४ तत्त्वसङ्ग्रहाधिकारः

स्वात्मैव सर्वजन्तूनाम्
एक एव महेश्वरः।
विश्वरूपो ऽहम् इदम् इत्य्
अखण्डामर्शबृंहितः ॥ ४।१ ॥

वृत्तिः एकः प्रथमोपादेयतुर्यदशायाम् अखण्डितग्राहकाखण्डितग्राह्यतन्मेलनाचमत्कारोपबृंहितः साधारण एव सर्वप्राणिनाम् आत्मा विश्वरूपो महेश्वरः ॥

तत्र स्वसृष्टेदम्भागे
बुद्ध्यादिग्राहकात्मना।
अहङ्कारपरामर्श-
पदम् नीतम् अनेन तत् ॥ ४।२ ॥

वृत्तिः महेश्वरस्य जृम्भामये ऽस्मिन् निर्गते तस्मिन्न् इदन्तापरामर्शे ग्राह्यं यन् निर्मितं बुद्धिः प्राणो ऽथ शून्यं तद् वेद्यैकदेशरूपम् अहङ्कारावमृश्यतापादनेन परिच्छिन्नग्राहकीकृतम् ॥

स्वस्वरूपापरिज्ञान-
मयो ऽनेकः पुमान् मतः।
तत्र सृष्टौ क्रियानन्दौ
भोगो दुःखसुखात्मकः ॥ ४।३ ॥

वृत्तिः एतद् एव विश्वात्मनः परिमितत्वकरणम् अप्रत्यभिज्ञानम् उच्यते । एवं चानेकबुद्धिप्राणादिखण्डगतापराहङ्कारपरामर्शः परापरिज्ञानसञ्ज्ञः । प्रत्यकात्मनो बहवस्, तेषु प्रमातृरूपेषु महेश्वरेण स्वानन्दः स्वक्रियैककर्तृतानुसारिणी निर्मिता । स एव भोग आनन्दलेशाख्यः सुखसञ्ज्ञितः क्रियालवात्मा दुःखरूपः क्रिया दुःखं च वक्ष्यते ॥

स्वाङ्गरूपेषु भावेषु
पत्युर् ज्ञानं क्रिया च या।
मायातृतीये ते एव
पशोः सत्त्वं रजस् तमः ॥ ४।४ ॥

वृत्तिः ईश्वरस्य ज्ञानक्रिये ते मायया सहिते पशोः सत्त्वरजस्तमांसि ॥

भेदस्थितः शाक्तिमतः
शक्तित्वं नापदिश्यते।
एषां गुणानां करण-
कार्यत्वपरिणामिनाम् ॥ ४।५ ॥

वृत्तिः सत्त्वरजस्तमसां च भेदेनावभासान् न शक्तिव्यपदेशः शक्तिशक्तिमतोर् अभेदात् । वस्तुतः शक्तिविकासो विश्वम् ॥

सत्तानन्दः क्रिया पत्युस्
तदभावो ऽपि सा पशोह्।
द्वयात्मा तद् रजो दुःखं
श्लेषि सत्त्वतमोमयम् ॥ ४।६ ॥

वृत्तिः ईश्वरस्यानन्तकर्तृता चमत्काररूपा क्रियोक्ता परमप्रकाशानन्दमयी, प्रत्यगात्मनस् तु तौ प्रकाशानन्दौ ग्राह्यभूतौ सत्त्वम् उच्यते । तदभावश् च तमः, सत्त्वतमसी प्रकाशानन्दतदभावरूपे द्वे अपि श्लेषात्मनी [रजः] । पशोः रजःसञ्ज्ञया क्रिया च दुःखं चोच्यते ॥

ये ऽप्य् असामयिकेदन्ता-
-परामर्शभुवः प्रभोः।
ते विमिश्रा विभिन्नाश् च
तथा चित्रावभासिनः ॥ ४।७ ॥

वृत्तिः ये चैते महेश्वरस्येदंशब्दसङ्केतानुसन्धानं विनापि प्रकाशस्य परामर्शसारत्वाद् बालदशायाम् इवेदमर्थनिर्देश्या भावास्, ते ऽनेकाभाससामानाधिकरण्येन स्वलक्षणात्मनः पृथक्सामान्यरूपतया नानाकाराश् च तथा तन्निर्माणात् प्रथन्ते ॥

ते तु भिन्नावभासार्थाः
प्रकल्प्याः प्रत्यगात्मनः।
तत्तद्विभिन्नसञ्ज्ञाभिः
स्मृत्युत्प्रेक्षादिगोचरे ॥ ४।८ ॥

वृत्तिः ते विभिन्नावभासाः सामान्यात्मनो ऽर्थास् तदनुभवसंस्कृतैः कृशो ऽहं दुःखी सुखी वाहम् इति विचित्रव्यपदेशविषयीक्रियमाणात्मभिः क्षेत्रज्ञैर् विकल्पनशक्त्या तत्तद्घटरजतशुक्लपटशकटादिनाम्नान्तस्प्रत्यवमर्शनीयत्वेन प्रदर्श्यन्ते स्मृतौ पूर्वानुभवाप्रमोषे, विचित्रोत्प्रेक्षादिषु तु स्वातन्त्र्येण । अयम् एव ग्राह्यग्राहकभेदावभासः शब्दमयः पशुभावे संसारबन्धः ॥

तस्यासाधारणी सृष्टिर्
ईशसृष्ट्युपजीविनी।
सैषाप्य् अज्ञतया सत्यै-
-वेशशाक्त्या तदात्मनः ॥ ४।९ ॥

स्वविश्रान्त्युपरोधाया-
-चलया प्राणरूपया।
विकल्पक्रियया तत्तद्-
वर्णवैचित्र्यरूपया ॥ ४।१० ॥

वृत्तिः क्षेत्रश् चेश्वररूप एव तत्तत्सामान्यरूपानर्थान् ईशशक्त्यैवापरिज्ञातया सर्वसाधारणार्थदर्शनसंस्कृतानन्यवेद्यान् निर्मिमीते । सा चेश्वरशाक्तिः स्वात्ममात्रविश्रान्तिविरोधाय मायाव्यपदेश्या तत्तत्ककारादिवर्णभेदशतानन्तगणना प्राणरूपेण चञ्चलताम् आपन्ना विकल्पाख्यव्यापारा तथान्तः सृजत्य् अर्थान् ॥

साधारणो ऽन्यथा चैशः
सर्गः स्पष्टावभासनात्।
विकल्पहानैकाग्र्यात्
क्रमेणेश्वरतापदम् ॥ ४।११ ॥

वृत्तिः ईश्वरस्य तु सृष्टिः सर्वप्रमातॄणां साधारणी तेषां तन्मध्य एवोत्पादाद्, एकप्रमातृनियता चैकप्रमात्रावेशेन स्वप्नभ्रान्त्यादौ सृष्टिः । सा चाहम् इदम् इत्य् एतावत् परामर्शमयी भेदानुदयाद् विकल्पोज्झिता स्पष्टावभासा च । तत्रान्तरान्तरोद्यत्क्षेत्रज्ञव्यापारविकल्पननिर्ह्रासपरिशीलनेन संसारिणां क्रमेणैकरसैश्वर्योद्गमात् क्षेत्रज्ञताविमुक्तिः ॥

सर्वो ममायं विभव
इत्येवं परिजानतः।
विश्वात्मनो विकल्पानां
प्रसरे ऽपि महेशता ॥ ४।१२ ॥+++(5)+++

वृत्तिः क्षेत्रज्ञस्यापीश्वर-शाक्त्यैव विकल्पारम्भ इति तद्-दशायाम् अपि परिज्ञातेश्वरभावस्य ममायं संसारमयो विभव इत्य् अभेदेन विश्वम् आविशतः परामर्शमात्रान् अशेषान् विकल्पान् सम्पादयतो महेश्वरतैव ॥

मेयं साधारणं मुक्तः
स्वात्माभेदेन मन्यते।
महेश्वरो यथा बद्धः
पुन अत्यन्तभेदवत् ॥ ४।१३ ॥

वृत्तिः बद्धमुक्तयोर् वेद्यम् एकं, किं तु बद्धो ऽत्यन्तविभेदेन तद् वेत्ति विमुक्तः स्वात्मदेहत्वेन ॥

सर्वथा त्व् अन्तरालीना-
-नन्ततत्त्वौघनिर्भरः।
शिवः चिदानन्दघनः
परमाक्षरविग्रहः ॥ ४।१४ ॥

वृत्तिः सर्वथा त्व् अन्तर्लीने प्रमेये ऽहम्मतौ पूर्णायां शिवतैव ॥

एवम् आत्मानम् एतस्य
सम्यग्ज्ञानक्रिये तथा।
जानन् यथेप्सितान् पश्यञ्
जानाति च करोति च ॥ ४।१५ ॥

वृत्तिः इत्थम् आविष्कृतशक्त्यभिज्ञानम् आत्मानम् अनन्तज्ञानक्रियाशक्तिनिभृतम् ईश्वरं प्रत्यभिज्ञाय यथेच्छं सर्वं पश्यति निर्मिमीते ॥

इति प्रकटितो मया सुघट एष मार्गो नवो
महागुरुभिर् उच्यते स्म शिवदृष्टिशास्त्रे यथा।
तद् अत्र निदधत् पदं भुवनकर्तृताम् आत्मनो
विभाव्य शिवतामयीम् अनिशम् आविशन् सिद्ध्यति ॥ ४।१६ ॥

वृत्तिः यत्र यथावस्थित एव व्यवहारे प्रत्यभिज्ञामात्राच् छिवतालाभः । स अयम् अवक्र एवाभिनवो मार्गः साक्षात्कृतपरमेश्वरभट्टारकाकारैर् भट्टश्रीसोमानन्दपादैः शिवदृष्टिनाम्नि प्रकरणे निर्दिष्टो मया युक्तिनिबन्धनेन हृदयङ्गमीकृतः । एतत् परिशीलनेन शिवतावेशाज् जीवन्न् एव मुक्तो भवति ॥

तैस् तैर् अप्य् उपयाचितैर् उपनतस् तन्व्याः स्थितो ऽप्य् अन्तिके
कान्तो लोकसमान एवम् अपरिज्ञातो न रन्तुं यथा।
लोकस्यैष तथानवेक्षितगुणः स्वात्मापि विश्वेश्वरो
नैवालं निजवैभवाय तद् इयं तत्प्रत्यभिज्ञोदिता ॥ ४।१७ ॥

वृत्तिः कान्तदृष्टान्तेनेश्वरप्रत्यभिज्ञोपपादनीया चापूर्वफला च ॥****

जनस्यायत्नसिद्ध्यर्थम्
उदयाकरसूनुना।
ईश्वरप्रत्यभिज्ञेयम्
उत्पलेनोपपादिता ॥ ४।१८ ॥

वृत्तिः सुलभो ऽयं सिद्धिमार्गः प्रदर्शितः ॥

इति तत्त्वसङ्ग्रहाधिकारः ॥

॥समाप्तेयम् ईश्वरप्रत्यभिज्ञावृत्तिः ॥