अथ
ईश्वरप्रत्यभिज्ञाविवृतिविमर्शिनी ।
श्रीमन्महामाहेश्वराचार्यवर्यश्रीमदभिनवगुप्तपादरचिता ।
।ओ नमो मङ्गलमूर्तये ।
श्रीशक्तित्रितयावियोगि हृदयं बिभ्रत्तदेकात्मसा-
द्भावाविर्भवदात्मभावनिभृतोल्लासाध्वविस्पन्दितम्
श्रीमद्भैरवधाम तद्विजयतां भक्तान्तरात्मस्फुरत्-
स्तोत्रप्राभृतसङ्ग्रहोन्मुखतया यद्विश्वरूपायते ॥ १ ॥
लब्ध्वानुग्रहमीश्वरान्निजमहःसम्भारसन्दीपिनो
देहेऽस्मिन्नरसिंहगुप्तघटिते लब्धास्पदः पश्चिमे ।
श्रीमल्लक्ष्मणगुप्तदर्शितपथः श्रीप्रत्यभिज्ञाविधौ
टीकार्थप्रविमर्शिनीं रचयते वृत्तिं प्रशिष्यो गुरोः ॥ २ ॥
घटयति परिपाकं शब्दवृत्ते प्रमाणे
विघटयति च भूयो मृत्युसन्त्रासचिन्ताम् ।
अभिनवमतिरेवं चेश्वरप्रत्यभिज्ञा-
विवृतिपदविमर्शिन्येव भोगापवर्गौ ॥ ३ ॥
निजानुजमनोरथप्रथितसत्पथाभ्यर्थना-
वशोऽभिनवगुप्तसत्पदनिवेशितस्वात्मकः ।
प्रकाशयति मार्गमेनममुना जनोऽप्युन्मनाः
प्रयाति शिवधाम तत् पथि न यत्पशूनां दृशः ॥ ४ ॥
(पगे २)
पूर्णव्याकरणावगाहनशुचिः सत्तर्कमूलोन्मिषत्-
प्रज्ञाकल्पलताविवेककुसुमैर्भ्यर्च्य हृद्देवताम् ।
पीयुषासवसारसुन्दरमहासाहित्यसौहित्यभाग्-
विश्राम्याम्यहमीश्वराद्वयकथाकान्तासखः साम्प्रतम्
अमृतमनन्तमनुत्तरमघोरषोडशकशक्तिचक्रगतम् ।
औन्मनसपदनिरूढिप्रथमोपोद्धातकं बन्दे ॥ ६ ॥
इह एक एव श्रीमदस्मत्परमेष्ठिश्रीसोमानन्दपादप्रसादापसारित- सङ्कोचः श्रीमान् उत्पलाख्यः शास्त्रकारो विकस्वरस्वहृदयकमलपरिमल- पवित्रितदिगन्तः सूत्रं वृत्तिं टीकां च ईश्वरप्रत्यभिज्ञानसिद्धये कृतवान् । तत्र सूत्रकारभूमिकावस्थितः कथञ्चित् इत्यादिना महेश्वरं प्रति प्रह्वं स्वात्मानं परामृशन् तद्वाक्यपठनपुरःसरीभावेन वृत्तेरवश्यम्भावितां पश्यन्, पुनर्वृत्तिकारपदावस्थितः प्रवृत्त्यन्तरेण न परमेश्वरप्रह्वतां स्वात्मनि सततवाहिनीमपि परामर्श सूत्रकार एव च एतद्भूमिकापन्नो वर्तते इति दर्शयितुम् । यदपि वृत्तौ स्वसामानाधिकरण्येन इदं दर्शितं प्रत्यभिज्ञापयामि परितुष्येयम् इत्यादिना, अन्यथा सूत्रकृदेवं करोतीति वक्तव्यं स्यात्, तद्दर्शने च प्रयोजनं वृत्तिकृतः सूत्रार्थानवबोधे सम्भावनानिरासः, तन्निर्देशेऽपि नायं वीताशङ्कमाशयः । स्फुटीभूतार्थव्याख्यानाय पर्यायदानमात्रेण इत्थं प्रयुक्तं, यथा काव्यटीकाव्याख्यान- प्रक्रियायां
विदितं वो यथा काश्चिन्न मे स्वार्थाः प्रवृत्तयः । (कु। सं। ६ । २६) इत्यत्र भगवदुक्तौ व्याख्यायमानायां मम न केचन स्वस्मै व्यापारा इति टीकाकारो व्याचख्यानोऽपि न भगवत एवाभिन्न इति प्रतीयते इति सम्भाव्येतापि । नमस्कारान्तराकरणात्मिकैवेयं
(पगे ३)
सूत्रकरणपूर्वकसमनन्तर-तत्सूत्रवृत्तिग्रन्थकरणात्मिका प्रवृत्तिराचार्यस्य एकतां गमयति अन्यथा एवं भूतैकप्रवृत्तिनिर्वाहासम्भवात् । टीकाकारपदमधिशयानस्तु शास्त्रकारोऽवश्यं प्रवृत्त्यन्तरेण युज्यते । तत्र च मूलश्लोकपाठो न पूर्वभावी । (तस्य हि अवतारणक्रमोऽवश्यवक्तव्यः । प्रवृत्त्यन्तरे च अवश्यम्भाविनि परमेश्वरं प्रति प्रह्वतापरामर्शः पुनरवश्यानुसन्धेयः) । यद्यपि अस्य प्रत्यभिज्ञातेश्वरशक्तिविजृम्भा- रूपसमस्तस्वपरात्मपरिनिष्ठितवेद्यवेदकप्रपञ्चस्य उन्मिषितमात्रमपि न परमेश्वरप्रावण्यादतिरिक्तम्, किमङ्ग ईश्वरशक्तिप्रत्यभिज्ञानरूप- प्रमाणपरिघटनं, तथापि राजोत्सवालङ्कारस्वाधीनभर्तृकामदनोत्- सवसम्भोगन्यायेन अवश्यं समग्रतत्सारभूतस्वरूपपरामर्शनं कर्तव्यं प्रवृत्त्योरन्तरालपाति भविष्यत्प्रवृत्तिसाफल्यभावनाय ।
एकग्रन्थकारकृतत्वं तु स्वयमेव आख्यास्यति त्रय्यां वाचि इत्यादिना । तत्र अयं ग्रन्थकारष्टीकाकारपदं प्रतिपन्नो वक्ष्यमाणशास्त्रसन्दर्भगत- मुपायेन परप्रतिपादनायामवश्यकर्तव्यमपि पूर्वपक्षतत्प्रतिक्षेप- प्रभृति तुषकम्बुकपलालप्रायमवधीर्य, तत् स्थिररूपं परममुपादेयं पराम्रष्टुं नमस्कारं करोति स्वेच्छा इत्यादिना
स्वेच्छावभासिताशेषलोकयात्रात्मने नमः ।
शिवाय शश्वदच्छन्नस्वच्छस्वच्छन्दवृत्तये ॥
स्वस्मादिति आत्मनः सकाशात्, स्वस्मिन्निति आत्मनि एव, स्वयैव च इच्छया अवभासमाना अन्योन्यावहानेन भेदात्मना निर्भासमानाः सम्पादिता अशेषाः शुद्धाशुद्धमिश्ररूपा लोकाः प्रमातृप्रमेयाः, तेषां च यात्राः प्राप्तयः परस्परसम्बन्धाः कार्यकारणभावक्रियाकारक- भाववैचित्र्यादयः, तेषामात्मा पारमार्थिकः स्वभावो यः, स एव शिवः ।
एकमपि च इदं पदं शक्तिभेदात्
(पगे ४)
तन्त्रादावृत्तेर्वा अध्यात्माधिदेवाधियज्ञादिमन्त्रार्थवत् बहून् अर्थान् स्वीकरोति । एकनिश्चयारोहयौगपद्यसिद्धये च एवं प्रयुज्यते, यद्वक्ष्यति श्लेषया इति । य एवम्भूतो भगवान् तस्मै नमः इति तद्विषयं प्रह्वीभावं द्योतयति नमः शब्दः । ननु स्वरूपावस्थितमशेषं वेद्यवेदकप्रपञ्चं ततः स्वरूपात् बहिर्भावेन निजया इच्छया बहिर्भावयन्नसौ बहिर्भूतानपि स्वात्मनि एव अवभासयति, तथा अवभास्यमानानामपि तेषां स एव आत्मेति सर्वमिदं विरुद्धमालक्ष्यते ।
तथाहि समस्ता इयं लोकयात्रा भगत्येव चिदात्मनि स्वरूपे विश्रान्तेत्येतदेव तावत् कथं प्रत्येयम् । तदीययैव च इच्छया यदि बहिरवभास्यते, तदिदानीं तत्रैव स्वात्मनि अवभास्यते-इति किमेतत् । स्वात्मनि अविभेदेन हि यदवभासनं, तद्विरुद्धं बहिरवभासनम् । नहि यत् भासमानं तत्रैव भाति, तत् तदैव तद्वहिर्भूतं युक्तं घट इव गृहान्तर्भूतस्तद्वहिर्भूतश्च । किञ्च तथा भासमानानामपि एषां स एव शिव आत्मेति नितरामप्रातीतिकम् । तथा भासमानत्वं हि भेदावभासनेन व्याप्तम्, शिवात्मकत्वं च एषामेकात्मकत्वेन तद्विरुद्धेन व्याप्तम्, तत् नानात्मानश्च एकात्मानश्च युगपदेव अमी भावा इत्युक्तं कः प्रतीयात् । स्वात्मनि च व्यवस्थितं वेद्यवेदकराशिं बहिरवभासयितुं किमर्थमस्य इच्छा उत्पद्यते, निष्कारणमेव वा । तथेच्छोत्पादाभ्युपगमे सततमेव तथाभावः स्यात्, न कदाचिद्वेति, तत्सर्वमिदमसमञ्जसप्रायमिति आशङ्क्य आह शश्वत् इति । यत् तावदुक्तं शिवात्मन्येव विश्वं विश्रान्तमिति कथमेतदिति । तत्रोच्यते । इह भावानां सत्त्वं, असत्त्वं वा व्यवतिष्ठमानं संविद्विश्रान्तिमन्तरेण न उपपद्यते । संविद्विश्रान्ता हि
(पगे ५)
भावाः प्रकाशमाना भवन्ति । प्रकाशमानता च एषां संविदभेद एव । प्रकाश एव संविद्यतः । तत्प्रकाशादतिरिच्यन्ते च, प्रकाशन्ते चेति उच्यमाने नीलं स्वरूपात् व्यतिरिक्तम्, अथ च नीलमिति उच्यते । तदमी संविदि तावत् विश्रान्ता भावाः संविदनधिकवृत्तय इति आयातम् । न च संविदो भेद उपपद्यते । प्रकाशैकरूपायां हि संविदि संविदन्तरात् स्वरूपभेदकृते भेदव्यवहारे एकतरत्र अप्रकाशरूपत्वमुक्तं स्यादिति असंविद्रूपत्वमापतेत् । वेद्याश्च अमी तत्स्वरूपैकात्म्यभाजः स्वयम्भिद्यमानत्वं चेत् सहेरन्, तत् स्वमहिम्ना संविदं भेदयेयुरपि । त एव तु न स्वतो भेदमालम्बितुं समर्थाः । अथ संवेदनकृत एव एषां भेदः, सुस्पष्टमन्योन्याश्रयम् । देशकालावपि वेद्यराशिमधिशयानौ वेद्यत्वादेव संवित्तादात्म्यमभिधावन्तौ कथङ्कारं तां संविदं भिन्ताम् । वेद्यराशिर्हि समस्त एवं प्रकाशादभिन्नः । यत् प्रकाशते, तत् प्रकाशाभिन्नं संवित्प्रकाश इव । नहि प्रकाशभिन्नस्य अप्रकाशमानस्य प्रकाशमानता युक्ता विरोधादिति एवं प्रकाशमानत्वं प्रकाशभिन्नत्वात् विपक्षत्वात् स्वभावविरुद्धामप्रकाशमानतामत्र बद्धास्पदामवधीर्य व्यावृत्तं प्रकाशाभिन्नत्वेन व्याप्यत इति व्याप्तिसिद्धौ स्वभावहेतुः । संविदश्च स्वप्रकाशत्वमसहमाना अमुनैव प्रतिक्षिप्ता मन्तव्याः । तत् वेद्यभेदवत् देशकालभेदोऽपि न संविदो भेदकः । किञ्च वेद्ये देशकालप्रभृतय उपाधयो न जातुचित् स्वरूपाभिन्नं भावं भेत्तुं शक्ताः । केवलं स्वरूपभेदो भवन्नेव तैः परिनिष्ठीयते । न च संविदि कथञ्चिदपि स्वरूपभेदः प्रकाशैकरूपत्वादिति हि उक्तम् । तदमी प्रकाश एव तावद्विश्रान्ता भावाः ।
प्रकाशश्च विमर्शशून्यो न भवति । ततश्च विमर्श एव भगवत इच्छा नित्यैव रुद्रक्षेत्रज्ञप्रमातृवर्गसुखदुःख-
(पगे ६)
नीलपीतादिप्रमेयसञ्चयं च अवभासयतीति, तथा अवभासमानमपिच संविन्मये प्रकाश एव विश्राम्यति, अन्यथा तथात्वस्यैव असत्कल्पत्वात्, नच प्रकाशमात्रतामुज्झति प्रकाशादतिरिक्तस्य तृणमात्रस्यापि अप्रकाशनप्रसङ्गात् । तदेवम्भूतं निर्भासमानं कथमपह्नूयता- मिति विरोधोऽपि अत्र न कश्चित् । यदि हि नीलमनुज्झितनीलप्रकाशभावमेव अनीलप्रकाशतया निर्भायात्, को नीलानीलयोरपि विरोधवैधुर्यमुद्धोषयेत् ।
इह पुनर्नीलादयोऽनुज्झितनीलादिभावा एव प्रकाशमानाः सन्तः प्रकाशाभेदमयाः । तदिदमेव भगवतः स्वाच्छन्द्यम्-यत् संविदात्मक एव भवन् विचित्रप्रमातृप्रमेयात्मना संविद्रूपानधिकेनापि संविद्रूपाधिकतया निर्भासमानवपुषा प्रकाशते च, तथा विमृशति च ।
अनधिकस्यापि अधिकस्य इव भासनं स्वच्छभाव उच्यते दर्पणस्य इव । स हि प्राकारगृहहस्त्यश्वपुरुषघटकुम्भकारभेदैस्तद्गतावयवावयविभा- वाधाराधेयभावकार्यकारणभावप्रभृतिभिश्च व्यवहारनिवहैर्मनाङ्मात्रमपि स्वरूपानधिकैरपि अतिरिक्तैरिव च यत् निर्भासते, तदेवं स्वच्छ इति उच्यते । केवलमस्य तथाविमर्शाभावाद्- अस्वाच्छन्द्यं जडत्वम् । परमेश्वरस्तु तथा भासमानमात्मानं विमृशत्येव संविदो विमर्शपर्यन्तत्वात् । यच्च उक्तं सर्वदैव तथा भासमानं स्यादिति । तत्र सर्वदेति कदाचिदिति च यदि कालः कश्चित् तन्निर्माणनिरपेक्षः स्वतन्त्रस्तत् तदवलम्बनेन चोद्येतापि । नच एवम् । तथाहि अस्मिन्काले द्योत्यादेर्न अस्य शब्दस्य अर्थोऽन्यः कश्चिदृते तथा भासमानात् सूर्यपरिस्पन्दितात् । तदेतदुक्तं स्यात्-तत्सूर्यादिविस्पन्दितसहभावेनैव कस्मात् नीलादि विश्वं भासत इति । तदिदमपि किं न चोद्यते-नीलमेव पीतं किं न भातीति । ननु एवं न नीलं भासितं स्यात् । यदि एवम्, अन्यथा भासने
(पगे ७)
तदेव तत्सूर्यविस्पन्दितं नावभातमेव स्यात् । सप्तार्णवमीलननिर्भासित्वे हि प्रलयदिनमेव अद्यतनं दिनं स्यात्, नाद्यतनं दिनं तद्भावे तदुभयात्मनापि । नच अतिरिक्तेन वपुषा भाति परमेश्वर इति न किञ्चिदत्र अप्रातीतिकम् । संवेदनस्यैव हि स्वप्नसङ्कल्पशास्त्रनिर्माणादौ तत्तदन्तर्व्यवस्थितभावसम्भारबहिष्क्रियायामपि अनतिरेको दृष्ट इति प्रत्युत प्रतीतिबहिष्कृतपरिकल्पनमप्रातीतिकम् । तेन शश्वदिति कालपरिच्छेदासम्भवः । अच्छन्नेति स्वरूपानतिरेकः । स्वच्छेति अनतिरिक्तत्वेऽपि अतिरिक्तताभाससम्भवः । स्वच्छन्देति विमर्शस्वातन्त्र्ययोगः ।
वृत्तिपदेन एषां रूपाणां भगवति शक्तिमति शिवे तादात्म्यावभास उक्तः । शश्वदिति कालापरिच्छन्ना, अच्छन्ना स्वरूपान्यथाभावं मनागपि अभजमाना, स्वच्छा अधिकनिर्भासनमिव सहमाना, स्वच्छन्दा पार्यन्तिकप्रतिष्ठास्थानविमर्शाशून्यतया तद्विमर्शस्थानान्तरो- पयाच्ञालक्षणपारतन्त्र्यवियुक्ता वृत्तिर्वर्तनं स्वरूपस्पन्दितमेव यस्य, स एव अशिवरूपसांसारिकमोहापहस्तनयोगादानन्दसारभोगा- पवर्गरूपपरापरश्रेयःपरमार्थतया शिवः परमेश्वरः, तस्मै नम इति शास्त्रकृत् वाङ्मनःकायानां तत्प्रह्वतामाविष्करोति । प्रह्वता च उक्तरूपा भगवत्स्वरूपोत्कर्षदर्शनेन तदिच्छावशाविशीर्णशरीर- प्राणादिकल्पितप्रमातृभावनासंस्कारात्मकशेषवृत्तिसम्भवे व्युत्थानसमयसम्भाव्यमानस्य शरीरादिगतप्रमातृताभिमानोद्रेकस्य अपासनेन मायाप्रमात्रभिमानातिरेकन्यग्भावितसंविदात्मकस्वस्वरूप- ताया उनमग्नतात्मकः समावेशः । तादृशं शिवस्वरूपं प्रधानप्रमातृतया अधिशये न्यक्करोमि मायाप्रमातृभावाभिमानमिति अन्यनिपातवत् द्योतक एव अयं नमः शब्दः । यत्तु नमःशब्दस्य स्वरूपपरत्वमभिधीयते, तत् न मनोरमम् । नहि भगवति नमः-
(पगे ८)
शब्दस्वरूपार्पणेन किञ्चित् । गीतन्यायेन हि नमःशब्दः श्रूयमाणो भगवति परितोषमाधत्त इति शपथश्रद्धेयोऽयमर्थः । स्वाहादीनामपि होमादौ दीप्त्यभिवृद्धिदेवतार्पणतर्पणप्रभृतिर्द्योत्य एव अर्थः, न स्वरूपनिष्ठता चादिनिपातवत् । स्वरूपपरत्वे तु चः पठित इतिवत् सत्त्वरूपतायामनव्ययत्वं स्यात् लिङ्गसङ्ख्यादियोगप्रसङ्गात् । अर्थस्य च शब्देन को योग इति तद्योगे चतुर्थी विघटेत । नमस्करोति नमस्यतीति नमःशब्दमुच्चारयतीति अर्थपर्यवसाने परमेश्वरमिति बाह्यकर्मसम्बन्धानुपपत्तिः । वाचिक एव च तदा नमस्कारो मानसोऽपि वा स्यादिति कायिको नमस्कारः कथमिति त्रैविध्यप्रसिद्ध्ययोगः । अस्मत्पक्षे तु मनसा वाचा कयेन स्वात्मानं प्रह्वीकुर्वन् न्यग्भावयन् भगवन्तमुत्कर्षयतीति नमस्यतेरर्थः इति सर्वमुपपन्नम् । यद्वक्ष्यति जयनमस्काराद्यभिधानेनापीश्वरस्योत्कर्षः ख्यापनीयः स्वात्मनश्च तत्प्रवणता इति । आगमेष्वपि नमःस्वाहावौषडादीनां विविधसिद्धिजननोपयोगितया जातिशब्दवाच्यानां तत्तदर्थद्योतकत्वमेव अभिधीयते । सम्भवन्तं च अर्थोपकारमनादृत्य स्वरूपकृतोपकार- समाश्रये को ग्रहः । तदेवं यतो विश्वं निर्भासते, यत्र च विश्रान्तं निर्भासते, यदिच्छया च प्रकाशते, यश्च विश्वस्य प्रकाशमानस्य आत्मा, यच्च विश्वत्रापि निर्भासमानेऽनावृतमेव, अनाधिक्येनापि च यत्र विश्वं यस्य स्वातन्त्र्यात् अधिकमिव निर्भासते, तदेव परमार्थतत्त्वं प्रधानतया उत्कृष्टम्, अन्यत्तु अस्मदादि तत्प्रवणमिति अयमत्र प्रधानाभिधेयः शास्त्रार्थो हृदये प्रवेशितः, येन विवर्तपरिणामप्रभृतिपक्षान्तर्- अप्रतिक्षेपः । विवर्तो हि असत्यरूपनिर्भासात्मेत्युक्तम् । निर्भासते च असत्यं चेति कथमिति तु न चिन्तितम् । परिणामे तु रूपान्तरं तिरोभवति, रूपान्तरं
(पगे ९)
च प्रादुर्भवतीत्युक्तम् । प्रकाशस्य तु रूपान्तराभावात् तत्तिरोधाने स्यादान्ध्यम् । अप्रकाशश्च प्रादुर्भवन् नैव प्रकाशेतेति उभयथापि सुप्तं जगत् स्यादिति न पर्यालोचितम् । प्रतिबिम्बवादे च स्वच्छतामात्रं संवेदनस्य, न स्वातन्त्र्यमिति तत्समर्पकवस्त्वन्तरपर्येषणा कर्तव्या ।
अविद्या च अनिर्वाच्या वैचित्र्यं च आधत्ते इति व्याहतम् । पारमेश्वरी शक्तिरेव इयमिति तु हृदयावर्जकः क्रमः । तस्मादनपह्नवनीयः प्रकाशविमर्शात्मा संवित्स्वभावः परमशिवो भगवान् स्वातन्त्र्यादेव रुद्रादिस्थावरान्तप्रमातृरूपतया नीलसुखादिप्रमेयरूपतया च अनतिरिक्तयापि अतिरिक्तया इव स्वरूपानाच्छादिकया संविद्रूपनान्तरीयक- स्वातन्त्र्यमहिम्ना प्रकाशत इति अयं स्वातन्त्र्यवादः प्रोन्मीलितः ॥
एवं परमेश्वरस्वरूपे समाविश्य ग्रन्थकारः सूत्रवृत्त्यर्थं पूर्वपक्षोत्तरपक्षैः समुद्धाटयिष्यन् तर्कोऽप्रतिष्ठम् इति अप्रतिष्ठता,
अद्यास्मानसतः करिष्यति सतः स्यास्नूनथो नश्वरान् इति स्वशक्तिप्रदर्शनमात्रसारतया गोमयपायसीयन्यायोपहासेन परमार्थानुपयोगिता,
अहो धिग्व्याख्यातृग्रहमितरहेवाकभृतक- महो तर्कस्यान्तः क्वचिदपि न लभ्यश्च विबुधैः ।
इति तत्कारित्वतद्द्वेषित्वार्धवैशसयोगादप्रांआणिकत्वं वह्निर्न यस्य सलिलम् इति अबद्धाभिधानमात्रमत्र मा सम्भावीति श्लोकत्रयेण घटयति खपुष्पं सत्कर्तुम् इत्यादिना । एकोऽपिशब्दो भिन्नक्रमः तथा इति च । देशे काले प्रमातरि च सर्वत्र असत्त्वेन विदितं खपुष्पमपि सत् सम्पादयितुं, तथा पुरः स्फुरदपि सर्वस्य वर्तमानतया देशनैकट्येन च प्रकाशमानम्, अत एव वस्तु यत् तदपि असत् सम्पादयितुं प्रभवनशीलः सन्
(पगे १०)
जगदिदं भावाभावरूपं चकितमिव स्वरूपे अनवस्थितमिव करोमि इति सामर्थ्यमात्मनि सम्भावये । वादस्य पक्षप्रतिपक्षपरिग्रहस्य ।
आरम्भकाले चिकीर्षायाम् । यत् यथा पक्षतया वा प्रतिपक्षतया वा कर्तुमिच्छामि, तन्मे तथा सम्पद्यते इति एषा यस्य उक्तिः, तथा इति स्वसामर्थ्यप्रथनाभिप्रायप्रकारेण, स स्फुटमेव आत्मनो निन्दां करोति ।
यदर्थरहितमभिधेयप्रयोजनशून्यवचनमसमाप्तं च अपरिनिष्ठिताभिधेयं नियमनिदानाभिधानाभावाच्च असम्भावितो- परमं मम प्रेक्षापूर्वकारिताविरहात् प्रसरति स्वयमेव प्रवर्तते, तत्र च प्रकुपितान्तरवाताभिधानधातुप्रक्षोभ एव निमित्तं भवति । यो हि तदेव नीलं पीतमिति; न नीलं, पीतमिति; न नीलं, न पीतमिदमिति वा ब्रूयात्; स उन्मत्तधौरेय इति प्रशंसां मुक्त्वा न स्तुत्यन्तरपात्रं भवेत् । तदीदृशेन पथा स्वसामर्थ्यप्रदर्शनमुन्मादप्रदर्शनमेवेति तात्पर्यम् । नच केवलमुन्मादमात्रम्, यावत् परोऽपि अमुना मार्गेण नीयमानो वितारितः स्यादिति महत् पातकार्जनमिति दर्शयितुमाह जडानामिति ।
उपयुक्तप्रमाणवृत्ता अपि हि गुरुसेवाशास्त्रशीलनादिप्रयत्नशतैः, अथच य एवमप्रेक्षापूर्वकारिणः, त एव जडाः, तेषां ये उपयुक्तशास्त्रार्थ- सम्यग्विकारविरहलक्षणापरिणामप्रभवा उद्गारा अभिधेयप्रयोजन- शून्या अननुसन्धानेऽपि हठप्रवृत्ता उद्गारस्थानीयवातप्रक्षोभ- प्रलापाः, तैर्दूषिता रुचिः स्वा दीप्तिः परमार्थस्वरूपलक्षणा यस्याः, यस्यां च असता रूपेण तस्य सतः पारमार्थिकस्य रूपस्य सङ्कीर्णत्वं व्यामिश्रत्वं यत् तत्सामर्थ्यात् सा तादृशी; अर्थानामर्थयितॄणां प्रमातृणामर्थ्यमानानां च प्रमेयाणामावलिः परस्परोन्मुखोऽपि युगलकमयः समूहः परितो म्लायति उन्मुखतोद्धुरकन्धरतां हित्वा अवनमति इव स्वकर्त-
(पगे ११)
व्यौदासीन्यं प्रतिपद्यते । यथा मन्दाग्नीनामौदरिकाणामतिभोजनाजर- णजनितैरुगारैर्भोगोत्सुकापि काचित् मुग्धा सर्वत्र भोग्ये ताम्बूलादावपि असता अशुद्धेन रूपेण सङ्कीर्णतामिव उल्लिखन्ती अत एव विनाशितभोजनाद्य- भिलाषा अरोचकदोषेण म्लानिं प्रतिपद्यते । एतदुक्तं भवति-मुग्धमतेर्- लोकस्य लौकिकवैदिकप्रभृतिदृष्टादृष्टप्रयोजनकर्तव्यविशेषविषयसन्तति- प्रवृत्तिभाजस्तादृशमृषापाण्डित्यप्रलापैर्भग्नरसा रुचिर्जायते, नच परमार्थतत्त्वे क्वचन अवतार्यते अप्रतिष्ठानात् । तस्मादीदृशेन स्वात्मनि उन्माददायिना परमपकुर्वता च किं पाण्डित्येन । ईदृशं तु तद्युक्तम्- इत्याह यथावस्तूद्ग्राह इति । यत् यत् वस्तु, तस्य तस्य उत्कर्षमुद्रेकमुन्- मग्नतां च गृह्णताममी प्रतिपाद्या इत्यत्र अर्थे उपयोगी पूर्वपक्षतद्- दूषणसिद्धान्तसमर्थनात्मा तत्समर्थाचरणलक्षणो यः प्रयोजकव्यापारः, तत्र ग्रहो रसः स एव भूम्ना प्राशस्त्येन अतिशयेन सततं च विद्यते यस्य तादृक् यो वस्तुतो विद्वान् तथैव वेत्ति, नतु अन्यथा, नतु अन्यथा पश्यति, अन्यच्च ब्रूते, विद्वांश्च प्रेक्षापूर्वकारी, तत्र स्थिता तत्र विश्रान्ता । सा अर्थावली । विगता शान्ता शङ्का यस्याः, यस्यां च । सा प्रमातृप्रमेयवर्गात्मिका आश्वसिति कर्तव्यपरिलोपयोगाभावात् लौकिकालौकिकदृष्टादृष्टविषये तदुत्तीर्णपरमार्थतत्त्वविषये च धृतिमाबध्नाति । यतस्तादृशो विद्वान् सर्वस्य विविक्तत्वं विवेकं भिन्नविषयतया विरोधपरिहारं परोपकारमेव स्वफलं पश्यन् ददाति ।
तथाहि यत् यथा प्रकाशते, तत् तथा प्रकाशस्यैव महिमेति दृष्टौ सूक्ष्मत्वतारतम्यप्रकाशात् किं न पारमाणवत्वं, सुखादिजनकत्वात् किं न तादात्म्यं, संवेदनाभावे किं न अन्धतमसप्रायशून्य- शरीरत्वं घटादेः शरीरप्रमातृमात्र-
(पगे १२)
विदुषो वा बालाङ्गनापामरादेरपरलोकित्वं स्फुरति हि, यस्तावदहं, सोऽहं देहभस्मीभावे न कश्चिदिति परमेश्वरसंविदभेदभाजो भावा अपि परमेश्वरस्वरूपाः प्रमातारोऽपीति विचित्रशक्तिपरिस्फुरणमेषां परमा मण्डना, नतु अल्पापि खण्डना । केवलं तावन्मात्रभागपरिग्रह- ग्रहिका विवदन्ते अन्धा इव हस्तिशरीरे करपुच्छादिभागस्पर्शनद्वारोत्पन्न- समुचितकरिविकल्पाः तदपि विवदनमेषां परमेश्वरशक्तिविजृम्भामात्रं न कञ्चन दोषलेशमावहतीति । यथाच सा सुकुमारमतिः काचन तस्मात् जडोद्गारव्याप्तात् देशात् केनचित् तदभिप्रायवेदिना असम्मतेन जडेन सह विविक्तत्वं दूरत्वमापाद्यते । अविदग्धलोको हि तां म्लायतीयमरोचकेनेति परं पश्यति, नतु अत्र जडोद्गारजनितत्वमरुचेरिति जानीयात् । सापिच एवमेवेति ।
यदा तु ताम्बूलासवभोजनादेर्यत् यत् वस्तु, तत्र तत्र उत्कर्षस्वीकारनिपुणं तद्धृदयं ग्रहेण गाढेन सम्पाद्यते; तदा सा निजरुचिप्रबोधादाश्वसिति म्लानिं त्यजति । काचन च कुमारी प्रभोधाभिमुखमदनाङ्कुरोपकरण- कलितहृदयापि तथाभूतौदरिकोद्गारदूषितरुचिरेवम्भूताः खलु पुरुषा भवन्तीति म्लानिं नीता, केनचित् विदग्धेन विविक्ते विगताशङ्का तदेकावबद्धप्रेमपरतन्त्रा कृता, लौकिकभोजनादिभोगरसज्ञा लोकोत्तररतिरसास्वादाभिज्ञा च सम्पाद्यते । तथा परमार्थपण्डितेनापि सिद्धिमोक्षलक्षणपरापरश्रेयः-प्राप्त्यानन्दोचिता प्रमातृप्रमेयमयी त्रिलोकी सम्पाद्यते । नित्ययोगाद्यभिधानाय लाघवप्राप्तमपि तदस्यास्त्यस्मिन्नित्येतावति मत्वर्थे विहितं बहुब्रीहिमपहाय तत्पुरुषात् मत्वर्थींयप्रयोगः कृतः । जडानामुद्गारैः इति बहुवचने तादृशीं प्रचुरतामपरिनिष्ठां च अभिधत्तः । विदुषि इति तद्वैपरीत्येन एकत्वविवक्षया परमार्थपण्डितः
(पगे १३)
परमार्थविदग्धश्च दुर्लभ इति उक्तम् । कस्मिंश्चित् इति लोकोत्तरे । ननु तादृगसौ यदि कश्चिदेव, तदसम्भावनीय एव अस्तित्वेनेति आशङ्क्य आह ते कॢप्ताः किल इति । एतदुक्तं भवति-परमेश्वरेच्छैव स्वरूपप्रच्छादनं च स्वरूपप्रकटनं च विदधती अवश्यं तादृशं प्रसूते परमार्थपण्डितं, केवलं मायाराशिर्भूयान् विद्यावत्तु तनुतरं तेजः ।
तथाहि रोदसीशब्दवाच्यस्य द्यावापृथिवीद्वयस्य यत् विभजनमसं- कीर्णत्वज्ञानं विशेषेण च भजनमपातकतया सेवनं भोगयोग्यत्वम्, अत्र कर्तव्ये सप्त कुलपर्वताः कॢप्ताः समर्था निर्मिताः, पर्वतशत- पूर्णेऽपि जीवलोके सप्तैव, न अधिकाः । नच अत्यन्तं न निर्मिताः । रात्रिन्दिनस्य च तमःप्रकाशरूपस्य सत्कारे चन्द्रार्कौ द्वावेव । नतु मणिप्रभृतेर्बहुतरतेजोवर्गस्यापि अत्र शक्तिः । नच तौ न सृष्टौ । यदि हि सूर्यो न स्यात्, रात्रिरेव स्यात्, सापि वा न भवेत् । प्रकाशरूपताज्ञाने हि तदभावस्तम इति ज्ञानम् । जात्यन्धोऽपि अन्तःसङ्कल्पारूढरूपादि- प्रकाशं जानन्नेव बहिस्तदप्रकाशमन्धतमसं वेत्ति, सुप्तमूर्च्छिततायामन्धतमसस्य प्रथमप्रवेश एव प्रकाशसंस्कार- वशादवभासः, नतु तदेकवशीभावावस्थायाम् । तदा हि न किञ्चित् निर्भातमिति च संस्मरणं सर्वशून्यसंवेदनमावेदयेत । नच अन्धतमसं सर्वशून्यमेवेति वक्ष्यामः । तथाहि कापिलैश्छाया सप्रतिघवस्तुधर्म इष्टा, आभिधर्मिकैश्च तमोरूपभेद एव ।
निमीलितनेत्रस्य हि बहिरन्धतमसमिति न प्रतिपत्तिः, अपितु उन्मीलितदृश एव ।
आलोकशून्यतायां तत्र न परं पश्यामीति संवित्, नतु तमः पश्यामीति ।
यदि च सूर्य एकरसस्फुटस्वभाव एव स्यात्, तत् दिनमेव स्यात् । यदा तु स्वरश्मिसङ्क्रमणपूर्यमाणमण्डलाभोगश्चन्द्रोऽस्ति
(पगे १४)
सूर्यतेज एव तथा वैचित्र्येण आस्ते येन सदपि असदिव, तदा रात्रिर्नाम भाति ।
अनया भङ्ग्या निशाकरत्वं चन्द्रस्य, नतु सूर्योदये दिनमिव चन्द्रोदये निशेत्येवमत्र विवक्षितं मन्तव्यम् । यथाच कुलपर्वताः, यथा च चन्द्रार्कौ, तथा ईश्वरेणैव विश्वाधारकत्वात् धात्रा सदसतोर्युक्तायुक्त- योर्भावाभावयोश्च विवेककरणे यो विधिरविचलो न्यायः, तत्र कश्चिदेव, न सर्वो विपश्चिज्जनः, सम्यक् पश्यंश्च निश्चिन्वंश्च सृष्टः, नतु न सृष्टः ।
किलेति सम्भावनायाम् । अपोढं व्यावर्तितं गाढमनादिकालसंसार- वासनावशप्ररूढमपि तिमिरमख्यातिलक्षणं यया प्रकृष्टज्ञान- लक्षणया प्रभया अर्चिषा, तया भास्वरः स्वयमतमोरूपः, परं च स्वरूपमज्जनेन अतिमिरं प्रकाशमयं कुर्वन् । अयम् इति गुरुप्रबन्धं प्राच्यकालं भासमानरूपं स्वात्मानं वर्तमानं शिष्यप्रशिष्य- सन्तानं च भाविनं पश्यन्नविच्छीन्नविद्यावभासनः परमेश्वर इति दर्शयति । विशेषेण पश्यतीति विपश्यः परमसर्वज्ञः, तद्वदाचरन् भावतत्त्वं चेतति यः स विपश्चित् । शपथद्विपश्यन्नसुगतवदिति ? चेतयते विपश्चिदिति हि सूत्रान्तः स्वपरविमर्शक्षमचित्तत्त्वयुतः स्याद्विपश्चित्तु इति ।
परं विमृशतीति णिचि क्विपि परं विमृशन्ती चिदस्य इति श्रीवृहस्पतिपादाः ।
एवं क्रमेण अल्पाल्पतया परमेतदवतिष्ठते, नतु सर्वथैव असम्भवोऽस्य अर्थस्येति उक्तं भवति । एवं तत्त्वनिष्ठमेव पाण्डित्यम् । तच्च परिनिष्ठितमेव सत् परोपकारनिष्ठं भवतीति अभिधाय करिष्यमाण- टीकाप्रयोजनं सूत्रवृत्तिटीकानां च एकग्रन्थकारनिर्मितत्वम्, एकवक्तप्रयोजनत्वेऽपि च ग्रन्थभेदनिर्माणसाफल्यं दर्शयितुमाह त्रय्यां वाचि इति । त्रयोऽवयवाः पश्यन्तीमध्यमावैखरीति यस्याः सा त्रयी परामर्शरूपा क्रोडी-
(पगे १५)
कृताभिन्नसमस्तपरामर्शनीयराशिः परा भगवती । वक्ति स्वरूपं विमृशतीति वाक्, तस्यां च एतत् इति परिदृश्यमानं वाङ्मयं प्रमितिलक्षणपरामर्शरूपसंवेदनानुविद्धतया शब्दनैकशरीरं विश्वं यथा क्रमेण विकसितं, पश्यन्त्यां विकासोन्मुखं, मध्यमायां विकसत्, वैखर्यां पृथक्तया परामृश्यमानत्वेन लब्धविकासम् । यद्वच्च गायत्री अधिकृतप्रेरणानिर्माणनिपुणनिजहृदय- गगनसदोदितबोधादित्यप्रभाप्रतिभारूपा अमुत्र इति आमुष्मिकफलदान- निमित्तम्; यदिवा अमुत्र विश्वप्रसिद्धे अन्तःप्रणवनिगमात्मनि क्रमेण विकसिता अन्तर् इति करवै इति सङ्कल्पभूमौ विकासोन्मुखा, कर्मप्रारम्भ- काले ओमिति अभ्युपगमरूपतया मन्त्रप्राथम्यप्रथनरूपतया च विकसन्ती ।
ततः कर्मसम्पादनसमये ऋग्युजःसामतत्समुदायलक्षणा त्रयी सम्पाद्यहौत्राध्वर्यवौद्गात्रव्रह्मत्वस्फुटीभावावस्थायां लब्धविकासेति लौकिकं फलभूतं वैचित्र्यं वैदिकं च तत्कारणभूतं दृष्टान्तत्वेन उक्तम् ; यदि वा अन्तरादित्रये, अमुत्र च पश्यन्त्यादिके त्रये क्रमविकसिता गायत्रीति । अथवा अन्तःप्रणवं प्रणवस्य अन्तर्मध्ये यत् निगमात्मकं त्रयमृगादि
स्रवत्यनोङ्कृतं पूर्वं पुरस्ताच्च विशीर्यते । (म। स्मृ। २ । ७४) इति नयेन प्रणवतादात्म्येन
सर्वे वेदा-। (क। व। २ । १५)
इति नयेन च, तत्र यथा गायत्री कर्तव्यप्रारम्भे प्रतिभारूपा क्रमेण विकासमेति । साहि प्रतिभा सामसु गीतिरूपेषु नादात्मतां गृह्णती, ऋक्षु कर्मगुणदेवताप्रशंसात्मकार्थरूपतासूत्रणं स्वीकुर्वाणा, यजुष्षु कर्तव्यात्मना स्फुटीभवति । वेद्यं धर्माद्युपायं निश्चयं गमयतीति निगमो वेदः । तद्वदीश्वरप्रत्यभिज्ञा सूत्रवृत्त्योः
(पगे १६)
स्फुरितहृदया या, सा इह विवृतौ व्यक्तिं गता । शनैः क्रमेण ईश्वरः प्रत्यभिज्ञायते यया दृक्क्रियात्मकशक्त्यभिज्ञानदर्शनया प्रतीपमाभिमुख्येन ज्ञानोपायभूतया स्वात्मनि ईश्वरव्यवहारसाध- नप्रमाणपद्धत्या, सा सूत्रे स्फुरद्धृदया, वृतौ स्फुरितसारा, विवृतौ तु व्यक्ता सर्वजनगोचरतां गता । स्फुरणप्रारम्भः सूत्रे स्फुरणनिर्वाहस्तु वृत्ताविति परमार्थत ऐक्यमनयोरेककालकृतत्वात्, विभागकल्पनया तु भेद इति दर्शितम् । एतदुक्तं भवति-यथा परवाक्तत्त्वे विभागहान्या विश्वं स्थितं, पश्यन्त्यामासूत्रितभेदं, मध्यमायामुन्मीलितभेदं, वैखर्यां भिन्नपरामृश्यमानरूपतया स्फुटीभूतभेदावभासं; तथैव भिन्नानामधिकारिणां भिन्नामर्थक्रियां विधत्ते, तथा परवाक्तत्त्वस्थाने शिवाभिन्नशास्त्रकारसंवेदनं तादात्म्येन यत् वर्तमानं परमार्थतत्त्वं सारत्वाच्च हृदयशब्दवाच्यं, तत् परप्रतिपाद्यजनविषयतापत्तियोग्यतालक्षणस्फुरणात्मकभेदासूत्रणया स्थितं सूत्रे, वृत्तौ तु तदेव उन्मीलितं, विवृत्तौ तु आक्षेपप्रतिसमाधानदिशा स्फुटीभूतं सर्वजनप्रतिपत्तियोग्यतालक्षणभेदं भवतीति तस्य तस्य अधिकारिणो विविधफलदायितया हि अगृहीतदर्शनान्तरजनितभेदवासना- ग्रहाः सूत्रमात्रात् वृत्तिसहितादभिविनीताः सन्तो वृत्त्यनपेक्षसूत्रार्थ- मात्रपरिशीलनदिशा परापरसिद्धिभाजो जायन्ते । तीर्थान्तरपरिशीलनोत्थित- मिथ्यादृष्टयस्तु विवृतिरूपया टीकाया अपसारिततथाविधविमोहाः सूत्रवृत्त्यर्थविश्रान्तहृदयाः क्रमेण सूत्रार्थभावनावियोगविश्रान्त्या तथैव शास्त्रकारसंवेदनरूपपरहृदयाविभक्ततत्त्वतया सिद्ध्यन्तीति ।
यथाच प्रतिभात्मनि सर्वः कर्तव्यकलापोगलितभेदः क्रमेण कर्मारम्भपर्यन्ततां प्रतिपन्नो विश्वव्यवहारसिद्धिहेतुः, एवमात्मसम्बोधो गुरुहृदयविश्रान्तः सूत्रादिषु क्रमेण
(पगे १७)
स्फुटीभूतः प्रतिपाद्यप्रतिपादकभावेन निःशङ्केन निर्विवादेन च स्फुटतां प्रतिपद्यते इति । सूत्र्यतेऽर्थो येन, तत् सूत्रम् । सूत्रस्य स्वाभिधेये वर्तनं वृत्तिः, तत्प्रतिपादकत्वात् सूत्रार्थोद्भेदनो ग्रन्थोऽपि वृत्तिः ।
शास्त्रार्थस्य संवृतस्य आच्छादितस्य इव शङ्क्यमानपरमतपांसुराशि- प्रायावरणापसारणेन अपगतावरणत्वं विवरणं विवृतिः, तत्प्रतिपादक- त्वात् ग्रन्थोऽपि । स एव टीका टीक्यते अवगम्यते हृदयभूमिसञ्चरणचातुर्य- योग्योऽर्थः क्रियते ययेति । तथा च वक्ष्यति-
टीकायामथच क्रमोपचयवत्-।
इति । यदि तु
स्त्रियाः खलनौ विप्रतिषेधेन ।
इति लक्ष्यं नाद्रियते, तदा वृत्तिशब्दो विवृतिशब्दश्च करणे व्युत्पाद्यः; वृत्तिशब्दस्तु अधिकरणव्युत्पत्त्या यदि अर्थे, तदा ग्रन्थे उपचारादेव वृत्तिः ।
एवमियता टीकापि ग्रन्थकारेणैव कृतेयुक्तं भवति । नहि अन्यप्रमातृतत्त्वगे पश्यन्तीमध्यमे, प्रमात्रन्तरविश्रान्ता च वैखरीति सम्भवति । नापि अन्यस्य कर्मोपक्रमः, अन्यस्य कर्तव्यनिर्वाहणमिति सम्भवोऽस्ति । यत्रापि उभयं काव्यसमस्यावारकपटसमापनादौ स्यात्, तत्रापि मूलस्फुरिततावदेकाभिप्रायनिर्वाह एव तथा भवति एकीकार एव न अन्यथेति । तदनेन सूत्रवृत्तिविवृत्तित्रितयविरचनेन सर्व उपकृतो भवतीति प्रदर्श्य प्रयोजननिरूपणपुरःसरं तात्पर्याभिधानद्वारेण आदिवाक्यमवतारयति शास्त्रारम्भे इत्यादिना । उचिते कर्तव्ये यत् विघ्नशमनं, तत् यत्नोपार्जनीयमिति शास्त्रारम्भ पदम् । यदाहुः
श्रेयांसि बहुविघ्नानि————।
(पगे१८)
इति । विघ्नन्ति विलुम्पन्ति कर्तव्यमिति विघ्नाः आध्यात्मिकादयोऽनवधानदोषा- दयस्त्रिविधा उपघाताः, तदधिष्ठातारश्च देवताविशेषाः । ते च प्रक्षीणमोहस्यापि मायासंस्काराविनिवृत्तशरीरप्राणप्रभृतिगतप्रमातृ- भावस्य प्रत्यगात्मनः प्रभवेयुरपि इच्छाविघाताय, विशेषतः समस्तलोकमभ्युद्धर्तुं परिगृहीतोद्यमस्य ।
लोकगतधर्माधर्मपरिस्पन्देन तदधिष्ठात्रा च देवतावृन्देन संसारपरिरक्षणपरिगृहीतक्षणेन अवश्यं विघ्नसङ्घसङ्घटना क्रियते । यथोक्तं
विघ्नायुतसहस्रं तु परोत्साहसमन्वितम् ।
प्रहरत्यनिशं जन्तोः सद्वस्त्वभिमुखस्य च ॥
विशेषतो भवाम्भोधिसमुत्तरणकारिणः ।
इत्यादि । तदसौ विघ्नसङ्घातो यदि परं तादृशालौकिकोद्योगयोजकेन भगवतैव अनुग्रहात्मकचरमनिजकृत्यनिर्वाहणकारिणा विहन्तुं शक्यते इति प्रत्यगात्मनि शरीरादौ तद्रूपतातिरस्कारेण अवनतिरूपेण प्रथमसमये परमेश्वरस्वरूपोत्कर्षणपरामर्शात्मा समावेशः
मुख्यत्वं कर्तृतायास्तु——। (३ । २ । १२)
इत्यादिवक्ष्यमाणलक्षणः स्वीकार्यः । तत्र हि सति विश्वमपि स्वात्मभूतम- भिन्नस्वतन्त्रसंविन्मात्रपरमार्थं भवतीति कः कस्य कुत्र विघ्नः ।
अनन्तरं तु ग्रन्थकरणकाले यद्यपि प्रत्यगात्मप्राधान्यमेव अनुसन्धेय- मन्यथा वैखरीपर्यन्तप्राप्तिनिर्वाह्यशास्त्रविरचनानुपपत्तेः, तथापि तत्समावेशसंस्कारमहौजोजाज्वल्यमाननिजौजः समुज्झासितभेदग्रहतया न प्रभन्ति विघ्नाः । नच मायाधिकारिणि ब्रह्मविष्ण्वादौ उचितः समावेशः इति परमग्रहणम् । प्रतिर्लक्षणे, तेन हेतुना यतः प्रह्वता भवति अन्यथा न समे न्यूने
(पगे १९)
वा प्रामाणिकस्य प्रह्वता उचिता, इत्थं भूताख्याने वा विषयविषयिभावे प्रतिः । प्रकर्षेणेति अन्यतिरस्कारेण ह्वयति शब्दयति ताद्रूप्यं परामृशति तद्गुणानुप्रवेशस्पर्धावानिवेति प्रह्वः । आत्मनि इति शरीरादौ प्रत्यगात्मनि । तथाहि शून्यबुद्धिप्राणकरणेदेहे सति निर्वाह्यं शास्त्रसम्पादनमन्यनिरोधेन परमार्थताध्यवसायेन शब्दनिर्माणेन परोपदेशेन चेति । तत्र अवश्यावलम्बनीये दलकल्पे पारमेश्वरं स्वरूपमनुप्राणकं वेदकत्वेन समाश्रीयते परामृशन् इति शतृप्रत्ययेन इदमाह । आसाद्य इति, यद्यपि पूर्वकाले धात्वर्थे वर्तमानात् धातोर्भावे क्त्वाप्रत्ययोविधीयते, तथापि धातुसम्बन्धबलात् तद्वाक्यार्थानुप्राणकत्वेन क्त्वान्तार्थः प्रतीयते । पूर्वमासवं पिवति ततो गायतीति हि वाक्ये यादृशं क्रिययोः पौर्वापर्यमात्रं प्रतीयते, न तादृशमेव आसवं पीत्वा गायतीति, अपितु तदासवपानमुपकारत्वेन प्रधानवाक्यार्थानुप्राणकत्वेन अनुयायि इव भाति । केवलं पूर्वोत्पन्नतामात्रं पौर्वकाल्ये, नतु उत्पद्यैव निरन्वयः प्रविलय इति एवं जातं चेत् परमेशदास्यासादनं, तत्स्वजनेन न विलम्बः कर्तव्यो विलम्बे मायासंस्कारतिरस्कारेण अशङ्कितोपनतपरमेश्वरतादात्म्यापवर्ग- सम्भावनया परोपकारसम्पत्तेरभावात् । अनासादित तत्स्वरूपस्य तु शास्त्रकरणे प्रतारकत्वादवश्यमासादनसामनन्तर्येणैव परोपकारकरणमुचितम्, नतु विलम्बनीयम् । तेन परमेशगुरुप्रसादोचितं शुद्धाशुद्धाधिकारिसदाशिवरुद्रविष्णुविरिञ्चाद्युत्तीर्णपरमेश्वर- दास्यासादनं सज्जनत्वलाभपूर्वकस्य परोपकारैषणानिमित्तकस्य सर्वसम्पदवाप्तिप्रयोजनोपायस्य ईश्वरप्रत्यभिज्ञोपपादनस्य प्रत्यंशं निर्वाहकत्वेन वर्तते इति आसाद्य इति एकवाक्यताप्रयोगेण उक्तमिति शत्रा विच्छेदाभावोलक्षणत्वं
(पगे २०)
हेतुत्वं च प्रह्वतापरामर्शस्य द्योतितमिति प्रयोजनमेव प्राधान्येन प्रवर्तकम् । तत आह प्रवृत्तये इति । तत्र फलं प्रधानतया वाक्यार्थ इति दर्शने प्रयोजनमेव फलरूपं वाक्यार्थे उपपादनस्य तत्फलहेतुभूतप्रत्यभिज्ञाकर्मकस्य तत्रैव विश्रान्तेः ।
कर्मवाक्यार्थमतेऽपि कर्मार्थत्वात् क्रियाया अभिधेये प्रत्यभिज्ञालक्षणेऽर्थे यद्यपि शब्दात् झटिति प्राधान्यं प्रतीयते, तथापि तस्य सम्पद्धेतुतया विशेषणात् सम्पदेव प्रधानत्वेन भाति । एवं क्रियावाक्यार्थवादेऽपि । सा हि कर्मार्था, फलार्थं च तत् । अभिधेयं तु उपदिश्यते । प्राप्येऽपि फले उपायस्य दुष्टता मा शङ्कीति । तथाच वक्ष्यत्येव अवतारता इत्यादि । शास्त्रकारः इति, परप्रतिपादनोपायरूपं मोहापसारणफलं स्वसंवित्सिद्धे स्वप्रकाशेऽपि प्रमातृतत्त्वे महेश्वरे
स्मार्यते स परं परो दृष्टसाधर्म्यात् ।
इति न्यायेन व्यवहारसाधनं प्रमाणं शास्त्ररूपं य उपदिशति ।
अयमाशयः-न इह कलहपूर्वक एव प्रस्तावपूर्वक एव वा कीनाशदान- दिशा महतां परव्युत्पादनोपदेशः, अपितु
——बलात्तत्त्वे नियोजयेत् ।
इति कारुणिकत्वेन । तत्र च श्रोतैव तावदुपलाल्यापि प्रवर्तनीयः इति एवंविततविततपरार्थानुमानस्वभावे शास्त्रे मूलभूमौ प्रवर्तकं प्रयोजनमभिधातव्यम् । तत एव संशयदिषोडशपदार्थदृष्ट्या निरूप्यमाणो न्यायः परं सम्यक् व्युत्पादयतीति अक्षपादमुनिनिरूपिता- मेव दृष्टिमनुज्झन् सम्यग्व्युत्पादकः शास्त्रकारः इति उच्यते ।
सौगतप्रभृतयस्तु तत्कारिणश्च तद्द्वेषिण इति । एतच्च मया कथामुखतिलके वितत्य निरूपितम्, अन्वेष्यं तत् एव । अपूर्वां प्रणामभङ्गीं पश्यन् कश्चित् व्यामुह्येदित्या-
(पगे २१)
शयेन टीकाकारस्तत्समर्थानां करोति जयनमस्कारादि इति । आदिपदेन वन्दनप्रध्यानप्रभृति गृह्यते । इह द्वयनिष्टं यत् रूपं, तत् अन्यतरमुखेन प्रतिपाद्यमानमुभयविश्रान्तौ पर्यवसाययितयम् । घटो भासते, घटः पश्यतीति हि घटं निर्भासमानं निर्भासयतीति अर्थप्रतिपत्तिः । उभयनिष्ठं च प्रह्वत्वमत्र अस्येति । उत्कर्षश्च अतोऽस्येति । तत् जयति-जयसि-जयेतिशब्दप्रयोगे परमेश्वरोत्कर्षमुखेन प्रवृत्तेऽपि स्वात्मन्यग्भावनात्मकं प्रह्वत्वमालम्बनीयमपरथा उत्कर्षस्य अनिर्वाहात् । एवं नमो-नमामि-वन्दे-इत्यादिप्रयोगे स्वात्मन्यग्भावनपरामर्शमुखेन प्रवृत्तेऽपि ईश्वरोत्कर्षविश्रान्तिराश्र- यणीया । तदिदमुभयमेकमेव वस्तु द्व्यंशमपि सदिह श्लोके आ समन्तात् वेदितं शब्देन सम्मुखीकर्तव्यसमस्तश्रोतृजनस्फुटपरामर्शयोग्यं कृतम् । अर्थाक्षिप्तं हि सर्वस्य न गोचरः । अत्यन्तदुर्लभं दास्यम् इति कथञ्चित् इत्यनेन उक्तमिति सुतरामात्मविषये न्यग्भावनमुक्तमुक्तम् ।
महाफलं तद्दास्यम् इति ईश्वरस्य उत्कर्षः दासत्वादेव स्वामिनि ईश्वरे लब्धे पुनरीश्वरपदं माहेश्वर्यपर्यवसितमेव । महाफलपदेन टीकाकारः समस्तसम्पत्समवाप्तिहेतुम् इति पदं प्रत्यभिज्ञाविशेषणमपि दास्यविशेषणमिति दर्शयति । वृत्तौ च सूचितोऽयमर्थो दास्यलक्ष्मीः इत्यनेन । दास्यप्रभवा लक्ष्म्यः समस्ताः सम्पदः परमेश्वरप्रसादात् लब्धा येनेति । अन्यथा लक्ष्मीशब्दोपादानमसङ्गतं स्यात् बह्वर्थविषयताप्रकटीकरणं च ।
वाचापि वा इति अपिशब्दात् कायेनापीति मन्तव्यम् । तहाहि प्रह्वता च उत्कर्षणं च तथा प्रकाशपरामर्शनरूपं मानसे संवेदने तत्साररूपे च वाक्तत्त्वे विश्रान्तम्, नतु जडे शरीरे । तेन मनोवागात्मकं यदविभक्तं संविच्छक्तेः, तदेव अर्पयता भक्तेन
(पगे २२)
विश्वमर्पितं भगवति भवतीति । तदागमे
——स्वात्मानं च निवेदयेत् ।
इति कथितम् । निवेदयेदिति अर्पयेत् निश्चयेन विद्यामयं च कुर्यादित्यर्थः । ततस्तु तन्नान्तरीयकत्वादेव शरीरधनदारा दीनामपि तत्र अर्पणं जायते इति पूजनहवनशिरोविनमनाष्टाङ्गप्रणिपातनादि तदनुमानहेतुतया उपचारात्प्रणाम इति व्यवह्रियते, न मुख्यतया । सत्यम् इति कामं विघ्नशमनमियतैव सम्पद्यते, अधिकं तु प्रयोजनमादौ पठितस्य तत्प्रह्वतानिबन्धनस्य श्लोकवाक्यैकदेशस्येति । अद्यापि इति अविच्छिन्नतया पुस्तकनिवेशद्वारेण अशेषहृदयसङ्क्रान्तेः । तत्रैव हि आवेदितत्वस्य उपयोगः, नात्मनीति भावः । व्याख्यातृपदमभ्यर्हितमिति पूर्वम् ।
प्रत्यभिज्ञोपपादने हि अनुमीयते ईश्वरसाम्मुख्यम् ।
ईश्वरसाम्मुख्यपूर्वकम् इति । ननु व्याख्यातरि प्रत्येकमेतदर्थानुप्र- वेशादुचितमेतत्, श्रोतॄणामिति तु कथम् । नहि श्रोताप्रत्यभिज्ञामुपपादयति, नच दास्यमिति अन्तः पृथक् परामर्शो युक्तो वाक्यार्थपरामर्शैक्यात् ।
श्रोतापि प्रथमत एतद्वाक्यं पठन्नेव एवमन्तः परामृशति-अहमधुना एवंविधलोकोत्तररहस्योपदेशभाजनत्वप्राप्त्यनुमितादेव परमेश्वरप्रसादात् महेश्वरदास्यप्रापणापूर्विका प्रत्यभिज्ञा या अमुना व्याख्यात्रा उपपाद्यते, तत्र अध्येषणतत्समर्थाचरणरूपं प्रयोजकव्यापारं करोमि, येन अहमपि आचार्यपदप्राप्तियोग्यतया परमेश्वरदास्यं तान् जनानपि प्रापय्य जनोपकारमिच्छन् इति । तथाच रहस्यप्रणवादिमन्त्रबीजार्थमविद्वानपि तदनुचिन्तनात् तत्फलमासादयति ।
एवं शिष्योऽपि । अध्यवसाययोगाभावाद्धि बुद्धिलक्षणं प्रमातारमनारुढोऽपि अयमर्थो वास्तवे प्रमातरि विस्राम्यति तस्य प्रमातुरस्य
(पगे २३)
च परामर्शस्य वस्तुत एकरूपत्वात् । सजातीयहठानुधावनं हि लोष्टजलादिषु जडेषु महाभूतेष्वपि दृष्टम् । तथाच ज्ञानमसङ्कुचितनिर्विकल्पकसंविद्रूपं पौरुषं शास्त्रव्यतिरिक्तदीक्षाद्युपायकमपि, तदपरमध्यवसायपदप्राप्तं तु सङ्कुचितसंविद्रूपं बौद्धं यदर्थं शास्त्रादि उच्यते । अज्ञानमपि सङ्कुचिताविकल्पसंवेदनरूपं पुरुषनिष्ठं, सङ्कोचाध्यवसायभूम्यारूढं तु बुद्धिनिष्ठमिति द्विधा मन्यन्ते आगमिकाः-इति श्रीमन्मतङ्गादिशास्त्रमत्र अर्थे पर्येष्यम् ।
तदबुद्धिपूर्वकमपि शिष्याणामेतत्परामर्शमयसंवेदनमयता जायते स्वापमदयोः कर्तव्यपरामर्शमयसंवेदनवत् । आसाद्य इति प्रत्यभिज्ञामुपपादयामि इति च द्वौ णिचौ । वृत्तावपि एकाकिसम्पदा इति वचनेन परस्यापि तदेव परमेश्वरप्रसादैकहेतुकतद्दास्यसम्पत्- सञ्चारणं सूचितमिति आसाद्य इति णिज्द्वयार्थो व्याख्यातः ।
प्रत्यभिज्ञापयामीति च णिज्द्वय्ं वृत्तौ, यावदेव च रहस्योपदेशयोग्यत्वावाप्त्यनुमेयो माहेश्वरप्रसादः, तावत् आत्मपरो- पकारकरणसमर्थोऽहं जात एवेति । वृष्टश्चेद्देवः, सम्पन्नाः शालयः इति वदयमुचित एव शिष्यस्य परामर्शः । वस्तुतश्च एकात्मकत्वात् तत्प्रकाशनाविच्छेदस्यैवच मोहापसारणेन सम्पाद्यत्वात् ग्रन्थकारस्य तु अयमेव उद्यमः-मत्परामर्शमयाः प्रत्येकं सर्वे सम्पद्यन्ताम् ।
शास्त्रकारवदेव च व्याख्यातॄणामपि शिष्यान् प्रति स तथैव युक्तः ।
मत्समत्वं गतो जन्तुर्मुक्त——।
इति हि महाव्याप्तिभावनेऽयमेव तात्पर्यार्थः । एवं सूत्रवृत्तिपाठपरामर्श एव श्रोतॄणामपि परमेश्वरसम्मुखीभावं ददात्येव । किञ्च व्याख्यात्रापि पठ्यमाने सूत्रवृत्तिग्रन्थे दुर्लभेश्वरदास्या सादनाद्वारेण जनस्य अयमुपकारमिच्छन् तत्प्रत्यभिज्ञामुपपाद-
(पगे २४)
यतीत्येवम्भूतमर्थं प्रतिबिम्बकल्पं बिम्बस्थानीयादुत्तमपुरुषार्थात् प्रतिसङ्क्रमणवशादायातं प्रतिपाद्य अधिकारिरूपतासंवेदनात् जनो जायमानो यः कश्चित्, स इह उपकार्य इति । एवंरूपात् स्वात्मनि अभ्युदितात् सदा अहं जन उपकार्यः, तद्दुर्लभेस्वरदास्यासादनौपयिकामनेन उपपाद्यमानामुपपत्त्या स्थाप्यमानां प्रत्यभिज्ञामुपपादयामि अहमपि उपपत्त्या हृदये स्थापयामि तामुपपत्तिमवधारयमाणः इति इयत्प्रतिपत्तिपर्यन्ता प्रतिपत्तिः । अत्र तावत् कौशलात् सङ्क्रमणेऽपि परामर्शसाम्यं दर्शितम्, अन्यत्रापि तु एवम् । यत एष एव अधिकार्यनधिकारिणोर्विशेषः । तथाहि त्वां गच्छेत्युपदिशामीति श्रुतेर्यथार्थमवबुद्ध्य मामयं गच्छेति उपदिशतीति द्वितीयं प्रतिसङ्क्रमेण सोपानमारुह्य तत् गच्छामीति तृतीयं पदमासाद्य वाक्यार्थज्ञो भवति । अनधिकारी तु प्रथमसोपान एव विश्राम्यति । एवमयं विवक्षति, एनं प्रेरयतीत्यपि भवत्सोपानान्तरं न वक्तुरभिसंहितं कर्त्वव्यत्वे तु न विश्राम्यतीत्यलमवान्तरेण । सर्वथा श्रोतृपदमुपन्नार्थमेव । आदिग्रहणात् श्रवण इति मन्तव्यम् ।
एवमपूर्वां प्रणामभङ्गीं समर्थ्य तद्वाक्यपाठं च सप्रयोजनीकृत्य कथञ्चित् इति सौत्रं विवरीतुं या वृत्तिः परमेश्वरप्रसादादेव इति, तां व्याख्यातुमाह यच्चेदम् इति । चकारः प्रमेयान्तरं व्याख्येयं समुच्चिनोति । भक्त्या इति तत्स्वरूपसमावेशबलात् हि तस्मिन् परमार्थतः स्वस्वरूपे भगवति प्रकाशमाने भ्रान्तापारमार्थिकाभिमानतुच्छतावेदनोदयात् तत्रैव सत्ये पूर्णानन्दरूपे सततसमावेशप्राबल्यं विद्यालक्षणं भक्तिः, तया ।
अनन्तफलार्थित्वेन मोक्षलक्षणो य आस्वादः परिपूर्णो विश्वरूपतामयो दृक्क्रियात्मा
(पगे २५)
विमर्शः, स एव प्रकृतो यत्र । तेन काणादोक्तो जाड्यात्मा न मोक्ष इत्याह मोक्षस्य च य आस्वादः, एवम्भूतोऽसावित्यंशेन विमर्शः । भक्त्या हि तत्परमेश्वरविषयवैवश्यसमावेशरूपया यः स्वात्मप्रकाशः, स एव अनाशङ्क्यमानपुनर्व्युत्थानतया मोक्षः । धर्मस्य इति प्रणयापरनाम्न इति यावत् । मायान्तरं मायामध्यं चारयति भ्रमयति, मायान्तरे च चरति । मायातत्त्वं हि धर्मादीनामायतनम्, बुद्धितत्त्वं तु विभवस्थानमिति निर्णेष्यते । अत्र हेतुः नियतिशक्त्योत्थापितम् । अश्वमेधात् कृतात् योऽधिवासः सङ्कुचिते संवित्तत्त्वे, स तस्मिन् सङ्कोचभागे मायात्मनि निविष्ट इति युक्तम्, न संविद्भागे सङ्कोचापगमे तत्र तदभावात् । स एव च बुद्धावध्यवसाययोग्यतया विकस्वरस्वरूपः फलायेति । तस्य धर्मस्य मायाबुद्धिगतस्य नियतितत्त्वं नियामिका पारमेश्वरी शक्तिः श्रूत्यादिशास्त्रप्रसरमयी निमित्तम् । एतदुक्तं भवति मोक्षास्वादसविधस्य परमेश्वरभक्तिवैवश्यसमावेशस्य मायोत्तीर्णत्वं व्यापकं, तद्विरुद्धं च मायान्तर्वर्तित्वम् । तस्य कारणं धर्मः कथं स्वकार्यविरुद्धव्याप्तं प्रह्वं प्रति हेतुतां गच्छेत् । तदयं प्रयोगः-न भक्तिवैवश्यं धर्मफलं मोक्षास्वादमयत्वोपलम्भादिति धर्मफलत्वव्यापकमायान्तर्वर्तित्वविरुद्धमायोत्तीर्णताव्याप्तस्य मोक्षास्वादमयत्वस्य उपलब्धिः स्वव्यापकविरुद्धव्याप्तस्य धर्मफलत्वस्य निषेधं करोति । विशृङ्खलः स्वनियतिकल्पितधर्माद्यन- पेक्षो य ईश्वरस्य प्रसादो मायापटप्रच्छन्नतात्मकस्वस्वातन्त्र्योप- कल्पितकालुष्यापसारणेन स्वस्वभावप्रकटनात्मकनैर्मल्यमयो योऽहमेतत्प्रमातृरूपतया प्रच्छन्नः स्वस्वरूपेणैव प्रकाशे विमृशामि चेत्येवंरूपः, तद्योग्यतात्मना प्रकारविशेषेण, न अन्येन लौकिकेन प्रकारेण, भवनमस्य सम्भाव्यम् । सर्वथा नैर्मल्यात्मा प्रसादो भगवद्रूपता,
(पगे २६)
तादात्म्यं मोक्ष एव । न तत्र मायासंस्कारः, इह तु सोऽपि तदिच्छयैव लोकानुग्रहकृत्यनिर्वाहणकारिण्या अस्तीति । पात्रतारूपेण इति लोकाप्रसिद्धप्रकारविशेषणमुपात्तम् । मायीयो हि कार्यकारणभावः स्वप्नगतकुलालघटन्यायेन स्वातन्त्र्यसारतथाभासनरूपसंविन्निष्ठ- पारमार्थिककर्तृत्वात्मककार्यकारणभावभित्तिविश्रान्तो मायामये लोके हृदयङ्गमत्वात्प्रसिद्धः । सतु यत्र नोपपद्यते, तत्र स पारमार्थिकः एवेति यत् व्याख्यातं, तत्तद्वस्तु ब्रूते अनेन खण्डनेन वृत्तिकारः इति सर्वत्र विवृतिकारस्य शैली । धर्माध्र्मादिफलेऽपि वस्तुनि अस्ति धर्माद्यधिष्ठातृबुद्धिमदधिष्ठाननान्तरीयकपरमेश्वरप्रसादो- पयोग इत्याशङ्क्य एवकारो वृत्तौ, व्याख्यातश्च विशृङ्खलशब्देन । केनचित् प्रकारेण इत्यस्य कथं पञ्चम्या व्याख्यानमित्याशङ्क्य त्रिधा समर्थयते । प्रकारत्वविशिष्टार्थाभिधायिभ्यः किमादिभ्यः स्वार्थे थमुप्रत्ययो विधीयते-कः प्रकारः कथम् । तस्य तु बाह्यसम्बन्ध्यपे- क्षया उचितविभक्त्यर्थः कल्प्यते । इह च हेतुरूपताप्रस्तावात् पञ्चम्यर्थ एव उचितः, नतु तृतीयार्थः, नियमेन अनुप्रविष्टोऽत्रेति एकः प्रकारः । अथ यथा भाववचनानामित्यत्र भावकर्तृकाणामित्ययमर्थो वचनाशब्दे कर्तृसाधने प्रकृत्यर्थांशस्य उपायमात्रस्य अविवक्षणात्, एवं प्रकारवचन इत्यत्र वचनशब्दे करणसाधने करणरूपतापन्न- प्रकारार्थविशिष्टायाः प्रकृतेस्थमुः । तथाच तृतीयान्ते नैव प्रसिद्धो विग्रहः । एवमपि हेतुरेव सूत्रे कारणत्वेन विवक्षित इति प्रतिपादयितुं वृत्तौ हेतुताम् असन्दिग्धामभिधातुं पञ्चमी प्रयुक्तेति द्वितीया व्याख्या ।
अनयोर्द्वयोरपि व्याख्ययोर्हेतुविशेष एव हेतुप्रकार उक्तः । अथापि एवं स्यात्- प्रकार इति प्रकृष्टः कारः, प्रकृटा क्रिया, विशिष्टः क्रियाभेद उच्यते ।
(पगे २७)
अतश्च एवं येन द्रव्यगुणादिभेदमात्रेण थमुः प्रयुज्यते शब्दः इति किं गुणो द्रव्यं कर्म वा इत्यत्र अर्थे कथंशब्दः इति प्रयोगाभावात् तदा हेतुप्रकारः कथंशब्देन नोच्यते, अपितु क्रियाप्रकार एव । क्रिया च इह आसादनक्रिया, तस्याः प्रकारो हेतुभेदकृत एव । परमेश्वरदास्यासादनं हि अन्यदेव आर्तिजिज्ञासाफलौत्सुक्यादिनिमित्तम्, अयं तु अन्य एव आसादनभेद इति कथञ्चिदितिशब्दः आसाद्यशब्देन सह मिलितो व्याख्यातव्यः ।
महेश्वरप्रसादहेतुकासादनभेदोऽयं पूर्वभावी वृत्तौ व्याख्यातो लब्धशब्देन क्तान्तेन पौर्वकालिकत्वस्य व्याख्यानात् समासेन च कर्तृशरीरानुप्रवेशकारिणा कर्तृद्वारेण वाक्यार्थानुप्राणकत्वात् ।
स्फुटीकरणं समानकर्तृकत्वस्य धात्वर्थसम्बन्धस्य च आसादनभेदेन आसाद्य इति सामान्यविशेषभावेन क्रियाकरणभाव उपलक्ष्योपलक्षणभावो वा । तस्यैव इति एवकारेण अन्यानपेक्षा उक्ता । यया इत्यादिना फलनिरूपणद्वारेण फलाभिसन्धानाभाव उक्तः । तद्भावं तदास्वादलाभेन तदावेशवैवश्यं गतं मानसमेषामिति भक्तेः स्वरूपमुक्तम् । अलब्धतदास्वादस्यापितु तत्र प्राप्तिग्रहः श्रद्धेति । तदाहुः
श्रद्धाफलं भक्तिरुक्ता तद्विना नासितुं घटः ।
इति । अथ जनस्याप्युपकारमिच्छन् इति सूत्रांशे वृत्तिम् अहमेकाकिसम्पदा लज्जमानः इतीमां व्याख्यातुमुपक्रमते सज्जनेन च इति । चः प्रमेयान्तरसमुच्चयं कुर्वन् पूर्ववत् व्याख्येयान्तरोपक्रमद्योतकः ।
ईश्वरदास्यासादनादेव पूर्णतात्मकः सज्जनभावः । अपूर्ण एव हि स्वात्मानं सर्वतः पूरयिष्यामीति परमपकरोति, नोपकरोति वा, ततो दुर्जनः । अत एव भाव्यम् इति अवाश्यके ण्यत् ।
(पगे २८)
आत्मम्भरिणा तेन अवश्यं न भूयते इति अहमिति पूर्णत्वावष्टम्भ- परामर्शः । नौ लब्धदुर्लभतद्दास्योऽहमेकाकिभत्त्येति वक्तव्यम्, किं लक्ष्मीसम्पच्छब्दाभ्याम् । समस्तेति सौत्रस्य प्रत्यभिज्ञाविशेषणस्य दास्यविशेषणतापिशुनसूचनम्, न प्रयासान्तरेणेत्याशङ्क्य आह सम्पत् इति । ऐश्वर्यमयी महेश्वरसमावेशरूपा या प्रकृष्टा भक्तिः फलाङ्गिभावभागिभवानीवल्लभभक्त्यन्तरविलक्षणा विवक्षिता, सा लक्ष्मीशब्देन सम्पत्पदेन च समस्तेत्यस्य दास्यविशेषणतासूचनेन निर्दिष्टा । सम्पत्पदं व्याख्येयप्रत्यासत्तेः पूर्वमुपात्तम्, तत्प्रसङ्गात् तु चरमं लक्ष्मीशब्दः । ननु प्रकृष्टा भक्तिः फलाभिसन्न्धिवन्ध्या कथं समस्तेतिविशेषणं विरुद्धं सहते इत्याशङ्क्य आह यतः इति ।
समस्तत्वमनवच्छिन्नत्वं सम्पदाम् । तच्च परमेश्वरावेशवशादेवेति न अत्र विरोधः । यत एवम्भूता परमेश्वरापत्तिरूपा भक्तिः प्रकृष्टा, तत एव बह्वर्थवृत्तिर्लक्ष्मीशब्दः इति दूरेण सम्बन्धः । मध्ये तु अत्र संवादको ग्रन्थः, तद्योजनं च गीतम् इति गुरुणा अर्जुनं प्रति
चतुर्विधा भजन्ते मां जनाः सुकृतिनः सदा ।
आर्तो जिज्ञासुरर्थार्थीं ज्ञानी च———॥ (भ। गी। ३ । १६)
इति । दुःखनिराकरणकारणतानिश्चयेन वा सुखसम्पत्तिहेतुतानिश्चयेन वा तदुभयविषयार्थसंशयेन वा जिज्ञासाशब्दवाच्येन तत्त्वज्ञाननान्तरीयकतया वा परमेश्वरविषयः प्रह्वीभावो जायते ।
तदाह मामिति-अविच्छेदेन प्रकाशमानं परमात्मानं सोपाधिं पूर्वे, चरमे निरुपाधिं, भजन्ते सेवन्ते उत्कर्षयन्ति । तेन भक्ताश्चतुर्विधाः । तेषां मध्येऽन्त्यो नित्ययुक्तो नित्यं
मय्यावेश्य मनो ये मां——। (भ। गी। १२ । २)
(पगे २९)
इत्युक्तेन समावेशयोगेन युक्तः, नित्यं च भक्त्या युक्तः, नतु आद्यत्रितयवत् फलप्राप्तौ विवर्तमानभक्तिः । तथा एकत्र परमेश्वर एव भक्तिर्यस्य, नतु प्राधान्येन फले, स विशिष्ट इति प्रकृष्टतां निरूप्य परमेश्वरावेशरूपतया समस्तसम्पन्निमित्तभावं संवादयति
—-ज्ञानी त्वात्मैव मे—। (भ। गी। ७ । १८)
इति । मम प्रत्यभिज्ञातपरमेश्वरात्मनो ज्ञानी आत्मा स्वभावः परमेश्वर इत्ययमर्थो भङ्ग्या उक्तः, नतु ज्ञानिनोऽहमात्मेति । एतदेव स्फुटयति ज्ञानी हि भक्तः इति । ज्ञानित्वमेव नाम भक्तिरिति यावत् ।
ईश्वरोचिता ईश्वरतादात्म्यनान्तरीयिकाः । बह्वर्थस्य वृत्तिर्यस्य; नच अनभिधानं कबभावादेव बहुत्वावगतेः । लक्ष्मीशब्दान्तात् हि नद्यृतश्च (५ । ४ । १५३) इति नित्ये कपि सिद्धे उरःप्रभृतिषु समानत्वात् नौर्लक्ष्मीरिति एकवचनान्तानां पाठस्तत्रैव नित्यः कप् यथा स्यात्, द्विबहुवचनान्तत्वे तु विभाषेति । इयता महेश्वरदास्यं महेश्वरप्रत्यभिज्ञानप्राणितं भक्तत्वमात्मनो जातमिति प्रत्यभिज्ञागतमपि समस्तेत्यादिविशेषणं कथञ्चिदिति विनिवेदिते ज्ञानिताद्वारायिते दास्ये बलादेव सङ्क्रान्तमित्युकतम् । ईदृशेन य एककिसम्पदा लज्जते, तत एव आर्द्राशयः सरसविमलहृदयः, अत एव विश्वरूपपरमेश्वरसमावेशोचितहृदयस्तेन । शेषः प्रत्यभिज्ञातस्वस्वभावं परमेश्वरतादात्म्यापन्नं जनं मुक्त्वा यः कश्चिदन्यो भूतभविष्यद्वर्तमानप्रमातृप्रबन्धरूपो जनः, तस्य निज उचितो यः प्रभुः प्रत्यभिज्ञापयितुश्च निजस्तद्विषयः
भूउतोऽनुसन्धेरुधार्यो ज्ञानिना तु मृतोद्धृतौ ।
इत्यागमः, तस्य प्रभोरसौ सम्बन्धः प्रत्यभिज्ञातृप्रत्यभिज्ञेयता- लक्षणो महाफलः समस्तसम्पदवाप्तिहेतुः, तस्येति वा प्रत्यभिज्ञा-
(पगे ३०)
पयितुरर्द्राशयस्य ईश्वरसमावेशात् सर्वशक्तेर्जनैर्यः सम्बन्धः प्रत्यभिज्ञापयितृप्रत्यभिज्ञाप्यलक्षणः । एतत् तु व्याख्यानद्वयमपि टीकावाक्यस्य अस्थानपुनरुक्ततावहम् । तस्यापि परमाथ इति वृत्तिखण्डव्याख्याने हि इदमुचितम् वक्ष्यते च ईश्वरप्रत्यभिज्ञापि जनस्य उत्तमफला इति । तस्मादार्द्राशयगतत्वेनैव व्याख्येयम् । तस्य आर्द्राशयस्य सर्वशक्तेरीश्वरस्य च य असाविति प्रभुदासलक्षणः सम्बन्धः, स महाफलो विततफलः स्वात्मोपकार इव परोपकारेऽपि पर्यवस्यत्येव । तेन समस्तस्य सम्पद इत्यपि सूत्रार्थे वृत्तौ च एकाकिशब्देन सूचितमेतत् । यथा च प्रसिद्धः सुजनोऽपेक्षावशेन परमस्य ईश्वरस्य अस्मि दासः एकाकी न सम्पदो भुञ्जे, अपितु जनमपि प्रत्यभिज्ञापयामि, येन अस्यापि लाभेन तुष्येयमिति परामृशति; तथा कथञ्चिदिति आत्माशयवशात् महत ईश्वरस्य दास्यमित्यादि उपपादयामीत्यन्तं विमृशति । तथाहं विमृशामि सुजनस्वभावत्वादिति व्याप्तिघटनापि सूत्रवृत्तिभ्यां कृतेति वुवृणोति यो हि इति । यो यः सुजनो लब्धेश्वरगाढपरिचयो दीयतेऽस्मै सर्वमिति दासशब्दवाच्यः, स एवं विमृशति । सुजनश्च ग्रन्थकृदिति स्वभावहेतुः ।
अनेवंविमर्शकत्वे हि सौजन्यविरुद्धं दौर्जन्यमिति स्वभावविरुद्धोप- लम्भात् सौजन्यं हेतुर्विपक्षादनेवंविमर्शकत्वात् व्यावृत्तमेवं- विमर्शकत्वेन साध्येन व्याप्यते इति व्याप्तिसिद्धिः । परिचयपदेन प्रक्रिया- विरहितो दासभावो दृष्टान्ते व्याख्यातः । प्रसिद्धस्य अत एव प्रत्यभिज्ञापनायां कर्तृकर्मणः, नतु मुख्यकर्मणः । ईश्वरम् इति प्रसिद्धमपि मायावरणादप्रसिद्धमिति भावः । तं प्रति इति अन्यं जनम् ।
ननु दृष्टान्ते ईश्वरः कर्तृकर्म, प्रकृते तु मुख्यकर्मेति शब्दसाम्यमात्रं साध्यस्य, ततश्च यथा गोमानयं देशो
(पगे ३१)
व्यवहर्तव्यस्तेजोयोगादिति दृष्टान्ते गोमत्त्वव्यवहारेण व्याप्तौ साध्यधर्मिणि माहेयीमत्त्वव्यवहारो न सिध्यति, तथा प्रकृतेऽपि इत्याशङ्क्य आह उभयोऽर्थः इति । न अत्र वैषम्यं किञ्चित् ।
प्रत्यभिज्ञापनं द्विकर्मकमुपकारकं सत् सम्पाद्यत्वेन सुजनो विमृशतीति हि व्याप्तिः । ततः पक्षधर्मताबलात् विशेषः, येन असौ हेतुसाध्ययोः कञ्चित् दोषमाधत्ते । अत एकोऽयमर्थो द्विधा विशद्यते इति उभयोऽर्थः इति उक्तम् । जनस्य प्रयोज्यकर्मता प्रकृते-स्वामिनं प्रत्यभिजानीहीति, स्वामिनश्च प्रयोज्यकर्मता दृष्टान्ते-उचितमिमं कृत्येषु स्वं प्रत्यभिजानातु स्वामी इति पर्यायेण प्रयोज्यकर्मता । सञ्ज्ञापनवत् प्रत्यभिपूर्वो जानातिर्न बुद्ध्यर्थः इत्याशङ्कात आह बुद्ध्यर्थत्वात् इति ।
ज्ञातस्यापि मोहवशादज्ञातस्य इव आभिमुख्येन हृदयङ्गमीभावेन ज्ञानं प्रत्यभिज्ञानम् । ननु व्याप्तिविषयोपदर्शनं सूत्रे न दृश्यते, तत्कथं वृत्तावित्याशङ्क्य आह तेन तस्य च इति । एतदर्थद्वयविषये सम्बन्धसामन्यविवक्षया या शेषषष्ठी तया सह यः समासः, तत्र योऽर्थद्वयस्य श्लेष एकशब्दवाच्यतात्मा सम्बन्धः; ततो हेतोः सूत्रेऽपि उपात्तः उभयोऽयमर्थ इति पूर्वेण सम्बन्धः । ननु प्रत्यभिज्ञापनं यत् वृत्तावुक्तं यत्र पर्यायेण मुख्यामुख्यकर्मयोगः, तत् सूत्रे नोपात्तम्; तत्र हि उपपादनमुक्तं प्रत्यभिज्ञाकर्मकमित्याह प्रयोजक इति । अनेन सूत्रे उपात्तमिति सम्बन्धः । ननु सूत्रे उपपदिः, नतु प्रत्यभिजानातिः; तत् कथमैकार्थ्यमित्याशङ्क्य आह प्रत्यभिज्ञोपाय इति । प्रत्यभिज्ञापनं हि प्रयोजकव्यापारः, नतु प्रत्यभिजानीष्वेति प्रैषाध्येषणरूपोऽसाविह, अपितु तत्समर्थाचरणलक्षणः । प्रत्यभिज्ञायां च यत्तत्समर्थाचरणं, तदुपपत्त्या तत्सम्भवनिरूपणं, न अन्यत् । अतः प्रत्यभिज्ञामुपपत्त्या
(पगे ३२)
निरूपयामि, तद्विषयान् उपायान् प्रदर्शयामि, सम्भवन्तीं तां सम्भावयामि, प्रत्यभिज्ञामुपपादयामि, प्रत्यभिज्ञापयामीति एक एव अर्थः । तथा च वक्ष्यमाणोपायेन इति वृत्तिः उपपादयामि इत्यस्य व्याख्या, यत उपपादयामीत्यस्य तद्विषयानुपायान् प्रदर्शयामीति ।
वक्ष्यमाणव्याख्यान्तरसूचनं च इदं समस्तसम्पदित्यस्य । तथाहि प्रतीपं ज्ञातस्यापि विस्मृतस्येव छादितस्येव पुनराभिमुख्येन, नतु स्मर्यमाणतया, अपितु स्फुटत्वेन ज्ञानं प्रत्यभिज्ञानं स एवायमिति भातभासमानानुसन्धाने स्थिरस्य अधुनातनकालव्यापिनोऽपि ज्ञातत्वमेव । अयमसावद्य मया प्रत्यभिञात इत्यत्रापितु कुतश्चित् सामान्याकारेण ज्ञानमभूदेव । एवमात्मनि सततं भात्यपि मोहादावृते इव पुनराभिमुख्येन ज्ञानम् । तत्र च उपायः-समस्तस्य नीलसुखादेः सम्पत् सिद्धिः, तस्याः सम्यगवाप्तिरचलविमर्शोपारोहः ।
अतोऽयमर्थः-समस्तसम्पदवाप्तिर्हेतुरुपायो यस्यां प्रत्यभिज्ञायां, तादृशीं तदुपायिकामुपपादये । उपपादनं च प्रत्यभिज्ञायां, विश्रान्तमिति तत् प्रयुज्यमानं तां स्वविशिष्टां प्रयुक्तां फलतः करोति- इति न सूत्रार्थवृत्त्यर्थवैषम्यं किञ्चित् । शक्तिर्दृक्क्रियात्मा, तदेव लक्षणरूपमभिज्ञानम् । यत् यत् ज्ञानक्रियास्वतन्त्रं, तदीश्वरः पुराणागमसिद्ध इव । प्रमातृतत्त्वं च एवम्, एतावन्मात्रलक्षणं च ऐश्वर्यम् । पुराणादिसिद्धेऽपि ईश्वरेऽनङ्गीक्रियमाणे गृहग्राममण्डले- श्वरप्रसिद्धौ तद्विषयाप्रतिहतज्ञानकरणे एव ऐश्वर्यस्य लक्षणम् । ते च प्रमातृतत्त्वे सर्वविषये अप्रतिहते एवेति । अपिशब्दो भिन्नक्रमः । न केवलं मम महाफला, यावत् जनस्यापि । इयता समस्त इत्यस्य उभयविशेषणत्वं स्फुटीकृतम् । नतु समस्ताः सम्पदः
(पगे ३३)
फलत्वेन सूत्रिताः, वृत्तौ तु परमार्थलाभमात्रं फलं विवृतमिति किमेतत् । अत्र आह यत्र इति । समस्तसम्पद्योगेन पूर्णता लक्ष्यते । राज्यभोगस्वर्ग- भुवनभोगप्राप्तावपि उत्तरोत्तराशंसनीयसम्भवे कः पूर्णतावकाशः । परमे तु अर्थनीये यतः परमर्थनीयान्तरं नास्ति, तस्मिन् परमेश्वरभावे समासादिते किमाशंसनीयं परं स्यादिति तात्पर्यम् । एतावता च इति सूत्रवृत्तिग्रन्थेन । ननु लोकगतः पुरुषार्थलाभः शास्त्रकृतः कथं प्रयोजनम् । आह प्रवृत्तिहेतुतया इति । नहि प्रयोजनस्य शृङ्गमस्ति-यदेव हि प्रवर्तकं, तदेव प्रयोजनम् । यमर्थमधिकृत्य (न्या। सू। १ । १ । २४) इति वदन्ति ऽइष्टलक्षणत्वात्ऽ इति च । लोकफलसिद्धौ शास्त्रकृतः किमिति चेत्, स्वगतफल- सिद्धावपि अस्य किम् । तस्यां परितुष्यतीति चेत्, इहापि समानमित्याशयेन आह साश्त्रकृतस्तु इति । ननु परितुष्येयमिति वृत्त्या कः सूत्रांशो व्याख्यातः इत्याशयेन आह अनेन इति । स्वात्मनि निराकाङ्क्षता इति विशेषविषयो निषेधः शेषमभ्युनुजा नातीति इच्छारूपाया आकाङ्क्षाया गत्यन्तरविरहात् पर एव विषयो भवति । नच परापकारविषया असौ युक्ता तस्य अपूर्णस्वात्मकैरेषणीयत्वात्, अस्य तु ईश्वरदास्येन समस्तसम्पत्प्राप्ति- हेतुना परिपूर्णत्वात् स्वात्मनि किञ्चिदपि कर्तव्यमेषणीयं नास्ति । अप्रतिहता च चित्स्वभावत्वादिच्छा । सा परार्थविषयैव बलात् सम्पद्यते ।
स्वसम्पाद्यनियन्त्रितो हि न परमुपचिकीर्षेत्, स्वसम्पाद्याभावे तु बलादेव परोपकारविषया सा भवति । यथोक्तं मयैव श्रीषडर्धश्लोकवार्तिके तन्त्रालोके
स्वं कर्तव्यं किमपि कलयंल्लोक एष प्रयत्ना- न्नो पारार्थ्यं प्रति घटयते काञ्चन स्वात्मवृत्तिम् ।
(पगे ३४)
यस्तु त्यक्ताखिलभवमलः प्राप्तसम्पूर्णबोधः कृत्यं तस्य स्फुटमिदमियल्लोककर्तव्यमात्रम् ॥ (२ । ३९)
इति । तेन आत्मनोऽशेषसम्पन्निधानमहादेवदास्यलाभात् सम्पन्ने उपकारे परस्यापि तमिच्छन्निति अप्रतिहतेच्छाप्रसरत्वादेव परितुष्यामीति प्राप्तकालो युक्तो मेऽत्र आशु परितोषः इति प्राप्तकाले लिङ्ग । तदेतत् उपकारमिच्छन् इत्यस्य व्याख्यानं परितुष्येयम् इति । प्रसरन्त्या हि इच्छाया अनिरोधः परितोषः परोपकारे समर्थः, तद्विषयामिच्छां प्रसरन्तीं स्वार्थसम्पादन- प्राबल्येन वा स्वार्थप्रतिघातपराकरणतात्पर्येण वा अनाशङ्कितप्रसर- निरोधां कथङ्कारं निरुन्ध्यामिति तात्पर्यम् । एवं सूत्रवृत्ती व्याख्याय विवृतिकारस्तदधुना व्यवहर्तृमात्र स्यापि इत्यादिना ग्रन्थेन निर्णयति यदुक्तवान् सूत्रावतारणोपक्रमे श्रोतृजनप्रवृत्तये प्रयोजनं कथयति इति । तथाहि केचित् मन्यन्ते पुरुषवचसां सत्यासत्यत्वावलोकनात् वाक्यावगमितेऽपि प्रयोजने सन्देह उपजायमानोऽर्थः प्रयोजनं संशयरूपत्वात् प्रवर्तकः सम्भावनाप्रत्ययरूपत्वात् वा; यतः शीलसमाचारौ शास्त्रकारस्यावगतौ, तदेतत् न सहते व्यवहर्तृमात्रस्यापि इत्यादिना । इहार्थित्वम् इति तदुपायलाभेऽपि जनस्य कथं प्रवृत्तिर्भवेदिति अर्थितैव मुख्यतया प्रवृत्तिकारणम्, उपायवेदनं तु केवलं प्रवर्तमानस्य विषयमर्पयत् करावलम्बनमाधत्ते । तत्र अभ्यस्ते व्यवहारे व्यवहर्ता सुवर्णरूप्यपरीक्षादौ सुवर्णकारवैकटिकादेरपि वचः प्रामाण्येन अभिमन्यते, किमङ्ग शास्त्रकारस्य । परमेश्वरप्रसादतश्च अस्य परमेश्वरस्वरूपावेशात्मनि प्रयोजने मतिरुन्मनायते; उपायमविद्वांस्तु किं कुरुतामिति कान्दिशीको झटिति आदिवाक्यं शृण्वन्
(पगे ३५)
प्रवर्तत एव निःशङ्कः । तदाह दृष्ट इति अनपह्नवनीयोऽयमर्थः । अत एव अभ्यस्ते विषये स्वत एव प्रामाण्यमभ्युपागमन् । शास्त्रादिनिर्दिष्टात् इति ।
पत्रमात्रमेव हि अवलोकयन् प्रवर्तते, नतु लोकं पृच्छेदुपाध्यायं वा, सशङ्को वा शास्त्रं श्रुत्वा ततः सत्यतां प्रतीयादिति । एतत्प्रयोजनेन योऽर्थी जनो यः कश्चिदिति अधिकारिणोऽत्र नान्यो नियम इति । प्रवर्तताम् इति अर्हति प्रवर्तितुमेतस्य शास्त्रस्य श्रवणे इति । विस्पष्टनमर्थः प्रयोजनं यस्य प्रयोजननिबन्धनस्य, तस्य न आनर्थक्यम् । अत्रैव इति कथञ्चित् इति श्लोके ।
वृत्तिकारो हि प्रत्यभिज्ञां ग्रन्थकार उपपादयतीति ब्रूयात्, नतु उपपादयामीति । ननु वृत्तिकारोऽन्यथापि अनवबोधादिना प्रयोजनं ब्रूयादित्याशङ्कातोऽनाश्वासस्थानम् । तत् यदि विप्रतारकतया वृत्तिकारः शङ्क्यते, इदमपि कस्मात् न आशङ्क्यते-उपपादयतीति वक्तव्ये वृत्तिकृत् वितारणार्थमुपपादयामीति उक्तवानित्याशङ्क्य आह प्रसिद्धेः इति मूलग्रन्थकारसमानकालभाविनो हि साक्षाद्दर्शिनः क्रमेण इमां प्रसिद्धिं प्रसारयन्ति । ननु प्रसिद्धिर्नाम न किञ्चन प्रमाणम् । यदि परं कल्पितः स्वभावहेतुः, नच कल्पनया परमार्थव्यवहाराः सिध्यन्तीत्याशङ्क्य आह यद्वक्ष्यते इति व्याख्यास्यते आगमविचारे वितत्य एतदित्यर्थः । नहि मूलवृत्तिग्रन्थयोरेतद्भविष्यति । नापि तत्रत्यमेतत् टीकावचनम्, अपितु आगमग्रन्थवाक्यम् । तस्य पाठमात्रे इह च अग्रे च तुल्ये वक्ष्यते इति कथम् । अग्रे हि उक्तमेतदित्यपि वक्तव्यं स्यात् । तस्मादेतदर्थः प्रमाणलक्षणावसरे
इदमेतादृक्——। (२ । १६)
इत्यत्र व्याख्यास्यत इत्यर्थः । तत्र हि दृढानुन्मूलनीयविमर्शाधायकं
(पगे ३६)
प्रमाणम् । तथाच प्रसिद्धिः स्वयमेव विमर्शजीविता आगमप्रमाणरुपा इति वक्ष्यते । युक्तिमान् इति न्यायदत्तहस्तावलम्बो यथा ईश्वराद्वयाद्यागमः ।
इतरः इति न्यायाननुगृहीतः । इयन्ति तत्त्वभुवनानीत्यादित आरभ्य तेषाम्- एतैर्मन्त्रैरेतावतीभिराहुतिभिः शुद्धिरपुनर्बन्धकत्वलक्षणा भवति, तत एवं शिवयोजनेत्यादिना आगमः, स एवंरूपो विद्यायामपवर्गरूप- स्वरूपलाभोपाये, अविद्यायां संसारभुवि बोगोपाये युक्तिमान् दानाद्धर्मो हिंसातस्तु अधर्म इति । उपकारापकारचित्तात् हि निर्मलसमलरूपात् तादृक् फलमिति सम्भावनानुमानम् । निर्युक्तिकः
स्नानात् धर्मो दीक्षितस्याधर्मो दानात् ।
इति । अविगानतः इति प्रामाण्ये हेतुः, विरुद्धः गानं तद्विमर्शोन्मूलनेन विमर्शान्तरस्य अभावात् प्रामाण्यम्, तदुदये तु अप्रमाण्यमेव । ननु स आगमः कुत आयातः । आह ऐश्वरी ईश्वरात् आगता सा सत्या वाक् अतश्चैवं येन हि निरुरुत्सितापि न निरोद्धुं शक्या, अत एव हि अविगीता विरुद्धविमर्शानुन्मूलितविमर्शा; तया प्रसिद्धरूपया ऐश्वर्या वाचा ।
यत्र अधिकारिविशेषे, देशे च । यदा इति काले । यत् इति प्रमेयम् । सिद्धं विमर्शभूमिप्राप्तं हृदयकोटरे हठकृतदृढनिरूढिकम् । तत् इति तद्देशतदधिकारितत्कालकप्रमेयरूपम् । अविशङ्कितैः इति अशङ्कितत्वादेव ग्राह्यम् न न ग्राह्यम्
अन्यद्वचसि कण्ठेऽन्यत्——-।
इति न्यायेन आश्रयणीयमित्यर्थः । तेन
रिक्तस्य जन्तोर्जातस्य————।
(पगे ३७)
इति रिक्ता वाचोयुक्तिः । प्रसिद्धिशतपूर्णे जीवलोके कस्यचित् काचिदेव प्रसिद्धिः
लीनेव प्रतिबिम्बितेव लिखितेवान्तर्निखातेव च (मा। मा। ५ । १०)
इति न्यायेन हृदयभित्तौ उत्पाटनशतैरपि हृदयमनुन्मूल्य नापसर्पतीत्याशयेन आह बौद्धस्यापि इति । स हि
तथा विशुद्धे विषयद्वये शास्त्रपरिग्रहम् ।
चिकीर्षोः स हि कालः स्याद्यदा शास्त्रेण बाधनम् ॥
इति आह, तथा तद्विरोधेन चिन्तायास्तत्सिद्धाभीष्टयोगतः ।
तृतीयस्थानसङ्क्रान्तौ न्याप्यः शास्त्रपरिग्रहः ॥
इति । तत्र च सुदूरमपि गत्वा कथमेतत् निश्चेयम्-येनैव प्रत्यक्षानुमानावगमयोग्यमेतत् विषयद्वयमवितथं कथितम्, तेनैव अयं तदविषयस्तृतीयस्थानात्मा विषयो भाषित इति । नहि अत्र सम्भावनानुमानमपि वीतरागसर्वज्ञन्यायेन सम्भति, वितारकोऽपि कोऽपि तन्मध्ये चैत्यवन्दनात् इत्यादि अक्षैप्सीदिति सम्भावनानपगमात् ।
अथ बुद्धेन इदं भाषितमिति स्वयूथ्यपरयूथ्यप्रसिद्धिरनतिशङ्कनीया उच्येत । तदस्मदुक्तसन्मार्गारोहणमेतत्, अलमत्र अस्थानविशङ्कयेति । एवं प्राधान्येन प्रयोजनमुक्तं पार्यन्तिकं समस्तसम्पदिति, तत्सम्पादकं तु उपपादयामीति । तयोश्च साध्यसाधनभावः सम्बन्धः । अभिधेया प्रत्यभिज्ञा । तस्याः शास्त्रस्य च व्युत्पाद्यव्युत्पादकतासम्बन्धः ।
तदुपायत्वात् शास्त्रस्य अभिधानमीश्वरप्रत्यभिज्ञेति । गुरुपर्वक्रमस्तु
इति प्रकटितो——। (४ । १५)
इति शास्त्रान्ते निरूपयिष्यते आगमार्थाभिधानप्रसङ्गात्, व्यव-
(पगे ३८)
हारसाधनप्रमाणचिन्तावसरे तु किं तेन । नहि वचनबलात् व्याप्तिर्हेतोः स्वरूपं वा । परार्थानुमाने च सर्वमेव आगमरूपतानपेक्षम् । केवलं मोहव्यपोहनमात्रमत्र फलं धर्मिणो हेतोर्व्याप्तेश्च सिद्धाया अपि मोहाच्छादनकृतासत्कल्पनापसारणेन साफल्यात् ।
केवलं दृष्टसाधर्म्यात्स्मार्यते समयं परः ।
इति न्यायेन धर्म्यसिद्धौ हेत्वसिद्धौ व्याप्त्यसिद्धौ वा परस्य वचनमात्रस्य अनुपयोगात् वचनप्रत्यये वा आगमरूपतैव स्यात्, न अनुमानमिति । तदिह आत्मनि ईश्वररूपतया स्वयं प्रकाशमाने मोहापसरणे व्यवहारसाधकप्रमाणव्यापारः । अत एव
तर्कोऽप्रतिष्ठः————-।
इति न अवतरति मौलिकसंवेदनपरिघटनात् घटोऽयं तथा भासमानत्वात् इति न्यायेन । नहि एतत् नित्योऽयं पक्षसपक्षान्यतरत्वात् मदुपगमात् इत्यादिवत् सत्यानुभवबाह्यं स्वविकल्पमात्रोपरचितम् । तत एव एतत्पृष्ठे आगमोऽपि उपोद्वलकोऽस्त्विति । कथञ्चिदित्यनेनैव गुरुपर्वक्रमोऽपि न न सूचितः । दुर्लभो हि सद्गुरुसम्बन्धः इत्युक्तं श्रीमन्मतङ्गादौ
——-सम्बन्धोऽतीव दुर्घटः ।
इति । वृत्तौ च गुरुभट्टारकोऽपि परमेश्वरशब्देनैव निर्दिष्टः
आचार्यस्य च मन्त्रस्य शास्त्रस्य च शिवस्य च ।
नानात्वं नैव कुर्वन्ति विद्येशा———॥
इति हि आगमः । टीकाकारोऽपिच साक्षात्कृतपरमे"वराकारैः इति वक्ष्यति ।
ननु वृत्तिकारः कथं प्रत्यभिज्ञापयामीति अहम्भावनिष्ठत्वेन ब्रूयात्, तेन हि वक्तव्यं प्रत्यभिज्ञापयति परितुष्येदिति च,
(पगे ३९)
-इत्याशङ्क्य आह तत्र वृत्तौ इति अत्र सूत्रे या वृत्तिस्तस्याम् । सूत्रस्य विवरीतव्यस्य अनुसारेण हेतुना एष निर्देशः, नतु स्वात्मनिष्ठस्वताभिप्रायेण । कस्मात् सूत्रस्य अनुसरणमिति । आह संवृतो यथास्थितत्वेन अनन्यथाकृतो यः सूत्रकृतो निर्दिश्यमानोऽर्थः, तस्य या विवृतिर्भञ्जनं; तावानेव यतोऽस्या व्यापारः । यदि सौत्रं निर्देशमन्यथा कुर्यात्, तर्हि वादिप्रतिवादिनोः सिद्धान्तपूर्व- पक्षगतयोरुत्थापनं भवेत्; ततश्च प्रतिवादिकृतस्य आक्षेपस्य, पुनस्तृतीयस्थाने वादिकृतस्य प्रतिसमाधानस्य करणं स्यात् । तथाकरणे टीकैव स्यात्, न वृत्तिः । पूर्वं च उक्तं शनैः सूत्रवृत्त्योः इति । तत आक्षेपाद्यकरणेन प्रयोजनेन पूर्वपक्षाद्यनुत्थापनं, तदर्थं च संवृतसौत्रविवरणम् । ततो हेतोः सूत्रानुसरणम् । ततो हेतोरुत्तमप्रयोगः ।
उपपादयामीति हि सूत्रम्, तदनुसारात् तु वृत्तौ प्रत्यभिज्ञापयामीति ।
एतच्छायाप्रसङ्गादविलङ्घ्यात् परितुष्येयमित्यपि प्रयोगः इच्छन् इत्येतत्सूत्रांशभञ्जनावसरेऽपि । एवमुत्तमपुरुषनिर्देशस्य प्रधानं प्रयोजनमाख्याय अन्यदपि आह सूत्रकार एव इति ।
प्रणामाकरणप्रमाणान्तरज्ञापितेऽर्थे उपोद्बलकोऽपि अयं निर्देश इति अन्वाचयसूचनार्थश्चकारः । एतच्च पूर्वमुक्तमेव ॥ १ ॥
॥ आदिवाक्यम् ॥
मौलिकदृढप्रमाणप्रभावप्रकाशमानतायोगिनि वस्तुनि व्यवहारसाधनरूपं प्रत्यभिज्ञानं मोहापसारणफलं कामं केवलं निरूप्यतामपूर्वप्रकाशस्य सिद्धिरूपत्वात् । यत्र तु अवभास एव न वृत्तः, तत्र मौलिकं तावत् प्रमाणं वाच्यम् । तत्र तु निरूपितेऽपि यो मोहः स्यात्, तदपासनाय भवतु व्यवहारसाधनमिति मात्रशब्दाभिप्रायः । तेन सैव इत्यत्र एवकारः प्राथम्यं द्योतयति ।
(पगे ४०)
सा तावत् प्रथमं साध्या, तत उच्यतां प्रत्यभिज्ञेति । व्यवहारसाधन- विषयताया व्यापकमवभासमानत्वं, तद्विरुद्धं च अनवभासमानत्वमत्र उपलभ्यते इति व्यापकविरुद्धोपलब्धिः । ईश्वरो न व्यवहारसाधनप्रमाणमात्रविषयः कथञ्चिदपि अनवभासमानत्वात् ।
नहि ईश्वरो विश्वत्र कस्यचित् कदाचित् भासते इत्याशयेन आह ननु इति सिद्धसत्ताकस्य इति सत्तैव न सिद्धा इति च । सिद्धत्वमत्र प्रकाशमानत्वम् ।
सैव इति सत्ता साध्या । अपूर्वप्रकाशनरूपं तत्र ज्ञानं यतो भवति, तादृक् प्रमाणं वक्तव्यम् । तथा च उद्द्योतकारादयः ईश्वरसिद्धिरित्येवं व्यवहारमकार्षुः । अथ चेतनतया कर्तृतया च सामान्यरूपेण सावयत्वादिधर्मकतनुभुवनादिकर्तृस्वरूपमवभातम्, एवं व्याप्तिग्रहसमये एव सामान्यात्मना सर्वं प्रतिभातमिति । विच्छिन्नस्तर्हि अनुमानस्य अपूर्वप्रमेययोगः,-इति ईश्वरे कोऽतिशयः । अथ तत्कालापरिच्छिन्नमयोगव्यवच्छेदादि अपूर्वमत्र प्रमेयम् । प्रकृतेऽपि तर्हि तन्वादिनिर्माणोचितज्ञानक्रियासामर्थ्यायातमेव प्रमेयमिति ईश्वरसिद्धिरेव उचिता, न ईश्वरप्रत्यभिज्ञा । एतत् निराकरोति न इति । अत्र हेतुः सर्वात्मरूपतया इति । अवश्यं हि किञ्चित् साधयता किञ्चित् सिद्धमुपगम्यम् । ततो हि साधयितृसाधनधर्मिप्रकाशोऽनपह्नवनीयः, अन्यथा सर्वं स्यादिन्द्रजालम्, तदपि वा न स्यात् । किञ्चित् चेत् सिद्धं, तत् तर्हि प्रकाशमानं प्रकाशाव्यतिरेकि । प्रकाश एव च विश्वात्मा परमेश्वरः इति सर्वस्य यावदसावात्मरूपः पारमार्थिकः स्वभावः, तावत् यत् किञ्चित् सिद्धमङ्गीक्रियते; तत्सिद्धिरेव तस्य ईश्वरस्य सत्त्वसिद्धिः सद्भावप्रकाश इति किमपूर्वमप्रकाशितं प्रकाश्यतामिति उचितैव ईश्वरप्रत्यभिज्ञा- वाचोयुक्तिः ।
(पगे ४१)
एवं यत् आशङ्किते पूर्वपक्षे सङ्क्षेपेण उक्तम् एतत् न इत्यादि, तत् वस्तु आह श्लोकेन इति । सूत्रवक्ष्यमाणवस्तुपिण्डीकरणमिह टीकायां श्लोकावतारणमिति शैली टीकाकारस्य । ननु सूत्रे स्वात्मनि इति शुद्धमुपात्तम्, वृत्तौ तु सर्वेषाम् इति सम्बन्धिपदं यदुक्तम् तत् कुत आनीयेति आशङ्कमान आह स्व इति । आत्मशब्दोऽपि यद्यपि
आत्मा वस्तु स्वभावश्च——।
इति दृष्ट्या स्वभाववाची सम्बन्धिशब्दः, तथापि वैशेषिकादिदृशि स्वतन्त्र एव आत्मपदार्थ इति शङ्केतापि; स्वशब्दोपादाने तु स्वभाववचनता अस्य गम्यते । ननु स्वो यदि आत्मीयः, तदा आत्मनो यः सम्बन्धी स्वभाव इति आत्मार्थः प्रकृतिवाच्यः स्वभाव एवेति स्वभावस्य स्वभावः इति न किञ्चिदुक्तं स्यात् । सत्यम्, किन्तु आत्मपदे उच्यमाने पृथगेव आत्मपदार्थो घटस्थानीयः प्रतीयते । स्वशब्दे तु स्वं वस्त्रमित्यत्र यथा अनन्यलग्नत्वं प्रतीयते आत्मीयं वस्त्रमिति, एवमात्मीय आत्मेति । कस्य आत्मीयः इति अवतरति अन्याकाङ्क्षा, नच कश्चिदुपात्तः इति सर्वस्य आत्मीय आत्मेति गम्यते । तत्र आत्मीयार्थेऽपि य आत्मार्थः, स पृथक् सृष्ट एव उपदेश्योपदेशोपायतया ।
अन्यथा हि न सम्बन्धिप्रतीतिर्भवेदिति सर्वेषामात्मनीत्यादिशय्यान्तरसमा- श्लेषेऽपि संयोगित्वादिसम्बन्धान्तरशङ्का न निवर्तेत । आत्मीयत्वे तु अव्यभिचरणीयत्वमनन्यापेक्षत्वं स्वविश्रान्तत्वं गम्यते इत्येतदर्थं सृष्ट एव भेदेन आत्मा उपदेशस्य प्रकृतिसिद्ध्यङ्गस्य अन्यथानुपपत्तेः ।
सर्वस्यात्मेत्यपि हि सृष्ट एव भेदः स्वभावव्यतिरेकिणः सर्वस्य अभावात् ।
सर्वत्र हि शब्दज्ञानानुपातिनि वस्तुशून्ये विकल्पे अयमेव क्रमः ।
वस्तुशून्यत्वं च
(पगे ४२)
पारमार्थिकरूढप्रत्ययापेक्षया उच्यते, सृज्यमानत्वेन तु वैकल्पिकं वस्तु एवेति वक्ष्यामः स्वातन्त्र्यामुक्त——-। (१ । ४७)
इत्याद्यन्तरे । तदयं स्वशब्दः सम्बन्ध्याकर्षणमात्रोपयुक्तो यं सम्बन्धिनमाकर्षति, स नियतस्तावत् न भवति अनुक्तत्वात् अप्रकरणापन्नत्वा- च्चेति सर्व एव प्रतीयते । अनुपादानात् इति शब्देन प्रकरणेन वा ।
सर्वान्तर्भावात् इति चोद्यम् । यद्यसौ इति सिद्धान्तः । तत्र चोद्ये तावदयमाशयः-अनियतत्वात् सम्बन्धिनो निखिल एव जडश्च अजडश्च भाववर्गः प्रतीयते । तत्र अजडानां स आत्मा चैतन्यलक्षण एकः कदाचित् शक्योऽभिधातुम्, जडास्तु अमी पृथक्परिच्छिन्नस्वरूपाः कथमेकात्मानः पृथक्स्वभावानामेकस्वभावत्वविरोधादिति । उत्तरस्य तु अयमाशयः-इह स्वात्मेति स्व आत्मनः स्वसामान्यलक्षणार्थक्रियाकारित्वादेरन्यापेक्षस्य सम्बन्धी आत्मीयोऽनन्यापेक्षोऽनौपाधिको भवति । तत्र ये जडास्ते यावत् जडाभिमताः, तावत् सदसत्त्वमपि एतैर्दुर्लभमात्मनि, का तु कथा नीलपीतसुखदुःखादित्वस्य । तथाहि यः स्वात्मनि सन्, स यदि असन् स्यात्, किमस्य दुष्येत् । तथैव अर्थक्रियां कुर्यादिति चेत्, करोति इत्येवं यदि स्यात् तत्किं स्यात् । तथैव प्रकाशेतेति चेत्, प्रकाशमानता किमस्य स्वमहिमा । ओमिति चेत्; मम प्रकाशते, चैत्रस्य प्रकाशते इति कथं सङ्गच्छताम् । प्रातिपत्त्री सा प्रकाशतेति चेत्, प्रतिपत्तुर्यद्यसौ, तत् तस्य सा किं भवतु । तद्वशात् स प्रकाशत इति तु अपूर्वा युक्तिः । एवं हि श्वेतवशात् पीतं श्वेतते इत्यपि स्यात् ।
यदि अस्य आत्मीयं, तद्वशादन्यत्र न भवति नीलतेव पीते; तथा च प्रकाशरूपता प्रमातुरात्मीयेति
(पगे ४३)
कथं सा नीले भवेत् । तत्र भवनस्य तादात्म्यं व्यापकमन्यथा नीलेऽपि पीततेत्यादि सहस्रशाखमासमञ्जस्यं दृश्यमानताद्रूप्यव्यापकस्य नियमस्य विरुद्धं प्रसज्येत । तस्य तादात्म्यस्य विरुद्धमन्यात्मत्वं, तदेव च अन्यदीयत्वम्; अथा अन्यस्य तत्सम्बन्धीति कथम् । नच इदं नीलादेः प्रकाशमानत्वं विना किञ्चित् निजजीवितमस्तीत्यनपह्नवनीयप्रकाशमान- ताबलात् प्रमातृप्रकाशतादात्म्यमस्य अङ्गीकार्यमिति बोधात्मान एव नीलादयोऽपि, नतु एषामन्यत् वपुरिति तेषामपि स एव स्वात्मा महेश्वर इति इष्टमेव । कः प्रसङ्गार्थः । अनिष्टापत्तिर्हि प्रसङ्गः । तदेतदाह आस्तां लोष्टादिः इति । तस्य हि स्फुटं प्रकाशमानस्य को बोधात्मतायां विवादः ।
अभावोऽपि यस्तुच्छो न किञ्चिदित्येवं कस्यापि सम्मतः, सोऽपि यावदेवमिति न चकास्ति; तावत् भावादन्यत् स इत्येतदेव कुतो भवेदिति । बुध्यमानश्चेत्, तदस्यापि महेश्वर एव स्वात्मा । अथ अबुध्यमानोऽसावभावः, तर्हि न कश्चिदसाविति कस्य असौ तदानीं स्वात्मा प्रसज्यते । एवं नीलादेरपि अबुध्यमानस्य कः स्वात्मेति बुध्यमानपदम् । एतदुक्तं भवति-यदा चोद्यं क्रियते नीलतदभावादेरपि स्वात्मा महेश्वरः प्रसज्यते इति, तदा बुध्यमानत्वस्य अङ्गीकार एव उत्तरमन्यथा निराश्रयं चोद्यमिति । ननु एवं महेश्वरश्चेत् नीलस्य आत्मा, पीतस्यापि स एवेति नीलमिदं, पीतमिदमिति कुतो विभाग इति । आह सर्वमेव इति । यस्मात् चिद्रूपस्य आत्मनः प्रकाशरू- पस्य स्वस्वभावस्य सर्वमेव वेद्यं शरीरमिव यथा शरीरं वेद्यमपि अहमित्यवष्टम्भादनुपचरितात् चिद्रूपानुविद्धं, तथैव विश्वम् । नहि कम्बलादिवत् देहे उपकरणत्वादुपचरितता अहम्भावस्य लोके भासते पृथगात्ममानिनामपि ।
(पगे ४४)
एवं च चिद्रूपतानुवेधात् यथा संवित् विश्वरूपा वक्ष्यमाणनयेन, तथा नीलपीतादिभावावली अपीति अनभिमत एव अस्माकं विभागः । एतत् वेदान्तवादिग्रन्थवचसा संवादयति प्रदेशोऽपि इति । यथा घटाकाशं पटाकाशमिति आकाशस्य घटादियोगेन कल्पिताः प्रदेशाः, आकाशस्य यावद्रूपं विभुत्वादि तेन अनूनाधिकाः; एवं ब्रह्मणो वृहत्त्वेन व्यापकस्य वृंहकत्वेन विश्वसृष्ट्याप्यायनविधायिनः प्रकाशरूपस्य स्वशक्तिप्रत्यवभासितनीलाद्युपाधिकृता ये प्रदेशा नीलप्रकाशः पीतप्रकाशः इत्यादयः; ते ब्रह्मणि यत् सार्वरूप्यं, सर्वशक्त्यविभागवृत्तित्वं, यच्च प्रकाशमानतामात्ररूपेण प्रतियोगिवैकल्यादपोहनीयाभावे विकल्परूपत्वायोगादप्रतियोगिसंवेदन- रूपमविकल्पत्वम्, तत् प्रत्येकमनतिक्रान्ताः, ततो मनागपि अनधिकाश्च ।
द्वयमन्योन्यं हेतुहेतुमद्भावं द्योतयति । ननु एवमविभागरूपता अस्तु युक्त्युपनिपतिता, यस्तु अयं नीलं पीतमिति वेद्ये, चैत्रोऽहं मैत्रोऽहमिति वेदके विभागप्रतिभासः, तत्कथं समर्थयामहे इति । आह केवलम् इति जडः इति । जडत्वेन अन्याधीनप्रकाशतया भासमान इत्यर्थः । वक्ष्यमाणा इति
हेया त्रयीयं प्राणादेः प्राधान्यात्कर्तृतागुणे । (३ । २९)
इत्यत्र वक्ष्यते । परमेश्वरप्रकाश एव स्वमायाशक्त्या अतिदुर्घटकारित्वस्वातन्त्र्यरूपया स्वरूपमनाच्छादितमपि आच्छादितमिव अवभासयति । तत्र अनाच्छादनां-शप्रधानतायां सदाशिवेश्वररूपतासमावेशदशा, आच्छादनभागावभासप्रधानतायां मायाविजृम्भारूपा संसारिदशा; ततो नीलमित्यादिवेद्यभेदः, आभासमानकायभेदोपलक्षित- बुद्धिप्राणपुर्यष्टकाद्युपाधिभेदारूषितचैतन्यच्छायाकृतो वेदकभेद इति भेदविजृम्भायां मायाप्रमातृत्वे
(पगे ४५)
कायो मूर्धाभिषिक्तः, तथा च तदुच्छेदादेव प्रभृति मोक्षव्यवहारस्तत्र तत्र वैकरण्यं मोक्षः इत्यादौ । तत्प्रधान्यमस्य सूचयति कायोऽपिवा इति ।
अयम् इति पूर्वं प्रकाशरूपत्वात् चिद्रूप एव स्वातन्त्र्यात् वेद्यतां नीत इति लोष्टादिवदेव वेद्य एव सन्ननात्मभावादपहस्तनेनैव अहमिति संवेदनतादात्म्यमधिशायितः । आत्मनि निमज्ज्य इति । नीलादिर्नीलरूपत्वे प्रकाशं निमज्जयति, येन प्रकाशबलात् नीलमिदमिति प्रकाशः परिमितीभवति; येन वेद्यधर्मत्वेन प्रकटोऽयमर्थो दृष्टः प्रमेय इति भाति । काये च निमग्नः सोऽहमिति प्रकाशः परिमित उपपत्तिदेशभेदेन अतीतादिकालकलनया रुद्रक्षेत्रज्ञतदवान्तरप्रकारप्रमातृरूपेण स्वरूपभेदेन अन्यदेशकालस्वरूपविविक्तत्वेन भाति । यदा-तदा इति निपातौ वाक्यार्थस्वरूपपरामर्शे । यत् परिमितीकरणम्, एतत्संसारोत्थापकं मोहनं मायाव्यापारः । तदभिप्रायेण इति संसारमोहमभिप्रेत्य अनुसन्धत्ते विषयत्वेन यस्तेनोक्तं गुरुणा तत्रभवता वासुदेवेन अर्जुनं प्रति । तदनुसन्धानेन तद्विवक्षयेति हेतुतृतीया वा ।
ये चैव सात्त्विका भावा राजसास्तामसाश्च ये ।
मत्त एवेह तान्विद्धि——————॥ (७ । १२) इत्यनेन सर्वमिदं वेद्यरूपं वेदकरूपं च प्रकाशतदभावतदुभय- संवलनामयतया विचित्रमहमितिशुद्धस्वभावादेव संवेदनात् प्रसृतमिति अभिधाय प्रसरस्य भेदावभासप्राधान्यात् अहम्प्रकाशस्य च भिन्नस्वरूपदेशकालोत्तरत्वात् तत्र प्रसरे रूढो मयि न रूढो भवति ।
प्रसरस्य हि मद्रूपत्वाच्छादनभाग एव प्राणाः । मयि तु रूढिं विना ते न किञ्चित् स्युरप्रकाशत्वापत्तेः, नतु तैर्विना स्वतन्त्राहम्प्रकाशस्य खण्डना काचित् । संसारमोहाभिप्रायेणैव
(पगे ४६)
च सर्वब्रह्मणोः किं विधेयं, किमनुवदितव्यमिति विचारयितव्यम् । तत्र तद्यपि पूर्वसिद्धं ब्रह्म, तदनूद्य अपूर्वत्वेन, सर्वं तु अस्य वेद्यवेदकरूपं विधेयं, ब्रह्मैव सर्वं भवति, नान्यत् किञ्चन सर्वं, ब्रह्म किल सर्वशक्ति,-इति विध्यनुवादौ; तथापि परस्य उपदेश्यस्य ब्रह्म न किञ्चित् सिद्धम्, येन अनूद्यते । सर्वं तु अस्य वेद्यवेदकरूपं सिद्धमिति तदनूद्य अस्य ब्रह्मतादात्म्यमुच्यते । यत् सर्वमिदं दृश्यते, तस्य अन्तस्तमां स्वरूपमनुप्रविश्यविचार्यमाणं प्रकाशपरामर्श- रूपमेव अवशिष्यते । तत उक्तं
सर्वं खल्विदं ब्रह्म । (छा। ३ । १४ । १)
इति । तत एव सर्वभागस्य यदिदं शङ्क्यते नानारूपं, तत् निषेधति
———नेह नानास्ति किञ्चन । (छा। ३ । १४ । १)
इति इह दृश्यमाने सर्वशब्दस्य व्यपदेश्ये नाना यत् प्रकाशेन सह न भवति, प्रकाशतादात्म्येन न वर्तते, तत् किमपि रूपं नास्ति अप्रकाशमानस्य शपथैरपि अप्रत्येयत्वात् । शपथोऽपि हि तत्प्रकाशताकार्यो भवति । ननु यदि भेदांशप्राधान्यावभासः संसारः, तर्हि तद्भित्तिभूतस्य प्रकाशा- भेदभागस्य प्राधान्ये किमिति । आह कर्तृतायाः इति वैश्वरूप्यम् इति ।
शुद्धस्वरूपस्पर्शप्रारम्भात् सदाशिवेश्वररूपतया वैश्वरूपं यथा इह ग्रन्थकार आह, तथा अन्योऽपि आह, तं प्रकारमन्योऽपि आहेति वा, तेन वा अस्मदुक्तेन न्यायप्रकारेण अन्योऽपि एतदाह तदाह इत्येवं तथा चाह इति वचनान्तरेण संवादनं वचनान्तरस्य वा सजीवताकरमनन्यथा- र्थत्वं भूयोभिर्वचनैर्दर्श्यते । माम् इति अहंरूपमनन्यापेक्षप्रका- शमनन्यविमर्शमयं स्वप्रकाशविमर्शं प्रकाशं सर्वत्र सर्वोपश्लेषेण यः पश्यति नीलमिति हि प्रकाशमाने
(पगे ४७)
नीलं प्रकाशते इतीयदहं प्रकाशे इति प्रकाश एव प्रकाशितो भवति, प्रकाशं च सर्वत्र यः पश्यति, न प्रकाशस्य देशे काले स्वरूपे वा खण्डनात्मा व्यवच्छेदोऽस्तीति, मयि इति आत्मसंवेदनप्रकाशे च तदविनिर्भक्तं सर्वं प्रकाशितं भवतीति, तथा नीलादिकमात्मप्रकाश- भित्तौ रूढं चकास्तीति यः पश्यति । तस्य अहमिति प्रकाशो न प्रणश्यति न खण्डनाविकारमेति प्रकाशरूपात् न च्यवते । अहं च तस्य विश्वेश्वररूप एव आत्मा न प्रणश्यामि न आच्छादितो भवामि । तथा सोऽपि एवं द्रष्टा ममेति शुद्धप्रकाशात्मनः परमेश्वरस्य न प्रणश्यति आच्छादितो न भवति, तत्र परमेश्वर एव भातीति । अनेन चैत्रात्मना आछादितस्वस्वभावा- वभासने निर्भासे इत्येवं स प्रत्यगात्मतयापि अवियुक्त ईश्वरमेव आत्मानं मन्यते । परमेश्वरश्च तत्र प्रच्छन्नतयैव चकास्ति, येन परमेश्वरोऽत्र प्रसीदतीति व्यवह्रियते । सर्वेषु भूतेषु परमार्थरूपेषु आत्मा प्रकाशस्तिष्ठति विशेषेष्विव सामान्यं, सर्वाणि भूतानि आत्मन्येव तिष्ठन्ति धर्मा इव धर्मिणि,-इत्येवं सर्वमुखेन ब्रह्ममुखेन वा समव्याप्तिककृतकत्वानित्यत्वन्यायेन विध्यनुवादयोर्नास्ति वैचित्त्र्यम् ।
वैचित्र्येऽपि वस्तु भेदः प्रवेशवैचित्त्र्यादधिकः । तेन मयि इति सर्वं ब्रह्म इत्युपक्रमः, वासुदेवः सर्वम् इतिमध्यः, सर्वभूतस्थम् इत्यन्तोऽयमद्वयोपदेशो मन्तव्यः । एवं सर्वभागे प्रकाशभागे च स्थिते गुणप्रधानताकृतं संसारासंसाररूपत्वं प्रतिपादितम् । गलिते तु समस्ते भेदलेशे परमशिवदशा न इह वितानिता तावत् सर्वात्मरूपतामुखेन तत्प्रत्यभिज्ञानोपक्रमात् । ननु आत्मशब्द एव
आत्मा वस्तु स्वभावश्च———।
इति स्थित्या स्वभाववाची व्याख्यायिष्यते किं स्वग्रहणेन इति ।
(पगे ४८)
आह स्वशब्दः इति । शास्त्रतस्तावत् काणादादिदर्शनप्रसिद्ध एव आत्मा लभ्यते; लोकेऽपि स्वभावो नीलादीनां नीलादिरूपतैव आत्मेति प्रसिद्धः, नीलमात्मना अर्थक्रियाकारिणा सत्, न पररूपेणेति तदुभयमपि स्वशब्देन अव्यभिचरणीयं प्रतिष्ठास्थानत्वादपर्यनु-योज्यं स्व रूपमभिदधता निरस्यते । ननु किं तत् तथाभूतं रूपम् । तथाहि सर्वभावानां परमाण्वादि वा प्रधानं वा सत्ता वा शून्यं वा वद्यन्तरैरुपगतं जडमेव स्वरूपम् । तद्विशेष्य वक्तव्यं चिद्रूपे स्वात्मनीति । आह तस्य च इति ।
ज्ञातरि कर्तरि इति हि उक्ते ज्ञानक्रियास्वातन्त्र्यमनन्यवदनावलोकिजानामि- करोमीत्येवंरूपं स्फुरत्येव, चिद्रूपे इति तु उच्यमाने नीलरूपे इत्येतत्तुल्यं स्यात् । ततश्च पुनरपि चिद्रूपत्वं ज्ञातृकर्तृत्वयोः सङ्क्रामयितव्यम् ।
इयमेव इति इदन्ताव्यपदेशनिकारमात्रत्वात् तावत् रक्षणीयः स्वात्मा, तत्र ज्ञाता कर्तेत्यप्युक्तेर्बहिर्विश्रान्तिधामतात्मा विधेयत्वेन इदन्तैव उन्मीलेत् ।
जानाति करोतीत्यपि श्वेतते नीलतीतिवत् ताटस्थ्यम् । जानामीत्यपि कल्पिता अहन्ता ।
नच सर्वथा रक्षितुमिदन्ता शक्या अनुपदेश्यताप्रसङ्गादिति यावद्गति सा रक्षणीया । तत्र भूतविभक्तियोगे बहिः प्राधान्यन्यक्कारोऽन्तारूप- विश्रान्तेरहम्भावस्पर्शरूपो भातीति सम्बन्धविचारे वक्ष्यते इति एवकारार्थः । श्रेयसि इति अनूद्यमनापरमतोपक्रमेऽपीत्यर्थः । अत एव इति ।
यतो ज्ञाने कृतौ च स्वातन्त्र्यमेव चित्त्वम्, ततः कर्तृशब्देन अव्युत्पन्नेन क्रियासामान्याभिधायिकरोतिप्रकृतिकेन वा क्रियाविशेषोपाधिसम्बन्धका- लुष्यानारूषितं स्वातन्त्र्यमभिदधता तद्भित्तिलग्नं ज्ञानस्वातन्त्र्यं श्लेषेण च निर्मातृत्त्वस्य तदविनाभावितां दर्शयितुं यत्नपरिगृहीतेन तत्पूर्वकं निर्माणे स्वातन्त्र्यमुक्तम् ।
(पगे ४९)
अन्यथा इति । यदि एष शुद्धस्वातन्त्र्यप्रतिपादनाभिप्रायो न स्यात् । तत् ज्ञानपूर्वकं निर्माणं दृष्टम् । संविद्रूपस्य कारणत्वं दूषयिष्यते । नच तत् निर्माणमित्येवं ज्ञातरि इति प्राक् निर्दिश्येत । ननु एवं जानामि करोमीति उचितप्रतिभासे स्वतन्त्रैकरूपे संवेदनात्मनि तत्त्वे कथमधिकरणभावः । पारतन्त्र्यप्राणितं हि कारकान्तराणां तत्त्वम् ।
मत्तो विश्वं मयि विश्वमित्यादावपि हि सृष्ट एव अस्मदर्थः, पारमार्थिकमहन्तारूपं तु मत्तो मयि विश्वमिति प्रकाशे विमृशामि चेत्येवंरूपम् । तत् कथं सप्तमीत्याशङ्क्य आह परमतेन इति । परो हि तद्विषयं साधकं बाधकं वा अभिदधत् सिद्धिम्-अस्तीति प्रकाशव्यवहाररूपां, निषेधं वा-नास्तीति तच्छून्यवस्त्वन्तरप्रका- शव्यवहरणरूपं कर्तुमुद्युक्तः । स एवं कुर्वाणः प्रमाणस्य तत्कृतयोश्च सिद्धिनिषेधयोर्विषयतया अधिकरणमीश्वरं प्रमेयं परतन्त्रमेव अभिमन्यते । स एवं मन्वानोऽनूदितः, जाड्यं तु अस्य विधीयते । परमतेन सिद्धिविषयत्वं सूचितं, नहि उपपद्यते तत् प्रमात्रेकरूपत्वादिति अक्षरसङ्गतिः । ननु वृत्तिग्रन्थे कथं न सप्तमी श्रुतेति । आह वृतौ तु इति स एव इति । अनुपपद्यमान एव सन् विषयभावो विवरीष्यते षष्ठ्या । तामेव सिद्धिं सम्बन्धित्वेन अन्तःप्रवेश्य षष्ठ्या स एव विषयभावः क्रियाव्यवधितिरोधानतः स्वभावकल्पतां नीत इति निकटीभाव्यते सिद्धान्तः । कथं स्वभावभूतता । आह ।
प्रमातृमात्रताया यदुपपादनं पूर्वग्रन्थेन सर्वार्थसिद्धि इत्यादिना कृतं, तेन । अनुपपद्यमानता कथं विवृता । आह । दूषणेन जडानामेवोद्यमः इत्यनेन । एतदुक्तं भवति-सिद्धेरीश्वरो विषय इति वदन्ननुयोज्यः किमसौ सिद्ध्यन् प्रकाशस्वभावः, न वा । उत्तरपक्षे नैव सिद्धः स्यात् । आद्ये पक्षे तत्स्वभावस्य किं साध्यते ।
(पगे ५०)
पूर्वमतथेति चित्, सिद्धौ तर्हि अस्य स्वरूपं प्रत्युत लुप्येत । नीलादयोऽपि पृथक् न केचन प्रकाशादिति । तदयं सप्तम्यर्थः इदन्तामन्तर्धाप्य स्वयमपसृतो ज्ञातृकर्तृरूपमहम्प्रकाशविश्रान्तमेव करोतीति ।
सर्वेषां स्वात्मनः इत्यादिवृत्तीवाक्यं यतो व्याख्येयतया उपक्रान्तं, ततः तेन इत्यादिवाक्यान्तरे भाविनी प्रसङ्गादिह व्याख्यायमाने उचितो भविष्यत्प्रयोगो विपरीष्यते इति । ननु व्याख्यारूढेऽपि वाक्ये षष्ठ्येव अस्ति, तत् भविष्यद्वाक्यषष्ठ्येव कथमेवमुक्तेत्याशङ्क्य आह स्वात्मन इति तु इति । कर्तरि एषा षष्ठी । तत्कर्तृकं हि ज्ञानं करणं च, नतु सम्बन्धषष्ठी । एवं प्रसङ्गात् भाविवाक्यषष्ठीं विचार्य पूर्वोक्तं तस्य च चित्स्वभावत्वम् इत्यादि युदुक्तं, तदुपसंहरति तदेवम् इति ।
यदभिमतं प्रस्तुतं प्रतिपाद्यं ज्ञातृकर्तृताभ्यां लक्ष्यते शुद्धं स्वातन्त्र्यमिति, तत् वस्तु एवमिति उक्तेन इयमेव शय्या इत्युपक्रमेण विवरीष्यते इत्यन्तेन व्याख्यानन्यायक्रमेण निर्व्यूढमित्यर्थः । ननु प्रमातृतया ज्ञातृत्वमुक्तं, नतु कर्तृत्वम् । तत् प्रत्युत एकशब्देन पराकृतम् । तत् किमेतदित्याशङ्य आह क्रिया हि इति तिष्ठासोरेवमिच्छैव हेतुता कर्तृता क्रिया । (२ । ५३) इत्यत्र अप्रतिहतं प्रकाशस्वातन्त्र्यमेव करणमिति वक्ष्यते । ननु एवं निर्मातृतापि श्लेषनिर्देशादिति किमर्थं वृथा व्याख्यातम् । एवं मन्यते- कुम्भकारादिप्रवृत्तिरूपमपि यत् भेदेन निर्मातृत्वं चकास्ति, तदपि प्रकाशमानताप्राणतया परमेश्वरशक्तिविजृम्भितं न अस्माकमत्यन्त- मुपेक्षणीयमिति । अत एव एकशब्दोऽत्र न कर्तृतां निराकरोति, अपि तु नियमस्तद्विपक्षाच्च कल्प्यते न विरोधिनः ।
(पगे ५१)
इति न्यायेन प्रमातृतात्मकस्वातन्त्र्यविरुद्धां प्रमेयतात्मिकां परतन्त्रतामेव । तथाच आह अत एव इति । यतः स्वातन्त्र्यं चित्तत्वम् इति पूर्वेण सम्बन्धः । प्रमेयत्वाभावे च न तत्र प्रमाणमुपयोगि उपपत्तिमद्वा । यतः प्रमातृत्वमेव कर्तृत्वं, न अन्यत्; अत एव प्रमेयता अस्य निरसिष्यते, नतु कार्यता । अन्यथा प्रमेयत्ववत् तस्य कार्यत्वमपि, प्रमाणवच्च कारणमपि निषिध्येतेति तु व्याख्यानं न तथा हृदयग्राहि ।
नहि कार्यत्वं परमतेऽपि अस्ति भगवत इति ननु यस्य प्रमातृतैव रूपं, तत् तावत् प्रमाणस्य न विषयः । यच्च एवं, तत् न व्यवहारपदं पिशाचवत् । तत् वरं स्वसंवेदनसिद्धत्वमस्य वक्तुमुचितम्, नतु सर्वथैव प्रमाणाविषयतेति । आह नच इति । ननु पूर्वसिद्धतायामपि पूर्वमस्य प्रमाणविषयत्वं स्यात् यथा अग्नेः पूर्वसिद्धोधूम इत्याशङ्क्य ब्रूते एतदुक्तम् इति । यदा यदा उपक्रमः, तदा तदा पूर्वसिद्धत्वमित्येषोऽत्र परमार्थः । तत् नीले इव न अत्र व्यतिरिक्तं प्रमाणं, नापि चित्तचैतन्यवत् स्वयम्प्रकाशत्वेऽपि नूतनापूर्वप्रकाशरूपत्वेन स्वसंवेदनम् ।
इदन्तादेशकालस्वरूपनियमारूढं प्रथनं यस्य नीलसुखादिकस्य, तस्य भावस्तन्निषेधोपलक्षितः सन् प्रमाता प्रकाशते च, प्राकाशिष्ट च, प्रकाशिष्यते चेति यावत् । अत एव पुराणः पूर्वसिद्धश्चेति न पर्यायौ, पुराणोऽपि हि न पूर्वसिद्धः पिशाच इव , पूर्वसिद्धोऽपि न पुरणो धूम इवेति उभयोक्तिः । कविं पुराणम् इति,
पुराणं तत्परं तेजो येनाभिनवतेजसाम् ।
ह्रियते चार्प्यते तेजस्तज्ज्योतिर्भैरवात्मकम् ॥
इति इतिहासरहस्यादावुक्तं संवादयति सम्यक् भूतमभिमतं पूर्णमर्थं जल्पयति; अथवा पूर्वसिद्धतैव आगमेषु पुराणता, नतु
(पगे ५२)
आकाशादिवत् चिरन्तनतामात्र प्रकाशावेशशून्यं, तेन संवादयति समं तुल्यमर्थमभिधापयतीति । एतच्च इति पूर्वसिद्धत्वमस्य प्रमातुर्भवति । सर्वे तस्मात् प्रमातुरन्ये येऽर्थाः तेषां या सिद्धिः प्रकाशमानता, तस्या यतः स प्रमाता निबन्धनं विश्रान्तिस्थानं विमर्शरूपतया समाश्रयः; तेन वृत्तौ सर्वार्थ इत्यादि पूर्वसिद्धत्वे हेतुत्वेन व्याख्येयमित्याशयः । ननु सिद्धिः संवेदनरूपा, तस्याश्च किमाश्रयेण अन्येनेति । आह यत्किञ्चित् इति । तथात्वे स्फुरद्रूपत्वे ।
दार्ढ्यमचलता । नीलमिति यत् स्फुरितं, तत् न पीतादि, नच न नीलं, नापि न स्फुरितमिति सिद्धिर्वस्तुनः । किञ्चित् इति प्रमातारम् । एवंस्वभावत्वात् इति मम नीलं स्फुरति, चैत्रस्य नीलं स्फुरतीति हि स्फुरणम्, नतु नीलं स्फुरतीत्येतावत् । अत एव सौगतैः सन्तानरूपो विकल्पो वा अवश्यमेकः प्रमाता कल्प्यते अनपह्नवनीयत्वादेवंस्फुरितस्य । अत एव इति यत एवं स्फुरति दार्ढ्यमस्य । वक्ष्यते इति
विश्ववैचिन्त्र्यचित्रस्य समभित्तितलोपमे ॥ (३०)
इति द्वितीयेऽधिकारे । ननु एतावता अस्तु प्रमाता अभिमतो विकल्पो वा, विकल्पकल्पितो वा; पूर्वसिद्धस्तु कुत इत्यनुयोगे कथयति ते ते च इति । नहि साध्यता नाम साध्ये निरुपाख्ये पदमुपनिबध्नाति, अपितु ममेदं साध्यमिति साधयितरि । साधयितेति अहमात्मानं निराकरोमीति हि स्वनिराकरणेऽपि प्रमातैव प्रपतति, आत्मरूपो निराक्रियते परं विकल्पितो वा कल्पितधर्मा वा । आक्षिप्ता अवश्यम्भाविनीत्वेन अङ्गीकृता सिद्धिः प्रकाशमानता येन । अहमात्मानं साधयामि निराकरोमि वा नीलं वेत्यत्र हि यदहमिति, न तत् मूर्च्छास्वापकल्पम्, अपितु प्रकाश
(पगे ५३)
एव अयम् । नच इदन्तया असौ भाति । तथात्वे हि पृथक्सिद्धिनिबन्धनार्थान्त- रान्वेषणे अहमित्येतदेव कथं भवेत् । ननु अहमिति विकल्पमात्रं, तत्र सन्तान एव कल्पितोऽध्यवसीयते । संवेदननिष्ठैव, नतु जडनिष्ठा, प्रमेयाणां, नतु कार्याणां, सिद्धिर्व्यवस्था । तत् संवेदनमात्रमस्तु किं प्रमात्रा कल्पितेन । भवतु वा असौ । तथापि संविदाधारमात्ररूपोऽसौ काणादवत् संविद्रूपोऽपिवा विमर्शशून्य एव साङ्ख्यवदस्त्विति सङ्क्षेपेण बौद्ध काणाद-कापिल-व्यामोहं विहन्तुमाह संविन्निष्ठा हि इति । प्रमेयाणां भावानां संविन्निष्ठा या सिद्धिरुच्यते, सा न संविदि । आकारार्पणेन एकसामग्रीकतया जनकत्वेन वा योऽनुप्रवेशो विषयतापत्तिः, तावन्मात्रतत्त्वा हि यदि स्यात्, तत् पदार्थास्तावन्मया दृष्टाः, नतु तृणादिविशेषा इति भेदेन प्रतिष्ठा न भवेत् । नहि पदार्थमात्रं किञ्चिदस्ति पृथक् विशेषतः, यदाकारमर्पयेत् समानसामग्रीकं वा स्यात् जनकं वा भवेत् विशेषस्यैव परमार्थसत्त्वात् । सदपि सामान्यं तादात्म्यवृत्ति वा समवायवृत्ति वा न विशेषनिष्कृष्टं प्रतिभानयोग्यं भवति । गोः पथ्यं क्षीरम् गौर्न पदा स्प्रष्टव्या इत्यादिबुद्धावपि परिदृष्टविशेषोल्लेखनप्रमुखतयैव सामान्यावभासः ।
यद्वक्ष्यते टीकाकृत एकतममिभानतशृङ्गम् इत्यादि । तत् मार्गेण धावतोऽप्रतिष्ठितमेव पदार्थतत्त्वम् । ननु का तर्हि संविन्निष्ठा सिद्धिरभिमतेति । आह । तृणमिदमित्यादिर्यो विमर्शः, स एव प्रकृतः परमार्थस्वभावो यस्य प्रकाशस्य; तत्र सम्यक् बन्धनं विश्रमणं संविदि निश्चयेन स्थानमिति निष्ठा उच्यते । ननु एवं पदार्थमात्रत्वेऽपि तर्हि संविदि निष्ठा व्याख्येयेति । आह पदार्थमात्रत्वेन तु इत्यादि ।
पदार्थोऽयमित्यपि हि विमर्श-एव ।
(पगे ५४)
ननु एतावता निश्चयारूढता निष्ठा, नतु प्रमातृसिद्धिरिति । आह य एव च इति । विमर्शः प्रकृतः स्वभावभूतो यस्य तादृक् यः प्रकाशः सम्बन्धी, यत्र सम्यक् बध्यन्तेऽर्थाः, स एव प्रमाता । यस्मादेव संवेदनमात्रातिरिक्तः प्रमाता सिद्ध्यति, तत एव स परोक्षरूपस्तावत् नोपपद्यते काणादवदिति प्रमेयान्तरं हेतौ समुच्चिनोति चकारः । ननु इयता तृणगतौ प्रकाशविमर्शौ स्तां नाम, प्रमातुः पुनः कथं प्रकाशविमर्शरूपतेति । आह तस्य च इति । तृणमिति यो विमर्शमयः प्रकाशः, स एव यदि प्रमेयशरीरनिष्ठितः; तत् ममेति प्रत्यवभासो न भवेदेव ।
स्वात्मन्येव हि तदा तृणं स्फुरेत् । नच एवं, ततस्तृणमिदमिति प्रकाशविमर्शौ तृणांशादुत्तीर्णौ संविद्भागमवलम्बेते । तयोश्च तत्रगयोः प्रकाशविमर्शनायोगे प्रकाशनविमर्शनापर्यवसाने वा पुनरपि न किञ्चिद्भवेत् । तेन तृणमिदमित्ययं विमर्शः स्वातन्त्र्ये विश्राम्यति यत्, तदहमित्युच्यते । यथोक्तम्
इदमित्यस्य विच्छिन्नविमर्शस्य कृतार्थता ।
या स्वस्वरूपे विश्रान्तिर्विमर्शः सोऽहमित्ययम् ॥
(अ। प्र। सि। १५ का।) इति । एतदुक्तं भवति-संवेदनमविमर्शरूपं तावत् न किञ्चित् ।
विमर्शमयतायां स्वातन्त्र्यं प्रमातृता स्वप्रकाशत्वमिति कथं संवेदनमात्रं तदाधारमात्रं निर्विमर्शसंवित्पुरुषरूपं वा सिद्ध्येदिति । यो हि अपर्यन्तप्रकाशविमर्शात्मा अहमिति वेद्यावभासभित्ति- भूतः, तस्य वेद्यतारूपेदन्ताभावात् देशकालभेदाभावे स्वरूपभेदा- भावे च एकत्वं व्यापित्वं नित्यत्वं न यत्नान्तरमवलम्बते ।
नीलसुखादिप्रमेयव्यवहारः प्रकाशविमर्शात्मकसिद्धिनिबन्धनभूत- प्रमात्रविनाभावी प्रमेयव्यवहारत्वात् । यः किल प्रकाशविमर्शात्मकसिद्ध्यधीनो
(पगे ५५)
न भवति, न असौ प्रमेयताव्यवहारो बीजाङ्कुरादीनामिव कार्यकारण- भावः । तेन उक्तरूपप्रमातृविरहेण भवनात् विपक्षात् प्रमेयव्यवहारस्- तद्व्यापकनियमवत्त्वविरुद्धानियमवत्त्वप्रसङ्गात् व्यावृत्तः प्रमातृविर- हाभवनेन व्याप्यते इति व्याप्तिसिद्धौ स्वभावहेतुः । पूर्ववत् इति । यथा विमर्शमयप्रकाशाननुग्रहात् पूर्वमसौ न सिद्धः, तथा तदनुग्रहेऽपि न सिद्ध एव भवेद्विशेषाभावात् । तेन हि तदानीमपि तस्य भावस्य प्रकट- तात्मकं रूपं जातं सर्वान्प्रति तथा प्रसङ्गात्; न कञ्चन प्रति वा । ननु एतावता स्वसंवेदनं तत्र प्रमाणं सिद्धिं वितरतीति । आह नच इति ।
प्रमेयत्वे हि स्वातन्त्र्यं विघटते तदैव तत्रैव स्वातन्त्र्यपारतन्त्र्ययोर्- विरोधात् । एवं प्रमेयं परतन्त्ररुपं विभिन्ने स्वतन्त्रे प्रमातरि विश्राम्यत् प्रमेयं भवति । नच नीलं स्वात्मनि प्रकाशविमर्शमये विश्रमयन् प्रमाता स्वात्मानं प्रकाशविमर्शान्तरे विश्रमयेदनवस्थानात् । नच प्रकाशविमर्शान्तरमपि अस्ति स्वरूपदेशकालभेदासम्भवात् । तदयं प्रमाता अनन्याधीनस्वाभाविक प्रकाशविमर्शमयः प्रमेयतां कथं यायात् । प्रमेये च प्रमाणचिन्ता । तदयं प्रयोगः-प्रमेयप्रतिष्ठानं यतः प्रमाता, ततः प्रमेयो न भवति । प्रमेयताया व्यापकं पारतन्त्र्यं, तद्विरुद्धेन च प्रमेयप्रतिष्ठानत्वं स्वातन्त्र्येण व्याप्तं पारतन्त्र्येऽनवस्थानात् प्रमेयप्रतिष्ठानायोगात् । तदियं व्यापकविरुद्धव्याप्तोपलब्धिः प्रमातरि प्रमेयतां निषेधति ।
स्वप्रकाशोचित एव परामर्शोऽहमिति उच्यते । ननु दृष्टः प्रमातरि प्रमेयताव्यवहार उपदेशादौ । न असौ प्रमातरि, अपितु नीलादिस्थानीये सृष्टे वस्त्वन्तरे एव । ननु च देशकालरहितत्वमविच्छिन्नावभासत्वयोगात् विच्छिद्यावभासनकृतपुनरर्थप्राणत्वनिषेधपर्यवसिता सकृद्विभातरू- पता प्रमातृत्वं च
(पगे ५६)
कथं सृष्टे सम्भवेत् । कथं च अतो वाक्यात् प्रमातरि आत्मनि प्रतिपत्तिर्भवेत् । सत्यमेवम्, किन्तु स्वप्रकाशस्वभावोऽनन्याधीनाहमितिविमर्शमयश्च प्रमाता । तत्स्वातन्त्र्यादुदितो यो मेयः, स तमेव मूलत्वेन अवलम्बमानो दृश्यविकल्प्यैकीकारन्यायेन विकल्परूपया सृष्ट्या तत्स्वप्रकाशरूपैकी- कारेणैव सृज्यते । तदेतदाह अपितु अहन्ताव्यवधानेन इति नतु न प्रकाशते ।
आत्मशब्दात् किञ्चित् नापि व्यतिरिक्तमेव प्रकाशते, अपितु आत्मैव ।
अहम्परामर्शसोपानव्यवधानेन तु यथा गुणः क्रिया शृङ्गार इति शब्दैः गुणाद्यर्थः गुणोऽयं क्रियेयमिति हि विकल्पयेत् सृष्टम् । शुक्लः पटः पचतीत्येतत् विकल्पारूढवस्तुपर्यवसानेन सृज्यते । यो हि परामर्शो यत्परामर्शान्तरं नियमेन मध्ये सोपानीकृत्य परामर्शनीयसमारोह- णेन कृतकृत्यतामेति, स तेन व्यवहित उच्यते । ननु समयशरणीकरणेन शब्दोऽर्थं ब्रूते । स च समयः सर्वत्र समानः, शब्दारूषितं च विकल्पकं विज्ञानमिति किं कस्य व्यवधायकम् । भवेदेवम्, यदि समयमुखप्रेक्ष्येव शब्दार्थव्यवहारो भवेत् । यावता संविद्रूपे प्राणितकल्पं यत् विमर्शरूपत्वं शब्दनात्मत्वम्, तत् तावदसाङ्केतिकमिति वितत्य वक्ष्यते । तत्सङ्केतानपेक्षसहजपरामर्शोचितं यदेतत् शब्दनं, तदेव सङ्केतकृतानां च शब्दान्तराणां च तदुपजीविनां च विकल्पान्त- राणां तद्विकल्पविकल्पनीयतया सृष्टानां च आभासान्तराणां भित्तिकल्पत्वेन निर्भासमानं व्यवधायकमिति अभिधीयते । तथाहि आत्मा पर इति सङ्केते स्वान्तःप्रवेशमिव बहिर्निर्गममिव दृष्टिवक्त्राङ्गुलीक्रिया- विशेषाभिर्भावकं परामृशन् स्वभावो भाति । तत्र च अहं हम् अम्हे हगे इति एषः एहो एसो इति च सोदराः सङ्केताः, आत्मा पर इत्यादयश्च
(पगे ५७)
तद्व्यवहिता इति युक्तम् । सङ्केतवदनावलोकनप्राणितमात्र-शब्दार्थव्यव- हारवादिनोऽपि लोकदृढनिरूढव्यवहारसिद्धसङ्केतकैरेव शब्दैस्तद्वि- कल्पैश्च व्यवहिता एव सामयिकप्रायाः सङ्केता भान्ति । पचति, शुक्लः पट इति लोकनिरूढशब्दव्यवहारोपरि पाकः पचनं क्रिया, वर्णो गुणो धर्म इति पार्षदप्रायसङ्केतोपजीवीनि शब्दान्तराणि । तत्रापि पर्षदोऽपि सङ्कोचासङ्कोचादिना भेदाः । तथाच
कृच्छ्रेणोरुयुगं व्यतीत्य———।
इति वक्त्रेन्दौ तव सति——————।
इति यत्त्वन्नेत्र———————।
इति अभिलाषसम्भोगविप्रलम्भभिन्ने काव्यरसे विभावानुभाव इत्यादि सामान्यलक्षणं रतिस्थायिभावप्रभव इत्यादि विशेषलक्षणम् । तावता शृङ्गारशब्दस्य अर्थसङ्केतनमिति लौकिकोदाहरणापेक्षिणि लक्षणवाक्यार्थे लोकनिरूढे पदवचनं पार्षदप्रायमिति सोदाहरणलक्षणवाक्यश्रवणप्रत्यये काव्यरसे शृङ्गारादिशब्दो निवेशितोऽपि तादृग्वाक्योचितपरामर्शव्यवहितामिव प्रतीतिं जिजनयिषुरपि नियतं किञ्चिद्वाक्यं लौकिकमनुस्मारयितुं सामर्थ्यमलभमानः सर्वापणस्वायत्तताप्रथनन्यायेन प्रधानब्रह्मभावापन्नभावन्याये- न च विशेषोल्लेखसाध्यास्वादाद्यर्थक्रियायोग्यपरामर्शसम्पादना- समर्थत्वात् साक्षादवाचक एव । यत्र तु परामर्शनीयनिष्ठविशिष्टरूप- तास्थगनमेव परामर्शौचित्यस्य जीवितम्, तत्र समस्तभावनिर्भरात्मक- संविन्मयपरमेश्वरपरामर्शादौ वाक्यार्थे
(पगे ५८)
पदवचनं वर्णवचनं तदंशांशवचनमिति वा न्यायेन प्रणवादिबीजपिण्डतदंशगतमेव प्रत्युत मुख्यं वाचकत्वम् । यथाह गुरुः ।
तस्य वाचकः प्रणवः । (यो। सू। १ । २७)
इति । तदलमवान्तरेण बहुना । स्थितमेतत्-गुणक्रियाजातिशब्देभ्यो व्यवधानेन अर्थप्रत्यय इति । स्मरणेऽपि न अर्थस्य अपूर्वः प्रकाशः, अपितु पूर्वप्रकाशस्यैव उन्मीलनमिव । पूर्वप्रकाशश्च असावनुभव इति स्मृतावपि अर्थः अनुभवव्यवधानेन भाति, न साक्षात् । तथैव इदन्तापरामृश्यो न साक्षात् प्रमातेति साक्षात् प्रमातरि प्रमेयरूपता निषिध्यते । इदन्तानिर्देश्यो न प्रमाताप्रमेयत्वादिति प्रमातृत्वव्यापकस्य स्वातन्त्र्यस्य विरुद्धेन पारतन्त्र्येण व्याप्तं प्रमेयत्वमुपलभ्यमानं प्रमातृनिषेधव्यव-हारं करोतीति व्यापकविरुद्धव्याप्तोपलब्धिः । ततश्च न स्वसंवेदनं प्रमाणं प्रमेयशून्यत्वात्, प्रामाण्यव्यापकस्य प्रमेयवत्त्वस्य विरुद्धं तच्छून्यत्वमिति व्यापकविरुद्धोपलब्धिः । ननु न कर्तृकर्मभावो वास्तवः । ततः किम् । ततः संविदः प्रकाशतैव प्रमेयता घटवत् । प्रमातृता च सैव घटसंवेदनवदिति को विरोधः । तत्र आह एवमपि इति । रूपद्वितयासिद्धौ शब्दद्वयमात्रमेतावता सिद्ध्येत्, न वस्तु किञ्चित् । नहि प्रकाशमनतैव प्रमेयत्वम्, अपितु अन्याधीनसिद्धिकत्वमिति स्वाधीनसिद्धिकं कथं प्रमेयं स्यात्, उपचारात् तु प्रमेयत्वं भवेत् ।
अपूर्वं हि प्रकाशमानं प्रमेयं दृष्टमिति अपूर्वतात्कालिकप्रकाश- मानतासाम्यात् प्रमेयत्वमारोपितं भवेत् । प्रमेयत्वारोपणे च प्रमाणतापि आरोपितैव, न मुख्या । यद्यपि उपचरितोऽपि अयं प्रकारः उपचारबीजस्य धर्मभेदस्य निमित्तप्रयोजनरूपस्य अभावेन निराकरिष्यते नापि प्रकाशात्मत्वात् इति, तथापि इयत् तावत्
(पगे ५९)
परः प्रतिपद्यतामिति विवेकावतरणाय मुख्यत्वनिषेधं तावत् करोति ।
तथाहि एकसामग्र्यधीनतया वा जनकत्वेन वा आकारार्पकभावेन वा यतो मुख्यं प्रमेयत्वम् । अत्र च क्रमादनेन अस्य अस्मिन्निति अवश्यमन्यापेक्षा ।
विज्ञानदर्शनेऽपि
यदाभासं प्रमेयं तत्————।
इति स्थित्या व्यावृत्तिभेदोऽपेक्षणीयः । सच नीलबोधे नीलभागं बहीरूप- मिव बोधांशमन्तर्मुखं च स्वीकुर्वाणया कल्पनया उल्लिख्यते ।
सुखबोधेऽपि साततासंवेदनताभ्यां स्यादपि व्यावृत्तिभेदः, नतु संवेदनांशे कथञ्चिदपि अयं पन्थाः समर्थनार्ह इति औपचारिकं प्रमेयत्वम् । एवं संवेदनस्य प्रमामङ्गीकृत्य प्रमेयता मुख्या न युक्तेत्यपि उपपादितम् । अधुना तु प्रमैव अस्य सिद्ध्यपरपर्याया न युक्तेति उपपाद्यते-सा हि इति सिद्धिः । नीलसुखादेर्हि वास्तवी वा व्यावृत्तिसमुल्लिखिता वा विदूरतानवधानादिदशायां तस्यैव असिद्धस्य अन्यथासिद्धिः प्रमारूपा रूपान्तरमुच्यताम् । सा च न स्वात्मनि विश्रान्ता युक्ता ।
पूर्वमपि स्वात्मनस्तथात्वेऽधुनैव सिद्धिरिति हि न स्यात् । ततश्च स्वात्माव्यतिरिक्ते प्रकाशरूपे संविदात्मत्वेन अजडत्वादनन्योन्मुखे स्वच्छतया अन्याकारधारिणि वासनावासितत्वेन अन्याकारनिर्भासवति वा भवन्ती सिद्धिः अन्यापेक्षैव प्रमेयत्ववदेव । सा हि इति सिद्धिः । परम् इति स्वात्मव्यतिरिक्तम् । आभासशब्दो वैभाषिकवैशेषिकपारमर्षसौत्रान्तिकयो- गाचारविज्ञाननयेषु साधारणष्टीकाकृता यथायोगं तदौन्मुख्यतत्प्रकाशतत्प्रतिबिम्बतदुल्लेखेषु प्रयुक्तः । स्वात्मा इति संवेदनम् । असिद्धस्य इति नीलादेर्हि असिद्धत्वमपि अस्तीति नीलादिरूपाधिका सिद्धिरुच्यतां कामम्, संवेदनस्य तु तद्रूपातिरिक्तं
(पगे ६०)
न किञ्चित् सिद्धत्वं लभ्यते इति संवेदनं स्वसंवेदनसिद्धमिति परं शब्दसुभिक्षं न अर्थसम्पदं व्यतिरेचयति । अस्तु तर्हि नीलवदेव अप्रकाशमान्ता बोधस्येति लब्धान्तरं वैशेषिकं प्रबोधयति तस्यापि इति ।
बोधो यत्र बोधान्तरे विश्रान्त्या सिद्ध्यति, तत् चेत् न सिद्धम्; तर्हि वेद्यविश्रान्तस्य धर्मस्य प्रकाशमानत्वाभिधानस्य अभावे तदपि बोधान्तरं यदि न प्रकाशते, तदा न विषयः, नेन्द्रियम्, न मनः, न आत्मा, न बोधः प्रकाशते इति महान् मोहो हन्त जगद्व्यवस्थायाः ।
बोधान्तरकल्पनायां च अनिष्ठात इयमेव वार्ता । ननु अस्ति अर्थेन्द्रियादि चेत्, जायते ज्ञानमात्मनि; ततोऽपीच्छा; ततः प्रयत्नः; ततोऽपि देहक्रिया; ततः संयोगः; ततः सुखमिति इयती जगद्यात्रा । किमस्याः त्रुट्यति स्वात्मप्रकाशत्वाभावे संवेदनस्य । न न बोध्यते नैयायिकग्रामणिम्मन्यः । बीजम्, अङ्कुरः, काण्डः, पलाशः, पुष्पं, फलानीति यः कार्यक्रमः, यश्च अयं भवदुक्तः, एतयोरपि विशेषे एकत्र जाड्यमपरत्र च अजाड्यमिति कुतः । ज्ञानमेव अजाड्यमिति चेत्, बीजमेव अजाड्यमित्यपि किं न भवेत् परनिष्ठत्वाभावे प्रकाशमानताभावे च यस्य कस्यचित् विशेषस्य असत्समत्वादिति । ननु एवं किम् ।
संवेदनमप्रमाणकमेव अस्तु । प्रमेयस्य प्रमेयान्तरं विना किं दुष्यति, संवेदनस्यापि प्रमाणेन विना किं व्यसनमासीदति व्यसनमात्रमत्र प्रमाणसमर्थनम् । प्रकाशमानतैकात्मकं हि तदिति तावतैव सर्वमिष्टं लब्धम् । संवेदनं न प्रमा प्रमेयत्वव्यवहारपदमितरानपेक्षत्वात् । तद्व्यवहारपदत्वं हि इतरापेक्षया विनापि यदि भवेत्, तत् भूम्यन्तर्गतेऽपि घटे स्यात् । न च एवमिति दृश्यानुपलम्भात् तत्तथा कृतमिति निश्चिते कारणविरुद्धोपलब्धिरेषा । ननु स्वात्मना सिद्धा भावा इति
(पगे ६१)
कथमेष व्यवहारः स्यादिति पराशङ्कां शमयति केवलम् इति । यथा बीजं बीजात्मना सिद्धं निष्पन्नं स्वात्मनि, तथा प्रमाता स्वसंवेदनात्मना निष्पन्नः स्वात्मनीत्यपि स्यात् यदि अनित्यो भवेत् । नित्यश्च असौ देशकालस्वरूपभेदाभावस्य उक्तत्वात् वक्ष्यमाणत्वाच्च । ननु त्वत्पक्षे नित्यः प्रमाता, सौगतस्य तु न तथेति तस्य तावत् संवेदनेषु असंवेदनसिद्धताव्यवहारो न अयुक्तः । नेत्याह न च तथा इति । तथेति तेन उत्पत्तिप्रकारेण सिद्धिः स्वात्मनि संवेदनात्मना निष्पत्तिरित्येवं या स्वसंवेदनसिद्धिः, सा तस्य संवेदनस्य स्वरूपमुक्तं भवेत्; नतु प्रमेयताप्रेमेय इति व्यवहारः, प्रमासम्बन्धश्च तया सिध्यति । प्रमेयता हि न कार्यता, अपि तु ज्ञाप्यता । सा च नास्ति । ततश्च स्वसंवेदनेन प्रमाणेन संवेदनं भातीति यत् परेण उक्तं, तदपसारितमेव भवति । यदि वा तथा सिद्धिर्या सा स्वसंवेदनसिद्धिरेव नोच्यते या प्रमेयतायाः प्रयोजिका । ननु बौद्धस्य मते मा भूत् संविदात्मनि प्रमेयत्वम्, तदविनाभूतं च मा भूत् मुख्यं प्रमाणत्वं वस्त्वन्तरस्य तत्प्रतिष्ठापदस्य असम्भवे प्रमाणत्वप्रमेयत्वधर्मद्वयकल्पनाबीजस्य व्यावृत्तिद्वयस्य प्रकाशैक- रूपे कल्पयितुमशक्त्यत्वात् । ईश्वरात्मवादिनस्तु मायाप्रमातृन् परमार्थ- प्रमातारं च भेदेन अङ्गीकुर्वतः संवेदनमपि शून्ये यदिदं भाति तद्व्यतिरिक्तं यत् तदहमिति प्रसङ्ख्यानवतां प्रमातृभावेन निर्भास- माने वा प्राणे क्षुधितोऽहमिति आत्मतया सम्मते वा आदिग्रहणात् बुद्धौ सुख्यहमित्यादौ गृहीतृत्वेन निर्भासिष्यते इत्याशङ्कां परास्यति । यथाहि शरीरं जडरूपं वेद्यप्रतिष्ठास्थानतया न आशङ्कनीयम्, तथा शून्यादिकमपि यत् वेद्यं, तत् न प्रमेयप्रतिष्ठास्थानम् । यथा शरीरं, तथा च शून्यादि । प्रतिष्ठास्थानत्वं हि
(पगे ६२)
जडेभ्यो व्यापकस्य कचिदेव उपलम्भ इत्येवंरूपस्य नियमस्य अनुपलम्भात् प्रसज्यमानात् हेतोर्व्यावर्तते इति अजडत्वेन व्याप्यते । तद्विरुद्धं च वेद्यत्वमिति व्यापकविरुद्धोपलब्धिः । तेन संविदेव सर्वत्र प्रतिष्ठास्थानम् । सा परं शून्यादौ मायाशक्त्या समारोप्यते इति सङ्कुचिता उच्यते । यदजडप्रमातृसिद्धिः
यद्यप्यर्थस्थितिः प्राणपुर्यष्टकनियन्त्रिते ।
जीवे निरुद्धा तत्रापि परमात्मनि सा स्थिता ॥
तदात्मनैव तस्य स्यात्कथं प्राणेन यन्त्रणा । (२१)
इति, तथा
नार्थव्यवस्था प्राणादावहम्भावनिरोधतः ।
प्रकाशस्यात्मविश्रान्तिरहम्भावो हि कीर्तितः ॥ (२२)
इति । तस्यैव इति शून्यादेः । तम् इति प्रकाशम् । प्रमाणविषयता इति प्रमाणता, विषयता च । प्रकाशात्मत्वात् इति औपचारिकत्वस्य पूर्वमभ्युपगतस्य निषेधहेतुः । धर्मान्तराभावे हि यदेकमेव भूयोभिः स्वभावैरुपचर्यते, तत्र निमित्तभेदे प्रयोजनभेदे च असम्भवति शब्दगडुमात्रमुपचारो जायते । स्वात्मनि अहं चक्रवर्ती दासश्चेत्यपि हि विरुद्धरूपोपचरणेऽपरायत्तत्वोपकरणत्वधर्मद्वययोगो निमित्तमदी- नत्वपूर्णत्वप्रभृत्यभिमानाभावानन्योन्मुखत्वाभावप्रभृति च प्रयोजनं भिन्नमस्त्येव, नतु एवं प्रकाशैकरूपे संवेदने धर्मान्तरमस्ति । उक्तनीत्या च प्रमातृप्रमाणप्रमेयतानामुपचारे विकीर्षितेऽन्ततो धर्मषट्कमुपयोगि । अथ स्वात्मप्रतिष्ठं नभः इति न्यायेन स्वसंवेदनसिद्धिमिति भङ्ग्या संवेदनमनुपयुज्यमानानुपपद्यमान- प्रमाणमिति उच्यते । तदियमस्मद्दृष्टिः । तथा च
(पगे ६३)
चतुर्विधं प्रत्यक्षमिति स्वसंवेदनस्य प्रमाणभेदगणनानुपपत्तिः ।
प्रमाणाविषयत्वम् इति । विषयत्वाभावोपसंहारे प्रमातृत्वप्रमाणत्वा- भावोऽपि उपसंहृतो मन्तव्यः । सौगतस्य तु स्यादपि उपचारबीजं प्रमेयतायां पूर्वानधिगतत्वमपूर्वत्वं च तत्कालोचितस्य संवेदनस्य ।
सति च प्रमेयतोपचारबीजे प्रकाशात्मत्वात् प्रमाणत्वमपि उपचर्यते अन्यानपेक्षतां प्रतिपादयितुम् । एतदपितु न कथञ्चिदपि अस्मन्मते इति दर्शयति अपूर्वरूपत्वाभावात् इति । प्रमाणाविषयत्वमिति वा पाठे नापि प्रमाणविषयत्वमिति सम्बन्धः । कथं तत् प्रमाणविषयत्वं शङ्क्यते इति । आह प्रकाशात्मत्वात् निमित्तादेकस्यापि त्रित्वम् इति । विषयत्वमपूर्व- तायां घटेत विषयत्वे च प्रमाणत्वमिति । एतद्वितनोति अनधिगत इति अनधि- गतविषयमिति विषयमुखेन, अज्ञात इति विषयनिष्ठप्रकाशात्मकस्वरूप- मुखेन दिङ्गागीयं लक्षणद्वयम् । प्राथम्येदन्ताभ्यां विषयपुरः- सरीकारेण स्वरूपं, संशयविपर्ययत्वाभावौ, तत्र निदानं स्वतःप्रमाणतेति क्रमेण विशेषणपञ्चकस्य तात्पर्यं मीमांसकलक्षणे । ननु आत्मनो यद्यपि नित्यत्वादपूर्वत्वं नास्ति प्रमेय- त्वोपचारनिदानं, तथापि पूर्वानधिगतत्वं भविष्यतीति । आह आत्मनश्च इति । स्वग्रहणं परप्रमातरि अस्तु पूर्वानधिगतत्वं तावदितिकर्तव्यमपि न कृतं स्वपरविभागस्य इह दर्शनेऽतात्त्विकत्वात् । संवेदनं हि एकमेव परमार्थतः । कल्पितशून्यप्राणशरीरादिमायाप्रमातृविषयतया तु स्वपरव्यवहार इति हि पुरस्तादबिधास्यते । तत आत्मन इति सामान्योक्तिरेव युक्ता । अपूर्वप्रकाशोऽयमिति निश्चयस्य कारणभूतः पूर्वं नायं घटः प्रकाशितः इति निश्चयः । तस्य व्यापकं तद्धटप्रकाशरहितया- दृशतादृशप्राय-
(पगे ६४)
वस्तुरूपस्य पूर्वकालस्य स्मरणम् । तदभावे पूर्वमिति, न प्रकाशित इति च भूतकालप्रतीत्यभावादनुपपदमेव स्यात् । घटप्रकाशशून्यकालानु- भवश्च तत्स्मरणस्य कारणमिति तावदुत्तरोऽयं प्रबन्धो न भवेत् ।
तत्सद्भावेऽपि अपूर्वप्रकाशोऽयमनुभव इति कथम् । ततश्च अपूर्वप्रकाशोऽहमनुभविता, अधुना प्रकाशे, पूर्वं न प्राकाशिषीति संवेदनाक्षिप्तेन पूर्वकालस्मरणेन तत्कालानुभव आक्षिप्यमाणोऽनुभवितुरपूर्वसत्तामपूर्वप्रकाशतां च अपबाधते ।
रामावतरणकाले नाहमभूवमित्यपि हि तस्य कालस्य अनुभवो वक्तव्यः ।
आगमात् तत्कालज्ञानमिति चेत्, आगमोऽपि वक्तुरनुभवितुरनुभवमाक्षिपति ।
तदनुभवित्रा तावद्भाव्यमिति । ननु वाल्मीकिस्तावता अनुभविता सिद्धः, न अस्मादादिः । स्थाने प्रश्नः, किन्तु संवेदनात्मनोऽहंविमर्शस्य तावदियता सद्भावः सदातनः सिद्धः । सच एक एव परमार्थप्रमाता यदि परप्राणबुद्धिपुर्यष्टकशरीरादयो भिन्नाः, तद्भेदकृतश्च प्रमातृभेदव्यवहार इति तत् शरीरादि अद्यतनं तस्मिन् काले नाभूदित्येतदत्र तत्त्वम् । प्रलयकाले सृष्टिमुखारम्भे च न वयं वभूविमेति, अन्यथा कालविशेषोल्लेखो न स्यात् । वयं न वभूविमेत्यपि अत्र प्रतीतौ लिट्प्रत्ययान्तर्नीतभूतकालावभास उन्मिषत्येव । नहि इयं न प्रतीतिः ।
प्रतीतिश्च न अनुभवरूपा इयं तथात्वे योगिन इव इदानीं पूर्वकालविषयस्फुटताप्रत्यवभासप्रसङ्गात् । तदियं स्मृतिरेव भवन्ती पूर्वानुभवमाक्षिपत्येव । उत्प्रेक्षापि भवन्ती स्मरणमनुभवं वा मूलतोऽवलम्बते, नतु अन्धतमसानुप्रवेश इव उत्प्रेक्षा सम्भवेत् । केवलं शुद्धसंवेदनमात्रस्य कालोपरागशून्यतया स्वरूपव्यतिरेकिवस्त्ववभासासम्भवेन च तदुभयानुप्राणितरूपा स्मृतिर्न सम्भवतीति शरीराद्युपरागत एव सेति । प्राच्यशरीरोपरागश्च
(पगे ६५)
एतच्छरीरोपरागविभिन्न इत्येवमुपरागद्वयस्फुटीकारायोगात् न स्फुटं स्मृतित्वमतिशिशुतापदानभूते इव यूनः । अनुभवितृत्वेन हि यत्र अभिमानो गाढः शरीरे, तत्रैव ऐक्यसंस्काराभ्रंशादनुवर्तमानत्वेन अभिमन्यमाने स्फुटस्मर्तृत्वाभिमान इति अलं बहुना । स्थितमेतत्-न आत्मनोऽपूर्वतया प्रकाश इति । अपूर्वत्वम् इति सत्तया ।
अपूर्वप्रकाशत्वम् इति अधिगमेन । अत्र च चार्थो मन्तव्यः । अत एव विभजति- नच आत्मनः पूर्वमसत्ता, नच सतोऽपि अनुभवः इति । वस्तुतस्तु सत्तापि प्रकाशविश्रान्तैवेति सत्तापूर्व्यं प्रकाशापूर्वतायामेव विश्राम्यति,- इत्याशयेन सामानाधिकरण्यमेव युक्तम् । प्रतिपद्यताम् इति चकारो न प्रयुक्तः । प्रमातृगतोऽपूर्वप्रकाशत्वव्यवहारः प्राक् प्रमातुरसद्भावे न भवति प्रमातृप्रमायत्तपूर्वकालस्मरणापेक्षत्वात् । तदसद्भावे भवनस्य व्यापकं तदायत्तरूपानपेक्षत्वं पटस्य इव मृत्पिण्डाभावे ।
तद्विरुद्धं च तदा यत्तरूपापेक्षत्वमिति व्यापकविरुद्धोपलब्धिः । तर्हि अयं प्रमातृसद्भाव एव प्रमातुरपूर्वप्रकाशत्वव्यवहारः इत्यस्तु ।
एतदपि कथम् । नहि स एव पूर्वं प्रकाशते, अधुना च अपूर्वप्रकाश इति सङ्गच्छते विरोधात् । तदयं भिन्नविषयतया विरोधः परिहर्तव्यः ।
आरोपितप्रकाशभावो देहादिरपूर्वप्रकाशः सति एव पुराणप्रकाशे परमार्थप्रमातरि व्यवहर्तुं शक्यः । परमार्थप्रमाता तु परमेश्वरो न कथञ्चिदपूर्वप्रकाशः, तदविभिन्नाश्च सर्वे प्रमातारः,-इति वस्तुतो न अपूर्वप्रकाशता । यद्गीतं
नह्येवाहं जातु नासं———।
इति उक्त्वा,
——————-नेमे नराधिपाः ।
न चैव न भविष्यामः————। (२ । १२)
(पगे ६६)
इति । अनेन हि आत्मनि परमार्थप्रमातरि कालत्रयाविच्छिन्नप्रकाशत्वमुक्त्वा तदभेदादन्येषामपि उक्तम् । मायाप्रमातरि अपूर्वप्रकाशता भवन्ती अपि न प्रकाशांशमाश्लिष्यति, अपितु वेद्यांशमेव इदम्भावभागिनमिति हि अस्य ग्रन्थस्य तात्पर्यार्थः । स एव इति एवकारेण परमार्थप्रमातुरभेद- माह । अवान्तरप्रमेयमुपसंहरति तस्मात् इति । आत्मनः इति । बौद्धन्यायेन तु संवेदनस्य अपूर्वप्रकाशत्वात् भवेदौपचारिकी प्रमेयता, यतः स्वसंवेदनं प्रमाणमिति उच्यते इत्याशयः । औपचारिकमपि प्रमाणविषयत्वं न उपपद्यते इति अवान्तरप्रमेयमुपसंहृत्य, प्रकृतं प्रमेयत्वाभावलक्षणं महाप्रमेयमुपसंहरति तदेवम् इति । तस्मात् युक्तिकलापादेवम्भूते सदाप्रकाशत्वमात्मनः इति प्रमेयवस्तुनि स्थिते इत्यर्थः । ननु आत्मगतनित्यतादिविचारेऽवश्यमात्मा प्रमेय एवेत्याशङ्क्य आह वैकल्पिक इति । तत्रापि विचारयिता पूर्वसिद्ध एव अन्यथा विचारायोगादित्येवमात्मा विचार्थमाणोऽपि स्वशिरश्छायाम् इव प्रमाण- पदाक्रमणात् दूरमपक्रामति । केवलं
स्वातन्त्र्यामुक्तमात्मानं———। (१ । ४७)
इति भाविनयेन तत्र प्रमेयभूतोऽत्यक्तप्रमातृरूपभित्तितादात्म्यः सृज्यते इति प्रमेयत्वं तत्र प्रमातृतायां विश्राम्यति तस्या एव तथा हृदयङ्गमीकरणेन व्यवहार्यत्वात् । यस्य प्रकाशितस्य हृदयङ्गमी- करणाय यत् विरुद्धमुपादीयते, तत्र तत् विरुद्धं न प्रतिष्ठां लभते प्रत्यक्षदृष्टे इव घटेऽनुमेयत्वम् । तथाच प्रमातृताहृदयङ्गमीकर- णाय प्रमेयता वैकल्पिकी प्रतिष्ठालाभे कारणम् । तद्दीयमानापूर्व- प्रकाशत्वं पर्वत इव अग्न्यनुमेयत्वस्य, तद्विरुद्धं च पूर्वप्रकाशत्वमिति कारणविरुद्धोपलब्धिः । तुरपिशब्दानन्तरमेवं
(पगे ६७)
विचारकालो यद्यपि अस्ति, तथापि शुद्धात् प्रमेयत्वात् विशुद्धाच्च प्रमातृत्वादेष विशेषः-इति द्योतयति । विशुद्धं हि प्रमेयत्वं घटस्यैव अनुमेयत्वमिव अग्नेः । विशुद्धं तु प्रमातृत्वं घटे प्रमेये अहम्भावस्य अमूढं प्रति प्रत्यक्षत्वमिव घटस्य । इदं तु मिश्रं प्रमातृप्रमेयरूपत्वम् । प्रमातृताप्रधानं तु मूढं प्रति घटस्य प्रत्यक्षत्वानुमेयत्वं प्रत्यक्षत्वप्रधानमिव । साक्षात्काराच्च असाक्षात्करणरूपमनुमानं विरुद्धमपि तं व्यवहारयत्येव तन्निष्ठत्वात् । अहं गौर इति अहम्भावात् विरुद्धमपि दर्पणे अयं गौर इति इदन्ताज्ञानमिव तत् । तन्निष्ठत्वमपि यदि व्यवहारयेत्, न क्वचिदपि व्यवहारकत्वं स्यात् ; इष्टं च तदिति तावन्मात्रनिमित्तत्वस्य व्यापकस्य प्रत्यक्षविरोधभयेन अवश्याङ्गीकार्यस्य अनुपलब्धिप्रसङ्गात् तन्निष्ठत्वमव्यवहारकत्वात् विपक्षादपसृतं साध्येन व्यवहारकत्वेन व्याप्यते इति व्याप्तिसिद्धौ स्वभावहेतुः । एवम् आदिसिद्धे इति सौत्रपदपर्यायं पूर्वसिद्धस्य इति व्याख्याय, क्रोडीकृतसिद्धिकत्वं यदुक्तं वृत्तावादिसिद्धत्वस्फुटीकरणाभिप्रायेण, तदधुना स्फुटीभूतमिति वितत्य वक्तुमुपक्रमते एवम् इति । एतावति प्रमेये स्थिते यावत्तावच्छब्दाववश्यम्भावद्योतकौ, अत एव कर्तुरनुपादानम् । तस्य सिद्धिक्रोडीकारो हि अविधित्सितः । अवश्यं हि प्रमीयते तावत् किञ्चित्, इयता च सर्वं सिद्धमिति प्रमाणविषयं प्रमेयं भूता प्राप्ता प्रमेयोचिता तस्य प्रमातुर्या सिद्धिः । तं प्रति इति प्रमातारं प्रति । प्रमेयवस्तु इति वस्तुग्रहणं मात्रपर्यायः । अत एव इति यतस्तृणमात्रमपि तत्र विश्रान्तं प्रमेयं भवति, ततो हेतोः । तेन प्रमात्रा स्वात्मनो निजस्य रूपत्य सिद्धिः प्रकाशः प्रमेयसिद्ध्यैव क्रोडीकृता क्रोडोपलक्षितहृदयरूपतां गता कृता हृदयङ्गमीकृतेर्थः ।
(पगे ६८)
उक्ता इति वृत्तौ । प्रकाशरूपता खलु अनवच्छिन्ना प्रमातृगता प्रमेयत्वं कथं सहताम्, अनवच्छिन्नापि हि सा न प्रमेयतासहिष्णुरिति दर्शयति आस्तां तावत् इति । दण्डापूपीयन्यायेन अयत्नसाध्यमिदमिति यावत् । ननु चक्षुरादि प्रमाणम्, तच्च अनुमानाद्यपेक्षमिति । आह प्रमितिसाधकतमताम् इति न तत्प्रमाणमित्याशयः । प्रकृतस्य प्रमातुं प्रारब्धस्य प्रमेयस्य हेयोपादेयात्मनः सिद्धिर्न स्यात् । अत एव इति यतः प्रमाणे प्रमाणान्तरापेक्षिणि जडेऽनवस्था, ततः । कयाचित् इति विषयोपरागदत्तेन देशकालसङ्कोचेन । नीलप्रकाशो हि मितविषयबहिर्मुखतासङ्कुचिततरवृत्तिः परमार्थप्रकाशविश्रान्ते बुद्धिप्राणादिसङ्कोचभाजनेऽपि अन्तर्मुखमात्रसङ्कोचयोगादुभयतोमुखसङ्कोचनीलप्रकाशापेक्षया वितते अत एव सर्वविषयावभासनयोग्यताजुषि प्रत्यगात्मनि ममेति सत्त्वेन अवभासमानतया विश्रान्तिमत्यजन् निजस्फुरितशब्दनात्मविमर्शफलो नीले बहिः सर्वसाधारणाभासे प्रमेये प्रमाणमिति वक्ष्यते
इदमेतादृगित्येवं———। (२ । १६)
इत्यत्र । ननु अनिर्भासमानमेव चक्षुरादि प्रमाणं भविष्यति, तत् कथमनवस्था यद्भयात् न जडस्य प्रमाणत्वमित्याशङ्क्य आह नहि कारणमात्रम् इति कारणविशेषः करणमिति मात्रशब्दः, येन इति कारणमात्रं करणमित्यतो हेतोरित्यर्थः, तथा इति करणम्, अपितु प्रकृष्टोपकारकत्वं करणता । तच्च कर्त्रा व्यापार्यमाणतैव, न अन्यत् ।
ततः किमिति । आह कर्ता च इति । वक्ष्यमाणनीत्या इति
इत्थं तथा घटपटाद्याभासजगदात्मना ।
तिष्ठासोरेवमिच्छैव हेतुता कर्तृता क्रिया ॥ (२ । ५३)
(पगे ६९)
इति हि वक्ष्यते । ततोऽपि प्रकृते किमिति । आह सच इति चेतनो यावत् क्रियायामुपयोगि सञ्चेतितं, तावत् प्रयुङ्क्ते; नतु अप्रकाशमानमिति सम्बन्धः । जडं न चेतनः प्रयुङ्क्ते अप्रकाशमानत्वादिति कारणविरुद्धोपलब्धिः ।
प्रकाशमानता हि प्रयोगे कारणं तदभावे प्रयोगस्य अभावात् । तमेव दर्शयति अन्यथा इति । तेन अत्यन्तपरोक्षाणां मनोऽक्षदिक्कालाकाशादीनां सामग्रीप्रामाण्यवाददृशि कर्तृप्रयोज्यत्वं तावत् न उपपन्नम् । ननु स्पर्शविशेषादिना नेत्रगोलकमुपलभ्य उन्मेषयति, सैव अस्य प्रयोज्यता, ततो नीलदर्शनमिति जडस्य अप्रकाशमानत्वमसिद्धमित्याशङ्क्य तामेव अनवस्थां स्मारयितुमाह तस्यापि इति । स्पर्शविशेषोऽपि स्पर्शनेन ज्ञातव्यः, तदपि अन्येन जडेनेति अनिष्ठा । ननु स स्पर्शः स्पर्शज्ञानेन ज्ञापयिष्यते, तच्च स्वसंवेदनसिद्धमिति का अनवस्थेति । आह पर्यन्तेन इति प्रकाशलक्षणम् इति । नीले नीलप्रकाश एव करणं युक्तं स्पर्शे इव स्पर्शप्रकाशः । ननु पर्यन्तावलम्बनं प्रथमत एव कर्तव्यमिति कोऽयं नियम इति । आह वास्यादि इति । तथाहि च्छेदने दात्रं करणं, तत्प्रेरणे हस्तः, तत्प्रेरणे इच्छा, तस्यां स्वसंवेदनं पर्यन्तकरणम् । नच इयता च्छेदनमेव इच्छाकरणकं दण्डोपादित्सया दण्डमिति नीत्या भवितुमर्हति । सत्यम्, बहिर्निष्ठायां क्रियायामेवमुपपद्यते । छेदनं हि काष्ठनिष्ठद्विधाभावफलं, नीलवेदनं तु प्रमातृविश्रान्तनीलविमर्शफलं यथा हस्तप्रेरणे इच्छा । तत्र न बाह्यं करणं दूरवृत्ति युज्यते । ननु दूरवृत्तिता कुत्र अपराध्यतीत्याशङ्क्य आह तद्विनियोगात् इति । इन्द्रियविनियोगात् पूर्वमेव घटविमर्शक्रिया प्रमितिरूपा निष्पन्नेति अस्यामुत्तरकालभाविप्रयोज्यताकमिन्द्रियं कथं करणम् । ननु इन्द्रियप्रयोगानन्तरं
(पगे ७०)
सा उदेतीत्याशङ्क्य आह घटप्रमिति इति । घटविमर्शो भवतादिति हि गृहीत्वा इन्द्रियं व्यापारयेत्, अन्यथा नियतमिन्द्रियं नियते देशे काले च कथं व्यापारयेदिति । एवं घटविमर्शश्चेदभिसंहितः, विस्पष्टो घटः प्रकाशितश्च घटः; अन्यथा पटप्रमित्यभिसन्धानं किं तत् न भवेत् । तेन घटविमर्शस्तदभिसन्धानबलात् चेत् स्फुरितः, तदन्यथानुपपत्त्या पारम्पर्येण घटोऽपि स्फुरितः । घटस्फुरणमेव घटप्रमितिरिति तात्पर्यम् । यत् यद्विनियोगात् पूर्वमेव भाति, न तत् तत्कार्यं बीजमिव नाङ्कुरकार्यम् ।
इन्द्रियविनियोगाच्च पूर्वमेव घटस्फुरणमिति । तत्कार्यताव्यापकं हि तत्पश्चाद्भावित्वं, तद्विरूधं च तत्पूर्वभावित्वमिति व्यापकविरुद्धोपलब्धिः । ननु घटमात्रस्फुरणं सत्यमादावस्ति, नतु तावन्मात्रमेव घटप्रमा विवक्षिता, अपितु सजातीयविजातीयव्यावृत्तिस्वल- क्षणस्फुरणम् । तच्च इन्द्रियविनियोगस्य पश्चादेव । एतदेव आह अथ घट इति ।
चो हेतौ । यत इन्द्रियस्य कर्त्रा नियोजनं, ततः कर्तृप्रयोज्यतालक्षणं करणत्वमुपपन्नमिति । एतत्परिहरति तत् इति कर्तृप्रयोज्यत्वम् । नहि परोक्षमप्रकाशमानं चेतनप्रयुक्तमिति युक्तम् । ननु मा भूत् कर्तृप्रयोज्यत्वं करणलक्षणम् । तत् हि न सर्वत्र निर्वहति शुभेन कर्मणा शुभं भुञ्जे, मूलैस्तरुस्तिष्ठतीत्यादौ तदसम्भवात् । क्रियायां प्रकृष्टोपकारकमिति तु करणलक्षणं युक्तमव्याप्तिदोषशून्यत्वादित्या- शङ्क्य आह नापि इति । प्रकर्षो हि इयान् सम्भाव्यते-तस्मिन् सति स एव भाति, तस्मिन् सति स भात्येव, तस्मिन्नेव सति भातीति । तत्र आद्यं प्रकर्षं निराकरोति नापि इति । तस्य इन्द्रियस्य । नतु महत्त्वानेकद्रव्यत्वरूपवत्त्वादिधर्म- पदार्थापेक्षया प्रथमः प्रकर्षो भविष्यतीत्याशङ्कापूर्वकमपाकरोति पदार्थ
(पगे ७१)
इति । अर्थिनाम् इति विशेष्यसाध्यार्थक्रियया । त्वयापि हि वयमिदमेव पूर्वं पर्यनुयुक्ताः अथ घटाभिसन्धानेऽपि इत्यादिनेति अत्र आशयशेषः । ननु पदार्थमात्रमपि अस्तित्वमात्रसाध्यहृद्भङ्गपरिहाराद्यर्थक्रियार्थिना- मुपयोगि स्यात् । किं नु खलु तावता । घटावभासने विशेष्यसाध्यार्थ- क्रियार्थिनं प्रति इन्द्रियस्य स आद्यः प्रकर्षः समर्थितो भवेत् । सार्वत्रिकं च प्रत्यक्षे इन्द्रियस्य करणत्वं समर्थनीयम् । तच्च न समर्थितमेव ।
तदेतदाह अथापि इत्यादि । तथापि इत्यत्रैव च्छेदं कृत्वा नार्थिनामिष्टसिद्धिः इति पूर्वेण सम्बन्धनीयम् । तथापीत्यस्य तु उत्तरग्रन्थेन सह योजने प्रथमं प्रकर्षं समर्थयितुं यत् पूरणं, तदप्रतिसमाधाय द्वितीयप्रकर्षनिराकरणेन उत्तरदानं न अतीव सङ्गतिं पूरयतीति द्वितीयं प्रकर्षं निराकर्तुमाह प्रभास्वरात् इति । प्रथमम् इति कालान्तरे तु भवतु नाम । प्रवृत्तेऽपितु इन्द्रिये पदार्थविमर्शो नोदेतीति भवत्येवेति प्रकर्षो न सिद्ध्यति । प्रकर्षस्य विशेषात्मनः सामान्यात्मनो वा । अपिर्भिन्नक्रमः । तस्य इन्द्रियस्य । अत्र इति पदार्थावमर्शे फले कर्तव्ये ।
अव्यवहितोपकारिता भवत्येवेति द्वितीयप्रकर्षरूपता या उक्ता, सापि इह नास्तीति सम्बन्धः । तस्मिन्नेव सति भातीति तु तृतीयप्रकर्षरूपं न चिन्तितम् ।
प्रसिद्धो हि अत्र दर्शनेऽयमर्थः-मन्त्रमहेश्वरादियोगिपर्यन्तप्रमात्र- पेक्षया विनापि इन्द्रियव्यापारेण दृष्टः साक्षात्कारः इति । ननु प्रभास्वरादपवरकप्रविष्टस्य विश्रम्य यत् नीलज्ञानमुदेति, तत्र इन्द्रिये सति भवत्येव नीलविमर्शरूपा प्रमेति अयमस्ति अतिशयः । यत्तु प्रथमसमये नास्ति, तत्र प्राप्तपरिपाकमिन्द्रियं समर्थं न जातम् । विशिष्टस्यैव च इन्द्रियस्य करणत्वं ब्रूमः, न इन्द्रियमात्रस्य । तेन सहकारिसम्पात
(पगे ७२)
एव यो विशेषस्तदभावे यत् करणत्वदूषणं, न तदिन्द्रियस्य करणत्वं दूषयितुमलम् । किञ्च इन्द्रियस्य न अव्यवहितोपकारितेत्युक्ते केनचित् व्यवधात्रा भाव्यम् । तदेव च जडं करणं भविष्यतीति उभयदूषणमित्याशङ्क्य आह बोधावभासस्य च इति । इह प्रमात्मकं फलमुद्दिश्य करणस्य अतिशयो निरूपणीयः । प्रमा च वस्तुपरिच्छित्तिः, वस्तु च अर्थक्रियायोग्यम्, अर्थक्रिया अर्थिनो भेदैकरसस्य प्रमातुस्तादृशेनैव प्रमात्रन्तरेण सह व्यवजिहीर्षोः, अर्थक्रियायोग्यता च बाह्यतायां विश्रान्ता, अर्थक्रियाया अपि बाह्यरूपतैव प्रार्थनीयत्वादिति । बाह्यता च प्रमातुर्व्यतिरिक्तता । नच सा परमार्थप्रमातुः प्रकाशात्मकादुपपद्यते अप्रकाशनप्रसङ्गादप्र- काशमानस्य च अर्थक्रियायामयोग्यत्वात् । तदिदमुभयं समर्थनीयम्- प्रकाशमानत्वं च बाह्यत्वं च । तत्र आद्यं पारमार्थिकशिवसदा- शिवेश्वरात्मकप्रमातृरूपाभेदेन घटते । बाह्यता तु कल्पितप्रमातृ- भावं मायीयं शरीरप्राणादिमपेक्ष्य सङ्गच्छते । एवं च मायीयस्य प्रमातुर्बाह्यरूपतावसाय एव नीलस्य प्रमा । नच अप्रकाशमानस्य अवस्तुभूतापि बाह्यरूपता अवसायेनापि वितरीतुं शक्या भित्त्यभावे धर्मपरिकल्पनाचित्रासम्भवात् । एतच्च
भ्रान्तित्वे चावसायस्य———। (१ । २१)
इत्यत्र निरालम्बनाभिमानिकाध्यवसायदूषणेन वितनिष्यते । तस्मात् नीलेन तावत् प्रकाशितव्यं प्रथमम् । प्रकाशनं च अस्य परमार्थप्रमातरि शिवेऽहमिति, सदाशिवभूमाविदमंशास्फुटतया अहमिदमिति, ईश्वरभुवि स्फुटेदमंशेन अहमिदमित्येतावान् ज्ञानशक्तिमात्रमवभासः । इयत्यां भूमाविदमंशस्य पृथक्तैव नास्ति अहन्तातो दर्पणादिव नीलस्य, ततः पृथक्त्वोल्लासेऽपि
(पगे ७३)
अपृथक्तया चैतन्यादिव देहस्य । एषा विद्याभूमिरुच्यते । अत्रापि च मन्त्रमहेश्वरमन्त्रभेदेन अवान्तरो भेद इति आगमाधिकारे वितनिष्यते ।
ततः सङ्कुचितात् प्रमातुः शून्यरूपस्य सर्वमिदं यत्, न तदहमित्येवंरूपस्य विज्ञानकेवलरूपत्वस्य उदये तदाविष्टे प्रकाशे तादात्म्यशून्यापेक्षया तु बाह्यतया प्रकाशः, पश्चात् तद्बुद्धिरूपे असङ्कुचिते प्रकाशे सवेद्यप्रलयकेवले, ततोऽपि तद्देहरूपे सकले । इत्थमेव तादात्म्यबाह्यत्वाभ्यां प्रकाशः । बाह्यत्वेन च प्रकाशे यो विमर्शभागोऽव्यभिचारी, स विकल्प इति व्यवस्थापयिष्यते । प्रकाशस्य च विमर्श एव जीवितम् । स च अत्र विकल्परूपतां भजति या प्रकाशमानरूपातिरेकदायिनीति, सोऽयध्यवसाय इति व्यवह्रियते ।
प्रकाशमानरूपाधिकं च बाह्यत्वमिति बाह्यत्वस्य न प्रकाशमात्र- मुच्यते, अपितु अध्यवसायः । तादात्म्येन तु प्रकाशनं प्रकाशांश एव ।
नच तस्य शिवात् प्रभृति सकलान्तेऽपि प्रमातरि कश्चित् भेदोऽस्ति । तत्र च विमर्शो न प्रकाशातिरिक्तं किञ्चित् करोतीति निर्विकल्पकं प्रकाश इति अनुभव इति च उच्यते । एवं स्थिते बाह्यताध्यवसायरूपायाः प्रमाया इन्द्रियव्यापारस्य च अन्तरालवर्तिनी या शिवसदाशिवेश्वरविद्यारूपा निर्विकल्पानुभवदशा, सैव अस्यामव्यवहिता प्रमायाम् । प्रभास्वराद- पवरकप्रवेशेऽपि परस्यापि नीलाध्यवसायः प्रमा, नीलानुभवानन्तर- भावी च असाविति इष्टमेव । ततश्च न क्वचिदपि इन्द्रियव्यापारस्य अव्यवहितोपकारितेति स्थितम् । या च असौ व्यवधात्री दशा, न सा जडरूपा, अपितु संविन्मयी एवेति युक्तमुक्तम्-प्रकाशात्मैव हि कयाचिदपेक्षया भेदमानीय प्रमितिकरणीकर्तुं युज्यते, न जडवस्त्विति । तदेतदाह बोधावभासस्य च
(पगे ७४)
इत्यादिना । चकार उत्तर समुच्चिन्वन् पूर्वपक्षाशङ्कां सूचयति । सा च उक्तैव । बोधरूपस्य वस्तुतोऽवभासस्य अवरतया निकर्षेण अपूर्णतया भासमानस्य नीलस्य सङ्कोचरूपेषदर्थयोगादाभासादिशब्दवाच्यस्य बाह्योऽयं मत्तः, सच अर्थो वस्तुभूत इत्येवं योऽध्यवसायो नीलस्य इत्थमध्यवसीयमानता, तस्यां प्रमारूपायां प्रमाणं विचार्यते लौकिकैः । यश्च असौ बाह्यरूपताध्यवसाय इन्द्रियव्यापारस्य अनन्तर इति परस्य सम्मतः, स ज्ञानशक्त्युल्लासमात्ररूपात् नीलप्रकाशरूपात् परमसदाशिवादिनिष्ठादहमित्येवरूपादागतो यो मन्त्रेश्वरादिभुवि विद्यामयः । तेन निर्विकल्पेन अभेदविमर्शेन प्रकाशमात्रजीवितेन अनुभव- शब्दवाच्येन मध्यवर्तिना व्यवहिता इत्यतो हेतोः । स एव इति अभेदविमर्शमयः प्रकाशः प्रमाणं युक्तं बाह्यार्थावसायरूपायां प्रमायां निमित्तभूतः । निमित्तत्वं दर्शयति यत एवम् इति । मम अवभासमानमिति प्रमातृलग्नः प्रकाशः करणम्, ततो हेतोः । नीलमेतत् बाह्यमिति अध्यवसायः प्रमा । नीलं प्रमेयम् । एतच्च
इदमेतादृगित्येवं———। (२ । १६)
इत्यत्र उपपादयिष्यते । यदिवा इन्द्रियव्यापारापेक्षया इदमुच्यते-न इन्द्रियव्यापारेण नीलमिदमिति व्यवस्थाप्यते, येन तद्व्यवस्थापनात्मिकां प्रमां कुर्वतस्तस्य प्रामाण्यं शङ्क्येत, किन्तु एतत् निर्विकल्पेन व्यवस्थापयिष्यते । एवमुपपत्त्या निरूप्य यदुक्तं प्रमाणमपि यावत् न पृथक् सिद्धिहेतुं प्रमाणमाक्षिपति इति, तत् निगमयति ततस्तस्य इति अर्थावभासस्य इति नीलप्रकाशरूपस्य अनुभवस्य । प्रमितिक्रियाकरणस्य इति प्रमाणस्य । पुनः प्रमाणं द्वितीयं प्रमाणमनवस्थापादकं
(पगे ७५)
प्रति न अपेक्षा । अत्र हेतुः स्वप्रकाशात्मनः इति । अत्रापि हेतुः-बोधात् स्वप्रकाशादविभिन्नस्य अव्यतिरिक्तस्य । ननु च संसारिणः कथमियं शिवसदाशिवेश्वरदशा, यया व्यवधानं भवेदित्याशङ्क्य आह तस्यां हि इति । या इयमध्यवसायस्य पूर्वभाविनी उक्ता, तस्याम् । ऐश्वरः इति ईश्वरस्य अयम् । भावः इति न असंवेदनम् । शिवदशा तु एकरसाहम्भावात्मा, नच अत्र अर्थोन्मीलनमिति न सा अर्थचिन्तायामुप- युक्ता; तेन ऐश्वरो भावः इति उक्तम् । उत्तरोत्तरं हि पूर्वपूर्वेण अवियुक्तमिति । पशोरपि मायादशापतितस्य विद्येश्वरादिपूर्वदशया न वियोगोऽन्यथा अप्रकाशनप्रसङ्गात् । यत ईश्वररूपता, तेन तस्यां कालकलायां तत्कालवर्तिनि बोधे अभेदैकरसे स्वप्रकाशे सांव्यवहारिक्याः सम्भूय- व्यवहारः परस्परव्यवहारो भेदप्रधानः प्रयोजनं यस्याः, इदं प्रमाणं, इदं प्रमेयमिति व्यवस्थया विचित्रस्य अवस्थानस्य भेदरूपस्य तस्यां न अवकाशोऽभेदरूपेण भेदस्य विरोधात् । निर्विकल्पदशायां न अन्यत् प्रमाणमभेदैकसारत्वात् । प्रमाणं हि प्रमेयमाक्षिपत् भेदसम्भवेन व्याप्तं, तद्विरूद्धं च अभेदैकसारत्वमिति व्यापक- विरुद्धोपलब्ध्या प्रमाणान्तरापेक्षा प्रमाणे निवारिता भवति । ननु एवम्भूता दशा अहमिदमितिरूपा, तस्याश्च कथं कारणता, अहम्भावो हि स्वतन्त्रः प्रमाता, न प्रमाणम् । अथ तत् प्रमाणं, तर्हि प्रमातृरूपं वक्तव्यमित्याशङ्क्य आह पदार्थावभासरूपत्वमात्रेणैव तु इति ।
तुशब्दः प्रमाणात् प्रमातुर्विशेषं द्योतयन्नविशेषां शङ्कां सूचयति । अस्मादीश्वरदशारूपात् बोधावभासादहम्भावसामाना- धिकरण्यमापन्नादपि अहमिदमित्येवंरूपात् प्रमातुरपि भवेद्विशेषः ।
कथं विशेषः । आह पदार्थ इति । नीलस्य योऽवभासः,
(पगे ७६)
तद्रूपत्वमात्रेण । नीलं हि तत्र अधिकमस्ति, तेन प्रमाणता । प्रमाता तु नैवंविध इति वक्तुं हेतुतागर्भमस्य विशेषणमाह-अहम्भावे य एको रसो विश्रान्तिः, तत्स्वभावो यतः प्रमाता; अत एव पूर्णः । न प्रमाणतया सङ्कोचकला अत्र काचिदर्थराशेः सर्वस्य अत्र अहम्मयत्वात् । अपिशब्दो भेदानवकॢप्तिमाह । एतदर्थमेव मात्रग्रहणम् । यत एवं प्रमाता अहमित्येतावन्मात्ररूपः, ततोऽधिका च ईश्वरदशेत्यतो हेतोस्तस्यैव ईश्वरदशापन्नस्य बोधस्य प्रमाणत्वं स्थितम्, यत्र न अनवस्था । ननु शिवरूपतां प्रमातृतया, प्रमाणतया च सदाशिवादिदशां न लोकः प्रतिपद्यते । क एवमाह-न प्रतिपद्यते । निर्विकल्पकमिदमित्यपि किं लोकः प्रतिपद्यते । युक्त्या अनुभवो व्यवस्थाप्यते इति चेत्, इहापि न समानम् । तदाह तदेतत् इति । संसारव्यवहारं पतितो मायामयत्वं भेदैकरसत्वमा- ह्रियमाणः, अत एव अभेददशां भवन्तीमपि तदुपयोगिमायादशानि- ह्नुतामवजानन् भोग्यत्वात् पाश्यत्वा पशुस्तस्यापि वास्तवं पारमार्थिकं रूपमुक्तम्, येन प्रमात्रादि व्यवस्थाप्यते अनवस्थादिदूषणैर्नाभिद्रू- यते । यस्मादनेन वास्तवेन रूपेण विना शून्यादेः प्रमातुः प्रमातृता न उपपद्यते एकान्ततो वेद्यरूपत्वेन जडत्वे प्रत्युत स्वसिद्धौ प्रमात्रन्तरापे- क्षणात्, इन्द्रियादेश्च करणरूपसम्मतस्य करणता न उपपद्यते ।
प्रकाशितस्य कर्तृप्रयोज्यतया करणत्वं तद्भाने करणान्तरापेक्षया अनवस्थानात् । अपिः समुच्चये वा, शरीरस्य प्रमातृतां प्रति दूरताद्योतने वा, तद्गतवास्तवप्रमातृतानौचित्यसूचने वा । अनवस्थामेव सूचयति प्रकाशाननुप्रवेशः इत्यादिना । अनेन प्रकृतार्थसिद्धिरेव न उपपद्यते इति यदुक्तं, तत् निर्वाहितम् । तेन पर्यन्ते प्रमात्रन्तराद्यनपेक्षणे विश्रान्ति- स्थाने
(पगे ७७)
इयं परीक्षा परितो विचाररूपा हेयपरिवर्जनाय च उपादेयस्य ईक्षा प्रमातृप्रमाणयोः सम्भवमुपपादयन्ती प्रमेयस्यापि उपपादयति । न पुनर्हालिकादयः एवं जानन्ति भेदैकरसे मायापदे विश्रान्तत्वादेषाम् ।
यथास्थित एव तु तद्व्यवहारः । एवम् इति शिवरूपे विश्वप्रमातरि सदाशिवरूपे च विश्वप्रमाणे सति उपपद्यते । एवं प्रमाणतत्त्वे च ज्ञाते विसंवादो बाधकयोगो नास्ति, येन अप्रमाणता स्यादिति वितत्य
इदमेतादृक्———————। (२ । १६)
इत्यत्र प्रमाणलक्षणे । एतदुक्तं भवति-भेदैकरसो भेदार्थी तथाविध- प्रमातृसहस्रमध्यगतो यतोऽयं मायीयः प्रमाता, ततो दृढनिरूढि- स्थानमपि एकान्तवेद्यतया अत्यन्तजडतां शून्यशरीरप्राणेन्द्रियवर्गस्य आत्मरूपज्ञत्वादिकियन्मात्रावेशनेन अधस्पदीकुर्वदपि परमशिवसदा- शिवादिपदमवजानीते सुखैकरस इव जनो दुःखस्थानतामर्थकामार्ज- नादेः । अत एव तत्सम्भवोपदेश एव अवधानयोगेऽभ्युपायः । यदुक्तं
ग्राह्यग्राहकसंवित्तिः सामान्या सर्वदेहिनाम् ।
योगिनां तु विशेषोऽयं सम्बन्धे सावधानता ॥ (वि। भै। १०६) इति,
सम्प्रदायमिमं भद्रे शृणु सम्यग्वदाम्यहम् ।
कैवल्यं जायते सद्यो नेत्रयोः स्तब्धमात्रयोः ॥ (वि। भै। ११३)
इत्यादि च । इत्यलं रहस्यान्तरप्रसक्त्या । बहुतरप्रमेयमग्नं प्रकृतं सूत्रार्थमुन्मज्जयितुं निगमयति तदेवम् इति । ननु यदि न प्रमाणापेक्षा, तर्हि किमनेन शास्त्रेण, ततः कथमुक्तं प्रत्यभिज्ञामुपपादयामि इति ।
एतदाशङ्क्य आह वक्ष्यमाण इति । समनन्तरमेव हि वक्ष्यते
(पगे ७८)
किन्तु मोहवशादस्मिन्——-। (१ । ३) इत्यादि,
विश्ववैचित्र्यचित्रस्य————। (२ । ३०) इत्युपक्रम्य
अप्रवर्तितपूर्वोऽत्र—————। (२ । ३२)
इत्यादि च । ननु एतावता स्वतन्त्ररूप आत्मा सिद्धः, नतु ईश्वर इति । आह स्वातन्त्र्यमात्र इति । एवं स्वातन्त्र्ये प्रकाशिते ज्ञानक्रिये अपि प्रकाशिते एव ।
तदेव च ऐश्वर्यमिति किमन्यदप्रकाशितं स्यात् । यत् यावदात्म, तत् तस्मिन् प्रकाशिते न अप्रकाशितं भवति अप्रकाशितत्वे अतावदात्मकत्वस्य विरुद्धस्य प्रसङ्गात् । ज्ञानक्रियैश्वर्यलक्षणस्वातन्त्र्यमयश्च स्वात्मेति व्यापकविरुद्धोपलब्धिः । निषेधो यथा साधयितुं न योग्यः, नच शक्यः, तथा सिद्धिरपि । अनेन सूत्रे विधिनिषेधौ दृष्टान्तदार्ष्टान्तिकभावेन अन्योन्यं व्याख्येयाविति दर्शयति । वाशब्दो हि तदर्थ एव सूत्रे । अजडात्मा इति व्याचष्टे सचेतसाम् इति प्रमाणिकानाम् । निरात्मानः इति निःस्वभावा घटादयः । जडशब्देन तावदियदुक्तम्, इदं तु ध्वन्यते-जडानां तावदयमुद्यमो युक्तोऽसिद्धस्वात्मनाम् । एतदपि च कथं स्यात् । जडश्च स्वयमलब्धसिद्धिरन्यस्य च विधिनिषेधौ कर्तुमुद्यच्छति । उद्यमयोगात् चेदस्य आत्मा सिद्धः, किमीश्वरस्य असिद्धं येन सिद्धिं कुर्यात् । किं वा तदभावे सिद्धं, येन तन्निराकरणं कुर्यात् । ततश्च ईश्वरसिद्धिरीश्वर- निराकरणमित्येतत् सर्वं स्ववचनप्रसिद्धिप्रत्यक्षानुमानादिबाधितमेवेति खरविषाणप्रख्यमेवेति युक्तमादिसूत्रं तत्प्रत्यभिज्ञामुपपादयामि इति ॥ २ ॥
वक्ष्यमाणश्लोकार्थसङ्क्षेपेण अवतारयति एवमपि इति
(पगे ७९)
प्रागुक्तं यत्प्रयोजनं तत्प्रत्यभिज्ञामिति, अस्मिन् घटादिके दृष्टेऽपि मोहवशादनुपलक्षिते अत्यन्तोपादेये व्यवहारसाधनेन स्वशक्त्याविष्करणेन निश्चयप्रदर्शनमिति लोके दृष्टम्, तथाच अयमात्मा ईश्वरो दृष्टोऽपि तथानुपलक्षितः इति स्वभावहेतुः, अत्यन्तोपादेयस्य दृष्टस्यापि अविमृष्टस्य कथमुपादानं स्यादिति उपादानव्यापकस्य अनुपलब्धिप्रसङ्गात् विपक्षतो व्यवहारसाधनाविषयत्वरूपात् व्यावृत्तो हेतुः प्रकृतेन साध्येन व्याप्यते,-इत्येवं सूत्रवृत्त्योः तात्पर्यं नेयम् ।
प्रश्नयोग्यतां द्योतयति किम् इति, तुः विशेषम् । तेन किन्तु इति असमाप्तवक्त- व्यतां द्योतयन्नन्यप्रमेयाभिधानावकाशमाह । ननु स्वप्रकाशत्व- मीश्वरस्य यत्नेन उपपादितं, तत् कथमुक्तम् अस्मिन्नीश्वरे दृष्टेऽपि इति ।
आह दृष्टशब्दोऽयम् इति । उपचरितं यत् कर्म आतिदेशिकं, यगात्मनेपदादि हि तत्र उदाहरणमात्रं भिन्नः कुसूलः स्वयमित्यपि दर्शनात् । यदि वा उपचरितं दृशः कर्तृस्वभावकतायां गौण्या वृत्त्या आश्रितं कर्म तत् साधनं यस्य स तथा । तत्र उपचारे मुख्यार्थबाधं बीजमादर्शयति असम्भवात् इति । नहि द्रष्ट्रन्तरमस्ति अनवस्थानादिति उक्तमसकृत्, वक्ष्यते च ।
निमित्तं च प्रकाशमानत्वं, प्रयोजनं च स्फुटदृष्टाभिमतघटादि- तुल्यताप्रतिपादनेन अनपह्नवनीयत्वप्रख्यापनम् । यथा दृष्टोऽर्थो विमर्शं विना न सुखविश्रमाद्यर्थक्रियासु, तथा आत्मा अपीति दृष्टान्तदार्ष्टान्तिकताख्यापनमपि प्रयोजनम् । तेन सूत्रं वृत्तिश्च यद्यपि प्रकृतविषये, तथापि अर्थद्वयसाधारणे योज्ये । तत एव टीकायां दृष्टस्यापि इत्यादि अहीयत इत्यन्तं मुख्यतया दृष्टान्तविषयम् । तदाह वाचोयुक्ति इति । एतदेव वाचोयुक्तेर्वैचित्र्यं यत् परिमितेन यत्नेन प्रतिपाद्यवस्तु- सङ्ग्रहः । स्वसंवेदनसिद्धस्य इत्यपि
(पगे ८०)
वृत्तौ गौणं द्रष्टव्यं सुखादिवदनपह्नवनीयतां निरूपयितुम् ।
पूर्वं हि स्वसंवेदनसिद्धत्वं नापि स्वसंवेदनसिद्धत्वमात्मनः इत्यादिना दूषितम् । सूत्रे निमित्तार्थे सप्तमी । यतोऽयमीश्वरो दृष्टोऽपि अनुपलक्षितः, ततः प्रत्यभिज्ञा प्रदर्श्यते । सामर्थ्यात् तस्यैवेति लभ्यते । स एष सामर्थ्यलभ्योऽर्थः षष्ठ्या वृत्तौ व्याख्यातः; निमित्तसप्तम्यर्थस्तु अहृदयङ्गमत्वात् इति हेतुपञ्चम्या व्याख्यातः । सूत्रे सप्तम्या दार्शितो वृत्तावपि षष्ठ्या व्याख्यातः । मायाकृतो व्यामोहो मायाव्यामोहः ।
माया च परमेश्वरस्यैव शक्तिः । एतच्च सूत्रेऽपि उक्तं मोहवशात् इति ।
मोहयतीति मोहः ईश्वरः, तस्य वशः सामर्थ्यं मायाशक्तिस्ततः; मोहयत्यनेन शक्तिविशेषणेति वा मोहो मायाशक्तिस्तस्या वशः सामर्थ्यं मोहनकार्यं प्रति अविरामः । यथोक्तं माया विमोहिनी नाम———। (वि। भै। ९५) इति । मुहिर्वा मोहः आवरणं तस्य वशोऽविच्युतिरिति क्रियया शक्तिः, तया च शक्तिमानाक्षिप्यते । तेन पशुप्रमातॄणामख्यातिरूपो मोहः । कारणं च अस्य ईश्वरशक्तिरिति स्वरूपतः कारणतश्च निर्वाच्यतैव । न खलु अनिर्वाच्याकारः कश्चिदविद्यात्मा मोहोऽवस्तुत्वेन अस्य इयद्वैचित्र्यप्रथनसामर्थ्यासम्भवात्, सम्भवे वा पूर्णमेव वस्तुत्वम्, न अनिर्वाच्यता । नापि साङ्ख्यदृशि इव रजस्तमोवृत्तिर्मोहः । तस्य जडत्वेन प्रवृत्तिनिवृत्तिवैचित्र्यानुपपत्तिर्यतः । तस्मात् परमेश्वरस्वातन्त्र्यमेव मायाख्यं मोहयतीत्याशयेन आह नतु अन्यथा इति । ननु दृष्टं च अनुपलक्षितं चेति कथमित्याशङ्क्य आह दृष्टस्यापि इति । हृदयं विमर्शः, तत्प्राप्तिपर्यन्तं दर्शनमुपलक्षितत्वम् । तस्मिन् सति समुचितव्यवहारोपयोजनं, न अन्यथा मार्गदृष्टे तृणादाविव । तेन हृदयेन सह
(पगे ८१)
सात्मता आत्मरूपता साकल्यात् आत्मरूपताध्यवसायो वा । सात्मा इति साकल्यादावव्ययीभावे——–निनि वा । दार्ढ्यं व्याचष्टे प्रमात्रावेशात् इति । हृदयविश्रान्तिर्हृदयङ्गमत्वं च नाम किमित्याह प्रकाशमुपारूढानां प्रमातृप्रकाशबलेन प्रकाशमानानां, नतु स्वयम् । एतदर्थमेव उक्तं प्रमात्रावेशात् इति । ननु हृदयं गच्छति प्राप्नोतीति हृदयङ्गमम्, कथं च परामर्शो हृदयमिति । आह परामर्शलक्षणो हि इति ।
चितिप्रत्यवमर्शात्मा परा वाक्स्वरसोदिता । (१ । ४५) इति उपक्रम्य
सैषा————–। (१ । १४) इति उक्तम् । एतत् तात्पर्येण व्याचष्टे नीलादि इति । यथा सत्त्वं लघु प्रकाशकम् इति ज्ञानं क्षणिकं कार्यं कारणम् इत्यादिरेकस्यैव निरंशस्य तत्तद्व्यावृत्तिबलेन धर्मिणो धर्माणां च अन्योन्यं भेदः कल्प्यते तत्तदंशविमतिशान्तये, तथा प्रकाशरूपे संवेदनेऽवभासविमर्शा- दीनां प्रत्युत इह दर्शने यत् यथा अवभास्यते, तत् तथा सदिति परोपदेशकाले सृष्टोऽयं धर्मधर्मिभेदः पारमार्थिक एव । यथैव च सृष्टः, तथैव पारमार्थिकः-इत्यभेदविश्रान्ततैव तथैवसृष्टेः, अन्यथा घटपटवत् को धर्मधर्मिभावः स्यात् । एतदभिप्रेत्य आह अव्यतिरिक्तोऽपि इति पृथक्कृत्यावसाय्यते इति च । अवसाय्यते इत्यनेन विकल्परूपो मायीयोऽयं व्यापार इत्याह । उपदेशावस्थापि मायैव । सा केवलं परमार्थमार्गावगावहनसौकर्येण शुद्धविद्येति वक्ष्यते । इदं नीलमवभासते इति बोधबहिर्भूतं शुद्धं यदिदमिति सम्मतं, तत्सामानाधिकरण्येन अवभासः स्फुरति । ममेदमवभासते इत्यत्र हि ममेत्यंशे विश्रान्तमहम्भावे निगीर्णमिव नीलं प्रकाशसम्बन्धिना
(पगे ८२)
अवभासलक्षणेन धर्मेण स्पृश्यते इति न अतीव दूरम् । बोधबहिर्भूते तु शुद्धे अवभासो यत् प्रकाशते सामानाधिकरण्येन यतः केषाञ्चिदर्थगता प्रकटतेति मतम्, ततो बोधस्तमवभासं भृत्यमिव विरुद्धसङ्क्रमणशील- मुभयवेतनतया व्यभिचारिणं शङ्कते । अहं विमृशामीति तु विमर्शभूमिरियमसूर्यम्पश्येव न बहिर्मुखतां स्पृशति, अत एव नीलस्य तत्र कर्मतैव विमृश्यते इति प्रतीतेरियं मया विमृश्यते इत्यस्यां च दशायां दृशोऽन्तर्मुखतानिर्भासात् । इदं नीलं भातीति तु ममेत्यपिसंवेदनस्पर्शे बहिर्मुखताप्राधान्यमेव दृशः स्फुरति । तत एव अहन्ता गुणभूता यतो ममेति अनुवदनस्थानमिदं षष्ठ्या निर्दिश्यते ।
एतदुक्तं भवति-प्रकाशस्वातन्त्र्यमिह बोधसंवेदनादिशब्दवाच्यम् ।
स्वातन्त्र्यं च नाम यथेच्छं तत्र इच्छाप्रसरस्य अविघातः, तेन स्वयं प्रकाशते परात्मना प्रकाशते इति अनवच्छेदनया प्रकाशमानता, तदेव स्वातन्त्र्यं परात्मना प्रकाशते इति । एतदेव उच्यते परं प्रकाशयतीति ।
एतदेव हि राज्ञः सुतरां युद्धे स्वातन्त्र्य-यत् युद्ध्यते योधयति चेति । तत् स्वयं निर्भासते निर्भासमानं घटादिकं निर्भासयतीति इयति क्रियासमुदाये———–संविदादयो वर्तन्ते इति तावत् समस्तांशस्वीकारेण विमृशामीति वर्तमानं धर्मिरूपसारम् । आभासते इति तु भागमात्रम् ।
धर्मः इति प्रकाशस्वतन्त्रवपुषो धर्मिणो योऽवभासो धर्मः, तत उत्कृष्यते विमर्श इति सम्बन्धः । ननु विमर्शस्तावत् शब्दनसंवलिता प्रतिपत्तिः । नच संवेदने शब्दनमस्ति अविकल्पनीयत्वेन सङ्केतविषयत्वाभावात् । यत्र च सङ्केतो युज्यतेऽर्थे, तत्र यो विमर्श इदमिति; स नीलेनैव सामानाधिकरण्यमविकलमवलम्बते । यत्तु उक्तं विमृशामीति, अन्तर्मुखत्वेन चकास्तीति;
(पगे ८३)
तदवभासेऽपि तुल्यमवभासयामीति अन्तरेव विश्रान्तेः । तत् कथमुक्तं- विमर्शो न कदाचिदिदन्ताभूमिमास्कन्दतीत्याशङ्क्य आह स्वतोऽपि विशुद्धस्य इति । अपिशब्द उत्तरापेक्षया समुच्चये । स्वस्मिन्नपि यो विमर्शः, योऽपिच इदं नीलमिति विभिन्ने नीले, स उभयोऽपि प्रमातृमात्रे प्रमातरि एव विश्राम्यति, नतु प्रमेये इति सम्बन्धः । शुद्धस्य इति कर्तरि षष्ठी ।
शुद्धत्वेन नीलाद्युपरक्तात् प्रमाणरूपात् प्रकाशात् तदनुपरक्ततया प्रमातुर्विशेष उक्तोऽहमित्यविच्छेदप्रकाशविश्रान्तिलक्षणः । अत एव चमतो भुञ्जानस्य करणं संरम्भोऽहमसौ नीलादेर्भोक्तेति । ननु अहमिति शब्दनं साङ्केतिकं सङ्केताभावे सङ्केतास्मृतौ च कथं स्यात् । नेदं साङ्केतिकमित्याह प्राणभूतः इति आत्मभूतोऽव्यतिरिक्तः । अत्र हेतुः जडः इति । जडात् हि चेतनस्य विमर्शकृत एव विशेषः, अन्यथा प्रकाशादप्रकाशस्य कथं भेदः । तदाकारत्वं तज्जन्यत्वं तदाकृष्टत्वं तत्समानसामग्री- कत्वं जडस्यापि दर्पणधूमायोरसादेरस्ति । नच वाच्यं विमर्शस्यापि अविमर्शात् कथं भेद इति विमर्शस्य पार्यन्तिकविश्रान्तिस्थानत्वेन अपर्यनु- योज्यत्वात् । नीलं हि कुतस्तथा प्रकाशते यतस्तदपि कुतस्तथा विमृश्यते यत एतावति पर्यवसितं प्रमेयस्य प्रमेयत्वं प्रमातुश्च प्रमातृत्वमिति न अधिकमुपयाच्यते । अपिशब्देन प्रमेयवृत्तित्वं सम्भाव्यमानत्वेनाह ।
अहन्ताविमर्शमयः इति । यदुक्तम्
इदमित्यस्य विच्छिन्नविमर्शस्य———। (अ। प्र। सि। १५)
इत्यादि । निमील्य हि नयने नीलमिदमिति विमृशति । तत्र च अयं परमार्थः- अहं नीलप्रकाशतया प्रकाशे इति । तावता इति अधिकानपेक्षामाह । विशुद्धे नीलाद्युपरागशून्ये प्रमातरि या चित्स्वरूपता विमर्शमयत्वं, तत्र सात्मता आत्मना सादृश्यमात्मरू-
(पगे ८४)
पतासम्पत्तिरात्मरूपतासाकल्यमात्मताविश्रान्तिरात्मरूपताध्यवसानम् । किं बहुना । आत्मनि विमर्शस्य स्वरूपे सर्वथा निमज्जनमेकीभावोऽर्थस्य । तस्यां सत्यां मेऽर्थस्य असौ प्रमाता भवति यः शुद्धप्रमाता । एवं च सति योग्यतामात्रेण यत् नीलादि प्रमेयमभूत्, तत् वस्तुतः प्रमाविषयतापत्त्या प्रमेयं भवति । अन्यथा इति यदि विमर्शरूपता न भवेत्, तत् विमर्शसामान्याभावे तद्विशेषोऽध्यवसायात्मको निश्चयो न भवेत् व्यापकसामान्याभावे व्याप्यविशेषासत्ताप्रसङ्गात् । ततश्च विषयः सन् न सन्, नीलो न नीलः, इह न इह, इदानीं न तदानीम्, मया दृष्टोऽमुना दृष्टः इत्येवमन्यतरेणापि रूपेण न कश्चिदसौ स्यादिति द्विविधस्वभावेन आधारस्वरूपात्मना देशेन कालेन विषयतया च न किञ्चिदस्य स्वरूपतत्त्वमवतिष्ठते । न किञ्चित्त्वमपि न अवतिष्ठते, अनैकान्तिकरूपतापि न पर्यवस्येत् । तदाह दोलायमानतैव इति । शुद्धस्य प्रमातृत्वस्य न दोलायमानता शङ्क्या अविरतप्रकाशत्वात् ।
अर्थप्रमातृत्वस्य च इयमेव अविचलता या प्रमेयस्य, नतु अन्या काचिदिति पुनः सा पृथक् न उपसंहृता । लोकस्य च बाह्यार्थसाध्यामर्थक्रियां प्रति भरः । तेन प्रमेयस्य उपसंहारः कृतः । उपक्रमे च प्रमातैव प्रपतति, ततः प्रमाता प्रमाता भवतीत्युक्तम् । अन्वाचयेन च तत्र प्रमेयम् ।
अहमित्युपक्रमा, नीलं-जानामीतिमध्या, नीलमेतदर्थक्रियाकारीत्युपसंहारा लोकस्य प्रतीतिः । ननु मार्गगतौ तृणादि अवभातं च न वृमृष्टमित्याशङ्क्य आह रथ्यागमनादौ च इति, एतदपि इति । अपिशब्देन इदमाह-रथ्यागमनेन यत एव तृणादि भातमपि अभातं तृणादिरूपेण अविमृष्टत्वात्, तत एव भातं विमर्शे सति भातं भवति इदन्तांशमात्रेणेति, अतो व्यतिरेकोऽन्वयश्च
(पगे ८५)
अत्रैव प्रदर्शयितुं शक्यावेव प्रकाशविमर्शयोरिति । एवं मुख्यतया दृष्टान्तपृष्ठे सूत्रवृत्त्यर्थयोजनं टीकाकृता कृतम्, तत्प्रसङ्गेन तु दृष्टान्ततयैव मायाप्रमातृपृष्ठे । एतदेव दार्ष्टान्तिके योजयति एवमस्य इति । तथा प्रमेयं विमृष्टं प्रमेयम् । तस्य च एतदेव विमर्शनं-यत् नीलप्रकाशरूपोऽहमि आत्मनि प्रमातृरूपविमर्शनं रूपम् । एवमस्यापि प्रमातृरूपस्य इदमेव विमर्शनं-यत् विशुद्धेश्वरसदाशिवरूपतोक्रम- परमशिवात्मकस्वतन्त्रस्वस्वभावविमर्शनम् । यथाच नीलमात्रेण अर्थिनस्तत्प्रमातृत्वं विमृश्यमानमपि नीलविमर्शं प्रति उपकरणीक्रियमाणत्वेन अविमृष्टं भवति, एवं नीलेन तत्प्रमातृतामा- त्रेण च अर्थिनः परमेश्वरस्वतन्त्रस्वस्वभावामर्शनं भवदपि अर्थनीयबाह्यार्थक्रियां प्रति सततवाहिदृढाग्रहग्रस्ततया असञ्चेत्यमानत्वेनापि स्वरसवैवश्येन हठादेव मायाप्रमातुरुपकरणी- भावं प्रापयतोऽसत्कल्पम् । पूर्ण इति नीलाद्यसङ्कोचितो योऽहम्भावाख्यो विमर्शस्तत्स्वभावे यश्चमत्कार आनन्दात्मा परमो भोगः, तस्य या आपत्तिः प्राप्तिः; पूर्णाहम्भावस्य वा या चमत्कारापत्तिः प्रधानतया विमृश्यमानतापत्तिः; तया उपलक्षितो यः स्वात्मरूप ईश्वरस्तस्य उपलक्षणं-सर्वैरेव ईश्वरस्य लक्षणैर्नित्यत्व-विभुत्व-सर्वकर्तृत्व- सर्वज्ञत्व-सर्वशक्तित्वप्रभृतिभिरनीश्वरासाधारणैर्धर्मैः स्वस्वभावीकृतैः इति अपरामृष्टतया ये न स्वात्मनः स्वभावा अभूवन् प्रकाशविमर्शसारत्वात् वस्तुव्यवस्थायाः, अत एव हि नरेश्वरविवेकः पारमार्थिक एव, विद्योदये तु प्रादुर्भूतैस्तैः स्वस्य आत्मनः स्वभावतामापादितैः-भवति । किं तदुपलक्षणमुच्यते इत्याह तत् इति भैरवेश्वरलक्षणैर्यः सम्यगावेशः आ समन्तात् तत्कर्तृकः स्वीकारः, तस्य यो रसः प्रवाहस्तस्य यत् आ समन्तात् स्वादनं परामर्शनं
(पगे ८६)
-अहमेवम्भूतोऽप्रतियोगिरूप इति अविकल्पकम्-नतु शरीरप्राणबुद्ध्यादिना नीलादिना च वेद्येन अपृथक्तया विमृश्यमानत्वेन न्यक्करणं-तस्य लाभ इति । एतदुपलक्षणं हृदयस्य आवर्जनं तदुन्मुखीकरणं सत्यमेतद्रूपमिति हृदयङ्गमत्वं च उच्यते । ननु कथं तदेवम्भूतम- नास्वादितपूर्वमैश्वर्यमास्वादगोचरीभवतीत्याशङ्क्य आह हृदय इति ।
भवेत् इति सम्भाव्यमेव अस्य भवनमिति यावत् । असाधारणमनीश्वरे यदसम्भाव्यं ज्ञत्वकर्तृत्वादि, तदेव अभिज्ञानमेकधर्मात्मकस्व- रूपमुखेन अनन्तधर्मचित्रवस्तुस्वरूपप्रवेशाभ्युपायः, अभितः स्वरूपसर्वस्वस्वीकारेण वस्तु ज्ञायते येनेति; तस्य ख्यापनेन प्रथनया ।
अनेन शक्त्याविष्करणेन इति विवृतम्, इयम् इति दृढशब्देन, प्रत्यभिज्ञा इति भावसाधनं निश्चयशब्देन । ननु त——–न्येव स्वप्रकाशत्वात् ततश्च अविच्छन्नख्यापनस्य का ख्यापनेत्याशङ्कां प्रदर्शयन् शमयति यद्यपिच इति वक्ष्यमाणनयेन इति ।
कलोद्वलितमेतच्च चित्तत्त्वं कर्तृतामयम् ।
अचिद्रूपस्य शून्यादेर्भितं गुणतया स्थितम् ॥ (३ । २२)
इति वक्ष्यते । प्रथां नीयते इति । अत्रापि वक्ष्यमाणनयेन इति सम्बन्धः ।
वक्ष्यते हि
मुख्यत्वं कर्तृतायास्तु बोधस्य च चिदात्मनः ।
शून्यादौ तद्गुणे ज्ञानं तत्समावेशलक्षणम् ॥ ३ । २३)
इति । तच्च इदं चिद्रूपस्य अन्यत्र अनुपकरणीकरणं शरीरादौ, कायप्राणादेर्वा कायादिरूपतानिमज्जनेन चिद्रूपतोद्रेचनमिति । एतदेव प्रभावः-प्रकर्षेण यद्वशात् भाव्यते अन्यविलक्षणतया च कर्तव्यं भावयतीति । एतच्च परापरसिद्धिप्राधान्येनेति
(पगे ८७)
वक्ष्यामः । सिद्धस्य इति स्वरूपतो ज्ञप्तितश्च । ननु च सिद्धे वस्तुनि यत् प्रमाणं, तत् किल व्यवहारसाधनमिति प्रसिद्धम् । ततश्च तदनुसारेणैव वृत्तौ वाच्यं प्रत्यभिज्ञानमात्रं साध्यते इतीत्याशङ्क्य आह सर्व इति ।
जडपदार्थविषये हि सिद्धेऽपि यत् प्रमाणं व्यवहारसाधनं, तदवश्यमसिद्धस्य कस्यचिदंशस्य अन्ततस्तथा प्रख्योपाख्यारूपस्य व्यवहारसम्पत्तिमपूर्वां करोति । आत्मनि तु ईश्वरे न किञ्चिदसम्पन्नं साध्यमस्ति प्रख्योपाख्ययोरपि सिद्धत्वात्, तदसिद्धौ प्रमेयलेशस्यापि हि न काचित् सिद्धिरिति उक्तम् । अतस्तद्व्यवहारमात्रमपि नेह साध्यते, अपितु उपांशु च्छन्नं स्थितं सत्, उपसमीपे इति हृदयसङ्गमनेन प्रधानतया दर्श्यते ।
आत्मनि ईश्वररूपे ये प्रख्योपाख्ये ते मा अन्यत्र देहादौ नीलादौ च उपकरणीये भवेताम्, अपितु ते एव प्रधानतया पश्यतेति । तेन वृत्तौ सूत्रानुसारेणैव उपदर्श्यते इति उक्तम् । लोके जडविषये यत् व्यवहारमात्रस्य साधनं, तदपि इह अजडे क्रियमाणं प्रदर्शनेन सममविकलं प्रदर्शनमात्रावशेषं प्रदर्शनेन च पश्य-पश्येति अवधानदापनारूपेण तुल्यम् । तदत्र सूत्रे दृष्टे इति कर्मणि दृष्टान्ता- वेशेन अकर्मकत्वात् कर्तरि एव दार्ष्टान्तिकाभिप्रायेण व्याख्याने निर्विवादसिद्धता नाम दृष्टत्वमुभयत्र तुल्यम् ॥ ३ ॥
भाविसूत्रार्थं सङ्क्षेपेण निरूपयति एवं च इति । आत्मैव ईश्वरः, स च सिद्धः इति यदुक्तम्, तदेवं; तस्य या प्रत्यभिज्ञा करणभावसाधन- त्वेन आविष्क्रियमाणा शक्तिस्तत्कृतश्च दृढनिश्चयः, तदपि एवमित्येतद्वस्तु सोपपत्तिकं कृत्वा निश्चयपर्यन्तं दर्शयितुमाह । उपोद्धातानन्तरं वक्ष्यमाणस्य शास्त्रस्य सा प्रत्यभिज्ञैव ज्ञानक्रियाशक्तिरूपा अर्थोऽभिधेयो ज्ञानक्रियाधिका-
(पगे ८८)
राभ्यामागमसंवादितार्थाभ्यां तत्त्वार्थसङ्ग्रहनिरूपिततात्- पर्याभ्यां ज्ञानक्रियाशक्त्योर्विस्तरतो निरूपणात् । दृढनिश्चयश्च समस्तस्य शास्त्रस्य प्रयोजनम् । जडभूतानां जीवदाश्रयं प्रतिष्ठानम्, जीवतां च जीवनं ज्ञानक्रिये एव यस्मात्, तस्मात् तथेति आत्मैव ईश्वरः सदा सिद्धः इति हि शब्दो हेतुहेतुमद्भावं द्योतयति । आत्मनः सिद्धत्वम्, ऐश्वर्यं च यदुक्तं कर्तरि ज्ञातरि इति, तेन प्रकारेण, यस्मादिदं सकललोकसम्मतं जडानां जीवन्मग्ना सिद्धिः, जीवनस्य ज्ञानक्रिये तत्त्वमिति उपपद्यते । ननु जडाजडवर्गस्यैव अयं वृत्तान्तो निरूपितो, नतु अन्यस्य । सत्यम् । अन्यस्तु न कोऽप्यस्तीत्याह वृत्तिकृत् वस्तूनाम् इति । ननु एवं सर्वभावानां यदि द्वैराश्यं, तदा
क्रियासम्बन्धसामान्यद्रव्य——। (२ । ९) इत्यादौ
द्वयात्मा तद्रजो दुःखं श्लेषि सत्त्वतमोमयम् । (४ । ६)
इत्यादौ च यस्तृतीयराशिसम्भवो वक्ष्यते, स कथमित्याशङ्क्य आह टीका- कारः भावाभावयोः इति, नीलं बहिरबहिरतत्प्रच्यवः, तत्प्रच्यवाविना- भूताश्च पीतादय इति न नीलं ते, नापि तेऽनीलम्, किन्तु आभासपरमार्था एव सर्वेऽर्था इति आभासस्थाने प्रमातरि सामानाधिकरण्येन वैयधिकरण्येन वा नीलानीले तावत् विश्राम्यतः । प्रमातृविश्रान्तं च वस्तूनां पारमार्थिकं रूपम् । तच्च तत्समन्वयशब्देन उक्तम् । तस्मिन् रूपे सति तथैव यत् बाह्यत्वेन अध्यवसीयते, तदपि प्रमात्रा न तत्कालसृष्टम्; अपितु अध्यवसितमीश्वरसृष्टवस्तुपृष्ठे तथैव अर्थक्रियाकरणात् वस्त्वेव ।
भगवच्छिवशक्तिसदाशिवेश्वरविद्यामायासृष्टिः प्रमातृसृष्टिश्चेत्यादि हि सत्यासत्यतद्द्वयादिरूपेणेति वक्ष्यामः
(पगे ८९)
तद्द्वयालम्बना————। (२ । ११)
इत्यादौ । ततश्च यदा वैयधिकरण्येन सृज्यते सृष्ट्या अर्थरूपं नीलस्य अनीलं कार्यं कारणं सहकारि विरोधि व्यवधि वा आधार इत्यादि, तदा बहिरसौ सम्बन्धः । सामानाधिकरण्यसृष्टावपि पारतन्त्र्येण सृष्टौ चित्रं रूपम्, पटस्य रूपं यदेव नीलं तदेव अनीलमिति; अत्र तादात्म्यसम्बन्धः सृष्ट एकार्थसमवायो वा । एकानेकचित्रवादेन च विरोधस्तस्य अनाभासनसारस्य प्रमातृकृतत्वात्, अनाभासनाभावे तदभावात् । स्वातन्त्र्येण निर्माणेऽवयवि द्रव्यम्, यो नीलः पटः स एव अनीलः इति । यद्यपि परमाणोरपि चित्रता उपगता, आकाशादेरपि घटेन संयोगः, पटेन विभागः इति युगपद्विरुद्धसंयोगतदभावमयता; तथापि सकलप्रमातृगोचरे वस्तुनि विचारः । या च परमाण्वाकाशादिप्रति- पत्तिर्लौकिकी, सापिच योगिनां तद्द्वारिकैवेति अवयविपदं द्रव्यविशेषणम् ।
पृथगेव वा द्रव्यग्रहणं तत्सङ्ग्रहार्थं प्रसिद्धत्वेन, प्राधान्यात् तु पृथगवयविपदमुपात्तम् । उपलक्षणं वा अवयविद्रव्यपदम् । अत्र च सर्वत्र प्रमातृविश्रान्तिरूपः समन्वय एव प्राणितम् । बहिरपिच तथैव अर्थक्रियाकरणात् वस्तुतैवात्रेत्याह वस्तु सम्भवेत् इति । ननु एवं तृतीयराशेरूभयात्मनोऽनुभयात्मनो वा सम्भवे विपक्षात् व्यावृत्तोऽपि हेतुर्न साध्येन व्याप्येत गत्यन्तरक्षयायोगात् । न । ते——–नीलात् व्यावृत्तं हि नीलानीलादपि व्यावृत्तम्, नीलमपि हि तदनुभयरूपं पाशवविकल्पसृष्टमेव भवति न बाह्यमिति तत्रापि न शङ्कितव्यम् । किञ्च अनुमानस्य ईश्वरनीयत्युपजीवनेन प्रामाण्यं वक्ष्यते
योगिनिर्माणताभावे——। (२ । ४३)
(पगे ९०)
इत्याद्युद्देशेषु । नियतिश्च प्राच्यप्रसिद्ध्युपजीवनी न विपक्षव्यावृत्तिं प्रधानत्वेन उपजीवति । तदस्तु अत्र तृतीयो राशिः । चित्तत्त्वे तु भावानां विश्रान्तिः, नतु चित्तत्त्वस्य अन्यत्र, येन चिदचितोः सामानाधिकरण्येन अन्यथा वा नीलानीलवत् तृतीयराशिरुन्मीलेत् । ननु भगवत्परमशिवविजम्भारूपात् शक्तितत्त्वादेव आरभ्य सदाशिवेश्वरविद्याभूमिषु परापरदशायां सामानाधिकरण्येन अहमिदमिति च वक्ष्यते
सामानाधिकरण्यं च सद्विधा———। (३ । ३)
इत्यादौ । मायापदे च शून्यधीप्राणदेहादेश्चिद्रूपताभिषेकेण चिदचिद्रूपता वक्ष्यते । तथा च नरेश्वरविवेकः
अणवश्चिदचिद्रूपाः——————।
इति । महाप्रमातरि च मायाप्रमातृप्रमेययोर्युगपत् प्रकाश इति निरूपयिष्यते
ऽग्राह्यग्राहकताभिन्नावर्थौ भातः प्रमातरि ।ऽ (१ । ३१)
इति । तत् कथमुक्तं नतु चिदचितोरपरचित्तत्वानुप्रवेशः इति । अत्रोच्यते-इह तावत् परधाम्नि न किञ्चित् जडं नाम, मायापदे तु नीलादयः सृज्यन्ते । तेषां च इयमेव सृष्टिः-यदन्योन्यतश्चिद्रूपा अचिद्रूपाश्च नानेति बहुशाखेन वैविक्तयेन आभासनम् । इयं हि सा पूर्णत्वाख्यातिरिति वक्ष्यते । अत्रापितु पदे न चित्तत्त्वस्य सृष्टिः काचित् तथात्वे जडतापत्तेः । अहमिदमिति च प्रकाशे योऽहमंशः, स परमशिव एव पूर्णः । तत्र परमिदमंशः उन्मीलन् अहमंशे एव प्रतिष्ठां लभते । यत् वक्ष्यते
अत्रापरत्वं—————-। (३ । ५) इति उपक्रम्य
परताहन्तयाच्छादात्————। (३ । ५)
(पगे ९१)
इति । नहि चिदचिद्रूपयोस्तुल्यकक्ष्यता । चिद्रूपस्य देशकालस्वरूपवैचित्र्यं हि न कदाचित्, अचिद्रूपस्य तु न तद्वैचित्र्यविरहः कदाचित् । सामानाधिकरण्यं तु वैयधिकरण्यनिष्ठितपृथक्त्वप्रकाशाभावमात्रे उपचरितम् । नतु अहन्तेदन्तयोस्तृतीयमधिकरणं किञ्चित् समानमस्ति । नच यथा नीलमेव अनीलम्, अनीलमेव नीलमिति एकप्राणीकरणेऽपि तद्विभक्तोभयरूपप्रकाशः; तद्वत् योऽहं, तत् नीलम्, यत् नीलं, तदहमिति प्रकाशे, अपितु नीलमेतत् स्वयं निःसारमहम्प्रकाशप्राणितमेवेति । अत एव
अणवश्चिदचिद्रूपा———।
इत्यत्र
——चित्त्वादेको महेश्वरः । ते न केचिदचित्त्वात्————॥
इति उक्तम् । मायाप्रमातुश्च यः प्रकाशः परमे प्रकाशे, न असौ पृथग्भूतस्य चिद्रूपस्य, अपितु शरीरप्राणादेर्वेद्यरूपस्यैव । तस्य तु प्रमातृता परमशिवप्रकाश एव, मायाकृतात् तु अभिमानमात्रात् तस्य चिद्रूपताकल्पनं न तात्त्विकम् । तथाहि अजडप्रमातृसिद्धिः
यद्यप्यर्थस्थितिः प्राणपुर्यष्टकनियन्त्रिते । जीवे निरुद्धा तत्रापि परमात्मनि सा स्थिता ॥
तदात्मनैव तस्य स्यात्कथं प्राणेन यन्त्रणा । (२१)
इत्यादि । एतच्च सर्वं चित्तत्त्वस्य स्वयम्प्रकाशत्वात् इत्यनेन उक्तम् । यत् स्वयमेव प्रकाशते न अन्यत्र प्रकाशत एव च, नतु प्रकाश्यतेऽन्येनेति, तदेव तत्त्वतश्चिद्रूपम् । तस्य कथमन्यत्र आभासनम्, अन्यत् तु अतत्त्वतश्चिदिति ।
मायीय इति
(पगे ९२)
भेदव्यवहारो हि अयं ग्राह्यग्राहकभावलक्षणः सर्वस्य प्रसिद्धः, तदपेक्षया तदनुवादेन तत्त्वोपदेशः कर्तव्यः इति द्वैविध्यमुक्तम् । ननु पञ्च भूतानीत्याहुः पञ्चानां भूतशब्दवाच्यत्वम् इत्यादौ तत् कथमुक्तं सूत्रे भूतानां जीवताम् इति । एतदाशङ्क्य आह जीवोऽपिच इति ।
सिद्धं भवतिक्रियाकर्तृरूपं हि भूतमुच्यते । तत् परमार्थतो जीवत एव भूतत्वमुचितम्, तत्प्रसादेन तु अपरस्य । पार्षदसमयस्तु अनियतः । सोऽपिच अत्र अस्त्येव । भगवद्गीतासु च यद्यपि
बुद्धिर्बुद्धिमतामस्मि———। (७ । १०)
इत्यादौ सम्बन्धषष्ठी, तथापि बाहुल्येन निर्धारणषष्ठ्यः
———पाण्डवानां धनञ्जयः । (१० । ३७)
इत्यादयः श्रूयन्ते । समानजातीयानामेव च निर्धारणमिति चेतनापि भूतरूपैवेति वस्तुग्रहणमिति वृत्तौ । तदपेक्षयैव इति । सा उक्तपूर्वा या अपेक्षा लोकयात्रापेक्षारूपा गुणभूतापिवा लोकयात्रा बुद्ध्या पृथक्कृत्य परामृश्यते इति षष्ठीसमासः । लोकयात्रायां लोकव्यवहारे हि ग्राह्यग्राहकव्यतिरिक्तं न वस्तु भाति । संसारिणाम् इति तत्त्वप्रत्यभिज्ञानेन अनुग्राह्याणामित्यर्थः । साक्षात्कारेऽनुभवात्मनि यत् प्रतिभासते, तदेव वास्त्विति दृढसम्भावितपृथक्ताकत्वेन चिद्रूपे यत्नेन प्रवेशनीयमिति यावत् । ननु स्मर्यमाणविकल्प्यमानादेरपि अर्थस्य चित्प्रवेशो निरूप्य एव, नतु केवलमनुभूयमानस्यैवेत्याशङ्क्य आह न तदतिरिक्तम् इति । अनुभववासनोपजीवित्वात् स्मृतेर्मनोराज्योत्प्रेक्षादिविकल्पानां च न तद्विचार इति । अस्फुरतो हि कथं भेदाभेदादि निरूप्यते । ननु शास्त्रितानां यत् भाति, तत् किमिदानीं चिद्रूपात् भिन्नमेव अस्त्वित्याशङ्क्य आह शास्त्रसंस्कृतानामपि इति ।
(पगे ९३)
साङ्ख्यस्य यद्यपि पञ्चविंशतिस्तत्त्वानि स्फुरन्ति, तथापि पञ्चैव भूतानि चेतना चेत्येतावन्मात्रे तावत् साक्षात्काररूपोऽनुभवः, न अधिके । तत एव तत्रभवतो धातुषट्कनिरूपणे एव विश्वं निरूपितं भवतीत्याशयेन तत्समीक्षोद्यमः । सम्भावनानुमानागमजनितेष्वपि ज्ञानेषु तदेव भासते, केवलं योजनामात्रमधिकम् । यथा पृथिवी एव या सुरभ्यसुरभ्यादिविचित्रगन्धा तत्रैव विशेषत्यागेन सौक्ष्म्येण च गन्धतन्मात्ररूपतेति । अनुभूतमेव इति अध्यारुह्यवादेन एवमुक्तम् ।
सुखदुःखमोहानां हि गुणानां साम्यव्यापकत्वादि समारोप्य प्रधानमुपकल्पितम् । तत्र च सर्वमनुभूतमेव सुखादि तावत् दृष्टमेव, साम्यं च मधुरकटुकादेर्दृष्टम्, व्यापकत्वं च पटे रूपस्येति ।
तस्मादिदं तात्पर्यम्-इह द्वयी गतिः प्रधानमिदमिति । किञ्चित् पृथक् स्फुरति चेत्, रूपादिमयमेव । अथ न इदन्तया स्फुरति, अथच स्फुरति; तदहन्तयैव वा पृथक्तया वा गत्यन्तराभावात् । अथ न स्फुरति, तत् न किञ्चित् । ननु स्फुरति च इदन्तया रूपद्यतिरिक्तं च तथैव च उत्प्रेक्षितत्वात् । सत्यं, तथापितु जानाति, ममान्तरे तत् स्फुरति, प्रमात्रन्तःस्फुरत्तैव च उपदेश्या ।
प्रमात्रैकात्म्यमान्तर्यमिति हि वक्ष्यते । सा चेत् सिद्धा, किमन्येन । अत एव आह सुकर इति । सुकरं सर्वजनवेद्यं प्रमातरि अन्तर्भावनमपृथग्भावनं यस्य तत् तथा । यतस्तदवस्तुना खपुष्पादिना वाह्येन तुल्यमिति तदनूद्य यदि तस्य प्रमात्रपेक्षया द्वयं प्रमातुरभिन्नत्वं साधयितुमारभ्येत, तदन्येभ्यः शास्त्रेभ्यः पृथक्त्वप्रधानेभ्यो न अस्य वैलक्षण्यं स्यात् ।
तथाहि खपुष्पं प्रमातुर्न पृथगिति उक्ते घटादेर्निर्भासमानस्य न अद्वयरूपत्वमुपपादितं भवति । यस्य च खपुष्पस्य उपपादितं, न तत् पृथग्बुद्ध्या कश्चन प्रतिपद्यते । कथं सुकरप्रमात्रन्तर्भावनम् इति ।
(पगे ९४)
आह तथाहि इति । येषां विकल्पनमेकं प्रयोजनं, नतु बाह्यं किञ्चित्; विकल्पने एव च ये भावाः, नतु बहिस्तत्र अस्फुरणात्, ते वैकल्पिकाः ।
तेषामात्मरूपाणां ज्ञानाकारमयानामवभासं भूयसा इति सौगतवेदान्तादिदृशा प्रतिपन्नाः
———भ्रान्तिः सा वासनामयी ।
इत्युक्तत्वात् । ननु आत्मा वा ज्ञानं तद्वासनां वा तदाकारो वा तत्त्वेन न भाति, अपितु इदं रजतमिति इदंरूपबाह्याकारेण । सच एषामसन्, असतश्च कोऽन्तर्भाव इत्याशङ्क्य आह सत्ख्यातावपि इति । इह अन्तर्भावेन न किञ्चित् कृत्यम्, केवलमात्मैव अस्ति, नतु अन्यदिति पृथक्त्वेन द्वैतपरिवर्जनमुप- देश्यम् । अवस्तुनश्च अवस्तुत्वात् पृथक्त्वपरिवर्जनं स्वतःसिद्धमेव । ननु यद्यपि तदवस्तु वैकल्पिकं, तथापि बाह्यरजततया तदध्यवसीयते सा च अस्त्येवेति अवस्तुभूता कथमित्याशङ्क्य आह अध्यवसायापेक्षयापिच इति ।
अध्यवसानं न वस्तुस्पृक्, कथमस्य तत् वस्तुतां वितरेदिति तावदास्तामिह ।
प्रधानविकल्पे तु इदं तत् बाह्यं घटादिमध्यनिविष्टं प्रधानमिति अध्यवासायो नास्ति । सहि अविकल्पकदर्शनमूलः । तच्च इह नास्ति, विकल्पान्तरमूलतायां तु अनवस्थेति इयतोऽर्थस्य द्योतनाय अपिशब्दः ।
चशब्दः पूर्वपक्षशङ्कां सूचयन् प्रमेयं समुच्चिनोति । न किञ्चित् इति ।
प्रधानादेर्न तादृशं रूपं किञ्चित्, यत् कृच्छ्रेण यत्ननिरूपणेन परिह्रियते द्वैतरूपेण पृथक्त्वेन परिवर्ज्यते । साङ्ख्यैश्च अमुनैव आशयेन अनुमानागमादिवेद्यत्वेऽपि प्रधानादेरसंवेद्यपर्वत्वं प्रदर्शितम् । स्मरणविकल्पनादौ इत्यादेः न किञ्चित् दुष्परिहरं स्यात् इत्यन्तस्य ग्रन्थस्य इतिशब्देन
(पगे ९५)
हेतुरूपतां द्योतयन् प्रकृतोपयोगमाह । निःसन्देहप्रसिद्धत्वं साक्षात्कारज्ञेयत्वं न किञ्चित् प्रति असिद्धत्वं च उपपादयितव्यम् इति उपपादनार्हं यत्नेनेत्याशयः । उक्तं भवति इति सूत्रवृत्तिभ्यामिति शेषः । एवं दृढन्यायघटना उक्ता तावत्-यत् यत्र लोकस्य सिद्धं, न तत् तत्र यत्नेन उपपाद्यं नीलस्य इव नीलत्वम् । तथाच प्रधानमायादाव- पृथक्त्वमिति यत्नेन उपपाद्यस्य व्यापकमप्रसिद्धत्वम् । प्रसिद्धत्वेऽपि हि यदि स्यात्, तत् सर्वत्र भवेदिति न जातु तूष्णीको जनः स्यादिति तद्व्यापककादा- चित्कत्वविरुद्धसार्वत्रिकत्वप्रसङ्गादप्रसिद्धत्वेन यत्नसाध्यता व्याप्यते, तस्य च विरुद्धं प्रसिद्धत्वमिति व्यापकविरुद्धोपलब्धिः । अथ ये दृढन्यायनिबन्धं न सहन्ते कृपालोश्च न व्युत्पाद्याः, तान् प्रति सावहेलं पक्षान्तरं परिगृह्य सूत्रवृत्ती व्याचष्टे अथवा इति । भूत- शब्देन सूत्रे भवतीतिव्युत्पत्तिभाजा, वस्तुशब्देन वृत्तौ वसतीति व्युत्पन्नेन किं किं न सङ्गृहीतमिति यावत् । प्रत्यक्षं पृथिव्यादि, परोक्षं तद्गतं देशकालावस्थाभिन्नं वैचित्र्यमत्यन्तातीन्द्रियं च अस्मदाद्यपेक्षया, नतु मन्त्रेश्वराद्यपेक्षया, प्रधानादि । संवेद्यलक्षणम् इति जडशब्देन विशेषणादिति भावः । तथा निर्देशः इति सूत्रे जडभूतानाम् इति वस्तूनां जड इति वृत्तौ । ननु बहूनां तनुकरणभुवनादिरूपाणां वेद्यानां ब्रह्मादीनां स्थावरान्तानां वेदकानां च तेनैव रूपेण ईश्वरैकात्मकत्वं किं न-उच्यते, किमवान्तरे जडाजडतया वर्गद्वय- सिद्धये सूत्रे जडजीवद्ग्रहणं वृत्तौ च जडाजडभेदपदमित्या-शङ्क्य आह द्वैराश्येन च इति । चकारः प्रमेयं समुच्चिन्वानः पूर्वपक्षं द्योतयति । एवमन्यत्रापि यथायोगं योज्यम् । अयं भावः-निःसङ्ख्याका अपि अमी भावास्तावत् जडमजडमिति इत्यता रूपेण विमृश्यन्ते च प्रकाश्यन्ते
(पगे ९६)
च तद्विमर्शप्रकाशपरवशत्वाच्च बहुत्वमुज्झित्वा द्वैधे शिष्यन्ते ।
तदेकतापि अभिन्नदुर्लभा । प्रकाशविमर्शरूपांश्च ईश्वर एव स्वतन्त्रस्तानात्मभूतान् यथारुचि रचयति, नैषां किमपि प्रातिस्विकं तत्त्वमिति । झटिति च अनन्तानामैक्यं कथमङ्गीकुरुते हृदयमित्यपि वर्गीकरणम् । ननु अजडो वर्गः पूर्वं वाच्यः प्राधान्यादिति । निराकरोति जडस्यैव च इति । जडं हि पूर्वसिद्धमनूद्य चिद्रूपेऽन्तरभावनीयं यत्नेन, नतु चिद्रूपस्य चिद्रूपान्तर्भावनं यत्नसाध्यम् । व्यामोहात्तु यत् तत्र अनैश्वर्यं बहुत्वं च अभिमन्यते, तत् केवलमपसारणीयम् । तेन यत्नसाध्यचिदन्तर्भावनं पूर्वं जडमुद्दिष्टम् । तत्र इति वृत्तिपदं पठित्वाव्याचष्टे तयोर्जडाजडयोः इति । इत्थं च अत्र अवतरणिका-विश्वस्य तावदीश्वरमयत्वं वक्तव्यम् । तत्र जडस्य ईश्वरमयत्वे
पुरुष एवेदं सर्वम् ।
इत्यादिन्यायेन वक्तव्ये किमन्तरालनिरूपितया जीवल्लग्नतयेति । तत्र आह जडात्मनः इति । अनिरूपितस्य अप्रकाशितस्य च जडस्य खरशृङ्गप्रतिमादपि शोच्यस्य किं निरूप्यताम् । प्रकाशविमर्शौ च न तस्य निजौ । मम प्रकाशते, मया विमृश्यते इति हि व्यवहारः । ननु ईश्वरसदाशिवशक्तिभुवि अहमिदमिति प्रकाशविमर्शतादात्म्यमेव भावानामित्याशङ्क्य आह तदाच इति । तत्र च किं द्वैतभ्रान्तेरपासनेन तस्या अभावादेवेति आशयशेषः । अद्य तु इति मायापदे यत्नोपदेश्यतादशायाम् । द्वैतवादिभिरपि यदङ्गीकृतं संविन्निष्ठत्वं विषयव्यवस्थानां, तत् क्रमेण संवित्तादात्म्यं पर्यवसाययति जीवत्परतन्त्रा जीवल्लग्ना जीवद्भूतमग्ना इत्यादिना ।
निष्ठा हि तदायत्तत्वं, तदपि तद्विश्रान्तता, सापिच तदन्तर्लीनत्वमिति जीवत एवम्भूतत्वं
(पगे ९७
वस्तुत्वमवशिष्यते इत्यन्तव्याख्यानपदे भूतशब्दस्य आशयः ।
सिद्धपरतन्त्रभावाः इति । परैरपि तावदेषां संवित्पारतन्त्र्यमङ्गी- कृतम्, यद्बलाच्च संवित्तादात्म्यमायान्तीत्यर्थः । वक्ष्यमाणनयेन इति
प्रकाशात्मा प्रकाश्योऽर्थो नाप्रकाशश्च सिध्यति । (१ । ३४)
इति । अजडप्रमातृसिद्धिरपि
एवमात्मन्यसत्कल्पाः प्रकाशस्यैव सन्त्यमी ।
जडाः—————–॥ (१५)
इति । अनेन इति जडानामन्तराले जीवन्निष्ठतानिरूपणेन । अमुमेव जीवत्सोपाना-रोहणद्वारेण जडानामीश्वरभावोपदेशमभिप्रेत्य तत्त्वार्थसङ्ग्रहा-धिकारे
आत्मैव सर्वजन्तूनामेक एव महेश्वरः । (१) इति जन्तुग्रहणम् ।
आत्मैव सर्वभावेषु——————। (२)
इति शिवदृष्टौ सप्तम्यर्थं यत्नस्वीकृतं व्याख्यातुं पठिष्यति भूतत्वाविशेषेऽपि इति । न अन्यदेषां जडात् वैलक्षण्यकारि रूपमिति अभिप्रायः । जीवनसम्बन्धः इत्यनेन क्रियासम्बन्धोऽत्र प्रवृत्तिनिमित्तमिति हृदि निधाय समासकृत्तद्धितेषु सम्बन्धाभिधानमिति मन्यमानः शत्रन्तं जीवच्छब्दं साध्यमानाव्युपरतजीवनक्रियावदभिधायकं सूचयति । जीवतामित्युपक्रम्य जीवनं ज्ञानक्रिये इत्येकवचनेन संविदैक्यं पारमार्थिकमाह । ननु जीवनं यदि ज्ञानक्रिये, तदा तत्सम्बन्धः स्वातन्त्र्यस्य हेतुरिति किं केन सङ्गतमित्याशङ्क्य आह ते एव हि स्वातन्त्र्यं वक्ष्यते इति ।
चितिप्रत्यवमर्शात्मा परा वाक्स्वरसोदिता ।
स्वातन्त्र्यमेतन्मुख्यं तदैश्वर्यं परमात्मनः ॥ (१ । ४५)
(पगे ९८)
इत्यत्र हि प्रकाशरूपं ज्ञानं, विमर्शरूपा च क्रियेत्येतदेव स्वातन्त्र्यमिति निर्णायिष्यते । ननु भवतां ज्ञानक्रिये स्वातन्त्र्यं, जीवनं तु ते इति कुतः ।
तत् हि प्राणधारणमात्रमित्याशङ्क्य आह जीवनं हि इति । हिशब्देन अस्य ग्रन्थस्य प्रागुक्तज्ञानक्रियात्मकजीवनसमर्थनाय हेतुतां द्योतयन् पूर्वपक्षाशङ्कां सूचयति । सत्यं प्रसिद्धं प्राणधारणत्वेन जीवनम्, प्राणशब्दस्तु अत्र प्राणादिपञ्चके वर्तते । तस्य च धारणं यथास्थानं यथाक्रियं च अविचलद्रूपताकरणम् । तच्च चक्षुरादीनां च बुद्धीन्द्रियाणां वागादीनां च कर्मेन्द्रियाणां मनोऽहङ्कारबुद्ध्या-त्मना अन्तःकरणत्रयेण सह मिलितानां त्रयोदशानां बाह्यात् रूपदर्शनादेः शब्दोच्चारणादेर्नीलादिसङ्कल्पादेश्च वृत्तिविशेषात् या अन्या आन्तरी वृत्तिरशक्तिविशेषान्ध्यादिविध्वंसितरूपदर्शनादिबाह्य-वृत्तित्वेऽपि एषामप्रतिहन्यमाना वृत्तिः संरम्भोद्यमनप्रयत्नादिपर्याया, तया हि परवशीकृतो वायुर्नैसर्गिकीं तिर्यग्गतिमवधूय प्रागवाक्समोर्ध्वव्याप्तिनयनादन्वर्थप्राणादिपञ्चकात्मतां भजति ।
संरम्भोद्यमनप्रयत्नाश्च ज्ञानरूपाः परामर्शात्मानश्चेति । तत्र जीवने जीवनव्यवहारे ज्ञानक्रिययोरन्तर्लीनता अपृथक्त्वेन अभिधानात् वन इव धवादीनाम् । ननु जाग्रत्स्वप्नयोः स्तां ज्ञानक्रिये, सुष्ठुसुप्ततायां तु गाढनिद्रारूपायां कथं ते, नच तदा न जीवतीति व्यवहार इति शङ्कित्वा आह सुषुप्तावस्थायामपि इति । अत्र हेतुमाह- बुद्धिकर्मेन्द्रियाणां मिलितानां सतां त्रयोदशानां यस्मात् कार्यं सुषुप्तावस्थायामपि प्राणादिपञ्चकप्रेरणं, तस्मात् ज्ञानक्रियात्मकम् ।
बुद्धीन्द्रियकार्यं हि ज्ञानं, कर्मेन्द्रियकार्या च क्रिया । ननु एवं जानामि करोमीति सुषुप्तेऽपि भासेत, अज्ञासिषमकार्षमिति च स्मर्यते, नच एवमित्याशङ्क्य आह अन्तर्लीने
(पगे ९९)
इति अनुद्भिन्नविशेषे इत्यर्थः । एतदुक्तं भवति-त्रयोदशानामिन्द्रियाणां सत्तारूपायां प्राणनलक्षणायां वृत्तौ जाग्रति इव गुणप्रधानभावा- भावात् समानाभिहारात् अध्यवस्यामीत्यादि यावदानन्दजननक्रियावान् भवामीत्यन्तं ये विशिष्टा ज्ञानक्रियाभेदाः, तेषामन्यतमो न उद्रिक्ततया भातीति न विशेषांशोल्लेखनं विना स्फुटस्तत्प्रत्यवभासः, सामान्यरूपतया तु ज्ञानक्रिये स्त एव । नहि प्रबुद्धस्य प्रत्यवमर्शे अहमित्येतद्रूपं विच्छिन्नं पुनरुदितमपूर्वमिति भाति । एतच्च वितत्य उक्तं तदात्मविविक्तपूर्वकालदृश्वना इत्यत्र । जाग्रत्स्वप्नयोरपि सा तादृशी सामान्यज्ञानक्रियारूपा जीवनशक्तिरनुल्लिखितविशेषा आन्तरी सामान्यकरणवृत्तिरस्त्येव; केवलं तत्र गुणप्रधानभावमहिम्ना बाह्या कस्यचिदिन्द्रियस्य वृत्तिरुल्लसति, ततः सैव स्फुटत्वेन भाति; नतु सामान्यरूपा शावलेयप्रतीताविव गोत्वम् । तेन इह तत्र च सुषुप्तावस्थायामपि इति सामानाधिकरण्येनापि योज्यम् । तत् जीवनं जाग्रदादावपि सुषुप्तावस्थैक- रूपं यद्यपि उक्तात् न्यायात्, तथापि अन्तर्लीनज्ञानक्रियाकमेव । ननु बुद्धिप्राणादावहमं शरसाभिषेको भगवन्मायाशक्त्युपकल्पितो जीवनम्, अहमित्येव च ज्ञानक्रिये, तत् नैसर्गिक्यावेव ते, तत्र बुद्धिकर्मेन्द्रियकार्यत्वं कथम् । सत्यम्, किन्तु संसारिजनोऽङ्गीकृतभेद- ग्रह इति प्रतिबोध्यते । नच तस्य भगवच्छक्त्यादि किञ्चित् विदितमिति तेन रूपेण कथं प्रतिबोध्यताम्, विदितत्वे वा किमन्यत् प्रतिबोध्यताम् । सर्वत्र च ऐश्वरे पारमार्थिके स्वातन्त्र्ये स्थितेऽपि तन्नियतिशक्तिमहिम्ना अवान्तरोऽपि अयं कार्यकारणभावो निर्भासमानत्वेन सत्य इति सोऽपि अङ्गीक्रियत एव । तत्र च बुद्धिकर्मेन्द्रियाणां बहिर्वृत्तिर्यथा घटमध्यवस्यामीत्यादिका, तथा अनुल्लिखितविशेषा
(पगे १००)
अन्तरपि जीवनरूपा अस्त्येवेति न किञ्चित् दुःस्थम् । ननु एवं स्वात्मवर्त्तिन एव ज्ञानक्रियात्मनो जीवनस्य अवभासनं स्यात् । ततः किम् । परजीवतां न ऐश्वर्यमुक्तं स्यात् । ततोऽपि किम् । तर्हि द्वैतं भासते । भोः प्रामाणिका यदि ते परे जीवन्तो जीवत्तया न भान्ति, तदमी जडाः, तेषां च जीवल्लग्नतैव उक्तेति कथं तैर्द्वैतम् । अथ भान्ति, तथापि जीवनं ज्ञानक्रिये एवेति कथं द्वैतम् । भान्तीत्येव च पक्षो युक्तो जीवति विपरीते च व्यवहारभेदात् । ननु आन्तरी वृत्तिर्जीवनरूपा, सा कथं परसंवेद्येत्याशङ्क्य आह बहिरपि इति ।
अन्तस्तावत् जीवनं दर्शितम्, बहिरपितु यत् विशेषवृत्तिरूपं वचनादानादि, तदपि विशेषस्य सामान्याविनाभावात् वा सामान्यपरिणा-मत्वात् वा जीवनरूपम्, न केवलं स्वसंवेद्यम्, यावत् परैरपि संवेद्यते । अत्र अर्थे तत्रभवद्भर्तृहरिपठितमागमं लिखति तदुत्क्रान्तौ इति ।
अर्थक्रियासु वाक्सर्वान्समीहयति देहिनः । सैषा संसारिणां सञ्ज्ञा बहिरन्तश्च वर्तते ॥
तदुत्क्रान्तौ विसञ्ज्ञोऽयं दृश्यते काष्ठकुड्यवत् । (वा। प। १ । १२८)
तस्या उत्क्रमणे काठकुड्यतुल्योऽयं नष्टसञ्ज्ञ इति प्रत्यक्षेणैव दृश्यते । तच्च नष्टमिति भाति यत् सदिति प्रत्यक्षेणैव भाति । तेन वागादिद्वारेण तत् तादात्म्यापन्नमान्तरमपि जीवनं प्रत्यक्षत्वेनैव अभिमन्यते, नतु
बुद्धिपूर्वां क्रियां दृष्ट्वा स्वदेहेऽन्यत्र तद्ग्रहात् । कल्प्यते यदि धीः—————-॥
(पगे १०१)
इति नीत्या केवलानुमानगोचरतयैवेति । एतदुक्तं भवति-परशरीरेऽपि यावत् गौरत्वश्यामत्वक्षुत्तृष्णासुखदुःखादि वेद्यभूतं, तावदन्यजडवत् जीवति प्रतिबिम्बितं भाति; जीवनं तु ज्ञानक्रियारूपं स्वात्मतादात्म्येनैव । तथाभासनस्य च प्रमातृभेदोन्मूलनफलस्य शुद्धविद्यारूपस्य संसाररक्षण——लोकोऽत्र
बुद्धिपूर्वां————। ————–॥
इति नयेन अनुमान एव सातिशयं निबद्धादरो भवति ॥ ४ ॥
ननु ज्ञानक्रियात्मकशक्त्यभिज्ञानहेतुना आत्मनि ऐश्वर्यव्यवहारः साध्यतां नाम । स एव तु हेतुः कथं सिद्धः इत्याशङ्क्य तत्र ज्ञानम् इति यत् सूत्रं, तत्सङ्क्षेपाभिधेयं टीकाकारो निरूपयति एवञ्च इति ।
तत्र ज्ञानं स्वतः सिद्धं क्रिया कायाश्रिता सती ।
परैरप्युपलक्ष्येत तयान्यज्ञानमूह्यते ॥ (५)
तत्रेति तयोर्मध्ये स्वात्मनि ज्ञानं स्वप्रकाशं, क्रियापि आन्तरी संवेदनादव्यतिरिक्ता विमर्शरूपा स्वप्रकाशा । सैव शरीरपर्यन्तीभूता तु बाह्यदर्शनस्पर्शनादिगम्यापि परप्रमातरि तु कायपर्यन्तीभूता व्यापारव्याहाररूपा दर्शनादिप्रमाणगम्या तादात्म्यात् तत्कार्यत्वात् तत्पर्यन्तत्वादान्तरसंवेदननिर्भासमपि करोतीति स्वपरप्रमातृगतं जीवनं ज्ञानक्रियात्म सिद्धं हेतुरूपं, तत ऐश्वर्यव्यवहार- साधनमिति श्लोकस्य तात्पर्यार्थः । ऊह्यते इति न अनुमेयतामात्रं परसंवेदनस्येत्याह ऊहनं तर्कणं सम्भावनम् इति । अत्रांशे इन्द्रियव्यापारणमपि अस्ति, ततश्च साक्षात्कारमुपलक्षयति ऊहः । सोऽपि हि परमार्थतः परसंवेदनेऽस्ति, परत्वं तु मायामोहकृतमभिमानमात्र- सारमिति हि उक्तमवतरणिकायां
(पगे १०२)
स्वपरोपक्रमेऽपि स्वसंवेदनसिद्धमिति सामान्याभिधानात् । ननु ज्ञानं विषयप्रकाशसमये न एकान्तेन प्रकाशते, अपितु विषयः प्रकाशते, न तत्प्रकाशः । स तु यदा प्रकाशते, तदा ज्ञानान्तरग्राह्यतयैवेति आक्षपादीयमाशङ्क्य आह परपक्षे प्रकाशते इति । विषयः प्रकाशते इति हि यदि विषयस्य धर्मः, तन्ममेति नियमेन प्रमातृलग्नता न स्यात् ।
प्रमातृकार्यत्वेन तथेति चेत्, न कारणेन कार्यस्य तल्लग्नतावभासनियम- करणं, न दृष्टं यतः । एवं हि सति कुविन्दस्यैव पट इति स्यात्, प्रमातृलग्नताभावे च स विषयप्रकाशः सर्वान् प्रति, न कञ्चित् वा प्रतीति सर्वज्ञं सुप्तं वा जगत् स्यात् । अथ प्रकाशते इति नायं विषयस्य धर्मः ।
तर्हि कस्य । आत्मन इति चेत्, विषयः प्रकाशते इति आत्मनि रूपं समवेतमिति आत्मा विषयप्रकाशमय एवेति आयातम् । तथात्वं च तस्य यदि आत्मनो न भासते, तदतथाभूतरूपत्वात् कोऽस्य विशेषः । शुक्लगुणयोगात् हि यः शुक्लः पटः, स यथा जडस्तथाप्रकाशमानत्वे स्वातन्त्र्यविरहात्; तथा आत्मापि भवेत् । विषयप्रकाशयोग एव वास्तवेन वृत्तेन भवन् जडत्वादात्मानं रक्षतीति चेत्, अस्त्वेवं तावत्; तथापितु स्वात्मप- रात्मविवेको न स्यात् । परात्मापि हि वास्तवेन विषयप्रकाशात्मकज्ञानगुण- समवायबलेन ज्ञाता चेतनो नच प्रकाशते, स्वात्माप्येवमिति, अहं जानामीति यदात्मनि स्वातन्त्र्यमनुभूयते परात्मविवेकेन तत् कथमुपपद्यते स्वात्मनि ज्ञानान्तरेण ज्ञातृतारूपं गृह्यते न परात्मनि, तत्कथं न स्वात्मपरात्मनोर्विवेकः । तदपि ज्ञानान्तरं यदि अन्यत् ज्ञानमपेक्षते, तदनवस्था । तथापि च स्वात्मपरात्मविवेकसिद्धिः ।
तत एव उक्तं
विज्ञातारमरे केन विजानीयात् ।
(पगे १०३)
इति । किञ्च विषयस्य तावत् न प्रकाशो धर्म इति स तावत् न प्रकाशते, विषयप्रकाशरूपमपि ज्ञानं न प्रकाशते, तद्ग्राहकज्ञानान्तरमालापि कल्पिता न आभाति, तत्समवायकारणभूतोऽपि आत्मा न प्रकाशते, तत्प्रकाशरूपमपि ज्ञानं न स्वयं भाति, तज्ज्ञानान्तरमालापि एवमिति अनवस्थानात् न किञ्चित् भातीति अन्धं जगत् स्यात् । तदेतदाह परप्रकाशत्वे च अनवस्थादि इति ।
आदिग्रहणादन्योन्याश्रयचक्रकासम्भवानुभवविरो-धाः ।
विषयप्रकाशात्मना हि ज्ञानेन आत्मानुमानरूपं ज्ञानम्, अहं घटं जानामि इत्येवम्भूतश्च विषयप्रकाशः । घटोऽयमित्यत्रापि हि मया वेद्यते इति अन्तः प्रविष्टम् ।——————त्यंवालस्यादनुच्चा-रणेऽपि इयतः अहमिति च इदमात्मज्ञानमिन्योन्याश्रयम् । सुखादिज्ञानानु-मितेन शब्दादिज्ञनान्तरेण आत्मानुमानेऽधिकानुप्रवेशकृतं चक्रकम् ।
हेतुप्रकाश एव न सम्भवतीति असम्भवः । नच आत्मनि निर्भासमाने व्यवधानलवोऽपि संवेद्यते इति अनुभवविरोधः । अन्यत्र इति, अथवा प्रत्यक्षसाधन एवेन्द्रियधियः कल्पनाविरहः इति । जितं जडैः इत्यादि ।
अर्थज्ञानं च नाम बुद्धिसाधनं प्रत्येति, न बुद्धिमिति श्लाघनीयप्रज्ञः इति । अप्रत्यक्षोपलम्भस्य न अर्थदृष्टिः । नहि विषयसत्तया विषयोपलम्भः, किं हि तर्हि, तदुपलम्भसत्तया । सा च अप्रमाणिका । सत्तानिबन्धनान् व्यवहारी उपरुणद्धि, तदप्रसिद्धौ विषयस्य अप्रसिद्धिः-इत्यस्तङ्गतं विश्वं स्यात् । उपलभते संवेदनमन्येन इति चेत् इत्यादि, तत् न तावदयं पुरुषः कञ्चिदर्थं प्रत्येति उपलम्भनिष्ठां प्रतीक्षमाणः, नच सा अस्तीत्यादि विनिश्चयवार्तिकादिप्रदेशेषु । ननु न कारिकायां जीवद्ग्रहणमस्ति, तत् कथं वृत्तावुक्तं जीवतामिति ।
एतदाशङ्क्य आह जीवत्वाक्षिप्ते इति ।
(पगे १०४)
ज्ञानं क्रिया च जीवतां जीवनम् इति पूर्वसूत्रार्थपर्यालोचनादेवं लभ्यते । तच्च विस्पष्टीकरणार्थं वृत्तौ व्याख्यातमित्यर्थः । तत् इति जीवत्वव्यवहारस्य निबन्धनं निमित्तम् । यतो ज्ञानक्रियासम्बन्धः, अतो जीवन्नयमित्येवम्भूतनिर्भासोपक्रमो जानाति करोत्ययमिति व्यवहारः, सोऽपि जानामि करोमीत्यत्र भवन् अन्यदेहांशं स्वदेहमिव कुर्वन्नहन्ता- परमार्थ एव । ननु जीवनं ज्ञानक्रिये एव इति पूर्वमुक्तम्, तच्च अनेन आक्षेपनिबन्धनभावव्यवहारेण विरुध्यते तस्य भेदमूलत्वात् । सत्यं, किन्तु जीवतीति प्राणान् धारयतीत्यर्थे ज्ञानक्रिये अन्तर्लीने; यदि वा जीवत्व- शब्देन जीवनव्यवहार एव उच्यते । जीवत्ययमिति हि व्यवहारे कुत इति प्रश्ने जानाति करोति यत इति उत्तरमाहुः, तथा जानाति करोत्ययमिति व्यवहारे कुत इति पर्यनुयोगे यतो जीवतीति आहुः । परस्पराविनाभावात्तु पूर्वमुक्तं जीवनं ज्ञानक्रिये एवेति । अभेदेऽपि वा विकल्पोपरचितस्तावदस्ति भेदः, जीवतीति हि अन्यो विकल्पः, अन्यश्च जानाति करोति इति । तद्व्यावृत्तिभेदोपकल्पितभेदत्वान्तर्- निबन्धनता तादात्म्येऽपि युक्ता सौगतमते इव आकारयोगस्य प्रमितिनिबन्धनता । यथोक्तं
तद्वशात्तद्व्यवस्थानात्——।
इति । ननु ज्ञानं क्रिया च इति सूत्रं, तदुल्लङ्घ्य वृत्तौ क्रिया कस्मात् पूर्वं व्याख्यायते इत्याह क्रिया च इति । चः पूर्वपक्षं सूचयति ।
कायस्पन्दरूपत्वं प्राप्ता सती तस्य क्रियावतः प्रमातुः स्वात्मनि प्रसिद्धा, यत् प्रमातृव्यतिरिक्तस्य च प्रमात्रन्तरस्य दार्शनस्पार्शनस्फुट- प्रत्यक्षावसेयेति निर्विवादसिद्धा, अतोऽत्र ऐश्वर्यप्रसाधकहेत्वभिधान- प्रसङ्गे सैव पूर्वमुपादेया हेतोरविवादसिद्धस्य उपादानयोग्यत्वा- दन्यथा साध्यसमत्वानवस्थादिदूषणयोगात् । परप्रमातरि
(पगे १०५)
च धर्मिणि यदैश्वर्यं साध्यं, तत्र स्वात्मन इव परप्रमातुर्धर्मिणः सर्वात्मगतैश्वर्यानुमापकप्रमात्रपेक्षया अहमितिस्वप्रकाशत्वाभावे धर्म्यसिद्धतारक्षणार्थं क्रिययैव सिद्धिः कर्तव्या । तदनेन उत्कर्षद्वयेन वृत्तौ क्रिया पूर्वं व्याख्याता । तर्हि सूत्रेऽपि एवं कस्मात् नोक्तमित्याशङ्क्य आह परवाग्वृत्त्यादिका इति । सा हि क्रिया मूलभूमौ संवेदनमेव अवलम्बते विमर्शरूपत्वात् । विमर्शस्य च संवेदनावलम्बित्वात् शब्दनरूपतास्वीकारेण विमर्शरूपताभिधानाय वाक्पदमुपात्तम् । तथाहि अव्यतिरिक्तप्रकाशस्य या स्वात्मनि विश्रान्तिरहमिति अनुल्लिखितप्रतियोगिकल्पनतदारोपणतदपसारणादिका, सा परा पूर्णा सर्वस्य स्वरूपपरमार्थरक्षणेन पालनेन सर्वोत्कृष्टा च वाग्रूपा वृत्तिर्विमर्शक्रिया । उल्लिखितमपि इदम्भागमहम्भावग्रस्ततया प्ररोह- रहितमासूत्रयन्ती पश्यन्ती अहमिदमिति । तमेव अहम्भावादाकर्षन्ती मध्यमा अहमिदं जानामि करोमीति । तथैव परं प्रति जिज्ञापयिषुः प्राणे स्फुटीभूता वैखरी, शरीरे तु स्पन्दनरूपा क्रिया । इयति च सर्वत्र विमर्शरूपतैव अनुगता । चलामि शिरश्चालयामीत्येवं भूतविमर्शसा- रैव हि शरीरे तदव्ययवे च क्रिया । अपरिस्पन्दरूपापि तिष्ठामीत्यादिका क्रिया कर्तरि क्रमिकतापरामर्शपरमार्थैव । तत एव सा जडजलशिलादिगतचलन- स्थानादिक्रियातो विलक्षणाकारा । जडगतापि तु क्रिया जडस्य स्वात्मनिष्ठतानुपपत्तेर्यन्निष्ठा तत्प्रमातृसंविन्निष्ठैव ज्ञानशक्तिरूपमूले अहमित्यात्मनि इदम्भावस्यापि चलतीत्यात्मनो विश्रान्तत्वादिति सर्वा क्रिया विमर्शरूपेति । वृत्तौ च अयमर्थः पूर्वावस्था- सम्भवसूचकच्विप्रत्ययप्रयोगेण स्वीकृतः टीकाकारेण व्याख्यातः, सौत्रश्च क्रमो व्याख्यातः । यत एव ज्ञानस्यैव क्रिया पुच्छभूता, ज्ञानं च प्रमातुरपृथग्भूतं, संवेद्य-
(पगे १०६)
भेदात्कल्पितभेदम्, तत एव स्वभावहेतुरयं वस्तुतः, न कार्यहेतुः ।
विततस्य स्रोतस इव अंशमात्ररूपं हि व्यापारात्मकं स्पन्दनम् ।
स्वभावहेतुश्च सर्वो मोहवशारोपितापारमार्थिकरूपान्तरपराकरणमात्रपर्यवसित इति व्यवहारसाधक एव अभिधीयते, नतु अप्रसिद्धप्रसाधनरूप इति वास्तवं स्वप्रकाशत्वं ज्ञानस्य प्रमातुस्तदैश्वर्यस्य च मौलिकं न विघटते इति अत्र ग्रन्थकारस्य आशयः । ननु क्रियया यदि धर्मी चिकीर्षितः परः प्रमाता अनुमीयते, हेतुभागश्च ज्ञानात्मा; तदा वेद्यरूपत्वेन प्रमातुर्ज्ञानस्य च इदन्तापरामृश्यत्वेन जडताप्रसक्तिरित्याशङ्क्य आह प्रमातृता च इति ।
प्रमातृता संविद्रूपता, यया चैत्रः प्रमाताः मैत्रः प्रमातेति व्यवहारः । सा च यादृशी स्वात्मनि प्रकाशिता अहमित्यनन्यापेक्षप्रकाश- जीवितोचितविमर्शा, तत एव इदन्ताविमर्शासहिष्णुः; तादृश्येव अनुमानेन अनुमातुं युक्ता । नहि अन्येन व्याप्तिरन्यच्च अनुमीयते, स्वप्रकाशरूपेणैव च व्याप्तिः । ननु अयं चैत्रः प्रमाता, इदमस्य ज्ञानम्, अयमहं प्रमाता, ममेदं ज्ञानमिति इदन्ताप्रतिभासो विकल्पे तावत् दृष्टः, विकल्परूपं व्याप्तिविकल्पमूलं च अनुमानम्, तत् कथं न तत्र अनयोरिदन्तया प्रतिभास इत्याशङ्क्य आह नहि विकल्पः इति, स्वयं यत्स्वरूपपरिकल्पितो यः स्वभावः प्रमातुरहमित्यनवच्छिन्नप्रकाशस्वातन्त्र्यात्मा, ज्ञानस्य च वेद्योन्मुखत्वावच्छिन्नप्रकाशस्वाच्छन्द्यलक्षणः; स यस्मात् नैव विकल्पे प्रकाशते, अपितु शरीरप्राणाद्युपाधिसंवृत एव प्रमातुर्नीलादिप्रमेया- कारप्रच्छन्न एव च ज्ञानस्य स्वभावो भाति, तस्मात् प्रमातृता न वेद्यतामापद्यते इति सङ्गतिः । ननु एवं तर्हि प्रमातृता अनुमीयते, ज्ञानं च अनुमीयते इति कथम् । यत् किल अनयोः प्रातिस्विकं
(पगे १०७)
वपुः, तदनुमानविकल्पे न भात्येव यच्च भाति, तत् प्रत्युत तदावरणरूपं शरीरादि नीलादि वा । नच तत्र किञ्चिदनुमानेन कृत्य प्रत्यक्षादिनापि सिद्धत्वात् । नच तत्र अनिमितत्वं संवेद्यते । अपि च सर्वेषां प्रमातॄणामैश्वर्यं ज्ञानक्रियायोगादनुमीयते इति प्रकृतमिह । तत्र क्रियाविशेषाणां भेदात् धर्मिणोऽपि आत्मानो बहव इति तन्निष्ठमै- श्वर्यमपि भिद्येतेति कथमेकेश्वरसिद्धिरिति शङ्कां पराकर्तुमाह तथाविध एवच इति । न शरीरादि प्रमातृरूपमनुमीयते, नापि ज्ञानरूपं नीलादि; अपितु यादृगेव प्रमातुर्ज्ञानस्य च स्वभावः स्वात्मनि अहमिति स्वप्रकाशतया विमृष्टः, तथाविध एव विषयीक्रियतेऽनुमानेन इदन्ताग्राहिणापि । ननु इदन्ताहन्तयोः पारतन्त्र्यस्वातन्त्र्यरूपयोर्विरोधात् कथमेतदित्याह अहन्ता इति । अहमिति अव्ययमव्यतिरिक्ते प्रकाशे वर्तते, तस्य भावोऽहमितिविमर्शस्वरूपमहन्ता । स एव प्रकाशस्य स्वभावो निजं लक्षणमप्रकाशात् भेदकं तेन यद्व्यवधानं तेनेदं संवेदनमिति अनुमानसंवेदनानन्तरमवश्यम्भावित्वेन अहन्ताविश्रान्तं वेदनं हि उत्पद्यते । यतो हि अयं करोति जानाति च, ततः संवेदनमस्य करोमि जानाम्यहमित्येतद्रूपविमर्शोचितम् । एतच्च सर्वमहं जानामि, मत्प्रकाशविश्रान्तं मत्प्रकाशविमर्शमात्रमयमिति पर्यन्तेऽपि अनुमाता अहम्प्रकाशविमर्शमयत्वेन भाति,-इत्येवं पार्यन्तिकं यत् प्रतिष्ठितं रूपं, तत् स्वप्रकाशमेव प्रकाशितं भवति । ननु मध्ये यत्संवेदनस्य इदन्तया संवेद्यत्वं, तस्य पार्यन्तिकमहन्ताविश्रान्तित्वं विरुद्धम् । नहि मध्ये नीलं पीततायां विश्राम्यतीत्युचितम् । एतत्परिहरति स्वात्मनोऽपि इति ।
एतदेव स्वातन्त्र्यं यदतिदुर्घटकारित्वम् । दुर्घटं च तत् नियतिशक्तिकृतादेव मायादशायां
(पगे १०८)
विरोधात् । स्वातन्त्र्यपारतन्त्र्ये च अतिविरुद्धे अपि अन्योन्यमतिरोदधती अपि अनुत्तरस्वातन्त्र्यात् परमेश्वरो योजयति ईश्वर आत्मा इत्यादिविकल्पसृष्टौ ।
तथाहि तत्र इदन्ततांशयोगात् भाव्यत्वपूज्यत्वोपदेश्यत्वाद्युपपत्तिः; अनाच्छादिताहन्तांशयोगाच्च पारमार्थिकतद्रूपप्राप्तिरिति वक्ष्यते
स्वातन्त्र्यामुक्तमात्मानं स्वातन्त्र्यादद्वयात्मनः ।
प्रभुरीशादिसङ्कल्पैर्निर्माय व्यवहारयेत् ॥ (१ । ४७)
इति । एवञ्च इति । वक्ष्यमाणादुक्ताच्च स्वातन्त्र्यपारतन्त्र्यसङ्घटनोपपत्तिलक्षणात् न्यायात् परशरीरे ज्ञानं प्रमातृरूपं च अनुमीयमानं प्रारम्भे इदन्ताविषयीकृतं यद्यपि, तथापि पर्यन्ते स्वप्रकाशमेव सिद्धं भवति; नतु साध्यमिति सम्भाव्यते; यत आदिसिद्धं प्रमाणान्तरैरसाध्यं; क्रियया च सह व्याप्तिग्रहणकाले अनुमानकालात् पूर्वसिद्धं, चैतन्यस्वभावं यदनुसन्धानं नीलादिजडप्रतिष्ठात्मकमहमितिरूपं, तदेव प्राधान्येन रूपं यस्य प्रमातुस्तत्स्वभावं तत् । एतच्च वृत्तौ सिद्ध एव नतु साध्यः इत्यनेन दर्शितम् । सिध्यति इत्यपि वृत्तौ स्वप्रकाशतांशप्राधान्याय उक्तम् ।
अनुमानं हि अत्र विद्युत्प्रभान्यायेन मध्ये परमिदन्तां भासयति मूले व्याप्तिग्रहणावसरे पर्यन्ते च अनुमितप्रतिपत्तिप्रतिष्ठाकाले अहमित्यत्रैव विश्रान्तत्वात् । यथाहि नीलाद्यपि प्रमेयं प्रमातर्येव विश्राम्यति, तथा अनुमानप्रमेयमपीति । तत्र असाविदन्तांशोऽनुमातृगतायामहन्तायामेव लीनः । धर्मिभेदोऽपि इदन्तारूपत्वात् संविन्मात्र एव विश्राम्यति, अहन्ताभागस्तु न अहन्तान्तरात् भिद्यते संवेदनस्य देशकालाभ्यां वेद्यरूपतया संवेदन एव निमग्नाभ्यां भेत्तुमशक्यत्वात् संवेदनस्य च संवेदनान्तरात् स्वरूपभेदे सति असंवेदनताप्रसङ्गात् । नीलस्यापि नीलान्तरात्
(पगे १०९)
नीलाभासेन न भेदो नीलाभासस्य त्रैकाल्यत्रैलोक्ययोरेकत्वात् । तत्र तु आभासान्तरेण देशकालादिना भेदः, निराभासे तु संवेदने न आभासान्तरव्यामिश्रणं मिश्रीकार्यत्वे संविदन्तरापेक्षायां संवेद्यत्वसंवेदनत्वायोगात् । सवेद्यत्वेऽपि संविद्विश्रान्तत्वमेवेति अभिन्नमेव संवित्तत्वं परमार्थतः सिद्ध्यति । अन्यस्यापि अनुमातुरेवमेव ।
धूमादपि हि अनग्निव्यावृत्तिमात्रं सिध्यत् पारमार्थिकपर्वतकान्तार- महानसप्रभृतिधर्मिभेदवशात् भिद्यतां नाम, इह तु धर्मिणोऽपि शरीरादेः स्वतो न किञ्चित् पारमार्थिकं वपुरस्ति संवेदनमात्रविश्रान्त- त्वात्; केवलं स्वशक्त्यैव तत्संवेदनं विचित्रवेद्यावभासमुल्लासयत् धर्म्यादिकल्पनामपि न असत्यां दर्शयति अपरसृष्टिवदिति मध्यवर्तीभवन्नपि अयमनुमानव्यवहारो न अभेदं बाधते । सर्वो हि अयं प्रमाणकृतो भेदव्यवहारः परमार्थसंवेदने एव विश्राम्यति ।
यथाच दिक्कालाकाशसामान्यादि नैयायिकैस्तल्लिङ्गानां पूर्वापरचिरक्षि- प्रशब्दाभिधानप्रत्ययाभेदात् इति——नामविशेषात् एकमिति साधितं, तथा आत्मलिङ्गानां ज्ञानक्रियादीनामपि अविशेषात् किं न ऐक्यम्, व्यवस्था च दिगादिष्वपि दृष्टा, औपाधिकता च आत्मन्यपि न न सुसमर्थेति सिद्धमीश्वर एक एवेति । सौगतानामपि अनुमितमपोहरूपमवस्तु पूर्व- दृष्टस्वलक्षणरूपताव्यवसायविश्रान्तमेव अर्थक्रियार्थिनामर्थनीयं प्रवर्तकं च भवति । तेषां तु एतत् स्वलक्षणात्मकनिरंशवस्तुवादिनां समर्थयितुमशक्यं गिरिवर्तिनोऽदृष्टत्वादनध्यवसेयत्वात् महानसवर्तिनश्च ततोऽन्यत्वात् । अस्माकं तु वह्न्याभास एव वस्तु च एकश्च सर्वत्रेति न दोषः । तद्वत् प्रकृतेऽपि अनुमितमहमिति यदात्म स्वलक्षणं स्वतन्त्रं, तद्रूपाध्यवसायेनैव परः प्रमाता अनुमितो भवति; व्यवहारसाधनेषु च प्रमाणेषु मौलिकप्रमाणसिद्ध-
(पगे ११०)
मेवरूपं प्रपतति । तदिहापि मौलिकं स्वप्रकाशत्वमेव विजृम्भते । परस्य ऐक्योपपादनादनुमातृरूपप्रमातृव्यतिरिक्तानि प्रमात्रन्तराणि परमार्थत एकरूपाणीति उक्तम् । विवृतौ च प्रमातृज्ञानद्वयोपक्रमेऽपि एकतराभिधानं वस्तुत एकरूपतां प्रतिपादयितुम् । ज्ञानमिति हि ज्ञातृतैव उक्ता । परत्र अनुमेयमाना ज्ञातृता प्रमातृरूपत्वमिति यावत् ।
अथवा एवञ्चेति वाक्येन प्रमातृदृष्टान्तेन ज्ञानस्यैव एतद्रूपमुक्तमिति द्वयस्यैव उपक्रान्तस्य अभिधानं धर्मिमुखेन धर्ममुखेन च तदेव रूपं निरूपयितुम् । ननु यदि आत्मा ईश्वरः, सर्वः सर्वज्ञो न कस्मात् । सर्व इति यदि प्रमातृभेदाशयेन उक्तिः, तदसत् प्रमातृभेदस्य अपारमार्थिकत्वात् ।
केवलं स्वातन्त्र्यशक्त्यैव तद्भेदावभासनम्, एकस्तु प्रमाता शिवादिस्थावरान्तः, सच सर्वज्ञ एवेति । एतदाह सर्वप्रमातॄणाम् इति वस्तुतः संविदभेदात् । तदुक्तं श्रीपरमेष्ठिपादैः शिवदृष्टौ
घटो मदात्मना वेत्ति वेद्म्यहं च घटात्मना । सदाशिवात्मना वेद्मि स वा वेत्ति मदात्मना ॥
इति उक्त्वा
नानाभावैः स्वमात्मानं जानन्नास्ते स्वयं शिवः । (५ । १०९)
इति । तत एव च आदिसिद्धतासमर्थनावसरे यदुक्तं रामावतरणकाले नाहं बभूवेत्यत्रापि प्रमात्रन्तरसंवेदनात्मना वक्तैव तत्कालानुभवितेति, तदिदानीमयत्नघटितमिति । यत्तु तत्र सार्वज्ञ्यसमर्थनार्थमुक्तं
सर्व एव हि सर्वज्ञमनःसङ्कल्पनावशात् । सर्वभावग्रहणतायोग्यत्वाद्वा क्रमस्थितेः ॥ प्रत्यक्षाद्यैरुपायैर्वा निरुपायतयापिवा । (५ । १०३)
(पगे १११)
इति, तत् मायापदेऽपि । इह तु परमार्थविचारे शिवैकात्मकत्वमेवेति तदुपेक्षितं गुरुणा । सङ्क्षेपेण वस्त्वभिधानं न उक्तिवैचित्र्यपोषणामा- त्रफलम्, अपितु अधिकारिविशेषं तीव्रशक्तिपातं शरदभ्रभङ्गीभ्रश्यन्- मोहावरणमनुपयोगिपूर्वपक्षोपक्षेपप्रतिक्षेपविस्तरमनुग्रहीतुमिति दर्शयति एतावतैव इति । ईश्वरत्वप्रदर्शनं तद्व्यवहारसिद्धिनिबन्धनं प्रमाणं, ततो या प्रतिपत्तिरीश्वरताविमर्शरूपा प्रमात्मिका, तस्या दार्ढ्यं परविकल्पैर्बाधकाभासैरुन्मूलयितुमशक्यत्वं, ततो हेतोरीश्वरप्रत्यभिज्ञाकृतोऽभ्युदयो जीवन्मुक्तिविभूतिलाभलक्षणः श्रोतॄणां भवतीति ग्रन्थकारस्य तत्प्रत्यभिज्ञोपपादनात्मकमभीष्टं सम्पन्नमेव । ननु एवं समाप्तं शास्त्रमिति उत्तरग्रन्थेन किमित्याशङ्य आह अतिमात्र इति । ये मन्दशक्तिपातास्तेषां सातिशयं प्ररूढो मायाकृतस्त्रिविधः स्वात्मसङ्कोचवेद्यभेदसुकृतदुष्कृतावभासलक्षणो मलः, तत एव प्रतिपदमसावुन्मूलनीयः । अन्यथा हि य एव अंशः शृङ्गग्राहिकया न निर्मूलितः, स एव स्वयं वा परप्रबोधनया वा प्रबुध्य दूषयेदेव ईश्वरतानिश्चयमस्य । यथोक्तं श्रीभट्टनाराय- णेन
नमस्ते भवसम्भ्रान्तभ्रान्तिमुद्भाव्य भिन्दते । (७१)
इति । तस्य इति कर्मणि च कर्तरि श्लेषेण षष्ठी । यः स्वपरयोरहम्मात्रप्रत्ये- यतया निर्भासनयोग्योऽत एव स मायाशक्तितिरोहितैर्मूखैर्विमन्यते उक्तरूपविरूद्धेन रूपेण अभिमन्यते, स एवच ईश्वरो विप्रतिपद्यते तस्यैव सर्वत्र कर्तृत्वात् । उभयत्र मायाशक्तिकृतमावरणावभासनं हेतुः । यत् शिवदृष्टिः
वादित्वप्रतिवादित्वे कस्माच्चेत्तस्य तत्स्थितेः । (३ । ७६)
इति । एवम् इति वक्ष्यमाणपूर्वपक्षरूपतया । उपांशु सङ्क्षेपेण
(पगे ११२)
ऊर्ध्वमादौ हन्यते गम्यते टङ्क्यते च अर्थो येनेति उपोद्धात इति शिवम् ॥
अत्रिगुप्तकुलोत्पन्नशरीराधारसङ्गतः ।
ईश्वरप्रत्यभिज्ञायामुपोद्धातं व्यपावृणोत् ॥
इति श्रीमहामाहेश्वरश्रीमदाचार्याभिनवगुप्तविरचितायामीश्वरप्रत्यभिज्ञ् आविवृतिविमर्शिन्यामुपोद्धातविमर्शः प्रथमः ॥ १ ॥