३।१ प्रथमम् आह्निकम् ॥
एवम् अन्तर्बहिर्वृत्तिः
क्रिया कालक्रमानुगा।
मातुर् एव तदन्योन्या-
-वियुक्ते ज्ञानकर्मणी ॥ ३,१।१ ॥
वृत्तिः
प्रमातुर् अन्तःस्थितस्यात्मनो बहिष्कार एव क्रमानुगता क्रियेति परस्पराविरहिते तस्य ज्ञानक्रिये ॥किं त्व् आन्तरदशोद्रेकात्
सादाख्यं तत्त्वम् आदितः।
बहिर्भावपरत्वे तु
परतः पारमेश्वरम् ॥ ३,१।२ ॥
वृत्तिः
ईशितुर् अन्तर्बहिःस्थितव् अन्तर्भावप्राधान्ये पुनः सादाख्यं तत्त्वम्, अपरं बहिर्भावोद्रेकाद् ऐश्वरम् ॥ईश्वरो बहिर् उन्मेषो
निमेषो ऽन्तः सदाशिवः।
सामानाधिकरण्यं च
सद्विद्याहमिदन्धियोः ॥ ३,१।३ ॥
वृत्तिः
उन्मेषनिमेषौ बहिरन्तःस्थिती एवेश्वरसदाशिवौ, बाह्यान्तरयोर् वेद्यवेदकयोर् एकचिन्मात्रविश्रान्तेर् अभेदात् सामानाधिकरण्येनेदं विश्वम् अहम् इति विश्वात्मनो मतिः शुद्धविद्या ॥इदम्भावोपपन्नानां
वेद्यभूमिम् उपेयुषाम्।
भावानां बोधसारत्वाद्
यथावस्त्ववलोकनात् ॥ ३,१।४ ॥
वृत्तिः
बिन्नवेद्यभूमव् इदन्तया दृश्यताम् आपादितानाम् अपि भावानां चिन्मात्रसारत्वाद् अहम् इदम् इति तत्त्वप्रतिपत्तिः शुद्धताज्ञाप्तिः ॥अत्रापरत्वम् भावानाम्
अनात्मत्वेन भासनात्।
परताहन्तयाच्छादात्
परापरदशा हि सा ॥ ३,१।५ ॥
वृत्तिः
अत्रेदन्तामतेर् अपरत्वम् अहन्तया सर्वस्य वेद्यस्याच्छादनात् परतेति परापरावस्थैषा ॥भेदधीर् एव भावेषु
कर्तुर् बोधात्मनो ऽपि या।
मायाशक्त्य् एव सा विद्येत्य्
अन्ये विद्येश्वरा यथा ॥ ३,१।६ ॥
वृत्तिः
बोधकर्तृतामयस्यापि भेदेन विश्वेक्षणं विद्येति के चित् । मायाशक्तिर् अप्य् एषा विद्यैव । संसारोत्तीर्णत्वात् तत्रस्था मन्त्रेश्वरविद्येश्वराः ॥तस्यैश्वर्यस्वभावस्य
पशुभावे प्रकाशिका।
विद्याशक्तिः तिरोधान-
करी मायाभिधा पुनः ॥ ३,१।७ ॥
वृत्तिः
संसारिणाम् ऐश्वर्यस्य स्वात्मनस्प्रत्यभिज्ञानं विद्यया, पशुभावो मायया ॥भेदे त्व् एकरसे भाते
ऽहन्तयानात्मनीक्षिते।
शून्ये बुद्धे शरीरे वा
मायाशक्तिर् विजृम्भते ॥ ३,१।८ ॥
वृत्तिः
यदा भावा भेदेनेदन्तयैव भासन्ते ऽहम् इति प्रमातृत्वेन च देहादिस्, तदा विपर्यद्वयहेतुर् मायाशक्तिर् विमोहिनी नाम विभोर् विजृम्भते ॥यश् च प्रमाता शून्यादिः
प्रमेये व्यतिरेकिणि।
माता स मेयः सन् काला-
-दिकपञ्चकवेष्टितः ॥ ३,१।९ ॥
वृत्तिः
यश् च व्यतिरिक्तप्रमेयजाते प्रमाता शून्यादिः स इदम् इति वेद्य एव वस्तुतः कालाद्यैः पञ्चभिश् च परतन्त्रीकृतः । तत्र कालाद् वर्तमानाभासेन तस्य भूतबह्विष्यत्सम्भवो, नियतेः कार्यकर्मफलनियमो, रागाद् भोगाभिष्वङ्गो, विद्याकलाभ्याम्, अचिदात्मनो ऽस्वतन्त्रस्यापीषज्ज्ञानक्रिये चित्स्वातन्त्र्यरूपे ॥त्रयोविंशतिधा मेयं
यत् कार्यकरणात्मकम्।
तस्याविभागरूप्य् एकं
प्रधानं मूलकारणम् ॥ ३,१।१० ॥
त्रयोदशविधा चात्र
बाह्यान्तःकरणावली।
कार्यवर्गश् च दशधा
स्थूलसूक्ष्मत्वभेदतः ॥ ३,१।११ ॥
वृत्तिः
कार्याणि द्विधा । शब्दस्पर्शरूपरसगन्धानि सूक्ष्मत्वेन तन्मात्रसञ्ज्ञानि पञ्च, अन्योन्यव्यूहेन स्थूलानि पृथिव्यादिबुद्धीन्द्रियाणि, वाक्पाणिपादपायूपस्थाख्यानि पञ्च कर्मेन्द्रियाणि, मनोबुद्ध्यहङ्कारा इति त्रिधान्तह्करणम् इति त्रयोविंशतिभेदस्य कार्यकारणात्मनः प्रमेयस्य मूलभूतैकाविभागदशा प्राधानाख्या ॥इत्य् आगमाधिकारे प्रथमम् आह्निकम् ॥
द्वितीयम् आह्निकम् ॥
तत्रैतन् मातृतामात्र-
स्थितौ रुद्रो ऽधिदैवतम्।
भिन्नप्रमेयप्रसरे
ब्रह्मविष्णू व्यवस्थितौ ॥ ३,२।१ ॥
वृत्तिः
शून्ये पुर्यष्टकात्मके ऽत्यन्तसूक्ष्मदेह एव वा प्रमातृमात्रे स्थितव् अन्यप्रमेयोपसंहारे रुद्रो ऽधिष्ठाता, भिन्नप्रमेयाभासे सर्गस्थितिहेतू ब्रह्मविष्णू ॥एष प्रमाता मायान्धः
संसारी कर्मबन्धनः।
विद्याभिज्ञापितैश्वर्यश्
चिद्घनो मुक्त उच्यते ॥ ३,२।२ ॥
वृत्तिः
मायीयशून्यासिप्रमाता नियत्य कर्माधीनः संसारी, विद्यावशाद् आत्मतत्त्वाभिज्ञया मुक्तः ॥स्वाङ्गरूपेषु भावेषु
प्रमाता कथ्यते पतिः।
मायातो भेदिषु क्लेश-
कर्मादिकलुषः पशुः ॥ ३,२।३ ॥
वृत्तिः
ऐश्वर्यदशायां प्रमाता विश्वं शारीरतया पश्यन् पतिः पुंस्त्वावस्थायां तु रागादिक्लेशकर्मविपाकाशयैः परीतः पशुः ॥स्वातन्त्र्यहानिर् बोधस्य
स्वातन्त्र्यस्याप्य् अबोधता।
द्विधाणवं मलम् इदं
स्वस्वरूपापहानितः ॥ ३,२।४ ॥
वृत्तिः
स्वतन्त्रो बोधः परमार्थस्, तथारूपत्वाद् एव पूर्णः । तस्य स्वातन्त्र्याद् एव तथेच्छया स्वातन्त्र्यं विना बोधमात्रनिर्माणे, बोधितां विना स्वातन्त्र्यमात्रनिर्माणे वा पूर्णत्वाभावेन परिमितत्वाद् द्विधाणुत्वं तात्त्विक-स्वरूप-विपर्यासान् मलत्वम् ॥भिन्नवेद्यप्रथात्रैव
मायाख्यं जन्मभोगदम्।
कर्तर्य् अबोधे कार्मं तु
मायाशक्त्यैव तत् त्रयम् ॥ ३,२।५ ॥
वृत्तिः
अत्रैव द्विधाणवे वेद्यम् अभिन्नम् अपि भेदेन यदा भाति तदातो ऽपि विपर्यासान् नाम्ना मायीयं मलम् । अहेतूनाम् अपि कर्मणां जन्मादिहेतुभावविषयविपर्यासाद् अबोधात्मककर्तृगतं कार्मम् । तन्मलत्रयनिर्माणे प्रभोर् इच्छा मायाशक्तिर् उच्यते ॥शुद्धबोधात्मकत्वे ऽपि
येषां नोत्तमकर्तृता।
निर्मिताः स्वात्मनो भिन्ना
भर्त्रा ते कर्तृतात्ययात् ॥ ३,२।६ ॥
वृत्तिः
वेद्यानुपरक्तबोधानाम् अपि पूर्णकर्तृत्वशून्यत्वात् स्वरूपान्यत्वेन प्रभुणा निर्माणम् ॥बोधैकलक्षणैक्ये ऽपि
तेषाम् अन्योन्यभिन्नता।
तथेश्वरेच्छाभेदेन
ते च विज्ञानकेवलाः ॥ ३,२।७ ॥
वृत्तिः
शुद्धबोधानां बोधत्वनित्यत्वाद्\वर्{#नित्यत्वाद्\लेम् \चोर्र्; #नित्यत्वाध्# \एद्} भेदे ऽप्य् अन्योन्यभेदस् तथैवेश्वरेण निर्माणान् नान्यथा । ते च साङ्ख्यपुरुषप्राया विज्ञानकेवला इत्य् उच्यते ॥शून्याद्यबोधरूपास् तु
कर्तारः प्रलयाकलाः।
तेषां कार्मो मलो ऽप्य् अस्ति
मायीयस् तु विकल्पितः ॥ ३,२।८ ॥
वृत्तिः
शून्यप्राणादौ बोधरूपतातिक्रमेणाहन्तया स्थिताः प्रलयकेवलिनः । तेषाम् अणूनां कर्मसंस्कारो ऽप्य् अस्ति, मायामलस् तु वेद्ययोगायोगाभ्यां विकल्पितः ॥बोधानाम् अपि कर्तृत्व-
जुषां कार्ममलक्षतौ।
भिन्नवेद्यजुषां माया-
मलो विद्येश्वराश् च ते ॥ ३,२।९ ॥
वृत्तिः
कर्तृतायोगे ऽपि बोधानां कर्मोत्तीर्णानां विद्येश्वरत्वे ऽपि भिन्नवेद्ययोगान् मायामलम् अस्त्य् एव । पूर्णकर्तृत्वाभावाद् ईश्वराद् भिन्ना अन्योन्यं च पूर्ववद् अत एवैषाम् अणुत्वम् अपि स्यात् ॥देवादीनां च सर्वेषां
भविनां त्रिविधं मलम्।
तत्रापि कार्मम् एवैकम्
मुख्यं संसारकारणम् ॥ ३,२।१० ॥
वृत्तिः
देवादीनां स्थावरान्तानां संसारिणां त्रयो ऽपि मलाः, कार्म एव संसारप्रयोजकः ॥कलोद्बलितम् एतच् च
चित्तत्त्वं कर्तृतामयम्।
अचिद्रूपस्य शून्यादेर्
मितं गुणतया स्थितम् ॥ ३,२।११ ॥
वृत्तिः
संसारिणाम् एतच् च चित्तत्त्वं कर्तृतारूपं शून्यप्राणादौ जडे देवस्य कलाशक्त्योपोद्बल्यमानम् उपसर्जनत्वेनावस्थानात् परिमितम् । अतश् चात्रैव मुख्यम् अणुत्वम् ॥मुख्यत्वं कर्तृतायाश् च
बोधस्य च चिदात्मनः।
शून्यादौ तद्गुणे ज्ञानं
तत्समावेशलक्षणम् ॥ ३,२।१२ ॥
वृत्तिः
एतद् एव पुनः शून्यादि कर्तृतात्मनो बोधस्य यदोपसर्जनत्वेनास्ते तदास्य प्रमातुर् एतद् बोधमयताम् आपन्नस्य ज्ञानं तच्छक्तिसमावेशलक्षणम् उच्यते ॥वृत्तिः
बुद्धिप्राणादिनिषेधमात्रे यदाहन्ताभिमानेन प्रमातृता तदा सौषुप्ते तावन्मात्रावस्थितौ वेद्याभावः संस्कारस्य सम्भवे ऽप्य् अरूपत्वेनानुपलक्ष्यत्वात् । तावतैव साङ्ख्यपुरुषाद् विशेषः ॥साक्षाणाम् आन्तरी वृत्तिः
प्राणादिप्रेरिका मता।
जीवनाख्याथवा प्राणे
ऽहन्ता पुर्यष्टकात्मिका ॥ ३,२।१४ ॥
वृत्तिः
एष एव शून्यप्रमाता सर्वेन्द्रियशक्तिसाधारणजीवनाख्यप्राणादिप्रेरणान्तर्वृत्तिर् जीवाख्यस्, तासाम् इन्द्रियशक्तीनाम् अहन्तया सह पुर्यष्टकत्वम् अथवा प्राणाहन्तया प्रमातृत्वेन पुर्यष्टकता ॥तावन् मात्रस्थितौ प्रोक्तं
सौषुप्त[ं] प्रलयोपमम्।
सवेद्यम् अपवेद्यं च
मायामलयुतायुतम् ॥ ३,२।१५ ॥
वृत्तिः
शून्यतायां स्थितौ वेद्याभावान् मायामलाभावः, प्राणादौ सुखस्पर्शादिवेद्ययोगान् मायामलवत् प्रलय इव सौषुप्तं पदम् ॥मनोमात्रपथे ऽप्य् अक्ष-
विषयत्वेन विभ्रमात्।
स्पष्टावभासा भावानां
सृष्टिः स्वप्नपदं मतम् ॥ ३,२।१६ ॥
वृत्तिः
चक्षुरादीन्द्रियशक्त्यप्रवृत्तव् अपि मनःशक्त्यैव दृष्टरूपाद्याभासेश्वरसृष्टिर् अणोः स्वप्नपदम् । अन्यप्रमातृसाधारणरूपाद्याभासानुवृत्तितः कालान्तराननुवृत्तेर् भ्रान्तिर् एषा ॥सर्वाक्षगोचरत्वेन
या तु बाह्यतया स्थिरा।
सृष्टिः साधारणी सर्व-
प्रमातॄणां स जागरः ॥ ३,२।१७ ॥
वृत्तिः
सर्वान्तर्बहिःकरणशक्त्या सृष्टिर् जागरा, तत्रापि पूर्ववद् द्विचन्द्रादिभ्रान्तिः ॥हेया त्रयीयं प्राणादेः
प्राधान्यात् कर्तृतागुणे।
तद्धानोपचयप्राय-
सुखदुःखादियोगतः ॥ ३,२।१८ ॥
वृत्तिः
एतानि जागरस्वप्नसुषुप्तानि प्राणादेर् आत्मत्वेनाभिमन्यमानस्योद्रेकात् स्वातन्त्र्यस्यापह्रासाद् धेयानि, स्वातन्त्र्यस्य मात्रयोपचयः सुखहर्षादयस् तथैव न्यूनता दुःखद्वेषादयः । सर्वभोगात्मा संसारो बन्धः ॥प्राणापानमयः प्राणः
प्रत्येकं सुप्तजाग्रतोः।
तच्छेदात्मा समानाख्यः
सौषुप्ते विषुवत्स्व् इव ॥ ३,२।१९ ॥
वृत्तिः
स च प्राणात्मा [स्वप्ने] प्राणापानरूपश्वासप्रश्वासरूपो जागरे ऽथ सुप्ते [अत्र] तयोर् अपि विषुवतीव रात्रिदिनयोः साम्ये तन्न्यूनताधिक्यरोधात् समानसञ्ज्ञः ॥मध्योर्ध्वगाम्युदानाख्यस्
तुर्यगो हुतभुङ्मयः।
विज्ञानाकलमन्त्रेशो
व्यानो विश्वात्मकः परः ॥ ३,२।२० ॥
वृत्तिः
प्राणापानयोः पार्श्वद्वयतिर्यक्प्रवाहविच्छेदेनैकताम् आपाद्योर्ध्वरूपमध्यमार्गप्रवाहेणोद्गमनाद् उदानः । मध्यनेत्रम् इवोर्ध्वभाक्त्वाद् अग्निधर्मा तुर्यदशायाम् । तुर्यातीते दिक्कालानवच्छेदे पूर्णे प्रवाहतां हित्वातिनिर्भरावस्थो व्यानसञ्ज्ञः । एतच् च दशाद्वयम् उपादेयं प्राणशक्तेः परमेश्वरकल्पत्वेनावस्थानात् ॥इत्य् आगमाधिकारे द्वितीयम् आह्निकम् ॥
इत्य् आगमाधिकारः ॥