-इत्यलं बहुना, प्रकृतं तु ब्रूमः । ननु प्रकाशत्वे प्रमातुर्जडतायामनवस्था,-इति अप्रकाशस्वभावोऽसावुक्तः, तदेतत् कथं परप्रमातुर्व्यापारव्याहारादि- ना अनुमेयत्वात् । बौद्धस्य अपि ज्ञानमेव सन्तत्या विकल्पकतया वा प्रमातृरूपम् । तदपि व्यापारादिना परसन्तानगतमनुमेयमिति कञ्चित् ब्रुवाणं प्रतिक्षिपति

(पगे २२४)

यदपि इति । ननु ज्ञानमपि सिद्धान्तिमते प्रमातुरव्यतिरिक्तम् । तत् तस्मिन्ननुमेयतया प्रकाश्यत्वेन अङ्गीकृते प्रमातुरपि स्यादेव प्रकाश्यत्वमिति । आह कल्पित इति । इह यथा बौद्धमते स्वप्रकाशस्यापि ज्ञानस्य प्रत्यक्षवेद्यस्यापिवा घटादेरर्थस्य कार्यत्वादिर्धर्मो व्यतिरिक्तोऽपि व्यावृत्तिबुद्ध्या कल्पितोऽनुमीयमानोऽपि न स्वसंविदध्यक्षसिद्धतामपहस्तयति, तथा प्रमातुर्मायाशक्त्या यत् निराकारवादे विषयौन्मुख्यं नाम स्पष्टं साकारवादे विषयाकारत्व- मनतिरिक्तमपि अतिरिक्तमिव रूपं, तस्य प्रकाश्यत्वेऽपि न प्रमातुः स्वप्रकाशता खण्ड्यते परमार्थस्य कल्पनया अनपबाधनात् ।

मूलप्रसिद्धमेव हि रूपं तत्र अनुमानेन काल्पनिकेन उपबृंह्यते स्वप्रकाशतया विना यथोक्तयुक्तिभिरनिर्वाहात् । एवं ज्ञानमेव अनुमेयं, नतु परमार्थप्रकाशः । तद्धर्मानुमेयतोपरागात् तु प्रमातुः परस्य अनुमानमिति प्रसिद्धिः । ननु ग्राहकोऽपि परोऽनुमेयतया प्रसिद्धः, किमत्र बाधकं येन परोपरागकृतोऽयमत्र अनुमेयताव्यवहारः स्यात् । अस्तु एवम्, तथापितु परसन्ततिपतितशरीरप्राणबुद्धिशून्यरूपसमाविष्टत्वं प्रकाशस्य अनुमीयते स्वप्रकाशस्यापि तत्र व्यापारव्याहारादिना । ततश्च अयं परमार्थः-स्वप्रकाशं संवेदनं सकलदिक्कालगतमपि अधुना धर्मिण्येतच्छरीरादौ विषयोन्मुखं विषयाकारमेतच्छरीरादितादात्म्य- समाविष्टमिव साध्यमेतच्छरीरादिव्यापारव्याहारयोगात् स्वशरीरादिवत् ।

नच एतावता स्वप्रकाशताहानिः स्वसंवेदनस्य । तथा

सामान्यमेकं प्रत्यक्षम्-।

इति दर्शने कान्यकुब्जे गौरस्तीति प्रमाणान्तरेण प्रसिद्धो गोत्वसम्बन्धोऽनुमीयमानोऽपि न गोत्वस्य प्रत्यक्षतामपहन्ति ।

(पगे २२५)

तदेव हि तत् गोत्वं प्रत्यक्षसिद्धं तत्र अस्तीति सिद्धं तेन अनुमानेन उपवृंह्यते । यच्च येन अनुमानेन उपवृंह्यते, तत् तस्य न बाधकं भवति व्यवहारसाधनमिव प्रत्यक्षस्य । तथाच परप्रमातृतानुमानेन स्वप्रकाशत्वमेव उपोद्बल्यते स्वप्रकाशत्वस्य अभावे प्रमातृताया एव अनुपपत्तेः । तथाच देहे क्रियादर्शनादेवमध्यवसीयते । अत्र उत्तिष्ठामीति स्वप्रकाशमभिसन्धानमस्ति सावेगं ग्रासतात्पर्यदर्शनात् भुञ्जे इति, सुप्ते प्राणादिप्रेरणात् प्रेरयामीति सर्वत्र च अस्मदर्थविश्रान्तप्रकाशप्र- तीतेरिति । बाधकस्य हि कारणं तद्रूपोन्मूलकत्वम्, अन्यथा सर्वं सर्वस्य बाधकं भवेत् । तद्विरूद्धं च तदुपवृंहकत्वमिति कारणविरुद्धोपलब्धिः । परशरीरस्य प्रमातृता परमनुमेया । तत्तु प्रत्यक्षमपि भवति, परप्राणादि तु स्वरूपेण अनुमेयमेव सर्वदेति शरीरग्रहणं न कृतम् । यथा च स्वसन्तानेऽपि न स्वप्रकाशताहानिः, तथा परसन्तानेऽपि । शरीरादिप्रमातृताभिमानदार्ढ्यात् तु परोऽयं प्रमातेति व्यवहारः । परमार्थप्रमाता तु स्वप्रकाश एव । सोऽपिच अस्य अनुमातृतया वर्तमानस्य प्रमातुः स्वप्रकाशत्वेन अवश्यं भाति अन्यथा प्रमातृताया एव अयोगात् । उक्तं हि

यद्यप्यर्थस्थिति——-। (अ। प्र। सि। २०)

इति । प्रमातृत्वेन तु अभिमानास्पदं न भवति देहादिप्रमातृताभिमान- दार्ढ्यमित्याशयेन अनुप्रविष्टग्रहणम् । अनुप्राणकतया प्रविष्टमनुप्रविष्टमिति । क्व अनुप्रविष्टमिति निरूपयितुं स्वशब्देन प्रत्यगात्मशरीरप्राणादिरुक्तः । स्वस्य देहादेः प्रमातृत्वेन यत् संवेदनं, तदनुप्राणकत्वेन प्रविष्टोऽवश्यं निर्भासनयोग्य इति यावत् ।

एवं परमार्थप्रमातुरेकत्वात् स्वसंवेदनप्रकाशस्य अनुमेयता क्वचिदपि न उपपना, तत् कथं प्रकाश्यत्वं स्यादिति उक्तम् । अधुना तु

(पगे २२६)

इदमाह-भवन्तु वा बहवः प्रमातारः, तथापि स्वप्रमातरि तावत् प्रकाश्यत्वं नास्ति; परप्रमातृषु तु तदनुमानबलादानीयेत । नच अनुमानेन क्वचिदपि स्वलक्षणं स्पृश्यते । सामान्यविषयत्वं हि तस्य अन्यथा सम्बन्धग्रहणाद्ययोगात् । ततश्च प्रमातरि परत्र यदि नाम अपोहरूपमप्रमातृव्यावृत्त्यात्मपरिगृहीतमवस्तुज्ञानाकारमात्रं वा व्यतिरिक्तमात्मत्वलक्षणं सामान्यं वा, तावता तदस्तु प्रकाश्यम् ।

वस्त्वन्तरस्य तु प्रमातुः कः प्रकाश्यताकलङ्कार्पणावकाश इति ।

अनुमानमपिच इति चशब्दः प्रमेयान्तरसमुच्चये । अपिशब्देन प्रत्यक्षस्य अत्र अप्रकाश्यतापादने नास्ति सम्भावनेत्याह । एवकारेण घटादावपि अनुमानदिशा न प्रकाश्यत्वं निर्वहतीति ब्रूते ।

अध्यक्षज्ञानावभासिनः इति साक्षात्कारानुप्रवेशयोग्यं स्वलक्षण- मनया भङ्ग्या उक्तमिति घटादेरपि न अनुमेयत्वम्, किमङ्ग प्रमातृस्वलक्षणस्येति । ननु अवस्तुग्राहकत्वेऽपि अनुमानस्य वस्त्वध्यवसायितया प्रामाण्यम् । यदाह

प्रामाण्यं वस्तुविषयं द्वयोः———।

इति । तदनुमानागमविकल्पैर्वस्तुभूते आत्मनि अध्यवसाय इति तथाध्यवसेयत्वात् प्रकाश्यत्वमागच्छेदेवेति आशङ्कां व्यपोहति आत्मा इति । आत्मेति विकल्पेन प्रमातेति विकल्पेन चेति सम्बन्धः । आदिग्रहणेन आगमादिग्रहणम् । द्वितीयश्चकारः पूर्वपक्षशङ्काद्योतकः । वक्ष्यते इति टीकाकृता । यद्यपि उक्तमादिसिद्धसूत्रे, स्वतःसिद्धसूत्रे च; तथापिच

स्वातन्त्र्यामुक्त————। (१ । ५ । १६)

इति भाविसूत्राशयेन वक्ष्यते इति उक्तम् । ननु यदि साक्षादात्मा न प्रकाशते परकीयः, कथं परचित्तज्ञानं स्फुटाभं

(पगे २२७)

भवेत् परात्मनोऽप्रत्यक्षत्वादनुमानेन स्फुटाभस्वरूपावेदनाच्चेति ।

आह सर्वथा इति । योगिप्रत्यक्षं हि इदं, न पुनरनुमानम् । तथाहि

तस्माद्भूतमभूतं वा———।

इति

प्रत्ययस्य परचित्तज्ञानं संयमात् । (यो। सू। ३ । २०)

इति न्यायेन धारणाध्यानसमाधिबलात् परचित्तेन सह अभेदं यदा भावयति, तदा वस्त्वनुसारेण सा भावना, तथा वस्तुत ऐक्यात् मायाकृतत्वात् भेदाभिमानस्य स्फुटाभं परचित्तं प्रकाशते, नतु अनुमीयते तदा परचित्तमिति । ननु अनुमानेन मा भूत् साक्षात्प्रकाश आत्मनः, प्रत्यक्षेण तु स्वलक्षणमेव प्रकाश्यते, तच्च परात्मनि भवत्येव योगिप्रत्यक्षं परचित्तज्ञानादेः प्रसिद्धत्वादिति स्यात् परप्रकाश्यत्वमात्मन इति शङ्कां व्यपोहितुमाशयपदम् । एतदुक्तं भवति-तत्र योगिप्रत्यक्षेण रागादयश्चैत्ताः प्रकाश्यन्ते । तत्संवेदनेन सह योगिन ऐक्यापत्तेः संवेदनं स्वप्रकाशमेव भाति, नतु प्रकाश्यत्वेन । एवकारः समासानन्तरं प्रयुक्तो नतु मातृप्रकाशोऽत्र अभेदभावनासाध्यस्तस्य सदाप्रकाशत्वादिति वदन् पराशयस्यैव इति पूर्वपदार्थे स्वार्थं निवेशयति राजपुरुष एव अयमिति यथा, तथा स्वस्थानगतोऽपि एवमाह साक्षात्कार एव अयं पराशयस्य, नतु अनुमानमध्यवसायमात्ररूपमिति स्फुटाभस्य न सर्वथा अनुमेयत्वं कथञ्चिदिति । एवं परप्रमातुरपि प्रकाश्यत्वं नास्तीति समर्थितम् ।

बौद्धस्य तु परप्रमातृसिद्धिः सन्तानान्तरसिद्धिविध्वंसनं वासनाप्रबोधसूत्रे कुर्वता टीकाकारेण वितत्य विचारयिष्यते इति विरतमिह ।

एवं प्रसङ्गात् सिद्धान्तिना स्वदर्शने प्रमातृवृत्तान्तो विचारितो

(पगे २२८)

मध्यग्रन्थेन अमुना अत एव न यस्य इत्यादिना नतु तदनुमानम् इत्यन्तेन ।

अधुना दृक् स्वाभासैव इति प्रकृतमेव प्रमेयं निर्वाहयति भङ्ग्यन्तरेण ।

तथाहि कश्चित् ब्रूयात्-ज्ञानं स्वप्रकाशं स्वसन्ताने, परसन्ताने तु प्रमात्रन्तरापेक्षया ज्ञानान्तरप्रकाश्यमपि भविष्यति विषयभेदेन विरुद्धधर्माध्यासस्य अकिञ्चित्करत्वात्, सैव हि प्रमदा दयितस्य सुखं सपत्न्याश्च दुःखं जनयति; नच विरोधः कश्चिदिति । तं प्रति उच्यते एकप्रमातृनिष्ठत्वेनापिच इति । अयमन्वभूत्, अहमन्वभूवमिति स्मृतिद्वयं विलक्षणं भासते । तत्र स्वानुभवनिष्ठायां स्मृतावनुभवस्य यदात्मरूपत्वमात्मविश्रान्तत्वेन अनन्यापेक्षामयमस्मदर्थविमर्शनीयम्, तत् चेत् न भाति; परनिष्ठानुभ- वनिर्भासनात् कोऽस्य विशेषः स्यात् । अथ अयमस्मदर्थस्दनुभववेदनरूपस्मरणपरिनिष्ठितः सन् वेद्येऽपि अनुभवे सङ्क्रामतीति उच्येत, तर्हि परानुभवस्मरणवेदनयोगेऽपि अन्वभूवमित्येव प्रतीतिः स्यात् । अथ योऽनुभवस्तदापि अस्मदर्थविश्रान्तियोग्य एव भाति, तत्स्मृत्या संवेद्यते इति का भाषा । अस्मदर्थो हि प्रकाशस्य आत्मविश्रान्तिरनन्यापेक्षा, स्मृत्या वेद्यत्वं च अन्यापेक्षेति विरोधः ।

यद्यपि परसन्तानवर्तिनोऽपि ज्ञानस्य परप्रकाश्यत्वमनुचितं, स्वप्रकाशत्वमेव हि ज्ञानस्य अनौपाधिकं लक्षणम्, नच तत् विषयाभेदादन्यथा भवति, नहि नीलपृथिव्यादि अन्यापेक्षयापि जलादि सम्पद्यते, औपाधिकस्यैव रूपस्य तज्जनकत्वादेर्विपरिवृत्तिदर्शनात्, अन्यथा सर्वं विपरिवर्तेतेति भावस्य स्वरूपनियम एव न स्यादिति अन्यथाभवनस्य यदौपाधिकत्वं व्यापकं, तद्विविरुद्धानौपाधिकत्वोपलम्भादन्यथाभवनं स्वप्रकाशत्वस्य ज्ञानीयस्य निषिध्यते । तेन ज्ञानस्य विरुद्धमेव

(पगे २२९)

परप्रकाश्यत्वम् । अनेनैव आशयेन हि वक्ष्यति न ज्ञानस्वरूपमन्यसंवेद्यं स्वप्रकाशैकरूपत्वात् इति । एकग्रहणेन हि अनौपाधिकत्वेन तल्लक्षणतया तादात्म्यमुक्तं; तथापि अत्र तावत् विषयभेदप्रथनं धूलिप्रक्षेपणप्रायं विरोधपरिहाराय जात्युत्तरमपि स्यात्, इह तु तदपि नास्तीति अत्यन्तपदम् । अत्यन्तविरुद्धत्वमेव हेतुना घटयति नहि इति । तद्वेद्यः इति स्मृतिवेद्यः । तदापि हि इति स्मृतित्वेन यः सम्मतः कालः, तत्र । तत्स्थः इति स्वसन्ततिस्थ आत्मविश्रान्तिरूपोऽहमितिविश्रान्तियोग्यो न भातः स्यात् । भासतां तर्हि तथा । आह स्वप्रकाशे च इति स्वप्रकाशत्वपरप्रकाशत्वयोर्विरोध इति हि उक्तम् ।

अनया टीकया सूत्रं वृत्तिश्च भङ्ग्यन्तरेण व्याख्यातम् । स्वाभासैव या दृक् स्वसन्तानरूपा, तया आत्मविश्रान्तियोग्यमहंविमर्शनीयं यत् ज्ञानं; तत्र अन्यवेद्यता न उपपन्ना । स्वसंवेदनैकरूपा स्वसन्तानरूपतया आत्मताभिमानस्थानं या काचित् हि ज्ञप्तिः, सा अन्यसंविद्वेद्या न भवतीति । ननु यथा नीलादि कारणत्वात् संविदो विषय इति उच्यते, तथा अनुभवोऽपि स्मृतिज्ञानस्य कारणमिति विषयोऽस्तु,-इत्याशयेन आशङ्कते अथापि अन्यवेद्यता इति । अयं भावः-स्मृतिज्ञानस्य तावदनुभवज्ञानं पारम्पर्येण कारणमिति यदि विषय उच्यते, रूपज्ञानस्यापि रसादिज्ञानं समनन्तरत्वेन परम्परया वा अवश्यं कारणमिति रूपज्ञानेनापि अशेषाणि रसगन्धादिज्ञानानि विषयीक्रियेरन् ।

एकज्ञातृसमवेतपदेन बौद्धमते कारणत्वेन विशिष्टं काणादमते तु एकार्थसमवायेन विशिष्टं ज्ञानत्वमविशिष्टमिति सूचितम् । तेन एकसमवायिज्ञानत्वविशेषादिति मन्तव्यम्, नतु ज्ञानत्वाविशेषमात्रात् ।

एवं हि निर्मलमेव अभिधीयमाने

(पगे २३०)

सति वासुकिज्ञानाद्यपि अस्मदादिज्ञानस्य विषयो भवेदिति सर्वः सर्वज्ञः स्यादित्यादिर्भूयान् विप्लवः, योऽग्रे वक्ष्यते । नचापि रूपरसादिज्ञानामन्योन्यवेदकत्वं युगपत् क्रमेण वेष्यते, प्रसज्यते तु,- इति सहैव प्रथमतः प्रसञ्जनीयः स्यात्, नतु इन्द्रियनियमाभावमात्रम् ।

तेन सूत्रेऽपि एवं योजना-रसविषया दृक् स्वाभासैव यथा रूपदृशा न वेद्या, तथा अन्या अपीति । अग्रे तु रूपदृगेव रसदृगिति अविशेषेण योजयिष्यति ।

ननु रसज्ञानं यदि प्रकाशते, तत् किं नियमेन ज्ञानोपाधिना प्रकाशितव्यम् । नहि कुम्भेन प्रकाशमानेन तदुपाधेर्विशिष्टबुद्धिमत्- कृतत्वादेरवश्यं प्रकाशः, तत् कथमुक्तं सूत्राधिकं वृत्तौ अन्योन्यवेदने अन्योन्यविषयवेदनमपि स्यात् इति यस्य व्याख्यानाय टीकेयम्

-रसोऽपि तदुपाधिः प्रकाशेतेत्याशङ्क्य आह ज्ञानप्रकाश एव हि इति । न इदमुपाधिमात्मानं कुम्भवत्, अपितु तत्प्रकाशरूपं; ततश्च रसस्य प्रकाशो रूपप्रकाशे प्रकाशते इति रसस्यापि प्रकाशनमङ्गीकृतमेव भवति । तथाङ्गीराच्च स्वहेतोश्चक्षुर्ज्ञानं रसादिविषयं रसादिप्रकाशनयोगात् जातमिति इन्द्रियनियमो हीयेत । सहि त्रिविधः प्रसिद्धः ।

इन्द्रियबलात् ज्ञानस्य कार्यस्य नियमः-चक्षुर्जनितं हि ज्ञानं रूपस्य एव प्रकाश इति । इन्द्रियस्य च नियमो योग्यतात्मा-येन नयनं रूपज्ञानमेव जनयति, न अन्यदिति । इन्द्रियाणां च नियम इयत्ता षडिन्द्रियाणीत्यादि, तत्र प्रथमं प्रकारद्वयं व्याख्यातुं ततश्च इत्यादिना तावत्पदेन तृतीयः सूचितः । तं च व्याचष्टे तदभावाच्च इत्यादिना । इन्द्रियाणां स्वभावे नियमाभावात् तज्ज्ञानानां च विषयनियमाभावात् चक्षुर्ज्ञानस्य सर्वविषयाभासनसामर्थ्यादने- केन्द्रियकल्पना व्यर्था । अत्र हेतुः-एकेन्द्रियस्य तथाभूतं सामर्थ्यम् इति ।

(पगे २३१)

अत्रापि हेतुः-कार्यस्वभावस्य इत्यादि । अत्रापि हेतुः-अन्यथा इत्यादि । न चक्षुषा तावत् रूपज्ञानं जन्यते । तेन यदि नाम रसज्ञानं प्रकाश्यते, तावता शुद्धे रसे ज्ञानं प्रति अनुपाधिभूते प्रचिकाशयिषिते रसनेन्द्रियोपयोगो भविष्यतीति अनेकेन्द्रियकल्पना न व्यर्था । अत्र आह एवञ्च इति । चो हेतौ । एवं हि उच्यमानेनैव हेतुना केवलस्यापि रसस्य चक्षुरेव प्रकाशकं प्राप्तम्, केवलं सम्भवददृश्यमानमुपाधिभूतमपि न प्रकाशेत पिशाच इव; दिक्कालसमवायादयस्तु सर्वदैव उपाधिभूता भवन्ति बुद्धादीनां रूपादय इवेति । तत्प्रत्यक्षतापक्षेऽपि न तेषां केवलानां प्रत्यक्षताप्रसङ्गः । तेन उपाधिभूतस्य प्रकाशनं सम्भवत् केवलप्रकाशाभावात् व्यावृत्तं केवलप्रकाशेन व्याप्यते इति उपाधिभूतप्रकाशनस्वभावेन केवलप्रकाशनस्वभावः साध्यते इति स्वभावहेतुः । ननु उपाधिभूतस्य रसस्य न चक्षुर्ज्ञानं प्रकाशः, अपितु तत्र निर्भासमानं रसज्ञानमिति उपाधिभूतप्रकाशनमसिद्धो हेतुरित्याशङ्क्य आह चक्षुर्जनिता इति । न तस्य रसज्ञानं प्रकाशस्तस्य स्वरूपेण असत्त्वात् । तत् हि तदा भवेत् यदि रसनेन्द्रियजनितं वर्तमानं तत् स्यात् । केवलं स्मृताविव अतीतानुभवो रसज्ञानमसदेव रूपज्ञानेन प्रकाश्यते इति रूपज्ञानमेव तदानीं सभ्रमज्ञानस्य उपाधिमतस्तदुपाधेश्च रसस्य प्रकाशनमिति न असिद्धो हेतुः ।

इन्द्रियनियमाभावे च अन्धाद्यभावप्रसङ्गः, एकदा च अवलोकितविषयस्य तद्विषयतदनुभवनाशेऽपि तत्फुटीभावप्रसङ्गः इति न किञ्चित् कस्यचित् नष्टं स्यादिति । एवं क्रमभाजां ज्ञानानामन्योन्यवेदकत्वे दोष उक्तः ।

इदानीं वर्तमानानां यौगपद्येन ज्ञानानामन्योन्यवेदकत्वे दोषमाह साकारवादे च

(पगे २३२)

इति । नटमल्लनर्तकीप्रेक्षादौ नर्तकीं वयं पश्याम इत्यस्यां प्रतिपत्तौ यावन्त एकैकव्यतिरिक्ताः सामाजिकाः, तावन्ति दर्शनानि प्रत्येकं वेद्यानि ।

तानि सत्यपि बाह्ये आकारवन्ति, तच्छायायोगेन असत्येव बाह्ये तेनैव बाह्येन आकारेणेति एकैकस्य अनन्तनर्तक्यवभासो भवेत् । एकनर्तक्यवभासश्च संवेद्यते । तस्मिन् विषये यत् ज्ञानमेकैकस्य सम्बन्धि, तस्य वेदकानि यानि ज्ञानान्तराणि, तच्च वेदकं येषां ज्ञानान्तराणां; तेषामाकारवतामन्योन्यवेदकरूपाणामनेकत्वादेकनर्तक्याभासेऽपि आभासानामनेकत्वं स्यादिति सङ्गतिः । ननु सत्यं तत्र प्रत्येकमनेकावभासः, किन्तु यादृक् देशकालस्वरूपत एकस्य आभासः, तादृगेव अपरस्येति सर्वथा तादृग्रूप्यप्रवेशमयात् समानाभिहाररूपात् सादृश्यादनेकत्वं न आभाति । जलज्वालाप्रभासम्मीलनेऽपि हि उपचयोऽधिकः स्यात् । इह तु सर्वथा ताद्रूप्यात् कथमनेकत्वं भासतामिति पराशङ्कां निवारयति यत्र इति । एकस्य सामाजिकस्य यदा चक्षुषि कमलादोषस्ततस्तस्य मृगमदानुकारिकेरललासिकावदनबिम्बमपि कीरकामिनीवदनमिव कनकगौरमाभासते, तदा तदाभासस्य प्रत्येकं वेद्यत्वादन्याभासानां च कामलिनापि वेद्यत्वात् सर्वस्य श्यामलपीतलरूपो मिलितोऽवभासः स्यात् । ननु क्व एवं व्यामिश्रावभासो दृष्टः इति । आह यथा इति । एकत्र चक्षुषि रेखातिमिरदुष्टे, चक्षुरन्तरे च विमले चञ्चलाचञ्चलघटसंवित्तिर्भवति । एवमेकसन्ततौ क्रमेण नटादिप्रेक्षायां च यौगपद्येन ज्ञानं ज्ञानान्तरवेद्यं दोषमापादयेदिति उक्तम् । अधुना तु इदमाह नचापि इत्यादिना प्रसज्यन्ते तु इत्यन्तेन-इह न दिक्परीक्षायां तावदबाधितमस्ति ज्ञानमेतैर्दृश्यमानं पश्यामीति । प्रत्येकं च तत्र एकसन्ततिपतितता । नचापि युगद्भाविनां कार्यकारणभावः ।

(पगे २३३)

तथापि च दृष्ट एव वेद्यवेदकभाव इति सर्वप्रमातृगतानां ज्ञानानामनियमेन वेद्यवेदकत्वे महान् विप्लव इति । ननु संस्कारजत्वमत्र नियामकं भविष्यति, तत् सर्वोऽयमुक्तो दोषः प्रतिसमाहित इत्याशयेन आह अथापि इति । स्वभावनियमात् इति संस्कारजत्वाभावकृतात् ।

स्वभाववैचित्र्यात् इति संस्कारजत्वकृतादिति व्यतिरेकान्वयद्वारेण अपौनरुक्त्यम् । यदि वा पूर्वेण कार्यस्य ज्ञानस्य स्वभावभेद उक्तः, द्वितीयेन तु तत्कारणस्य संस्कारस्येति । परो यथा एकप्रहारेण दोषान् परिजिहीर्षति, तथा सिद्धान्तवादी परप्रकाशं ज्ञानमित्यस्य पक्षस्य मूलत एव उत्थापनं न भवतीति दर्शयति उक्तं हि तावत् इति दृक् स्वाभासैव इत्यत्र । वस्तूनां निजं लक्षणमनौपाधिकं विपरिवर्तते इति आशयः । संस्कारजत्वेन तर्हि किं कृतमिति चेत्, आह तत्रापि इति स्वप्रकाशैकरूपत्वेन अन्यथाभवति अपि भिन्नात्मनोऽनुभवादन्यरूप- स्यापि स्मरणस्य सादृश्यं विषयच्छायाकृतं स्यात् नाम ।

अनन्तसंस्कारजत्वेऽपि पूर्वकं ज्ञानमाभास्यते तेन । एवं हि सति द्वयं सम्भाव्यते-अनुभवगतस्य ग्राह्यांशस्य प्रकाशो ग्राहकांशस्य वा प्राक्कल्पं निराकरोति ग्राह्यस्य स्फुटाभासस्य अनुभवसञ्चेतने, नतु स्मृताविति । अनेन योगिज्ञाने ग्राहकात्मनि यथा परसंवेदनं पृथगेव ग्राह्यपक्षनिक्षिप्तं प्रकाशते, न एवं स्मृतिज्ञाने स्वानुभवः । घट एव हि अत्र अस्फुटतया ग्राह्यभूमिकाधिशायीति । अनेन द्वितीयं प्रकारमपाकरोति । संस्कारेण तर्हि किमपकृतम् । आह सादृश्यमात्रम् इति ।

मात्रग्रहणमतिरिक्तप्रकाश्यत्वनिरासाय । यत् किल नष्टं, न तत् संस्कारजे वस्त्वन्तरे आवेशं सम्बन्धमेति पूर्वसन्निवेश इव सन्निवेशान्तरे ।

नष्टश्च अनुभव इति स्वसंस्कारजेऽपि

(पगे २३४)

स्मरणे विषयतया न सम्बन्धमेति । सम्बन्धगमननिबन्धनं हि सन्निधानम् । असन्निहितसम्बन्धो रामोऽस्माकं राजा,-इति राजन्वद्विश्वमद्येति अनियमः । तद्विरुद्धत्वं च नष्टत्वमिति कारणविरुद्धोपलब्धिः । ननु अनुभवेन स्मरणमेकविषयं कथं स्यादिति अयं यत्नो वर्तते । तत्र अनुभवे स्मृत्या अनाभास्यमानेऽपि सादृश्यं तावत् संस्कारजत्वात् सिद्धम् । तच्च विषयद्वारेणेति एकविषयत्वमपि सादृश्यादुपचरिष्यते इति सिद्धो व्यवहारः

स्मरणादभिलाषेण———।

इतीत्याशङ्क्य आह वस्तुस्थित्यैव इति । यत् वस्तु स्थितं प्ररूढं भवति, तदवश्यं संस्कारमाधत्ते । प्ररोहजो हि संस्कारलक्षणो विशेषः, केषाञ्चित्तु प्ररोह एव पटीयस्त्वं संस्कारो विशेषः । यत्प्रज्ञालङ्कारः

प्ररोहोऽस्याः संविदः पटीयस्त्वम् एव संस्कारो वाच्यः ।

इति । यत्र च संस्कार आधीयते, तत्र सादृश्यमिति उभयं भूर्जसन्निवेशशरगमनादौ दृष्टम् । इह च पूर्वज्ञानं स्थितमभूत् ।

तदवश्यं संस्कारसादृश्याभ्यां भाव्यमिति कल्प्यते, नतु सादृश्यं ज्ञातुं शक्यम् । द्वयवेदी हि क्वापि अक्रमेणैव सन्निवेशद्वयं गोगवययोरिव, क्वचित् क्रमेण भूर्ज इव परापररूपं पश्यन् तृतीयस्तत्सादृश्यमवेयात्, नतु इह तृतीयोऽस्ति । स्थिरमात्मानमभ्युपयतापि वैशेषिकेण दुःसमर्थमेकविषयत्वम् । स्मृत्यनुभवयोर्हि न ग्राहकं तृतीयं ज्ञानमस्ति यत् तयोः सादृश्यमवगत्य एकविषयतामध्यवस्येदुप- चरेत् वा । न अनुभवस्मरणयोः सादृश्यं वेद्यं तृतीयानुपलब्धेरिति कारणानुपलब्धिः । ननु सादृश्यादेव निश्चेयमिदमेतत्संस्कारजमिति । तत्र यदि सादृश्यं न वेद्यं, तर्हि संस्कारजत्वमपि कथङ्कारं निश्चेयम् ।

नहि सर्वं वस्तु संस्कारं

(पगे २३५)

करोति भूतलादपसारिते लघुनि तृणप्राये तदसम्भवात् । सत्यमिदमेवम्, किन्तु अभ्युपगम्यवादमात्रमेतदिति सिद्धान्ती प्रत्युत अवज्ञामत्र दर्शयति ।

यदि नाम इतिनिपातसहितेन स्यात् इत्यनेन तदवगतिः इति सादृश्यस्य अवगतिः इत्यनेन तद्गतिः इति सूत्रांशस्य व्याख्यान्तरं कृतम् । उपचारश्च न वस्तुव्यवस्थाकारी एकस्य ज्ञानस्य गोविषयत्वेऽन्यस्य वाहीकविषयत्वे सादृश्यादेकविषयतायामुपचरितायामपि वास्तवैकविषयसंवेदनाधीन- व्यवहारानिर्वाहात् । ततश्च उपचारस्तावदकिञ्चित्करोऽत्र, तादृगपिच न उपपद्यते इति परपक्षस्य सर्वथा दौर्बल्यमिति अपिशब्दः सूत्रार्थं प्रकृते प्रमेये योजयति उपसंहारद्वारेण तदेवम् इति । संस्कारजत्वेऽपि इति कथञ्चिदभ्युपगतेऽपीति अपिशब्दः ॥ २ ॥

अथातद्विषयत्वेऽपि स्मृतेस्तदवसायतः । दृष्टालम्बनता भ्रान्त्या तदेतदसमञ्जसम् ॥ ३ ॥

ननु यदि स्मृत्यनुभवयोरेकविषयत्वं पारमार्थिकं भवेत्, तत् तत्समर्थनायां प्रयस्येत अपि; नतु तथा । तथाहि-यस्तावदतीतः पिता स्मरणे भाति, स तदा नष्टः कथं स्मरणे भायात् । यथा स निर्दग्धः पिता न हसति, न कण्डूयति, तथा भात्यपि नेति निश्चयः । नच अस्य वर्तमानातीतकालद्वययोगः पितुर्विरोधात् । अभ्युपगमे च सर्वतो व्यावृत्तं रजतं कथमन्यत्रापि अनेकं स्यात् । भ्रमश्च सः । नच असावस्फुटः स्मार्तः पित्राभासो देशकालस्वरूपानियतस्तद्विपरीतेन आनुभविकेन आभासेन एकतामुपगन्तुमुत्सहेत । तेन अनिर्भासमाने एव तस्मिन् विषयेऽभिमानमात्ररूपात् तदध्यवसायात् तदवभासिकेति स्मृतिर्दृष्टविषया उच्यते भ्रमवशादिति कारिकापादत्रयार्थः सङ्क्षेपव्याख्यया

(पगे २३६)

अवतारितो भ्रमः इत्यन्तेन । तथाहि भट्टशङ्करनन्दनः स्मृतिदिशैव अर्थधर्मतां प्रकाशमानताया न्यषेधीत्

अर्थो न भासते भ्रान्तिस्मृत्योरयोगात् बुद्धिकालत्वम्, नच एकता देशादिभेदात् तत्त्वे वा निजदेशादिवेदनम् ।

इति । तदेतदसमञ्जसम् इति सङ्क्षेपेण व्याचष्टे इत्यपि इत्यादिना ।

स्मृतिरसदेव असत्ख्यातिपक्षे आलम्बते, वासनोपकल्पितं वा ज्ञानाकारमात्माख्यातिपक्षे आभासयति प्रकाशयति; नतु प्राच्यमनुभवं तद्विषयं वा उभयस्यापि स्मृतिकाले नास्तित्वात्, तत् केवलमभिमानसारत्वेन अध्यवस्यति तदनुभवकालावलम्बनेन अध्यवसायस्य स्वरूपं दर्शयति सोऽनुभूतः इति । स इति अनुभवकालस्पर्शः । अनुभूत इति अनुभवस्य अर्थस्य च अध्यवसायः ।

असतोऽपि आत्मनो निर्भासमानस्य तेन अनुभूतेन अध्यवसीयमानेन अभेदानध्यवसायमयादभेदाध्यवसायात् भ्रमादनुभूतालम्बनत्वं स्मृतेर्न विवेकिनः प्रतियन्ति । असोऽसन् आत्माकारो वा विषयो यस्याः, स च अनुभवोऽर्थश्च न विषयो यस्या इति सूत्रार्थः । भ्रान्त्या इति भ्रमरुपत्वेनेत्यर्थः । असमञ्जसम् इति वृत्तौ व्याख्यातं नेतिसमस्तवाक्यार्थनिषेधेन । चकारेण आशङ्काद्योतकेन अथ इति व्याख्यातम् । अनन्तर इत्यादिना टीकाकारोऽनन्तरसूत्रे एतस्मिन्नर्थे हेतुत्वेन वाक्यवृत्तोपनतेन योज्ये इति दर्शयति । ननु घटे जलमितिवत् न इयं शुक्तौ रजतमिति मतिः, तत् कथमुक्तं शुक्तौ इति वृत्तावित्याशङ्य आह शुक्तिदेश इति । तं देशमवष्टम्य आलम्बनीकृत्य तदभिमुखतया यतः प्रवर्तते, ततस्तदाधारत्वमुक्तम् । बाधकोदयसमं प्रमात्रन्तरसंवेदनं च अपेक्ष्य विपरीत इति नास्त्येव इति आकार इति वचनैः वित-

(पगे २३७)

थासदात्माख्यातयस्तिस्त्रोऽपि सूचिताः । इह अत्र अवज्ञां दर्शयितुं भ्रान्तिस्तावदियं स्मृतिरन्यभ्रान्त्यवैलक्षण्यादिति साध्यम् ।

विपरीतख्यातिमेव भ्रान्तिमग्रे सौगतदृशि समर्थयिष्यते

भ्रान्तित्वे चावसायस्य———। (१ । ३ । ५)

इति सूत्रे । वैपरीत्यं च प्रवृत्तिप्राप्तिविषयमपेक्ष्य प्रेप्सिताध्यवसितमर्थ- क्रिया कारित्वं सम्भवद्वस्तुभावं च अपेक्ष्येति शुक्तेरन्यदेशाच्च रजतात् इति उक्तम् । रजतविकल्प इत्यनेन दृष्टान्तं वृत्तौ पूरयन् अत्रापि इति दार्ष्टान्तिकं स्मरणविकल्पं समीकरोति । ततः इति वितथादिख्यातिरूपत्वात् ॥

३ ॥

स्मृतितैव कथं तावद्भ्रान्तेश्चार्थस्थितिः कथम् । पूर्वानुभवसंस्कारापेक्षा च किमितीष्यते ॥ ४ ॥

एतत् पूर्वोक्तं निराकरोति कथं सर्वतोमुखं समस्तोक्तवस्तुदूषण- द्वारेण । तथाहि अन्यत्र किञ्चित् निराक्रियते-यथा श्रोत्रग्राह्यो वर्णात्मा नित्यः शब्दः समयापेक्षी वाचक इत्यत्र नित्यत्वमेव निराक्रियते, न अन्यत्; तदंशदूषणेन तु वाक्यार्थोऽयं दूषितो भवेत् । इह तु स्मृतिः संस्कारजा भ्रान्त्या पूर्वानुभूतार्थव्यवस्थापिकेति प्रतिपदार्थं तद्द्वारेण च वाक्यार्थ इति सर्वमेतत् निराक्रियते । यः स्वरूपविशेष इह विचारचित्रे भित्तित्वेन अवलम्ब्यते, स एव न उपपद्यते इति तावच्छब्दार्थः । पूर्वसूत्रार्थं टिकाकारो दूषणापादनायामनुवदति यद्यसदेव इति ततः स्मृतित्वं नाम मुख्यं रूपं न युक्तमिति सम्बन्धः । तच्छब्देन पूर्वश्लोकोक्तः इह अनूदितोऽर्थः परामृष्टः । अनुभूतस्य अनुभवप्रकाशितस्य विषयस्य असम्प्रमोषः कञ्चित्कालं मध्ये मुषितस्येव न पूर्णः प्रमोषोऽपहारः पुनःप्रकाशनेन लाभादिति स्मृतेर्मुख्यं रूपम्, येन ज्ञानान्तरेभ्योऽस्या विशेषः । तदेव पूर्वसूत्रार्थेन उन्मूल्यते ।

(पगे २३८)

अनुभवो न प्रकाशते इति तद्विषयोऽपि नैव प्रकाशते, अपितु सम्यक् प्रकर्षेण मुषित एव असौ जात इति हि पूर्वसूत्रार्थः । अनुभवानाभासनात् इत्यनेन पूर्वानुभवाप्रकाशात् इति वृत्तिर्व्याख्याता तद्विषय इत्यादिना तद्विषयसम्प्रमोषे इति अनुभूतविषय इत्यादिना अध्यवसायमात्रात् इति विशेषव्यपदेश इत्यादिना स्मृतित्वं न युक्तम् इति, मुख्यपदेन सौत्रं तावत्पदम् । अन्यथा इति वस्तुविषयत्वेन । ननु अनुमानं भ्रान्तिर्व्यवस्थापयति च वस्तु, तद्वत् स्मृतिरपि सुखसाधनत्वादि व्यवस्थापयिष्यतीत्याशङ्य आह अनुमानस्य इति । भवतु तावत् भवन्मतेऽनुमानं भ्रान्तिः । यथोक्तं भवद्भिः

अतस्मिंस्तद्ग्रहात्————।

इति, किन्तु पुनरपि उक्तं भवद्भिरेव

———भ्रान्तिरपि सम्बन्धतः प्रमा ।

इति,

यो हि भावो यथाभूतः स तादृग्लिङ्गचेतसः । हेतुस्तज्जा तथाभूते तस्माद्वस्तुनि लिङ्गधीः ॥ लिङ्गलिङ्गिधियोरेवं पारम्पर्येण वस्तुनि । प्रतिबन्धात्तदाभासशून्ययोरप्यवञ्चनम् ॥

इति । एवं यत् पारम्पर्यं, तदिह स्मरणे यदि भवेदतीतवृष्ट्यनुमानवदपूर्वनिश्चयरूपमेव इदं पूर्वानुभवविष- यमनुभूतवस्तुविषयं वा ।

पूर्वाभ्यस्तस्मृत्यनुबन्धात् जातस्य हर्षभयशोकसम्प्रतिपत्तेः । प्रेत्याहाराभ्यासकृतात् स्तन्याभिलाषात् ।

वीतरागजन्मादर्शनात् । (न्या। सू। ३ । १ । १९, २२, २५)

(पगे २३९)

इत्यादिहेतोर्बालकल्पितस्मृतिविलक्षणेन पूर्वजन्मानुभवतद्विषयानुमानेन सदृशं स घट इति ज्ञानं स्यादिति पूर्वप्रकाशनात्मकनिश्चय- प्रत्युज्जीवनपरमार्थस्य स्मृतित्वस्य हानिः । तस्मादनुमाने अस्तु पारम्पर्यम्, इह तु असिद्धम् । तदिह अनुमानभ्रान्तेः स्मरणभ्रमस्य विशेषः,-इति कथमर्थं व्यवस्थापयेदसौ । दृष्टं स्मृतेरर्थव्यवस्थापकत्वं सर्वत्र व्यवहारे स्वगृहगमनार्धकृत- समापनादौ । एवमिह भ्रान्तेरपि अर्थप्रतिबन्धेन भविष्यति व्यवस्था । सतु स्मृतौ नास्तीति कथमर्थं व्यवस्थापयेदिति उक्तं न काचन भ्रान्तिरर्थ- व्यवस्थापिका । तत् कथं स्मृतिरपि तथा भवेदिति तु अनन्तरसूत्रे वक्ष्यते इति न पुनरुक्तता । ननु विकल्परूपा स्मृतिः, विकल्पश्च सर्वो भ्रान्त इति तयापि तथा अवश्यं भाव्यमित्याह नचापि इति । बहुवचनेन इदमाह-न औत्सर्गिकं सर्वस्य विकल्पस्य भ्रान्तत्वं येन स्मृतेरपि कुनृपप्रवर्तितमण्डलदण्ड- न्यायेन आयातं तत् स्यात् । यावता वक्ष्यते एतत् द्विचन्द्रेऽपि तदवसायो न भ्रान्तोऽपितु बाह्यतावसाय एव इति अनन्तरसूत्रे । यतो यदेव विपरीतार्थ- वेदनं, तदेव भ्रान्तम् । नच तथा स्मृतिः । नहि तया पूर्वप्रकाश- रूपत्वमात्मनि अनुमानज्ञानवदङ्गीक्रियते येन स्वप्रतिभासे अनर्थे अर्थाध्यवसायेन प्रवृत्तेरिति उपनतं भ्रान्तित्वं भवेत् । स्मृतेर्हि पूर्वानुभव एव प्रत्युज्जीवित एव प्राणभूतः । न अस्यामपूर्वं किञ्चित् प्रकाशते येन वैपरीत्यमाशङ्क्यते । एतदर्थमेव वृत्तौ पूर्वानुभूत- ग्रहणमनुमानविकल्पनादाविव अपूर्वप्रकाशतानिराकरणतात्पर्येण प्रयुक्तमिति दर्शयति तदाह इतिवचसा । इयता प्रथमं व्याख्याय द्वितीयं कारिकार्धं व्याचष्टे पूर्वानुभवस्य इति । अन्यथा तु इति अवस्तुविषयत्वे ।

अस्या इति स्मृतेः संस्कारात् जन्म यत्

(पगे २४०)

कल्पितं, तेन किं प्रयोजनम् । तत्संस्कारात् हि तत्सादृश्यं पूर्वसन्निवेशेन इव अपरस्य सन्निवेशस्य, तदावेशो वा तत्संसर्गाविभागप्रतिपत्तिकारी चण्पकामोदेन इव तैलस्य । नच स्मरणस्य पूर्वानुभवेन सादृश्यं, प्रत्युत विपरीताविपरीतविषयतया अत्यन्तवैलक्षण्यम् । सादृश्यमेव च यत्र न अस्ति, तत्र आवेशः शङ्कनीयोऽपि न भवति । सहि तादात्म्यमिवेत्येवंरूप- प्राणः । ननु एतदेव संस्कारजत्वम्-यदनुभवज्ञानात् पारम्पर्येण तदुत्पद्यते । तर्हि पीतज्ञानमपि समनन्तरप्रत्ययादुपादानकारणात् व्यवहितात् वा उपादानोपादानात् नीलज्ञानादुत्पद्यते । तत् तदपि संस्कारजं किं न उच्यते । पूर्वानुभवेन अस्पर्शोऽसादृश्यमनावेशश्च सप्तम्या हेतुत्वेन निर्दिष्टो वृत्तौ भिन्नयोगक्षेमत्वे साध्य इति विवृणोति ततः इति । योगोऽलब्धलाभः, इह तु तदुपलक्षितं प्रकाशलक्षणं स्वरूपम्, क्षेमं लब्धपरिरक्षणं, तदुपलक्षितस्तु इह विषयांशः । तदुभयम्- अनुभवात् भिन्नं स्मृतेः प्रकाशस्य अपूर्वत्वात् विषयस्य च अवस्तुत्वादिति ।

ननु वृत्तौ यदुक्तं भ्रान्तेः संस्कारजत्वम् इति, तत् कथम् । नहि भ्रान्तिः संस्कारजेति कस्यचिदुपगमः । नच भ्रान्तिमात्रं सर्वं स्मृतिरिति पुरो रजतज्ञानादौ स्मृतित्वानुपगमात् । ततो भ्रान्तेः संस्कारजत्वं न वक्तव्यम्, विशेष्य वा वक्तव्यं स्मृतिरूपायाः । भ्रान्तेः संस्कारजत्वे को ग्रहः इति चोद्यद्वयं निरस्यति तत एव इति । भ्रन्तेः संस्कारजत्वं यदुक्तं, यच्च भ्रान्तेरिति केवलमुक्तम्, तत् स्मृतित्वेनापि अभिमतस्य ज्ञानस्य भ्रान्तितामात्रम्, नतु कश्चन विशेषलेशः । यतः सारं न्यायोपनतं रूपं, ततो हेतोर्भ्रान्तितामात्रसारत्वम् । कुत इत्याह अन्य इति । नीलशब्दो नीलज्ञाने, मात्रशब्दो निर्विषयत्वं तस्य आह । तदयमर्थः-

(पगे २४१)

अन्यत् ज्ञानं समनन्तरप्रत्ययरूपमुपादानं यस्य नीलज्ञानस्य विषयरहितस्य भ्रान्तात्मनः, तत्सारत्वात् तत्तुल्यत्वात् नीलस्मरणस्य ।

तत्तुल्यत्वं कुत इत्याह तत एव इति अनुभवास्पर्शायातादनुभवभिन्नयोग- क्षेमत्वादित्यर्थः । भ्रान्तेः संस्कारजत्वम् इति अन्ये पठन्ति । तत्र एवं योजना-इह वृत्तौ संस्कारजत्वे को ग्रहः इति वचनेन संस्कारजत्वं ग्रहस्य अभिनिवेशस्य मिथ्याज्ञानस्य विषय इति भ्रान्तिरूपमुक्तम् । तत् कथम् । नहि संस्कारजत्वं स्मृतेः । भ्रान्तिर्भान्तेरिति विशेष्य वक्तव्यम्; कथं केवलमुक्तमिति चोद्यद्वयस्य उत्तरम् । तत एवच इति । भान्तेः संस्कारजत्वं यदुक्तं, भ्रान्तेः इति च केवलमिति अविशेष्य यदुक्तम्, तत् न अयुक्तं व्याख्यातात् हेतोरिति । एतदुक्तं भवति-परमते स्मृतिर्नाम विचारिता । नच अस्या भ्रमान्तरेभ्यो विशेषः कश्चन स्थापयितुं शक्यते येन विशेष्येत यत्सिद्धये संस्कारजत्वमङ्गीक्रियमाणमुपयोगबलेन प्रमाणसिद्धत्वाद्- अभ्रान्तिरूपं भवेदिति युक्त एव अयमुक्तिक्रम इति । तेन स्मृतिरेव न यदि भ्रान्ता, नच संस्कारजा, नच अर्थव्यवस्थापिकेति स्मृतिः संस्कारजा भ्रान्त्या अर्थव्यवस्थापिकेति सर्वतोमुखमेतत् निराकृतं भवति ॥ ४ ॥

भ्रान्तित्वे चावसायस्य न जडाद्विषयस्थितिः । ततोऽजाड्ये निजोल्लेखनिष्ठानार्थस्थितिस्ततः ॥ ५ ॥

ननु पूर्वानुभवः, तद्विषयश्च तया अध्यवसीयते इति इयता सादृश्यम्, नतु सर्वात्मना । सादृश्यसिद्धये च संस्कारजत्वम् ।

प्रत्यक्षविकल्पेन तु प्रत्यक्षविषयो यद्यपि अध्यवसीयते, तथापि स प्रत्यक्षानुभवो न अध्यवसीयते इति न अस्य स्मृतितुल्यत्वेन संस्कारजत्वमुच्यते ।

(पगे २४२)

एवंस्थिते च तदध्यवसाय एव स्मृतेस्तद्व्यवस्थापकत्वम् । भ्रान्ति- स्वभावोऽपिच अयमध्यवसायो यथावस्तु प्रवृत्त इति न अस्य स्मृत्यध्य- वसायस्य किञ्चित् दुष्यति । सर्वत्र च अध्यवसायादेव अर्थव्यवस्था । स च भ्रान्त एवेति भ्रान्तरेव सामान्यमध्यवसीयते अभिमन्यते निश्चीयते विकल्प्यते इति शब्दमालाप्रयोगेऽपि भवन्तं पृच्छामः-किमनेन वस्तु प्रकाश्यते वा न वा । यदि तावत् प्रकाश्यते, भ्रान्तत्वमनुपपन्नम् ।

प्रकाशनांशे प्रकाश्यमानांशेन भ्रान्तित्वं हि निराकरिष्यते वितत्य ।

अथ अवसायस्य भ्रान्तित्वं समर्थयितुं प्रकाशनरूपत्वं त्यज्यते, अवसायरूपता अन्यैव काचिदुच्यते; तर्हि तस्मिन् व्यवस्थापनीये पूर्वानुभूतेऽर्थे स स्मृत्यध्यवसायो जडः, तदप्रकाशनात् नीलज्ञानम्- इव नीलमिव वा पीते इति कथसौ तस्य व्यवस्थितये स्यात् । संविन्निष्ठा हि असौ ।

ननु प्रकाशरूपत्वमस्ति स्मृत्यध्यवसायस्य स्वसंवेदने स्वाकारे च, तत् कथमस्य जडत्वम् । तर्हि ततः प्रकाशनात् स्वात्मनिष्ठात् स्वाकारनिष्ठाच्च यदजाड्यं, तस्मिन् सत्यपि ततोऽध्यवसायादर्थस्य बाह्यस्य स्थितिर्व्यवस्था न घटते तस्य तस्मात् स्वात्मनः स्वाकाराच्च अन्यत्वादिति सूत्रार्थः ।

निजोल्लेख इति स्वात्मोल्लेख इति सूत्रवृत्त्योर्द्वन्द्वसमासः । निर्विकल्पकस्य भ्रान्तत्वं न क्वचित् सम्भवतीति सूत्रे यदनुवादमुखेन अस्पष्टमुक्तं, यच्च परमतमध्यवसायस्यैव सर्वत्र व्यवस्थापकत्वम्, सच भ्रमरूप एव । तत् कोऽयं पर्यनुयोगो भ्रान्तेरर्थव्यवस्थितिः कथमिति । तदुभयमपि एतत् वृत्तौ विधिमुखेन स्फुटयति अध्यवसाय एव इति । भ्रान्त्या भ्रमरूपेण उपलक्षितो यो विषयव्यवस्थापक उक्तः, सोऽध्यवसाय एव, नतु स्वसंवित् ।

नापि स्वस्य प्रकाशमानस्य रूपस्य संवित् निर्विकल्पकरूपा ।

(पगे २४३)

तदियमध्यवसाये एव कृतपदा भ्रान्तिरूपता । स एव च अर्थस्य व्यवस्थापको भ्रमरूपेण दृश्यविकल्प्यैकीकाराभिमानेनेति । अत्र आह सिद्धान्ती स च इति । चशब्दस्तर्हिशब्दार्थे परमतानुपपत्तिमाह । स तर्हि अध्यवसायो जडो व्यवतिष्ठापयैषिते बाह्येऽर्थे तस्य अप्रकाशरूपत्वात् ।

यदि तु तत्र प्रकाशरूपः स्यात्, योगिन इव तत्र पूर्वस्मिन्नर्थे विकल्पनीयाभिमते स्फुटतया पूर्वप्रकाशः स्यादिति न स्मृतिता, नापि अध्यवसायता भवेदनुभवैकरूपत्वात् । अथ न बाह्येऽसौ प्रकाशो येन अनुभवरूपत्वं, नापि सर्वथैव अप्रकाशो येन जडः; किन्तु स्वात्मनि स्वोल्लेखे च स्वाकारे प्रकाशरूप एव असौ । तर्हि पुनरपि अर्थे बाह्ये जड एवेति न बाह्यार्थव्यवस्थाया हेतुः स्यात् । सा हि संविन्निष्ठा भवति, नतु कदाचित् जडनिष्ठेति । भ्रमरूपेण च यदबाह्यबाह्ययोरेकीकरणं, न तेन बाह्यस्य किञ्चित् स्पृष्टं, तत्स्पर्शे भ्रान्तत्वायोगात् । नहि रजतज्ञानेन सत्यरजतस्य शुक्तेर्वा व्यवस्था काचिदिति तात्पर्येण वृत्त्यर्थः । एवं सूत्रे वृत्तौ च अध्यवसायमात्रस्य रूपं दूषितम्, तद्द्वारेण तु स्मृत्यध्य- वसायस्येति । अतीतग्रहणं च वृत्तौ विकल्पोपलक्षणमुत्प्रेक्षाविकल्पस्यापि पूर्वानुभवोपजीवनप्रवेशेन वस्तुतोऽतीतत्वादेवेति टीकापि अध्यवसाय- मात्रनिष्ठैव । यत्तु तत्र स्मृतिज्ञानं हि इति, तदध्यवसायोदाहरण- न्यायेन प्रकृतसमर्थनाभिप्रायेण चेति, मन्तव्यम् । सौगतमतेऽपि टीकाकारो भ्रान्तितत्त्वं दर्शयन् निर्विकल्पके तावत् न भ्रान्तिता, नापि सर्वत्र विकल्पे इति घटयति संविदाभासमान इति । स्वसंविदि तन्निष्ठे च आकारे न काचन संविदविकल्पिका, विकल्पिका वा भ्रान्तिरुपपद्यते । यस्या एव हि

(पगे २४४)

संविदो बाधकप्रमाणेन विपरीतनिष्ठत्वमावेद्यते, सैव अनवस्थितिरूपत्वात् भ्रान्तिर्भवितुमर्हति । ननु वस्तुवृत्तेन यत् विपरीतं वेदनं, तत् भ्रान्तिः, किं बाधकेन यस्या वैपरीत्यनिष्ठत्वमावेद्यते इत्यनेन विशेषेण । आह अन्यथा इति यदि अयं विशेषो न आश्रीयते इत्यर्थः ।

सुखसंवेदनम् इति नीलालम्बनमेव ज्ञानं तद्विपरीतसुखसंवेदन- रूपम् । सौगतदृशि इत्यनेन विशेषेण पटविपरीतघटसंवेदनादि अवधीर्य सुखसंवेदनमपि भ्रान्तं स्यादिति उक्तम् । ननु वैपरीत्यं तद्देशावष्टम्भकृतं वास्तवं गृह्यते । नच अनीलदेशरूपावष्टम्भेन सुखादीनां वेदनम्, अपितु संविद्रूपावष्टम्भेन । तत एव हि चैत्ता एते सुखादय उच्यन्ते । एकचन्द्रदेशावष्टम्भस्तु द्विचन्द्रस्येति वस्तुतस्तद्विपरीतोऽसौ निर्विकल्पकेनापि गृहीत इति द्विचन्द्रे निर्विकल्पकं कस्मात् न भ्रान्तम् । तथापिहि तन्निवृत्तये एव प्रत्यक्षलक्षणेऽधिकं भ्रान्तपदं प्राक्षेपि । कामं रजतभ्रमे पूर्वं शुक्तिरन्यदेशावष्टम्भेन प्रकाशते इति अविपरीतैव निर्विकल्पके भातीति तत्संवेदनमविकल्पकम्- अभ्रान्तम् । रजताध्यवसायस्तु रजते शुक्तिदेशावष्टम्भेन भवन् वस्तुतो विपरीतो भवतीति भ्रमत्वं तत्र अध्यवसायस्यैव, नतु नियमोऽयमुपपद्यते अध्यवसायस्यैव भ्रमरूपतेति । एतदाशङ्कमान आह अथापि इति ।

रूपग्रहणं तादात्म्येन अयमवष्टम्भः, नतु आधारतया व्यतिरेकेणेति दर्शयति । तत् इति तथापीत्यर्थः । द्विचन्द्रस्य प्रतीयमानस्य कथमेकमृगाङ्कतादात्म्यं स्यात् । द्विचन्द्र एव तस्य स्वरूपम् । तदेव प्रवृत्तिप्राप्त्याभिमुख्येन दिश्यते इति देशः, न अन्यः । अपिवा इत्यनेन आधारस्य व्यतिरिक्तस्य देशता तावत् न उपपन्ना निःसम्बन्धत्वात् सर्वधर्माणाम् । तदयं प्रौढवादितया अभ्युपगम्यवाद इति द्योतयति ।

आलोके

(पगे २४५)

घटो भातीति घटप्रतिभासस्य अस्ति अन्यदेशावष्टम्भः । ननु न अस्य बाधकेन अन्यदेशता आवेद्यते । स हि तद्रूपसहिष्णुरेव आलोकः आधाराधेयभावस्य निर्भासमानस्य अबाधितत्वात् । ननु एकचन्द्र- देशावष्टम्भसहिष्णुर्द्विचन्द्र आधारस्य तु अप्रतिभातत्वात् । तर्हि अधिकरणदेशस्य अन्यस्य अवष्टम्भात् भ्रान्ततेति त्यक्तं, तादात्म्येन च अवभासनं नास्ति,-इति कथं भ्रान्तित्वम् , नतु असन्नेव द्विचन्द्रो भाति ।

मैवम् । भासमानतैव हि सत्ता । तदसच्च ख्याति चेति व्याहतम् । अन्यरूपतया तु घटादौ सत्याभिमतेऽपि असत्त्वमिति तद्वेदनमपि भ्रान्तिः स्यात् । तदेतदाह नच असत्ख्यातिः इत्यादिना । ननु न भासमानत्वं सत्त्वम्, अपितु अर्थक्रियाकारित्वं; तच्च द्विचन्द्रे नास्ति,-इति परमतमाशङ्क्य एतदसिद्धमिति दर्शयति अर्थक्रियाकारित्वमपि इति । असतः इति असत्त्वेन तथाभिमतस्येत्यर्थः । बालस्य तैमिरिकस्य आह्लादः, विविवेकिन उद्वेगः । ननु योऽन्यैरेको दृश्यते, सोऽनेन द्वित्वालिङ्गितः । नच असावेको द्वित्वालिङ्गितत्वेन अर्थक्रियाकारी । क एवमाह । तथैव हि असावर्थक्रियां करोति । यथाप्रतिभासं हि सा । तेन प्रतिभासनं चेदस्ति, तत् तदनुसारिण्या अर्थक्रियया अपि भाव्यम् । सापिच प्रतिभासादेव सती अन्यथा अनवस्थानादिति प्रतिभास एव सत्ता,-इति हृदि गृहीत्वा उपसंहरति स्वात्मनि इति । प्रतिभासमाने रूपे यदि असत् स्यात्, प्रतिभासमानतैव कथं स्यात् । एतदेव द्रढयति तथाहि इति न तस्य इति ।

प्रत्युत अस्य तत् सम्यग्ज्ञानम् । तथाच भिषगस्मै तिमिरं चिकित्सिषुराह भोः किं सत्यमेव द्विचन्द्रं पश्यसीति । सोऽपि तथैव प्रतिवक्ति-सत्यं पश्यामीति । अत्र दृष्टान्तमाह नहि इति ।

(पगे २४६)

इन्द्रजालं मन्त्रतन्त्रौषधादि विद्यते यस्य । असत्यत्वेन इति अबाह्यतयेत्यर्थः । न इति । सोऽपि चेत् भ्रान्तो भवेत्, बाह्याभिमुखः प्रवर्तेत । नच एवम् । अत एव व्यपदिशति-नाहं भ्राम्यामि, लोकं तु भ्रमयामीति । ननु एवं सर्वत्र अस्तमितैव भ्रान्तिकथा । नेत्याह ततश्च इति यत एवं, तत इदं प्रमेयान्तरं लब्धमित्यर्थः । किं तत् । आह असत इति अनन्तर्बहीरूपस्य द्विचन्द्रस्य प्रकाशमानस्यैव सत्त्वेन इति बहीरूपेण ज्ञानाकारस्य वा अर्थत्वेन अनात्मत्वेन या प्रतीतिः, स भ्रम इति । यदिवा चस्तोरर्थे । ततस्तु द्विचन्द्रप्रतिभासानन्तरं प्रतीतिरिति अध्यवसायरूपा । अत्र पक्षे ततश्च इत्यस्य अन्यव्याख्यायां नच इत्यादिना तस्याः प्रतीतेर्बलादेव अध्यवसाय- रूपत्वमापततीति निरूप्यते । तथाच न्यायप्रसक्तरूपान्तर-समुच्चयार्थश्- चकारः । द्वितीयव्याख्यायां प्रतीतिरध्यवसायरूपा भ्रान्तेत्यत्र हेतु- ग्रन्थः नच इत्यादि । चो ह्यर्थे । यत् प्रथमानं प्रकाशमानं, तत् वस्तु । तत् नियताकारं यथैव प्रकाशते; तथैव तत्, अन्यथाभूतं तत् न भवति ।

ततस्तस्य या प्रतीतिरविकल्पा प्रकाशरूपा, सा सर्वथैव अन्यथात्वं विपरीतवेदनरूपत्वं न सहते इत्यतो हेतोः प्रतीत्यन्तरं निर्विकल्पकप्रतीति- व्यतिरिक्तम् । तदपि न सर्वम्, अपितु विपरीतं येन अध्यवसीयते । नच अस्य स्वग्राह्ये वैपरीत्यम् । अतः प्रथमाने निर्विकल्पकविषये रूपे तत् वैपरीत्यं येन अध्यवसीयते, तदेव अध्यवसायरूपं सर्वत्र भ्रमज्ञाने भ्रान्तमिति युक्तम् । ननु निर्विकल्पकान्तरमेव तथा अस्तु । नेत्याह तच्च इति । अविकल्पकत्वम्- एतदेव-यत् प्रथमात्ररूपत्वम् । संयोजनवियोजनादिव्यापारस्तु विकल्पनम् ।

तदाह विकल्पात्मनस्तु इति भ्रान्तित्वं युक्तमिति सम्बन्धः । तस्य हि प्रथमानरूपपातित्वमस्ति ।

(पगे २४७)

तदाह दृश्य इति । किं सर्वत्र भ्रान्तत्वम् । नेत्याह विपरीत इति । शुक्तौ दृश्यायां तद्दृश्यविपरीतेन रजतेन अध्यवसाय ऐक्यं यदा करोति, तदा भ्रान्तत्वम् । नीले तु दृश्ये नीलेनैव विकल्प्येन ऐक्ये का भ्रान्तता । अन्ये तु व्याचक्षते दृश्ये स्पष्टे विकल्प्येन अस्पष्टेन यदैक्यम्, तदध्यवस्यन् सर्वो विकल्पो भ्रान्तः, वस्तुमूलत्वेन तु प्रापकत्वात् न भ्रान्तितया व्यवह्रियते नीलस्यैव प्राप्यत्वादर्थक्रियाकारित्वेन अभिमानात् स्पष्टास्पष्टताद्य- वान्तरानादरणात् । यस्तु दृश्येन ऐक्यं न अध्यवस्यति, स विकल्प्यरूप- स्वविषयमात्रनिष्ठः सर्वथैव अभ्रान्त इति । एतदुपसंहरति अतः इति ।

द्विचन्द्राभासो निर्विकल्पो यः, तत्र न भ्रान्तता यथाप्रकाशमाभासस्य सत्त्वात् । अत एव नीले असत्यपि नीलप्रकाशनं युक्तम् । नहि तस्य प्रकाशनम्- आत्मीयं वपुर्येन असति तस्मिन् तदिङ्गितवत् तत्प्रकाशनमपि न स्यात्; यावता प्रकाशमानमस्य संवेदनं, तच्च अस्तीति असत्यपि नीले तत्प्रकाशनं स्यादिति बाह्यार्थशून्यता युक्तिमती । असति नीलप्रकाशने किं तदस्ति यद्बलात् नीलप्रकाशनं प्रकाशेतेति असति नीलप्रकाशने न किञ्चिदपि प्रकाशेत, यद्- अन्यस्य प्रकाशरूपं न धर्मः, तत् तदसम्भवे न प्रकाशते दीपादेर्- अभाव इव प्रभात्मकः प्रकाशः । तथाच नीलप्रकाशस्य प्रकाशनं न अन्यधर्म इति तदसम्भवे प्रकाशनं यत् सर्वत्र, तत् न दृष्टमिति नियम- वत्त्वहेतुना अस्य अन्यधर्मत्वं व्यापकं स्थापितमिति व्यापकानुपलब्धिः ।

तत् विज्ञानशून्यता नीतिबाह्यैवेति भद्रशङ्करनन्दनः । तेन द्विचन्द्र- निर्विकल्पकं, तथाविधविकल्प्यमात्रनिष्ठश्च तदध्यवसायो न भ्रान्तिः ।

नहि अत्र उभयत्रापि बाधकं प्रभवति । नहि निवृत्तेऽपि तिमिरे एवं प्रतिपत्तिः- न मे द्विचन्द्रः प्रतिभात इति ।

(पगे २४८)

तत्प्रतिभानादेव हि तिमिरचिकित्सितादिः । यस्तु द्विचन्द्रोऽयं बाह्यः सर्वसाधारण इति अध्यवसायः, स एव भ्रान्तो बाधकेन तथावेदनात् ।

निवृत्ते तावत् तिमिरे एवं प्रतिपत्तिः-यो मया द्विचन्द्रो बाह्यत्वेन सर्व- साधारण्येन अध्यवसितः, स तथा न प्रतिभातः; प्रतिभातस्तु अबाह्य एव असाधारणस्तिमिरादिकारणान्तरोत्थापितस्तदसाधारणपृष्ठ एव तु अभ्यमंसि-बाह्योऽयं सर्वसाधारण इति । नच असौ तथेति । यद् बाधकेन नेतिना उन्मूल्यते संवेदनेन, तत् भ्रान्ततया व्यवहार्यं स्वसंवेदनांश इव । तथाच द्विचन्द्रप्रतिभासद्विचन्द्राध्यवसायाविति कारणानुपलब्धिः । भ्रान्तताव्यवहारस्य नियमवतः कारणवत्त्वाद्- अन्यकारणासम्भवाच्च नेति उन्मूल्यमानतैव कारणं, तदिह न उपलभ्यते इति । यदाह भट्टः

असत्यस्याबहिर्भावो बाधः सत्त्वमतो द्विधा ।

इति । तथा विकल्प्यस्यापि अनर्थता न भवति भ्रान्तत्वाभावात् । यतो बाधकेन तत्र न किञ्चित् क्रियते, दृश्यविकल्प्याभेदाध्यवसाय एव तु उन्मूल्यते इति प्रक्रम्य आह

आभासभेदे त्वर्थः कस्तत्राभेदो भ्रमो वपुः ।

इति । ननु एवं द्विचन्द्रनिर्विकल्पकप्रत्ययभ्रान्तताभिधाने तिमिराशु- भ्रमणेत्यादावार्यस्य कोऽभिप्राय इत्याह बाह्यतावसायोऽपिच इति ।

तिमिरेण अयमसाधारण आभास उत्थाप्यते-यतो न वेत्ति, ततो बाह्यताध्यवसायः । एतदुक्तं भवति-आभास उत्तिष्ठन् प्राचुर्येण बाह्यार्थकृत एव भवतीति दृढाभ्यासवासनामहिम्ना प्रथमत एव प्रभृति स आभासः संविदि अध्यवसाये च निर्भासमानः समाकृष्ट- बाह्यताक एव निर्भासते मन्दमतेरिन्द्रजालतिमिरादाविति प्रथमत एव प्रभृति भ्रान्तत्वमुक्तम् ।

(पगे २४९)

यस्तु तिमिरादिकारणत्वमवैति गच्छन् कक्षाद्याभासस्य, स बाह्यतां न अध्यवस्यति । तथाच नावारूढं पश्य पश्य तटतरवः प्रतिलोमं तूर्णं तूर्णं धावन्तीति सविस्मयमाचक्षाणं शिशुकं प्रत्याह नैवं वृक्षा भवन्ति, दृश्यते केवलमित्थमिति । अनेन प्रतिभासधर्म एव अयमिति उक्तं भवति । एवं निर्विकल्पकेन एतत् बाधिष्यमाणबाह्यतास्वीकारात् सह्यमात्मनि भ्रान्तत्वम्, शुक्तिरजतभ्रमे तु प्रथमनिर्विकल्पकेन रजत- स्वीकाराभावात् न सह्यमिति अन्याभिप्रायः इति । तावत् इति । इह तावदुपयोगि दर्शितम्, अन्यत्तु दर्शयिष्यते । भवताम् इति स्वदर्शने भ्रान्तितत्त्वं यत्, तदिह न तावत् दर्शितमिति यावत् । यत् नरेश्वरविवेकः

परेषामपि केशादौ भ्रान्ता संविद्बहिर्मुखा ।

इति । एवं लोकप्रसिद्धे भ्रमरूपे यस्तृतीयोऽध्यवसायांशः, तन्निदर्शनेन सर्वत्र अध्यवसाये भ्रान्तिरूपं प्रदर्श्य भ्रान्तिरूपेण अध्यवसायेन व्यवतिष्ठापयिषितस्य बाह्यस्य व्यवस्था न घटते तत्र अंशे तस्य जडरूपत्वात् । यत्र अंशे च अजडत्वमबाह्ये, तत्र व्यवस्थासम्पादनानौत्- सुक्यादिति दर्शयति स्मृतिज्ञानं हि इति । हि इति यस्मादेवम्भूतोऽत्र विभाग इतीति, तस्मात् विषयव्यस्थापकत्वमध्यवसायस्य न युज्यते यथा प्रकृतस्य स्मृतिज्ञानस्येति । स्मृतिरुपलक्षणमत्र । एतदेव घटयति स इति । योऽंशो न भ्रान्तो निर्विकल्पकस्वसंवेदनलक्षणः, स न अर्थस्य व्यवस्थापकस्तेन अन्यस्यैव स्वरूपस्य स्वाभासस्य च प्रकाशनात् । यतः सोऽंशः प्रतिभासमानः स्वरूपस्वाभासस्वभावः, तस्मात् स्मृतिज्ञानादभिन्नो न व्यतिरिक्तः, न बाह्यस्वभावो

(पगे २५०)

ज्ञानादव्यतिरिक्तं च———।

इति न्यायात् । यस्तु विकल्पनव्यापारात्मा अध्यवसायः, स यद्यपि स्वांशादवतीर्ण इव लक्ष्यते इत्यतोऽर्थे व्यवस्थापकतया सम्भावयितुमारब्धः, तथापि न निर्वहति अस्य सम्भावना । तदाह यावता इति पूर्वप्रक्रान्तसम्भावनानिर्वाहाभावद्योतकमव्ययम् । ननु भ्रान्तं च भविष्यति, व्यवस्थापकं च भविष्यति । दुष्यति किं हि तत इति भ्रान्तत्वेन सह समुच्चीयमानं व्यवस्थापकत्वमाशङ्कितं निषेधति भ्रान्तस्यापि इति । अत्र हेतुः जडत्वात् इति । ननु विषयस्य व्यवस्थापक इति कोऽर्थविषयस्य व्यवस्थां करोति । तत्र यथा काष्ठस्य प्लोषं करोत्यग्निरित्युक्ते जाड्यमग्नेर्न प्रतिबन्धकम्, तथैव अवसायो व्यवस्थां विषयस्य करोतीति किमस्य जाड्याजाड्यचिन्तयेत्याशङ्क्य आह व्यवस्थापनं हि इति । आत्मनि संवेदनं प्रख्याप्रमुखं पार्यन्तिकोपाख्या-लक्षणाध्यवसायरूपम्, परत्र च प्रमात्रन्तरे तथाभूतस्य स्वात्मनि यादृगर्थाकारोऽध्यवसायः, तत्सदृशस्य अर्थाकारस्य अध्यवसायस्य पूर्वं वा तेन अर्थाकारप्रकारेण अभूतस्य जननार्थं वाचकस्य सङ्केतितस्य शब्दस्य उदीरणमुपाख्याप्रसादकं यद्वशात् तद्धानोपादानादियोग इति,-इत्येतत् व्यवस्थाशब्दवाच्यम्, नतु अर्थस्य असौ काष्ठस्य इव कश्चित् विकारः । हि इति यत एवं, ततः प्रख्योपाख्यावत्त्वं वस्तुविषयं जडस्य स्वात्मनिष्ठस्य वस्तु अस्पृशतः कथं स्यात् । चोऽन्वाचये । अत एव उपसंहरिष्यति वस्तुसंवेदनरूपत्वलाभः इति । तूष्णीकेनापि हि विषयं संवेदयमानेन व्यवस्थापितोऽर्थः, किन्तु व्याहारव्यापारादिना सा व्यवस्थापना निश्चेयेत्युपाख्यानं प्रख्यायाः करावलम्बनमादधत् तत्साचिव्येन व्यपदिष्टमिह । ननु विषयधम्र एव व्यवस्था अस्तु भाट्टन्यायेन ।

(पगे २५१)

अत्र आह प्रतिप्रमातृ इति । विषयधर्मो हि प्रतिप्रमातृ न भिद्यते । नहि एकस्य शुक्लः पटः, अन्यस्य पीतः, अन्यस्य न शुक्लो न पीत इति भवति । इह पुनरेकस्य स्पष्टं प्रतिभातोऽपरस्य अप्रतिभात एवेति दृष्टम् । विषयधर्मतायां तु इदं न घटते । यः प्रतिप्रमातृ भिद्यते धर्मः, स विषयधर्मो न भवति सुखादिरिव; तथा च व्यवस्थेति विषयधर्मत्वस्य व्यापकं व्यवस्थानं, तद्विरुद्धेन अव्यवस्थितत्वेन व्याप्तं प्रतिप्रमातृभिन्नत्वमिति व्यापक- विरुद्धव्याप्तोपलब्धिः । प्रमातुः इति प्रमातृधर्म एव अयम् । यस्य च अयं विषयप्रख्योपाख्यालक्षणो धर्मः, स एव अजड उच्यते । अपिशब्दो वृत्तौ पराभ्युपगमस्य अयुक्तताद्योतकः । यद्यपि त्वया चिद्रूपोऽङ्गीकृतः, तथापि न निर्दोषत्वमिति । स एव इति तत्रैव तेन प्रख्योपाख्ये कर्तव्ये । सच बाह्य एव इति बाह्यः प्रख्यातश्च उपाख्यातश्च तत्र भवन् पूर्ण एव प्रकाशितः स्यादिति प्रत्यक्षादस्य स्मृत्यध्यवसायस्य न भेदो भवेत्; अत एव संविदात्मना इति उक्तम् । संवित्स्वभावस्य हि यो व्यापारः, स कोऽन्यः संवेदनातिरिक्तो भवितुमर्हति । तदध्यवसायादिशब्दैरपि अभिधीयमानो- ऽसौ प्रकाश एव पूर्णः । ततश्च यत् यत्र पूर्णप्रकाशरूपं न भवति, तत् तत्र भ्रमात्मकमपि न भवति, सुख इव स्वसंवेदनम् । तथाच स्मृत्य- वसाये अतीर्थेऽर्थे यत् किल यत्र न पूर्णं प्रकाशनं, तत् भ्रान्तं रजत इव तत्संवेदनं किञ्चिदिति व्यापकानुपलब्धिः । अभ्रान्तत्वे प्रसक्तेऽपि न कश्चित् दोषः, प्रत्यक्षतुल्यतायां तु संवेदनविरोध इत्याशयेन वृत्तौ सैव दोषत्वेन उक्ता । टीकायां च तत एव उभयमुक्तम् । अनर्थः स्वात्मा स्वोल्लेखश्च यः, स एव अध्यवसायस्य प्रतिभास्योऽर्थः, बाह्यस्तु नैव प्रतिभास्यः । तर्हि बाह्यो जडोऽयम् ।

(पगे २५२)

नहि जाड्यस्य शृङ्गमस्ति । यदेव यत्र अप्रतिभासरूपं, तदेव तत्र जडमुच्यते नीलमिव अन्यत्रेति भावः । अर्थांशे इति व्यवतिष्ठापयिषिते बाह्ये इत्यर्थः । स्वात्मा संविद्रूपः, उल्लेखश्च उत्प्रेक्षणेन स्वव्यापारेण उत्कीर्येव स्वात्मनि अर्थादुत्कृष्येव लिख्यमानश्चित्रकल्पश्छायामात्ररूपो नील इति । उभयमपि एतदबाह्यं प्रकाशनयोगेन स्पृशता अध्यवसायेन तत्रैव प्रख्योपाख्यावता व्यवस्थाजनकेन भूयताम्, नतु बाह्य इति मात्रशब्दार्थः । इयता सौगतमते अर्थस्य व्यवस्थैव न कथञ्चिदुपपद्यते निर्विकल्पकेन तस्याः पूर्वापरपरामर्शप्राणिताया असम्पत्तेर्- अवसायात्मनश्च विकल्पस्य बाह्येऽर्थे जडत्वात् तद्व्यवस्थाकारिता- नुपपत्तेरिति दर्शितम् । प्रख्यानं हि केवलं निर्विकल्पकरूपमुपाख्या- रूपशून्यम् । न तत् व्यवस्थानमर्थस्य । नापि उपाख्या केवला प्रकाशशून्येति । यश्च प्रत्यक्षायते विकल्प इति, तत्र किमसावाचरति यत् प्रत्यक्षेण उपमीयेतेति उक्तमेव । अतश्च बाह्यार्थसिद्धिरपि कथमिति सूचितम् ।

अत एव स्वदर्शने सिधान्ती प्रकाशविमर्शयोरन्योन्यमवियोगं दर्शयिष्यति येन अर्थव्यवस्था सुलभेव बाह्यत्वेनापि । सा हि प्रख्योपाख्यामयी । ते एव च प्रकाशविमर्शावर्थस्येति तदात्मको बोधः कथमर्थव्यवस्थारूपो न भवेदिति न किञ्चित् दुःसमर्थमत्र । अवसायो दर्शनीभूतोऽवसायीभूतं दर्शनमित्यपि पुरुषबुद्ध्यविशेषाभिधानसमानमतात्त्विकमेव ।

पश्यामीत्यपि न दर्शनस्य निःशमशमस्य वपुरुचितं येन इयता दर्शनीभूतमवसायरूपं भवेत् । पश्यामीति हि परामर्शो- ऽयमवसायस्यैव वपुरिति परस्य असमञ्जसमिति आस्ताम् ॥ ५ ॥

एवमन्योन्यभिन्नानामपरस्परवेदिनाम् । ज्ञानानामनुसन्धानजन्मा नश्येञ्जनस्थितिः ॥ ६ ॥

(पगे २५३)

तदेवम् इत्यादिना सूत्रं सङ्क्षेपेण अवतारयति । ज्ञानम् इति तदीयमन्यज्ञानसम्बन्धिनं विषयं न आस्कन्दति न स्वीकुरुते । कथं तत्स्वीकरणं सम्भाव्यते । आह निज इति स्वरूपे स्वविषयमात्रे च निष्ठा विश्रान्तिर्यस्य तादृशं यदपरं स्वीकर्तव्यो विषयो यदीयस्तज्ज्ञान- द्वारेण । ननु तद्विषयस्वीकारे कथं तज्ज्ञानं द्वारतामेति । उच्यते तदपर इति तत् स्वीकर्तव्यविषयं यदपरं ज्ञानं, तत् यतः संवेद्यं भवति । ननु ज्ञानं यदि संवेद्यम्, तर्हि विषयस्तदीयः कथं स्वीक्रियेतेत्येवमाशङ्क्य इदमेव उक्तं तदपर इति तस्य अपरस्य ज्ञानस्य यतः संवेद्यो विषयः । स्वविषयप्रकाशनस्वभावं हि तज्ज्ञानं वेद्यीकुर्वता ज्ञानेन अवश्यं तद्विषयोऽपि स्वीकृतो भवेदिति यावत् । ननु यदि अयं परविषयस्वीकारे ज्ञानस्य ज्ञानान्तरवेद्यत्वमुपायः, तदा- श्रीयताम् । तर्हि तदाश्रीयेत, यदि घटेत; नतु घटते इत्याह क्रमेण यद्भवनं, तेन भिन्नानि किल ज्ञानानि । ननु ततः किम् । आह स्वाभासे स्वरूपे स्वाकारच्छायारूपे च विषये प्रकाशनरूपाणि, नतु परस्वरूपे परविषये व्यतिरिक्ते वा विषये । तथा वृत्तिः स्वात्ममात्र इति । अत्र हेतुरनन्तरो- पपादितो न्यायः । तेन हि न्यायेन किं कृतमिति । आह स्वरूपमात्र इति । इयता प्रथमं कारिकार्धं व्याख्यातम्, द्वितीयं व्याचष्टे ततश्च इति । ततः परज्ञानविषयस्वीकाराभावाच्च अर्थिनामर्थक्रियालाभः प्रवृत्तिपूर्वको न स्यादर्थिताया एव अनुदयात् । सा हि प्रवृत्तिविषयस्य प्रार्थनीयस्य अर्थ- विशेषस्य निश्चये सति भवति । प्रार्थनीयश्च इत्थमर्थो भवति यदि स पूर्वं सुखसाधनत्वेन दृष्ट इति निश्चयः । एवं च विषयसम्मेलनात्मा निश्चयः प्रार्थनाकारणं, तत् नास्तीति कारणानुपलब्ध्या प्रार्थनाया अभावे तयैव उत्तरोत्तर

(पगे २५४)

कार्याणामभावः इति प्रार्थनाध्यवसायप्रवृत्तिप्राप्तिहानादानसंव्य- वहारादिर्लोकयात्रा उत्सीदेत् । क्रमोपजातस्य संवित्प्रबन्धस्य विचित्रं कृत्वा संयोजनवियोजनादिना बहुप्रकारेण वैचित्र्येण यत् कस्मिंश्चित् विषये मेलनं-यस्त्वया अद्य विषयो दृश्यते, स पूर्वमपि मया इत्थमवलोकितः इत्येवंरूपं; तेन किल तत्समर्थाचरणं प्रवृत्तिविषयस्य अर्थविशेषस्य निश्चये क्रियेत । तदेव तु न घटते । अनेन अनुसन्धानजन्मा इति व्याख्यातम् । आलयविज्ञानमेकमपि कल्पितं क्षणिकत्वादविषयमेलनाय प्रभवति ।

स्मृतिज्ञानं च विचारयितुमारब्धमिति अखिलपदम् । प्रथमज्ञानमपि अहमिदं जानामीति अहन्तापर्यवसितम्, अहमिति च पूर्वापरस्वात्मरूप- परामर्शविश्रान्तं प्रथते इति तद्विश्रान्तत्वाभावे तदपि न किञ्चित् भवेत् ।

सुखदुःखादावपि एषैव वर्तनीति । स च अयमनुसन्ध्येकरसतया प्रमाता व्यवहरन् तदभावे मूर्च्छितप्रायीभवेदिति अनुसन्धिरवश्यसमर्थनीयः ।

ननु मा भूवन् स्वाभासमात्रप्रकाशनरूपाणि विज्ञानानि, सन्तु बाह्यार्थप्रकाशनरूपाणि । बाह्यश्च सन्तानवृत्त्या वा स्थैर्येण वा तज्जातीयत्वेन वा पूर्वेण ज्ञानेन यो दृष्टः, स एव उत्तरेण ज्ञानेन दृश्यते इति सिद्धं विषयमेलनम् । सिध्येत्, यदि दृष्टता तस्य अर्थस्य धर्मः स्यात् । यावता पूर्वज्ञानरूपमेव सा । नच अन्योन्यं ज्ञानयोः स्वरूप- तादात्म्यम् । ज्ञानभेदस्य अपारमार्थिकत्वे हि एवं स्यादिति । एतत् दर्शयति व्यतिरिक्त इत्यादि । विषयमेलनं हि दृष्टताया विषयधर्मत्वेन वा ज्ञानयोः स्वरूपैकत्वेन वा परस्परवेदकत्वेन वा स्यात्, न अन्यथेति एकान्तोऽयम् । ननु तृतीयोऽस्तु अयं पक्षः । नेत्याह तदपि इति तथाभूतमपि व्यतिरिक्तार्थप्रकाशनरूपमपि तत् ज्ञानम् । स्वातन्त्र्येण इति पूर्वज्ञान- योगक्षेमास्पर्शेनैव ।

(पगे २५५)

ननु यदि तज्ज्ञानं पूर्वज्ञानपुरःसरीकारेण तं विषयं स्वीकुर्यात्, का खण्डना; प्रत्युत अस्मिन् वस्तुनि प्रतीतिः साक्षिणी ज्ञातोऽयमर्थ इति । एतद्- आशङ्क्य महता प्रबन्धेन ज्ञानस्य ज्ञानान्तरवेद्यतामाक्ष- पादाभ्युपगतां पराकर्तुमुपक्रमते ज्ञानानाम् इत्यादिना । अत्र सङ्क्षेपेण युक्तिः जडतापत्तेः इति । उक्तम् इति

दृक् स्वाभासैव———–। (१ । ३ । २)

इत्यत्र । अत्र परो वितत्य स्वाभिप्रायं प्रकटयन् ज्ञानान्तरवेद्यतां न उपगते स्वप्रकाशत्वेऽपि समर्थयते स्वसंविद्रूपत्वात् इत्यादिना नात्र कश्चिद्बाधः इत्यन्तेन । भवन्ति इत्यन्तेन सिद्धान्तिमतं पूर्वपक्ष- वादिना अनूदितम्, अनेन च अपरसंवेद्यानि इति वृत्तौ नञः संवेदनेन सम्बन्धो व्याख्यातः । परशब्देन सम्बन्धे साध्याविशिष्टो हेतुर्भवेत् ।

एवमनूद्य कुतः इत्यनेन स्वमतमाह । इदं च अस्य आकूतम्-यथा दीपे प्रज्वलिते दीपान्तरमगच्छत् प्रकाशते न कश्चिद्विरोधः, तथा ज्ञानेऽपि ज्ञानान्तरम् । एतावता हि न तस्य ग्राहकस्य ज्ञानस्य किञ्चित् दुष्यति, तत् हि जडं वा गृह्णीयादजडं वा । ग्राहकत्वे का हानिः । तदाह यथा जड इत्यादि । ग्राह्यस्यापि का खण्डना । जडत्वापत्तिरिति चेत्, नैवम् । ज्ञानं हि प्रकाशमानमपि तथा स्वयं प्रकाशते यथा परस्य प्रकाशनरूपमेव भवति,-इति आत्मप्रकाशननान्तरीयकपरप्रकाशनयोगादान्तानात्मप्रकाशनरूप- मस्य अनपेतमेव । तदेव च अजडत्वम् । प्रकाश्यता च नाम न तस्य स्वरूपी- भवति घटवदेव । तेन सापि अस्य न जडतामानयति । एतदाह प्रकाश्यत्वा- प्रकाश्यत्वयोः इति । अप्रकाश्यत्वं न प्रकाशितोऽयमिति व्यवहारः, स न विषयस्य

(पगे २५६)

स्वरूपं प्रकाशितोऽयमितिव्यवहारवत्; प्रमात्रा च अस्य ज्ञानस्य ग्रहणे परप्रकाश्यत्वमेव उपपन्नमिति दर्शयति न स्वप्रकाशेन इति । येन हि प्रकाशरूपेण विषयस्य असौ प्रकाशस्तेनैव चेत् प्रमातुः संवेद्यतामेति, घटस्यापि संवेद्यतामन्ते; ज्ञानान्तरानुदये हि को विषेष आत्मद्रव्यस्य घटद्रव्यस्य वा । तस्मादस्य संवेद्यता नाम ज्ञानस्य घटवदेव ज्ञानान्तरम्, घटात् विलक्षणत्वनिदानं तु इयमेव अस्य प्रकाशता या विषयं स्वं प्रति प्रकाशरूपता । नहि विषयस्य प्रकाशरूपता निजं वपुः । तदेतदाह तत्प्रकाश एव हि इति । स्वपक्षं परो निगमयति तदेवम् इति ।

ज्ञानस्य प्रकाश्यता ज्ञानान्तरमेव, स्वरूपं तु प्रकाशमानस्य परप्रकाशनरूपत्वमिति दर्शितं प्रकाशात्मत्वात् परप्रकाशनस्वभाव- त्वाच्चेति ज्ञानरूपं जडरूपं वेति ग्राहकस्य ज्ञानस्य न काचित् खण्डनेति दर्शितम् । ज्ञानान्तरेणापि एवम् इत्यादिना ग्राह्यस्य ज्ञानस्य न किञ्चित् हीयते इति उक्तम् । यत् यत्र न लक्षणं स्वमपबाधते, तत् तत्र विरुद्धं दर्पणस्वच्छतायामिव स्वच्छदर्पणान्तरसङ्क्रान्तिः । तथाच ज्ञाने ज्ञानान्तरेण ग्राह्यता न ज्ञानस्य स्वं लक्षणं प्रकाश- मानस्य सतः परप्रकाशनरूपत्वं बाधते इति व्यापकानुपलब्धिः ।

विरोधो हि क्वचिदेव भवति, न सर्वत्र । यदि च लक्षणानपबाधकोऽपि विरुद्धः स्यात्, सर्वं सर्वस्य विरुद्धं भवेदिति नीलस्य कार्यत्वकारणत्वाद्यपि रूपं न भवेत् विरुद्धत्वात् । एवं नियमवत्त्वस्य व्यापकस्य अनुपलम्भ- प्रसङ्गात् विरोधव्यवहारो लक्षणानपबाधकरूपात् प्रतिपक्षतः प्रच्युतो लक्षणापबाधकत्वेन व्याप्यते । तच्च इह न उपलभ्यते इति । एतत् परिहरति अत्र उच्यते इत्यादिना । अनेन च लक्षणानपबाधकत्वस्य असिद्धिं निरूपयन् विरोधमेव समर्थयते ।

(पगे २५७)

ज्ञानं हि घटस्य प्रकाशनरूपम् । तत्र प्रकाशमानत्वं न घटनिष्ठं किञ्चिद्रूपम्, अपितु ज्ञानस्वरूपमेव तत् । यदि च तत् प्रकाशमानत्वम् ज्ञानगतमपि ज्ञानान्तरस्वरूपमेव, तर्हि प्रकाश्यस्य ज्ञानस्य निःस्वरूपत्वमेव स्यात् । ग्राहकस्यापि ज्ञानस्य या प्रकाशमानता, सापि ग्राहकज्ञानान्तरमेवेत्यनेन पर्यायेण सर्वमेव ज्ञानं निःस्वरूपं भवेदित्यभिप्रायेण उपक्रमते यथा इत्यादि ।

प्रकाश्यमानेऽपि इति वचनमात्रेण अभ्युपगमे सत्यपीत्यर्थः ।

अहमितिप्रत्येयः इति अर्हे कृत्यः । प्रकाशमानतायामनन्यापेक्षत्वं बोधलक्षणम् । तच्च ग्राह्यतायामन्यापेक्षतारूपायां बाधितमेव स्यात् ।

एवग्रहणेन अनन्यापेक्षामाह । अहमित्येवप्रकाशार्हः स एव हीति सम्बन्धः । मध्यग्रन्थस्तु अहमित्यस्यैव इत्यादिरत्र हेतुत्वेन उक्तः । ननु अहमिति न ज्ञानमेतत्, अपितु ज्ञातुरयं परामर्शः; ज्ञानं च इह मीमांस्यते इत्याशङ्क्य आह यदा तु इति । तुशब्दद्वयं वास्तवे सत्यपि अभेदे अर्थावच्छेदानवच्छेदकृतं ज्ञानत्वं ज्ञातृत्वं चेति विशेष- द्वयं द्योतयति । एतदुक्तं भवति-न खलु आत्मा नाम किञ्चित् द्रव्यान्तरं यस्य ज्ञानेन घटवदेव ज्ञानं प्रकाश्यते । तथात्वे हि न किञ्चित् प्रकाशेत । तथा हि घटस्य प्रकाशमानत्वं न स्वरूपम्, अपितु ज्ञानम् ।

तस्यापि प्रकाशमानत्वं यत्, तत् न स्वरूपम्, अपितु ज्ञानान्तरमिति अप्रकाशाद्वैतं भवेदिति सुप्तं जगत् स्यात् । तस्मात् संविदेव प्रमातृरूपा अन्तः शरीरप्राणशून्यादिकावच्छेदपरिगृहीतसङ्कोचा अपि बहिर्मुखान्- अवच्छेदात् बहिरलब्धसङ्कोचा मायाप्रमातृरूपा बहिरपितु लब्धसङ्कोच- तायां ज्ञानरूपा । तत्रापि बहिरसङ्कुचितं रूपमनुयायि भासते एव अन्यथा अनुसन्धानायोगादिति ज्ञानमात्मधर्म उच्यते इति ।

(पगे २५८)

सौगतैरपि इयादिना सर्वस्य इत्थमेव अयमवभास इत्याह । स्थिरमस्थिर- विषयच्छायोपरक्तरूपानुविद्धं प्रकाशलक्षणं सर्वस्य तावद्- अध्यात्मसिद्धमनपह्नवनीयम् । तत्तु समर्थयितुमशक्नुवद्भिः कुशकाशमवलम्ब्यते । तथाहि बौद्धैरस्थिरमेव अस्य पारमार्थिकं रूपमङ्गीक्रियते, स्थैर्यं तु सन्ताननिष्ठतया विकल्पकल्पितं ज्ञान- मात्रवादिभिः, साङ्ख्यैरस्थिरं रूपं विषयच्छायोपरागकृतं, प्रकाशरूपत्वं च पुरुषच्छायोपनतं बुद्धितत्त्ववादिभिः । मुख्यया इति न वास्तवमत्र मुख्यत्वम्, अपितु प्रतिभासानुसारेणेति मन्तव्यम् अत एव आह प्रकाशमानायाम् इति । वास्तवं हि प्रमातृत्वं पुरुषस्यैव । यदिवा पुरुषस्य चितिमात्ररूपत्वात् प्रमातृत्वादिव्यवहार उपचरितः प्रमाण- विपर्ययादिवृत्तिसारूप्यकृतः । बुद्धिवृत्त्यविशिष्टा हि व्यावृत्तिः इत्युपगमात् तु पुरुषच्छायोपरक्ते बुद्धितत्त्वे एव मुख्यः प्रमातृभावः । उभय- रूपः इति इदं ज्ञानम्, अयं प्रमातेति च । येषामपि इति नैयायिकदीनां ज्ञानलक्षणो यः प्रकाशः, ज्ञानोदय एव हि एषां मते विषयप्रकाशः, ततोऽतिरिक्त आत्मशब्दवाच्यो नित्यव्यापिद्रव्यविशेषः प्रमातेति । तत्रापि स विषयप्रकाशस्तावत् तस्मादात्मद्रव्यादव्यतिरेकेण निर्भासमानोऽङ्गी- कृतः । केवलं तथानिर्भासने समवायस्य निमित्तत्वमुक्तम् । यथा तु रक्तशुक्लः पट इति रागशौक्ल्यानुविद्ध एव चित्रपटो भाति, तथैव ज्ञाता अहमात्मेतिप्रत्ययेऽपि घटज्ञानात्मना प्रकाशेन पटज्ञानज्ञानात्म- ना च प्रकाशेन ओतप्रोतस्वभाव एव असावात्मा स्यादिति विचित्रप्रकाशरूपा- नुविद्ध एव आत्मा,-इति युक्तमवोचाम । स एव ज्ञानं प्रमाता चेति । ननु समवायः सम्बन्धः, स च भेदेनैव भवति संयोगवदित्याशङ्क्य सत्यम्, किन्तु अयुतसिद्धत्वात् ज्ञानस्य न जातु भेदेन अवभासो युक्त इति दर्शयति ।

(पगे २५९)

अन्यथा इति व्यापित्वनित्यत्वाभ्यां तद्विपरीताभ्यो व्यक्तिभ्योऽत्यन्तभिन्न- योगक्षेमा अपि जातिर्व्यक्तितादात्म्येनैव अवतिष्ठते निर्भासते चेत्येवं भूतो यः समवायस्य महिमा, स कथं गुणगुणिनोरत्यन्तमभिन्नयोगक्षेमयोर्- भेदेन अवस्थाननिर्भासावङ्गीकुर्यादित्याशयेन जातिमत्र दृष्टान्तीकरोति नहि इत्यादिना । दृष्टान्तस्य हेतुस्वरूपपरिपोषकत्वेन प्रकृतप्रसाधनाङ्ग- तेत्याशयेन हेतुताद्योतको हिशब्दः । यदि जातिः स्वतन्त्रा आसीत भासेत वा, तदा तत् द्रव्यमेव स्यात् प्रकाशेत च । भीन्नेषु अभिन्नप्रत्ययजनकत्वं हि जातेर्जीवितम् । ननु यदि सर्वज्ञः षट् पदार्थान् विविक्तानालोचयति, तदा जातिं पृथक्त्वेनापि अवलोकयेत्, महाप्रलये च व्यक्त्यभावेऽपि अवश्यं जातीः पश्येत् नित्यत्वेन च तदापि तासां भावादित्याशङ्क्य आह सर्वज्ञस्यापि इति ।

नहि अयथास्वरूपं सर्वज्ञः पदार्थान् पश्यति । एवं हि स भ्रान्त एव भवेत् । सर्वज्ञत्वाच्च प्रलयेऽपि असावतीतानागताः साक्षात् व्यक्तिः पश्यन् तदुपरञ्जकत्वजीवितामेव जातिमवैति । तदेतत् अर्हति इत्यनेन उक्तम् । दृष्टान्तं व्याख्याय दार्ष्टान्तिके योजयति तद्वत् इति । अहम्प्रकाशप्रतिभास्यो हि प्रमाता आत्मा । तदभेदेनैव ज्ञानमुचितप्रकाशं घटाभेदेन इव शुक्लस्तद्गुणत्वात् । ततो हि भेदेन प्रकाशमानं यदि तद्गुणः स्यात्, विश्वमपि तद्गुणः स्यादिति तद्गुणत्वमनियमप्रसङ्गेन विपक्षात् व्यावृत्तं साध्येन तदभेदप्रकाशेन व्याप्यते इति स्वभावहेतुः । एवञ्च ज्ञानं ज्ञाता अहमित्येव उचिताभासम् । इदमिति तु अवभासे ज्ञातुर्बहिर्भूतमतद्- गुणरूपं स्वतन्त्रमन्यगुणरूपं वा भासमानं ज्ञानमेव भातं भवेत् । एवमहम्प्रकाशयोग्यस्य प्रमातुरन्तर्निष्ठतयैव ज्ञानस्य प्रकाशनं सर्वदर्शनेषु उदितम् ।

(पगे २६०)

ज्ञानम् इति ज्ञानस्य ज्ञानान्तरवेद्यता न युक्ता । ननु मा भूदिदमिति ज्ञानस्य प्रकाशः, भवतु च अहमिति; किन्तु यथा सुखी अहम्, इच्छामि द्वेष्मि प्रयतेऽहमित्यादौ सुखेच्छादेरात्मसमवेतत्वेन आत्मसमवेतेनैव व्यतिरिक्तेन ज्ञानेन प्रकाशनं, तद्वत् ज्ञाता अहमिति ज्ञानस्यापि ज्ञानान्तरेणैव एकार्थसमवायिना भविष्यतीत्याशङ्क्य दृष्टान्त एव अयमयुक्त इति हृदये गृहीत्वा अहम्प्रकाशस्यैव रूपं निरूपयति स्वयम् इति ।

अहम्प्रकाशमयत्वमेतदुच्यते-प्रकाश्यतायां स्वातन्त्र्यमनन्यमुख- प्रेक्षित्वम्, अन्यथा प्रकाशान्तराव्युपरमेऽनवस्थानात् न किञ्चित् प्रकाशे- तेति असकृत् निर्णीतं

प्रकाशस्यात्मविश्रान्तिरहम्भावो हि———। (अ। प्र। सि। २२ का।)

इति । यस्य हि नैयायिकस्य सदा परोक्ष एव आत्मा, तस्य तत्परोक्षवृत्तिर्धर्मः प्रकाशेतेति । एतदेतावत् कथम् । पृथक्प्रकाशमानश्च कथमयुतसिद्धो भवेत् । नभसोऽपि अनिर्भासे शब्दस्य निर्भास इति चेत्, एतदपि कथम् । तरुपवन- संयोगाप्रत्यक्षत्वं च कथं स्यात् । अथ अहमितिज्ञाने प्रकाशते एव आत्मा । तत्रापि अहमित्यपि ज्ञानं न स्वकाशम् । तदपि ज्ञानान्तरग्राह्यम् । तत्तु ज्ञानान्तरं केन आकारेण उदेतीति चिन्त्यम् । यदि तावदिदमिति, तदा आत्मबहिर्- भावोऽस्य स्यात् । अथ अहमिति, तर्हि आत्मज्ञानमिदं भवेत्, न आत्मज्ञान- ज्ञानम्; अनवस्थानाच्च न किञ्चित् प्रकाशेत । ज्ञानस्य उदयो विषयस्य प्रकाश इत्युक्तिर्हि ज्ञानविषययोस्तादात्म्यं वा आनयेत्; घटस्य उदका- हरणं यत्, तदेव पटसम्बन्धि प्रावरणमित्येतत्तुल्यतया वा वक्तुरुन्मत्त- ताम् । तस्मादनन्यापेक्षप्रकाशत्वं ज्ञानस्य स्वरूपं तदन्यापेक्ष- प्रकाशत्वेन विरुद्धम्, तदेव च ज्ञानान्तरग्राह्यत्वमिति न ज्ञानं ज्ञानान्तरवेद्यम् ।

(पगे २६१)

तद्विषय इति ज्ञानानां ये विषयास्तेषां या व्यवस्थितयः, तासां निष्ठा अनवस्थाभावेन परिसमाप्तिरिति यावत् । तदेव इति यदस्य ज्ञानस्य स्वरूपं विषयोन्मुखाहम्प्रकाशमानरूपत्वम् । किमन्यत् इति अन्यत् हि तदीयं गुण- त्वादि तावत् न भाति अर्थप्रकाशमात्रस्यैव निर्भासात् । भासमानमपिच तद्- रूपादि गुणान्तरसाधारणज्ञानरूपतया नैव निर्भातं स्यादिति ज्ञानं न आभातं भवेत् । एतदुपसंहरति तत् इति यदेतदुक्तं, तस्मात् हेतोः । इदमिति प्रकाशस्वातन्त्र्यरूपादहम्भावात् पृथक्कृतं सत् ज्ञानं यदा प्रकाशते, तदा अहं ज्ञाता विषयप्रकाशमयः इत्येवम्भूतां पार्यन्तिकीं प्रतिपत्तिमधिशय्य प्रकाशितं भवति । यथा अयं शुक्लो गुणः पटात् पदार्थान्तरभूतस्तत्र परं समवायेन वर्तते इतिविकल्पे अयं पटः शुक्लः इति विकल्पान्तरव्यवधिना गुणस्वरूपमामृष्टं भवति, न साक्षात्; तथा मम ज्ञानमिदमिति इदानीमिति अन्यस्य प्रकाशबलात् यस्य प्रथते इति व्यवह्रियमाणता इदन्तारूपा, तत् जडम्; स्वप्रकाशताबलात् यस्य अहन्ता- रूपा, तदजडमिति । इत्थञ्च यदि पराधीनप्रकाशं प्रकाश्यं चेति जड- लक्षणम्, तदस्तु; अन्येन तु प्रकारेण प्रकाशभिन्नत्वेन इदन्ता, तदभिन्न- त्वेन अहन्तेति जडाजडत्वमिति त्यक्त्वा यत् प्रकाश्यं, तत् जडमित्युक्ते किं तस्य प्रकाश्यत्वम् । ज्ञानस्य उदय इत्युक्ते तस्य न किञ्चित् स्वरूपमुक्तं भवेत् ।

एवञ्च जडलक्षणेन अयुक्तमिति अजडं नीलादि स्यात् । उक्तम् इति भवतैव ।

पूर्वपक्षे एवमसम्भवात् न लक्षणमतिव्याप्तिश्च अत्रेति हृदये गृहीत्वा भङ्ग्यन्तरेण जडाजडलक्षणस्य अविरोधापादनेन जडाजडयोर्- अव्यवस्थां दर्शयति अतश्च इति । न केवलं स्वरूपास्वरूपास्पर्शनात्, यावदभ्युपगतेऽपि स्वरूपस्पर्शित्वे ।

(पगे २६२)

इतश्च अविरोधात् जडाजडलक्षणयोः प्रसक्तात् जडमपि अजडं स्यात् । अविरोध- मेव अपिशब्दद्वयेन द्योतयति । अद्य इति अस्मदुक्तायां व्यवस्थायाम् । अर्थ- स्वरूपम् इति इदन्तया अर्थ एव प्रवृत्तिप्राप्तिनियोजनादिना भासमानतया व्यवह्रियते, अहन्तया तु स्वप्रकाशरूपं ज्ञातृज्ञानरूपम् । प्रकाशाच्च यौ भेदाभेदौ, तावन्योन्यविरुधौ स्वव्याप्तयोर्जडाजडयोर्विरोधं विदधानावन्योन्यसंस्पर्शाक्षमत्वेन प्रविभक्तं रूपं तयोर्व्यवस्था- पयतः । तदाह सुव्यवस्थितः इति सुष्ठु व्यवस्थितो नियत इत्यर्थः । इयता न किञ्चित् ज्ञानं ज्ञानान्तरवेद्यं भवतीति उपपादितम् । अधुना यदि कश्चिद्- आचक्षीत-मा भूदन्यत्र ज्ञानानामन्योन्यवेद्यवेदकता, स्मृतौ तु सा अनुभवविषिष्टार्थनिर्भासनायां कथमवज्ञायते-इति, तं प्रति प्रत्युत ज्ञानस्य वेद्यत्वे ज्ञानविषयं ज्ञानविशिष्टार्थविषयं वा अनुभवान्तरमेव भवेत्, न स्मृतिरिति हृदये गृहीत्वा स्मरणज्ञानेन अस्य अनुभवज्ञानं वेद्यं न भवति,-इति प्रकृतं घटयति पूर्वानुभूतस्य च इति । चकारो युक्तिसमुच्चये । न केवलं पूर्वोक्तयुक्तिभिर्ज्ञानस्य ज्ञानान्तरवेद्यत्वं नास्तीत्येतावतैव स्मरणज्ञानेन पूर्वानुभवस्य विषयीकारो निषिध्यते, यावत् युक्त्यन्तरेण अपि । तथाहि घटं स्मरामीति ज्ञाने घटस्यैव विषयतया प्रतिभासः, न पूर्वानुभवस्य । स केवलं स्मरणज्ञानेनैव सह मिलितो भाति । अन्यथा तस्य पृथगवभासे स्मरणं घटेन सविषयं न भवेत् योगिन इव परचित्तज्ञानं परचित्तविषयेन ।

यदाह

नच सालम्बनं तस्याविषयीभूतत्वात् ।

इति । ननु घटमनुभूतमनुभवामीति स्मरणस्य वपुः, तत्र अनुभूतत्वमर्थस्य विशेषणं न स्मरणेन ऐक्यमापद्यते । उच्यते ।

(पगे २६३)

एषा खलु स्मर्यमाणदृश्यमानानुसन्धिरूपा प्रत्यभिज्ञा, नतु शुद्धं स्मरणम् । तत्र तु अनुभूतमिति यदुल्लिख्यते भूतत्वमनुभवस्य, इदमेव स्मरणस्य प्रातिस्विकं वपुः । तत्रापि भूतता विषयोपाधिसङ्कोचकल्पिता अनुभवदशायोगेन स्वयंवर्तमानत्वेऽपि । अनुभूतं स्मरामीत्यपि प्रतिपत्तावनुभूतमित्यस्यैव स्पष्टीकरणं स्मरामीति, नतु अतिक्रान्तानु- भूततास्मरणात् सदा वर्तमानो हि बोधः प्राच्येन ज्ञानेन उद्रिक्तावस्थेन उपलक्षितः स्मरणमिति उच्यते । तदाह अनुभवैक्यापन्नम् इति । केवलं सौगतेन एतत् कथञ्चित् सामर्थ्यते अनुभवेन स्वसन्ततौ वासनात्मक- शक्त्याधारद्वारेण, नैयायिकेन अपि आत्मनि संस्काराधानद्वारेण, नतु स्मरणेन । अनुभवो ज्ञायते इति तयोर्दर्शनम् । एवं हि पूर्वज्ञानज्ञान- रूपमनुभवान्तरमेव भवेत्, नतु स्मरणम् । चिरातीतस्य च ज्ञानस्य निःस्वभावस्य कथमर्थप्रकाशरूपता । नश्यदवस्थं च ज्ञानं ज्ञानेन ज्ञायतां नाम एकार्थसमवायात्, अयोगी तु चिरनष्टमधुना वेत्तीति का सम्भावना । न जानाति, अपितु स्मरतीति चेत्, तर्हि ज्ञानज्ञानं जानातीति आयातं स्यात् । तत्रापिच अयमेव दोषः,-इति युक्तमुक्तम् । नतु अन्तरालवर्ति इति । स्मरणस्य विषयस्य च अन्तराले मध्ये भवन्ननुभवो विषयं प्रकाशयन् स्मरणेन प्रकाशमानः समरणस्य तं विषयम्- अर्पयतीति न युक्तमित्थमननुभवात् । एतदेव च युक्तम्-यत् स्मरणविग्रहपतित एव विषयप्रकाशात्मा अनुभवः । तथाहि स्मृतिरनुभवं प्रकाशयति तं यो विषयं प्रकाशयतीति उपगमे विषयस्य या प्रकाशना, सा विषयनिष्ठा तावत् न भवति प्रकटतावादस्य दूषितत्वात्; अपितु इयमेव तस्य प्रकाशना या तद्विषयोऽनुभवः । सच यदि न स्वयं प्रकाशते, न किञ्चित् प्रकाशेत ।

(पगे २६४)

अथ उच्यते तस्य प्रकाशना स्मरणेन तथाहि अनुभवस्य प्रकाश्यस्य न धर्मो विषयस्यैव, किन्तु स्मरणमेव तस्य अनुभवस्य प्रकाशना अभवदिति विषयकक्ष्यापतितोऽसावनुभवो जडाकारः प्रकाशभिन्नः कथं मार्गस्य प्रकाशो भवेदिति घटं स्मरामीति अन्धपदं पर्यवस्येत् ।

तदेतदाह सा इति विषयप्रकाशरूपता न स्यात् पूर्वानुभवस्य इदन्तया प्रकाशमानत्वेन जडस्य । अन्यत्र स्मरणज्ञाने तन्मुखस्तदधीनप्रकाशो हि असावनुभवः । एवमिदन्ता नाम प्रकाश्यत्वं प्रकाशात् भिन्नत्वं जडस्वरूपमिति स्थापिते स्वपक्षप्रकोपं शङ्कमान आह एवञ्च इति । अनेन जडाजडलक्षणविभागेन अहमिदमितिप्रकाश ईश्वरात्मा । तत्र जडाजडयोः कथमेकत्वमिति । तत्र उच्यते-इह इदमित्यपि भासमाने प्रकाशपरमार्थतैव रूपमन्यथा अप्रकाशयोगे इदन्ताया अपि अन्धतमसत्वात् । केवलं माया- शक्त्या प्रकाशाभिन्नेऽपि प्रकाशभिन्नत्वाभिमान इति यथोचितमातृमेय- सृष्टिप्रभावित इति जडता उच्यते । ईश्वरदशा च प्रकाशभिन्नत्वाभिमान- विषया ये पशुप्रमातॄणाम्, तेऽर्थाः परमार्थतः प्रकाशात्मान इति परामर्शरूपा । तत् पशुप्रमात्रपेक्षया ते जडाः सन्तु नाम, पशु- प्रमातृरूपस्यापितु प्रकाशभागस्य वस्तुत ऐश्वरप्रकाशाव्यतिरेक इति तदनुसारेण इदमित्यस्य रूपस्य विद्युन्न्यायेन उन्मिषतोऽपि प्ररोहाभावाद्- अहम्भावे एव विश्रान्तिरिति सामानाधिकरण्यमहन्तेदन्तयोरुच्यते । एवञ्च अनूद्यमाना इयमिदन्ता प्रथमं यद्यपि भाति, तथापि अनुभवादस्य स्वविश्रान्त्ययोग्यत्वेन विधीयमानाहन्तानुधावनेनैव कृतित्वमिति अहं- मात्रतैव । तदाच इति ईश्वरदशायाम् । नाधिक्यम् इति इदन्ता नाम तत्र न अधिका प्रकाशस्य अहन्तात्मनः । स्वातन्त्र्यमहिमैव हि वस्तुत इदन्ता ।

(पगे २६५)

तदत्र परस्य स्वप्रसिद्धेनैव दृष्टान्तेन मोहमपोहति यथाहि इति । एष भङ्ग्या दृष्टान्त एक एव साधर्म्यवैधर्म्याभ्यां ग्रन्थकारेण उक्तः ।

यथा रूपं सन्निवेशस्य उदये भ्रंशे च रूपमेव तथातदित्युपगमात्, एवं बोधो विश्वस्य उदयप्रलययोर्बोध एव; न अस्य अतिशय आधिक्यमिति साधर्म्यदृष्टान्तः । रूपे तु क्षणिकत्वात् तथा तथेति कश्चित् योऽतिशयो- ऽङ्गीकृतः, स बोधे न उपपद्यते । बोधस्य एकरूपत्वात् विशेषलेशो न युज्यते इति हि उक्तम् । यत् नरेश्वरविवेकः

नीलादिकोपरागेण न प्रथैव विशिष्यते । अविशिष्टप्रथारूपोपगमात्सर्ववादिनाम् ॥

इति । एतच्च वितत्य वक्ष्यते इत्याह तदास्ताम् इति । अस्य प्रमेयस्य औदासीन्यं प्राप्तकालमिति यावत् । यथा रूपस्य न सन्निवेशोऽर्थान्तरम्, एवं बोध- रूपेऽपि नैव कश्चिदतिशयः सम्भवतीति साधर्म्ये योजना । तुरेवकारार्थे अत्र, वैधर्म्ये तु विशेषद्योतकः । यथा रूपस्य विशिष्टता स्यात्, एवं बोधरूपेऽपि विशिष्टतात्मा अतिशयः शङ्क्यते; सतु नैव अस्तीति वैधर्म्ये योजना । हीति यस्मादेवं, तदीश्वरदशायां बोधरूपताया न आधिक्यं किञ्चिदिति सम्बन्धः । प्रकृतलक्षणविभागस्य हेतुमुपसंहरति सिद्धं तावत् इति । परसंवेद्यता बोधस्य इति परसंवेद्यता बोधस्य निषेध्या स्वसंविद्रुपत्वेन हेतुना । तत् हि निषेध्यस्य व्यापिका या इदन्ता, तद्विरुद्धया अहन्तया व्याप्तम् । अहन्तैव हि संविदो लक्षणम् । तेन व्यापकविरुद्धव्याप्ते- न स्वसन्द्रूपत्वेन परसंवेद्यत्वं निषिध्यते । अत्र हि स्वसंविद्रूपत्वं ज्ञानस्य परेण अङ्गीकृतं, केवलं तथाभावेऽपि परसंवेद्यत्वमिच्छति ।

सहि-स्वात्मना संविद्रूपता परप्रकाशा परसंवेद्यत्वं तु तद्विषय- ज्ञानान्तरोदयः,

(पगे २६६)

तदनयोः को विरोधः-इत्याह स्म को हि विरोधः इत्यादिना । तस्य इदानीं विरोधप्रतिपादनेन मोहः शमितः । परसंवेद्यताया हि लक्षणं प्रकाश- भिन्नत्वं जडत्वमिदन्ता, संविद्रूपायास्तु स्वसन्द्रूपतायाः प्रकाश- तादात्म्यमजडत्वमहन्ता,-इति लक्षणद्वारेण तयोर्विरोध एवेति परसंवेद्य- ता स्वसंविद्रूपत्वेन निषिध्यते । सा हि हेतोः स्वसंविद्रूपत्वस्य यत् व्यापकमहमिति रूपं, तस्य यत् विरुद्धमिदमिति प्रकाशभिन्नत्वं; तेन व्याप्ता तल्लक्षणिकेति । यश्च विधौ स्वभावहेतुः, स एव तद्विपर्यये निषेध्ये विरुद्धोपलब्धिरूपोऽनुपलब्धिहेतुर्भवतीति दर्शयति यथा इति । अनित्यत्वे क्षणिकत्वे साध्ये क्रमिकार्थक्रियाकारित्वलक्षणं यत् सत्त्वं तत् स्वभाव- हेतुः, नित्यत्वे तु निषेध्ये व्यापकविरुद्धव्याप्तोपलब्धिः । नित्यस्य लक्षणं व्यापको धर्म एकस्वभावत्वं नाम, तद्विरूद्धं च भिन्नस्वभावत्वं; तदेव व्यापकं लक्षणं क्रमिकार्थक्रियाकारित्वस्य । क्रमेण अर्थक्रियां करोतीति हि भाषितस्य अयं परमार्थः-नानास्वभावोऽयमिति न अवृक्षोऽयं शिंशिपात्वादित्यत्रापि अवृक्षत्वस्य व्यापकं यत् लक्षणमशाखादि- मत्त्वं, तद्विरूद्धेन शाखादिमत्त्वेन शिंशिपात्वं व्याप्तमिति व्यापक- विरुद्धव्याप्तोपलब्धिरेव । अथ लक्षणात्मा यो व्यापको धर्मः, स न पृथग्- व्यावृत्त्या समाकृष्यते पृथगाकर्षणस्य परप्रत्यायनफलस्य प्रसिद्धे विषये निष्प्रयोजनत्वात्; तदा अवृक्षत्वविरुद्धेन वृक्षत्वेन शिंशिपात्वं व्याप्तमिति विरुद्धव्याप्तोपलब्धिर्भवति । यदा तु शिंशिम्पायामपि वृक्षत्वं न पृथक् क्रियते प्रसिद्धत्वात्, केवलं भ्रान्त्या आरोपितं यदवृक्षत्वं, तदपसार्यते; तदा स्वभावविरुद्धोपलब्धिरेव भवति ।

प्रकृतेऽपि परसंवेद्यत्वमिदन्तेति एकं तत्त्वं चेत्, तद्विरुद्धव्याप्तोपलब्धिः । अहन्ता स्वसंविद्रूपत्वमित्यपि चेदेकं तत्त्वं, तत् स्वभावविरुद्धो- पलब्धिरेव ।

(पगे २६७)

इह तु परसंवेद्यतास्वसंवेद्यते परस्य लक्षणतो न तत्त्वतः सिद्धे । तत एव हि स तयोरविरोधमभिमनुते इत्याशयेन लक्षणात् स व्यापको धर्मस्तयोः पृथक्कृत्य प्रदर्शित इति व्यापकविरुद्धव्याप्तोपलब्धिर्विवृतिकृता दर्शिता । न अनग्निर्धूमादित्यपि विरुद्धकार्योपलब्धिरेव भवतीति । एवं तत्र तत्र अवधातव्यमिति अलमवान्तरेण । एवमजडे परसंवेद्यतामपाकृत्य पर- संवेद्येऽपि स्वसंविद्रूपता नास्तीति दर्शयति घटस्यापि इति । यद्यपि घटस्य स्वसंविद्रूपत्वं न केनचिदुपगतम्, तथापि विरोधस्फुटीकरणाय इदमुक्तम् । यथार्थधर्मप्रकटतावादिनस्तत् बलात् प्रसज्यते, नच युक्तं विरोधादित्येतदनेन दर्शयति । अनयैव इति सैव इयमनुपलब्धिजातिरित्यर्थः ।

स्वसंविद्रूपत्वस्य निषेध्यस्य व्यापकमहमिति । तद्विरुद्धमिदमिति, तेन व्याप्तं परसंवेद्यत्वमिति । एतदुपसंहरति तदेवम् इति । अशेषमपि विश्वं यदि क्रमेण यदिवा युगपदपि संवेद्यते, तथापि वर्तमानमेकं ज्ञानं स्वविषयमात्रमेव गृह्णाति; नतु कस्यचित् विषयस्य ज्ञानान्तरस्वीकृततां वेत्ति । ज्ञानं हि न ज्ञानान्तरेण ज्ञायते जडतापत्तेः । ज्ञानान्तर- स्वीकृतत्वे च अज्ञाता इयं मया पूर्वं दुःखरूपा, अर्थक्रियासाधनो निश्चितोऽयं सुखसाधन इति संवेदनाभावात् भूतग्रस्त इव न तस्मिन् दृष्टे तितिक्षोपादित्सात्मिकामिच्छारूपामर्थितां भजेत् । तदभावे त्यजामि-गृह्णा- मीतिप्रयत्नोपक्रमः कायस्पन्दमध्यस्तत्त्यागादानरूपप्राप्त्यन्तो व्यवहारो न स्यादिच्छाद्वेषयोः स्मृतिपूर्वकत्वात् तदभावेऽनुत्पत्तेस्तत्- पूर्वकपर्यत्नाभावे प्रयत्नजशरीरकर्मासम्भवे तत्कृतार्थसंयोग- विभागाद्यसम्पत्तेरिति सद्योजातनालिकीरद्वीपवासिभिरिव प्रमातृभिः स्थीयेत । तेषामपिवा अस्ति अनुसन्धानादि किञ्चिदिति तेभ्योऽपि शोच्याः प्रमातारो न प्रमातारः स्युः ।

(पगे २६८)

इयता सूत्रं व्याख्यातम् । ज्ञानानां यदेकमनुसन्धानविषये मेलनं, ततो जन्म यस्याः सा जनस्थितिस्त्यागोपादानादिव्यवहारो नश्येदिति । वृत्तिरपि- ज्ञानानां यत् परस्परं विषयेषु सङ्घट्टनं, तत् यथा विकल्पज्ञानम्- अनुभवस्य विषये-इदं दृष्टं विकल्पयामीति, सोऽपि विकल्पज्ञानस्य-यदेव अनुमानेन विकल्पितं, तदेव पश्यामीत्यादौ, उभयस्यापि स्मृतिः, तस्या अपि प्रत्यभिज्ञानमित्यादिबहुप्रकारम्, तदेव प्रकृतं मूलकारणं यस्य लोकव्यवहारस्य स तस्मिन् सङ्घट्टनात्मनि मूलनिदाने निरस्ते केन प्रकारेण भवेत् । संस्कारादिना केवलेन तस्य न सम्पत्तिरिति हि भणितमेव ।

वृत्तौच इति ज्ञानानाम् इत्येव षष्ठी वृत्तौ प्रयुक्ता तेषाम् इति ।

परामर्शेन सूत्रे अनुसन्धानस्य नित्यसापेक्षत्वात् समासः, अन्यथा चैत्रस्य चित्रा गावोऽस्येतिवत् न स्यात् । अनुसन्धानं तु नित्यसापेक्षं सकर्मकत्वाद्- अस्याः क्रियायाः । वृत्तौ विषयसङ्घट्टनायाः प्राधान्यात् तेषाम् इत्य- पेक्षणेऽपि समासस्य यद्यपि न विरोधः, तथापि विषयार्थस्य अप्रधानस्य तेषामित्यपेक्षणे समासाभावः प्राप्नोति, स विषयस्य नित्यसापेक्षत्वं विषयापेक्षणादिति परिहृतः । समासेन च अत्र तद्धितवृत्तिरपि उपलक्ष्यते । नहि भवति धान्यानामपूपमयी यात्रेति । इह तु विषयसङ्घट्टना विषयद्वारेण नित्यसापेक्षेति भवत्येव धनस्य अर्जनसमये इत्यादिवत् । ननु व्यवहारोऽयं मूढानां विप्लवमात्रमविचारितरमणीयम् । का तत्र तत्त्वपरीक्षा । असदेतत् विप्लवेन व्यवहारनियमानुपपत्तेः । किञ्चिदेव हि अयं जहाति, किञ्चिदेव च उपादत्ते । तत् नियतनिदानाभावे कुतस्त्यो नियमः । अस्तुवा मूढव्यवहारो विप्लवः, यस्तु अमूढानां व्यवहारः, स कथं समर्थ्येतेति दर्शयति वृत्तिकृत् परमार्थ इत्यादि ।

(पगे २६९)

एतत् व्याचष्टे विदितवेद्यैरपि इति । तत्त्वम् इति नतु लोकव्यवहारः । अयमेव क्रमः इति अनुभूतानुसन्धानादिः । कुत इति चेत्, आह तेऽपि हि इति । न केवलं मूढा एवं, यावत् तेऽपि,-इति अपिशब्दः । विदितपूर्वम् इति अनुभवं दर्शयति । एवमयम् इति स्मरणानुसन्धानपूर्वकं विकल्पनम् । शिष्ये- भ्योऽपि इति अवतारणीयेभ्य इति यावत् । यदिवा न केवलं शास्त्रकरणात्मनि उपदेशेऽयं क्रमः, यावत् सन्निहितान्तेवासिसङ्क्रमणोपदेशावसरेऽपीति अपिशब्दः । एतदुक्तं भवति-असर्वज्ञस्तावत् तत्त्वमागमानुमानयोगि- प्रत्यक्षादिना स्वात्मनि प्रसिद्धं शास्त्रे निबन्धन् परस्मै वा निरूपयन् स्मृत्वा स्मृत्वा विकल्प्य निरूपयेदिति तावत् स्थितम् । योऽपि सर्वज्ञो विश्वं साक्षात् पश्यति, सोऽपि शिष्यमुपसङ्क्रान्तबोधं चिकीर्षुरूपदिदिक्षुः शास्त्रं वा चिकीर्षुः शब्दोपारोहयोग्यतां शिष्यजनभावना योग्यतां च साक्षात्क्रियमाणस्य स्वलक्षणस्य पश्यन् तस्मात् साक्षात्कारात्मकात् सार्वज्ञ्यात् स्वातन्त्र्यरसेन करुणारसेन वा व्युत्थाय अयमिति साक्षात्कृतम्- अपि अर्थमेवमिति विकल्पनेन अनुसन्धाय उपदिशेत् । विकल्पनं च पूर्वदृष्ट- तासमुल्लेखेन शब्दाद्यनुस्मरणप्राणतया च भवतीति । सोऽपि तदानीं पूर्वापरज्ञानमेलनां विना कथमुपदिशेत् । यथोक्तं भवद्भिरेव

तथताव्युत्थितो बुद्धस्तथतामुपदेक्ष्यति ।

इति । आगमेषु अपि

पुंसामनुग्रहार्थाय परोऽप्यपरतां गतः ।

इति । तथा

यथा प्रक्ष्यन्ति ते शिष्यास्तथा स्थास्यति शङ्करः ।

इत्यादि च ।

(पगे २७०)

तेषामपि इति प्रबुधानाम् । लोकयात्रा इति परोद्धारणादिका । स्वात्म इति स्वविषयप्रकाशतायामात्ममात्रप्रकाशतायां च विश्रान्तैर्वर्तमानैरेवेत्यर्थः । सर्वे एव इति प्रबुद्धाश्च अप्रबुद्धाश्च ।

निःस्तिमिताः इति भूतग्रस्तप्रायाः । नहि सर्वज्ञोऽपि भूतग्रस्त इव आस्ते तस्यापि विकल्पयितुमशक्तावस्वातन्त्र्यापत्तेर्जडताप्रसङ्गात् । अत एव परम- शिवस्य अपि भगवतः शक्त्युपक्रमं लयभोगाधिकारैः सदाशिवेश्वर- विद्येश्वरादिक्रमेण मायाप्रमातृपर्यन्ततया प्रकाशनमेव विकल्पनव्या- पाररूपमिति निःस्तिमितत्वं जाड्यमेव । निःस्तिमितत्वविपक्ष एव हि विमर्शः स्फुरत्तास्पन्दादिव्यपदेश्यो भगवतः शक्तिविशेषो यन्न्यूनतातारतम्य- कृतं स्थावरान्तं जडत्वम्, यदुत्कर्षतारतम्यकृतं च भगवत्परम- शिवान्तं प्रबुद्धत्वमिति वक्ष्यामः

सा स्फुरत्ता————। (१ । ५ । १४)

इत्यादौ । ननु अयमुपदेशोऽपि विप्लवत्वात् पारमार्थिकं विषयं नैव स्पृशतीति शङ्कित्वा आह परमार्थोपदेशस्यापि इति । लौकिकस्य व्यवहारस्य अस्तु तावत् विप्लवता; अस्यापितु विप्लवत्वे यः परमार्थ उपदिष्टो भावितश्च, तस्य परमार्थः पूर्वप्रकाशितपरमार्थरूपत्वाभावे परमार्थो- ऽस्पृष्ट एव कथं प्राप्येत । मिथ्यापरमार्थोपदेशपूर्विका हि भावना मिथ्यापरमार्थ एव कृता तमेव स्फुटीकुर्यात्

————यद्यदेवातिभाव्यते ।

इति न्यायात्; अथ सत्यपरमार्थमेव स्फुटीकरोति प्राच्यानुभवविषयीकृतं, ततो न विप्लवता । एवञ्च संवेदनानां विषयमेलनमायातमिति आकू- तान्तरम् । ननु किमत्र विषयमेलनेन । यथाहि बीजादाद्यातिशयादिक्रमेण अन्त्यातिशयं प्राप्तादङ्कुरो मृदश्च घट इत्यादिर्विचित्रः कार्यकारण- भावो लोके प्रसिधः;

(पगे २७१)

नच तत्र विषयमेलनं किञ्चिदुपयुज्यते समर्थ्यते वा; तथैव पूर्वम्- अनुभवः, ततो विकल्पः, तत उपदेशनम्, ततो भावनाभियोगः, ततो भावनानिष्पत्तिः, ततः परिस्फुटा भवति ज्ञानोदये इयमेव परमार्थ- प्राप्तिरिति । किमत्र विषयमेलनसमर्थनाप्रयासेनेत्याशङ्क्य ब्रूते नचेदम् इति । कार्यकारणभावोऽयं भवति, नतु बीजाङ्कुरादिजडतुल्यवृत्तान्त इति मात्रपदम् । अयं भावः-इह कार्यकारणभावमात्रेण अनुभवविकल्पादीनां जडतुल्यवृत्तान्तत्वे स्वरूपमात्रनिष्ठत्वेन परत्र अकिञ्चित्करत्वात् विषयस्य साक्षात्करणं विकल्पनं स्मरणमित्यादयो विषयनिष्ठाप्रकाशनविमर्शनपरमार्था व्यापारात्मानो व्यवहाराः कथं भवेयुः, अध्यात्मसिद्धाश्च अमी न अपह्नोतुं शक्याः । एते च एकविषयतया विना कथं प्रकल्प्येरन् । दृष्टं विकल्पयामि स्मरामीति हि तेषां प्राणितम् । तस्याश्च असमर्थनीयतायां विकल्पाः प्रत्यक्षायन्ते, अनुभवः स्मृतिबीजमाधत्ते स्वप्रतिभासेऽनर्थेऽर्थाध्यवसायेनेत्यादि किमर्थमुद्धोष्यते । तद्धि एकविषयतायाः सम्पत्तये जालमुत्थाप्यते । सा तु तावता न सिध्यतीत्येतावदस्माभिरुच्यते इति । एतदाह प्रतीतिरेषा इति अनुभव- विकल्पनोपदिदिक्षोपदेशभावनादिरूपं यदुपदेशनं, तत् किल प्रतीति- विषयनिष्ठं संवेदनम्; नतु बीजादिजडवत् स्वनिष्ठं किञ्चिद्रूपम् । ततः किमिति । आह प्रतीतिश्च इति । भूतं यत् परमार्थज्ञानमुपदेष्टुरज्ञतो- पदेशे वितारकत्वादुपदेष्ट्टतायोगात् भविष्यच्च यत् परमार्थज्ञानं स्फुटं फलरूपं भावयितुस्तयोर्ज्ञानयोर्यो विषयः, स एव यदि स्मरण- विकल्पनोपदिदिक्षोपदेशविकल्पनभावनापरम्पराणां न भवेत्; तर्हि अन्यत् ज्ञातमन्यत् विकल्पितमन्यदुपदिष्टमन्यत् भावितमन्यत् प्राप्तमिति भवेत् ।

नच एतत् समञ्जसं

(पगे २७२)

————————————यद्यदेवातिभाव्यते । भावनापरिनिष्पत्तौ तत्स्फुटं कल्पधीफलम् ॥

इति यत्तद्भ्यामेकविषयत्वस्य दर्शितत्वात् । प्रमाणादपि हि प्रवृत्तिप्राप्त्या- दिकमेकविषयतयैव सन्तानाशयेन निर्वाह्यते, अन्यथा प्रमाणाप्रमाण- विभागायोगः । तदेतत् सर्वं निगमयति तस्मात् इति । अयमिति प्रबुद्धाप्र- बुद्धनिष्ठो व्यवहारोऽन्योन्यं विषयाणां प्रापणं, ज्ञानान्तरगतस्य हि विषयस्य ज्ञानान्तरे स्मृत्यादौ प्रमात्रन्तरविषयस्य च प्रमात्रन्तरे नियोगोपदेशादौ प्रापणं स्वात्मनि परमात्मनि च व्यवहार उच्यते । व्यवेति व्यतिहारे, हरतिः प्रापणे । स व्यवहार एकविषयत्वेन व्याप्तः । तद्विरुद्धा अनेकविषयता । अनेकात्मत्वे च ज्ञानानां सा व्यापिका प्रसज्यते । प्रकार- त्रयेण हि तदुपपद्यते । प्रकारद्वयं च दूषितम् । नहि दृष्टता विषय- धर्मः । यदाह भट्टः

व्यापृत्तिः प्रत्ययस्यार्थे तत्र किञ्चिदकुर्वतः ।

इति । प्रतिपद्यते इति । प्रतिपत्तिरेव कथञ्चिद्भाव उक्तः स्यात्, नतु अर्थस्य रूपातिशयो निर्वर्त्यते । तथात्वे अन्येन्द्रियादिव्यापारमन्यस्य न प्रतीतये- ऽपेक्षेत, यथा कृतो न पुनरन्यस्य करणमित्यादि च । तत् विषयधर्मता न युक्ता । वेद्यता च संविदां निरस्ता । यदि च अयमवशिष्यमाणोऽपि प्रकारो न स्यात् ज्ञानानामेकात्मकतालक्षणः, तदयं व्यवहारो व्यापकविरुद्ध- व्याप्तोपलब्ध्या न भवेदेव । नश्येत् इति सूत्रस्य वृत्तिः कथम् इति विवृता न स्यादेव इति सम्भावनालिङा । कथमितिच प्रश्नेन अनपह्नवनीयतां व्यवहारस्य ब्रुवाणः पारिशेष्यात सिद्धैव ज्ञानानामेका अन्तर्मुख- संवित्तत्त्वस्वरूपतेत्याह । अत एव समनन्तरलग्नतयैव न चेत् इति सूत्रार्थो- ऽत्र स्फुरति ॥ ६ ॥

(पगे २७३)

न चेदन्तःकृतानन्तविश्वरूपो महेश्वरः । स्यादेकश्चिद्वपुर्ज्ञानस्मृत्यपोहनशक्तिमान् ॥ ७ ॥

तस्य च व्यवहारबलादनपह्नवनीयात् सिध्यति एकात्मतेति तात्पर्यं निषेधमुखेनापि प्रवृत्तौ । एतदर्थ एव हि यद्यर्थश्चेच्छब्दः । सहि स्वमतस्य दार्ढ्यमाह परपक्षेऽनपह्नवनीयस्यापि अवश्यमापतति सम्भव इति द्योतयन् । तदेतत्तात्पर्यमवतारणिकायामाह युज्येत इति हेतुहेतुमतोर्लिङा । व्यवहारसम्भवस्य ज्ञानानामेकात्मता हेतुरिति ।

एतादृशः इति प्रबुद्धाप्रबुद्धनिष्ठ एकविषयतामय इत्यर्थः । चिन्मात्र- सारत्वेन इति चिद्वपुः इत्यस्य व्याख्या विश्वात्मनः इति अन्तः कृत इत्यादेः परमेश्वरस्य इति महेश्वरः इत्यस्य । आत्मा इति स्वभावः । एताः इति सर्व- जनप्रसिद्धाः । विचित्राः इति तत्तत्स्वातन्त्र्यबलात् विचित्रोन्मेषनिमेषभाजः ।

शक्तयः इति तदाश्रिताः, नतु स्वतन्त्राः, नापि तत्स्वरूपातिरिक्ता धर्मधर्मि- भावेन परं वर्तमाना इत्याह शक्तियोगलक्षणं च इति । एतदेव अस्य माहेश्वर्यम् । अनेन ज्ञान इत्यादि व्याख्यातम् । एवं तात्पर्यं व्याख्याय न चेत् इति सौत्रं स्पृशति अन्यथा तु इति । प्रकाशरूपं तावत् संवित्तत्त्वं सकलप्रमाभित्तिभूतं स्वयं सिद्धं, न साध्यमिति तद्भित्तिपृष्ठे अन्यत् निरूप्यमित्याशयेन वृत्तिकृत् तदनुवादेन विश्वरूपत्वं सौत्रं व्याचष्टे इति टीकाकारो विवृणोति प्रकाशरूपम् इति । हि इति यस्मादेवं, तस्मात् वृत्तिकार इदं विध्यनुवादरूपमाह । तत्र च उपपत्तिमाह इति दूरेण सङ्गतिः ।

एतावता आदिसिद्धसूत्रार्थः स्मारितः । नीलसुखादेः इति बाह्यस्य आन्तरस्य च सर्वस्येति यावत् । जडाभिमतस्य इति परमार्थतश्चिद्रूपस्य अपि चिच्छक्तेर्- एव मायात्मिकाया अभिमानमात्रेण गृहीतजडभावस्येत्यर्थः ।

(पगे २७४)

स्वयम् इति जडस्य हि लक्षणमुक्तं-न अस्य आत्मीयः प्रकाशः इति । तर्हि परोऽस्य प्रकाशो भविष्यति । नेत्याह अतद्रूपत्वे च इति । यस्य यत् न रूपं, स तेन न समानाधिकरणतया परमार्थतो व्यपदिश्यते नीलेन इव सिन्दूरम् ।

तथाच अप्रकाशात्मा भाव इति प्रकाशेन तथा न व्यपदिश्येत, तत्तद्- व्यपदेशस्य नियमवत्त्वात् ताद्रूप्यं कारणमिति कारणानुपलब्धिः ।

व्यपदिश्यते च एकाधिकरणतया प्रकाशेन पराभिमतो जडः प्रकाशते इति, तस्मात् तद्रूप एवेति स्वभावहेतुर्व्याप्तिः कारणानुपलब्ध्या अधुनैव प्रसाधिता यतः । ननु च व्यतिरिक्तेन श्वेतगुणेन धर्मी तथा व्यपदिश्यते,- इत्यनेन अनैकान्तिको हेतुः । मैवं विपक्षतो बाधकेन आकृष्टस्य हेतोः साध्येन व्याप्तिसिद्धौ व्यभिचारस्य निरवकाशत्वात् । नहि व्यतिरिक्तेन श्वेत- गुणेन श्वेतमानता युक्ता । यत् नरेश्वरविवेकः

स्वयं प्रासादो न श्वेतो नाप्यश्वेत——-।

इति अप्रामाणिकोक्तिः । नहि वस्तुधर्मयोरन्योन्यपरिहारेण अवस्थितयोरन्यतरेण अयुक्तं वस्तु सम्भवेदिति । उपपादयिष्यते इति

प्रकाशात्मा प्रकाश्योऽर्थ——-। (१ । ५ । ३)

इत्यादिस्थानेषु । ननु च इह ज्ञानानामेक आत्मा,-इति समर्थयितुं प्रक्रान्तं, तत् किं जडानामपि तदेकात्मताभिधानेनेत्याशङ्क्य आह भिन्नावभासिनाम् इति । चः उक्ताशङ्कासूचकः । अपिशब्दो दण्डापूपीय- न्यायेन प्रक्रान्तप्रमेयसिद्धिद्योतकः । यत्र भिन्ना अपि अभिमननात्मक- स्वातन्त्र्यविमर्शबलात् प्रतिभान्त इदन्तया परिगृह्यमाणत्वात् परमार्थतो- ऽहमितिप्रकाशमात्रस्वरूपाः,

(पगे २७५)

तत्र ज्ञानानामहमंशातिरेकेण निर्भासमानानां कथं ताद्रूप्यं न भविष्यति । तेषां हि अहमंशादाधिक्यमव्यापकत्वमनित्यत्वं च विषयस्वरूपदेशकालानुवर्तित्वेन सङ्कुचिततया यत् भाति, तत् हि विषयौन्- मुख्योपाधिकृतम् । विषयस्यापितु प्रकाशात्मकत्वे सा आधिक्यसम्भावनापि निर्मूलिता भवति । तदेतदाह तथापि इति तेनापि अहमंशाव्यतिरेकप्रकारेण वर्तमानानामित्यर्थः । विषयस्य यो मायाशक्तिकृतादभिमानमात्रात् भेदः, तेन अवकल्पितोऽवज्ञया अप्ररोहयोगेन कल्पितः स्वाछन्द्येन उपरचितो यो भेदः, तद्वतामेषां ज्ञानानां मायादशायामपि अस्यां पारमार्थिकं प्रकाशात्मकाहन्ताताद्रूप्यमखण्डितमेव । माया हि भगवतः शक्तिः । सा न अस्य स्वरूपमावृणुते शक्त्या शक्तिमतामना- वरणात् । एवं प्रकृतप्रमेयसिद्धिप्रसङ्गेन उक्तमपि एतददधिकरण- सिद्धान्तदिशा साध्यान्तरमपि व्यवहारान्यथानुपपत्त्या सिध्यतीति ।

एवकारेण प्रकाशमानतया विना तावत् व्यवहारा न उपपद्यन्ते, साच चित्तत्त्वस्यैव, न अन्यस्येति द्योतयता स्वतन्त्रचिदद्वैतमपि सिध्येदिति समस्तशास्त्रार्थसिद्धिरियतैव अयत्नघटितेति वृत्तिकृदाह । इत्यता अन्तःकृता- नन्तविश्वरूपश्चिद्वपुर्ज्ञानादिशक्तिमान् इति सूत्रांशः कृतोपक्षेपः । अन्तः कृतं बहीरूपमपि सत् प्रमातृरूपस्वात्मैकरूपत्वात् मनागपि अच्युतं स्वाच्छन्द्यशक्त्या कृतं सम्पादितम्, अन्तरितिच प्रमात्रेकात्म- कतया स्थितं सत् कृतं बहीरूपताभासनेन निर्मितमनन्तं चतुःषट्- षोडशचतुर्विंशतिषट्त्रिंशदादिपरिगणितरूपादभ्यधिकमपि

तस्य तेनाथ————-।

इति न्यायेन सम्भाव्यमानं विश्वं रूपं विशति अस्मिन् सर्वमिति वेद्य- समूहो येन ।

(पगे २७६)

न चेत् इति तु सौत्रं वृत्तिकृता पूर्वमेव व्याख्यातं कथम् इति । अनेन च अन्य- सूत्रार्थस्पर्शेन वृत्तिकृता नश्येत् न चेत् इति सूत्रांशयोरेकवाक्यत्वेन निर्वाहो हेतुमल्लिङा उक्तः इति स्फुटीकृतम् । ननु पूर्वमुक्तमनुसन्धान- जन्मा जनस्थितिः, तदिह वक्तव्यं न चेदनुसन्धानं स्यादिति, तत् कथमुक्तं चिद्वपुरित्याशङ्क्य वृत्तिकृदाह अशेषपदार्थज्ञानानामन्योन्यानु- सन्धानं चित्तत्त्वम् इति । सामानाधिकरण्येन अनुगामित्वेन सन्धानं विच्छिन्नसम्मतानामपि ज्ञानानामेकीभवनं नाम चिदेव अन्तर्मुखा, न अन्यत् किञ्चिदिति । तदत्र दधातिः कर्मकर्तृविषयः । स्वयं सन्धानं पट्ट- तूलशकलानामितिवत् । अथ मिश्रीकरणं सन्धानं, तथापि तस्य मिश्रीकर्तु- श्चित्तत्त्वादनन्यत्वमिति युक्तमेअ अभेदेन उपचरणं क्रियाकर्त्रोः परमार्थत ऐक्यात् । अनेन एतदुक्तं भवति-अनुसन्धानात् जनस्थितिरिति सत्यम्, तत्तु अनुसन्धानमेकविषयतालक्षणं प्रकारान्तरेण उक्तनीत्या न सम्भवतीति परिशेषत एकचिद्रूपतामात्रायत्तं सम्पद्यते इति । अन्यथा इत्यादिना उपक्रमेण केवलप्रदेश इत्यादि अभिदधत नियतग्रहणात्मिकां सर्वव्यवहारमूलभूतां जनस्थितिमनुपपद्यमानामावेदयमानो न चेत् इत्यनेन सह नश्येत् जनस्थितिः इत्यस्य एकवाक्यतां दर्शयति । तत्र आसतां तावत् प्रवृत्तिप्राप्त्युपदेशादयोऽनन्तरसूत्रवृत्तिटीकाप्रदर्शिता व्यवहारा येषु स्फुटमेव अनुसन्धिः संवेद्यते । नियतैकपदार्थज्ञानं यत् स्वविश्रान्ततया अनुसन्ध्यनधीनं सम्भाव्यते, तदपि एकान्तर्मुख- संवेदनरूपत्वाभावे बहिर्मुखानां संवेदनानां न भवैदिति तत्परिच्छेदः । अन्यव्यवच्छेदैर्ग्रहणव्यवहारोऽपि स्वपरविषयो य उच्यते, सोऽपि न निर्वहेदित्याशयेन सौगतीयमभावसिद्धिप्रकारमेव विचारयति ।

(पगे २७७)

तत्र ज्ञानं स्वप्रकाशैकरूपमिति उपपादितमसकृत् । यदाह तत्रभवान्

यथा ज्योतिः प्रकाशेन नान्येनाभिप्रकाश्यते । ज्ञानरूपं तथा ज्ञाने नान्यत्राभिप्रकाश्यते ॥

इति । ततश्च ज्ञानान्तरेण एकज्ञानसंसर्गयोग्यं न भवति येनैवमुच्येत यदि द्वे ज्ञाने भवेतां, तद्विज्ञानज्ञानं तृतीयं भवेत्; इदं तु एक- ज्ञानज्ञानं, तस्मात् न द्वे ज्ञाने स्त इति । तदत्र घटो वैधर्म्यदृष्टान्तः । तमेव व्याचष्टे संवेदयमानम् इति स्वसंवेदनतया । एतच्च केवल- प्रदेशज्ञानम् इति कर्तृपदस्य विशेषणम् । ननु यदि एवं घटाभावो निश्चितः सिद्धः, तत् किमधिकमस्माकं साध्यं घटज्ञानाभावनिश्चये- नेति । आह स्यात् यावता इति भवेदेतत्, नतु भवति यत एवं वर्तत इत्यर्थः । तेन विना स एव न निश्चितः सिद्ध इति तात्पर्यम् । कामम् इति त्वदभिप्रायेण अस्तु तावत् साम्प्रतमियदिति भावः । अन्यथा इति यदि नास्तीति न सिध्यतीति उच्यते, तदवश्यमापतति घटस्तत्र अस्तीति । तत्सद्भावे च केवलप्रदेशे न विषययोर्- ज्ञानम्, अपितु तदेकसामग्रीकग्रहणम् । घटमपि इति सघटप्रदेश- ज्ञानं तत् भवेत्, नतु एतद्विपरीताघटप्रदेशज्ञानम् । द्वितीयं तु इति व्यतिरिक्तम् । केन इति नहि अघटप्रदेशज्ञानेन ज्ञानान्तरस्य भावो ज्ञायते, येन तदभावोऽपि ज्ञायेत । ननु स्वात्मानं निश्चिन्वता ज्ञानेन केवल- प्रदेशालम्बनेन तावत् स्वयम्प्रकाशेन भूयते । सघटप्रदेशज्ञानं तु यदि तत्काले अन्यत् स्यात्, तेनापि प्रकाशमानेन भूयेत । नच एवम् । ततश्च तत् नास्तीति निश्चीयतामिति पराशङ्कां दूषयति नच इति । इति च वक्तुं न युज्यते इति सम्बन्धः । हि इति यस्मादेतदेव केन प्रकारेण ज्ञातंसघटप्रदेश- ज्ञानेन स्वप्रकाशेन च भूयते इति ।

(पगे २७८)

ननु अघटप्रदेशज्ञानं प्रकाशते इत्यत्र इदमेव तत्त्वं सघटप्रदेश- ज्ञानं न प्रकाशते इति । नैतदित्याह अघट इति । पर्युदासवृत्त्या हि अत्र वस्त्वन्तरप्रकाशो भाति, नतु प्रसज्यप्रतिषेधात्मा सघटप्रदेशज्ञान- प्रकाशाभावः । ननु भावाभावयोरन्योन्यपरिहारात् पर्युदासेऽपि तद्विपरीतवस्तुनो निषेधः कृत एव भवति । सत्यं तादात्म्येन शङ्क्य- मानस्य, नतु व्यतिरिक्तस्य एतत्समयसम्भाव्यमानस्य । अनीलप्रकाशेन हि स्वप्रकाशेन स्वात्मनि नीलप्रकाशरूपतायाः काममभाव आवेदितः, नतु पृथग्भूतायाः । ननु केवलं प्रदेशज्ञानं यथा प्रकाशते, तथा पृथग्भूतम् । अघटप्रदेशज्ञानाभावोऽपि प्रकाशेत, यदि आभावो ज्ञानं स्यात् स तुच्छरूपः कथं प्रकाशो भवेत् । एकतर इति भावेन सघटप्रदेशज्ञानस्य व्यतिरिक्तस्य अभावेन वा अव्यभिचारोऽविनाभावो नास्ति केवलप्रदेशप्रत्ययस्य उभयथापि उपपत्तेः । ननु सघटप्रदेश- ज्ञानस्य कारणं घटसद्भावः, घटसद्भावस्य च व्यापकं तुल्य- सामग्रीकप्रत्ययग्राह्यवस्त्वन्तरसंवेदनसंवेद्यत्वम् । सतोऽपि हि घटस्य तत् यदि न भवेत्, न कदाचित् सघटप्रदेशज्ञानं स्यात् । नच तद्व्यापकम्- उपलभ्यते । तस्य हि विरुद्धं प्रत्युत केवलप्रदेशज्ञानं स्यात् । नच तत् व्यापकमुपलभ्यते इति व्यापकविरुद्धोपलब्ध्या घटाभावे निश्चिते कारणानुपलब्ध्या सघटप्रदेशज्ञानस्य अभावो निश्चीयते । एकैव वा कारणव्यापकविरुद्धस्य उपलब्धिः स्वविरुद्धव्याप्तकार्यस्य निषेधाय प्रभविष्यति । किञ्च केवलप्रदेशो घटो वा अनन्तरूपपरमाणुमयः सन्निहितानन्तावयवो वा । तत्र यावन्ति द्रव्याणि, तावन्ति चेत् पृथक् ज्ञानानि; तर्हि तेषां पृथक् पृथक् स्वप्रकाशत्वेन एकसमूहरूपप्रकाशाभावात् प्रदेशज्ञानमेव न भवेत्,

(पगे २७९)

भाति च तत्प्रदेशज्ञानमिति दृश्यानुपलब्धिप्रसङ्गभयेन रूपात्मनां वस्तूनां सन्निहितानामनेकज्ञानग्राह्यत्वलक्षणात् विपक्षात् व्यावृत्ता- वेकज्ञानस्य ग्राह्यत्वेन व्याप्तिरिति रूपात्मको घटः सन्निहितश्चेत्, तत् रूपात्मकप्रदेशग्राहिकेवलप्रदेशज्ञानग्राह्य एव भवेदिति केवलप्रदेश- ज्ञानमेव सघटप्रदेशज्ञानं स्यात् । नच तत् तथा, अपितु तद्विपरीतमिति व्यापकविरूद्धव्याप्तोपलब्ध्या घटस्य निषेधः । चाक्षुषं प्रदेश- ज्ञानं स्वावधौ न पृथक् घटज्ञाने चाक्षुषे पृथक् भवति चाक्षुषत्वात् । पृथक्त्वस्य व्यापक एकत्वानियमः । तस्य विरुद्ध एकत्वनियमः । तेन उक्त- युक्त्या व्याप्तं चाक्षुषत्वमिति व्यापकविरुद्धव्याप्तोपलब्धिः । तर्हि एवम्- उच्यमाने घटज्ञानाभावोऽनुमानगम्य एव स्यात्, न कदाचित् प्रत्यक्षः ।

अनुमानगम्यत्वे च अनवस्थानादसिद्धिः । तथाहि दृश्यानुपलब्धिर्वस्त्वन्तर्- अरूपा बाह्या ज्ञानान्तररूपा च आभ्यन्तरी प्रत्यक्षसिद्धैव प्रत्यक्ष- विकल्पेनैव व्यवहार्या, केवलं नास्तीत्यभावात्मना व्यवह्रियमाणा प्रमाणान्तरमपेक्षते येन उच्यते-यावान् कश्चित् प्रतिषेधः, स सर्वोऽनु- पलब्धेरिति । आनुमानिकत्वे तु सापि स्वभावानुपलब्धिर्व्यापकादेरन्यस्य अनुपलब्ध्या विरुद्धस्य उपलब्ध्या च साध्यते, तदा सापि अनुपलब्धिर्- अन्यानुपलब्ध्या अन्यविरुद्धोपलब्ध्या वा,-इति अनिष्ठा । विरोधोऽपि हि तद्ग्रहणे नियमेन तस्य ग्रहणाभावात् निश्चीयते लाक्षणिकः । ग्रहणा- भावश्च अनुपलब्ध्येति अनवस्था । सहानवस्थानविरोधोऽपि अपर्याप्त- कारणस्य भवतोऽन्यभावेऽभावात् विरोधगतिदृशा निश्चेयः । अभावश्च अनुपलब्ध्येति अनिष्ठैव । तथा आचार्यधर्मकीर्तिः

एकोपलम्भानुभवादिदं नोपलभे इति । बुद्धेरुपलभे वेति कल्पिकायाः समुद्भवः ॥

(पगे २८०)

विशिष्टरूपानुभवादन्यानन्यनिराक्रिया । तद्विशिष्टोपलम्भोऽतस्तस्याप्यनुपलम्भनम् ॥ तस्मादनुपलम्भोऽयं प्रत्यक्षेणैव सिद्ध्यति । अन्यथार्थस्य नास्तित्वं गम्यतेऽनुपलम्भतः ॥ उपलम्भस्य नास्तित्वमन्येनेत्यनवस्थितिः ।

इति । सर्वं च अनुसन्धानं स्मरणानुसन्धानप्राणं विषयमेलनेन विना न सम्भवत्येव । अथ एवमुच्यते तत् तस्मादुच्यमानात् हेतोः एवम् इति, स्वकल्प- नया लोकप्रतीत्यननुगृहीतया य इयानिति अनवस्थापादको न्यायस्तस्य अनु- सरणादिति वाक्यसङ्गतिः । यदि तु अस्मद्दृशा ज्ञानानां स्वसंवेदनम्- अन्तर्मुखमेकमेवेति अङ्गीक्रियते, तदा स्वविशिष्टज्ञानाभावादभाव- व्यवहार इति अर्थवत् न संवेदनस्य संवेदनान्तरसत्ताविशेषाभ्यां तत्- सिद्धिरित्यादि च यत् भवद्भिरुक्तं, तदुपपद्यते, न अन्यथा । तथाहि समकाल- भाविन्यौ यदि सघटाघटप्रदेशसंवित्ती भवेताम्, तदनयोरेकं स्वसं- वेदनं तद्रूपत्वेनैव निरभासिष्यत । तच्च तद्द्विरूपविविक्तं निर्भास- मानं द्विरूपस्वसंवेदननिषेधं विदधत् समकालोभयज्ञाननिषेधं स्वप्रकाशत्वेनैव करोतीति न कश्चित् बाधः । तस्मात् नियतपदार्थदर्शनमपि एकस्वसंवेदनानभ्युपगमे न उपपद्यते । अपिच घटज्ञानं नास्ति केवल- प्रदेशसंवेदनावसरे इति तावत् झटिति न्यायमनुसरतोऽपि भाति । न्यायानु- सरणे च अनवस्थेति उक्तम् । अभ्युपगम्य अपि उच्यते-मा भूदत्र अनवस्था, इह तु किं कर्तव्यं यत्र एतदपि न वक्तुं घटते इति दर्शयति यदिवा इति । सन्तते- ऽन्धकारे सर्वस्य अस्ति प्रतिपत्तिः-अहं रूपं न पश्यामीति, सा च कथम् ।

एतदपि इति अप्रातीतिकं निष्फलं च सदपीति अपिशब्दार्थः । कुतो न शक्यते इति आह भिन्नेन्द्रिय इति ।

(पगे २८१)

अभिन्नेन्द्रियजन्यज्ञानग्राह्याणा हि घटपटादीनामिव सन्निहितानामेष नियमः-यदेकज्ञानग्राह्यतेति । नच रूपस्पर्शौ, रूपरसौ वा सामान्- एन्द्रियग्राह्यौ, येन तद्विषयमेकमेव ज्ञानं रूपस्पर्शाभासं सं- भाव्येत, रूपरसाभासं वा । अथ उच्यते-यदि सह रूपज्ञानस्पर्शज्ञाने समभविष्यताम्, विकल्पोऽनन्तरस्ते द्वे अपि सहैव अध्यवस्येत्, स्मृतिश्च स्मरेत्; नच तथेति कार्यानुपलब्ध्या रूपज्ञानाभावसिद्धिरिति । तत्र इदमेव तावत् वाच्यं नावश्यं कारणानि इति व्न्यायात् कार्यानुपलब्धिः कथं कारण- अभावं गमयेत् । अन्यावस्थां प्राप्तं नास्तीति चेत् मा भूत् तथाभूतं, तत्तु नास्तीति कुतः । स्पर्शज्ञानकाले च अयं रूपज्ञानाभावं मन्वानः स्वात्मनि तदभावनिबन्धनान् प्रदीपाङ्गोपसंहरणादीन् कुर्वाणो दृश्यते, नतु कार्याभावं प्रतीक्षते । विकल्पोऽपि रूपज्ञानं पूर्वभावि कथं निराकुर्यात्, सहि स्पर्शं वा स्पर्शज्ञानं वा विकल्पयन् कामं न रूपविकल्पो न वा रूपज्ञानविकल्पः । स द्विकल्पनीयो योऽधुना स्पर्श- प्रत्ययस्तदीये पूर्वस्मिन् काले रूपज्ञानं न अभूदिति तु कथं प्रकाशयेत् । नहि तत्कालभाविनि रूपज्ञाने सति स्पर्शज्ञानविकल्पस्य अन्यप्रमातृगतस्य इव काचित् हानिर्येन स स्वयं भवन् तस्य प्राच्यस्वकालभाविनो रूपज्ञान- स्य अभावमव्यभिचारेण भवन्तं साधयेत् । एवं स्मरणेऽपि वाच्यम् ।

एतदाह नापि इत्यादि । इत्यपि नेति सम्बन्धः । तत्र हेतुत्वं ग्रन्थान्तरस्य आह यतः इति । विकल्पः स्मृतिर्वा इति यथासम्भवमुभयमुक्त्वा तस्यैव न्याय्- यत्वात् नैकट्यात् स्मृतिमुखेनैव पूर्वपक्षाशङ्कां तत्प्रतिसमाधानं च करोति ग्रन्थलाघवमर्थयमानः । ननु स्मृतिविकल्पज्ञानयोर्ज्ञानं विषयश्चक्षुर्ज्ञानस्य इव प्रदेशः । तत्र यथा प्रदेशज्ञानेन एकज्ञान- संसर्गयोग्यसन्निहितघटनिराकरणं क्रियते,

(पगे २८२)

तथा स्मृतिविकल्पज्ञानाभ्यां स्पर्शज्ञानं शुद्धं विषयीकुर्वद्- भ्यां तद्विकल्पनस्मरणयोग्यद्वितीयतत्सहभाविरूपप्रत्ययप्रतिक्षेपः करिष्यते । तदस्ति एव स्पर्शज्ञानाभासमात्रस्य स्मृतिविकल्पप्रत्ययत्वस्य प्राच्यद्वितीयरूपज्ञानाभावाव्यभिचारः, तत् कथमव्यभिचाराभाव उक्त इत्याशङ्क्य आह स्मार्तं हि इति । यस्मादेवं, तस्मात् नास्त्येव अव्य- भिचारः इति सम्बन्धः । संस्कारजत्वात् हि स्मृतिज्ञानं पूर्वमनुभवम्- अनुकरोति, नतु विषयत्वेन आभासयति ज्ञानानां परसंवेद्यत्वस्य विस्तरतो निराकृतत्वात् । येन इति स्वातन्त्र्यसाक्षात्कारित्वेन । यदि हि स्वातन्त्र्येण स्वेन प्रकाशबलेन विषयतया पूर्वं स्पर्शज्ञानं स्मृतिराभासयेत्, तदा पूर्वस्मिन्निति पूर्वकालविशिष्टत्वेन निर्भातादाभासमानात् स्पर्शज्ञान- लक्षणादाकारात् विपरीतं रूपज्ञानं स्पर्शज्ञानलक्षणे स्वविषये तादात्म्येन असहमाना पूर्वकालभाविनो द्वितीयस्य रूपज्ञानस्य एक- ज्ञानसंसर्गितया विषयस्य सम्भाव्यमानतत्स्मरणज्ञानविषयताकस्य अभावसिद्धये प्रभवेत् यथा शुद्धप्रदेशसंवित्तिर्घटस्य, नतु एवमस्ति ।

स्मृतिर्हि पूर्वमनुभवमनुकरोति परं स्मर्तव्यसम्बन्धिनम् । स्मार्यस्य च स्पर्शज्ञानस्य योऽनुभवः, स तथा अनुकार्यः । एवञ्च यथा तत्स्पर्श- ज्ञानमन्तः स्वसंवेदनेन आत्मनि अनुभवरूपं स्वकाले न रूपज्ञान- स्य नामापि वेत्ति कथञ्चित् भवतोऽपि, तथा तदनुकाररूपा स्पर्शज्ञान- स्मृतिरपि रूपज्ञानस्मृतितयापि यदि भवेत्, तथापि स्पर्शज्ञानरूप- ज्ञानयोः सहभावं पूर्वपरिगृहीतं न स्मरेदेव । यदि तथा स्मर्तुं शक्नुयात्, तदसहभावास्मरणे पूर्वमपि तयोर्न सहभावः इति निरचेष्यत नाम,-इति तात्पर्यम् । यतो न स्वातन्त्र्येण साक्षात्कारि, तत इति सम्बन्धः विकल्पज्ञानम् इति सामान्योक्तिः स्मृतिमपि सङ्गृह्णीते । तदभिप्रायेणैव आह अनुभूतम् इति परामृशति इति ।

(पगे २८३)

अन्ये तु-विकल्पोऽपि परमार्थतोऽनुभवसंस्कारजत्वात् स्मृतिरेव, केवलम्- अचिरवृत्तत्वादनुभवस्य सर्वात्मना तदुपरक्तत्वादिदन्तानिर्भासिनीति अनुभवायमानतया स्मृतित्वेन न भाति,-इति पृथक् विकल्प उच्यते-इत्याहुः ।

तं विकल्पं दर्शयति अनुभवामि इति । एवं ज्ञानद्वयमपि यदि विकल्पे प्रतिभासते, तथापि न तस्य सहभावः प्रतीयते तस्य तत्त्वसंवेदनद्वयेन पूर्वमगृहीतत्वात् विकल्पस्य च पूर्वापरिगृहीते वस्तुनि स्वातन्त्र्येण ग्रहणा- सामर्थ्यात् । ततश्च एकाकि ज्ञानं गृह्णता विकल्पेन तत् कामं व्यवह्रिय- ताम्, तदव्यतिरिक्तश्च द्वितीयज्ञानाभावः; नतु व्यतिरिक्तद्वितीयज्ञानस्य प्राच्ये काले यदभवनं, तत् व्यवहर्तुमस्य सामर्थ्यमस्ति पूर्वस्वसं- वेदनव्यतिरिक्तज्ञानापेक्षयोः सहभावपृथग्भावयोरपरिग्रहात् । तत्- कारणकत्वाच्च विकल्पस्य तथा व्यवहारः इति कारणानुपलब्धिः । येन इति द्वयग्रहणकाले अतदैककालिकत्वग्रहणेन हेतुना निराकुर्यात् पूर्वस्मिन् काले रूपप्रत्ययम् । रूपज्ञानविविक्तस्वाभासोपारूढस्पर्शज्ञानपरामर्शि विकल्पज्ञानमिति सम्बन्धः । नतु एवं घटते इत्याह यावता इति न स्वयम् इति स्वसंवेदनमात्रनिष्ठत्वात् द्वयोः । तत्संस्कारजन्मना इति स्वातन्त्र्येण योगिज्ञानवत् पूर्वज्ञानद्वयगतसहासहभावग्रहणं सामर्थ्यात् तत्संवेदनद्वयमुखप्रेक्षित्वादिति यावत् । एतदपिच अभ्युपगम्य उक्तमित्याह नचापि इति । उक्तं हि

भ्रान्तित्वे चावसायस्य न जडाद्विषयस्थितिः । (१ । ३ । ५)

इति । यदातु एकं चित्तत्त्वमन्तर्मुखं स्वसंवेदनं, न पृथक् स्वसंवेदनानि; तदा ज्ञानद्वयं चेत् सह भवेत्, एकस्वसंवेदन- विश्रान्तं तत् भासेत । नच तथा अन्धकारकाले इति स्वात्मनि रूपज्ञानं नास्तीति निश्चिन्वन् तत्सजातीयस्य अपि प्रमातृवर्गस्य

(पगे २८४)

तथैव तदभावनिश्चयात् निःशङ्कोऽत्युष्णजनितसन्तापपरिहारप्रयोजनान् स्वाङ्गावच्छादनानावरणादीन् व्यवहारान् करोति,-इति सिद्धमिष्टम् । योऽपि आह्-मनःसद्भाव एकज्ञानोत्पत्तिनियामक इति, तस्यापि ज्ञानानामयौग- पद्यनियमे सिद्धे मनः सिद्धिः स एव तु कुत इति चिन्त्यम् । ज्ञानान्तरेण च ते सहकालभावित्वात् द्वे ज्ञाने अवश्यग्राह्ये इति । कुतः । सहकालभाविनोऽपि संस्कारादेर्ज्ञानान्तरेण अग्रहणात् । एक"च आत्मा तज्ज्ञानसमवायि- कारणतया भवन्नपि कथमिदं जानीयात्-ज्ञानद्वयं मम न उत्पन्नम्- इति । ननु तदुत्पत्तावर्थद्वयं प्रकाशेत । आः कोऽयं मोहप्रलापः । अर्थ- द्वयं प्रकाशते इति हि ज्ञानद्वयमेव तदेवच पर्यनुयुक्तम् । प्रकाशस्य अर्थधर्मतायामपि कथं ज्ञायते रूपरसद्वयनिष्ठः प्रकाशो न जात इति । ज्ञाने च उत्पन्ने अप्रकाशे स्वपरविभागासंवेदनं स्यात् । तथाहि कस्त्वं यस्य घटज्ञानम् । परस्यापि घटज्ञानम्, समवायोऽपि समानः । आत्मा न प्रकाशते, ज्ञानान्तरेण प्रकाशते इत्यपि सर्वं समानमेव । तस्माद्- अनन्यापेक्षप्रकाशमहमिति संवित्तत्त्वमेकमन्तर्मुखमङ्गीकार्यम् ।

तस्मिन् सति समस्तविप्लवावकाशाभावः । तथाहि ज्ञानद्वयं यदि भवेत्, एकमस्य स्वसंवेदनं भवेत् । नच एकं तथा अस्ति स्पर्शज्ञानस्वसं- वेदनमात्रत्वेन अस्य निर्भासादिति उक्तमेव । यश्च अनन्यापेक्षतया स्वप्रकाशत्वेन प्रकाशे, सोऽहं; यस्तु नैवं, स पर इति सर्वं स्वस्थम् ।

तदेतदाह तदेवम् इत्यादिना । ऐन्द्रियिकाणामपि इति । येषु सत्सु सर्वो लोक इदं गृहीतम्, इदं न गृहीतमिति समाश्वस्तो निःशङ्कं व्यवहरति, तेषामपि यत्र एषा गतिः, तत्र क आश्वासो ज्ञानान्तरेष्विति यावत् । अर्थानामपि इति । ज्ञान- नियमकृतो हि अर्थसत्तानियमस्तदनियमे कथं स्यात् । प्रदेशकैवल्य- व्यवहारोऽपि

(पगे २८५)

आनुमानिकत्वादनवस्थोपहत इति एकेन्द्रियग्राह्येषु अर्थेषु न सदसद्भाव- नियमनिश्चय इति अवोचाम् । एकशब्धोऽपि इति । न केवलमनेन चिद्वपुः इति विवृतं सौत्रं यावदेकशब्दोऽपीति अपिशब्दः । ननु च बहूनां ज्ञाना- नामनुसन्धानं विकल्पान्तरेण ग्रहणं, नच विकल्पान्तरमेव चित्तत्त्व- मित्याशङ्क्य आह स्मृत्यादौ च इति । उक्तं हि न ज्ञानं ज्ञानान्तरवेद्यं भवति इति । ततश्च यदेकमन्तर्मुखमेषां रूपं, तदेव स्वेच्छावशात् यावत् जिघृक्षति तावत् प्रत्यवभासते इति न यौगपद्येन सर्वानुसन्धि- प्रसङ्गः । नश्येत् इति सूत्रे यः प्रसङ्गः उक्तः, स पूर्वत्र वृत्तौ व्याख्यातः कथम् इति । तेनैवच न चेत् इत्येतत्सूत्रगतमपि व्याख्यातमिति तदवधीर्यैव नच अत्रैव विश्रमितव्यं जनस्थितेः प्रकाशमानाया नश्यतु इति शापमात्रेण अनपह्नवनीयत्वादिति बलादेव यः प्रसङ्गविपर्ययः, सोऽत्र वृत्तौ व्याख्यातः । टीकाकारेण तु नश्येत् इत्यपि व्याख्यातमेव ज्ञान- नियमानुपपत्तिं दर्शयतेति उक्तमादावेच । ननु यदि असावेकः सर्वैर्भावममण्डलैर्भरश्चिद्वपुः, तर्हि तानि सदैव उन्मग्नानि सदैव वा निमग्नानि निर्भासेरन्; कादाचित्कं तु वैचित्र्यमेषां कथमित्याशङ्क्य प्रकाशस्वाच्छन्द्यमेव चित्तत्त्वमित्याशयेन यदुक्तं सूत्रे ज्ञान इत्यादि, वृत्तौ च वर्णितम् अस्यैव इत्यादिना; तत् विवृणोति तस्य चैवम् इति । उक्ताभिर्युक्ति- भिरेकस्य

प्रकाशात्मा प्रकाश्योऽर्थ——-। (१ । ५ । ३)

इति

स्वामिनश्च————।

इत्यादिवक्ष्यमाणाभिः समस्तभावपूर्णस्य ज्ञानं नाम शक्तिः । ततः किमिति ।

(पगे २८६)

आह तस्य तस्य भावस्य विचित्रं स्फुटास्फुटादिरूपं कृत्वा या इयं चिदव्यतिरेकादवभासस्वतन्त्रस्य अपि सतस्तद्विच्छेदरूपजडतापुरस्कारेण पारतन्त्र्यप्राणा इदमिति अवभासमाना पशुप्रमातृवर्तिनी, तत्र यत् तत् समर्थाचरणं स्वातन्त्र्यात्मकं तदेव प्रकृतं रूपं यस्य, तत् ज्ञानं नाम शक्तिरिति सम्बन्धः । एतदुक्तं भवति-

इच्छाया एव यस्य—————।

इति न्यायेन अपरिगणितसर्वभावनिर्भरो भगवान् स्वातन्त्र्यात् भावराशिमध्यात् कञ्चित् भावं प्रकाशस्वरूपात् पृथक् करोति, पृथक्कृतं च प्रकाशयति, नच पृथक्कृतस्य प्रकाशना उपपन्नेति न महाप्रकाशात् पृथक् करोति, अपितु तथाविधमपरमार्थप्रकाशरूपमारो- पितप्रकाशं मायाप्रमातारं निर्मिमीते । तथा सङ्कोचेन अवभासनमेव च भगवतः स्वात्मनि तन्निर्माणमुच्यते । एवञ्च मायाप्रमाता शरीराद्- यवच्छिन्नसङ्कुचितप्रकाशस्वभावो भवन् स्वापेक्षया पृथग्भूतं भावमवभासयति । तत् नवनवतदीयच्छायोपरक्तमस्य बहिर्मुखं रूपं नवनवं ज्ञानमुच्यते । तत्र च यदैश्वरं स्वातन्त्र्यम्, सा ज्ञानशक्तिरिति अवभासन इति कारितद्वयम् । तथापि नवाभासानां प्रतिक्षणमुदयलयग्रस्तानां कथं व्यवहारोपयोग इति आभातपूर्ववस्तुनि बहिर्मुखं यत् संवेदनमासीत्, तस्य यदन्तर्मुखं रूपं, तत् कालान्तरावस्थायि सत् स्वात्मगतां तामेव विशिष्टविषयां बहिर्मुखतां परामृशति, मायाप्रमातरि तदेतत् स्मरतीत्युच्यते । तत्र यत् तथाविधप्रमात्रादिनिर्माणसामर्थ्यं, तत् भगवतः स्मृतिशक्तिः । यत् वक्ष्यति पूर्वावभासितवस्तुन इति । अनेन च प्राच्यज्ञानोपयोगो वक्ष्यते पूर्वावभासितत्वेन इति । प्राच्यो बहिर्मुखताविमर्शादिकः, न इदानीन्तनः, तत्र नवः प्रकाशः इति प्रख्यापनशब्देऽपि द्वौ णिचौ ।

(पगे २८७)

ननु कस्मादियं ज्ञानादिका भगवतः शक्तिरुच्यते इत्याशङ्क्य आह फलभेद इति । अनन्तार्थक्रियाकारिणि पदार्थेऽखण्डमण्डले उपदेश्यो- पदेशव्यवहारादिर्न सिध्यतीति तत्सिद्धये तया तया विचित्रया अर्थक्रियया एकैकमवच्छिद्य स पदार्थ एक एव बहुधा व्यवह्रियते अग्निर्दाहकः पाचकः प्रकाशकः इति । तत्र बहुत्वपरामर्शप्रधानतायां शक्ति- व्यवहारः, तदेकपरामर्शप्रधानत्वे तद्वद्व्यवहारः । सचापि न अपारमार्थिकः परमेश्वरेणैव तथा सृष्टत्वात् । यदुक्तमागमे

न वह्नेर्दाहिका शक्तिर्व्यतिरिक्ता विभाव्यते ।

केवलं ज्ञानसत्तायाः प्रारम्भोऽयं प्रवेशने ॥ (वि। भै। १९)

इति, तथा

———शैवी मुखमिहोच्यते । (वि। भै। २०)

इत्यादि । तदास्तां तावदेतत् । ननु महद्ग्रहणं सूत्रे किमर्थं, तच्छक्ति- योगादेव लब्धं हि अस्य स्वातन्त्र्यमित्याङ्क्य आह सा च इति । पशुप्रमातुर्- यद्यपि तथाभूतं ज्ञानं, ततश्च सोऽपि तया शक्त्या न न ईश्वरः, तथापि न तस्य तत्र स्वेच्छा प्रभवति अप्रतिहतसङ्कल्पत्वाभावात् । तेन यस्यैव तत्र अप्रतिघात इच्छायाः, स महेश्वर एव तथा युक्तः । आदिष्टं हि आगमे भगवता

प्रभुशक्तिरथात्मा च प्राणश्चेति त्रयं सह ।

इत्यादि । अतो वस्तुतस्तत्तदात्मना भगवानेव जानाति स्मरति अपोहतीति युक्तम् ।

यदुक्तं

यद्यप्यर्थस्थितिः——-। (अ। प्र। सि। २०)

इत्यादि, तदाशयेन इह स ज्ञानादिमानिति युक्तम् । मायाप्रमातॄणां तु ततः परमेश्वरादपृथक्तानवभास एव मायाप्रमातृतेत्याशयेन भगवता गीतासु मत्तः इति

(पगे २८८)

मत्सामर्थ्यादेतत्, नतु मम इति प्रदर्शितम् । एतदपिच इह सूत्रे शक्तिपदेन स्पृष्टमेव न मम ज्ञानादि, अपितु यद्वलात् तत् भवति, तत् मम स्वातन्त्र्यमिति दर्शयता । तेन उभयथापि ज्ञानशक्तिपदं तत्र तत्र विग्रहीतव्यम्-ज्ञान- मेव शक्तिः, तत्र च अस्य शक्तिरिति । तत एव इच्छाशक्तिः पृथगिह् न उपात्ता आगमे कथिता अपि अमहेश्वरशक्तिपदाभ्यामेव अप्रतिघातं ज्ञानादी- नामभिदधद्भ्यां तस्याः स्वीकारात् । अग्निः शक्तिः, सन्दहतीति च अबाधितप्रत्ययाभासादाभाससारपरमार्थवादिना शक्तिश्च क्रिया चेति उभयमपि उपगम्यम् । तत्तु प्रत्यर्थकिर्यं भिन्नमपि सत् विततविततस्य अनेकार्थक्रियाकारिणो भावस्य स्वरूपं भेदेन अनुपलक्षणादर्थक्रिया- भेदबलोन्नियमानत्वादनुमानार्थापत्तिगम्यमस्तु, को विरोधः । शक्तिह् शक्ता करोतीति तु शक्तेः शक्तिमदात्मना सृष्टिरिति शक्तेः शक्त्यन्तरयोगे- ऽनवस्थेत्यपि न किञ्चित्, भावस्वभावानधिकत्वाच्च यथादर्शनं नित्या भवतु अनित्या वेति का क्षतिः । अत एव कार्योदये सहकारिभिः किमिति तु चोद्यम्- एकसहकारियोगे सहकार्यन्तरेषु तुल्यमबाधिताभासात् कथङ्कारं सह- कारिणो निह्नूयन्तामिति शक्तिष्वपि समः प्रकारः । तदियं शक्तिर्भाव- स्वरूपमेव उपनिय आसीना शक्तिरुच्यते, नतु पृथगवभासेति स्वरूपसह- कारिलक्षणैव उभयी पदार्थस्थितिः शक्तिरित्यपि न काञ्चिदस्मन्मते क्षतिम्- आवहति । तथाच अगमेषु सर्वमिदमभ्यनुज्ञातमेव । यथोक्तं

या सा शक्तिर्जगद्धातुः कथिता समवायिनी ।

इच्छात्वं देवि सा तस्य सिसृक्षोः प्रतिपद्यते ॥ (मा। वि। ३ । ५)

इति

(पगे २८९)

योगोऽस्य शक्तयः स्वाक्या——। (म। त। ४ । ५)

इति

शक्तयोऽस्य जगत्सर्वं शक्तिमांस्तु महेश्वरः ।

इति

शक्तिर्विद्यादिका शम्भोः स्यात्परिग्रहवर्तिनी ।

इति च । फलति इति फलपर्यन्ता सम्पद्यते, न पुनः प्रतिहन्यते यस्य । अन्यानि यानि कारणानि सहकार्युपादानादीनि, तेषां यत् सामर्थ्यं तानि एव वा सामर्थ्यं; तत्साचिव्येन तत्सहिततया येषां शक्तिः फलति ब्रह्मविष्णु- शक्रादीनां क्रिमिप्रमातृपर्यन्तानां भगवन्नियतशक्तिमुखप्रेक्षित्वा- परिक्षयात्, ते स्वशक्तियोगेन ईश्वरा अपि भवन्तो न महेश्वरा इति यावत् । तथा इति विश्वरूपतया चिद्रूपत्वेऽपि ज्ञानाद्यपपादकतया समस्तजनस्थिति- सम्पादकत्वेन च । ननु महेश्वरस्य भगवतो भवतु ताथारूप्यम्, तावता तु आत्मना किमङ्गीकृतेन एकेन । महेश्वरत्य च विश्वरूपत्वं ज्ञान- शक्त्यादियोगित्वं च संविद्रूपाधिकं जडत्वादप्रकाशमानं प्रकाशात्मनः संवेदनस्य कथं रूपं स्यादित्याशङ्काद्वयं वारयति चित्तत्त्वस्य इति । चित्तत्त्वमेव महेश्वररूपम्, नच आत्मा चित्तत्त्वाद्- अन्यः किश्चिदिति प्रथमचोद्यं परिहृतम् । चित्तत्त्वं च प्रकाशस्वातन्त्र्यमेव उच्यते, न अन्यत् किञ्चित् । तदेवच विश्वात्मतया प्रकाशनं नवाभासन- मनवाभासपरामर्शत्वेन अधुना परामर्शनं वेद्यवेदकानां सङ्क्षेपतश्चतुर्धा अन्योन्यतो भेदेन अवमर्शे, प्रस्तारतः पुनः परार्धकोटिधेति च अपोहनाभासनमिति अपरा अपि शङ्का शमिता मन्तव्या ।

अग्रे इति

अत एव यथाभीषृ————। (१ । ६ । ११)

(पगे २९०)

इत्यादौ पूर्वावभासितत्वेन इति प्रमातृभेदेन पूर्वाभासे पूर्वाभास- पृष्ठे च प्रत्यभिज्ञादाविव अपूर्वावभासं निराकरोति । अवभासे च तदव्यभिचारी पूर्वविमर्शोऽपि स्थित एव । तृतीयाप्रयोगश्च तथा परामर्श- माह । यथाहुः क्षणिकोऽपि गृहीतः इति । वार्तमानिकस्तु विमर्शः सन्नपि न वस्तुनस्तात्कालिकतां तात्कालिकप्रकाशतां वा वितरति पूर्वप्रकाश- विमर्शानपहारमात्रे परं विश्राम्यति । एवं ज्ञानस्मृती व्याख्याय, अपोहनं व्याचष्टे देश इत्यादिना । उपपादितं सम्पादितं मायीय- प्रमातृनिष्ठं विकल्परूपं विज्ञानं यया भगवतः स्वातन्त्र्यशक्त्या, सा अपोहनशब्दवाच्या । कथमुपपादितम् । आह अवभासभेदेन निर्विकल्पक- प्रतिभातेन वस्तुना या वासना संस्काररूपा कृता, तन्मात्रेण पुनर्वस्तु- प्रकाशादिनिरपेक्षेण प्रबोधितेन स्वकार्ये विकल्पलक्षणे कर्तव्ये लब्ध- वृत्तिना । कथं तस्य प्रबोधनम् । आह देशाभासेन कालाभासेन च यः पूर्वमवच्छिन्न आभासमेलनमयः स्वलक्षणात्मा प्रत्यवाभासिष्ट, तस्य योऽसौ देशकालाभ्यामवच्छेदस्तदपासनेन । अत एव तस्य आभासस्य देशावच्छेदापासने विभुत्वम्, कालावच्छेदापासने नित्यत्वमिति । सच

भासो विकल्पविषयः सामान्यमिति गीयते ।

इति

तस्मात् यो येन धर्मेण विशेषः सम्प्रतीयते ॥ न स शक्यस्ततोऽन्येन तेन भिन्ना व्यवस्थितिः ॥

इति नीत्या च प्रत्याभासं विकल्पस्य उदयात्मनो देशकालाभासयोरपि विकल्पो भवन् देशकालानवच्छेदात् सामान्यात्मनोरेव भवति । अयमित्यपि साव- च्छेदो विकल्पः । स सर्वपुरोवर्तिवर्तमानवस्तुसाधारणरूपपरामर्शा- त्मैव । यथोक्तमाचार्यपादैरेव-

(पगे २९१)

नियतेऽप्ययमित्येष परामर्शः पुरःस्थिते । सर्वभावगतेदन्तासामान्येनैव जायते ॥

इति । किं बहुना । वाक्यार्थप्रायोऽपि यो विशेषो भेदसंसदि विकल्पेऽपि स्फुरति

-अयमधुना गौर्मया दृश्यते,-इति स्वीकृतप्रत्येकपदार्थावधारणः, सो- ऽपि अवश्यं देशकालप्रमात्रन्तरगततथाभूतवाक्यार्थसाधारणमेव रूपं विषयीकुर्वन्नुपजायते । तस्मात् सर्वो विकल्पो देशकालाद्याभासाव- च्छेदशून्यसामान्यप्रतिभासी । ननु देशाद्यवच्छिन्नेऽनुभूते तत्कृतया वासनया कथं तदवच्छिन्नविषयया प्रबुध्यते । आह विचित्रा अपर्यनुयोज्या भगवतो महाप्रकाशरूपस्य शिवनाथस्य या इच्छा, तत एव विश्वमन्योन्य- भेदप्रधानमुद्भावयन्ती तद्भेदभासनभित्तिभूतान् मायाप्रमातॄना- विर्भावयति एवम्भूतेन अनेन सामान्यावभासेन विकल्पेन । ननु विकल्प- जनिका या भगवतः शक्तिः, सा ज्ञानशक्तिरेव कस्मात् न उच्यते, तद्दृष्टे विशेषरूपमेतदपोहनशक्तिरिति किमुक्तमित्याशङ्क्य आह शङ्कित इति ।

शङ्किताः शङ्कावशादारोपिता ये प्रतिपक्षाः अभिमतनीलशरीरानु- प्रवेशिनां विचित्रार्थक्रियासम्पादनाद्युपकल्पितभेदानां धर्माणाम्- अतदर्थक्रियाकारित्वादयो धर्माः, तेषां यः प्रतिक्षेपोऽभिमुखी- भूतानां सतामिव पुरो गलेहस्तिकया इव दूरीकरणात्मकमपसारणं तदेव परं प्रधानकर्तव्यमसाधारणव्यापाररूपं येषां, तेषां भावस्तत्त्वं; तस्मात् हेतोः सा शक्तिर्विकल्पजनिका अपोहनप्रधानतद्रूप- जननादपोहनशक्तिरिति सम्बन्धः । एतदुक्तं भवति-यद्यपि विकल्पो विविधरूपा प्रतीतिरिति आमुखे प्रतिभासते, तथापि तदस्य निर्विकल्पकमनुकरोति आविशति उपजीवति वेत्यतो हेतोरायातं स्वयं विषयेण स्वलक्षणेन

(पगे २९२)

आभासमेलनात्मना सामान्येन वा ऐक्याभासमात्रेण साकमलब्ध- ज्ञातेयत्वात् विषयाभावेऽपि सम्भवात् । तदयं विविधतया व्या- प्रियमाणः सिद्धे सति आरम्भो द्विर्बद्धे सुबद्धत्वं दार्ढ्यम्, तच्च

शङ्कितान्यव्यवच्छेद————।

इति न्यायादन्यव्यवच्छेदात्मेति अपोहनव्यापार एव उच्यते । इहच

क्रिया सम्बन्धसामान्य————। (२ । २ । १)

इति भाविनीत्या सम्भवदपि सामान्यं साक्षात्कारेण वा अनुभवात्मना स्वीकृतमिति तत्स्वीकारोऽपि न विकल्पव्यापारः । ननु स्वलक्षणेऽवभाते कुतो- ऽतद्रूपमाशङ्क्यते यदपोह्यते;

निश्चयारोपमनसोर्बाध्यबाधकभावतः ।

इति

नो चेद्भ्रान्तिनिमित्तेन संयोज्येत गुणान्तरम् । शुक्तौ वा रजताकारः———————॥

इति च दृष्ट्या समारोपादाशङ्का,-इति चेत्, समारोपस्य विकल्पितविषयत्वात् विकल्पान्तरस्य अपि समारोपपूर्वकत्वात् विकल्पसमारोपपरम्परानव- स्थानात् युगकोटिभिरपि न नीलनिश्चयः, अन्योन्याश्रयादि च बहुशाखम् । यदि भट्टेन उक्तमपोहसिद्धौ

प्रसङ्गप्रत्ययनिवर्तनमेव नीले अनीलमेतत् न भवति ।

इति,

व्यवच्छेदप्रत्यनेन कर्तव्यम्———-।

इति,

नारोपस्थित्यपेक्षं तत्——————–।

इत्यादि; तत्रापि विशिष्टे अर्थे प्रतिभाते कोऽन्यथाप्रसङ्गस्य अवसर इति वक्तव्यम् । अविद्याकृतः प्रसङ्गः समारोपो वा । सोऽनादिः । समारोप- प्रसङ्गादिजननशक्तिरूपा वासनेति चेत्,

(पगे २९३)

सैव अनवस्था विकल्प्य प्रसञ्जनात् समारोपाच्च तयोरपिच विकल्परूपत्वात् ।

नीले च अनीलं विकल्प्य समारोप्यते, अनीले च विकल्प्यमाने नीलं समारोप्यते इति अन्योन्याश्रयादिदूषणमपि बहुशाखं नैमिनीयैर्दर्शितम् । यदपि अनन्तर्- बहीरूपमारोपितं विकल्पेन गृह्यते इति उच्यते, तत्रापि निःस्वभावत्वे नीलपीत- विकल्पयोरभेदप्रसङ्गः । नीलमिव विकल्पेन गृह्यते, नतु नीलमेवेति चेत्; किं तेन गृह्यते यत् नीलमिवेति उपमेयेत उत्प्रेक्ष्येत । नीले प्रकाशनमिव अध्य- वसायात्, नतु प्रकाशनमेवेत्यत्र अपि किं तस्य रूपं यदेवं व्यपदिश्येत ।

ततो न ग्राह्यांशेन, न अध्यवसेयांशेन विकल्प्यस्य विकल्पान्तरात् भेद उचितः । तुच्छस्य हि को भेदः । वस्तुद्वयमेव हि सत्यवस्तुनि कथं स्यात् । यत् भट्टः

————–नचाभावो विशिष्यते ।

इति । आरोपितेन बाह्येन अध्यवसेयेन वपुषा भेद इति चेत्, आरोपोऽपि विकल्परूप एवेति सैव अनिष्ठा । अभिमानमात्रत एव नीलं विषय इत्यपि उच्यमाने अभिमाने तस्य अर्थस्य प्रकाशनमप्रकाशनं वेति न तृतीया गतिर्लभ्यते ।

यत्तु चित्रप्रहारपातपण्डितम्मन्यादिवदुक्तम्, तत्र सादृश्यप्रतिपत्ति- मात्रमभिमानशब्दवाच्यम् । यादृशो हि पततः प्रहरणस्य आकारः, तादृगेव चित्रलिखितप्रहर्तृपुरुषकरसन्निवेशसमावेशिनश्चित्रप्रहरणस्य ।

पण्डितश्च यादृशमाकारं मोहसहायात् पाण्डित्यादुद्धरकन्धरं च परमार्थपाण्डित्यात् वा समस्तजनहितोपदेशकरणादिप्रवणमुद्वहति, तथैव अपण्डितोऽपीति । अपिच पण्डितोऽयमिति यत्र लोकतः शृणोति, तत्र कञ्चिदाकारविशेषं पश्यन् तथाभूतलाभसत्कारादिकमात्मनि इच्छन् यत्नतस्तथाकारं करोतीति पाण्डित्याभिमान उच्यते । एवं विकल्पेन न किञ्चित् नीलस्य श्रुतं दृष्टं

(पगे २९४)

वा यत् तथाभिमानं कुर्यात् । आरोपाभिमानादीनां लज्जादिवत् चित्तधर्म- तायामपि न अर्थस्पर्शनशक्तिरिति न अभिमानोपकल्पितोऽपि विषयः । दूषितं च अध्यवसायस्य स्वप्रतिभासमात्रनिष्ठत्वं

भ्रान्तित्वे चावसायस्य—————। (१ । ३ । ५)

इत्यत्र । तस्मात् स्वलक्षणे अवभाते कुतस्तद्विपरीतं रूपमाशङ्क्यते येन तदपोहनं फलवत् स्यादिति शिष्यस्य आशङ्कां निवर्तयति पदार्थान्तर इति । इह वस्त्वन्तरेण क्षीरजलवदामिश्रणाद्वावस्त्वन्तरस्वभावत्वाद्वा भावस्य अतद्रूपतापि सम्भाव्यते । उभयमपिच एतत् न सम्भवतीति विशेषणद्वयेन उक्तम् । पादार्थान्तरासम्पृक्ते अन्यानामिश्रे नियतप्रकृता- वेकस्वभावे च भावे तेनैव स्वभावेन विचित्रार्थक्रियाकारिणी अवभातेऽपि मायाशक्त्या अवाङ्मुखीभूतत्वेन भातेऽपि भातत्वादेव हेतोस्तत्र एकाम्- अभीष्टामर्थक्रियां योऽर्थयते, स तदर्थक्रियाकरणविहीनान् तान् तानतिबहून् प्रतिपक्षानाशङ्कते यथा घटे उदकाहरणमनोहरण- गगनाभोगावरणाद्यर्थक्रियाशतकारिणि उदकाहरणेन अर्थी अतत्कारिणो घटानाशङ्कते अलोहिताननुन्नतांश्च मनोहरणादिना । कुत इति चेत्, आह अन्योन्यात्मतया । सहि एकोऽपि भावो वस्तुतोऽन्यैः सह तदात्मैव यद्यपि मायाशक्त्या पृथक्कृतः, तथापि भातत्वादेव अन्योन्यात्मतामुन्मीलयति ।

कथमित्याह ईश्वर इति । ईश्वरः सर्वमिदमहमितिसंवेदनरूपः, तदङ्ग- भावं तदविनिर्भक्तताम् । यतस्तत्पर्यन्तत्वासम्प्राप्तौ भानमेव हि न स्यादिति उक्तम् । यद्यपिच परमशिवान्ततादात्म्यप्रतिपत्तिपर्यन्तं भानं, तथापि तत्र भावस्वरूपस्य सर्वथा अनुन्मीलनात् न अन्योन्यात्मता काचित् ।

यत्र तु तदुन्मीलितं तदेव दर्शितम् ईश्वर इति । नच सा मायास्पर्शे प्ररूढा तत्र

(पगे २९५)

ईश्वराङ्गता येन अन्योन्यात्मतैव स्यादिति इवशब्देन उक्तम् । तदेवं शङ्क्यमानस्य तस्य तस्य प्रतिपक्षस्य निराकरणं विना स एकैकया अर्थक्रियया अर्थी प्रतिपत्ता तेन भावेन व्यवहर्तुं हानादानक्रय- विक्रयादिमन्तमात्मानं कर्तुं न शक्नोति, नच परं व्यवहारयितुम् । एवं द्वितीयोऽपि । ततश्च परस्परनिष्ठः कथं व्यवहारः । एवं शरीरप्रणादौ मायाप्रमातृरूपेऽपि अर्थे प्रमात्रन्तराणि प्रमेयाणि च प्रतिपक्षरूपाणि निराकर्तव्यानि । इयता च एकस्मिन्नपि भावे अनेकार्थक्रियाकारित्वेन तत्तदर्थ- क्रियाविपक्षाणां बहुत्वात् तदाशङ्कापोहेन बहुविकल्पसमर्थनकृतं- घट उन्नतो लोहित इति-अहं कृशो गौरो मन्दाग्निरिति बह्वीष्वपि व्यक्तिषु विकल्पैक्यमनेनैव उक्तमिति व्याख्यायते । व्यक्तिभेदेन विविधार्थक्रियाकारी अपि योऽर्थौ गोमण्डललक्षणः पदार्थान्तरेण महिष्यादिवर्गेण अमिश्रः, तत्र यो विशिष्टामेकामेकप्रत्ययविमर्शविषयां वाहदोहप्रायामर्थ- क्रियां प्रतिनियतस्वभावतया तावतीष्वेव व्यक्तिषु सम्भवन्तीमर्थयते ।

तस्य अर्थस्य शङ्क्यमाना ये अतत्कारिणः प्रतिपक्षाः, शङ्कायां च कारणं पूर्ववदेकः । एवञ्च महिष्यादिवर्गात्मकस्य एकस्य प्रतिपक्षस्य अपोहनात् बहुषु अपि व्यक्तिषु एको विकल्पो गौर्गौरिति । तदुक्तामाचार्यपादैरेव

यावत्योऽर्थक्रियास्तावत्सङ्ख्योऽतत्कारिणां गणः । तावन्तस्तत्समारोपास्तन्निषेधाश्च तत्समाः ॥

इति । तथा

एकप्रत्यवमर्शो यस्तत्कारिषु बहुष्वपि । सोऽप्यतत्कारिविच्छेदसाम्ये स्यात्सनिबन्धनः ॥

इति । ननु ईश्वराङ्गभूततायां यदन्योत्मत्वेन पूर्णत्वं, तत् प्रत्युत पारमार्थिकं रूपं स्वभाव इति युक्तम् । अत्र आह मायीयानाम् इति ।

(पगे २९६)

इदं हि प्रमातृप्रमेयाणां मायापदं मीमांस्यते । तत्र पारमार्थिक- स्वरूपतायां मायीयतैव न्यक्कृता भवेत् । प्रमातॄणां प्रमातृभ्यः प्रमेयेभ्यश्च, प्रमेयाणामपिच उभयेभ्यो यदनन्तशाखं निः- सङ्ख्यं भेदनं पृथक्करणम्, एतदेव यस्मात् मायीयत्वे प्रकृतं मुख्यं रूपम् । अयं तात्पर्यार्थः-इह प्रकाशमात्रस्वभावत्वेन प्रमातृप्रमेयाणां विश्वेषामेव तावत् तादात्म्यादेकरूपावेश एव वास्तवः । सच मायापदेऽपि अनिवृत्त एव अप्रकाशनप्रसङ्गात् । केवलम्- अन्योऽन्यं नेतिपरामर्शरूपस्वातन्त्र्यशक्तिबलादविमृश्यमान एव आदौ प्रभाववता स्तम्भितभुजङ्गमविषवह्निवत् पूर्णे स्वरूपे उदास्ते इव । यस्य यत् रूपं वास्तवं, तत् तद्विदा प्रभावात् प्रतिस्तम्भितमपि न न शङ्क्यते विषयस्य इव मारकत्वम् । तथाच विश्वस्य विश्वात्मत्वम् । अनाशङ्कायां हि कारणं तद्रूपासम्भवित्वम्, तद्रूपस्य सम्भवेऽपिवा तदवेदनम् । नहि खस्य क्षुत्प्रशमनत्वं शङ्क्यते बालेन वा स्तम्भितशक्तेर्विषभुजगादेर्- मारकत्वमिति कारणविरुद्धोपलब्धिः । सर्वस्य च प्रमातुस्तथाभूतम्- ईश्वरात्मत्वं प्रकाशते एवेति विश्वात्मत्वं न अप्रकाशितम् । यथोक्तमादि- सिद्धसूत्रे अनेन हि विना शून्यप्राणादेः इत्यादि । मायापदेऽपिच तत्- प्रकाशसंस्कारस्य ईश्वरस्य अनतिवृत्तेराशङ्का प्रमातृमाहात्म्यादेव उत्तिष्ठति, यत् वक्ष्यते

तदतत्प्रतिभाभाजा मात्रैवातद्व्यपोहनात् । तन्निश्चयनमुक्तो हि विकल्पो घट इत्ययम् ॥ ( १ । ६ । ३)

इत्यादि, येन पृथग्विकल्पनसमारोपणादिकृतानवस्थादिदोषाप्रसङ्गः इति ।

यत्तु आर्येण उक्तम्

एकप्रत्यवमर्शाख्ये ज्ञान एकत्र हि स्थितः । प्रपत्ता तदतद्धेतून्भावान्विभजते स्वयम् ॥

(पगे २९७)

इति, तत्र स्फुरितमपि वस्तु दुःसमर्थमिति अग्रे भविष्यति । ननु अपोहनं ज्ञानस्यैव विकल्परूपस्य विकल्पविशेषात्मनश्च स्मृतेर्वपुरिति किमस्य पृथग्गणनया । मायीयप्रमातृगताश्च अमी अनादयः कथममायीय- प्रमात्रन्तररूपेऽर्जुनगुरौ भवेयुरन्यधर्माणामन्यत्र वृत्त्यदर्शनात् ।

तदिदमाशङ्काद्वयमपाकरोति तत् इति । यस्मात् विश्वे ये व्यवहारा भेद- प्राणिताः, तेऽनया अपोहनशक्त्या प्रयुक्ताः; तस्मादन्तर्गता अपि एषा प्राधान्यात् पृथगुपात्ता । नच असौ गुरुर्मायाप्रमाता । यत आ समन्तात् विष्टो व्याप्त्या स्वीकृतो महेश्वरभावो माहेश्वर्यं येन, तथाभूतोऽसौ ।

आचार्यमूर्तिमास्थाय शिवः पाशान्निकृन्तति ।

इति परमेश्वरस्यैव गुरुसंवोधमभेदेन अधितिष्ठतः परमार्थतो गुरुत्वमागमे उक्तं यतः । तथाहि

दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् । (११ । ८)

इति,

इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् । मम देहे——————-॥ (११ । ७)

इति शरीरस्थाने विश्वमेव मम परमात्मनः इति अर्जुनस्य बोधं व्यतारीत् ।

केवलमधिकं प्रकृतोपयोगि भविष्यत्कालैकीभावेन

अमी सर्वे धृतराष्ट्रस्य पुत्राः—-। (११ । २६)

इत्यादिकं प्रादीदृशत् यथाकालावस्थितमेव अन्यथा इन्द्रजालमात्रं स्यात् तदानीं तेषां बहिर्यथास्वस्थमवस्थितत्वात् । उपयोग एवच प्रदर्शितः

—————यच्चान्यद्द्रष्टुमिच्छसि । (११ । ७)

इति । अहमितिच सर्वत्र अत्र पारमार्थिकमेव प्रकाशविमर्सरूपमुक्तम्,

(पगे २९८)

नतु मायीयं चतुर्भुजादि स्थावराणां हिमालयोऽहमित्यादेः प्रत्यक्षादेर्विरोधादिति । यत् मया स्तुतं

सर्वत्र भावपटलेन विजृम्भमाण- विच्छेदशून्यपरमार्थचमत्कृतिर्या ।

तां पूर्णवृत्त्यहमितिप्रथनस्वभावां स्वात्मस्थितिं स्वरसतः प्रणमामि देवीम् ॥

इति । ननु एवमपि भगवतो मायीयतानुपपत्तेः कथं विकल्पयोग इत्याशङ्य आह विकल्पव्यापार इति । नहि भगवतोऽपूर्वाभासनस्मरणविकल्पनादयो धर्माः । ते तु मायाप्रमातॄणां तत्स्वातन्त्र्यादुद्भवन्ति,-इति भगवतस्- तत्र तत्र स्वातन्त्र्यं ज्ञानादिशक्तय उच्यन्ते । तदर्थमेव शक्तिग्रहणम् ।

विकल्पनं पशुप्रमातृगतं व्यापारः कर्तव्यं यस्या भगवच्छक्तेः ।

भगवानेव हि नेतिविमर्शं स्वीकरोति एव ईश्वरदशायाम् । नेतिविमर्शानुन्- मीलने हि चिद्रूपतातिरिक्तसर्वांशविमर्शात्मन इदम्भावस्य सर्वथैव अभावादिदमहमितिसामानाधिकरण्यात्मा बोध ईश्वर इति कथं भवेत् ।

तस्मात् तत्रापि सा अपोहनशक्तिरस्त्येव । तदुक्तं

————दशा रुद्राधिदैवता । निषेधरूपास्त्यैशाने पदेऽहं सर्वमित्यपि ॥

इति । ईश्वरतैव च विश्वरूपता गीतासु दर्शिता । इहापि एतदर्थमेव अन्तःकृतानन्तविश्वरूपः इति उक्तम् । विश्वरूपाविभागादेव च मायाप्रमातारोऽपि तत्र अभेदेनैव परमार्थतो भान्तीति विकल्पादयोऽपि भगवति न अत्यन्ताय दूरापेताः । तत एव अस्य ज्ञत्वकर्तृत्वप्रकाशादौ यत् सर्वशब्दार्थेन विशेषणं, तत् न सङ्कोचितं स्यात् अन्यथा विकल्पनादेः स्वात्मवर्तिनः सम्भवे यः कोऽपि आस्वादः, तत्र अयमज्ञ एवेति स्वविषयं सार्वज्ञ्यादि सर्वसाधारणमेव अस्य उपगतं भवेत् तदेकनियमात्,

(पगे २९९)

सङ्कोचात् तु न अस्य मायीयतेति । तेन मत्तः इति स्वात्मनो हेतुता आधारता च पञ्चम्या स्वीकृता । हेतौ ल्यब्लोपे च सा यतः । ननु पूर्वं कर्तरि ज्ञातरि च इति ज्ञानक्रिये एव भगवति शक्ती निरूपिते, अधुना तु स्मृत्यपोहनशक्ती अधिके इति किमेतदित्याशङ्क्य आह—-चेति । ज्ञानानि स्मरणं साक्षात्करणं विकल्पनं च अपोहनशब्दवाच्यम् । तत्र शक्तिः, तान्येव च शक्तिरिति ॥ ७ ॥

इति श्रीमहामाहेश्वरश्रीमदाचार्याभिनवगुप्तविरचिताया- मीश्वरप्रत्यभिज्ञाविवृतिविमर्शिन्यां ज्ञानाधिकारे परदर्शनानुपपत्तिविमर्शस्तृतीयः ॥ ३ ॥

अथ ईश्वरप्रत्यभिज्ञाविवृतिविमर्शिनी ।

श्रीमन्महामाहेश्वराचार्यवयर्श्रीमद- भिनवगुप्तपादरचिता ।