०२

अथ द्वितीयो विमर्शः ।

आनन्दममृतपूर्णं सामनसे परपदे परं सत्यम् ।

घटितानुत्तरदृढतमनिरूढिभाजं शिवं वन्दे ॥

आत्मन एव सद्भावे ये विप्रतिपन्नाः, त एव कथं तस्य ऐश्वर्यमुपगच्छेयु- रिति त एव इह मूलविपक्षाः । तत्र लौकायतिकाः स्वपक्षस्थापनाविहीनाः परपक्षमपि कथं दूषयेयुः प्रमाणादिप्रक्रियामर्यादानुप्रवेशेन तद्दूषणात्, तदनुप्रवेशे तु चार्वाकताहानिरिति सौगता एव इह पूर्वपक्षवादिनः । ये हि आत्मानमुपयन्ति अनेकमनीश्वरं च एकं वा छन्नैश्वर्यम्, ते तावत् न अत्यन्ताय इह दूरं स्फुटिताः । असाधारणेन धर्मेण धर्मिणोऽङ्गीकरणे अनङ्गीकृतधर्माभ्युपगमना हि सुघटाः, नतु सर्वथानुपगमे इति सौगतीयमेव पूर्वपक्षं

ननु स्वलक्षणाभासं——-।

इत्यादिना

————तेन कर्तापि कल्पितः ॥

इत्यन्तेन श्लोकैकादशकेन आह । तथाच वक्ष्यति तद्दर्शनापेक्षयैव अयमाक्षेपः इति ।

(पगे ११३)

तत्र श्लोकद्वयेन प्रत्यक्षात्मवादी दृश्यानुपलब्ध्या निराक्रियते, अनुमेयात्मवादी तु स्मृत्यनुसन्धानादेरन्यथासिद्धतां वदता त्रयेण, ज्ञानादीनां गुणत्वात् गुणिसिद्धिरित्यपि वदन्नेकेनेति इयता आत्मनि धर्मिणि निराकृते ज्ञानक्रियासम्बन्धलक्षणमैश्वर्यव्यवहारसाधनं हेतुं निराकर्तुं ज्ञानस्वरूपं परमते श्लोकद्वयेन अनुपपन्नमावेद्यते, क्रियासम्बन्धस्तु साधकाभावात् बाधकयोगाच्च न क्वचिदुपपद्यते, तत् न आत्मन ऐश्वर्यमिति त्रयेणेति सङ्गतितात्पर्यम् । आत्मनः इत्यादिना धर्मिणं हेतुं व्यवहार्यत्वेन साध्यं च ब्रुवता पदत्रयेण सिद्धान्तिमतं पूर्वपक्षवादी दूषणाय सङ्क्षेपेण अनुभाषते । आत्मैव तु इत्यादिना पूर्वपक्षी स्वमतं सार्धश्लोकोक्तं सङ्क्षिप्य दर्शयति । तुशब्दः स्वपक्षस्य विशेषं द्योतयन्नुपपन्नतां ध्वनयन् सिद्धान्तिमतस्य दूष्यमाणत्वं सूचयति । सिद्धान्ती खलु अनुपलब्धेरसिद्धतां ब्रूयादित्याशङ्क्य यमर्धश्लोकं ब्रूते, तस्य अर्थं सङ्क्षेपेण आह अहम्प्रत्ययेनापि इत्यादिना । आदिशब्देन इन्द्रियप्राणज्ञानादिसन्तानस्य सङ्ग्रहः । इत्याह इति एतद्वस्तु श्लोकद्वयेन आहेत्यर्थः । कथम् । आक्षिपन् आक्षेपेण लक्षिता वचनक्रिया इयमिति यावत् । अनेन ननुशब्दस्य आक्षेपद्योतकता व्याख्याता । आक्षेपेण च पूर्वपक्षी युक्तिविदग्धम्मन्यताक्रान्तहृदयोऽत्र विप्रतिपन्नो यत्नेन स्वाभिनिवेशात् सौजन्याङ्गीकृतपरोपकारप्रावण्येन सिद्धान्तिना निवर्त्यते इति सूचयन्नज्ञससंशयौ दण्डापूपिकयैव इह व्युत्पाद्येते इति दर्शयति

ननु स्वलक्षणाभासं ज्ञानमेकं परं पुनः । साभिलापं विकल्पाख्यं बहुधा नापि तद्द्वयम् ॥ १ ॥

(पगे ११४)

नित्यस्य कस्यचिद्द्रष्टुस्तस्यात्रानवभासतः । अहम्प्रतीतिरप्येषा शरीराद्यवसायिनी ॥ २ ॥

स्वमात्मा आत्मीयमेव वा लक्षणं यस्येति स्वरूपेण तदुपाधिभ्यां च देशकालाभ्यां यत् सर्वथैव सङ्कुचितं

समानभिन्नाद्याकारैर्न तद्ग्राह्यं कथञ्चन । भेदानां बहुभेदानां तत्रैकस्मिन्नयोगतः ॥ तदूपं सर्वतो भिन्नं————–।

इति

———————–प्रतिपादिका । न श्रुतिः कल्पना वापि सामान्येनैव वृत्तितः ॥

इति स्वसामर्थ्योत्थनिर्विकल्पकज्ञानैकलक्षणीयमुक्तम्, तदाभासते प्रतिभासते यस्मिन् सति, तस्य वा आभासश्छायारूप आकारो यस्मिन् ज्ञाने; तदेकम् । जातावेकवचनम् । राश्यभिप्रायेण च एकशब्दः, तेन स्वलक्षणप्रतिभासानि निराकारवादिमते, स्वलक्षणाकाराणि साकारवादि- मते ज्ञानानीति अकोऽयमविकल्पकराशिः । एकशब्देन वा अविकल्पकज्ञानस्य विषयभेदकृतं भेदं मुक्त्वा विकल्पवत् स्वरूपनिष्ठोऽवान्तरजात्युत्था- पको भेदो नास्तीत्युच्यते । तत्रैव हि विषये स्मृतिरूपो विकल्पोऽन्यथा, उत्प्रेक्षारूपश्च अन्यथेति अध्यवसायविषयाभेदेऽपि स्वरूपगतमेव विकल्पस्य वचित्र्यम् । अनुभवस्तु नीले न कश्चित् प्रकारान्तरेण ऋते तत्प्रतिभासत्वात् तदाकारत्वात् वा । एकशब्दो वा अन्यवाची, एकं किञ्चिदिति यावत् । मध्यमपक्षस्तु टीकाकृता सूत्रे योजितः । परमिति अन्यत्, अनुभवोत्तरकालभावि च तदुपजीवित्वात् सर्वविकल्पानाम् । अभिलप्यते आभिमुख्येन विषयिविषयपरवशतात्यागेन बोधस्वातन्त्र्ये शब्देन च विषयस्य

(पगे ११५)

तादात्म्यापादनेन व्यक्ततया प्रमातृसात्कारपर्यन्ततया उच्यते परामृश्यते येन, सोऽभिलापः आन्तरशब्दलक्षणः सञ्जल्पः ।

यदाहुर्भर्तृहरिपादाः

सोऽयमित्यभिसम्बन्धाद्रूपमेकीकृतं यदा ।

शब्दस्यार्थेन तं शब्दमभिजल्पं प्रचक्षते ॥ ( वा। २ । १३०)

इति । तेन सह वर्तते इति । अनेन सोऽयमितिसम्बन्धात्मकसङ्केतव्युत्पत्तिकाल- व्यवहारकालानुगामित्वं विषयस्य वदता सामान्यविषयत्वं दर्शितम् ।

बहुधात्वे च अवान्तरजातिभेदकृते युक्तिः सूचिता । स इत्यनुसन्धाने स्मृतिः, सोऽयमित्यनुवेधे प्रत्यभिज्ञा, स इवायमित्यनुरोधे उत्प्रेक्षा, स एवायमित्यनुयोगे व्यवच्छेदः,-इत्यादयो विकल्पभेदा अभिलापभेदमूला एव । स्मृत्युत्प्रेक्षादेश्च अवान्तरजातिभेदयोगेऽपि विकल्प- लक्षणमहासामान्ययोग इत्यपि साभिलापशब्देन सूचितम् । तृतीयश्च एष पक्षो विवृतिकृता स्फुटीकृतः । अपिशब्दो भिन्नक्रमः । द्वयमपि तत् न नित्यस्य कस्यचित् द्रष्टृशब्दवाच्यस्य परैरुपगतस्य सम्बन्धित्वेन युक्तम् । तस्य नित्यस्य अत्र ज्ञानद्वये भासमाने सति अत्र द्वये आधारतया च परेण स्वप्रकाशताभ्युपगतप्रकाशभावयोग्यस्यापि अप्रकाशनात्, तस्येति वा ज्ञानद्वयस्य अत्र आत्मनि आधारे अनवभासात् स्वतन्त्रतयैव तत् ज्ञानद्वयं भाति, नतु क्वचित् नित्ये आश्रितं सदित्यर्थः । ननु अहं घटं जानामीति घटवत् तज्ज्ञानवत् तद्धर्मा आत्मा अहमिति भात्येवेति अनुपलम्भोऽसिद्धः । उच्यते । एष तावद्विकल्पो न अवश्यं विषयतथात्वमा- विष्कुरुते, भवतु वा प्रमाणं, तथापि अत्र कृशादिसामानाधिकरण्यं चेत् भाति कृशोऽहं जानामीति, तच्छरीरमेव इत्थं ज्ञानेन सह एकसामग्र्यधीनतया अध्यवसीयमानत्वेन प्रतिभासते । अथापि

(पगे ११६)

शरीरातिरिक्तं, तदपि ज्ञानसन्तानमात्रमत्र वने वृक्ष इति यथेति अपिशब्दार्थः । टीकाकारो विकल्पमादौ व्याचष्टे । तदपेक्षमविकल्पस्य प्रमाणादिरूपमिति परकीयमतमागूर्य उचितविकल्पजननात् नीलांशे प्रमाणमविकल्पकं तदभावात् प्रमाणं न भवति, क्षणिकत्वांशे नीलाव्यतिरेकिणि गृहीतेऽपि तदनुचितविकल्पसम्पादनात् तु अप्रमाणं स्थिरत्वाद्यंश इति हि परो मन्यते । ग्रहणकवाक्ये च विवृतिगते यदविकल्पकं पठितम्, तत्र अवश्यं निषेध्यत्वेन पूर्वं विकल्पो व्याख्येयः । विकल्पक इति कर्तृप्रत्ययेन विकल्पज्ञानस्यैव स्वातन्त्र्येण कर्तृतारोपणात् विकल्पकत्वमिति वदन् विकल्पोत्थापकोऽन्यः प्रमातास्तीति सम्भावनां परस्य परास्यति ।

सकलं कालं तदविनाभावात् कालोपलक्षितं च देशधर्मान्तरं च यत् गच्छति, ततो न व्यावर्तते, तादृशं यदपोहरूपं ज्ञानाकारमात्रमनन्- तर्बहीरूपं वा आरोपितनीलरूपमभिमननमात्रोपपादितशरीरं वा तत एव निःस्वरूपेण अवष्टम्भायोगे क्रमाक्रमायोगे देशसङ्कोचाभावात् व्यापकत्वेन कालसङ्कोचाभावात् नित्यत्वेन व्यावृत्त्ययोगकृताच्च धर्मसङ्कोचवैल्यात् व्यक्त्यनुयायित्वेन अध्यवसीयमानं सामान्यम्, तदेव स्वलक्षणपरामर्शवन्ध्यत्वात् तन्मात्रम् । तत् प्रतिभासते ग्राह्यत्वेन यस्मिन्, तत् विकल्पकमिति विषयोऽस्य निर्दिष्टः । यतश्च अस्य एवंविधो विषयः, ततोऽयं विकल्पः शब्दसम्बन्धिनं व्यवहारं शब्दाभिजल्प्यमानतां सहते । सा हि न ज्ञानस्य विकल्पात्मनोऽपि स्वात्मनि स्वलक्षणस्वभावे स्वसंवेदनग्राह्ये शब्द्यमानत्वायोगात्, यदाह

सुखादीनां——स्वसंवेदनमविकल्पकम् । अशक्यसमयो ह्यात्मा सुखादीनामनन्यभाक् ।

(पगे ११७)

इति, अपितु विषयस्यैव; तस्यापि न स्वलक्षणस्य देशकाल धर्मसङ्कुचिते तत्र सङ्केतस्य कर्तुमशक्यत्वात् व्यवहारकालपर्यन्तमसम्भवेन अनुपयोगाच्चा । तत् नीलच्छायाया अनीलव्यावृत्तेरपोहरूपाया एव विकल्पनसहिष्णुत्वेन सङ्केतकरणयोग्याया व्यवहारकालानुगामिन्याश्च सा युक्ता । तात्कालिकम् इति तस्मिन्नेव काले भवं न कालान्तरमनुवर्तते ।

अतः सङ्केतव्युत्पत्तेर्यः कालो दृष्ट्वा विकल्पनं शब्दसङ्केतनमित्येवंरूपस्तं न स्पृशति । तमेव यो न स्पृशति, स व्यवहारकालं स्पृशतीति का सम्भावना ।

तदेवमनुपपद्यमानसङ्केतं वचसा उक्तं गम्यमानत्वेन अनुपयुज्यमानसङ्केतमुपरि स्फुटमिति देशनियतं व्यावृत्तिनियतं चेति देशान्तरधर्मान्तरानुगमनायोग्यत्वादपि अनुपयुज्यमानसङ्केतं यदि ईदृक् स्वलक्षणं तदाभासं तदाकारत्वेन तदेकसामग्र्यधीनतया तज्जन्यत्वेन तन्निर्भास्यत्वेन वा तदाभास्यते साक्षात्क्रियते येन तत् तथा ।

स्वलक्षणविषयमित्येव स्पष्टं कस्मात् नोक्तमित्याशङ्क्य आह विकल्पेऽपि इति ।

तेनापि स्वलक्षणमध्यवसीयते प्रवृत्तिप्राप्त्यादिव्यवहारात् ।

अनुभवरूपस्तु असौ स्वलक्षणेन भवति यो हि भवन्नेव तत् स्वलक्षणमनुकरोति अनुकुर्वन्नेव च भवति ।

——अर्थस्य सामर्थ्येन समुद्भवात् ।

इति न्यायेन निराकारतायां

तत्रानुभवमात्रेण ज्ञानस्य सदृशात्मनः । भाव्यं तेनात्मना येन प्रतिकर्म विभज्यते ॥

इति नीत्या साकारतायामसौ बोधोऽनुभवतीति उच्यते । तथाच विनिश्चये यो ज्ञानप्रतिभासमात्मनोऽन्वयव्यतिरेकावनुकारयतीति अनुभवस्य अनुकर्तृत्वमुक्तम् । नच एवं विकल्पः । अत एव

(पगे ११८)

इति अनुभवरूपत्वेन यदर्थसामर्थ्योद्भवत्वमाक्षिप्तम्, तत एव स्फुटो देशकालाकारनियतोऽत्र अर्थो भाति । ननु एवं ज्ञानमित्युक्ते नीलपीतादिज्ञानभेदो न कश्चिदिति बोधरूप आत्मैव अयमुक्तो भवति सूत्रवृत्त्योरित्याशङ्कां शमयति तस्य च इति । बहुधा इति व्याचष्टे, विकल्पस्य तु इति, नतु विषयभेदेन इति तस्य निर्विषयत्वादध्यवसेय- विषयाभेदेऽपि स्मरणोत्प्रेक्षादीनां स्वरूपेणैव वैचित्र्यादित्याशयः ।

तथाच इति पातञ्जलं मतं संवादकत्वेन उपन्यस्यति । विकल्पात् इति विकल्पविशेषादिति भावः । भेदेऽपि अभेदस्य अभेदेऽपि भेदस्य या विकल्पना, सा तत्र विकल्प इत्युक्ता । स्मृतिस्तु पूर्वानुभूतावभासरूपा बुद्धिवृत्तिः ।

तथाहि सूत्रे

शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः । (यो। सू। १ । ९)

अनुभूतविषयासम्प्रमोषः स्मृतिः । (यो। सू। १ । ११)

इति । ननु एवं भवता तर्हि विकल्पनैव स्मृतेः कथमुक्तेत्याशङ्क्य आह वाचक इति । वाचकेन सामान्यात्मना आन्तरेण शब्दनेन, नतु स्वलक्षणरूपेण सङ्केतयितुमशक्येन, संसर्गः शवलीकरणेन एकज्ञानावेशस्तत्र योग्योऽर्थोऽनुगामित्वेन अवस्तुरूपोऽपि अर्थत्वेन अध्यवसीयमानस्तस्य अत्र् प्रतिभास इत्येतदेव लक्षणं विकल्पस्य, शब्दज्ञानानुपातीति तु विकल्पविशेषस्य कल्पनापरपर्यायस्य लक्षणमिति अभिप्रायशेषः । प्रागेव इति लक्ष्यनिर्देशात् पूर्वमित्यर्थः । ननु यदि एष विकल्पानुभवयोर्भेदः, तर्हि द्वयस्यापि ज्ञानत्वमेकं रूपं कुत इति । आह उभयमपि एवम् इति अनेन प्रकारेण बोधरूपमिति । एतत् वस्तु अग्रे सिद्धान्तिना मदीयपक्षमनुभाषमाणेन वक्ष्यते

दृक् स्वभासैव———————। (१ । १८)

(पगे ११९)

इत्यत्र । तत् तस्मादुभयमपि ज्ञानमिति पदयोजना । एतदुक्तं भवति- अवान्तरभेदेऽपि अनयोः स्वस्यैव प्रकाशः स्वस्य प्रकाश एव स्व एव अस्य प्रकाशो न परः, स्वश्च अस्य प्रकाश एवेति यत् बोधलक्षणं सिद्धान्तिनोऽपि अभिमतं, तदस्त्येवेति द्वयोरपि ज्ञानत्वं युक्तम् । तदेव तर्हि आत्मा भविष्यतीति । आह तत् च इति । उभयं निर्विकल्पकं स्वविषयमात्रमिति, विषयश्च अननुयायीति प्रतिक्षणं विभिन्नलक्षण इति । तदपि अस्थिरम्, तथा विकल्पकमपि अध्यवसेयं विषयभेदात् । तथा स इत्ययमित्याद्यभिलापभेदात् नीलपीतादिविषयं भिन्नम्, एकस्थिरनीलाध्यवसाय्यपि प्रतिक्षणं भेदात् भिन्नमिति उभयथापि परसम्मतं नित्यादिधर्मयोगित्वमात्मलक्षणं नास्ति । द्वितीयस्य च इति । उभयस्यापि भिन्नभिन्नस्वभावत्वं तावदेकं रूपं ततस्तु द्वितीयो भवेत् यदि अभिन्नस्वभावो बोधो भवेदित्याशयेन तृतीयस्येति वक्तव्ये द्वितीयस्येति उक्तम् । बोधातिरिक्तस्य इति वृत्तिं व्याख्यातुं ज्ञानैकजातीयतया वा विकल्पाविकल्पसञ्चय एको राशिरित्यभिप्रेत्य द्वितीयस्येति । ज्ञातुः इति ज्ञानातिरिक्तस्य स्वानुभव इत्यनेन दृश्यत्वसम्भावनमाह । तस्य इति आत्मनोऽनुपलब्धेः, तस्येति वा उभयस्य अन्यसम्बन्धितया अनुपलब्धिरिति वृत्तियोजना । ज्ञेयरूपः इति , नतु प्रमाणाविषयतोपनतज्ञातृरूपोऽर्थः कश्चिदिति अत्र तात्पर्यं ज्ञेयशब्दस्य, नतु जडैकरूपवाची ज्ञेयशब्दोऽत्र ज्ञानसन्तानस्य जडत्वाभावात् । अत एव उक्तं वृत्तौ कश्चित् इति । तदेव अत्र टीकायां विपर्ययप्रदर्शनद्वारेण व्याख्यातम् । सूत्रे हि अहम्प्रतीतिरपि इति विधिद्वारेण अस्य अनुपलब्धिः सूचिता । सा स्वकण्ठेन वृत्तौ व्याख्याता, तद्द्वारेण तु यः सूत्रार्थो विध्यात्मा सूचितः, स टीकायां

(पगे १२०)

स्वकण्ठेन व्याख्यात इति । एवम् इति तत्र तत्र सूत्रवृत्तिटिकासु अवधातव्यम् ।

ननु भवता यदि व्यतिरिक्तो न अवधार्यते, तावता प्रादेशिकि अनुपलब्धिर्न अभावं सार्वत्रिकं गमयेत् । तस्मादयमात्मोपलम्भनिवृत्तिमेव प्रमाणयन् परं प्रतिक्षिपति, सा च विप्रकृष्टेषु अपि अस्ति, नच ते न सन्त्येवेत्याशङ्क्य यत् लोकैः इति वृत्तावुक्तं, तत् सर्वप्रमातृभिः इत्यनेन व्याख्याय तत्र हेतुमाह सजातीयैः इति । तत्रापि हेतुः सर्वव्यवहार इति ।

अन्यथा हि नीलमपि हि कस्यचिदनीलतया भातीत्यपि हि भवेत् । ततश्च तादात्म्याभावव्यवहारोऽपि न सिध्येदिति उच्छिन्नैव भावाभावव्यवस्थेत्याशयः । तदुक्तं प्रत्यक्षनिवृत्तिरेव अनुपलब्धिरभावसाधनी सकलकारणकस्य अस्य अर्थसत्ताया भावासम्भवार्थं, तत्र अर्वाग्दर्शनस्य आत्मप्रत्यक्षनि-वृतीं प्रमाणयतस्तद्ग्रहणयोग्यप्रतिषेधो युक्तः इति । नतु आत्मेति सूत्रसूचितोऽर्थः स्पष्टीकृतो यथोक्तलक्षणः इति देशकालाकारसङ्कोचास- हिष्णुरादिसिद्धत्वादनुपयुक्तप्रमाणव्यापारः स्वतन्त्रज्ञातृकर्तृतापर- मार्थ इत्यर्थः । ननु अहम्प्रत्ययशब्दे साभिलापग्रहणं विशेषणं वृत्तौ किमर्थमिति । आह साभिलाप इति । नीलानुभवोऽयमित्यत्र निर्विकल्पकेऽपि नीलशब्दो विषयस्वरूपमवधारयितुं यथा उपात्तः, तथा तत्रापि अहंशब्द इति कश्चित् सम्भावयेत, स सूत्रे अवसायिनी इतिपदेन प्रत्यायितः ।

तस्यैव अर्थो वृत्तौ साभिलापपदेन व्याख्यातः । सिद्धान्तिनिरूप्यमाणस्य च आत्मप्रसाधकस्य प्रमाणस्य दौर्बल्यनिवेदनेन पूर्वपक्षिणा स्वपक्षे बलवत्त्वमाविष्कृतम् । अवस्यति तच्छीलेति प्रत्ययभागेन ताच्छील्यं निमित्तानपेक्षित्वपर्यवसितमभिदधता अनुभवानुसार्यध्यवसायरू- पत्वाभावनिरूपणात् य एव अहं ह्यः,

(पगे १२१)

स एव अहं प्रातः, नच ज्ञानादयः इत्येवमादेः प्रत्ययस्य स्थिरगुणिरूपतानिश्चयनं, न कल्पनामात्रमेवेति उक्तम् । वृत्तावपि सहशब्देन अहम्प्रतीतेरभिलापाव्यभिचारो दर्शित इति व्याख्येयम् । अत एव आह कल्पनात्वेन इति । निर्विकल्पकानुसरणविरहस्यातन्त्र्यायोगेन अहम्प्रतीतेर्वस्तुव्यवस्थापनायामहेतुत्वं सूचितम् । लेशेनापि इति न किञ्चिदसाधारणेन धर्मेण नित्यत्वाद्यन्यतमेनेति यावत् । समयशब्देन उपपत्तिविरह उक्तः । यद्यपि शास्त्रसमयप्रतिष्ठानामपि न लौकिकातिरिक्तोऽवभास इत्युक्तं पूर्वं शास्त्रसंस्कृतानामपि इत्यादिना, तथापि शास्त्रवासनाजनितगाढविकल्पबलात् य एवं ब्रूयात् स्थिरो ममात्मा अनुभवे भात्येवेति, स लौकिकप्रमात्रन्तरसाधारणप्रतिभासा- भ्युपगमनायैव प्रत्याय्य इति टीकाकारस्य आशयः । तदयं प्रयोगः-ना स्तीह आत्मा नित्यतादिलक्षणयोगी उपलब्धिलक्षणप्राप्तस्य अनुपलब्धेरिति ॥ १, २ ॥

घटादिविषयाः सर्वेनुभवा उत्पन्नापवर्गिणस्तावत् । अनुभवं च अनुरुध्यमाना स्मृतिर्दृष्टा, अन्यथा यत्रैव कुत्रचित् सा स्यात् । नच अनुभवोद्भवमात्रात्सा भवति चैत्रस्य दृष्टे भैत्रस्य तदभावात् ।

तदयमनुभवो बहिर्मुखेन वपुषा ध्वस्तोऽपि अन्तर्मुखेन अध्वस्त एव उपगन्तव्य इति परस्य सिद्धान्तिनो मतम् । अथशब्दद्योतितसम्भावनारू- पाशङ्कोपलक्षितं कारिकया पूर्वपक्षवादी आहेति सङ्गतिः । तदनुभव इति तस्य ध्वस्तस्यानुभवस्य यो विषयस्तम् ।

अथानुभवविध्वंसे स्मृतिस्तदनुरोधिनी । कथं भवेन्न नित्यः स्यादात्मा यद्यनुभावकः ॥ ३ ॥

(पगे १२२)

अनुभवस्य विध्वंसे अनुभवस्वीकाराद्वारा परिगृहीतनियतविषया स्मृतिः केन प्रकारेण भवेत् यदि तदनुभवान्तर्मुखरूपोऽनुभविता स्थिर आत्मा न स्यात् । अस्ति च इयं स्मृतिः, तत् तेनापि भावितव्यमिति यदि परो ब्रूयादिति कारिकार्थः । स्मृतिकाले इति यः सम्भाव्यते कालः, उद्बुभूषितायां स्मृतावित्यर्थः । न अनुभवे पूर्वभाविनि पश्चादभावमात्रं तदनुरोधित्वमिति दर्शयति वृत्तिकृत् । पूर्वो योऽर्थविषयोऽनुभवस्तस्य योऽवष्टम्भस्तद्रूपापरित्यागः, स धर्मो यस्याः । तदापि इति स्मृतिकाले स्मृतिरूपतायामित्यर्थः । यदि कश्चिदाचक्षीत-अर्थानुभव एव अतीतविषयो विशिष्टः स्मृतिरुच्यते, तत् किमस्या अनुभवविरोधित्वेन विषयस्य स्वमुखेनैव स्वीकारादिति । तं प्रति स्मृतेरनुभवरूपत्वं तावत् निराकरोति अनुभवविध्वंसे इति च सूत्रोक्तिं घटयति अर्थ इति । अर्थस्य सन्निधानं च इह सत्तायां जनकतया असत्तायामपि विषयतया उपयोगः । सन्निहितः इति सन्नेव साङ्ख्यदर्शने इव च्छन्नोऽपि विषयतां स्वातन्त्र्येण प्राप्त इति यावत् । साक्षात्कारः इति अविकल्पक इत्यर्थः । विकल्पस्तावत् न विषयं साक्षात् स्वीकरोति, अध्यारुह्यवादेन तु उच्यते इति । एतदाह अपिवा इति ।

अनुभूयमानतया इति अनुभवायमानो वा स्वयमनुभवरूपो वा विकल्पोऽयमिति भवेत्, नतु अनुभूतत्वेन पूर्वानुभवोल्लेखनेन स इत्येवं भवेत् । एतदेव च स्मृतेः प्रातिस्विकं रूपम् । ततश्च यदि स्मृतिव्याप्ते कालक्षणेऽनुभवः, तर्हि न स्मृतिस्तद्व्यापकः स इति प्रत्ययविरुद्धोऽय- मितिप्रत्ययोपलब्धेः । वोरोधश्च स्वमुखपरमुख-विषयस्वीकारयोर्विरोधात् तद्रूपत्वाच्च इदम्भावतद्भावप्रतीत्योः । तस्मादयं प्रयोगः-स्मृतिकाले न प्रतीयमानोऽस्ति

(पगे १२३)

अर्थः स-इतिप्रत्ययविषयत्वात् । अस्तित्वं हि अर्थस्य प्रतीयमानस्य अयमितिप्रत्ययविषयत्वेन व्याप्तं, तद्विरुधस्य इयमुपलब्धिरिति । ननु नष्टवस्तुविषयां स्मृतिं मुक्त्वा अन्यत्र इदं प्रत्यक्षादिप्रमाणान्तरविरुद्धमनुमानम् । मैवम् । स्मर्यमाणो हि सर्वः पूर्वानुभूत एव । सच नष्ट एव क्षणिकत्वादिति क्षणान्तरसद्भावः कुत्र उपयोगी । भवतु स्थिरोऽर्थो घटादिः साङ्ख्य इव वानष्टोऽपि सन्नुपस्थानक्षणभङ्गोपन्यासजनकत्वेन तु विषयतां नासौ स्वतन्त्रां प्रतिलब्धुमलमिति दर्शयति सत्यपिवा इति निपाताभ्याम् । नैतत् तत्त्वम्, अपितु अभ्युपगम्यवादोऽयमित्याह अनुभवाभावात् इति स्मृतेरनुभवरूपत्वा- भावादित्यर्थः । अनुभवविषयत्वेन इति स्मृतिज्ञाने स्वातन्त्र्येण विषयतयेति यावत् । अतीतस्य अर्थस्य कालान्तरभाविनि स्वातन्त्र्येण विषयत्वे त्रयी गतिः ।

स्थिर एव बोधो विषयोपनिपातकृतं तदाकारत्वं तत्प्रतिभासत्वं वा विषयापगमेऽपि विषयान्तरापातेऽपि च न त्यजति । एवं भूतवर्तमानविषयसाक्षात्कारस्तावत्, वर्तमानानां च भावानां यावती अर्थक्रियान्तरपरम्पराक्षेपिणी अर्थक्रियाविशेषे योग्यता, सापि अत्यन्तनैर्मल्यात् साक्षात्कृता भवतीति अनागतविषयमपीत्येवं पूर्वं सर्वज्ञसंवेदनमिति एका गतिः । अस्तिरोऽपि नीलविषयोऽनुभवो नीले ध्वस्ते समनन्तरप्रत्ययत्वेन नैलसाक्षात्कारतामत्यजन्तमेव बोधं पीतसन्निधानात् तु स्वार्थक्रियासन्ततियोग्यताक्रान्तपीतविषयमपि आरभते,

-इत्येवं बोधान्तरेष्वपीति अपरा । तदेतदुभयमुक्तं टीकायां प्रबन्धप्रवृत्तस्तदापि पूर्वानुभव एव इति । स्थिरे सन्तानवृत्तौ च प्रबन्धशब्दः । एवं सदा सर्वज्ञे द्वे गती । यस्तु जिज्ञासितसर्वज्ञः, स यदेव यदैव दिदृक्षते, तदेव तदैव अपूर्वत्वेन आनुमानिका-

(पगे १२४)

तीतवृत्तिप्रत्ययवत् प्रतिभाननैर्मल्यात् जानातीति तृतीया । तदाह तत्कालोदितो वा इत्यादि । एतासु तिसृष्वपि गतिषु स्वातन्त्र्येण विषयस्वीकारेऽनुभवात् वैलक्षण्यकारि यत् स्मृतेः स्वरूपमुच्यते-पूर्वानुभवमुखेन विषयलाभादनुभूतस्य विषयस्य योऽसम्प्रमोषोऽनपहारोऽनुभूततयैव प्रकाश इति, तदेव विघटेत । एवं स्वातन्त्र्येण विषयस्वीकारो न युक्तः स्मृतेरिति उपसंहारेण अनुवदन्नाह तत् इति । अर्थस्य तिरोधानं स्वातन्त्र्येण अविषयता । ततोऽसौ स्मृतिरनुभवविशेषरूपा तावत् न भवति । अनुभवं च उपजीवितुं सा यतते । स च प्राच्यो नष्टः कथमुपजीव्यः इति कश्चिदंशोऽस्य नूनमनष्टः । नतु विषयव्यापृतो बहिर्मुखतांश एव न नष्ट इति युक्तं स्मृतित्वाभावप्रसङ्गादिति अनुभवस्य योऽनुभवः स्वसंवेदनात्मा अन्तर्मुखः, स न नष्ट इति आयातम् । सर्वेण हि प्रकारेण तदनन्वये यदि स्मृतिरुदियात् चैत्रदृष्टेऽपि मैत्रस्य उदियात् नियमनिदानाभावात्, तद्वद्वा स्वदृष्टेऽपि न उदियात् सर्वेण प्रकारेण उपजीवनीयस्य ध्वस्तत्वात् । उच्यते नियमः । तदनुयायिना केनचिदप्रध्वस्तेन रूपेण भाव्यमेव । ननु अनुभवस्य अनुभवरूपो बोधः किं नैयायिकबोधवत् ज्ञानान्तरस्वभावः । नेत्याह स्वसंविद्रूपोऽन्तर्मुखः इति ।

अर्थप्रतिभासवत्त्वमेव अर्थस्य व्यापृतता बहिर्मुखत्वम् । बहिरिति स्वरूपव्यतिरिक्तेऽर्थे मुखं प्रधानं प्रकाशतालक्षणं रूपं यस्य, तत् तथा । बुद्धेर्नीलसंवित्तेः सैव ग्राहिका, तत आत्मनि ज्ञानरूपेऽन्तर्मु- खा । अन्तरिति अव्यतिरिक्ते रूपे मुखं प्रकाशत्वं यस्याः । चकारौ यौगपद्यं धर्मद्वयस्य आहतुः । ननु अस्तु तावदन्तर्मुखांशोऽनुयायी, सिद्धान्तिनस्तु किं सिद्ध्यति इति । आह अन्तर्मुखश्च इति । वक्ष्यमाणनीत्या इति चेत्यधर्मदेशकालानावेशे व्यापित्वनित्यत्वसिद्धेरिति ॥ ३ ॥

(पगे १२५)

एवं सिद्धान्तिमतं सम्भाव्यं दर्शितम्, अधुना एतन्निराकरणप्रकारं स्वमेव अयं वक्ष्यति,-इत्याशयेन सिद्धान्तिनं पूर्वपक्षवादी पृच्छति सत्यप्यात्मनि इत्यादिना केन इत्यनेन

सत्यप्यात्मनि दृङ्गाशात्तद्द्वारा दृष्टवस्तुषु ।

समृतिः केन—————————–

प्रश्नस्य च अयमाशयः-इह अनुभवस्य नीलं प्रकाशता चेति धर्मद्वयं व्यावृत्त्युपकल्पितं वा वास्तवं वेति तावदास्ताम् ।

किमस्थानेऽनेन विकल्पितेन, इदं तु विकल्प्यम्-स्मृतौ सविषयतालाभाय नीलप्रकाशतांश उपजीवितव्यः, न अन्तर्मुखस्वप्रकाशतांशस्तस्य विषयविशेषसमर्पणायोग्यत्वे प्रमातृभेदाभेदयोर्नीलानीलयोश्च स्मृत्यविशेषप्रसङ्गात् । सच उपजीवनीयोऽशोऽर्थस्य अभावाद्वा असन्निकर्षाद्वा इन्द्रियव्यापाराभावाद्वा आदिपदात् वक्ष्यमाणात् सर्वज्ञतोपयोग्यदृष्टिनैर्मल्यसमाधानाद्यभावाद्वा नष्ट एव अर्थ आभासते यावता सामग्र्येण उक्तेन तस्य अभावे तावत् नीलानुभवरूपा दर्शनरूपता नष्टा । सैव च केवला अविच्छिन्नबोधमात्रोपयोगमनपेक्ष- माणा अवलम्बनं द्वारमुपायोऽनुभूतवस्तुविषयतालाभे यस्याः स्मृतेः, सा सत्यपि आत्मनि निर्विषयशुद्धान्तर्मुखसंवेदनेऽपि अभ्युपगते केन प्रकारेणेति न कश्चिदसौ प्रकारोऽस्ति, येन सा स्यात्, ततो नैव भवेदिति सूत्रावतरणिकयोरर्थः । अन्तर्मुखः सिध्यतु बोधः, किं स्मृत्येति पश्यन्नात्मवादी तूष्णीमासीतेत्याशयेन तमागूरयति ततश्च इति ।

व्यवहारो लौकिकस्तावदवश्यसमर्थनीयः । सच स्मृत्या विना कथम् ।

आत्मव्यवहारोऽपि च त्वया स्मृतिद्वारेण कर्तुमारब्धः

——स्मृतिस्तदनुरोधिनी ।

कथं भवेन्न नित्यः स्यादात्मा यदि——॥ (३) इति ॥

(पगे १२६)

अथ सिद्धान्तिनो वचनं हृदयस्थं सम्भावनया उपन्यस्यति

———अथ यत्रैवानुभवस्तत्पदैव सा ॥ ४ ॥

एतत् वृत्तिकृत् व्याचष्टे असतोऽपि इति । यदिशब्देन अथशब्दस्य सम्भावनां द्योत्यत्वेन आह । कथं सा नष्टस्य विषयेण विषयवती इति ॥

४ ॥

अत्र हेतुमाह-

यतो हि पूर्वानुभवसंस्कारात्स्मृतिसम्भवः ।

यतः पूर्वानुभवसंस्कारात् स्मृतेः सम्भवस्तस्मात् तद्विषयेण तत्पदैव सा । हि यस्मादेवं, तस्मात् केन दृङ्नाशे स्मृतिरिति पर्यनुयोगासम्भव इत्याशयशेषं हि शब्देन दर्शयति ॥

परो लब्धावकाश आह-

यद्येवमन्तर्गडुना कोऽर्थः स्यात्थायिनात्मना ॥ ५ ॥

एवं यदि उच्यते, तर्हि अन्तर्गडुना कल्पनाशल्यदायिना क्वचिदपि अनुपयोगिना कोऽर्थ आत्मना स्थिरेण, न कश्चिदिति यावत् ।

तमनुभवमाभासयति इति । ननु नीलवत् किं विषयतया । नेत्याह, किन्तु पूर्वानुभवानुकरणेन तत्सदृशत्वेन संसकारजत्वेन प्रतिलब्धेन हेतुना ।

तत्सदृशी हि सा । सच नीलं विषयत्वेन अवगाढवानिति सापि तथा भातीति ।

तेनैव च इति संस्कारेण । टीकाकारः अथ यत्रैव इत्यादेः यद्येवम् इत्यन्तस्य सूत्रस्य तात्पर्यं पूर्वार्थ इत्यादिना विषयवत्ताभिष्टौ इत्यन्तेन आख्याय कोऽर्थः इत्यादेराह आत्मोपगमो व्यर्थः इतिशब्देन अन्तर्गडुशब्दस्य व्यर्थः इत्यनेन कोऽर्थः इत्यस्य । अर्थावभासकृता वासना संस्काररूपा यस्य आत्मनोऽन्तर्मुखबोधरूपस्य, स यदा तादृशदर्शनकृतवासनाप्रबोध-द्वारेण प्रबोधितो भवति; तदा

(पगे १२७)

तस्मिन्नुपादानेऽन्तरङ्गे कारणे स्वसंवेदनान्तर्मुखबोधलक्षणे आत्मनि कार्यरूपा स्मृतिर्जायते, अनुभवसदृशत्वेन च भातीति सविषयत्वमियदेव यस्याः । अनुभवात् पट्वभ्यासादरप्रत्ययरूपादात्मनि वासनात्मा संस्कारः, तस्य सदृशादृष्टादेः प्रबोधस्ततः स्मृतिरिति इयत् सिद्धान्तिनो मतमुक्त्वा दूषयितुमाह एवं च इति । एतदुक्तं भवति-बहिर्मुखतां- शादेव ज्ञानीयात् सविषयता स्मृत्या प्रतिलब्धव्या । नच सा नष्टात् युज्यते, नचापि अनष्टादन्तर्मुखतांशात् । नच बहिर्मुखतांशस्यापि अनाशे स्मृतित्वमुपपन्नम्, अनुभव एव स स्यादिति हि उक्तम् । तदयं बहिर्मुखतांशो नष्टोऽपि अनष्ट इव तिष्ठतीति उपगम्यम् । नष्टश्च कथमनष्टो भवति यदि तदनुकरणं तत्सदृशं ज्ञानान्तरं जनयितुं योग्यता न भवेत् । स एव तस्य नष्टस्यापि अनाशः । जीवति द्रोणाचार्यो यस्य अश्वत्थामा पुत्र इति हि व्यवहारः । स्मृतिरूपं तदीयमनुकरणमवशिष्यते इति ईदृक्सदृशत्वं मुख्यं संस्काररूपत्वम्, उपचारात्तु तज्जननयोग्यतापि संस्कारो या तावदप्रबुद्धा, तज्जननव्यापृतत्वं तु प्रबुद्धः संस्कारः; यदि वा प्रबुभुत्समानोऽसौ, प्रबुद्धस्तु संस्कारः स्मरणमेव तस्यैव अनुभवानुकरणरूपत्वादिति । एवं भूते बहिर्मुखत्वस्य अनुकरणमात्रेण अवशिष्यमाणतारूपे संस्कारलक्षणेऽर्थे आत्मवादिनापि अवश्योपगन्तव्ये शुद्धस्य बोधमात्रस्य अन्तर्मुखस्य तद्बहिर्मुखतारू- पतारूपतादात्म्यवृत्तित्वेन न्यायायातविच्छेदस्य अविच्छेदः कस्य अनुपपत्त्या कल्प्यते इति । ननु तदभावे कुत्र संस्कारः । आह ज्ञानक्षणे इति ।

नीलानुभवात् नीलप्रकाशरूपात् समनन्तरप्रत्ययात् पीताच्च विषयादुद्भवन् ज्ञानक्षणो नीलप्रकाशरूपोऽपि भवति तावत् तत्सदृशत्वात् पीतविषयोद्रेकात् तु न तथा भाति अविद्यादृष्टादि-

(पगे १२८)

माहात्म्याद्वा । नहि स्वप्रकाशेऽपि संवेदने यदस्ति तेन भातव्यं क्षणिकत्वाद्यंशस्य अनिर्भासनात्, अविद्यादिनिवृत्तौ तु नैर्मल्यादुच्यते

संस्कारसाक्षात्करणात् पूर्वजातिज्ञानम् । (यो। सू। ३ । १८)

इति । ततः पीतप्रत्ययात् हरितप्रत्ययो नीलपीतहरितप्रकाशनशक्तिमानपि हरितप्रकाश एव । उक्तयुक्तेस्तावदेषा परिपाटी-यावत् नीलस्य तज्जातीयत्वतत्- सादृश्यतद्विरोधादिना किञ्चित्सम्बद्धं दृश्यं भवति, ततस्तादृशतोपलक्षितः सम्बद्धदर्शनरूपात् तादृशदर्शनात् समनन्तरप्रत्ययात् विषयं कञ्चिदपि अनपेक्षमाणात् तत्पूर्ववृत्तिनील- प्रत्ययानुकारी प्रत्यय उत्पद्यते । स प्रबुद्धः संस्कार उच्यते स्मरणमिति ।

तदुक्तम् अनुभवः पटीयान् स्मृतिबीजमाधत्ते, तादृशदर्शनादस्य प्रबोधः इति । प्रबोधश्च असौ स्मृतिरेव । अनुकरणमात्रावशेषता हि संस्कारः इति उक्तमाचार्यपादैः । तेन यदाशङ्कन्ते-तादृशदर्शनात् न कुत्रापि अस्य संस्कारस्य प्रबोधः, न तावत् पूर्वविज्ञानगतस्य, तत् विनष्टम्; न उत्तरविज्ञानगतस्य नीलतादृशज्ञानानन्तरं पीतज्ञानेऽन्तरालासञ्चेतिते नीलसंस्कारप्रबोधाभावादिति, समर्थयन्ते च नीलतादृशदर्शनेन नीलविकल्पोऽबुद्धसंस्कारजनितः स्मृतिं करोतीति; तदसदेव अन्योन्याश्रयाद्यापत्तेः । नीलविकल्पोऽपि अभिलापस्मरणात्, तदपि सङ्केतस्मृतेः, सापि नीलार्थस्मरणादिति बहिर्मुखो मुखे वोप्लवः । द्वितीयं तादृशदर्शनं यत्र प्रबुद्धसंस्कारता ततो नीलार्थस्मरणमित्यपि कल्पने स्मरणस्य विकल्परूपत्वेन अभिलापसङ्केतस्मरणपूर्वभाविता उपगम्या, तत्राप्येवमिति अनवस्थेति आस्तां तावदिह । अग्रे हि अणुशः एतत् विचारयिष्यते । स्थिरे तावदेतदनुकरणरूपा स्मृतिः, सा च विकल्प-

(पगे १२९)

पर्यन्तं पूर्वदर्शनमनुकरोतीति विषयप्रकाशरूपा साभिलापा च न अन्यदियमुपयाचते इति परमगुरुपादानां मतम् । ननु कुत्र अस्थिरे सन्तानवाहिनि तदनुकरणता दृष्टा । तिलानां हि स्थिराणां मालतीकुसुम- सौरभानुकारित्वं दृष्टमिति । आह भूर्जपत्रमपि इति । पेलवावयवत्वात् सम्भाव्यमानावयवस्फुटनं क्रियाविभागसंयोगविनाशक्रमेण नश्यति, अन्यदुत्पद्यते भूर्जदलमिति अपिशब्दस्य अभिप्रायः । संवर्तितं चिरकालं ततोऽपि प्रसारितं पुनः पूर्वसन्निवेशमेति । नच तत् कूटस्थं सत् नित्यम्, अपितु सन्ताननित्यम् । कूटे राशिरूपे तिष्ठति, न किञ्चिदस्य चलति; कूटे क्वचन अनुल्लङ्घनीये तिष्ठति, न केनचिदन्यथा कर्तुं शक्यम्; कूटे विश्वतो दाहे विनाशकारणोपनिपातेऽपि तिष्ठति, कूटे व्याजेऽपि अपह्नवात्मनि क्रियमाणे तिष्ठति न अन्यथाभवतीति अचलरूपतया भवत् कूटस्थनित्यमुच्यते । एतदुक्तं भवति-तिलेषु तावत् न कश्चित् संस्कारार्थोऽभ्युपगतः स्थिरपदार्थवादिभिः । सूक्ष्ममकरन्दगन्धो हि तत्र संयुक्तसमवायादुपलभ्यते, निर्गन्धेऽपि जले इवेति । नच अत्र भावना कल्प्या । सा हि आत्मन्येव, वेगस्थितस्थापकौ तु सक्रियविषयौ कथं स्यातामिति न तिलेषु संस्कारः कश्चित् । तत्स्थायिनि संस्कारो भवति तिलादाविति असदेव ।

वेगश्च नद्यामस्थिरायां शरादौ च पवनजवक्रियासम्भवसम्भाव्य- मानावयवविभागनान्तरीयके नाशे द्रव्यान्तररूपे दृश्यते एव, स्थितस्थापकोऽपि भूर्जपत्रे । तद्वत् ज्ञानसन्तानेऽपि भावानात्मको भविष्यति । अनुकरणमेव हि वस्तुतः संस्कारः । शरस्यापि प्रयत्नकृतसक्रियत्वानुकरणम् । अत एव स्थितं पूर्वं रूपं स्थापयतीति स्थितस्थापकतैव संस्कारस्य परमार्थः ।

देशान्तरगततद्रूपस्थापनविशेषात् तु १७

(पगे १३०)

वेगः पृथगुच्यते । भावना तु न सक्रियत्वानुकाररूपा, स्थितस्थापकस्तु सन्निवेशानुकार इति वस्तुतोऽनुकरणमेव संस्कारार्थः । नच तत्र नित्यत्वस्य लेशेनापि उपयोगः । यत् यावतैव सिद्धं, न तत् तदधिकं कल्पयति अङ्कुर इव बीजादिना; तथाच स्मृतिः संस्कारेणेति । अधिककल्पनस्य हि कारणं तावतैव असिद्धत्वमन्यथा अधिककल्पना न विरमेत् । विरतिश्च अस्या व्यापिका दृष्टैव, तद्विरुद्धं च इह उपलभ्यते इति ॥ ५ ॥

ननु संस्कारो धर्मरूपो गुणः, न स्वतन्त्रः इति धर्मिणा अस्य भवितव्यम् । ज्ञानसन्तान एव अस्य धर्मी,-इति चेत्, न तावत् सन्तानः कश्चिदन्यो ज्ञानेभ्यः । तत् यदि ज्ञानेष्वेव संस्कार इत्युच्यते, तदयुक्तम् ।

नहि अन्यत्र अनुभवरूपता, अन्यत्र संस्कारः, अन्यत्र स्मृतिरिति युक्तं प्रसिद्धे चैत्रमैत्रादिप्रमातृभेदे एवंविधवृत्तान्तानव-लोकनात् । तस्मात् अनुभवसंस्कारयोरभेदः समर्थनीयः । सच स्वरूपेण न उपलभ्यते अतो विलक्षणत्वादिति आश्रयाभेदादेकार्थसमवायलक्षणादेव स सिद्ध्यति ।

अनुभवसंस्कारयोश्च आश्रयद्वारेण अभेदे सिद्धे सुखादीनामपि प्रतिसन्धिः सिद्ध्यत्येव सर्वस्य प्रतिसन्धेर्य एव अहं सुखानुभवेन सुखी समभवम्, स एव इच्छामि, दुःखी द्वेष्मि, इच्छाद्वेषयुक् च आदातुं हातुं वा प्रयते इत्यादेः स्मरणसारत्वात् । अनेनैव आशयेन सङ्क्षेपव्याख्यारूपायामवतारिण्यां संस्कारस्य धर्मत्वं व्याख्यातं न सुखादीनां पृथक् । तस्मात् संस्कारस्य आश्रय एकः, एकत्वादेव च स्थिरो यः; स एव आत्मेति पूर्वपक्षवादिनो मतमाशङ्क्य कारिकां सङ्क्षेपेण व्याचष्टे पूर्वकारिकार्थमेव उपजीवन् तदेवम् इति ।

यतो नित्य आत्मा अतो यथा असावनुदितसंस्कारोऽपि न स्मृतौ व्यापरिष्ट; तथा उदितसंस्कारोऽपि न व्याप्रियेत

(पगे १३१)

तत्स्वरूपस्य अंशेनापि अवैलक्षण्यात् । वैलक्षण्यं हि संस्कार एव, तत्कृते वा व्यतिरेकराहित्ये तस्य पूर्वरूपापायादनित्यत्वम् । व्यतिरिक्ते तु तस्य न तत् किञ्चित्स्यात् । ततः संस्कारस्य किमाश्रयेण स्मृतौ जन्यायामनुपयुक्तेनेति मात्रपदम् । उभयमपीह कल्पनारूपं केवलं पूर्वसिद्धत्वादेकं सूत्रे उपमानत्वेन उक्तमित्याशयेन आह द्रष्टायं स्मर्ता च इति ।

ततो भिन्नेषु धर्मेषु तत्स्वरूपाविशेषतः । संस्कारात्स्मृतिसिद्धौ स्यात्स्मर्ता द्रष्टेव कल्पितः ॥ ६ ॥

तत आत्मनो व्यतिरिक्तेषु धर्मेषु संस्कारादिषु सत्स्वपि व्यतिरिक्ते च समवाये सत्यपि तस्य आत्मनः स्वस्मिन् रूपेऽनुदितसंस्कारादिधर्मात् पूर्वरूपात् न विशेषः । विशेषे हि अनित्यत्वम् । तस्मात् संस्कारादेव पूर्वोक्तन्यायेन स्मृतिः सिद्धाः । संस्कारभावाभावाभ्यां प्रमात्रभेदभेद व्यवहारः, तावपि उपादाने उपादेयभावतदभावकृतौ, । यत् तु अहं स्मर्तेति भासते, तत्र तावदसौ अहम्प्रतीतिरेव; न आत्मा क्षणिकत्वादस्थिरत्वात् । तत्प्रत्येयं तु वस्तु स्वलक्षणं यदि अनुभवगोचरीकृतं भाति, तदस्थिरमेव । अथ विकल्प्यं, तत् शरीरं सन्तानो वेति तथापि वेद्यवेदनातिरिक्तो न कश्चित् वेदकः स्मर्तृद्रष्टृरूपो भाति । ततो भिन्नेषु इति पूर्वपक्षसूचकत्वेन सिद्धान्तोपयोगित्वेन च सूत्रम् । तत्र आद्येन रूपेण तावत् वृत्तिकृत् व्याचष्टे सुखदुःख इत्यादि । सुखादयो हि धर्माः प्रतिसन्धीयमाना दृष्टाः, तेषां च भिन्नानां कथं प्रतिसन्धिरिति आश्रय एको वाच्यः । तत एव टीकाकारो व्याचष्टे परस्परसमन्वयो न स्यात् इति । अथ सिद्धान्तोपयोगित्वेन व्याकरोति भिन्नैर्धर्मैरसम्भिन्नस्य इति अलब्धतदावेशस्येति यावत् । एतत् टीकायां तैरेतैः इति बहुवचनेन व्याख्यातम् ।

(पगे १३२)

भिन्नानामेकतादात्म्ये कथं बहुत्वम्, अनेकतादात्म्ये वा तस्य अभिन्नस्य कथमेकत्वमिति आशयः । तत्कृतो यः सुखादीनामुपकारविशेषः संस्कारजन्मा प्रतिसन्धिलक्षणः, तत्र अस्य आत्मनोऽनुपयोगात् न असौ तत्र उपयुज्यते इति यावत् । गुणकृताद्वा उपयुङ्क्ते स्वीकरोति । एवं सुखादिप्रतिसन्धौ तावत् न अस्य कोऽपि उपयोगः । न केवलं सुखादिभिरवेशेषितत्वात् संस्कारेण च असौ प्रतिसन्धाता यावत् संस्कारस्य यत् मूलमनुभवात्मकं तेनापि अस्य न कश्चित् विशेषः कृत इति कथमसौ स्मृतिं जनयेदित्याह निर्विशेषस्य च इति । अनेन स्मृतावव्यापृतेः इति वृत्तिग्रन्थं षष्ठ्यन्तमात्मनो विशेषणत्वेन हेतुतासमुच्चयगर्भं व्याचष्टे । असम्भीन्नत्वेन अनुपजातविशेषत्वात् प्रतिसन्धावात्मनोऽनु- पयोगः स्मृतावव्यापृतत्वात् च ।

——-शरीराद्यवसायिनी । (२ । २)

इत्यत्रत्य एव इह अर्थ इत्याशयेन तत् द्रष्ट्टवत् इत्यादिवृत्तिः टीकायां न व्याख्याता । तदयं सङ्क्षेपः-यत् कल्पितमपि यत्सिद्धये न सम्भवति, न तत् तत्सिद्धये प्रकल्प्यते खपुष्पमिव अङ्कुरसिद्धये; तथा च नित्यः कश्चिदात्मा स्मरणप्रतिसन्धिसिद्धये । इह हि कल्पनाया नियमवत्त्वं व्यापकम्, अन्यथा सा न विरमेत् । यदि च तदप्रभविष्णु तत्सिद्धये कल्प्यते, तत् व्यापकमस्या हीयेतेति तत्सिद्धये प्रकल्पनं तत्प्रभविष्णुविषयत्वेन व्याप्तं; तच्च व्यापकमिह न उपलभ्यते इति व्यापकानुपलब्धिः । तदाह

वर्षातपाभ्यां किं व्योम्नश्चर्मण्यस्ति तयोः फलम् । चर्मोपमश्चेत्सोऽनित्यः खतुल्यश्चेदसत्समः ॥

इति,

(पगे १३३)

यस्मिन्सति भवत्येव यत्ततोऽन्यस्य कल्पने । तद्धेतुत्वेन सर्वत्र हेतूनामनवस्थितिः ॥

इत्यादि ॥ ६ ॥

एवं धर्मी एव तावदात्मा नास्तीति कुत्र हेतूपन्यासैरैश्वर्यं प्रसाध्येतेति उक्त्वा ज्ञानक्रियायोगादिति यो हेतुरुक्तः, तत् निराकर्तुं ज्ञानमेव परस्य न उपपन्नं जडत्वेन अजडत्वेन वेति परस्य प्रसङ्गापादनं कर्तुं कारिकाद्वयं प्रसङ्गविपर्ययेण स्वमतलाभो यतः । तथाहि यया युक्त्या आत्मा नित्यः, तया ज्ञानमपि नित्यं कस्मात् ।

नित्यत्वे तस्य तदिति कथम् । ततो धर्मिहेतुस्वरूपयोरन्योन्यरूपविरोधेन आश्रयाश्रयिभावविरोधेन च सिद्धिरिति । तत्र प्रथममजडरूपत्वे ज्ञानं सिद्धान्तिनो न उपपद्यते इति यत् सूत्रेण उच्यते, तत् सङ्क्षेपेण अवतारयति आत्मनः इति । सूत्रे अनित्यम् इति प्राधान्यादुपात्तं धर्मान्तराण्यपि वैलक्षण्यकारीणि उपलक्षयतीत्याशयेन द्वित्वविकल्पेनेति सामान्येन आह ।

आत्मापि चित्स्वभावो ज्ञानमपि, ततो द्वित्वेन अन्यत्वेन नित्यत्वानित्यत्वलक्षणेन धर्मधर्मिभावेन च या कल्पना कृता, सा अनुपपन्ना, प्रमाणमूलत्वाभावात् न वस्तुसाधनीत्येतद्वस्तु आह

ज्ञानं च चित्स्वरूपं चेत्तदनित्यं किमात्मवत् । अथापि जडमेतस्य कथमर्थप्रकाशता ॥ ७ ॥

चकारः सिद्धान्तिनं प्रति अनुपपत्त्यन्तरं समुच्चिनोति । ज्ञानस्य यदि चिद्रूपता आत्मन इव स्वाभाविकी, तर्हि तत् किमनित्यम् । नैव अनित्यमात्मवदेव । चित्स्वभावत्वस्य स्वप्रकाशत्वलक्षणस्य हि विरुद्धं वेद्यरूपत्वं परप्रकाश्यतारूपं स्वातन्त्र्यपारतन्त्र्ययोर्विरोधात्, वेद्यत्वेन च व्याप्तो देशकालयोग इति व्यापकविरुद्धस्य स्वप्रकाशत्वस्य उपलब्ध्या ज्ञाने

(पगे १३४)

विरुद्धव्याप्तस्य देशकालयोगस्य निषेधः । देशकालयोग एव च अनित्यत्वम् ।

नियतं हि यत् भवति, नतु न भवति कथञ्चित्; तत् नित्यम् । यच्च क्वचित् भवति, कदाचिच्च भवति; तदन्यत्र अन्यदा च न भवत्यपीति न नियतम्भवम् ।

सकलदेशकालयोगेऽपि वस्तुतस्तदयोग एव । यदि हि तेन देशेन, तेन वा कालेन न अस्य स्वरूपमाविश्यते, तत् तत्रेति तदेति वा कुतः । आवृत इति चेत्, तेन य आ समन्तात् वृतः, तस्य कथमन्येन धारणम् । वृत्तो हि अवष्टब्धः, स कथमन्यावष्टम्भं सहेत; तत एव क एकोऽवयवी बहुषु अवयवेष्वित्यादि सर्वमनुपपन्नम् । एवं यदि चित्स्वरूपं ज्ञानं, तत् नित्यविभुरूपं तदपीति आत्मान्तरम् अदिति ज्ञानहेतुः स्वरूपासिद्धः । अथ जडं तत्, तर्हि अर्थं प्रति तस्य प्रकाशरूपता कथमिति सूत्रार्थः । ननु चिदिति ज्ञानमुच्यते, नच वैशेषिकादीनां तदात्मनः स्वं रूपम्, धर्मो हि तदस्य, तत् कथमुक्तम्-आत्मनश्चित्स्वरूपत्वे यथा नित्यत्वं, तथा ज्ञानस्यापि स्यादित्याशङ्क्य आह परप्रकाशत्वाभावात् इति । ज्ञानमिह नीलादिप्रकाश उच्यते । स आत्मनो मनःसंयोगादिकृतः कादाचित्को धर्मः ।

स स्वकारणाभावे यदा न भवति, तदा आत्मा नीलादिप्रकाशस्फुरितो न भवतीति सुषुप्तमूर्च्छाप्रलयापवर्गादौ स्वात्मना प्रकाशस्वभावोऽपि जड उच्यते । रूपं तु अस्य स्वप्रकाशमेव, न आकाशकालदिगादिजडरूप- व्यापकवर्गतुल्यमपवर्गस्य फलतोऽपुरुषार्थताप्रसङ्गात् शून्यवादिवत् ।

तत एव भासर्वज्ञाचार्यप्रभृतयो नैयायिका एवमेव अभ्युपजग्मुः नित्य- ज्ञानानन्दवत्त्वं न्यायभूषणे आत्मनः समर्थितम् । ततश्च आत्मा यथा प्रकाशस्वभावः किमनित्यः, न अनित्यः, अपितु नित्यः, तद्वत् नीलज्ञानमपि नीलप्रकाशस्वभावं किमनित्यम्, न अनित्यम्

(पगे १३५)

नित्यमेवेति उपपन्नो दृष्टान्तः । अथवा इति भवतु वैशेषिकाणामचित्- स्वभाव आत्मा, किमस्थाननिबन्धेन । आत्मवादिनो हि मया पर्यनुयोज्याः, अतोऽन्ये स्वप्रकाशात्मवादिन इह प्रसङ्गापादनेन निराकरिष्यन्त इति ।

दृष्टान्त इति वैधर्म्यग्रहणमत्र न प्रयुक्तं दृष्टान्तस्य सर्वस्य साधर्म्यप्राणत्वात् । आत्मवत् चित्स्वरूपं चेदिति वैधर्म्येण योजनेऽपि विषेध्येन हि नित्यत्वधर्मेण तुल्यता उच्यते अनित्यः शब्दः आकाशादिवदित्यनेन । तथाच वृत्तौ गुणीभूते निषेध्ये नास्य प्रयोग उपपन्नः । नहि भवति अनित्यः शब्दः कृतकत्वादाकाशवदिति, अपितु नित्यमकृतकमाकाशमिवेति; यदि वा यदनित्यं न भवति, तत्कृतकमपि न भवति आकाशवदिति; यदि वा अकृतकत्वादाकाशवत् नित्यः शब्दः इति । तत एव अयं व्यतिरेकभागे भवन् दृष्टान्तः साधर्म्येणैव भवति ।

इवार्थतुल्यार्थयोः सादृश्यमेव हि सर्वत्र परमार्थः । ततो न वैधर्म्ये तत्प्रयोगः, केवलं साधर्म्यस्य व्यतिरेकनिष्ठतामभिधातुं विशेष्य व्यपदिश्यते वैधर्म्यदृष्टान्तोऽयमिति । तस्मादिह एवं सूत्रे योजना ।

किंशब्देन काक्का निषेधोऽभिधीयते, आत्मवत् किमनित्यम्, आत्मवत् न अनित्यमिति यावत्; अथवा किमित्यनेन अनुपपत्तिप्रभावपर्यनुयोज्यधर्मत्वम- भिधीयते । तेन यथा आत्मा किमनित्यः, तथा ज्ञानमपि किमनित्यम्; उभयोरपि अनित्यताधर्मोऽनुपपद्यमानत्वेन पर्यनुयोगमात्रमिति । यदिवा असमस्त एव अकारो नञर्थः प्रसज्यप्रतिषेधेऽपिवा । अकर्तरि इत्यत्र कारकशब्दोपादानलिङ्गसमर्थितोऽसमर्थसमासः । ततश्च निषेध्येन तुल्यता-आत्मवत् नित्यं कस्मात् न भवतीति, चित्स्वरूपत्वेन तु स्पष्टा । एवं तत्र तत्र योजनायामवधातव्यम् । तथा च वृत्तिः आत्मन इव नित्यतादिप्रसङ्गः इति । जैमिनीयाः

(पगे १३६)

पुरुषं संविद्रूपमेव सुखाद्यवस्थाभिन्नं मन्यन्ते, साङ्ख्यास्तु स्वसंवेदनमात्ररूपमपरिणामिनम् । तत्र चिद्रूपांशे अचिद्रूपधर्मान्तरानुप्रवेशशून्यत्वात् देशकालात्मनापि धर्मेण न अनुप्रवेष्टुं युक्तमिति । तत आह तेषां हि इति । कापिलानां तावत् नित्य एव असौ । जैमिनीयानामपि चिद्रूपांशेन नित्यः, अवस्थांशेन तु अनित्योऽस्त्विति । एवं सङ्क्षेपेण श्लोकार्धं व्याख्याय वितत्य विकल्पपूर्वकतागर्भं व्याचष्टे चिदचित्त्वाभ्याम् इति । अभ्युपगतेऽपि आत्मनि यत् ज्ञानमङ्गीकृतं, तत् स्वप्रकाशं न वेति पक्षस्य द्वैतम्, द्वितैव द्वैतम् । तत्र इति द्वयोः पक्षयोर्मध्ये । साङ्ख्यदर्शने यथा चिदुपरागेण पुरुषप्रतिबिम्बेन प्रकाशता, तथा न इह, अपितु तं विना स्वत एवेति । एष यदि प्रथमः पक्षः, तर्हि व्यापित्वं देशेन अनवच्छेदः, नित्यत्वं कालेन, आदिग्रहणादेकत्वं स्वरूपेणेत्यादिर्य आत्मनः पुरुषस्य धर्मः; स ज्ञानस्यापि प्रसज्यते चो हेतौ । यस्मात् देशविशेषायोगेन व्यापित्वं, कालविशेषायोगेन च नित्यत्वम्, देशकालोपलक्षितस्वरूपविशेषायोगेन च अभिन्नत्वमिति आदिग्रहणात् ।

विशेषशब्दो वा पृथगेव स्वरूपविशेषवाची । ननु संविद्रूपस्य देशकालौ तावत् वेद्यौ भासनीयौ, तावेव सङ्कोचकौ भविष्यतः, तत्सङ्कोचाच्च स्वरूपसङ्कोचोऽपि भवेदित्याशङ्य आह नच बोधरूपेण इति । एतेन ज्ञातरि इव ज्ञानगुणेऽपि न सङ्कोच उपपद्यते न्यायस्य तुल्यत्वादिति दर्शयता चेत्यधर्मेत्यादिवृत्तिं गुणिगुणविषयतया व्याचक्षाणेन । एतदुक्तं भवति- बोधे तावत् निर्भासनं यदि चिद्रूपे दर्पणे इव विश्रान्तं प्रकाशते, तत् चिद्रूपस्य कः सङ्कोचः । अथापि वेद्यताबहिर्भूतं तदनालिङ्गदेव साक्षिमात्ररूपं संवेदनं बोध्यस्य बोध इत्युच्यते, तथापि कः सङ्कोचः ।

(पगे १३७)

परस्परस्वरूपमेलने हि यावन्योन्यमन्यथाभावं न सहेते-यथा शुक्लो गुणः पटस्य न कृष्णादितां, पटोऽपि न शुक्लस्य अन्याश्रयतां; तौ सङ्कोचकौ परस्परतः । आद्यो रूपभेदोऽपरोदेशभेदः । तत्रापि सिद्धत्वे गुणभेदः शुक्ल इति, साध्यत्वे कर्मभेदश्चलतीति । सिद्धत्वे व्यतिरिक्तत्वाव्यतिरिक्तत्वेतन्तुषु पट इति, साध्यत्वे व्यतिरिक्तत्वाव्यतिरिक्तत्वे गच्छतीति, असङ्कोच्यत्वे असङ्कोचकत्वं सामान्यम् । तच्च इदं वस्तु वा व्यावृत्तिकल्पितं वा समवायेन तादात्म्येन वेति किमिह अवान्तरेण । तत्रापि अव्यतिरिक्ततया भासमानं युदुक्तं सिद्धसाध्यरूपं, तदेव अत्यन्तव्यतिरिक्तमावेशेन भासमानम् । बाह्यौ देशकालौ गृहे चैत्रः, उदिते जुहोतीति । तस्मादावेशकृतः सङ्कोचः । आ समन्तात् प्रवेशो हि आवेशः ।

आवेशोऽपि तुल्यकक्ष्यत्वेन । यस्य हि येन समानकक्ष्यास्थानं, तत् तेन आविश्यते । भिन्नकक्ष्यो हि अनावेशात् न सङ्कोच्यते सङ्कोचकव्यापकनियम- विरुद्धानियमप्रसङ्गात् । नच पातालगहनेन द्यौः सङ्कोच्यते ।

संवेदनाच्च भिन्ना कक्ष्या देशकालयोर्बोध्ययोः । कक्ष्या हि प्रकाशस्थानम् । देशकालौ बहिः प्रकाशेते अयं घटस्य देशो वा कालो वेति इदन्तया प्रकाशे बहिर्भावविमर्शात्मतया व्यतिरिक्तप्रकाशपारतन्त्र्य- रूपया निर्भासमानत्वात् । प्रकाशस्तु स्वाव्यतिरेकेण अहमिति स्वातन्त्र्येण भातीति । यत् येन भिन्नकक्ष्यं, न तत् तस्य सङ्कोचक पातालमिव दिवः । तथा बोधेन देशकालादीति सङ्कोचकत्वव्यापकाभिन्नकक्ष्यत्वविरुद्धोपलब्धिः ।

बोधादहन्ताप्रकाशमानात् भिन्ना कक्ष्या देशकालयोरिदन्तया प्रकाशमानत्वात् । बोधात् यदि अभिन्ना तयोः कक्ष्या स्यात्, इदन्ताप्रकाशमानत्वविरुद्धमहन्ताप्रकाशमानं स्यादिति व्याप्तिसिद्धौ स्वभावहेतुः । तदेतदाह न च इति । बोधस्य यदबहिः

(पगे १३८)

इति बोधरूपादव्यतिरिक्तं सुखप्रधानं रूपं स्वसंवेदनलक्षणं तत्र देशकालयोर्न प्रकाशो व्यतिरेकेण बोधात् बहिस्तयोः प्रकाशनात् बहिर्मुखेन बोधेन । ननु एवं देशकालौ कस्य सङ्कोचकौ भवताम् । आह इह घट इति । चो हेतौ । यस्मात् इहेति वैयधिकरण्येन देशसङ्कोचः । स इति पूर्वानुभूते स्मर्यमाणे भावशरीरानुप्रवेशेन व्यामिश्रीभूतदेश- कालावेशः । तदेति वैयधिकरण्येन कालविशेषयोगः इति । एवमत्र सर्वत्र । तत्र इदन्तात्मिकया इदन्तया व्यतिरिक्तविमृश्यमानतया निश्चीयमानौ देशकालौ घट इत्येवं व्यतिरिक्तनिश्चयस्यैव तुल्यकक्ष्यस्य भेदाय स्वरूपसङ्कोच- नाय पर्याप्तौ । तस्मात् न स्वसंवेदने तयोः प्रकाशः । तेन बोधस्य न तौ तुल्यकक्ष्याविति सङ्गतिः । स्वभाव एव स्वाभाव्यम् । यदि वा स्वभावस्यापि बहिर्मुखतायां बहीरूपविषयगतदेशकालसङ्कोचापत्तिर्विषयोपाधिकृतेति कस्यापि शङ्का स्यात्, यथा वक्ष्यते

केवलं भिन्नसंवेद्यदेशकालानुरोधतः ।

ज्ञानस्मृत्यवसायादि सक्रमं प्रतिभासते ॥ (१ । ५२)

इति, तामापहर्तुं स्वभावस्य भाव इति अन्यरूपासहिष्णुताभिधानाय भावप्रत्ययः । ननु किमुपचरितं बोधरुपत्वमस्ति येन तच्छङ्काशमनाय चिच्छब्देन अनुपचरितबोधे पुंसि

चितिशक्तिरपरिणामिनी । (यो। द।-१ । २ भा।)

इत्यादिस्थानेषु प्रसिद्धेन ज्ञानेन व्यवहारः कृत इत्याशङ्क्य आह साङ्ख्यानां हि इति । प्रधानस्य यः प्रथमो विकारो महानिति, तस्य कारणस्कन्धादन्यो यो बुद्धिशब्दवाच्यः करणस्कन्धः, स प्रधानविकारत्वात् जडोऽपि चिदात्मकपुरुषप्रतिबिम्बयोगात् चेतनवत् भासमान उपचरितबोधस्वभावोऽस्त्येव पारमर्षदर्शने

(पगे १३९)

यत एव, तस्मादुपचारशङ्काशमनं कर्तव्यमेव । ननु उपचरितबोधरू- पमेव तर्हि ज्ञानं भविष्यति, यत्र नित्यता स्यात्, स धर्मप्रसङ्गदोषो न भवतीत्याशङ्क्य आह तादृशी च इति समनन्तरसूत्र एव । ननु चित्तत्त्वरूपस्य आत्मनोऽपि देशादियोगो भात्येव, तत् कथं तद्दृष्टान्तेन तदयोगप्रसङ्गात् ज्ञानगुणस्य नित्यतादिप्रसञ्जनम् । तथाहि यथा इह घटः, इदानीं घट इति प्रतीतिः; तथा इह जानामि, इदानीं जानामि; तत्र अज्ञानमत्र ज्ञातास्मीति अस्ति प्रतिपत्तिः । सत्यम्, सा तु शरीरादिनिष्ठा शरीरादावेकसामग्र्यधीनतादिना ज्ञानसम्बन्धाध्यवसायेन तदुपाधिवशेन ज्ञातरि प्रतिभाति । तेन चित्तत्त्वस्य यत् तत्त्वमनुपचरितं स्वसंवेदनप्रकाशरूपमन्तर्मुखम्, तत्र न दिशा देशरूपया कालेन वा अवच्छेदः सम्भवति पूर्वोक्तयुक्त्या तत्त्वे तत्त्वतः । युक्त्यन्तरमपि आह बोधैकात्मनः इति । दिक्कालौ हि अव्यतिरिक्तविशेषाभिधानेन किञ्चित्करावेव विशेषणं भवतः, न अकिञ्चित्करावतिप्रसङ्गात् । तथाहि देशवशात् लोहवस्त्रादीनां विशेषः कालवशाच्च भुजगविषादीनां दृष्ट एव ।

चिद्रूपे तु प्रकाश एव एकं रूपं, ततोऽधिकं तु अप्रकाशत्वरूपत्वेन चिद्रूपे कथं मिश्रीभवेत् । तत् हि वेद्यत्वमेव स्पृशत् ततो बहिर्भावमेव अवलम्बते । ननु नीलेऽपि विशेषो नीलत्वाधिकत्वेन अनीलरूपः कथं समाविशेत् । उच्यते । सिद्धान्तिदर्शने तावदनन्त आभासवर्गो नियतिशक्त्या मिश्रीभूतः सन् पदार्थेऽर्थक्रियाकारी, तस्य रुचितेन अंशेन व्यपदेशो भवति । सौगतमतेऽपि निरंशस्वभावोऽपि ततस्ततो व्यावृत्तः पदार्थात्मा कारणसामग्रीजन्यं रूपभेदं व्यावृत्तिभेदैरध्यवसीयमानं सहते एव । ज्ञानं तु स्वप्रकाशं विषयस्य च प्रकाशरूपम् । तदस्य व्यावृत्ति-

(पगे १४०)

स्वीकारिणापि विकल्पेन यः कश्चित् तद्देशत्वतत्कालत्वादिरूपो विशेषोऽध्यव- सीयते, सोऽप्रकाशरूपेदम्भागनिवेशित्वात् बोधबहिर्भावमेव प्रतिपद्यते ।

ननु यथा धूसरनीलम्, भास्वरनीलम्, अत्र नीलम्, अधुना नीलम्,- इत्येवंस्वरूपदेशकालविशिष्टानि भिन्नानि नीलानि, तथा बोधा अपि भविष्यन्ति; नच अन्यस्तेभ्योऽस्ति बोद्धेति कथमात्मन इवेति वृत्तावुक्तम् । न तुल्यमेतत् यतो नीलं नाम उक्तरूपं विशेषपरिहारेण न किञ्चिदुक्तचरमिति तथाभूतान्येव तानि नीलानि नामेति युक्तम् । तत आह बोध्यत्वानेकवैचित्र्यसहत्वात् इति । बोधः पुनः सुप्तसमाधानादिषु वेद्येभ्यो नीलसुखादिभ्यो देशकालेभ्यश्च तदनुरञ्जकेभ्यो निर्मुक्त एव प्रकाशमात्रपरमार्थोऽन्तर्मुखात्मना भाति, तदेव अस्य पारमार्थिकं रूपमिति अधिकं ततो बहिर्भूतमेव । यत् यस्य निजं रूपं, तत् तेनैव सततं भाति तरुरिवशाखादिमद्विशेषात्मना । न च देशकालादिविशेषैः सदा बोधो भातीति । सदा तथानाभासेऽपि यदि निजं रूपमिति स्यात्, कदाचित् पटसाहित्येन घटो भात इति पटोऽपि अस्य रूपं स्यादिति अनियम उपप्लवेत ।

नियमश्च व्यापको दृष्ट इति व्यापकविरुद्धोपलब्धिप्रसङ्गात् विपक्षमुज्झित्वा वर्तमाननिजरूपत्वे सतततया भासमानत्वेन व्याप्यते इति व्यापकानुपलब्धिः । यो यद्विशेषरूपः, स तदन्यतमनिर्मुक्तो न भवति तरुरिव धवादिनिर्मुक्तः । नच भवति विशेषनिर्मुक्तो बोधः समाधानसुषुप्तमूर्च्छादाविति न नीलबोधादिविशेषरूप इत्यपि व्यापकानुपलब्धिरेव । भवति च विशेषनिर्मुक्तो बोध इति तु प्रयोगे व्यापकविरुद्धोपलब्धिः । प्रयोगभेदकृत एव हि आसां भेदः । वस्तुतस्तु एकमेवेति सिद्धं नास्ति बोधविशेषस्पर्श इति । तदेतदुक्तं बोधैकात्मनः

(पगे १४१)

इति विशेषानुपरक्तशुद्धबोधमात्रत्वेन भातस्येत्यर्थः । तथा च नरेश्वरविवेकः

नहि यथा गोत्वं शावलेयादिविशेषरूपमेव, तथा नीलपीतादिविशेषमयमेव तत् ।

इति । उपपत्त्यन्तरमपि अत्र समुच्चिनोति आभाससारत्वेन च इति । आभासनमा ईषत् सङ्कोचेन भासनं प्रकाशना सारं तत्त्वं परमार्थो देशक्रमस्य कालक्रमस्य च । एतदुक्तं भवति-क्रमरूपेण देशकालौ भेदकौ भवतः ।

देशभेदो हि गन्तरि स्फुटो भवति गतेः । एकदेशसम्बन्धस्तु एकदेश इति तद्वासनया तिष्ठत्यपि देशभेदः क्रमोल्लेखपरमार्थ एव । कालभेदस्तु क्रमात्मैव भाति । क्रमप्रत्ययसारो हि असौ । तथाहि परोऽयमस्मात् यूनो वृद्धः, अपरोऽयमस्मात् वृद्धात् युवा,-इति जन्मनः क्रमवत्ता तद्वशाच्च अस्तित्वप्रभृतेर्भावविकारस्य निर्भासते । यौगपद्येऽपि क्रम एव परमार्थः । अन्यापेक्षया हि यः क्रमस्तस्य तुल्यताभासेन युगपदिमौ जाताविति प्रत्ययो भविष्यत्क्रमयोग्यतावशेन यौगपद्ये कालप्रत्ययो न परमार्थतः कालभेदोऽसौ तयोरित्यन्ये । चिरक्षिप्रप्रत्ययावपि क्रमस्य भूयसोऽल्पस्य च अनुसन्धिबलात् भवत इति क्रमपरमार्थौ दिक्कालौ । इहास्ति, इह न, तदानीं नासीत्, इदानीमस्तीत्येवंरूपश्च क्रमः । अस्तित्वनास्तित्वयोश्च व्यवहारे भात्ययं, न भात्येव अयमिति निमित्तम् । तद्भासनमभासनेन सान्तरव्यन्तरं सत् क्रमस्य उत्थापकं विचित्रस्य । आभासनैकपरमार्थे तु चिद्रूपे ईषदर्थस्य अनाभासनभागस्य अभावात् निराभासे आभासनात् निष्क्रान्ते प्रकाशैकरूपे कथं क्रमयोगः । अत एव काणादैरपि कारणे कालाख्येति (वै। द। २ । २ । ९) इति वदद्भिः कार्येष्वेव कालभेद इति दर्शितं भवति । परमाणूनां तु

(पगे १४२)

कालेन संयोगमात्रं वस्तुबलात्, न कालभेदः । कालेन असंयोगेऽपि च आकाशादेर्घटाद्यपेक्षया यः कालभेदः कविं पुराणम् इति व्यवहारकाले, स घटादिकार्यनिष्ठ एव वस्तुत इति निराभासे अकार्यरूपे तावदात्मनि न देशकालभेदः । ततो न चिद्रूपे देशकालक्रमश्चिदेक- रूपत्वादिति कारणविरुद्धोपलब्धिः । देशकालक्रमस्य कारणं प्रकाशनाप्रकाशनरूपत्वं, तद्विरुद्धं प्रकाशैकरूपत्वमिति ।

एवामात्मनो नित्यत्वं विभुत्वं च उपपादितं कालदेशायोगात् ।

देशकालभेदोऽपि भावापेक्षया चिद्रूपस्य, न भावाभासे चिदनवभासाभावात् । तदनवभासो हि घटपटयोरिव देशकालभेदस्य व्यापक इह न उपलभ्यते । चिद्रूपस्य च स्वरूपेण भेदे तदपेक्षयापि नासौ घटस्य इव स्वापेक्षया । तत एव भेदेऽन्योन्याश्रयमिति स्वरूपाभेदमपि उक्तोपपत्त्युपजीवनेन आह अत एव इति । यत एव देशकालाभेद उक्तो देशकालाधेयविशेषास्पर्शात् निराभासत्वादिति हेतोः, तत एव आत्मनां बहुत्वं चैत्रमैत्रादिषु स्वरूपेण भेदः कथं स्वाभाविकः । स्वभावे हि भिन्ने स्वाभाविकः स्यात् । चिदेव तु यत्र रूपं, तत्र कोऽन्यः स्वभावांशोऽस्ति, यो भिद्येत । तेन देशतः कालतः स्वरूपतश्च आत्मनस्तावत् न कश्चिद्भेदः । अत्र च सर्वत्र चिद्रूपत्वं कारणम् । तच्च अविकलं ज्ञानगुणेऽपीति तेनापि नित्येन व्यापकेन एकेन च भवितुं युक्तमिति ।

तत्र नित्यत्वव्यापित्वे परेण आत्मनोऽङ्गीकृते, एकत्वमपि सर्वत्र श्रुत्यन्तविद्भिः; येनापि नोपगतं साङ्ख्यादिना, सोऽपि उपपत्त्या उपगमयितव्यः । एतच्च सर्वं ज्ञानेऽपि प्रसज्यते इति प्रसङ्गे एव आपादयितव्ये ग्रन्थकारेण दृढोपपत्तिः पूर्वपक्षवादिमुखेनैव निरूपिता पृथग्भूतो ज्ञानात्मा गुणो हि न सिद्धान्ते अङ्गीकरिष्यते तत्किमस्य प्रसङ्गः

(पगे १४३)

करिष्यतीत्यभिप्रायेण । तदीयो हि प्रसङ्गोऽयं साङ्ख्यादीन् दूषयतु नाम, अस्मत्सिद्धान्ते तु न किञ्चित् दुष्यतीति । पूर्वपक्षवादी च इयति दूरे प्रसङ्गविपर्ययलाभाशया अधिरूढः । तथाहि अयं प्रसङ्गविपर्ययः- नच चिद्रूपमपि ज्ञानं नित्यव्यापकाद्वैतरूपमुपगतं भवता, तदात्मापि चिद्रूपः कथमेवं भवेत् । तथा चिद्रूपत्वेन अविशिष्टत्वे देशकालभेदवत् स्वभावभेदोऽपि कथमात्मनां येन बहुत्वं स्यात् । अथ चिद्रूपत्वेऽपि बहुत्वमभ्युपगम्यते नानाव्यवस्थात इति

जननमरणकरणानां प्रतिनियमात् । (सा। का। १८)

इति, तर्हि देशकालभेदोऽपि भवेदिति । एवं प्रथमश्लोकार्धं व्याख्यातं, द्वितीयं व्याचष्टे अथैतत् इति । एतेषां नित्यत्वव्यापित्वाद्वैतानां यः प्रसङ्गो बलादेव आपतितः, स एव दोषः स्वपक्षोपमर्दनात् ततो भीरुणा आत्मवादिना जडैकरूपं यदि ज्ञानमङ्गीक्रियते; तदा नीलं यथा न पीतस्य प्रकाशनरूपं भवति, तथा ज्ञानमपि न स्यात् । ननु जडोऽपि प्रकाशो भवति आदित्याग्न्यादिरित्याशङ्क्य आह प्रकाशश्च बोधः इति । ननु आलोकप्राय एव निर्मलसत्त्वप्रभारूपो बोधो भविष्यतीत्याशङ्क्य आह तथात्वे इति आलोकादित्वे दीपसूर्यरत्नप्रभादिमध्यप्रवेश इत्यर्थः ।

पुनरपि इति । सत्यपि आलोके प्रमातरि अविद्यमाने न अर्थो भाति, सत्यपितु प्रमातरि प्रदीपकल्पे तज्ज्ञानेन भासेतैव अर्थः । प्रदीपशतप्रज्वालनेऽपि न भात एव योऽर्थः, स ज्ञाने तादृश्येव कस्मात् भासते । यो यथाजाती- यसन्निधाने यथा न भवति, स तथा भवन् तद्विलक्षणजातीयसन्निधिम- वद्योतयति यथा शीतलजलहिमवायुसन्निधावपि घटोऽरक्तत्वेन अनुभूतो रक्तो भवन्नुष्णवह्निसन्निधिम् । जडजातीयसन्निधौ च भावो दृश्यमा- नत्वाध्यवसीयमानत्वव्यवहार्यतारूपं विशेषमप्रतिलब्धं

(पगे १४४)

कदाचन प्रतिलभमानोऽजडजातीयसन्निधिमवद्योतयति ।

विपर्ययेनिर्निमित्तत्वप्रसङ्गात् बाधकात् व्याप्तिसिद्धौ स्वभावहेतुः । संविदि अनुभवनिश्चयरूपायां निष्ठा अन्यानपेक्षिणी विश्रान्तिर्यासां ता विषयाणा नीलादीनां व्यवस्थितयो विविधेन असङ्कीर्णेन आत्मना अवस्थानानि, ता व्यवस्थितीः कथमचेतनोऽर्थो नीलादिप्रायः प्रयुञ्जित व्यवस्थापयेत् व्यवस्थितीरिति—-प्रधानं व्यवस्थितीः सम्पादयेदित्यर्थः ।

सामान्यविशेषभावेन वा निर्देशो हतशायिकाः शाययति मद्यमद इति यथा । यदिवा विचित्राणि यानि अवस्थानानि नीलं पीतमिति, तानि व्यवस्थापयति नियमयति-नीलमेवेदम्, इदमेव नीलमिति । तदचेतनस्य अप्रकाशरूपस्य कथं सम्भाव्यते एव । तदेव हि प्रकाशनस्य रूपम् । उत्तरकारिकायाम् इति

——जाड्ये नार्थप्रकाशता ।

इति साङ्ख्यं चिदचिद्रूपबुद्धिवादिनमपि प्रति यत् वक्ष्यते, तत्र

द्वयमत्यन्तविरुद्धमेकस्य न पारमार्थिकं रूपम् ।

इति नयेन यदि जडमस्या वास्तवं वपुः, तत् कथमर्थस्य प्रकाशनरूपा असाविति व्यवस्था । अभावदोषो य इह उक्तो वाद्यन्तराणि अभ्युपगमितजडज्ञानरूपाणि प्रत्याययितुम्, स तत्रापि योजनीयः । एतत् पूर्वपक्षवादी सर्वं पूर्वोक्तं निगमयति तत् इति यदेतदुक्तं तस्मात् हेतुकलापात् । उभयथापि इति चिद्रूपत्वेन अचिद्रूपत्वेन च व्यतिरिक्तस्य आत्मनो व्यतिरिक्तो धर्मो ज्ञानाख्यो न युज्यते । चिद्रूपत्वे नित्यव्यापकस्वभावस्य न तादृशेन कश्चित् संयोगोऽपि परेण अभ्युपगतः, किमङ्ग धर्मधर्मिभावः । चिद्रूपस्यैव च विषयव्यवस्थास्थानत्वे किमन्येन चिद्रूपेण अचिद्रूपेण वा धर्मेण परिकल्पितेनेति ज्ञानक्रियायोगात् इत्यत्र हेतौ

(पगे १४५)

ज्ञानयोगादित्ययमंशो ज्ञानस्य स्वरूपेण असम्भवात् तत्सम्बन्धस्य च अत्यन्तासिद्धेरपि स्वरूपविपरीतसाधनत्वात् विरुद्धस्तद्द्वारेण च धर्मिस्वरूपबाधनादाश्रयासिद्ध इति ॥ ७ ॥

चिद्रूपमचिद्रूपं वा ज्ञानं मा भूदुक्तदोषात्, चिदचिद्रूपं तु भविष्यतीत्याशङ्क्यमानमात्मवादिपक्षं पूर्वपक्षवादी दूषणाय सूत्रेण आह

अथार्थस्य यथा रूपं धत्ते बुद्धिस्तथात्मनः । चैतन्यमजडा सैवं जाड्ये नार्थप्रकाशता ॥ ८ ॥

अस्य अर्थं सङ्क्षेपेण टीकाकारो व्याचष्टे साङ्ख्योऽयमपि इति । सम्यक् ख्यातिः प्रकृतिपुरुषयोर्विवेकेन, सङ्ख्यानं च परिगणनं तत्त्वभेदानां सङ्ख्या; तदधिकृत्य कृतो ग्रन्थः साङ्ख्यः । तत्र बुद्धितत्त्वस्य वृत्तिर्ज्ञानमुक्तम् । वर्तनं वृत्तिः परिणामविशेषः ।

पूर्वरूपं हि तिरोदधत् कश्चित् परिणामः काष्ठभस्मवत्, स कार्यपरिणाम उच्यते; यस्तु अतिरोदधत्, स धर्मपरिणामो यः सिद्धाकारतया भाति सुवर्णस्येव कुण्डलता; यस्तु अतिरोदधत् साध्याकारत्वेन गच्छति बुध्यते इति यथा, स वृत्तिपरिणामः । तथाहि वर्तनं तस्येव तथेति वृत्तिरूच्यते । पूर्ववदेव इति चिद्भागद्वारेण नित्यतादिदूषणम्, जडभागदिशा विषयव्यवस्थानायोगः इति । अथ इति परसम्भावनां द्योतयति । बुद्धिः कर्त्री अर्थस्य नीलादेः सम्बन्धि रूपं प्रतिबिम्बात्मकं येन प्रकारेण स्वच्छतात्मना सत्त्वातिशयकृतेन धत्ते धारयति, तेनैव स्वच्छताप्रकारेण आत्मनः पुरुषस्य सम्बन्धि चैतन्यं प्रतिबिम्बात्मना धत्ते अन्तर्बहिश्च सर्वतः स्वच्छत्वादिति साङ्ख्योक्तिः सम्भाव्यते । त्रापि दूषणमाह एव चैतन्यप्रतिबिम्बेन संविद्रूपा जाता प्रकाशप्रतिबिम्बेन इव जलं प्रकाशरूपम् । एवं बुद्धिवृत्तिश्चिद्रूपज्ञानात्मिका । ततश्च पूर्वोक्तो नित्यत्वव्यापित्वादिदोषः,

(पगे १४६)

साङ्ख्यदर्शनोचितदोषान्तरयोगश्चेत्याशयशेषः सूत्रान्तरकरणे । अथ तत्प्रतिबिम्बेऽपि न तद्रूपापत्तिरग्निप्रतिबिम्बेऽपि दर्पणस्य दाहकत्वादृष्टेः ।

तर्हि सा बुद्धिरर्थचित्प्रतिबिम्बद्वयग्रहणेऽपि जडैव, तत् स एव दोषः- विषयव्यवस्था ततः कथमिति सूत्रार्थः । सूत्रे अर्थस्य इत्यादिना चैतन्यम् इत्यन्तेन यदुक्तम्, तत् ज्ञानस्य स्वरूपमिति । प्रकरणेन च अर्थबलेन लब्धं वृत्तौ स्पष्टयति ज्ञानं बुद्धिः इति । ननु वैशेषिकादयोऽपि बुद्धिरुपलब्धिर्ज्ञानम् इति अनर्थान्तरं मन्यन्ते, तत् कोऽस्य वादस्य पूर्ववादात् विशेषः, संवित्स्वभावे एव आत्मनि उपगते किमन्येन ज्ञानेन अभ्युपगतेन, बुद्धिधर्मे वा ज्ञाने किमन्येन आत्मना कृत्यमित्याशङ्क्य आह साङ्ख्यस्य इति । वैशेषिकादिदृशि तत् ज्ञानमात्मनो धर्मः, इह तु न तथेति भेदः इति एका शङ्का निरस्ता; शुद्धस्वभावसंवित् न अर्थप्रकाश इति द्वितीया; जडप्रधानविकारबुद्धिस्वभावत्वात् जडं ज्ञानं न स्वतःप्रकाशरूपमिति तृतीयेति तात्पर्यार्थः । अहङ्कारवशादात्मत्वेन उपचर्यमाणाया बुद्धेर्निरासार्थं तत्त्वपदम् । मात्रग्रहणेन तस्य धर्मान्तरयोगं निराकरोति-तथाहि धर्मा उद्यन्तोऽपयन्तश्च धर्मिणोऽपि कथञ्चित् तादात्म्यात् परिणामानित्यतामायान्ति । ततस्तदभावे परमार्थतो नित्य आत्मा स्वसंवेदनशक्तिलक्षणः । ननु सौगतेऽपि संवेदनलक्षण आत्मेत्याशङ्क्य आह——ततोऽपि अस्य दर्शनस्य भेदमाह अन्तर्मुखम् इति ।

स्वप्रकाशमात्ररूपमेव आत्मतत्त्वं साङ्ख्यानाम्, सौगतानां तु स्वप्रकाशत्वेन अन्तर्मुखं, बाह्यनीलादिप्रकाशत्वेन च बहिर्मुखम् । नच एकस्य अन्तर्बहिर्मुखता उपपन्ना स्वपरयोरैक्यापत्तिप्रसङ्गात् । नच सा युज्यते बाह्यस्य अर्थस्य ग्राहकात्

(पगे १४७)

विच्छेदेन अवभासादिति ग्राहकोऽन्तर्मुख एव । अत एव बाह्यत्वग्राह्यत्वायोगात् न तेन तुल्यकक्ष्यतया परं किञ्चन चकास्ति ।

तुल्यकक्ष्यताप्रतिभासकृतश्च गुणभावप्रधानभावाभ्यां धर्मधर्मिभावविशेषणविशेष्यभावोपधानोपधेयभावादिव्यवहारः । तथाच पटोऽयं शुक्ल इति पटाभासशुक्लाभासयोर्बहिर्भूमौ तुल्येदन्ताग्राह्यभावेन स्थितयोः पटाभासोपरक्तः शुक्लाभासो विपर्ययो वा भवतीति युज्यते । तेन अत्र गुणभूतो विशेषणमन्योपधेयरूपत्वादन्यत् स्वरूपव्यतिरिक्तमुपधेयं स्वात्मना अनुरञ्जनीयं रूपं विशिष्टलक्षणं येनेति, प्रधानभूतस्तु विशेष्योऽन्येन उपधेयं विशेषणेन उपरञ्जनीयं रूपमस्येति । एवं च विशेषणविशेष्यभाव- मुखेन यो व्यवहारः, स आत्मनि न उपपद्यते इति न असौ कस्यचित् धर्मः, नापि तस्य कश्चित् धर्म इति ज्ञानं नाम यद्यपि बुद्धिरूपं; तथापि न आत्मनो धर्म इति नैयायिकादितो भेदः । ननु एवं स एव पुरुषोऽस्तु, किमन्येन ज्ञानेनेति शङ्कित्वा आह ज्ञानं पुनर् इति । स हि शुद्धः प्रकाशस्तेनैव वपुषा यदि अर्थानां प्रकाशः स्यात्, तत् तस्य रूपस्य तृणमात्रेणापि अनूनाधिकरूपत्वात् सदा सर्वस्य अवभासनं कस्यचित् वा कदाचिदपि अनवभासनं भवेदिति सर्वज्ञमज्ञं वा जगद्भवेत् । तस्मात् घटसंवेदनमिति घटाभासोदये, पटसंवेदनमिति तदाभासप्रक्षये पटाभासोदये च भवति । नच घटपटाभाससम्भेदं चिन्मात्ररूपं पुरुषः सहते । नच संवेदनं विषयस्य स्वरूपं जडाजडयो रूपयोर्विरोधात् पूर्ववत् सार्वज्ञ्याज्ञताप्रसङ्गाच्च । तदिदं विषयः प्रकाशते इति यत् प्रकाशनं, न तत् पुरुषः, नापि तत् नीलादीति पुरुषस्य प्रकाशरूपस्य च्छायेयमिति आयातम् । नच संवेदनं साक्षादेव विषये च्छायामर्पयति अन्धाद्यभावप्रसङ्गात्, नापि इन्द्रियेषु झटित्येव

(पगे १४८)

सर्वत्र निश्चयप्रसङ्गेन आलोचनासम्भवापत्तेर्य एव पश्यामि, स एव शृणोमीत्याद्यनुसन्धानाभावप्रसङ्गात् बाह्येन्द्रियाव्यापारस्वप्नसं- कल्पस्मरणाद्यनुदयप्रसङ्गाच्च । तत् क्वचन वस्त्वन्तरे अस्य पुरुषस्य च्छाया सङ्क्रामति । नच अस्मिन्नगृहीतविषयप्रतिबिम्बे पुनरपि विषयस्य अप्रकाशत्वापत्तेरिति यदेव तत् वस्त्वन्तरं चैतन्यविषयात्मकोभयच्छाया- ग्रहणसमर्थं तत एव सत्त्वप्रधानं बुद्धिशब्दवाच्यमनुसन्धान- कारित्वादेकं, तस्य जानामीत्येवम्भूता जिघृक्षाप्रयत्नोपक्रमा विषयालोचनशरीरा निश्चिनोमीत्यवसाना पूर्वापरीभूता तावद्विषयाध्य- वसायफलैक्येन एका तद्धर्मिपरामर्शमतिरोदधती क्रियात्मा विशिष्टा परिणामपरम्परा ज्ञानाख्या-वृत्तिर्वर्तनं तथावस्थानमुच्यते ।

काष्ठस्य हि भस्म न वृत्तिः काष्ठपरामर्शस्य तिरोधानात् । नापि एक एव क्षणो वृत्तिः, तत्र हि अयमित्थं वर्तते इति को विभागः । तदनेक एव क्षणो धर्मिपरामर्शमतिरोदधत् फलबलेन कल्पितविचित्रमर्यादः क्रियात्मा परिणामो वृत्तिश्चैत्रो गच्छतीतिवत् । सा च वृत्तिर्विषयस्य अध्यवसाये पर्यवसि- तरूपा पुरुषच्छायाबलेन प्रकाशरूपतामुपगता ज्ञानमुच्यते इति पिण्डार्थः । तदेतदाह ज्ञानं पुनर् इत्यादिना । पुनः शब्दः पुरुषात् विशेषद्योतकः । सततम् इति प्रवहद्रूपेण अनवच्छिन्नम् । निद्रादावपि हि प्रत्ययरूपत्वमिच्छन्ति गुरवः पतञ्जलिप्रभृतयः प्रबोधे प्रत्यवमर्शात् सुखमस्वाप्समित्यादेः प्रत्ययविशेष एव निद्रेत्यादि निरूपयन्तः ।

पूर्वदेशकालादियोगेन स्मर्यमाणतया वर्तमानदेशकालादियोगेन अनुभूयमानतया तद्द्वययोगेन प्रत्यभिज्ञायमानतया वर्तमानभविष्यद्योगेन सम्भाव्यमानतया भूतस्य वर्तमानस्य वा भविष्यद्योगेन यदिवा केवलभविष्यद्योगेन उत्प्रेक्ष्यमाणतया तत्रापि स्फुटास्फुटादितया आभासान्तरसाचिव्येन प्रमात्रन्तरादि-

(पगे १४९)

साहित्येन चेत्यादिना वैचित्र्यसहस्रसम्भेदनविचित्रा ये आभासाः, अत एव गुणवाचिना तच्छब्देन प्रकारयोगात् द्विरूक्तेन कर्मधारयेण वा तत्तच्छब्देन व्यपदिष्टा घटपटादीनां बाह्यानां सम्बन्धिन आभासभेदाः प्रतिबिम्बविशेषाः, तेषामुदयलयौ व्यक्तिविलयौ नित्यं विद्येते यस्मिन्, अत एव अन्यः इति बुद्धितत्त्वात् व्यतिरिक्तो बाह्य इति चित्तत्त्वादन्यो यो विषयो नीलादिः तत्र या अन्तर्मुखता तदन्वयव्यतिरेकानुविधानम्, ततो हेतोर्यदायत्तं ज्ञानं, तच्च न चितो, नापि अर्थस्य, किं तर्हि बुद्धितत्त्वस्य पश्यामि, जानामि, निश्चिनोमीत्येवम्भूतः पूर्वापरीभूतावयवो यो व्यापारः क्रिया तत्स्वभावत्वेन हेतुना वृत्तिर्वर्तनमित्यनया भाषया साङ्ख्ये दर्शितं

वृत्तयः पञ्चतय्यः । प्रमाणविपर्यय । (यो। सू। १ । ६) इति,

स्वालक्षण्यं वृत्तिस्त्रयस्य । (२९ का।)

इत्यादिषु स्थानेषु । ननु तदनुसारेण इह तेनापि वृत्तिग्रन्थेन भाव्यमिति बुद्धिर्ज्ञानम् इति कथं सामानाधिकरण्येन निर्देशः । अत्र आह केवलम् इति । बुद्धेर्वृत्तिर्बोधनं संवेदनं दर्शनमिति हि प्रत्यासत्त्या समाकृष्टायाः शब्दान्तरसन्निधानाच्च दुर्बलाया अपि अवयवप्रसिद्धेः शब्दान्तर्लीनैव क्रिया भासेत; ततश्च अजडसंवेदनात्मकं तत् ज्ञानमित्याशङ्केत । सामानाधिकरण्ये तु बुद्धिशब्दस्य

अवयवप्रसिद्धेः समुदायप्रसिद्धिर्बलीयसी ।

इति अबाधितेन न्यायेन त्यक्तावयवस्य सामान्यप्रसिद्धौ जडरूपार्थाभि- धायिनः समानाधिकरणं ज्ञानं जडरूपमुक्तं भवतीति ।

वृत्तिवृत्तिमतोश्च किं काणादवत् समवाय इत्यपि शङ्का सामानाधि-

(पगे १५०)

करण्येन अव्यतिरेकपर्यवसायिना निराकृता भवति । सामानाधिकरण्यं च समुदायप्रसिद्धिमुपोद्बलयत् बोधताशङ्कां पराकरोति यथा, तद्वदव्यतिरेकमपि प्रतिपादयेदित्याह अत एव च इति । अभेदो यः प्रतिपादितः, ततोऽवश्यमतो बोधताशङ्का शाम्यतीति एवकारः, समुदायप्रसिद्ध्या चेतिचकारः । वृत्तितद्वतोरभेदं प्रतिपादयता सामानाधिकरण्येन बोधताशङ्का निरस्तेति तु व्याख्यानमुत्तानदृशां मतम् । ननु पूर्वापरीभूतानां क्षणानां फलमेकमवलोक्य वृत्त्येकत्वमर्यादा कल्प्यते ग्रामप्राप्तिफलेन गमनमर्यादादृष्टेः, इह तु ज्ञानरूपायाः क्रियायाः किं फलम् । आह तस्याश्च इति । चः पूर्वपक्षाशङ्कां सूचयति ।

तस्या यः सत्त्वाख्यो भार्गोऽशः, सोऽधिगमक्रियायाः फलत्वं प्राप्तः फलभूतः । ननु सत्त्वं भाग इति तदा युक्तं, यदि भागान्तरयोगोऽस्याः स्यात् । अस्तीत्याह त्रिगुणायाः इति । ननु सत्त्वरजस्तमांसि त्रीणि यदि अस्या रूपम्, तत् सत्त्वभाग एव कस्मात् फलमित्याशङ्कासूचकोऽपि शब्दः । अत्र उत्तरमाह-परस्य घटादेरसौ यतः प्रकाशस्वभावः ।

सत्त्वं लघु प्रकाशकम् । (१३ का।)

इति हि आहुः । ननु नीलादेरपि त्रैगुण्यात्मत्वात् तदीयोऽपि सत्त्वांशस्तथा कस्मात् न भवति । उच्यते शुद्धत्वात् इति । रजस्तमोभ्यामनभिभूतत्वेन स्वच्छत्वात् । अत एव

प्रख्यारूपं हि चित्तसत्त्वम् ।

इति उक्तम् । ननु परप्रकाशात्मा चेत् सत्त्वभागः, युगपदेव विश्वं कस्मात् न चकास्यात्, सत्त्वस्यैव च उपयोगे निरूपिते गुणद्वयमन्यत् किमर्थं स्यात्,- इत्याशङ्काद्वयमपिशब्देनैव द्योतितं परिहरति रजस्तमोभागाभ्याम् इति । सत्त्वं प्रकाशरूपं निर्मलनभःप्रख्यं सर्वतो जलदपटलेन इव वरणात्मना तमसा

(पगे १५१)

समावृतमास्ते । तत्र च मारुतस्थानीयं प्रवृत्तिस्वभावं रजः क्रियात्मकतया क्रमेण तमोजलदमपसारयति न्यग्भावयति । अतश्च स विशेषेण परप्रकाशात्मपि भवन्नसौ सत्त्वभागः क्रमेण नीलादेर्बाह्यस्य सुखादेश्च आन्तरस्य प्रकाशरूपो जायते इति युक्तम् ।

युक्तश्च त्रैगुण्योपयोगः । ननु प्रकाशरूपोऽपि असौ सत्त्वभागो बाह्यालोकस्थानीयो जड एव, तदेष कथङ्कारं निराकाङ्क्षीभवेत् येन पार्यन्तिकफलत्वमस्य उक्तम् । किञ्च नीलप्रकाशरूपः सुखप्रकाशात्मा वा यः सत्त्वभागः स नीलसुखप्रतिबिम्बोपरक्तः, ज्ञानात्मिका च वृत्तिः क्रिया, स एव कथं फलं स्यात् । उच्यते-आत्मनः संविद्रूपस्य तस्मिन् स्वच्छे यतः सम्यक् निधानं प्रतिबिम्बेन विश्रान्तिस्ततः संवेद्यमानतां प्रतिपद्यते । ननु केन अन्येन तस्य संवेद्यता । न बहिर्बुद्धितत्त्वान्तरमस्ति, नच पुरुषापेक्षया संवेद्यमानता उपपन्ना तथात्वे नीलादेरपि तथैव सा अस्त्वित्यलं बुद्धितत्त्वकल्पनायासेन । आह-प्रकाशमानतैव संवेद्यता न अपरा काचित्, अपितु संविच्छायया अनुग्रहात् प्रकाशब्रुडितः स्वनिर्भास इव स सत्त्वभागो न प्रकाशान्तरमपेक्षते इति एषैव संवेद्यता । एतदुक्तं भवति

-सर्वतः स्वच्छात्मनि बुद्धिसत्त्वे विषयप्रतिबिम्बभागो ज्ञानक्रिया, संविच्छायाभागस्तु फलम् । यदुक्तं

फलमविशिष्टः पौरुषेयश्चित्तवृत्तिबोधः ।

इति । ननु आत्मच्छायावशात् विषये एव प्रकाशमानता अस्तु, किमन्तरालकल्पि- तेन बुद्धितत्त्वेन । लोके च विषय एव प्रकट इति व्यवहारः । तथाच जैमिनीया अर्थदृष्टतामेव फलं मन्यन्ते । अत्र आह-यदि विषये एव प्रकटता उत्पद्येत, तदा स विषयस्तादृशो जातः, स कथं कस्यचिदतादृशः स्यात् । नहि कारणोप-

(पगे १५२)

नतं रूपं कारणमेव प्रति तथा भवति । एवं हि कुम्भकारमेव प्रति कुम्भः कुम्भो भवेदन्यान् प्रति अकुम्भः । ननु यथा द्वित्वं कस्यचित् प्रमातुरपेक्षया बुद्ध्या जातं नच सर्वान् प्रमातॄन् प्रतिभाति, अपितु तमेव; तथा प्रकटता यदात्मगतभावनात्मकक्रियासन्निधानात् जाता तमेव प्रति भविष्यतीति आशङ्क्य आह प्रकाशसञ्ज्ञक इति । द्वित्वं हि जातं न प्रकाशस्वभावम्, अपितु तत्सामान्यज्ञानपुरःसरम् ।

द्वित्वगुणज्ञानात् द्वे द्रव्ये इति ज्ञानेन भवितव्यम्, ततश्च तत्र द्वित्वोत्पत्ताविव तत्सामान्यज्ञानोत्पत्तावपि अपेक्षाबुद्धेर्निमित्तत्वम् । नच सा प्रमात्रन्तरे सम्भवति एकार्थसमवायात् यतो ज्ञानयोः कार्यकारणभावः । इह तु प्रकटता चेत् जाता, न अत्र अन्यदपेक्ष्यमस्ति तत्रापि ज्ञेयायां प्रकटतान्तरानवस्थाप्रसङ्गात् । तस्मात् विषयः प्रकट इति बुद्धितत्त्वप्रतिबिम्बितस्य विषयस्य संवित्प्रतिबिम्बमेलनमेव इदमुच्यते, नतु बाह्यस्य प्रकटता काचित् धर्मः । ननु मा भूत् विषयनिष्ठा प्रकटता आत्मनिष्ठैव भविष्यति मम प्रकटो घट इति आत्मनि उपसंहारदर्शनात्, तत् किं बुद्धितत्त्वेन । उच्यते-आत्मा संविन्मात्रस्वभावः साक्षात् द्रष्टा केवलं, तस्य विषयप्रकटता नाम यत् संविदोऽधिकं तज्जनकत्वं कथं स्वरूपं स्यात् । कथं तर्हि असौ विषयबोधेषु द्रष्टा साक्षी चेति । आह- बुद्धावेव सत्याम् । ननु मा भूत् तत्र चिदात्मनि पुंसि अधिकं किञ्चन विकाराधायि प्रकटतात्मकं फलं, स एव तु भविष्यति । आह-निर्विकार एव असौ यदि नीलप्रकाशः, तर्हि नीलस्यैव विश्वस्य असौ तथा स्यात् । प्रकाश एव हि नीलप्रकाशः पीतप्रकाश इति आयातम् । अत एव इति । यस्मात् न विषये प्रकटतालक्षणो भोगो विश्रान्तः, नापि आत्मनि, अस्ति च

(पगे १५३)

विषयात्मनोर्भोगयोगव्यवहारः, तत इत्यर्थः । बुद्धिरूपं यत् सत्त्वं तस्य यतो नैर्मल्यं रजोऽपसारणसहिष्णुता तदीयतमोभागस्य, नतु नीलादाविव अनपसारणीयत्वं ततो हेतोरुभयीमपि आत्मनो विषयस्य च सम्बन्धिनीं रूपच्छायां संवेदननीलमयतामनुकरोति तदाकारधारितया भासते नीलरक्तपटमध्यगतसितवस्त्रवत् ततो हेतोस्तत्प्रतिबिम्ब आत्मविषयप्रतिबिम्बे यतो युज्यते, ततो विषयबोधस्वभावो भोगः सिध्यति । स हि ग्राह्यस्य ग्राहकस्य च यो मेलनात्मा सम्बन्धस्तद्रूपतयैव लक्षितः, न अन्यदस्य रूपमिति आशयः । ननु बुद्धौ यदि द्वयप्रतिबिम्बयोगः, आत्मनो विषयस्य च कथं भोक्तृभोग्यरूपव्यवहार इत्याशङ्क्य आह सा च इति । सा भोगसिद्धिर्भोक्तृभोग्यभावे । आत्मा भोक्ता विषयो भोग्य इति व्यवहारे हेतुर्हि यस्मात्, तस्मात् तयोरात्मविषययोर्भोक्तृभोग्यतायोग्ययोर्बुद्धितत्त्वे सम्बन्धो यावद्गति परस्पररूपमेलनात्मा वासगृह इव यूनोः यः, स एव भोक्तृभोग्यभावः । ननु सत्त्वं तावत् प्रकाशात्मकं, तत्र चेत् विषयप्रतिबिम्बं पतितं; जातो विषयप्रकाशताव्यवहारः; किमन्येन आत्मप्रतिबिम्बकल्पनेनेत्याशङ्कां वारयति विषयोपरागवत् इति । स हि सत्त्वप्रकाशो बाह्यालोककल्पो जड इति उक्तम् । बोधावेशेन इति बोधसंसर्गेण । ननु यथा तण्डुलानामयमेव पाके कर्मभावो यो विक्लित्तिलक्षणो विशेषः, तथैव विषयस्यापि बुद्ध्यमानतायां केनचित् विशेषेण भाव्यम्, सैव प्रकटता भविष्यति । भवेदेवम्, यदि निर्वर्त्यविकार्ये एव कर्मणी स्याताम्, अस्ति तु अन्यदपि प्राप्यं कर्म यत्र तत्कर्तृकर्मसंसर्गाधिको न कश्चित् विशेषो ग्रामं गच्छतीति यथा । तदाह नहि इति । बोधसंसर्गात्मा च बोधावेशोऽयमेव

(पगे १५४)

उच्यते-यो बोद्ध्रा पुरुषेण बुद्धौ विषयस्य संसर्गः । अत एव इति ।

साङ्ख्यस्य यदेतदित्यादि आरभ्य पूर्वोक्तमुपयोगि प्रमेयं बुद्धितत्त्वसद्भावे हेतुत्वेन उपजीवति । यत आत्मा निर्विकारः, नच तादृगसौ विषयप्रकाशः, विषयस्य च न प्रकटता नैसर्गिकी उपपन्ना, नच आत्मसन्निधानतः, नापि इन्द्रियसन्निधानमात्रात्, ततो बुद्धिसञ्ज्ञकं स्वतन्त्रमेव तत्त्वं वस्तुरूपम्, नतु आत्मनो धर्मो वैशेषिकवत्, नापि विषयस्य जैमिनीयवत्, न इन्द्रियाणां बार्हस्पत्यवत्,-इति इयती साङ्ख्यस्य मुख्या प्रमेयगतिः । वृत्तौ च्छायाशब्देन सूत्रे रूपशब्दं तत्पर्यायं व्याख्यत् । अतः इति उभयच्छायाधारणात् । असौ बुद्धिः । अर्थस्य प्रकाशस्तत्फलपर्यन्तोऽधिगम इत्यर्थः । ननु एवं बुद्धितत्त्वं निर्मलं सदा स्थितं, तत् तदुभयप्रतिबिम्बधारि सदैवेति तावता तावत् परमार्थबन्धो नो कस्यचित् । नहि शिशिरमारुतशिलीभूतशीतलतरमहाहि- मानीशकलकप्रतिबिम्बितश्चैत्रः शीतव्यथामनुभवेत्, नापि तत् तुषारशकलकमुपचरितोऽपि बन्धः स्यात् यदि उपचरिता अन्यो भवेत् प्रतिबिम्बितं चैत्रं पश्यन्निव मैत्रः । नच बुद्धिपुरुषावुभौ यस्तथा उपचरति, तादृक् तृतीयोऽस्ति । अस्तीति आह अहङ्कारतत्त्वम् इति । करोतिः क्रियासामान्ये । अहं करोमीति जानामि भुञ्जे वेत्यर्थः । तथाहि आत्मा बुध्यते इति अपेक्षाविषये भुङ्क्ते इति तु सुखदुःखसाधनविषये यो व्यवहा- रः प्रतीतिः प्रत्यवमर्शश्च, तद्रूपा वृत्तिर्वर्तनं व्यापारोऽस्य । ननु अबोद्धरि अभोक्तरि च निरागसि कथमहङ्कार एवं व्यवहरेत् । आह- उपकारकत्वं बोधोः भोगे च बुद्धिगते यत आत्मनस्तेनैवमध्यारोप्य व्यवहरति । ननु उपकारकत्वं तत्र अस्य कथम् । उच्यते । तत्सन्निधौ यतो बोधो ज्ञानभोगोभयात्मताविभक्तो

(पगे १५५)

बुद्धौ सिध्यति । ननु परिणामधर्मतालक्षणा क्रिया मा भूदात्मनो वास्तवी, भोक्तृतापितु किं न पारमार्थिकी । ओमित्याह नतु आत्मनः इति ।

चिन्मात्रतैव, न विषयोपभोक्तृता । नच तदतिरिक्तमस्य रूपमुचितमिति हि उक्तं विस्तरतः । ननु अहङ्कारेण एवमात्मा भोक्तृत्वेन अभोक्तैव सन् व्यवह्रियताम् । व्यवह्रियमाणस्य तु कथमसौ भोगो भवेत् । उपचारे हि न उपचार्यस्य स्वात्मनि विशेषः कश्चित्, अपितु उपचरितुरेव तथाभूत- बुद्धिशब्दविशेषप्रतिलम्भात्मा व्यवहारः, अन्यथा अनन्तप्रमातृभेदेन युगपदुपचर्यमाणाग्निजलादिविरुद्धभावभेदितवपुर्माणवकोऽपि अनन्तविरुद्धरूपतामेकत्रापि क्षणे प्रतिपद्येत् । तदेतत् परिहरति अहङ्कारव्यवहार्यात्मना इति । केन एतदुक्तं-चिद्रूपताधिकः कश्चित् पुरुषस्य भोग इति । बुद्धिबोधं हि यदात्मनि अविशिष्टतया अहङ्कारो व्यवहरति, स एव अयं भोगः । चित्प्रतिबिम्बयोगिनि विषयप्रतिबिम्बवति च बुद्धितत्त्वे अहमिदं जानामि इति चेतनाचेतनप्रतिबिम्बद्वयमेलनाव्यवहा- रकारिणा अहङ्कारतत्त्वेन योऽभिमानो जनितः, स एव बुद्धितत्त्वात् तद्वृत्त्यध्यवसायगोचरीकृतस्तद्बुद्धिप्रतिबिम्बचित्तत्त्वेन सह एकाश्रयतालक्षणं संयोगं भजमानश्चित्तत्त्वस्य चित्प्रतिबिम्बादनध्य- वसितभेदत्वेन भोग इति उच्यते । काणादादिदर्शनेऽपि हि ज्ञानात्मको गुण आत्मनोऽन्यः । कथं तस्य भोगः । समवायादिति चेत्, सम्बन्धमात्रं तर्हि भोगरूपतायां कारणमिति उक्तं भवति । इहापि च दर्शितः सम्बन्धश्चित्तत्वादनध्यवसितभेदस्य चित्प्रतिबिम्बस्य विषयप्रतिबिम्बेन सह अहङ्कारमेलितस्य तयैव बुद्ध्या अध्यवसितस्य एकबुद्ध्याश्रयत्वलक्षणसंयोग इति संसर्गमात्रप्रभावितोऽयं भोगव्यवहारः सर्वत्र ।

(पगे १५६)

संसर्गश्च प्राप्तिलक्षणः संयोगोऽस्तु समवायो वा अभिमानेन वादान्तरेण । यदि वा तथाभूतस्य संयोगस्य पूर्वपूर्वप्रलयमहा- प्रलयेषु अपि प्राथम्यं न अवधार्यते इति अनादिः संयोगो भवन् समवायात् न विशिष्यते । बुद्धितत्त्वस्य च सर्वोऽयं धर्मः । धर्मधर्मिणोश्च यः सम्बन्धः, स संयोग इति वा तादात्म्यमिति वा समवाय इति वा उच्यताम् ।

वस्तुनि लब्धे हि सञ्ज्ञासु क्रियासु च कोऽभिनिवेशस्तत्त्वचिन्ताकारणम् ।

यस्मिन्नेव च बुद्धिप्रदेशे चित्तत्त्वप्रतिबिम्बयोगात् चिदविशिष्टता, तत्रैव नीलप्रतिम्बयोग इति आधाराधेयभावापृथक्सिद्धिभ्यां समवायतापि उच्यताम् । को विरोधः । सर्वथा तावत् सर्वदर्शनेषु संसर्गकृत एव अयं भोगव्यवहारः । यदाह

—-परोपाधौ सर्वा धीर्व्यावहारिकी । अयथार्था—————–॥

इति । तदेतत् सर्वमनवकॢप्तिद्योतकेन वाशब्देन आह संयोगात्समवायाद्वा इति । अहं करोमि जानामीत्येवम्भूतेन रूपेण अहङ्कारतत्त्वस्य या वृत्तिः, तया व्यवहरणम् । भोगव्यहरणे ज्ञानाभिधानलक्षणे योग्य आत्मा स्वरूपं यस्य बुद्धिबोधस्य बुद्धिसङ्क्रान्तस्य विषयप्रतिबिम्बचित्प्रति- बिम्बमेलनस्य, तस्य चिद्रूपेण पुरुषेण सह यो भेदाध्यवसायाभावः प्रकाशता, येन बलेन च तावन्मात्रे मूर्च्छाकल्पे विश्रमितुमयोग्य इति अभेदाध्यवसाये पर्यवस्यन् पुरुषस्य भोग इति उच्यते; स संयोगादस्तु समवायात् वेति किमनेनेति । एतत् शेषमुनिवचनेन संवादयति । तथा च इति ।

सत्त्वपुरुषयोरत्यन्तासङ्कीर्णयोः प्रत्ययाविशेषो भोगः, परार्थस्वार्थसंयमात्पुरुषज्ञानम् । (यो। सू। ३ । ३५)

(पगे १५७)

इति सूत्रम् । अस्य अर्थः-सत्त्वं यत् बुद्धिशब्दवाच्यम्, यः पुरुषस्तयोर्जड- चिद्रूपतया नीलमुत्पलमितिवदन्योन्यमभिन्नकक्ष्याधिशयनेन अन्योन्योपरागलक्षणं सङ्करमसहमानयोरपि यः प्रत्यये बौद्धेऽध्यवसाये अविशेषो भेदानध्यवसायेन अभेदाध्यवसाय- विश्रान्तेन व्यवह्रियमाणमैक्यं, स एव भोगः । स एव बुद्धिवर्त्यपि भवन् भोक्तरि पुरुषे चिद्रूपत्वादुचित इति परार्थ उच्यते । ननु अस्ति एवंविध एष संसर्गबलप्रभावितो भोगः, किन्तु एष संसर्गोऽनादिः कथं विच्छिद्येत, येन मोक्षावकाशो भवेदित्याशङ्क्य आह यदा तु इति । प्रधानं तावदुपादानकारणं महदादिकार्यात्मना परिणमते । तत्र च अस्य जडत्वं, सुखाद्यात्मना च यत् भोग्यत्वं भोगयोग्यता, तत् सहकारिकारणम् । नच गुणानामन्योन्यं भोगयोग्यत्वमुचितं जडत्वात् भोक्तृभोग्यत्वयोरेकत्र विरुद्धत्वादिति अन्यदेव चिद्रूपत्वं प्रति भोगयोग्यत्वमुचितम् । तच्च चिद्रूपं भोगवैचित्र्योपलम्भादनेकम् । यदाह

जन्ममरणकरणानां प्रतिनियमात् । (१८ का।)

इति । नच अस्य भोगस्य एनमेव भोक्तारं प्रति भोग्यतेति नियमनिदानमस्ति, तत् सर्वान् प्रति तत् भोग्यम्, भोक्तृता च एषां स्वप्रतिबिम्बार्पणेन बुद्धिप्रभृतिसमस्तप्रपञ्चावभासनम् ।———सप्रपञ्चे बुद्धितत्त्वे सङ्कीर्णोऽपि संयोगमहिम्ना चित्तत्त्वेन परमार्थतो न सङ्कीर्णः । तत् सङ्कीर्णता यावत् चित्प्रतिबिम्बबलात् निर्भासते, तावत् संसारः । यदा पुनरसङ्कीर्णता, तदा विवेकज्ञानमेतत् ज्ञानम् । न सङ्कीर्णासङ्कीर्णरूपव्यतिरिक्तं दृश्यमस्ति । तच्च यस्य समुच्चीयेत ।

चशब्दश्च अपिशब्दार्थे । तथापि इति अभ्युपगम्यवादोऽयं न सोपपत्तिक इत्यर्थः । अत एव वा इति । सूत्रे पराशङ्काद्योतकं यत् कृतं, तेन अस्य वादस्य अभ्यु-

(पगे १५८)

पगम्यापि एतदुच्यते, नतु प्रतिबिम्बवादोऽयमुपपद्यते इति अनादरोऽपि द्योत्य इभिप्रायेण टीकाकृदस्य बुद्धिप्रतिबिम्बवादस्य अनुपपत्तिं बहुशाखां दर्शयन् तथापि इति वृत्तिग्रन्थार्थस्य आकूतं स्फुटयति नच इति । स्वच्छमपि हि अधिकस्वच्छमपेक्ष्य अस्वच्छं न अधिकस्वच्छस्य प्रतिबिम्बं स्वीकरोति सितदुगूलमिव स्फटिकमणेः । तथाच बुद्धितत्त्वं पुरुषापेक्षया । तथाहि आलोकोऽपि बुद्धिप्रकाशमपेक्ष्य अस्वच्छः, तथा सोऽपि पुरुषप्रकाशम- पेक्ष्य । पुरुषप्रकाशो हि सर्वतः स्वच्छस्तस्य अनन्यापेक्षणादेव संविद्रूपत्वं यतः । यथा यथा हि स्फुटा वेद्यता, तथा तथा स्वच्छत्वाभावः । एवमधिकस्वच्छेन प्रतिबिम्बं स्वीक्रियते अस्वच्छस्येति प्रतिबिम्बस्वीकरणे यत् कारणं, तद्विरुद्धमिह अस्वच्छत्वमिति कारणविरुद्धोपलब्धिः । एवञ्च वदतः टीकाकारस्य अयमाशयः-सौगत एव साङ्ख्यमतं दूषयन् मत्पक्षस्य अवकाशं दास्यति । सर्वतःस्वच्छे चिद्रूपे विश्वं प्रतिबिम्बितुमर्हतीति । सौगतस्यापि च संविदि संवेद्यं प्रतिबिम्बमर्पयति, नतु संवेद्ये संवितिति स्वपक्षसिद्धिराशये विपरिवर्तते एव । अथ परो मन्येत-न स्वच्छत्वं नाम पारिभाषिकं किञ्चन, यदेव च अन्यप्रतिबिम्बग्रहणसमर्थं तदेव स्वच्छं; बुद्धितत्त्वं च पुंस्प्रतिबिम्बं ग्रहीतुं समर्थमेव, तदपि किं न स्वच्छमिति । तत्र आह ।

समानधर्माण्येव इति । इह प्रतिबिम्बग्रहणे नियमो दृष्टः । तथाहि दर्पणे स्पर्शगुरुत्वादि न प्रतिबिम्बति, अपितु रूपसंस्थानमात्रम् । निर्मलं च अस्य विजातीयरूपैः सजातीयाभावैश्च अकलुषितं निविडसंहननं रूपमुपलब्धं यदा भवति, तदा प्रतिबिम्बयोगः, वाष्परजोरूपान्तरैस्तु विजातीयैरनिविडस्थपुटत्वादिना सजातीयाभावैः कलुषिते तस्मिन् रूपे न भवति,-इति अन्वयव्यतिरेकाभ्यां मन्यामहे ।

(पगे १५९)

प्रतिबिम्बार्पकापेक्षया यस्य स्वच्छताख्यो धर्मस्तत्प्रतिबिम्बात्मकगुणवि- शेषनिष्ठः, स एव प्रतिबिम्बं गृह्णाति । एवं स्वच्छत्वं गुणे समाने विशेषरूपतायां पर्यवसायितमिति अपृथगेव उपसंहरिष्यति एवं समानगुणे एव इति । तथाहि पार्थिवे भूमिकुट्टिमे, वज्ररत्नादिमये दर्पणे, आप्ये निस्तरङ्गजलाशये, तैजसे चक्षुर्गोलकान्तर्वर्तिदृष्टिमण्डले रूपाख्यो गुणः । तत्सन्निवेशश्च संस्थानात्मा गुणोऽस्ति स्वच्छप्रायाणामपि रूपवत्त्वादिति तेषु रूपसंस्थानप्रतिबिम्बमेव उपारोहति, न अन्यत् गुरुत्वस्पर्शादि । यथोक्तं मयैव

प्रच्छन्नकामिनी कान्तप्रतिबिम्बितसुन्दरम् ।

मुकुरं कुचकुम्भाभ्यां स्पृशन्त्यपि न हृष्यति ॥ (तं। आ। ३ । ६)

इति । व्योमावकाशे च परिच्छिन्नदीर्घवर्तुलाकारे यदादित्यतेजो न अतितीब्रं न अतिमन्दं वा चन्द्रतेजो वा, तत्र शरीरसंस्थानप्रतिबिम्बं दृश्यते च्छायापुरुषोपदेशपरिशीलनेन । लोहदर्पणादि तु तैजसमिति मन्तव्यम्, तदपि वा पार्थिवमेवेत्याभिधर्मिकाः । आकाशे च शब्दगुणे वक्तृशब्दस्य प्रतिबिम्बितं प्रतुश्रुत्कारूपम् । निर्मलेन रसान्तरग्राहिणा रसेन भूयसा समाक्रान्तं च रसनेन्द्रियं, तस्य अधिष्ठानं दन्तोदकं निर्मलरसयुक्तमिति तत्र कटुतिक्ताम्लादयो रसाः परेण आस्वाद्यमानाः पिप्पलीनिम्बदाडिमादिषु वर्तमानास्तदास्वादानुमानपूर्वकत्वेन प्रतिबिम्बमर्पयन्ति । स्मर्यमाणग्रहणमनुभूतत्वेऽपि तदानीमसाक्षात्- क्रियमाणतामात्रमुपलक्षयति । तेन स्मर्यमाणा अनुमेयमानाः समुत्प्रेक्ष्यमाणा वा रसस्पर्शादयः प्रतिबिम्बं गृह्णन्तीति । तथा च शरीरस्य केचिदानन्दस्थानरूपा आधाराः कन्दहृदयतालुतलादयः । तेषु मिथुनोपभोगसमुचितस्पर्शस्तथैव अननुभूयमानोऽपि अनुमेयमान- स्मर्यमाणोत्प्रेक्ष्यमाणादिरूपः

(पगे १६०)

प्रतिसङ्क्रामति येन धातुस्यन्दसुखाद्यपि स्यात् । केचित् तु दुःखाधारा मत्तगन्धजठरकूर्मनाडीकण्ठप्रभृतयः । तेषु परानुभूयमानाः स्मरणोत्प्रेक्षादिसन्निधापिता वा कुन्ताघातशूलादिस्पर्शा मूर्च्छादुःखादिकारिणः । परानुभवश्च प्रतिबिम्बितस्य तस्य स्पर्शादेर्ग्रहणं प्रति केवलं सहकारितां करोति अवधानमुद्बोधयमानः । तेन इदं न वाच्यम्-अनास्वाद्यमानोऽपि केनापि दाडिमरसो दन्तोदके किं न प्रतिबिम्बतीति यतः प्रतिबिम्बत्येव असौ, अनवधानात्तु न लक्ष्येतापि । तथाहि-अवहितः सुकुमारोऽङ्गनाजनः परेण स्पृश्यमानमपि तीक्ष्णकण्टकाग्रं पश्यन् वेपथुमाविशत्येव ।

कर्माधिपत्याच्च केषाञ्चित् केचिदाधारा अकलुषा इति तत्प्रतिबिम्बयोगो विचित्रो दृश्यते । गन्धक्षेत्रेऽपि तीव्रविरेचनादिद्रव्यगन्धः प्रतिबिम्बमर्पयत्येव येन तद्गन्धपूर्णमेव सर्वमभिमन्यते । ननु स्वच्छेन द्रव्येण प्रतिहता नयनरश्मयः परावृत्त्य स्वमेव मुखं गृह्णन्ति, दर्पणे मुखमिति तु भ्रान्तिरियम्; नतु सत्यत्वभ्रान्तत्वव्यतिरेकेण अन्यो राशिः प्रतिबिम्बनामधेयोऽस्ति तृतीयः । मैवम् । एवं हि सति मम एतन्मुखं स्पर्शवदित्यपि भासेत; परमुखस्वहस्तादौ च बिम्बप्रतिबिम्बद्वयं दृश्यते । अन्योन्यसम्मुखादर्शभूयस्त्वे च बहुतरमुखग्रहणं कुतः ।

भ्रान्तिरियमिति चेत्, सैव अस्तु किं सत्यमुखग्रहणाभ्युपगमेन असंवेद्यमानेन । नहि शुक्तिकारजतनिर्भासे सत्यरजतनिर्भासोऽपरोऽभ्यु- पगतः; भ्रान्तावपि च किं दर्पण एव मुखत्वे भाति, उत स्वमुखं पुरमुखत्वेन । पूर्वस्मिन् कल्पे दर्पणे न कश्चित् भासेत शुक्तिरज्ज्वेकचन्द्रादिरिव रजतसर्पद्विचन्द्रादित्वेन भासमानः । अत्र च दर्पणस्य न पृष्ठे, न अभ्यन्तरे, न पश्चाद्भागे मुखमस्तीति प्रतिपत्तिर्दर्पणस्य अविकल्पस्य निर्भासात् । यदि तु स्वमुखं परमुखत्वेन भासेत,

(पगे १६१)

तदा शुक्तिं यथा रजतधिया गृह्णाति; तद्वत् स्वमुखं दर्पणे सन्निहिते परमुखधिया गृह्णीयादिति तत्र अयमुदासीनभावमवलम्बमानो भूषणविन्यासप्रसाधनादि न आद्रियेत । प्रतिफलितानां च स्वदेहसम्मुखीभूतानां रश्मीनां चाक्षुषाणां ग्रहणत्वे सशरीरेण आत्मना यदि अधिष्ठानं, तदहमित्येव प्रतिपत्तिः स्यात्, नतु अन्योऽयमिति । अव्युत्पन्नस्य हि बालादेरयमित्येव एकरसा प्रतिपत्तिः । व्युत्पन्नस्तु इदमेव शरीरमत्र प्रतिसङ्क्रान्तमिति मन्यतां नाम । ननु अस्य बिम्बात् न भेदेन प्रतिपत्तिः, प्रतिबिम्बेन अशरीरेण आत्मना अधिष्ठितास्ते रश्मयः परत्वेन गृह्णन्ति,-इति चेत्, न देहस्य भोगायतनत्वं स्यात् तमन्तरेणापि बहिर्बुद्धिलक्षणभोगोदयात् दर्पणाभावेऽपिच तथा प्रसङ्गात् स्वशरीरे च औदासीन्यापत्तेर्योगिवत् च शरीरानपेक्षया संवेदनप्रसङ्गात् ।

जलतेजोभिश्च चाक्षुषाणां रश्मीनां प्रतिघातेन प्रतिफलनं, न निविडैः शिलातलैरिति स्वच्छन्दाभिधानम् । स्मरणोत्प्रेक्षणादिषु च अर्थाकारं पश्यति प्रमाता । नच तत्र नेत्ररश्मीनां कोऽपि व्यापारार्थे सम्भवो नियमो वा । नच असावबाह्य एव पारमार्थिक आकारो बाह्यत्वेन अभिमानादन्यदापि बाह्यापह्नवप्रसङ्गाच्च । अथास्ति सम्भवः- यदाकारोऽपि असौ न मुख्यो नच भातः, तत् दर्शनप्रतिबिम्बेनापि किमपराद्धम् । यत् तत्रापि स्वमुखग्रहणमेव सूत्रे मुनिना क्वचिदपि अनिरूपितमपि दुर्ग्रहादाक्षपादैः समर्थ्यते प्रतिश्रुत्कादौ श्रोत्रादेर्न प्रतिफलनमिति, तत्र अवश्यं प्रतिबिम्बता समर्थयितव्या । ननु तत्र मुख्यशब्दादिरूपतैव भविष्यति, दर्पणमुखादौ तु प्रतिघातेन प्रतिबिम्बापह्नव इति परेषां नैयायिकादीनामाशयः । तमेव प्रकटयति केचित् तु इति । प्रतिसङ्क्रमणेन श्रुत् श्रवणमस्या इति प्रतिश्रुत्का । सा शब्दजा ।

रसोऽपि दन्तो-

(पगे १६२)

दकसम्बन्धी निम्बादिरसस्मरणेन निमित्तेन विकृतः सम्पन्नः कटुतिक्ताम्लादिस्वभाव एव, स्पर्शक्षेत्रगत एव असौ स्पर्शविशेषः, गन्धक्षेत्रनिष्ठश्च गन्धविशेष इति । तेन यथा अन्ये शब्दादयो मुख्यवस्तुस्वभावाः, नतु तत्प्रतिबिम्बात्मानः; तद्वत् प्रतिश्रुत्कादयो वस्तुत्वे तेषां बाधकस्य कस्यचिदपि अभावात् । रसावेशशब्देन दन्तोदके स रसो निविष्ट इति इह मन्तव्यम्, यदिवा पराभिप्रायेण रसावेशब्दः इति प्रतिबिम्बवाचित्वेन प्रयुक्तः । परोऽयं रसावेशं रसप्रतिबिम्बं मन्यते, स वस्तुभूत एव युक्तः । नच बाधिततद्विज्ञानग्राह्यं प्रतिबिम्बमिति युक्तं सर्वस्य तथात्वापत्तेः । ननु दर्पणेऽपि रूपसन्निवेशमात्रस्वभावे पर्वतादिवस्त्वन्तरमेव अस्तु । किं तत्रापि प्रतिबिम्बाङ्गीकरणार्धजरतीयेन ।

आह दर्पणादौ पुनर् इति । न तावत् दर्पणाक्रान्ते तावति एव आकाशदेशे हस्तिपर्वतयोरुत्पत्तिर्युक्ता तस्य आकाशदेशस्य एकेन मूर्तेन दर्पणेन आक्रान्तस्य मूर्तान्तरेण आक्रमितुमशक्यत्वात् मूर्तानां समानदेशत्वविरोधात्, समस्तनगरप्रतिबिम्बयुक्ते च दर्पणे दृश्यमाने तावतां मूर्तानां कथमेकाकाशदेशतेति शतशाखं परस्परदेशानुप्रवेशविकल्पनाप्रसङ्गः । नच दर्पणस्य पृष्ठे तदुत्पत्तिर्दर्पणदेशस्य परिमितत्वात् दर्पणादर्शनप्रसङ्गाच्च । नच पृष्ठतोऽसौ दृश्यते, दृश्यते तु अभ्यन्तरे । नच तस्य दर्पणे अभग्ने अन्तःप्रवेशो युक्तः । नच अस्य भङ्गो मनागपि अवलोक्यते । दर्पणापेक्षया दूरतरदेशवर्ती इव स पर्वतादिरुपलभ्यते, नचापि अबाह्ये अणुमात्रदेशेऽपि अवलोक्यते । तदुक्तं

विरुद्धपरिमाणेषु वज्रादर्शतलादिषु । पर्वतादिसरूपाणां भावानां नास्ति सम्भवः ॥

इति । सप्तम्या आधेयमाक्षिप्तम् । तदयमर्थः-दर्पणादौ सङ्क्रान्तस्य

(पगे १६३)

यत् वस्तुभूतत्वं शङ्क्यते, तत्र अयं बाध इति । तावान् इति दर्पणपरिच्छिन्नो नभोदेशो वा दर्पणो वा तत्पृष्ठतदन्तरतत्पश्चाद्भागादिर्वा । किञ्च यावत्कालकलामात्रं तद्वस्तु मुख्यमस्ति तावदेव च यो विशिष्टदेशसम्बन्धोऽस्य दृश्यते, सोऽपि न उपपद्यते । नहि स्वकारणात् विना तस्य भावस्य उत्पत्तिर्युक्ता । नच प्रसिद्धवस्तुभूतहस्तिपर्वतादिगतकारण- जातीयमिह कारणमुपलभ्यते । तावता च प्रसिद्धहस्त्यारम्भकावयवपरि- माणानां तदवयवानां यः सम्बन्धः संयोगनैरन्तर्यादिः, स यस्मात् नोपपद्यते न सम्भवति । तज्जातीयदेशकालकारणाभावे च कार्यमपि तज्जातीयं कथं स्यात् । उत्पन्नस्य च अवयवविभागाद्यभावहेतु- मनारूढवत एव कथं भूतग्रस्तस्य इव एकपदे निरन्वयी विनाशः ।

क्षणिकवादे तस्य निरन्वयनाशितायामपि विभागससन्तत्यन्तरदर्शनप्र- सङ्गः । दर्पणात् पृथग्भूतं च उत्पन्नं भूतलादि वा अन्यत्रापि सञ्चरेत् । ततश्च यावदसौ दृश्यते, तावदस्य तेनैव देशेन दर्पणावच्छिन्नेन यः सम्बन्धः, स कथम् । रूपसन्निवेशौ च कामं गुरुत्वगन्धवत्त्वादिवि- हीनौ स्ताम्, स्पर्शरहितौ तु न दृष्टौ । नच इह पर्वतस्य प्रतिबिम्बितस्य काठिन्यस्पर्शः । आदिपदेन जलाग्न्यादिप्रतिबिम्बस्य शीतोष्णादिः ।

वस्तुभूतेन अन्यप्रसिद्धतद्वस्तुजातीयेन भवितुं युक्तमन्यथा शशस्यापि विषाणमरूपस्पर्शादिकं वस्तुभूतमस्ति,-इति उच्यमाने इदमेव वस्तु, नेदमिति यत् नियमवत्त्वं व्यापकं वस्तुत्वस्य उपलभ्यते, येन विना वस्तुत्वमपि वचनमात्रसारं स्यात्; तत् हीयेतेति व्यापकानुपलब्धिप्रसङ्ग- बलेन वस्तुत्वमन्यवस्तुतज्जातीयत्वाभावात् विपक्षात् व्यावृतं साध्येन अन्यतद्वस्तुजातीयत्वेन व्याप्यते इति तदनुपलम्भे वस्तुत्वाभावसिद्धिर्- व्यापकानुपलब्धेरिति ।

(पगे १६४)

तत् स्थितमेतत्-प्रतिश्रुत्कादिशब्दजशब्दादिरूपमेव, न तत्र प्रतिबिम्बता काचित्; दर्पणादौ तु सा अस्तु केवलं स्वमुखमेव गृह्यमाणं भ्रान्त्या अभिमन्यते दर्पणेन गृहीतमिति केनापि कृतो विभागः । एनं विभागं दूषयति तत् इति । यदुक्तं प्रतिश्रुत्कादि वस्त्वेव, दर्पणहस्त्यादि तु अवस्तुत्वात् प्रतिबिम्बमस्तु तावदिति । एतत् विभागेन अयुक्तं न्यायस्य साम्यात् । तदेव आह इहापि इति । अपिशब्देन न्यायसाम्यमाह । इह प्रतिश्रुत्कारसावे-शादिवर्गे या तावत् प्रतिश्रूत्का उक्ता, सा यदि अन्यशब्दजशब्दवत् वस्त्वेव स्यात्, सापि हस्त्यादिवदेव तच्छब्दजातीयैव भवेत् । शब्दजं च शब्दान्तरं भेरीभाङ्कारादि चरमं मन्दतमप्रायं यत्र देशे समाकर्ण्यते, तत्र न तैः प्रमातृभिराद्योऽसौ तीव्रतमः शब्द आकर्ण्यते, नापि तदाद्यशब्दाकर्णनवद्भिः सोऽन्त्यो मन्दः । एवं प्रतिश्रुत्कापि अर्वाग्व्यवस्थितैश्च यत् न श्रूयते, तत् प्रत्युत विपर्यस्येत यदि वस्तुभूता शब्दजशब्दरूपा स्यात् । अस्माकं बिम्बत्वेन प्रतिबिम्बदातृत्वेन अभिमतोऽत एव मुख्यः शब्दाकारः । परपक्षे तु आद्योऽसौ जनकरूपः शब्दः । स यैर्न श्रुतस्तद्गुहागतैः प्राणिभिः, तैः श्रूयते सा प्रतिश्रुत्केति सम्बन्धः । अपिशब्दो विपर्ययं सूचयति । यैस्तु अर्वाग्देशवर्तिभिः स आद्यः शब्दः श्रुतः, तैर्न श्रूयेतेत्यर्थः । एवम् अश्रुतबिम्बाभिमत इत्यादिना वस्तुभूतशब्दान्तरविजातीयत्वं तात्पर्येण उक्तम् । नतु प्रतिबिम्बतासाधने अयं हेतुर्यदश्रुतमुख्यशब्देन न श्रूयते इति । नहि प्रतिबिम्बस्य अयं नियमो यददृष्टबिम्बेन न अवलोक्यते । यथोक्तं मयैव श्रीतन्त्रालोके

मुख्यग्रहं त्वपि विना प्रतिबिम्बग्रहो भवेत् ।

पश्चाद्गतं प्रियं पश्येट्टङ्कितं मुकुरे पुरः ॥ (३ । २९)

(पगे १६५)

इति । तस्मात् वस्तुभूतशब्दजशब्दजातीयत्वानुपलब्धा प्रतिश्रुत्कापि न वस्तु ।

प्रसिद्धहस्त्यादिप्रतिबिम्बसालक्षण्यं च श्रीतन्त्रालोके दर्शितं

नचासौ शब्दजः शब्द आगच्छत्त्वेन संश्रवात् । पिठराद्युपधानांशविचित्रच्छिद्रसङ्गतौ ॥ चित्रत्वाच्चास्य शब्दस्य प्रतिबिम्बं मुखादिवत् । इदमन्यस्य वेद्यस्य रूपमित्यवभासते ॥ यथादर्शे तथा केनाप्युक्तमाकर्णये त्विति । नियमाद्बिम्बसाम्मुख्यं प्रतिबिम्बस्य यत्ततः ॥ तन्मध्यगास्तु शृण्वन्ति प्रमातारो न दूरगाः । अतः कूपाद्रिपिठराकाशे तत्प्रतिबिम्बितम् ॥ वक्त्राकाशं सशब्दं सद्भाति तत्परवक्तृवत् । यथा चादर्शपाश्चात्य भागस्थो वेत्ति नो मुखम् ॥ तथा तथाविधाकाशपश्चात्स्थो वेत्ति न ध्वनिम् । शब्दो नचानभिव्यक्तः प्रतिबिम्बति तद्ध्रुवम् ॥ अभिव्यक्तिश्रुती तस्य समकालं द्वितीयके । क्षणे तु प्रतिबिम्बत्वं श्रुतिश्च समकालके ॥

तुल्यकालं हि नो हस्ततच्छायारूपनिश्चयः । (३ । ३४)

इत्यादिना । एवं प्रतिश्रुत्कायाः प्रतिबिम्बतां साधयितुं वस्तुभूतशब्द- जवैलक्षण्येन अवस्तुत्वमुपपाद्य, रसप्रतिबिम्बस्यापि तदुपपादयति कटुतिक्तादि इति । पिप्पलीनिम्बदाडिमादि तावत् तस्य कटुकप्रभृते रसस्य समवायिकारणम्, तत्संयोगसमवायबलाच्च दन्तोदके स मुख्यो दृष्टः, इह तु परेण दाडिमे चर्व्यमाणेऽन्यस्य तदुद्भवः कथं स्यात् । अथ अधिपतिप्रत्ययरूपेण परिचर्व्यमाणेनापि दाडिमरसेन दन्तोदकसं- युक्तात्मसंयुक्तसम-

(पगे १६६)

वायज्ञातेयेन परदन्तोदकेऽपि तद्रसत्वाभिमानो मुख्यः, तर्हि सर्वस्य रसस्य वस्तुभूतस्य सहचरस्पर्शाव्यभिचारो दृष्ट इति पूर्वोक्ततज्जातीयता- वश्यम्भावापत्तेर्दन्तोदकसविधवर्तिना स्पर्शनेन दाडिमस्पर्शेऽपि शीतादिर्गृह्येत । नच एवम् । ननु

———विचित्रा वस्तुशक्तयः ।

इति अधिपतिरूपेण तेन रसेन संयुक्तसमवायाभिमानोपकल्पितो रसमात्रस्यैव दन्तोदके समुत्पादः, यदि वा तत्र दन्तोदके पारमार्थिक एव उत्पादः; तत्कटुकादिरसमात्रयुक्तस्य द्रव्यान्तरस्य तत्रैव अदन्तोदके रसान्तरस्य यथा हि गुणविनियोगेन मधुर एव अप्सुः रसः इति नियमो युक्त इति ।

एवं तर्हि वक्त्रासवपरिचर्वणप्रवृत्तोऽपि कान्तादन्तोदके तत्र स तमनुभवेत् । तत्र सङ्क्रान्तस्य दन्तोदकान्तरव्यामिश्रीभावात् स रसस्तिरोधीयते इति चेत्, तनैव तर्हि प्रमात्रा तादृशादपसृतेऽपि दाडिमास्वादनप्रवृत्ते पुंसि स्वकदन्तोदकस्य स्थिरत्वेन सदृशापरापरकारित्वेन वा कूपलवणोदकतुल्यवृत्तान्तत्वात् स रसः कालान्तरेऽपि अनुभूयेत । कालान्तरे नानुभूयतेऽसौ संस्कारदार्ढ्याभावात् रस इति चेत् तत्काल एव तर्हि भुज्यमानमेकरसमपि गुडौदनादि तत एव नातिरुचिकरमपि प्रतिलब्धकटुकाम्लादिविचित्ररसान्तरदन्तोदकसम्मिश्रीभूतं शिखरिणीमिश्रितमिव स्वादुङ्कारं परेण भुज्येत । इतिः प्रकारे । नकेवलं दर्पणादौ हस्त्यादिरूपत्वे बाधः, यावदत्र प्रतिश्रुत्कारसावेशानामपि एवम्प्रकारोऽयमसाविति यस्त्वया नास्तीति समभावि, स वादोऽस्त्येवेति कथं वस्तुभूतता स्यात्, येन तत्र प्रतिबिम्बत्वमपह्नुत्य दर्पणहस्त्यादावपि परः प्रतिघातमात्रेण अपह्नुवीत प्रतिबिम्बव्यवहारमित्याशयः । ननु एवं वस्तुवैलक्षण्यादवस्तुत्वे शुक्तिरजतवत् भ्रान्तता भविष्यति, तथापि का प्रतिबिम्बतेत्याशङ्क्य

(पगे १६७)

आह अत एव च इति । न अनेन बाध उपजीव्यते । एवं हि भ्रान्तित्वाभावे साध्ये बाधसम्भवो विरुद्धो हेतुः स्यात् । तस्मात् पूर्वोक्ते ग्रन्थे यत् वैलक्षण्यं गम्यमानत्वेन स्थितं, तदुपजीव्यते । ततश्च अयमर्थः-यथा प्रसिद्धवस्तुसाजात्याभावात् न वस्तुत्वम्, तथा ग्रसिद्धभ्रान्तिसाजात्या- भावात् न भ्रान्तित्वम् । तदेव दर्शयति तस्यां हि इत्यादिना अत एव इत्यनेन वा । निराचिकीर्षितस्य भ्रान्तित्वस्य परेण शङ्यमानतायां पूर्वोक्तो बाधो हेतुत्वेन उपजीव्यते । सहेतुकस्य भ्रान्तित्वस्य नेति निराकरणं क्रियते ।

निराकरणे च हेतुः तस्यां हि इत्यादिना उच्यते । चकार आशङ्कां द्योतयति ।

अत एव बाधयोगात् हेतोरेषा दर्पणहस्त्यादिरसावेशादिरूपा भ्रान्तिर्भविष्यति, न प्रतिबिम्बमित्यपि यत् परेण शङ्यते, तदपि न । हि यस्मात् भ्रान्तावारोप्यमाणमेव प्रतिभासते; नतु वस्तुतत्त्वस्य नामापि स्फुरति ।

संस्थानं हि रूपधर्ममात्रम् । रूपतिरोधौ तदपि न किञ्चित् ।

वस्तुधर्मत्वेऽपि वा संस्थानस्य समस्तधर्मपूर्णं वस्तु इत्यभ्युपगमे मनागपि वैपरीत्ये वस्त्वन्तरमेव निर्भातं भवेत्, नतु तत् । इह तु ओदनादिरसोऽसम्मिश्रो विकारलेशेनापि युक्तो भाति, किन्तु स एव भाति, भात्येव सः । यदि च दन्तोदकं तत्कटुकादिरसयुक्तं भ्रान्त्या भासेत, तत्सम्मिश्रत्वादोदनरसोऽपि विचित्र एव निर्भासेत । पीतशङ्खे प्रतिभाते हि न शुक्लशङ्खवान् वासुदेवकरः प्रतिभाति । तस्मात् यथा न दर्पणस्य पृष्ठे वा अन्तर्वा पश्चाद्वा बाह्ये वा अन्यत्र वा हस्ती कश्चिदस्ति, भाति च तदीयस्वच्छतामहिम्ना; तथा रसादिरपि न दन्तोदकादेरिति प्रतिबिम्बतैव अस्या युक्ता । तत्सम्भवे च न प्रतिघातिनेत्ररश्मिप्रतिगृहीतस्वमुखादिग्रह- णमसंवेद्यमानं

(पगे १६८)

युक्तं कल्पयितुमिति उपसंहरति तस्मात् शब्दो नभसि, स्पर्शः क्वचिदाधार- चक्रे, रूपं दर्पणादौ, रसो दन्तोदके, गन्धस्तत्क्षेत्रे चित्तोपारुढमिति यथायोग्यं स्मरणानुभवोत्प्रेक्षाद्यभिव्यक्तं प्रतिबिम्बरूपतया भाति ।

भासनसारतैव हि प्रतिबिम्बतेति हि कथमव्यापृततद्विषयचेतस्कस्य प्रतिबिम्बसत्ताव्यवहारः । एतदुक्तं भवति यदि कश्चित् ब्रूयात्-ननु यथा निर्मलो दर्पणश्चेत्, तदवश्यं सन्निहितमत्र प्रतिबिम्बतामेति, तथैव दन्तोदकादिषु रसादिप्रतिबिम्बानि स्युः, नच तथा नित्यमवभासन्ते इति; स वाच्यः-इह अवभासनसारमेव प्रतिबिम्बतत्त्वम् । यथोक्तं श्रीतन्त्रालोके

न देशो नो रूपं नच समययोगो न परिमा

नचान्योन्यासङ्गो नच तदपहानिर्न घनता ।

नचावस्तुत्वं स्यान्नच किमपि सारं निजमिति

ध्रुवं मोहः शाम्येदिति निरदिशद्दर्पणविधिः ॥ (३ । २३)

इति । अवभासनं च तत्तद्विषयग्राहकेन्द्रियानुग्राहकान्तःकरणाधिष्ठा- नायत्तम् । तथाहि दर्पणे सन्निहितेऽन्तःकरणव्यापारप्रयुक्तनेत्रव्यापार- व्यपोहने को मुखप्रतिबिम्बव्यवहारः । को हि वेद अन्धतमसे मुखं सङ्क्रान्तं रत्ने । एवं दन्तोदके रसक्षेत्रे रसनेन्द्रियाधिष्ठानभूते प्रतिबिम्बितो रसस्तत्सविधवर्तिरसनेन्द्रियप्रेरणमन्तःकरणकृतमन्तरेण कथं भासेत । नच अन्य प्रमात्रिन्द्रियगोचरीकार्यं तत्प्रतिबिम्बार्पणस्थानं दर्पणवत्, चक्षुर्गोलवत् वा, येन अस्य स्वयमग्रहेण प्रमात्रन्तरेन्द्रियव्यापारात् निर्भासनं भवेत् । किन्तु अन्तर्देहवृत्तित्वात् दन्तोदकादे रसादिक्षेत्रस्य न परप्रमातृगोचरता शङ्क्या । नच अन्तःकरणप्रेरितस्वेन्द्रियव्यापारमन्तरेण तन्निर्भासनं युक्तम् ।

निर्भासनसारमेव

(पगे १६९)

प्रतिबिम्बमिति न कश्चित् चोद्यावकाशः । असम्मुखीनानाम् इति अव्यापृतचक्षुषामिति । लक्षणया अयमर्थः-सम्मुखमस्मिन् दृश्यते इति सम्मुखीन आदर्शः; सच पौनरुक्त्यासङ्गतिबाधित इति, तेन नैर्मल्यं स्वविषयग्रहणक्षमत्वं लक्षयता व्यापृतेन्द्रियत्वमुक्तं भवति । अन्ये तु दर्शन इति कर्तृसाधनमपि, नतु अधिकरणसाधनमेवेति मन्यन्ते । एवं स्वपक्षमुपसंहृत्य परपक्षायोगमपि उपसंहरति मुख्य इति । यदि स मुख्यः शब्दः स्यात्, उच्चारयितृदेशगृहदेशान्तरालव्यतिरिक्तदेशवृत्तिभिर्- गह्वरोदरगतैः प्रमातृभिः स शब्दः श्रूयेत; तद्देशैरपि घण्टानुनादस्य इव श्रवणे तीव्रमन्दादिविशेषस्य उपलम्भो भवेत् । नच एतदस्ति । रसोऽपि परिचुम्बनावस्थायामन्येन गृह्येत गन्धोऽपि तद्देशवर्तित्वादन्यैः प्रमातृभिः । स्पर्शोऽपि परकीयहस्तस्पर्शादिगम्यो भवेत्,-इति प्रसिद्धतज्जातीयवस्त्वन्तरविषये यावतां प्रमातृभावः, तावतामत्रापि स्यात्,-इत्येवन्तात्पर्येण सर्वे शब्दरसगन्धस्पर्शाश्च यथायोगं वातपित्तादिप्रकोपप्रशमस्वकार्यकारिणो भवेयुः । शब्दोऽपि तद्गृहावर्ती जातोऽत्रुटितप्राथम्योचिततीव्रतमभावस्तीव्रतरादिमन्दतमान्- तशब्दपञ्चकारम्भकः स्यादिति गुहायाः परतरमपि श्रूयेत । तस्मादस्ति प्रतिबिम्बलक्षणस्तृतीयराशिः । तस्य च समानगुणे स्वच्छे च निर्भासनं दृष्टमिति स्वच्छत्व समानगुणत्वलक्षणं कारणं प्रतिबिम्बस्वीकरणे वस्तूनामिति सिद्धम् । तद्विरुद्धं च बुद्धेरात्मापेक्षया असमानगुणत्वम्, अस्वच्छत्वं च कारणविरुद्धमुपलभ्यमानमात्मप्रतिबिम्बग्राहित्वस्य स्वविरुद्धकार्यस्य निषेधं करोति । एतदुपसंहरति एवं समानगुण एव इति । स्वच्छत्वं गुणनिष्ठमेवेति पूर्वसमानधर्मण्येव च इत्यत्र उक्तमिति पृथगिह न उक्तम् । अतिदूर-

(पगे १७०)

वैलक्षण्यं धियस्त्रैगुण्यात्मकत्वेन भोग्यत्वादात्मनश्च नैर्गुण्येन भोक्तृत्वादिति का समानगुणत्वे सम्भावनापीति भावः । ननु सौत्रान्तिकाः संविदि नीलादिप्रतिबिम्बमुपयन्ति, नच सा तैः समानगुणा ।

तद्वासनायोगादनादिप्रवृत्तात् समानगुणत्वं बुद्धावपि भविष्यतीत्याशङ्क्य आह प्रतिबिम्बेऽपिवा इति । एवं वदन्नपि इदं तावत् साङ्ख्यः प्रष्टव्यः-विषयस्य व्यवस्थापनं दर्शनपरामर्शनात्मकं यदुच्यते, तत् मुख्यामजडरूपां किं भोक्त्रीं चितिशक्तिमपेक्षते, तां विना न भवतीति । ओमिति चेत्, पुरुष एव तर्हि दर्शनपरामर्शनस्वभावोऽभ्यु-पगन्तव्यः, किमनुपपद्यमानासंवेद्यमानबुद्धिप्रतिबिम्बितचितिशक्तिवादे-न । अथ बुद्धिगतेन चित्प्रतिबिम्बेन तत् निर्वहति, तत् तर्हि जडमेव न चिद्रूपमिति बुद्धिरेव तादृशा तुर्येण गुणेन युक्ता कल्प्यताम्, या विषयं व्यवस्थापयिष्यतीत्यलं पुरुषकल्पनया । यदाह देवलाचार्यः

पुंसि कर्तृत्वमारोप्य बुद्धावपि चिदात्मताम् ।

इति । अथ मुख्यचैतन्यमेव प्रतिबिम्बीभूतं तथा करोतीति उच्यते; तदयुक्तमन्यत्र प्रतिबिम्बे तददृष्टेः । नहि दर्पणप्रतिबिम्बितो वह्निस्तमेव दर्पणमपि तावत् तापयेत्, किमङ्ग इन्धनं दग्धुं प्रभवेत् । उक्तं च

तज्जातीयेन प्रसिद्धान्यतज्जातीयरूपेणैव भवितुं युक्तम् ।

इतीति बुद्धिपुरुषद्वयकल्पनमकिञ्चित्करमेव । तदाह प्रतिबिम्बेऽपिवा इत्यादि । अपिशब्देन अभ्युपगमं दर्शयति, वाशब्देन समानगुणत्वमेव प्रतिबिम्बे कारणमिति । एतत् न आद्रियामहे अपीति अनादरम् । तत्र इति बुद्धौ । तस्याः इति पुंस्प्रतिबिम्बवत्या अपि बुद्धेः । एतच्च यद्यपि पूर्वमुक्तम् एवञ्च बुद्धेर्जडत्वे इत्यादिना, तथापि दूषणान्तरावकाशाय उक्तम् ।

(पगे १७१)

तत एव बहुशाखमपसिद्धान्तान्तरमपि समुच्चयेन आह बुद्धेश्च इति ।

स्वकारणे प्रधाने चित्प्रतिबिम्बस्य चिद्रूपस्य वा न प्रातिस्विकस्य सम्भवः ।

तत्रापि च आत्मकृतत्वे अयमेव दोषः, बुद्धिपरिकल्पनावैयर्थ्यं च अधिकम् ।

कारणेन च सम्भवद्रूपं न कार्ये समाधीयते इति तदात्म कार्यं प्राप्तमिति आत्मा कारणं भवेदिति

———न प्रकृतिर्न विकृतिः पुरुषः । (सां। का। ३)

इति त्यक्तं भवेत् । तत्र इति आत्मनि । ततश्च आत्मन एव प्रथमो विकारो बुद्धिरिति प्रधानकल्पनं व्यर्थं स्यात् । ननु यथा घटे मृत्पिण्ड एव उपादानकारणं, दण्डचक्रदेशकालकुम्भकारादि केवलं तदुपादानकारणसम्पादितं, तत एव शेषशब्दवाच्यं विशेषमात्रं विदधत् सहकारि; तद्वदात्मा शेषानुग्रहकारित्वमात्रात् सहकारी स्यात्, न उपादानम् । उपादाने च कार्यमस्ति, न सहकारिषु अनन्तकार्योदयप्रसङ्गादिति परमतमाशङ्क्य आह सत्कार्यवादिना इति । यदि तावदुपादानासम्भविनि विशेषांशेऽपि न व्याप्रियन्ते सहकारिणः, तदलमेतैः; अथ तं जनयन्ति, तदसन्तमेव चेत्, उपादानस्यापि पापात् कुतः शापोऽयम्-यदन्तः कार्यभागोऽस्य अध्यस्यते

असदकरणात् (सां। का। ९)

इत्यादेर्न्यायस्य तुल्यत्वात् । तस्मात् सामग्रीरूपकारणान्तर्वर्ती कार्यस्वभा- वोऽभ्युपगन्तव्यः सत्कार्यवादिना धर्मसञ्चयरूपः, नतु एककोपादानकारणान्तर्वर्ती सहकारिणामनुपयोगप्रसङ्गात् । ननु कानिचित् सहकारीणि उपादानरूपमाविशन्त्येव कारणतां प्रतिपद्यन्ते ।

जलभूम्योः परिणामिको हि रस ऊष्मणा वेगवता कालप्रभावितेन बीजान्तर्वर्तितामेव उपयाति तावता विचित्रस्य अङ्कुरस्य

(पगे १७२)

स्वरूपलाभात्, अन्यानि तु धर्माधर्मपुरुषार्थप्रभृतीनि अभिव्यक्तिमात्रे व्याप्रियन्ते । तेषु का कार्यशेषान्तर्गमनचिन्ता । यद्येवं, अभिव्यक्तिर्न कार्यशेष इति तत्र व्याप्रियमाणानामेषां दीपचक्षुरादीनामिव कथङ्कारं कारणतापरिगणनं भवेत् । कार्यशेषः सेति चेत्, तर्हि असती सैव । एनां तानि यथा उत्थापयन्ति, तथा उपादानमपि मुख्यकार्यमुत्थापयेत्,-इत्यलं क्वचित्सत्कार्यवादव्यवसनेन । तदाह अभ्युपेया इति । इणोऽर्हार्थे यत् । ततः इति कार्यशेषकृतादाधिदाधिक्यादात्- मनि चिन्मात्रता कथं स्यात् । ननु तावद्रूपत्वमात्मनो भविष्यति, किं हि दुष्यति तावता, किं वा पुष्यति चिन्मात्रतयेत्यत आह कैवल्यावस्थायां च इति । अभ्युपेतचिन्मात्रतात्याग एव तावदपसिद्धान्तः, स तु अपसिद्धान्तान्तरपि आनयतीति चशब्दः । तथाहि-कैवल्यदशायां न चित्प्रतिबिम्बं बुद्धावुदेतीति तदा पुरुषोऽकारणस्वभावः, ततः प्रतिबिम्बात्मककार्यशेषवियुक्तः पूर्वं तद्युक्त इति योगविभागौ भावाभावत्वेन विरुद्धौ । ततश्च विरुद्धधर्मयोगादैक्यं कूटस्थं न स्यात् पुंसः । प्रधानस्यापि हि अकौटस्थ्ये इदमेव निमित्तं, न अन्यत् । ननु कैवल्यावस्थायामपि अस्य योग्यत्वमनिवृत्तम्, तदेव च कार्यशेषान्तर्गमनं प्रधानस्य इव महाप्रलये इत्याशङ्क्य मध्ये प्रमेयान्तरं हेत्वन्तरेण उपक्षिपति नहि इति । अनन्तरम् इति कदाचिदपीति आशयः । घटेऽपि पटयोग्यता भवेत्, पुरुषेऽपिवा महदादिजननयोग्यता,- इति कारणत्वं योग्यतारूपं नियमवत्त्वेन व्यापकेन कार्यपूर्वभाविताविरहात् विपक्षादपसारितं कार्यपूर्वभावित्वेन व्याप्यते, तच्च इह न उपलभ्यते,-इति व्यापकानुप-लब्धिः । न कैवल्ये पुमान् प्रतिबिम्बकारणं कार्यापूर्वभावित्वात् । कार्यपूर्वभावित्वस्य च व्यापकं कार्यपश्चाद्भावः ।

(पगे १७३)

तद्विरुद्धस्तदभावः कार्यपूर्वभावित्वं निषेधति । न कैवल्ये कार्यपूर्वभावी पुरुषः कदाचिदपि कार्यपश्चाद्भावाभावादिति व्यापकविरुद्धोपलब्धिः, कदाचिदपि कार्यपश्चाद्भावसम्भावनायां तु कैवल्यं नास्तीत्येव उक्तं स्यादिति आशयशेषः । यदिवा चिन्मात्रताहानिरित्यत्र अयमाशयशेषः-यत् तत् चिन्मात्रात् भोक्तृरूपात् प्रकाशादधिकं, तत् कथं भोक्तुः स्वरूपं भवेत् । विरुद्धधर्मापत्तेर्हि पुंसोऽनतिव्यामिश्रं रूपम्,-इति उक्तं परिणामित्वं व्यपोहितुम् । अथ चिदचिद्रूपं च एकं चेत्यपि भवति, तदा पुंस्प्रभृतिविवेकसमर्थनं व्यर्थमिति । एवं कार्यशेषान्तर्भावेन पुंसिदूषणमुक्त्वा अभ्युपगम्यवादेन दुषणान्तरमाह कैवल्यावस्थायां च इति । मा भूद्वा तत्र कार्यशेषान्तर्भावः, तथापि कारणाकारणतारूपविरुद्ध- धर्मापत्तेः परिणामित्वमपरिहार्यमिति । ननु चिद्रूपतातिरेकेण आत्मनो न कारणताख्यं रूपान्तरमस्ति

——नप्रकृतिर्न विकृतिः पुरुषः । (सां। का। ३)

इतिवचसा सप्तविधकर्तृत्वनिषेधाभिधानात्

पुरुषार्थ एव हेतुः——-। (सां। का। ३१)

इत्यनेन तु प्रधानस्य विश्वत्र उपादानकारणस्य सुखाद्यात्मकत्वेन यत् भोग्यताख्यं दृश्यत्वं नाम रूपं, तदेव निमित्तकारणत्वेन उक्तम् । तत्तु स्वात्मापेक्षं न उपपद्यते भोग्यस्य भोक्तृरूपविरोधादिति चिद्रूपमजडं भोक्तारं पुरुषं प्रति इति सम्पद्यमानं विशेषाभावात् सर्वपुरुषान् प्रतीति व्यवस्थाप्यते, नतु पुरुषः कदाचिदपि किञ्चित् करोति,-इति परकीयं मतमनुभाष्य दूषयति बुद्धिसद्भावेऽपि इति न तत्सन्निधाने इति निमित्तत्वं सप्तम्यर्थं नेति प्रतिषेधति । एतदुक्तं भवति- बन्धमोक्षव्यवस्थासिद्धये यदुक्तं

(पगे १७४)

कृतार्थं तं प्रति नष्टमप्यनष्टं साधारणत्वात्

इति, तत्र तं पुरुषं प्रतीति कर्मप्रवचनीयविभक्तिव्यङ्ग्यो यः सम्बन्धः, स चेत् न वास्तवः, तर्हि न किञ्चिदुक्तं स्यात् । वास्तवत्वे सन्निधानस्य निमित्तकारणतायामुच्यमानायां कथमकारणस्वभावता पुंसः सिध्येत् कारणस्वभावत्वे सदातने मोक्षायोगः, कदाचिदकारणस्वभावत्वे विधर्मधर्मयोगात् कूटस्थताहानिरिति । एवं नचात्यन्तशुद्धम् इत्यादिना न तत्सन्निधाने तदुद्भवः स्यात् इत्यन्तेन टीकाग्रन्थेन सूत्रोक्तमनादरास्पदत्वं वृत्तौ तथापीत्यर्थेन तथाच इत्यनेन अभ्युपगम्यवादाभिधायिना कृतवृत्तिकं परपक्षानुपपत्त्या बहुशाखया प्रदर्शितया स्फुटीकृताभिप्रायत्वेन विवृतम् । अधुना तस्याश्चित्स्वरूपतास्यात् इतिवृत्तिपरिजिहीर्षितोऽपि विरुद्धधर्माध्यासो बलादेति,-इत्येवं भङ्यन्तरेण व्याचष्टे आत्मा इति । एवं च अत्र विकल्प्यम्- अयं चित्स्वभाव आत्मा, इयं च चिच्छायाधारिणी धीरिति किमिदमनुभवबलात् व्यवस्थाप्यते, कस्यचिदर्थस्य अन्यथानुपपत्त्या वा । तत् प्रथमं कल्पं दूषयति आत्मप्रतिबिम्बयोगात् इति । यथानुभवम् इति अनुभवानुसारेण अनुभवयोग्यम् । अनुभवे च एकमेव सुखाद्यात्मकं स्वप्रकाशतया चैतन्यरूपं तत्त्वं वस्तुभूतमवतिष्ठते अनुभवरूपाबाधितप्रमाणबलेन स्थैर्यमवलम्बते । चोऽप्यर्थे ।

आत्मानं चैतन्यप्रतिबिम्बार्पकं, तत्कृतं बुद्धौ प्रतिबिम्बमपि अङ्गीकृत्य । एतदुक्तं भवति-आत्मच्छायाकृतेऽपि चैतन्ये चिद्रूपे स्वयं च सुखाद्यात्मकत्वेन साताकारमेकं बुद्धिसञ्ज्ञकं तत्त्वमङ्गीकृतं विरुद्धधर्माभ्युपगमभीरुभिरपि पारमर्षैः । ततश्च प्रतिभासबलात् तदेव ग्राहकरूपं भविष्यति । इह अहं जानामिति हि सर्वस्य अबाधिता

(पगे १७५)

प्रतिपत्तिः । तत्र इदमंशो बाह्येऽपि आभाति सर्वप्रमातृसाधारणरूपः क्रयविक्रियादौ, अन्तस्तत्प्रतिबिम्बितोऽपि असाधारणो मनोराज्यसङ्कल्पादौ विकल्पे च । तत्र युक्तं तद्विषयार्पितं दृश्यप्रतिबिम्बं बुद्धाविति, अहमिति तु यदिदं बुद्धौ स्वरूपं प्रकाशते च अध्यवसीयते च, तदेव सुखाद्यनुवेधेन भाति । यदाह इदमेव च नः सुखं यत् सातं संवेदनम् इति । अहमिति तु रूपमन्यत्र न कुत्रचिदनुभूतं येन तदर्पितं बुद्धितत्त्वे स्यात् । नचापि पुरुषस्य तद्रूपमिष्यतेऽहङ्कारवृत्तित्वेन अस्य इष्टत्वात् । अहमिति इदमिति च मुक्त्वा तत्त्वान्तरस्य न कस्यचिदनुभवः । किञ्च आत्मानं बुद्धितत्त्वं न पश्यति येन जानीयात्-एतदीया इयं मे चैतन्यच्छायेति । नच अन्योऽनयोस्तृतीयो द्रष्टा अस्ति यस्तथा अध्यवस्य व्यवहरेदुपचरेद्वा । नच सुखादिरूपस्य चैतन्येन विरोधः सुखादेः स्वप्रकाशस्वभावत्वेन निर्भासनात् स्वप्रकाशत्वस्यैव च चैतन्यरूपत्वात् ।

केवलं सुखादिरूपशून्यमपि विषयग्रहणमात्ररूपं संवेदनमुपलभ्यते,-इति अमुया भङ्ग्या चित्तरूपविशेषकत्वमभिधातु- मभिधर्मादौ सुखादयश्चेत्या इति व्यवह्रियन्ते संवेदनमात्रं तु चित्तमिति, तत्र अनुभवबलेन पुरुषकृता चिच्छायेति व्यवतिष्ठते । ननु बुद्धिपुरुषयोः परस्परसंसर्गादियं भ्रान्तिः सुखमेव च स्वप्रकाशमिति । उक्तमन्यत्र

संसर्गादविभागश्चेदयोगोलकवह्निवत् । भेदाभेदव्यवस्थेयमुत्सन्ना सर्ववस्तुषु ॥

इति । कस्य च इयं भ्रान्तिः । न बुद्धेः पुरुषमपश्यन्त्याः । नच तृतीयः संसृष्टतद्द्वितयग्राही कश्चिदस्तीत्युक्तम् एकमेव इति, नतु बुद्धिपुरुषद्वयरूपम्, नापि संसर्गकृतभ्रान्तैकरूपमिदमित्य-

(पगे १७६)

नुभवगोचरापत्त्या । नच ज्ञेयं संविद्रूपस्वप्रकाशमिदमित्यस्य अर्थस्य वा संविद्रूपं तत एव च विषयभेदात् सुखदुःखादिना अनेकेन आकारेण चैत्तरूपेण अनधिकेनापि अधिकेन इव विशेषेण वर्तमानत्वाच्च प्रतिक्षणभिन्नं सन्तानवृत्त्या प्रवहत् पश्यामः । सर्वेषां प्रमातॄणां तदतिरिक्ते नास्त्यनुभव इति एकपदेन ब्रह्मविवर्तवादोऽपि न अन्यः सिद्ध इति ध्वनति । एवं प्रथमस्तावत् कल्पो न युक्तः, द्वितीयोऽपि न उपपन्न इत्याह तावन्मात्र एव इति । मात्रग्रहणेन स्वप्रकाशत्वविषयग्रा- हित्वसातादिरूपत्वादि यावदस्य व्यावृत्तिभेदोपकल्पितं रूपं भाति, तेन न अस्य भेदः कश्चिदिति दर्शयति । एवकारेण अधिकं निषेधति । अर्थभोगस्य इदमहं जानामीति अनपह्नवनीयस्य परिपूर्णेन रूपेण सम्यक्तया अभ्रान्ततया आप्तिः सम्पत्तिर्यतः, तस्मादर्थभोगरूपायाः संवित्तेः सम्बन्धी संसर्गसमवायादिना वर्तमानः कश्चिदात्मा अस्तीति कस्य अर्थस्य अन्यथानुपपत्त्या कल्प्येत । एवमियता वृत्तिगतम् अनुपपत्तेः इतिपदं व्याख्यातम् । एवम् इति सूत्रद्वयोक्ताभिर्युक्तिभिः यः प्रसङ्ग उक्तः, तद्विपर्ययेण अनित्यरूपस्य अन्यानाश्रितस्य ज्ञानस्य सिद्धेरित्यर्थः । एवं ज्ञानक्रियायोगात् इत्यत्र हेतौ ज्ञानभागं विचार्य तदनुलग्नत्वेनैव क्रिया विवेच्या हेतुभङ्गायेति शिक्षयितुं सदपि इतिवृत्तावपिशब्द उत्तरकारिकावकाशदानार्थः । अपिशब्दो हि कामकाररूपं सत्त्वे तावदन्वव-सर्गं द्योतयन्नन्यस्य तु सत्त्वमपि न अधिगन्तुं शक्यमिति प्रकटयति । तहा च टीकाकार एवमेव विवरीष्यति क्रिया तु इत्यादिना अपिशब्द इत्यन्तेन । अत एव उत्तरकारिकार्थो वृत्तिकृता सङ्क्षेपेण इहैव व्याख्यातः ।

यथा इति येन न्यायप्रकारेण आर्य एवमाह, स इयता

(पगे १७७)

ग्रन्थेन निर्णीत इति यावत् । तत्र इति प्रत्यक्षे इति अनपह्नवनीयप्रकाशे विषयोपलम्भे अर्थभोगात्मनि निमित्ततया स्थिते । समाप्तः सम्यगाप्तः सिद्धः स्वात्मनि तथाप्रकाशानुरूपविकल्पनलक्षणः, परत्र तथाप्रका- शसङ्क्रमणकारिप्रतिपादनलक्षणः प्रख्योपाख्याशब्दवाच्यस्तत्- पूर्वकश्च प्रवृत्तिप्राप्त्यर्थक्रियालक्षणो व्यवहारः प्रमातृप्रमेयाणां बहुशाखपरस्परप्राप्तिरूप इत्यतो हेतोश्चैतन्यं चितिशक्तिमात्रं पुरुषलक्षणं धर्मान्तरप्रतिक्षेपप्राणेन भावप्रत्ययान्तेन अभिधानयोग्यं यदुच्यते तदपार्थकं निष्प्रयोजनं, न अनेन विना किञ्चित् प्रयोजनं सिद्ध्यति यदन्यथानुपपत्त्या तत् कल्प्येतेत्यर्थः । तदयं प्रयोगः-अर्थसंवेदनमध्ये न आत्मा विकल्पनीयोऽनुभवान्यथानुपपत्त्यन्यतरानु-पलब्धेरिति कारणानुपलब्धिः । अधिको हि महानसे पिठरादिभ्योऽग्निः, पर्वते च तरुशिलादिभ्योऽनुभवेन धूमान्यथानुपपत्त्या वा कल्प्यते इति तत्कारणिका कल्पना आकारणकत्वस्य अन्यकारणकत्वस्य वा कल्पना उपरिदृश्यमाननियमायोगादिति । ननु एवमनुभवानुसारेण व्यवस्थायां नीलं सुखं, पीतं दुःखमित्येतावन्मात्रं प्रकाशमानमङ्गी-कर्तव्यम्; अहमिति तु विकल्पमात्रं, नतु अत्र अधिकं चकास्ति । नीलं हि प्रकाशते, न नीलप्रकाशः कश्चित्, तज्ज्ञानेऽपि कः पक्षपातः, येन करुणायमान इव सदपि इति तदभ्युपगमं परः कुर्यादित्याशङ्क्य आह ज्ञानस्य असत्तायाम् इति ।

भवतैव हि उक्तं नीलं प्रकाशते इति । तदत्र प्रकाशते इति यो भागः, स नीलशरीरपरमार्थ एव चेत् यथा नीलं सर्वप्रमातॄन् प्रति भवति न भवति वा, तथा सोऽपि स्यात् । तदेतदाह नहि इत्यादिना । रूपवत्स्यात् इति । भवनं, न भवनं वा समानं मन्तव्यम् ।

(पगे १७८)

तत् इति निपातस्तस्मादित्यर्थे वर्तमानः स्यादितिप्रसङ्गसूचितस्य स्वविपर्ययरूपस्य परिदृश्यमानत्वेन अवश्याङ्गीकार्यस्य हेतुतामाह ।

यतो ज्ञातत्वं न सर्वप्रमातॄन् प्रति, नापि न सर्वप्रमातॄन् प्रति अपितु कञ्चिदेव प्रमातारं प्रति, ततो हेतोर्ज्ञानमेव, नतु विषयस्वरूपं, ज्ञाततेत्यर्थः । ननु एवं भवतु ज्ञानम्, प्रत्यक्षं तु कुतः ।

विषयगतप्रकटतात्मकफलानुमेयमनाश्रितस्वप्रकाशसंविदात्मक- फलानुमेयं वा तदित्याहुः । अज्ञातेऽर्थे न कश्चित् बुद्धिमुपलभते, ज्ञाते तु अनुमानादवगच्छतीति । तथा

नान्यथा ह्यर्थसद्भावो दृष्टः सन्नुपपद्यते । ज्ञानं चेन्नेत्यतः पश्चात्प्रमाणमुपकल्प्यते ॥

इति । तेन न स्वरूपमात्रं नीलस्य ज्ञातता, येन सर्वप्रमातॄन् प्रतीति चोद्येत; अपितु तत्प्रकटता तत्संवित्तिर्वा ज्ञातता, तज्जनकं तु भावनारूपं क्रियात्मकं ज्ञानं तदनुमेयं, नतु ज्ञानमेव ज्ञाततेत्याशङ्क्य आह अत एव इति । अनेनैव अधिकरणसिद्धान्ततामाह

यत्सिद्धावन्यप्रकरणसिद्धिः सः । (न्या। सू। १ । १ । ३०)

इति । अत्र हि हेतुर्यच्छब्देन निर्दिष्टः, स इत्यत्र तु उपचारात् तद्धेतुकस्तद्धेतु- साध्योऽर्थ उक्त इति प्रतिज्ञार्थत्वाविरोधः, हेतुरपि वा प्रमाणमूलाभ्युपगमरूपत्वात् सिद्धान्ततां न जहाति, यदिवा यत्साध्यसिद्धावित्यत्र साध्यतयैव हेतुराकृष्ट इति विशिष्टहेतुक एव साध्यस्तथेति लभ्यम् । अत एव हेतोः सर्वप्रमातॄन्नित्युक्तात् ज्ञानमेव ज्ञातता, नतु प्रकटता संवित्तिर्वा ज्ञाततेति यत् वस्तु ततो हेतोस्तज्ज्ञानं प्रत्यक्षं स्वसंवेदनसिद्धमभ्युपगन्तव्यम् । यदा इति यदित्यस्य अर्थे तदा इति तत इत्यस्य अर्थे इति यत् वस्तु विशिष्टहेतुसिद्धं, ततो हेतोः प्रत्यक्षत्वमिति;

(पगे १७९)

यस्मादर्थे तु व्याख्यायमाने यस्मादेवमिति यत् वस्तु तस्य न हेतुत्वमुक्तं भवेत्, अपितु एवमिति विमृष्टे योऽन्यः कश्चित् हेतुः, तस्य प्रकृते साध्ये हेतुत्वमुक्तं स्यात् । धूमवान् यतस्तस्मादग्निमानिति हि आञ्जसी एव एषां प्रतीतिर्येन हेतुना धूमवानयं सम्पादितः, अथवा ज्ञातः सोऽग्निमत्त्वे हेतुरिति । नच एतत् विवक्षितम्, अपितु धूमवत्त्वस्यैव हेतुत्वमग्निमत्त्वेऽभिधि- त्सितम् । तच्च अञ्जसा न अतो वाक्यात् प्रतीयते । तेन विवक्षितेऽर्थे एवं स्पष्टा वाचोयुक्तिर्धूमवान् यत्, तस्मात् अग्निमानिति । अनुवदनकाले हि स्वरूपमात्र- मस्य पराम्रष्टव्यम्, नतु हेतुभावः । स हि पश्चात् तच्छब्दपरामृश्यतायां विधेयः । तेन एवंविधेषु स्थानेषु इत्थं गमनिका विधेया-धूमवानित्यत्र इतिशब्दार्थगर्भीकारेण शब्दस्वरूपं वा ज्ञानं वा अवतिष्ठते, धूमवानिति यस्मात् भवति शब्दज्ञानात्मा व्यवहारो धूमवत्त्वलक्षणादर्थात्, ततो हेतोरग्निमानिति ।

यदिवा यतो हेतोर्बोधरूपात् धूमवानयं सिद्धः, स धूमवत्त्वावबोधोऽग्निमत्त्वे हेतुरिति अनुवादभागे पञ्चमी हेतुविषयं बोधमाक्षिपन्ती हेतोरज्ञातस्य न हेतुत्वमिति ज्ञापयति । एतदेव न युक्तम् ।

तथाहि अनूद्यमानताकाले न हेतुवाचकात् शब्दात् पञ्चमी प्रयुज्यते यस्मात् धूमवत्त्वादिति, अपितु यतो धूमवत्त्वमिति प्रथमैव; तदेवं यस्मादिति बोधः उक्तः । एतेन अभिप्रायेण चिरन्तनैर्हेतोरनुवादयोगेऽपि पञ्चमी प्रयुक्ता

यतो हि पूर्वानुभवसंस्कारात्——। (२ । ५)

इत्यादौ, अद्यतनैस्तु प्रसिद्धिमात्रमुपजीवद्भिरभिन्ननारिकेलनिगरणवत् वस्तुतत्त्वमलभमानैर्व्यवह्रियते । यदेति वा यस्यां कालकलायामय- मर्थोऽस्ति, तस्यामयमप्यस्तीत्युक्तौ हेतुहेतुमत्तावगतिः

(पगे १८०)

सामर्थ्यात् लभ्यते । अनूद्यमानस्य पूर्वसिद्धत्वेन यदेति हेतुत्वं युज्यते, तदेति विधीयमानस्य अपूर्वत्वेन साध्यत्वात् हेतुमत्त्वमिति अलं बहुना ।

ज्ञानमेव ज्ञाततेत्ययमर्थो विशिष्टेन हेतुना यतः सिद्धः सर्वप्रमातॄन् प्रतीत्यनेन, ततो हेतोः प्रत्यक्षत्वं ज्ञानस्य सिद्ध्यति । यदि तु अन्यतो हेतोर्ज्ञानमेव ज्ञाततेति असाधयिष्याम, तत्पक्षे तु अस्य हेतुता न भवेत्,-इति विशिष्टहेतुकस्य सतो हेतोर्हेतुत्वम्, न पुनः

उपादायापि ये हेया————। (वा। प। २ । ३७)

इति नयेन । पूर्वहेतुसिद्धेऽर्थे हेतूचिकीर्षिते स पूर्वहेतुस्त्यज्यत एव । यथा धूमवत्त्वादयमग्निमान्, यस्माच्च धूमवत्त्वादग्निमान्, तस्मात् शिरोऽर्तिसन्तापजनकः-इत्यत्र पूर्वहेतुरयमुपजीव्यते; तथा अत्रापीति एतदभिधातुमुक्तम् अत एव यदा ज्ञानमेव ज्ञातता तदा इति । अयमत्र तात्पर्यार्थः-इह प्रकटता नाम यदि अर्थस्य क्रियते, तदा सा किं रूपवदर्थधर्मो भवन्ती स्वात्मनि ज्ञानमपेक्षते, न वा । पूर्वस्मिन् कल्पेऽनवस्था-तस्यामपि हि ज्ञानकृतं प्रकटतान्तरं वक्तव्यम्, तत्रापि अन्यदिति प्रकटतां जानन् न अप्रक्षीणेषु ज्ञानेषु अविरमत्सु न अर्थः प्रकटो युगसहस्रैरपि भवेत् । अथ सा प्रकटता अर्थस्य चेत् जाता, प्रकटोऽसावर्थो जातः; किमन्यत् प्रार्थ्यते । तत्रापि अर्थस्य यदस्तु, तदस्तु; मम प्रकटो मैत्रस्य प्रकट इति तु यो नियतप्रमातृसम्बन्धस्तत्सम्मुखप्र- वर्तनप्रभृतिव्यवहारमात्रपरम्परारूपार्थक्रियानिवहनियमनिबन्ध- नभूतः, स कथङ्कारं प्रकटतायाः । जन्यजनकताया इति चेत्, कुम्भकारक्रियया कुम्भः समुद्भवन् तस्यैव तथा स्यात् । को हि विशेषः, यत् कुम्भो न तज्जनकस्वप्रकटता तु तस्य । ततश्च कुम्भतायां प्रतिबिम्बार्थक्रिया तत्कृता एव स्यात् प्रकटतायामिव । यत्

(पगे १८१)

भावगतं रूपं, तत् सर्वसाधारण्येन अर्थक्रियायै पटगतमिव शुक्लत्वम्, तथा च प्रकटतेति । भावनिष्ठं हि रूपं यदि तथा न भवेत्, बाह्यता अस्य व्यापिका हीयेतेति विपक्षादसाधारण्येन अर्थक्रियाकारित्वात् व्यापकानुपलब्धिप्रसङ्गेन व्यावर्तितो हेतुः साध्येन व्याप्यते इति स्वभावः । ननु द्वित्वं यस्य अपेक्षाबुद्ध्या जनितं, न तदन्यसाधारण्येन अर्थक्रियाकारि,-इति अनेकान्तः । असिद्धेरेकोऽनेकान्तः ।

नहि सौगतस्य विकल्परूपादृते द्वित्वं किञ्चित् भावगतं रूपमस्ति । यस्यापि तत् तथा, तस्यापि न असाधारण्येन अर्थक्रिया ततो द्व्यणुकगतस्य अणुत्वस्य सर्वसाधारणस्यैव द्वित्वादुत्पत्तेः प्राचुर्येण च न द्वित्वमर्थक्रियाकारि, अपितु तज्ज्ञानम् । नच तत् बाह्यं भावनिष्ठं रूपम् । अथ तज्ज्ञानमपि सर्वस्य कस्मात् न स्यादिति उच्यते, तदत्रापि तेन न न उच्यते । इह यथा द्वित्वमपेक्षाबुद्ध्या जायते; तथा तत्सामान्यज्ञानम्, ततो द्वित्वगुणज्ञानम्, ततो द्वे द्रव्ये इति द्रव्यज्ञानमिति । अन्यस्य तत् नास्ति तस्या एव अभावात् । अपेक्षाबुद्धिर्द्वित्वजातज्ञानजन्मनि कस्मात् कारणमिति चेत्, रूपज्ञानजन्मनि किमालोकः कारणमिति पर्यनुयोज्यम् । यथादर्शनं हि कार्यकारणव्यवस्थेति आस्ताम् । अथ उच्यते कुम्भो ज्ञातः सन् साधारण्येन अर्थक्रियाकारी, नतु प्रकटतायां ज्ञानमस्ति; तर्हि न कस्यचित् सा अर्थक्रियायै भवेत् । अथ द्वित्ववदेव तत्र न सर्वस्य ज्ञानं भविष्यति, तर्हि प्रकटतायां प्रकटतेति अनवस्थेति उक्तम् । प्रमातृरूपात्मानाश्रितसंवि- द्रूपफलानुमेयज्ञानवादिनोऽपि समानमेतत् मम संविदिति व्यवहारासिद्धेः । अथ प्राकट्यसंविदन्तरमन्तरेणापि तथा, तत् सर्वप्रमातॄन् प्रति स्यात् विशेषाभावात् । तयोः संवित्तिप्रकटतयोर्ज्ञानमेव प्रमातृविश्रान्तं प्रकटतेति चेत्, भावेन

(पगे १८२)

किमपराद्धमित्याशयेन ज्ञानमेव इति एवकारः । स्मरणे अतीतानागतानुमानादौ च अर्थ एव असन् यथा इङ्गितनिमिषितादीन् धर्मानात्मनि न सहते, तथा प्रकटतामपि अनुपाख्यः कथं सहेत,-इति न असावर्थस्य कस्यचित् धर्म इत्यपि एवकारार्थः । तत् सिद्धं ज्ञानमेव प्रकटता ज्ञातताया एव हेतूचिकीर्षिताया अनुमित्सितज्ञानरूपत्वादिति ।

तदुपाधिः इति ज्ञाततोपाधिर्हि ज्ञात उच्यते । अन्यथा सदैव सर्वान् प्रति च किं न ज्ञातः स्यात् । यदुक्तं विनिश्चये जितं जडैः इत्युपहस्य ज्ञानं च नाम बुद्धिसाधनं प्रत्येति, नच बुद्धिम् इति श्लाघनीयप्रज इति, ननु व्यक्तिबुद्धिरेषा इति च । ननु यदिदमियता स्वप्रकाशरूपं ज्ञानं सिद्धं, स एव आत्मा भविष्यतीत्याशङ्क्य आह तस्य च इति । ज्ञेयोपाधिः इति ज्ञेयकृतो देशभेदो विभुत्वाशङ्काशमननिदानभूतः-इह घट इति; कालभेदः-अधुना घट इति नित्यत्वव्यामोहव्यपोहनहेतुर्भात्येव । यदपि सुखादिज्ञानं, तदपि एकसामग्र्यधीनतानित्यसम्बद्धदेहावच्छेदकृतो देशकालभेदो भात्येव; सुप्तादौ तदैव तदेव । नापि औत्तरकालिकजाग्रद्विकल्प-व्यवहार्यो देशकालभेदः स्मर्यत एव स्तिमिततायामपि व्युत्थानचित्त-प्रभवस्मृतिविकल्पव्यवहार्य इति ज्ञानानि एव च देशकालस्वभावभिन्नानि व्यापकानि नित्यानि एकात्मकानि सन्तत्या प्रवहन्ति वहन्ति लोकयात्राम् । तदाह न अन्यस्य इति सम्बन्धि इति तादात्म्यसमवायादिनेत्यर्थः । अन्यस्य इति वृत्तिं विवृणोति पाठपूर्वकम् आत्माख्यस्य इति वस्तुनः इति सन्तानस्य सम्बन्धित्वेन उच्यतां नाम मम ज्ञानमिति व्यवहारस्य दर्शनादिति आकूतम् । वृत्तिं तु व्याख्यानभङ्गोऽपि मा भूत्, मा

(पगे १८३)

च भूत् पुनरुक्तमित्यभिप्रायेण टीकाकारः सङ्क्षिप्य विवृणोति वक्ष्यमाणनयेन इति ॥ ८ ॥

क्रियाप्यर्थस्य कायादेस्तत्तद्देशादिजातता । नान्याऽदृष्टेर्न साप्येका क्रमिकैकस्य चोचिता ॥ ९ ॥

सङ्क्षेपेण कारिकार्थमाह क्रिया इति । अदृष्टेः इत्यस्य प्रमाणेन अनुपलब्धेरित्ययमर्थ इति दर्शयति प्रत्यक्ष इति अवसायपर्यन्तः प्रमाणव्यापार इति दृष्टिरवसायपर्यवसायिनी सूत्रे व्याख्येया, येन अनुमानमपि सग्रहीष्यते इत्यवसेयशब्दः स्वरूपेण अन्यसम्बन्धितया चेति प्रमाणानवसेयत्वे युक्तिम्बाधित्वे च उभयत्रापि सम्बन्धनीयम् । युक्त्या प्रमाणव्यापारेण बाधितत्वं स्वरूपत उक्तम् न साप्येका क्रमिका इति, अन्यसम्बन्धितया तु उक्तम् एकस्य क्रमिका कथं भवेत् इति । आत्मन ऐश्वर्यं ज्ञानक्रियायोगादित्येवंरूपपरोदीर्यमाणहेतुदूषणप्रकट- नलब्धं यत् पुनः सूत्रद्वये प्रसङ्गापादनाभिधायिनि प्रसङ्गविपर्यये विश्रान्त्या तस्मात् ज्ञानं न युक्तमिति ज्ञानस्य अयुक्तत्वं, तत् क्रियायामिह सूत्रे वृत्तौ च अपिशब्देन समुच्चीयते,-इत्याशयेन विवृणोति न केवलम् इति ।

अनेन च क्रियापि न युक्ता इति वृत्तिर्व्याख्याता । पूर्वसूत्रवृत्तौ सदपि इति अपिशब्दस्य अर्थो व्याख्यातः, एतत्सूत्रगतस्य तु अयमर्थः इत्याह अत्रापि इत्यपिशब्देन टीकाकारः । एवं च वदन् सूत्रवृत्त्योरेकग्रन्थतां स्फुटयति ।

तत्र इति न युक्तेति वक्तव्ये सतीत्यर्थः; यदिवा तत्रेति आत्मनि क्रिया । सा तावत् लौकिकी चलनरूपा कर्मपदार्थत्वेन पदार्थविद्भिरुपगता न भवति आत्मनो मूर्तिहीनस्य मूर्त्यनुविधायिनी सा नोपगता यतः । तैर्हि आत्मनो ज्ञानचिकीर्षायत्नयोगे एव कर्तृत्वं प्रसाधितं, ज्ञानादयश्च

(पगे १८४)

गुणाश्च तत्समवायश्च न क्रियेति तादृशी क्रिया वक्तव्या, या आत्मनः सम्भाव्यते । तदाह इति लक्षणम् । कारकस्य फलसिद्धिहेतुभूतक्रियानि- मित्तस्य स्वक्रियापेक्षया वाकर्तुः सम्बन्धी तत्समवायी तदात्मा वा व्यापारो रूपं स्वं लक्षणं यस्याः, सा क्रिया यस्याः सम्बन्धिनो भागाः पूर्वापरीभूताः क्रमवृत्तयः इति यावत् । यदाह तत्रभवान्

यावत्सिद्धमसिद्धं वा साध्यत्वेनाभिधीयते । आश्रितक्रमरूपत्वात्तत्क्रियेति प्रतीयते ॥ गुणभूतैरवयवैः समूहः क्रमजन्मनाम् । बुद्ध्या प्रकल्पिताभेदः क्रियेति व्यपदिश्यते ॥ श्वेतं श्वेतत इत्येतच्छ्वेतत्वेन प्रकाशिते । आश्रितक्रमरूपत्वादभिधानं प्रवर्तते ॥ कार्यकारकभावेन ध्वनतीत्याश्रितक्रमः । ध्वनिः क्रमनिवृत्तौ तु ध्वनिरित्येव कथ्यते ॥

इति । एवम्भूता च क्रिया आत्मनोऽस्त्येव इच्छति जानाति यतते इति पूर्वापरीभूततत्तद्धर्मप्रतीतेरङ्गीकृता च ईश्वरात्मवादिभिः ।

यथाहुः श्रीग्रन्थकारगुरुपादाः

तदेच्छा तावती ज्ञानं तावत् तावत्क्रिया हि सा । (१ । ३) इति,

एवं न जातुचित्तस्य वियोगस्त्रितयात्मना । शक्त्या——————॥ (१ । ६) इति,

घटादिग्रहकाले तु घटं जानाति सा क्रिया । (१ । २४)

इत्यादि च । एतत् लक्षणं परिशोधयितुं द्व्यर्थं व्याचष्टे स्वात्मना इति ।

जानातीत्यस्यां क्रियायां ये भागा अभिसन्धानदीपालोका-

(पगे १८५)

दिढौकनमनोऽवधाननेत्रोन्मीलनाद्याः, ते स्वरूपेण केवलं सन्तः, नतु पूर्वे, नापि अपरे पूर्वापेक्षत्वादपरत्वस्य तदपेक्षणाच्च पूर्वत्वस्य, ते अपूर्वापरे सन्तः पूर्वापरीभूता अवयवाः परस्परापेक्षणेन यस्यां सा तथा । ननु किमनेन अपेक्षाजन्मना रूपेण लक्षणेन निरूपितेन स्वरूपमात्रेणैव ते क्रियेति उच्यतामित्याशङ्क्य आह अपेक्षमाणानामेव च इति, अन्यथा हि आश्रितक्रमत्वं यत् क्रियायाः प्राणितं, तदेव न स्यात् । यत् तत्रभवान्

यथाच भागाः पचतेरुदकासेचनादयः । उदकासेचनादीनां ज्ञेया भागास्तथापरे ॥ यश्चापकर्षपर्यन्तमनुप्राप्तः प्रतीयते । तत्रैकस्मिन्क्रियाशब्दः केवले न प्रयुज्यते ॥

इति । चकारः प्रकृतप्रमेयोपयोगित्वेन प्रमेयान्तरं समुच्चिन्वन्नाशङ्कां सूचयतीति तत्प्रशान्तये फलतो हेतुतां तस्य प्रमेयस्य अवद्योतयति,-इत्यनया भङ्ग्या उद्धोष्यते चो हेत्वर्थः इति । यथा चैत्राय भोजनं देयम्, परमश्च अयमौदरिक इति वृहत्कं भोजनं देयं कस्मादित्येवं प्रमेयं चकार आक्षिपतीत्यादौ, एवमन्यत्रापि अवधेयम् । ननु अवयूयन्ते एकावयव्यात्मनि मिश्रीक्रियन्ते युतता वापृथक्ता येषां च अवयूयते, ते यस्य अवयवाः सम्बन्धिनः, सोऽवयवी । नच असावात्मनो धर्मो युक्त इत्याशङ्क्य आह क्रमिकत्वात् इति । असम्भावनादृढीकरणतात्पर्येण अयं हेतुः, नतु अक्रमिकत्वादेव अवयविन आरम्भो भवति रूपरसगन्धाद्यैः समानकालैरपि तस्य अनारम्भात् क्रमिकाश्च अत्र कालभिन्ना देशभिन्नास्तु आरम्भकाः खलु तन्तवोऽवयव्यारम्भणदृष्टशक्तयोऽपि न आरभन्ते, किं पुनरदृष्टसामर्थ्याः क्रियाक्षणा इति तात्पर्यम् । भागः इति

(पगे १८६)

सूक्ष्मांशः, तत्र अवयवशब्द उपचारात् पृथक्त्वायोगाद्वा । ननु देशक्रमयोगिनामपि गजाश्वादिधवखदिरादिवस्तूनां सेनावनाद्येकप्रतीतिबलसिद्धः सुमुदायो दृष्टः, तद्वत् क्रमिकाणामपि क्रियाक्षणानां स्यात् । ततश्च एवं लक्षयितव्यम्-पूर्वापरीभूतावय- वसमुदायः क्रियेत्याशङ्क्य आह एककालत्वाभावात् इति । ननु एवं लक्षणे बहुब्रीहेराश्रयणमयुक्तमवयविनः सञ्चयस्य वा अन्यपदार्थस्य अलाभात् । तत इयत् वक्तव्यम्-पूर्वापरीभूता अवयवा एव क्रिया इत्याशङ्क्य आह नापि इति । अनेन हि उक्तेन भागा एव प्रतीयन्ते, तथाच भेद एव उद्भूतः स्यात् । भेदे च स्वात्मविश्रान्तिरेव परमार्थः । तद्विरुद्धा च परापेक्षा परनिष्ठत्वस्य तया उन्मीलनात्, अतो भेदोद्भवे पूर्वापरीभावानुपपत्तिरिति अभेदस्पर्शोऽपि आश्रयणीयः । ननु भिन्नस्य कथमभेदस्पर्शो भिन्नेन क्षणान्तरेण स्यादित्याह अतः इति । यतो भिन्नस्य स्वात्मपर्यवसितस्य अपेक्षा परनिष्टात्मा न युक्ता, तया च विना न पूर्वापरीभावलक्षणाः क्रमः, तन्मयी चेयं क्रिया लोके निर्भासते; अतो हेतोर्बुद्ध्या विकल्परूपया तत्र एकत्वमभेदलक्षणं क्षणानामध्यवसेयम् । यथोक्तं

बुद्ध्या प्रकल्पिताभेदः———।

इति । ननु स्वतन्त्रा बुद्धिश्चेदेवं कुर्यात्, कः प्रतिनियमः इति आशङ्क्य उक्तम् एककारक इति । न स्वातन्त्र्येण अयमेकताध्यवसायः, अपितु एककर्तृलक्षण- कारकस्वरूपाविनिर्भागबलादेकफलात्मककर्मकारकस्वरूपसमाश्र- याच्च । कारकशब्दः कर्तरि कर्मणि च विवक्षितः । ननु पूर्वापरीभूतभा- गरूपाश्च सेनादयो देशभेदात् समुदायरूपाच्च परस्परसम्बन्धात्, तद्वत् क्रियाक्षणा अपि भविष्यन्ति, तत् किमत्र बुद्ध्यवसायेनेत्याशङ्क्य आह

(पगे १८७)

सेनादीनां तु इति । तुर्व्यतिरेके । युगपत्सत्त्वात् इति एककालत्वादिति यावत् । ननु न युगपत्सत्त्वमात्रेण समूहप्रतिपत्तिः पिशाचसमूह इति प्रत्ययाभावादि- त्याह दर्शनाच्च इति प्रमाणेन यौगपद्यस्य परिच्छेदादित्यर्थः ।

आगमादेरवगतौ हि पिशाचेष्वपि दृष्टा समूहप्रतीतिः । ननु कोऽसावैक्यदृष्टेर्विषय इत्याह तथाहि इति । केचित् मांसास्थिमेदोमज्जाद्यव- यवान्तरजातिभेदेऽपि पार्थिवतैक्यात् यथा शरीरस्य अवयविता तथा गृहादेरपि,-इति मन्यन्ते । येऽपि एवं न मन्यन्ते, तेऽपि संयुक्तसंयोगं वा पृथग्भूतधर्मपदार्थसद्भावदृशा समुदायलक्षणं वा एकं गजादीनां धर्मं प्रतिजानते,-इति एकोऽपिशब्दः, न केवलमवयवी, वस्तुतस्तत्समुदायोऽपीति द्वितीयः । सम्बन्धोऽपि इति सामान्यरूपा हि सम्बन्धरूपता सर्वत्र संयुक्तसंयोगसमवायादौ, सामान्याभावे च विशेषवृक्षाभाव इव शिंशपायां का सम्भावनापीति । द्विष्ठत्वात् इति द्विष्ठेऽपीति यावत् । द्वयोरेव तावत् क्षणयोरेककालत्वं न घटते; का कथा बहूनाम् । नच एकक्षणे क्रियात्वम् । यथोक्तं

यश्चापकर्षपर्यन्तमनुप्राप्तः प्रतीयते । तत्रैकस्मिन् क्रियाशब्दः केवले न प्रयुज्यते ॥

इति । तेन पूर्वापरभागा एव सतत्त्वं पारमार्थिकरूपसाकल्यं बाह्यं यस्या इति वक्तुमेव बहुब्रीह्यर्थसमाश्रयणनीत्या लक्षणं भाष्यकारीयमाह वृत्तिकारः । एककारकस्वरूपाश्रयात् बुद्ध्यवसितमन्योन्यापेक्षत्वमुक्तम् । तदस्तु, एकत्वं तु कुतः, येन वृत्तावुक्तं न का इति । अत्र आह तथापिच इति । पूर्वापरभागमात्रपरमार्- थताप्रकारेण उपलक्षिताया अपि अस्याः क्रियाया एकत्वमेका इयं क्रिया इति बुद्ध्या । तथा इति एकत्वेन

(पगे १८८)

अध्यवसायात् । नच निर्मूलोऽयमेकताध्यवसाय इत्याह एककारक इति । ननु एककारकनिर्वर्त्या न काचन क्रिया अन्ततः कर्तृकरणाधाराणामवश्यं- भावादिति आशङ्क्य आह अनेककारक इति । कर्तृकर्मणोरेव स्वातन्त्र्येण फलत्वेन च प्राधान्यात् कर्तृस्थकर्मस्थताव्यवहारः । वैयाकरणनिकाये यत्र विशेषः क्रियातः, क्रियाया वा यतः; तत्स्थेति क्रिया व्यपदिश्यते ।

सर्वस्याश्च कर्तृगतविशेषत्वेऽपि कस्याश्चित् कर्माश्रयविशेषत्वादसा- धारणेन कर्मस्थत्वेन व्यपदेशः, शब्दवृत्तिमहिम्ना वा तत्स्थतानिश्चय इत्येवं कर्तरि एकत्र यतः क्रिया कर्मणि वा, तत्र एका । चैत्राय रोचते मोदक इत्यत्रापि चैत्रस्य मोदकः प्रीणयिता अभिलाषयिता चैत्रः प्रीण्यमानोऽभिलाषवान् कर्मेति वस्तुतः कर्मस्थतैव, केवलं शब्दशक्तिस्वभावात् रुचिरन्तः स्वविषयमभिलाषमस्य उत्थापयति,- इत्येतमर्थमाचक्षाणो विषयविषयिभावं सम्बन्धमभिधया उद्भूतं पुरस्कृत्य तत्कर्तृकमभिलाषं प्रधानत्वेन दर्शयति, आत्मीयं च कर्तारमप्रधानमिव करोति ततो निजं प्रयोजकव्यापारं गुणीकरोति,-इति सम्बन्धे सविषयेयं सम्प्रदानसञ्ज्ञा जायते, सम्बन्धसम्बन्ध्यपि चैत्रोऽभिलाषे कर्ता,-इति कर्तृस्थतापि । तदुच्यते-अन्यकर्तृकोऽभिलाषो रुचिः ।

ननु एवं पचनपठनयोस्तथा च्छिदिदृश्योरेककर्तृककर्मगतत्वे स्यादैक्यं भारोद्यमनस्य वनच्छेदनस्य न ऐक्यमनेककर्तृकर्मगतत्वा- दित्याशङ्क्य आह एकफलोद्देशेन च इति । नच पाकपाठकयोरेकफलत्वं च्छिदिदृश्योर्वा अभिसंहितं, तत्र तदभिसन्धाने तु स्यादैक्यं विश्ववर्तिनोऽपि क्रियालक्षणसमूहस्य । यथोच्यते जगदिदं विपरिवर्तते इति ।

एवं कर्तृकर्मैक्यमपि समूहाभिप्रायेण भारोद्यमनवनच्छेदनादौ सुवचमेव । ननु प्रधानमर्थक्रिया-

(पगे १८९)

यामर्थ्यमानं विशेषणसम्बद्धं प्रतीयते । प्रधानं च द्रव्यम् ।

अयं गौरेकः शुक्लश्चलतीति हि प्रतिपत्तिः । तत्र शुक्लत्वचलत्वयोर्यथा न अन्योन्यं सम्बन्धः, यथा चलत्वैकत्वयोरपि,-इति क्रियायाः कथमेकत्वसङ्ख्या । यत्तु द्वौ पाकावित्यादि उच्यते, तत्र विकल्पमहिम्ना पाकोऽसौ द्रव्यीभावित एव, न क्रियात्मा । यथाह कृदभिहितो भावो द्रव्यवत् ।

इति तथा भावमाख्यातेनाचष्टे । इति । आख्याते तु द्वित्वबहुत्वसङ्ख्या कर्तृकर्मगतैव निर्भासते, नतु परविश्रान्तिनियतक्रियाविशेषणभावेनेति कथमुक्तम् एका इति वृत्तिकारेणेत्याशङ्कानुवादपूर्वकमाह सङ्ख्यायाश्च इति । एकशब्देन न अत्र सङ्ख्या उच्यते, अपितु भेदाभाव- मात्रमभिन्नलक्षणमिति । ननु एवम्भूता चेत् क्रिया, तत् चलति चैत्र इति चैत्रमतिरिच्य सा कस्मात् न मायादित्याह अयुता इति । समवायाद्वा तादात्म्याद्वा न इयं द्रव्यात् भेदेन प्रतीयते इति यावत् । अयुतसिद्धत्वेन तादात्म्यनिर्भासनिदानमुपलक्षितम् । यत् किल युतसिद्ध्या द्वयोरेकस्य वा पृथग्गमनयोग्यत्वमित्येवंरूपया युक्तं, तदतादात्म्येन भाति घटपटवत् घटाकाशवच्चेति । ननु शुक्लो गच्छतीत्यत्र शुक्लगुणोऽपि गच्छन् निर्भासते तद्देशे पुनस्तस्य अनुपलम्भात् । तथैव चैत्रः पचति, मैत्रः पचतीति क्रिये अपि द्वे भात एव । तत् कथमुक्तं द्रव्यधर्म एवं सङ्ख्या,- इत्याशङ्क्य आह अत एव इति कारकस्वरूपावष्टम्भेन प्रतीयमानत्वात् ।

एकार्थसमवायकृतोऽयमध्यारोपः । तत एव निमित्तदार्ढ्यात् न प्रमातुरनुसन्धिमपेक्षते गौर्वाहीक इतिवत्, किन्तु स्वरसत एव भवति शुक्तिरजतवत् । तेन एतदभिप्रायेण वृत्तावेकशब्दः सङ्ख्यावचनोऽपि अस्तु,- इति भावः । ननु तथाभूतलक्षणभेदयोगि-

(पगे १९०)

कारकद्रव्यं कथमेकम् । आह ऐक्यप्रत्यभिज्ञानात् इति । स एव अयं चैत्र इति हि अबाधितं सर्वस्य ज्ञानम् । तर्हि भवतु एवं द्रव्यमेकम्, किन्तु क्रिया तत्र अस्ति, सा च पूर्वापरीभूतरूपा क्रमवती पाकपाठादिभिन्नेति कुतः ।

आह तस्य च इति । चोऽप्यर्थे भिन्नक्रमः, स्वस्थान एव वा उक्ताशङ्कासू- चनाय । कारकद्रव्यस्य प्रत्यभिज्ञापनादैक्येऽपि तथाभूतं प्रत्यभिज्ञानसिद्धैक्यं कारकसन्निधौ च उत्पद्यमानं तन्मात्रसत्त्वेऽपि पूर्वमभूतं तत्तदिति ओदनग्रन्थसाम्मुख्यप्रभृति विशिष्टं फलं क्रमेण आर्द्रतोष्णताविघटनविक्लेदरूपेण आकर्णनाव- धारणेषत्साम्मुख्यसोढत्वादिरूपेण च उपलभ्यते यतः, तस्मात् तत्र एकस्मिन् कारकेऽनुलग्नः कश्चिदर्थो यो द्रव्याश्रितः क्रमिकः स्वरूपभिन्नश्च, सोऽनुमीयते इति सम्भाव्योऽयमर्थः । यदि हि क्रिया न स्यात्, द्रव्यमेव स्यात्; तस्य फलजनकत्वे पूर्वमपि फलं स्यात्, अन्यथात्वे पश्चादपि न स्यात् । यदि च ततोऽन्यदेव किञ्चित् जनकं, तर्हि तत् न अपेक्ष्यते ।

तस्मात् तदेव जनकम् । धर्मान्तरयोगी तु धर्मोऽपि यदि क्रमवान् न भवेत्, तदद्भुतफुल्लमिव फलमक्रममेव उपलभ्यते । यदि च पाकपाठयोर्न भेदः स्यात्; फलस्य न भेदो घटेत । तस्मात् कारकातिरिक्तं कारकाश्रितं क्रमिकं भिन्नलक्षणं वस्तु अस्ति,-इति अनुमीयते, तदेव क्रिया । अपिशब्देन अर्थापत्तिरपि अत्र कैश्चिदुक्ता,-इति दर्शयन् मीमांसकोपगतां भावनाख्यामपि क्रियां वृत्तिकृददीदृशत्,-इति सूचयति । कारकस्य भावकस्य पुरुषस्य भावनीयस्वर्गादिनिष्ठो यज्यादिधात्वर्थकरणकोयः प्रत्ययेन आख्यातेन वाच्यो व्यापारो जननात्मा एकप्रत्ययवाच्येन कर्तृकर्मान्यतरेण कारकेण सम्बन्धादुपचरिततत्सङ्ख्याव्यवहारो भावनात्मा करोत्यर्थः, सैव सर्वत्र क्रिया । तेन अर्थ

(पगे १९१)

प्रकटतात्मकफलान्यथानुपपत्त्या तन्निष्ठो य आत्मनो व्यापारः स ज्ञानक्रिया,-इत्यपि मीमांसकसम्मतज्ञानदर्शनमपि काणादसाङ्ख्यज्ञानदृशि निराकृतायां भङ्ग्या टीकाकारो बौद्धमतेन निराचिकीर्षति । तथाच सम्बन्धबाधकसूत्रं वक्ष्यति । अतोऽपि कर्तृतानुपपत्तेर्ज्ञानक्रियाकर्तृरूपा ज्ञातृता सुतरां नोपपन्नेति । एतच्च तत्रैव व्याख्यास्यामः । एतत्परमतमाभाष्य दूषयति एवम् इति । एका कथं क्रमिका इति सूत्रं स्फुटयितुं वृत्तौ क्रमिकत्वं व्याचष्टे ।

अनेककालस्पृक्त्वं हि क्रमिकता । एकश्च तत्कालोऽतत्कालश्चेति कथं भवेत्, तदतदौ वा कालावेकं कथं स्यादिति स्वरूपतस्तावदैक्यं क्रियायां बाधितम् । वृत्तौ कालभेदेनैव देशभेदाभावेऽपि सर्वत्र क्रमिकतायां व्यापकेन स्वरूपभेदमभिदधता देशभेदः स्वरूपभेदश्च स्वीकृत एव, टीकायां तु स्पष्टीकरणार्थं सम्भवन्नभ्युच्चयहेतुत्वेन दर्शितः तावत् इति । यत्र साधकं प्रमाणं परेण सम्भावितद्रढिम उक्तम्, तत्र तन्निराक्रियायै प्रथमं प्रयत्यते; इह तु न तथा । तथा प्रमाणपरिनिश्चिते स्वरूपे न स्वरूपविमतिर्युक्ता, नीले इव; इह तु तद्वादिनामेव बहुशाखा असौ । यत् तत्रभवान्

जातिमन्ये क्रियामाहुरनेकव्यक्तिवर्तिनीम् । असाध्या व्यक्तिरूपेण सा साध्यैवोपलभ्यते ॥ अन्ते या वा क्रियाभागे जातिः सैव क्रिया स्मृता । स्वव्यापारविशिष्टानां सत्ता वा कर्तृकर्मणाम् ॥ क्रियाव्यापारभेदेषु सत्ता वा समवायिनी । अन्ते वात्मनि या सत्ता सा क्रिया कैश्चिदिष्यते ॥ बुद्धिं तज्जातिमन्ये तु बुद्धिसत्तामथापरे । प्रत्यस्तरूपां भावेषु क्रियेति प्रतिजानते ॥

(पगे १९२)

इति । विमतिश्च अत्र

क्रिया नामेयमत्यन्तापरिदृष्टा——।

इति तद्वादिनैव परमगुरुणा अभिधानात् । तत्रभवानपि

क्रमात्सदसतां तेषामात्मनो न समूहिनाम् । सद्वस्तुविषयैर्यान्ति सम्बन्धं चक्षुरादिभिः ॥

इति । किञ्च साधकमपि प्रमाणं बाधकेन विधुरयितव्यम् ।

द्रव्यस्य प्रत्यभिज्ञात ऐक्ये सिद्धे फलं कुतः ।

इति क्रियानुमानम् । साच केशनखादौ सर्वत्रैव भिन्ने भवन्ती न वस्तु अपेक्षते वस्तुनस्तथाभूतस्य अयोगादिति बाधकाधीनमेव प्रत्यभिज्ञाना- प्रामाण्यमिति तदेव परदूषणे प्रपततीति प्राक् बाधकमुक्तम् । विरुद्धेन अन्योन्यमभवनमाक्षिपता धर्मेणयोऽध्यासोऽधिष्ठानं, तत् भेदेन व्याप्तमिति अभेदव्यवहारं निषेधति । तत्र व्याप्तिं दर्शयति न क्वचित् इति ।

भेदाभेदव्यवहारो हि क्वचिदेव भवन् न अनिमित्तको न अन्यनिमित्तकः । तत् यदि विरुद्धधर्माधिष्ठानेऽपि न भेदव्यवहारः, तदनिमित्तकत्वान्यनिमित्तक- त्वे व्यापकविरुद्धे प्रसज्येयाताम् । यतो भागा नाम अनेकं वस्तु एकत्वे भागा इति बहुत्वायोगात् । पूर्वापरीभावोऽपि तेषामपेक्षातः, साच न तेषां धर्मः, अपितु प्रतिपत्तॄणां विकल्पमात्रम् । नच विकल्पा वस्तुविषयाः, नापि तदनुसारेण विपरिवर्तते वस्तु तदिति । तस्मादेका क्रिया,-इति विकल्पमात्रं विषयशून्यम् । ननु भागातिरिक्ते क्वचन इयं धीरस्तु,- इत्याह भागातिरिक्तस्य इति । क्रियाख्योऽवयवी संयोगः समुदायः सम्बन्ध एक इति भवतैव न अभ्युपगतं क्रमिकत्वस्य कालभेदमयस्य क्रियालक्षणत्वेन उक्तत्वात् । इयता स्वरूपगतबाधकाभिधायिनं न सैका क्रमिका युक्ता इति सूत्रांशं व्याख्याय

(पगे १९३)

नापि क्रमिका च एकस्य च उचिता इति आश्रयैक्यबाधकनिरूपणं सूत्रांशं व्याचष्टे वृत्तिकृत् नापि कालक्रमव्यापी च इति ।

चकारावन्योन्यविरोधद्योतकौ । सूत्रे एक एव विरोधद्योतकश्चकार उभयनिष्ठं विरोधमाह । एवमाश्रयगतोऽपि एकश्चकारः, अपिशब्दस्तु विरोधसमुच्चये । आश्रयस्य सम्बन्धिना एकेन आत्मना स्वभावेन पूर्वे परे च भागा न युज्यन्ते,-इत्ययमर्थः । कस्मात् न युज्यन्ते इत्याशङ्क्य आह तथाहि इति । पूर्वभागपरभागयोः स्वरूपतः कालतश्च भेद इति पूर्वभागसम्बन्धः परभागसम्बन्धश्च स्वरूपतो भिन्नौ कालतश्चेति आश्रयस्यापि उभयथा उभयरूपं स्वरूपभेदमुभयथापिच कालभेदमाक्षिपन्तौ कथमेत्वं तस्य सहेयाताम् । तत्र स एक आश्रयः इत्यनेन स्वरूपभेदकृतः कालभेद उक्तः । पूर्वभागपरभागौ हि स्वरूपेण भिन्नौ कथमेकस्य आश्रयस्य समानकालौ भवेताम् । नहि तदेव तच्च, अतच्च तदेव भवतीति युज्यते । तत् कालभेदमाश्रयस्य आनयतः । नच एकस्वभावस्य इत्यनेन पूर्वपरभागगतस्वरूपभेदकृतः स्वरूपभेद आश्रयस्य दर्शितः । अथ कालभेदकृतं द्वयं दर्शयितुमुपक्रमते कालभेदेनापि इति । न केवलं स्वरूपभेदेनेति अपिः पूर्वभागसं- बद्धत्वं परभागसम्बद्धत्वं च कालभेदेन विरुद्धमिति दर्शयति ।

नहि अन्यस्मिन्नपि क्षणे इति । एवं तर्हि तयोर्न कालभेदः स्यात्, यदि परस्परकालावगाहित्वं स्यात् । नच एतदस्तीति । एवं पूर्वपरभागयोः कालभेदमुक्त्वा तद्गतेन कालभेदेन आश्रयस्य स्वरूपभेदं तावदाह नहि अन्यस्मिन्नपि क्षणे इति । परभागक्षणे काले पूर्वभागक्षणाभावरूपे पूर्वभागसम्बद्धत्वलक्षणः स्वभावो नास्तीति स प्राच्यः

(पगे १९४)

स्वभावो नष्ट इत्यर्थः । अथ पूर्वपरभागयोः कालभेदेन आश्रयस्यापि भेद इति दर्शयति नास्ति इति । पूर्वभागसम्बद्धत्वं परभागसम्बद्धत्वं च कालभेदेन विरुद्धमाश्रयस्य एकस्मिन् काले कथं स्यातामिति आश्रयस्य कालभेदं वितरतः । तत्र न पूर्वकालं पूर्वभागसम्बद्धत्वमाश्रयस्य उत्तरस्मिन् काले सम्भवति । तत् हि पूर्वकाले एव युक्तम्, उत्तरश्च कालः पूर्वकालाभावरूप इति कालभिन्नाभ्यां ताभ्यां धर्माभ्यामाश्रयस्य कालभेदः स्यादिति चतुर्धा अयं विरुद्धधर्माध्यासः । अत्र च देशभेदोऽपि मन्तव्यः । स तु असार्वत्रिकत्वात् न दर्शितः आत्मा जानातीत्यादौ तदसम्भवो यतः ।

कालभेदस्तु सार्वत्रिकः । स च स्वभावभेदपर्यवसायी । ननु सत्त्वाश्रयस्य भिन्नाः स्वभावा इति आशङ्क्य आह नच स्वभावव्यतिरिक्तः इति । तर्हि किमस्त्वित्याह तदा इति । यत एवं तत इत्यर्थः । एवकारः स्वभावो नश्यतु, स्वभावी तु स्थितः-इति शङ्कामपास्यन् स्वभावी एव नष्ट इति द्योतयति । एवं शास्त्राभ्यासजनितविकल्पोपहतमतिभिरपि अधुना बाधकोपजीवनबलात् यत एतत् लब्धं, ततः पश्चात् व्याचष्टे अर्थस्य कायादेस्तत्तद्देशादिजातता ।

इति सूत्रार्थं केवलं गमन इत्यादिना वृत्तिग्रन्थेन । सूत्रे तु पूर्वोपादानं शास्त्रानुपहतसरलमतिजनताभि-प्रायेण स्फुटत्वादस्य अर्थस्य । ननु एकैको भाग एव पाकोऽस्तु,-इत्याह नच इति । ननु भागस्यैव पाकत्वे बहुषु भागेषु पचतिप्रत्यय एकत्वेन कथं भवेदित्येवं भागमात्रक्रियापेक्षः कथं निर्बीज एव शङ्कित इत्याह पाकसामान्यम् इति । तावत्सु भागेषु एका पाकत्वजातिरेकबुद्धेरालम्बनमिति सबीज एव अयं पक्षः । तर्हि कथं नच इति उक्तम् । आह निर्भागस्य इव इति । सभागत्वे हि प्राच्य एव दोष

(पगे १९५)

इति भावः । पूर्वापरीभूतता इति कालक्रमवत्तेत्यर्थः । यच्च उच्यते

आहितोत्तरशक्तित्वात्प्रत्येकं वा समूहिनः । अनेकरूपा लक्ष्यन्ते क्रमवन्त इवाक्रमाः ॥

इति, तत्र इवशब्देनैव क्रमिकत्वस्य अवास्तवत्वमावेदितम् । नच उत्तरक्षणेषु पूर्वक्षणैः शक्त्याधानं किञ्चित्, विशिष्टस्तु उत्तरक्षण इति न अधिकमुक्तं स्यात् । व्यभिचारात् इति कुत्रचिदपि असम्भवादित्यर्थः, नतु अव्यापकत्वादिति मन्तव्यम् । ननु मा भूत् क्रमिकता अस्या लक्षणम्, धर्ममात्रमधिकं यत्, सैव क्रिया भविष्यति । आह नापि इति । प्रथमोऽपि इति ।

अन्ये तावत् क्षणा देशान्तरसंयोगविभागविशिष्टाः परैरपि उपगताः ।

प्रथमकाले तावत् पूर्वदेशसंयोगविनाशकेन विभागेन यत उद्भूयते, तेन क्रियापदार्थेन भवितव्यम् । तत्रापिच न असौ कश्चित् प्रत्यक्षेण उपलभ्यते पृथग्भूतो द्रव्यात् । ननु क्रिया इयमात्मनि विचारयितुं प्रक्रान्ता, तदत्र कायघटादेः कः सम्बन्धः, येन सूत्रे कायादेः इति उक्तम् । सत्यम्, दृष्टान्ताभिप्रायेण तु सूत्रम् । यथा कायादेः क्रिया तत्र तत्र देशे अपूर्वस्य अपूर्वस्य जन्ममात्रं गमनक्रियायामेकदेशावस्थितस्य आसनस्थानादिक्रियायां तत्र तत्र काले सूत्रे आदिशब्देन सङ्गृहीते तथा अन्तरात्मनि ज्ञानरूपे इच्छति-जानाति-यतते-स्मरतीति कालभिन्नज्ञानस्वरूपापूर्वजन्ममात्रम्, नतु अन्या क्रियेति । एतदाह यथाच इति । उच्यते इति तादृक्पदार्थस्वरूपव्यवहाराय कृतेन साङ्केतिकेन शब्देन । यथाह

भावभेदप्रतीत्यर्थं संयोज्यन्तेऽभिधायकाः ॥

इति । ननु अयं शब्दो नियोक्तारं समाश्रित इति गमनं

(पगे १९६)

प्रसिद्धात्वात् सर्वोत्क्षेपणाद्यनुगमाच्च तावदुपादीयताम्, परिणामेन तु एकीयदर्शनसिद्धेन कोऽर्थः,-इत्याशङ्क्य ब्रूते परिणाम इति । सर्वं धात्वर्थरूपं भावनात्मकं च देशभेदासम्भिन्नकालक्रमाविष्टं परिणामेन सङ्गृह्यते । यतो गमने यद्यपि अस्ति कालभेदस्तथापि देशभेदस्य तत्र स्थूलदृष्टिगम्यस्य असाधारणस्य सम्भवः इति न अत्र कालभेद उदाहृतो भवेदिति केवलग्रहणम् । अत एव इति यतः केवलकालक्रमोदाहरणतात्पर्यं परिणामस्य, ततो गमनं देशभेदयुक्तं पृथक् कृतम् । परिणामविशेषा देशभेदवन्तो वृद्ध्यपक्षयादयो गृहीताः केवलम्, कालक्रमवन्तस्तु स्थानासनभवन- ज्ञानस्मरणेच्छाप्रभृतयः परिणामेनेति द्वयोरपि विशेषवाचित्वात् न इदमाशङ्कनीयम्-सामान्यविशेषवाचिनां कथं द्वन्द्वः । नहि भवति धववृक्षावितीति । वृत्तावादिग्रहणेन स्फुटस्वरूपभेदमाम्रं परिपच्यते दुग्धं परिणमते इत्यादिकं हरितपीतादिना मधुराम्लद्रवकाठिन्या-दिना भिन्नेन स्वरूपेण वक्ष्यमाणेन सतोऽपि कालभेदस्य अनादरकारिणीं क्रियां सङ्गृह्णीते । तेन गच्छतीति देशभेदः, तिष्ठति दिनमिति कालभेदः, नीलति, श्वेतते, राजते दीप्यते इति स्वरूपभेदश्चैत्रस्य प्रतीयते इति देशकालस्वरूपान्यतैव क्रिया,-इति उपसंहरति तत्तत् इति । वस्तुग्रहणेन उपलब्धिलक्षणप्राप्ततामाह । अनुपलम्भात् प्रत्यक्षाप्रवृत्तिरुक्ता, अथवा पूर्वजन्मप्रबन्धादेव फलं ग्रामप्राप्त्यादिकं सम्पद्यते

यस्मिन्नेव हि सन्ताने————।

इति नीत्या स्वर्गादिसिद्धिः, संयोगोऽपि तद्देशसमानसामग्रीको देवदत्तक्षणस्ततोऽपि चलामीत्यभिसन्धानज्ञानक्षणैकसामग्रीको देहक्षणस्ततोऽन्यदेशक इति कस्य अनुरोधेन धात्वर्थरूपा वा

(पगे १९७)

भावनात्मा वा कर्मपदार्थात्मा वा क्रिया अभ्युपगम्यते इति अनुमानमपि नास्ति, अर्थापत्तिरपि वा । तत्र सूत्रार्थस्य प्राधान्यात् वृत्तौ निर्मग्नस्य टिकायां स्फुटपरामृष्टस्य सौत्रेणैव क्रमेण बुद्धिनिवेशो यथा स्यादित्यभिप्रायेण तत्तद्देशादिजातता नान्या इति सूत्रार्थांशं पूर्वं निगमयति अप्रमाणा क्रिया इति, परिशिष्टं पश्चात् प्रमाणबाधिता च इति ॥ ९ ॥

तत्र तत्र स्थिते तत्तद्भवतीत्येव दृश्यते । नान्यन्नान्योऽस्ति सम्बन्धः कार्यकारणभावतः ॥ १० ॥

एवं ज्ञानं क्रियां च परीक्ष्य तद्योगादैश्वर्यम् इत्यत्र हेतौ योगशब्दवाच्यं सम्बन्धांशं परीक्षितुं सम्बन्धे तावत् साधकं प्रमाणं नास्तीति तत्र तत्र इति कारिकया कथयति, प्रसङ्गाच्च क्रियायामपि वक्तव्यं शेषं परीक्षते । तथाहि-यदि कश्चित् ब्रूयात् तत्तद्देशकालस्वरूपभिन्नं वस्तु सन्तानवृत्त्या प्रवहत् क्रियेति यदुक्तम्, तदासनगमनादावस्तु, यत्र अकर्मकत्वं प्राप्यकर्मता वा, यत्र च निर्वर्त्यं घटादि कर्म; तत्र क्रियाकारकभावस्य अभावे कुम्भकृत् मृदो दण्डादिभिर्घटं करोति,-इति बोधः, तथैव अत्र क्रियापर्यन्तव्यवहार- सिद्धः कथं स्यात्, तद्भावश्च क्रियया विना कथमिति, सोऽपि अनेन सूत्रेण प्रत्याय्यते तत् तस्यापि अनन्तरसूत्रेण अस्य अर्थस्य स्फुटीकरणदिशा । अत एव प्रासङ्गिकत्वमुक्तत्वं च दर्शयितुं विवृतिकारो दृष्टान्तत्वं क्रियायाः सङ्क्षेपावतरेण प्रदर्शयति यथाच इति । सूत्रे च नान्यत् इति सामान्योक्तिरपि क्रियायामपि पर्यवसाय्यते । दृष्टान्तत्वेन च सा सम्बन्धे योज्यते न प्रत्यक्ष इत्यादिना । सौत्रमेवकारं व्याचष्टे दृश्यते इति प्रमाणावसायमात्रम् । एतावान् हेतुः ।

(पगे १९८)

यत एतावत् दृश्यते, ततो नान्यदिति न क्रिया, न तत्सम्बन्धः कश्चिदस्तीति सम्पाद्यदृष्टान्तसाध्यनिर्देशः । तथाच वृत्तौ पृथगेव व्याचष्टे क्रियावच्च न क्रियाकारकसम्बन्धः कश्चित् इति । तेनैव अन्यशब्दयोर्न पुनरुक्तिर्मन्तव्या । नान्यदित्यत्र पूर्वस्य हेतुत्वं वृत्तावुक्तं भिन्नस्य व्यतिरिक्तस्य अस्य सम्बन्धस्य क्रियाया इव अनुपलम्भादित्यनेन । ननु तत्र तत्र इति सप्तम्या आक्षिप्तो यः प्रातिपदिकार्थातिरिक्तः सम्बन्धः, स तर्हि किमित्याशङ्य यत् सूत्रं नान्योऽस्ति इत्यादि, अस्य सङ्क्षेपेण निरूपणं कार्यकारण इति । सन्निवेशग्रहणेन अन्यरूपसंहारपूर्वकनियतरूप- प्रवेशहेतुं तदीयज्ञानेच्छायत्नविशेषोपयोगमपि आह ।

अभूतपूर्वाणां पदार्थानामुत्पाद एव क्रमः, सोऽनुभूयते ।

अन्तरालवर्तिनी इति कारकाणामन्योन्यं फलेन सह योजना वा योजिका वा ।

देशकाल इति इह अधुना अस्माकमनुभव इत्येवमादिभङ्गीमना- लम्ब्येत्यर्थः । ननु सूत्रे दृश्यते इति वर्तमानकाल उक्तः, तेन च देशानुभवितृविशेषावाक्षिप्येयातामित्याशङ्क्य आह कारिकायां च इति ।

सङ्क्षेपेण वृत्तश्रव्यताबलेन च प्रतिपाद्ये झटिति यया बुद्धिः क्रियते, सा कारिका । एतदुक्तं भवति-देशाद्यसङ्कोचेन वीप्सा व्याप्तुमिच्छेत्येवं- रूपा पारमार्थिकी पूर्वं हृदये प्रविष्टा भवन्ती दृश्यते इति वर्तमानप्रत्ययस्य प्रत्युत प्रवाहनित्यतायोगात् महानदीप्रवहणवत् नित्यप्रवृत्तरूपवर्तमानार्थविश्रान्ततां करोति । चित्रायाजीति तु भूतार्थो जनितेति भविष्यदर्थस्य स्वेन रूपेण उपकर्तुमशक्त इति तदानुगुण्यं प्रतिपद्यतां नाम, नतु असाविह न्यायो धातुसम्बन्धसूत्रारम्भेऽपीति ।

ननु तत्र तत्र इति सौत्रं पदं टीकायां मृत्पिण्डादौ सति घट इत्येष सार्वत्रिकोऽर्थः,

(पगे १९९)

इत्येवं व्याख्यातम् । कथञ्च एतदनन्तरदेशकालव्याप्त्या सिध्येदित्याशङ्क्य आह भावस्वभाव इति । भाव एव हि निरंशो व्यावृत्त्युपकल्पितैर्यावद्भिर्धर्मैरेकदा व्यवस्थापितः, तावद्भिः सर्वत्र सर्वदा च अवियुक्तः । वियोगे स एव असौ न भवेत्, ततश्च घटपूर्वतैव स्तूपकता, स्तूपकानन्तरतैव च घटता,-इत्यपि कार्यकारणस्वभावता स्तूपकघटग्राहिणः प्रमाणादेव सिद्धेः । तथाविध इति ।

काठिन्यादिबुद्धिमदादिरूपत्वं स्वभावविशेषो मृदः कुलालस्य च ।

आदिग्रहणादायततातानवे दण्डस्येत्यादि । ननु किं तत्र कारणं, किंवा कार्यं; नियतपूर्वं कारणं, नियतपरं कार्यमिति चेत्; तदेव किमित्याह यदापिच इति । यदेति हेतौ । च उक्ताशङ्काद्योतकः । अपिर्भिन्नक्रमः ।

अग्न्यभावे यो न भूतो धूमस्तस्य अभूतस्यापि तस्मिन्नर्थान्तरस्वभावे अग्नौ सति यतः सद्भावस्ततोऽसौ प्रयोजकसत्ताकः पूर्व इति व्यवह्रियते, प्रयोज्यसत्ताकस्तु परः इति स्वरूपमेव तयोः पूर्वत्वं परत्वं च, नतु अन्येन प्रकारेण परस्परापेक्षापारतन्त्र्यरूपश्लेषादिना कार्यकारणयोः परत्वपूर्वत्वलक्षणः कश्चित् कालोऽस्ति । तदुक्तं

पश्यन्नेकमदृष्टस्य दर्शने तददर्शने । अपश्यन्कार्यमन्वेति विनाप्याख्यातृभिर्जनः ॥ दर्शनादर्शने मुक्त्वा कार्यबुद्धेर्न सम्भवात् । कार्यादिश्रुतिरप्यत्र लाघवार्थं निवेशिता ॥

इति । एवं सकृत्प्रवृत्तप्रत्यक्षानुपलम्भप्रसिद्धं स्वरूपद्वयमेव कार्यकारणभावः सार्वत्रिकः,-इति सिद्धम् । एवकारं सौत्रं व्याचक्षाणो दृश्यते इत्यन्तस्य हेतुतां नान्यत् इत्यादेश्च साध्यतां व्याचष्टे कार्यकारण इति । अत्र अर्थान्तरे

(पगे २००)

इति एतदुपलम्भावसरे । अनेन प्रत्ययान्तररसाकल्यलक्षणामुपलब्धिल- क्षणप्राप्ततामाह । ननु तत्र इति सप्तम्याः कोऽर्थः । साहि कारकविभक्तिः ।

तर्हि राज्ञ इति सम्बन्धविभक्तेरपि कोऽर्थः । उच्यते-सम्बन्धस्य उपकारकरणप्रभावित्वादुपकारस्य च व्यतिरेके सम्बन्धोपकारानवस्थायोगादव्यतिरेके न्याये कार्यकारणभाव एव षष्ठ्यर्थः । हन्तः तर्हि कारकविभक्तीनामपि स एव अर्थः । तदाह सर्व एव इति । ननु स एव सम्बन्धो भविष्यत्येक इत्याशङ्क्य आह नैककालिकम् इति ।

अग्निसत्तायां न धूम इति किमग्नावेव कार्यकारणभावो विश्राम्यतु । नच एवं तस्य कार्यरूपत्वाभावात् स्वात्मनि । एवं धूमकाले पूर्वभावी वह्निक्षणो निवृत्त इति किं धूम एव अस्त्वसौ, नच युक्तमदस्तस्य कारणत्वायोगात् स्वरूपे । तत् कुत्र काले स एकोऽस्तु । तस्मात् कार्यकारणयोः स्वे स्वे काले यत् रूपं, तदेव विकल्पेन व्यवह्रियमाणमेकः सम्बन्ध इति उच्यते, न वस्तुतः । यथोक्तम्

इत्यमिश्राः स्वयं भावास्तान्योजयति कल्पना । तामेव चानुरुन्धानैः क्रियाकारकवाचिनः ॥ भावभेदप्रतीत्यर्थः संयोज्यन्तेऽभिधायकाः ।

इति । ननु प्रत्ययान्तरसाकल्येऽपि पिशाचवददृश्योऽसौ सम्बन्ध इत्याह अथापि इति । अनुपलम्भात् इति प्रत्यक्षाभावादिति यावत् । कामं दृश्यानुपलम्भोऽयं न भवतीति असत्तानिश्चयो मा भूत्, सत्तानिश्चयस्तु नास्तीति प्रस्तुतमस्माभिः । साधकप्रमाणाभावनिरूपणावसरो हि अयमिति तावद्ग्रहणम् । कार्यादि इति आदिग्रहणेन स्वभावहेतुः । ननु एतावता अन्यस्य सम्बन्धादेरस्तित्वं न सिद्धम्,-इत्यस्तु, नच अस्तित्वसिद्धेरभावः ।

(पगे २०१)

इयता तु प्रमाणव्यावृत्त्या प्रमेयव्यावृत्तेरयोगो नावश्यं कारणानि इतिन्यायात् तत्सम्बन्धो नास्तीति कुतः सिद्ध्येत् । सूत्रे च नास्ति अन्यः सम्बन्धः इति, वृत्तावपि न कश्चित्सम्बन्धः इति, विवृतावपि न अपरः पदार्थोऽस्ति इति सत्तानिषेध एव उक्तः । तदेतत् कथमित्याशङ्क्य आह बाधकप्रमाण इति । अयं भावः-द्विष्ठस्य इत्यादि पारतन्त्राद्ययोगाच्च इत्यन्तं भावि नान्योऽस्ति सम्बन्धः इत्यनेन सूत्रेण आवृत्त्या अभिसम्बध्यते । तत एव टीका भविष्यति सम्बन्धः पूर्वसूत्रात् इति । तेन सम्बन्धेऽस्तित्वव्यवहाराभावो नास्तित्वव्यवहारश्चेति द्वयं नान्योऽस्ति इत्यनेन उक्तमस्तीति न सिद्ध्यति नास्तीति सिद्ध्यतीति च अध्याहारभङ्ग्या । तच्च एतत्सूत्रांशेन अनन्तरसुत्रांशेन च मिलित्वा सिद्ध्यति । अत एव भाविसूत्रे पञ्चम्य एतत्सूत्रार्थोपयुक्ता एव । तदुभयमेलनावशात् तु सम्बन्धो नास्तीति यत् सिद्धं, तस्य अन्यत्र हेतुताभिधानाय तेन इति परामर्शः करिष्यते इति ॥ १० ॥

द्विष्ठस्यानेकरूपत्वात्सिद्धस्यान्यानपेक्षणात् । पारतन्त्र्याद्ययोगाच्च तेन कर्तापि कल्पितः ॥ ११ ॥

तथाहि सूत्रावतरणमित्थमेव करोति तदेवम् इति । क्रियायास्तावदेवमिति क्रियाप्यर्थस्य इति तत्र तत्र स्थिते इति सूत्रद्वयोक्तात् साधकाभावात्, बाधकयोगाच्च योऽभावः नान्योऽस्ति, नान्यदस्ति इत्येवं सूत्रद्वये निर्दिष्टः, सम्बन्धस्यापि योऽभावोऽस्तित्वनिश्चयाभावनास्तित्व- निश्चयरूपः एवमिति तत्र तत्र इत्युक्तेन साधकाभावेन द्विष्ठत्वादियुक्ति-

(पगे २०२)

भिश्च बाधकेन मिलित्वा उपपादितः, तदिदमभावचतुष्टयं मिलितं कर्तापि कल्पितः इत्यत्र हेतुतां सूत्रे तेन इति नीतम् । सा हेतुता तु टीकायाम् अभावात् इति पञ्चम्या सङ्क्षेपादुक्ता । पञ्चमी चशब्दं च पूर्वसूत्रेण सङ्गमयति । सम्बन्धः इति नान्योऽस्ति सम्बन्धो द्विष्ठस्यानेकत्वात् सिद्धस्यान्यानपेक्षणात् पारतन्त्र्यादियोगाच्च इति सङ्गतिः । सम्बन्धः इत्येतावन्मात्रं तु स्वकण्ठेन विवृतौ निर्दिष्टम् ।

द्विष्ठस्य इति सामान्योक्तावपि प्रकरणात् सम्बन्धस्येत्ययमपि अर्थो लभ्यतामिति । ननु दृश्यानुपलपलब्ध्यैव नास्तित्वनिश्चयकारिण्या सोऽर्थो बाध्यते । वस्तुत इयमेव हि अस्य बाधा यत् निश्चितनास्तित्वावेदनं, नतु द्रुघणेन इव शरावस्य विशरारूकरणम् । साच अत्र प्रदर्शितैव दृश्यस्य प्रमाणेन अनुपलम्भादिति । सत्यम्, अनुपलब्ध्या तु नियतदेशकालावच्छेदेन नास्तित्वप्रतिपत्तिः-इह अधुना घटो नास्तीति । यदाह

-नासत्तानिश्चयो विप्रकर्षिणाम् ।

इति, यथा

इष्टं विरुद्धकार्येऽपि देशकालाद्यपेक्षणम् । अन्यथा व्यभिचारि स्याद्भस्मेवाशीतसाधने ॥

इति । तस्मात् सार्वत्रिकीं सम्बन्धादेरसत्तामावेदयितुं पराभ्युपगततदी- यरूपासम्भवसम्पादको विरोधः प्रमेयनिष्ठो वक्तव्यः, यत् त्वयैव अस्य रूपमुक्तं, तत् त्वदुक्तेनैव रूपान्तरेण विरुध्यते इति तत एव तद्रूपद्वयविरोधसिद्ध्यैव बाधकाभिधायी कृतार्थो जायते इति दूषणहेतौ न धर्म्यसिद्ध्यादिचोद्यप्रसङ्गः-इति वितत्य निर्णीतं प्रसङ्गग्रन्थादावित्यास्तां तावत् । तत्र सामान्यलक्षणद्वारं बाधकमुपन्यस्यति । यत् किल द्वयोः स्वरूपसमाप्त्या युगपत् तिष्ठति, तदेकं न भवति वेश्मद्वयवर्ति घटद्वयमिव ।

(पगे २०३)

एकत्वं हि अभिन्नरूपत्वं, तद्विरुद्धेन च भिन्नरूपत्वेन व्याप्तं द्वयोर्युगपत्स्वरूपसर्वस्वेन अवस्थानम् । अभिन्नरूपो हि यद्येवं स्यात् घटादिः सर्वः, एकोऽपि एवं स्यादिति द्विष्ठत्वस्य क्वचिदेव भाव इत्येवंरूपो यः खलु नियमो व्यापकः, सहीयेत । तद्विरुद्धव्याप्तोपलब्ध्या एकत्वस्य निषेधः । एवं सामान्येन द्विष्ठैकसम्बन्धमात्रे बाधकमभिधाय तद्विशेषेऽपि अभिधित्सुराह सिद्धस्य इति । इह राज्ञ इत्युक्ते प्रतीतिर्न निराकाङ्क्षा राजेतिवत्, अपितु अन्यदाकाङ्क्षति राजा । तत् सा आकाङ्क्षा क्वचित् सम्बन्धस्य वपुर्भवन्ती सार्वत्रिकत्वेन व्यवस्थाप्यते इति अपेक्षैव सम्बन्ध इति व्यवह्रियते । तां दूषयति उपकारकविषयैव इति भवतीति । अस्य अयमर्थः-न तावत् जडेषु अपेक्षा युक्ता । यदाह

अपेक्षा पारतन्त्र्यं च न सम्बन्धो जडात्मनोः । असम्भवात्—————–॥ (संषि। १)

इति । यत्रापि सा भवति, तत्रापि उक्तद्विष्ठसम्बन्धलक्षणा एकपदार्थरूपा न उपपन्नेत्याह स्वरूपातिशयलक्षण इति अव्यतिरिक्तो यत उपकारस्तं कुर्वन् कारणमेव स्यात् । अपेक्षितं च कार्यमित्थमुक्तं स्यात् । नच एतद्यक्तमित्याह सतश्च इति । यदाह

अपेक्षा यदि सम्बन्धः सोऽसन्कथमपेक्षते ।

इति । निःस्वभावस्य स्वभाव इति विरोधमाह । ननु सतस्तर्हि कारणस्य कार्येऽपेक्षा भवतु, अविद्यमाने का अपेक्षा, लब्धं च अनेन रूपं, तत् किमर्थमस्य अपेक्षा । यदाह

संश्च सर्वनिराशंसो भावः कथमपेक्षते ।

इति । कारणत्वप्रतिलम्भाय कार्ये अस्य अस्तु अपेक्षेति

(पगे २०४)

चेत्, ननु कारणत्वमस्य न स्वरूपाधिकं किञ्चित्, स्वरूपं च एतेन लब्धम् ।

सत्यं लब्धम्, तद्व्यवहारस्तु न लब्धः । इदमपि सत्यम्, किन्तु व्यवहारो ज्ञानाभिधानात्मा तस्य कारणस्य न कश्चित्, अपितु व्यवहर्तुरसौ । एवञ्च व्यवहर्तुरपेक्षेति आयातम् । सा च विकल्परूपा भवत्येवेति अङ्गीकृतमदः

————तान्मिश्रयति कल्पना ।

इति । तदेतदुक्तं तदभावात् इत्यादिना । सतोस्तर्हि अपेक्षा भविष्यति राज्ञः पुरुष इतिवत् । एतत् निरस्यति नच इति । द्वयोः इति सम्बन्धसामान्ये षष्ठी ।

षष्ठ्यर्थमेकगतं सप्तम्यर्थं च अपरगतं स्वीकरोति । अयं हि अत्र अर्थः

-राज्ञः सतः सति एव पुंसि अपेक्षेति, नतु अन्योन्यापेक्षा अत्र विवक्षिता । सा हि पारतन्त्र्ये वक्ष्यते । अन्योन्यापेक्षाशब्दोऽपि वृत्तावेवमर्थपर्यवसायी मन्तव्यः । एवं च प्रयोगो लाघवेन पारतन्त्र्येऽपि तथाप्रतिपत्त्यर्थः । तेन तत्रापि राजपुरुषयोः कार्यकारणभावविश्रान्ततैव कर्तव्या, अन्यथा वास्तवषष्ठ्यर्थायोग इति आकूतशेषः । ननु पत्नीयजमानयोरिवयागे, रागियुगलस्य इव आलिङ्गने परस्परापेक्षारूपं पारतन्त्र्यं सम्बन्धो भविष्यति धवश्च खदिरश्च च्छिद्यतामित्यादावित्याशङ्क्य आह परस्परोन्मुखता इति अन्योन्यमौन्मुख्यम् इति । शब्दमात्रमेकम्, नतु एकस्य या उन्मुखता, सा अन्यस्येति कथं सम्बन्धः स्यात् । सिद्धे का परतन्त्रतेति तु दूषणमुक्तं पुनः पुनरस्य अर्थस्य स्पष्टत्वात् । तत् भवतु उन्मुखता काचित्, तया न सम्बन्धसिद्धिरित्येवमत्र अभ्युपगमसिद्धान्ते तात्पर्यम् । तेन पारतन्त्र्यरूपः सम्बन्ध इत्यत्र इत्थं योजना- पारतन्त्र्यं भवदपि सम्बन्धो न सिद्ध्यतीति । सिद्धयोश्च किं पारतन्त्र्यमित्यपि स्पृष्टं वृत्तौ टीकायां च । राजा

(पगे २०५)

राजेति एकत्र तद्रूपं दृष्ट्वा सर्वत्र तदेव रूपं सम्बन्धस्य तत्तदन्यतमरूपवादिना कल्प्यते इत्येवं राज्ञः पुरुष इत्यपेक्षायामपि पारतन्त्र्यमेव दर्शितम् । राजा च पुरुषश्चेत्युदाहरणान्तराभिप्रायेण वा यदपि उच्यते परस्पररूपा प्राप्तिरेव अङ्गुल्योरिव सम्बन्ध इति, तत्रापि आह रूपश्लेषात्मापि इति । यदि द्वे रूपे कथं श्लेषः, अथ श्लेषः ऐक्यरूपात्, कथं सम्बन्धता । तदुक्तं

——द्वित्वे सति कथं भवेत् ।

इति । ननु रूपश्लेषः सूत्रे तावदादिशब्देन उक्तः, वृत्तौ तु किं न विवृत इत्याशङ्य आह एवमादि न विवृतम् इति । बहुधान्यदूषित इति ग्रन्थपरिवर्तने को भर इति यावत् । दूषितेऽभिनवेन दूषणसंरम्भेण इति च वदन् ग्रन्थकृत् पूर्वपक्षोऽपि अयं भागे सिद्धान्तेन सम्मतः वाद्यन्तरोक्तस्य सम्बन्धादेरनभ्युपगमादिति दर्शयति । तथा च सिद्धान्तोपगमे सत्यम् इति वक्ष्यति । आदिपदेन तन्त्रान्तरोक्तमपि सूचयति ।

यदाह तत्रभवान्

नाभिधानं स्वधर्मेण सम्बन्धस्यास्ति वाचकम् । अत्यन्तपरतन्त्रत्वाद्रूपं नास्योपदिश्यते ॥ उपकारात्स यत्रास्ति धर्मस्तत्रानुगम्यते । शक्तीनामपि सा शक्तिर्गुणानामप्यसौ गुणः ॥ तद्धर्मणोस्तु ताच्छब्द्यं संयोगसमवाययोः ।

इत्यादि । एतच्च सम्बन्धस्तोत्रमात्रम्, नतु न्यायाभिधानमिति न दूषितं ग्रन्थकृता । कार्यकारणभावश्च न अत्र सङ्गतः । तथाहि आत्मा तावत् न कार्यः । ज्ञानमपि विषयेन्द्रियमनस्कारादेर्भवत् ना आत्मानं कारणीकुर्यात्

(पगे २०६)

यस्मिन्सति भवत्येव यत्ततोऽन्यस्य कल्पने । तद्धेतुत्वेन सर्वत्र हेतूनामनवस्थितिः ॥

इति न्यायात् । क्रिया च नाम न काचिदिति न कश्चित् सम्बन्ध इहेति । तत्समाश्रय इति । प्रकृत्या क्रिया, प्रत्ययेन च कर्ता सम्बद्धौ वक्तव्यौ । नच अस्ति असौ सम्बन्धः कश्चिदिति भावः । अनुभवविकल्पनस्मरणादिज्ञानमालैव अस्ति, नतु ज्ञाता,-इत्यस्य अर्थस्य प्राक् प्रसाधितत्वात् । अधुना दृष्टान्ततां प्राह यथा इति । ननु कर्तृत्वमपि इति कथं वृत्तिः । ज्ञातृत्वे हि ज्ञानमस्ति, तदन्यत् तत्सम्बन्धश्च न विद्यते, परकर्तृत्वे तु न क्रिया, न तदन्यः, न तत्सम्बन्ध इति कथं साम्यम् । कल्पितः इति इयति अंशे दृष्टान्त इति किं सर्वसाम्येन ।

तदपिच न अतिदुर्योजमित्याह अतोऽपि इति सुतराम् इति ज्ञानमपि तावत् धात्वर्थरूपं वैयाकरणमते क्रिया मीमांसकानां च, भावनावादिनां केषाञ्चित् तु प्रत्ययवाच्येति विशेषः । तत्र समस्तक्रियादूषणेन ज्ञानक्रियापि परसम्मता दूषितैव भवति । तदस्ति सर्वसाम्यम् । प्रत्युत ज्ञाने सत्यपि ज्ञातृता न उपपन्नेति दृढोऽयं वाद इति प्रकर्षप्रत्ययः । तत एव ज्ञातृताया दृष्टान्तता युक्ता ।

प्रसङ्गदूषणेन च सिद्धान्तिनो ज्ञानानुपपत्तौ का ज्ञातृतेत्यपि प्रकर्षः । इदानीं

ननु स्वलक्षणाभासं——। (१ । २ । १)

इत्यादेः

————तेन कर्तापि कल्पितः ।

इत्यन्तस्य सूत्रसन्धातस्य वृत्तिकृत् पूर्वपक्षे उपयोगि फलमाह इति कथमात्मा सर्वेश्वरः इति । इतिशब्देन धर्म्यसिद्धिं

(पगे २०७)

सूचितां विवृणोति ज्ञानस्यैव बोधात्मनः इत्यादिना । हेत्वसिद्धिं सूचितां दर्शयति क्रियाकारक इति तावन्मात्रलक्षणमुपकल्पितमिति सिद्धान्तिना उक्तस्य ऐश्वर्यव्यवहारसिद्धौ स्वभावहेतोरभावमाह,-इति बौद्धेन ज्ञानसन्ततिमात्रमेव आत्मेति प्रसाधितमिति शिवम् ॥ ११ ॥

इति श्रीमहामाहेश्वरश्रीमदाचार्याभिनवगुप्तविरचितायामीश्वर प्रत्यभिज्ञाविवृतिविमर्शिन्यां पूर्वपक्षविमर्शो द्वितीयः ॥ २ ॥