२ क्रियाधिकारः

प्रथमम् आह्निकम्॥

अत एव यद् अप्य् उक्तं
क्रिया नैकस्य सक्रमा।
एकेत्यादि प्रतिक्षिप्तं
तद् एकस्य समर्थनात् ॥ २,१।१ ॥

वृत्तिः एकचित्तत्त्वसमर्थनाद् एकसम्बन्धी व्यापार एक एवेति क्रियाप्य् अपकृतदूषणा ॥

सक्रमत्वं च लौकिक्याः
क्रियायाः कालशक्तितः।
घटते न तु शाश्वत्याः
प्राभव्याः स्यात् प्रभोर् इव ॥ २,१।२ ॥

वृत्तिः मायाशक्तेर् भिन्नभावावभासानां क्रिया च कालशक्तिवशात् सक्रमा न त्व् आत्मविमर्शरूपानादिनिधना प्रभोः स्वभावभूता ॥

कालः सूर्यादिसञ्चारस्
तत्तत्पुष्पादिजन्म वा।
शीतोष्णे वाथ तल्लक्ष्यः
क्रम एव स तत्त्वतः ॥ २,१।३ ॥

वृत्तिः सा सा प्रसिद्धा क्रिया कालः शीतादि वा तदुपलक्षितः सर्वभिन्नावभासमानभावोपाधिभूतः क्रम एव वासौ तस्यैवोपयोगात् ॥

क्रमो भेदाश्रयो भेदो ऽप्य्
आभाससदसत्त्वतः।
आभाससदसत्त्वे तु
चित्राभासकृतः प्रभोः ॥ २,१।४ ॥

वृत्तिः अन्योन्याभासशून्यभिन्नभावावभासवैचित्र्यक्रियैव प्रभोर् भावेषु क्रमहेतुः ॥

मूर्तिवैचित्र्यतो देश-
क्रमम् आभासयत्य् असौ।
क्रियावैचित्र्यनिर्भासात्
कालक्रमम् अपीश्वरः ॥ २,१।५ ॥

वृत्तिः अनेकस्यान्योन्यभेदाभासाद् देशक्रमः क्रियामुखेन कालक्रमो ऽपि । एकस्य तु भावस्य तत्तज्जन्मसत्ताविपरिणामादिक्रियाभेदात् कालक्रम एव ॥

सर्वत्राभासभेदो ऽपि
भवेत् कालक्रमाकरः।
विच्छिन्नभासः शून्यादेर्
मातुर् भातस्य नो सकृत् ॥ २,१।६ ॥

वृत्तिः सर्वत्रार्थे विचित्रो ऽवभासः शून्यदेहादेर् एव प्रमातुः कालक्रमाभासहेतुर्, स हि प्राक्कालो न तथा तदानीं भासते स्मृतिं विहाय स्ववर्तमानापेक्षया चासौ भूतभविष्यत्ते व्यवहरति । सकृद्विभातस्य तु भासनक्रियाविच्छेदाद् आवृत्तिगणनाभावान् नात्मनीवार्थेष्व् अपि कालभेदः ।

देशक्रमो ऽपि भावेषु
भाति मातुर् मितात्मनः।
स्वात्मेव स्वात्मना पूर्णा
भावा भान्त्य् अमितस्य तु ॥ २,१।७ ॥

वृत्तिः परिमितं प्रमातरम् अपेक्ष्य भावस् ततो ऽन्योन्यं च भिन्ना दूरादिव्यपदेशभाजश् च, प्रकाशैकरूपत्वेन त्व् ईश्वरस्य न क्वाप्य् \वर्{क्वाप्य्\लेम् \एम् क्वप्य् \एद्} अप्रकाशसम्भवात् परमाणव् अपि । प्रकाशघनस्य नात्मनो भिन्नं दूरं वान्यान्यतो वा किञ्चिद् आभाति ॥

किं तु निर्माणशक्तिः साप्य्
एवं विदुष ईशितुः।
तथा विज्ञातृविज्ञेय-
भेदो यद् अवभास्यते ॥ २,१।८ ॥

वृत्तिः एवं पूर्णतया प्रकाशमानस्यापि परमेश्वरस्य सैषा सृष्टिशक्तिर् यज् ज्ञातृज्ञेयस्वभावा भावाः स्वतो ऽन्योन्यं च विभागेनावसीयन्ते, न च तथावसायेन तस्य स्वरूपस्थितिस् तिरोधीयते ॥

इति क्रियाधिकारे प्रथमम् आह्निकम् ॥

द्वितीयम् आह्निकम् ॥

क्रियासम्बन्धसामान्य-
द्रव्यदिक्कालबुद्धयः।
सत्याः स्थैर्योपयोगाभ्याम्
एकानेकाश्रया मताः ॥ २,२।१ ॥

वृत्तिः क्रियावद् अन्ये ऽपि सम्बन्धादय एकानेकविषया अपि सत्याभासाः, सर्वदोपयोगिनाम् एषाम् अर्थवत्त्वेनापरिहरणीयत्वात् ॥

तत्रैकम् आन्तरं तत्त्वं
तद् एवेन्द्रियवेद्यताम्।
सम्प्राप्यानेकतां याति
देशकालस्वभावतः ॥ २,२।२ ॥

वृत्तिः अभिन्नम् एव तत्त्वम् अन्तो बहिर् आभासभेदाद् एकानेकम्, बहिर्देशकालस्वभावभेदाभाससम्भेदमयैकैकः स्वलक्षणाभासानाम् अनेकत्वात् ॥

तद्द्वयालम्बना एता
मनो ऽनुव्यवसायि सत्।
करोति मातृव्यापार-
मयीः कर्मादिकल्पनाः ॥ २,२।३ ॥

वृत्तिः मध्यस्थतयान्तर्बहिस्तत्त्वविषया मानस्यः क्रियादिकल्पनाः प्रमातृव्यापाररूपाः ॥

स्वात्मनिष्ठा विविक्ताभा
भावा एकप्रमातरि।
अन्योन्यान्वयरूपैक्य-
युजः सम्बन्धधीपदम् ॥ २,२।४ ॥

वृत्तिः राज्ञः पुरुष इत्यादिसम्बन्धधियो ऽन्तःसमन्वयाद् ऐक्यं बहिः सम्बन्धिभेदं चालम्बन्ते ॥

जातिद्रव्यावभासानाम्
बहिर् अप्य् एकरूपताम्।
व्यक्त्येकदेशभेदं चाप्य्
आलम्बन्ते विकल्पनाः ॥ २,२।५ ॥

वृत्तिः गवश् चैत्र इति च मतयो बहिर् अपि गोमात्रैकघनपुरुषविशेषाकाराभासैक्यं स्वलक्षणावयवाभासबहुत्वं च परामृशन्ति ॥

क्रियाविमर्शविषयः
कारकाणां समन्वयः।
अवध्यवधिमद्भावा-
-न्वयालम्बा दिगादिधीः ॥ २,२।६ ॥

वृ: काष्ठस्थलीदेवदत्तौदनानां पचतीत्य् अन्तःसमन्वयाद् बहिर्भेदाच् चैकानेकविषया क्रियामतिः । देशकालक्रमो ऽपि भावानाम् अवध्यवधिमद्रूपाणाम् अन्योन्यापेक्षः सम्बन्धभेद एव तथैवैकानेकमयः । जातिद्रव्यक्रियासङ्ख्यादिमतयः सर्वा एव सम्बन्धविशेषसमवायविषया एव ॥

एवम् एवर्थसिद्धिः स्यान्
मातुर् अर्थक्रियार्थिनः।
भेदाभेदवतार्थेन
तेन न भ्रान्तिर् ईदृशी ॥ २,२।७ ॥

वृत्तिः एकानेकरूपैर् एव क्रियादिभिर् एवम् आभासानुगुण्यरूपः प्रमातुस् तदर्थिनो ऽर्थक्रियासंवादः । ततो न तद्बुद्धयो भ्रान्ताः ॥

इति क्रियाधिकारे द्वितीयम् आह्निकम् ॥

तृतीयम् आह्निकम् ॥

इदम् एतादृगित्येवं
यद् वशाद् व्यवतिष्ठते।
वस्तु प्रमाणं तत् सो ऽपि
स्वाभासो ऽभिनवोदयः ॥ २,३।१ ॥

सो ऽन्तस् तथाविमर्शात्मा
देशकालाद्यभेदिनि।
एकाभिधानविषये
मितिर् वस्तुन्य् अबाधिता ॥ २,३।२ ॥

वृत्तिः यदायत्ता हि वस्तुनः स्वरूपेण नित्यताविशेषणैर् वा व्यवस्थाप्यमानता स प्रमातुः स्वत्वेनापूर्ववस्त्वाभासैव स्थितः प्रमाणम् । स एव चाभासो ऽयम् इति नित्य इति वा तथैव पृथक्तयाभिनवत्वेन च प्रमातर्य् उपरूढो विमर्शरूपताम् आपन्नो विमर्शभेदानुसार्यैकैकशब्दवाच्ये पृथक्पृथग् एव तिरस्कृतदेशादिभेदे तस्मिन्न् आभात एव सामान्यरूपे वस्तुनि स्वकार्थक्रियाप्राप्ते प्रमाणान्तरेणाबाधितस्थैर्या प्रमितिः प्रमातृव्यापारः ॥

यथारुचि यथार्थित्वं
यथाव्युत्पत्ति भिद्यते।
आभासो ऽप्य् अर्थ एकस्मिन्न्
अनुसन्धानसाधिते ॥ २,३।३ ॥

वृत्तिः एकस्मिन्न् एव चैकप्रत्यवमर्शसामर्थ्योपपादिते वस्तुनि स्वेच्छावशाद् अर्थित्वानुरोधाद् वा नैपुण्यवशाद् वावभासभेदः ॥

तथा हि

दीर्घवृत्तोर्ध्वपुरुष-
धूमचान्दनतादिभिः।
यथाभासा विभिद्यन्ते
देशकालाविभेदिनः ॥ २,३।४ ॥

तथैव सद्घटद्रव्य-
काञ्चनोज्ज्वलतादयः।
आभासभेदा भिन्नार्थ-
कारिणस् ते पदं ध्वनेः ॥ २,३।५ ॥

वृत्तिः एकस्मिन्न् एव घटादव् अर्थे ऽवधित्सावशाद् दीर्घता त्र्यश्रतापारिमाण्डल्यादि वाभाति, चिह्नव्यवधानछायामात्रार्थितायां पुरुष एवोर्ध्वतामात्रं प्रतिभाति, तत्कार्यार्थितायां तु न्यक्षेणेक्षमाणस्य पुरुषः । धूममात्रम् एव कस्य चिद् आभासते, तद्विदस् तु तार्णतादि मणिरूप्यादिविशेष इव । स च तथा भिद्यमानो ऽपि देशकालभेदं न स्पृशति । तथैव घट एव सन् नित्याभासो ऽन्यादृग् एव पटाद्यनन्ताशेषार्थसाधार~अः सत्तामात्रसाध्यसत्परामर्शाद्यर्थक्रियाकारी, तत्रैव घट इति चाभासो ऽन्तर्बहिष्करणज्ञेयः पृथुबुध्नोदराकारार्थसामान्यो ऽन्य एव यः पटादिषु नास्ति, काञ्चन इति चापरो यो मृण्मयादिषु नास्ति स च तथार्थितादिवशाद् ऐन्द्रियक एव जायते । एकैकश् चासव् आभास एकैकेन शब्देन व्यवहारार्थं
तत्तन्नियतार्थक्रियार्थिभिर् अभिधीयते, घट इति न सत्ताभिधीयते न च काञ्चन इति घटाभासः । चैत्र इति बाल्यादिसाधारणो देशादिरहितस् तथैव च । ततो ऽर्थक्रिया भिन्ना ॥

आभासभेदाद् वस्तूनां
नियतार्थक्रिया पुनः।
सामानाधिकरण्येन
प्रतिभासाद् अभेदिनाम् ॥ २,३।६ ॥

वृत्तिः एकस्मिन्न् एव स्वलक्षणे प्रत्याभासं नियतिशक्त्या कार्यं नियमितं तथाभूतानेककार्यकृदाभासभेदाधिकरणम् एकं च । सामानाधिकरण्याभासवशाद् वस्तु । अनेकस्यैकता हि सामानाधिकरण्यम् ॥

पृथग्दीपप्रकाशानां
स्रोतसां सागरे यथा।
अविरुद्धावभासानाम्
एककार्या तथैक्यधीः ॥ २,३।७ ॥

वृत्तिः भिन्नाः प्रदीपप्रभा अविभागेनावभासन्ते नदीप्रवाहाश् च सिन्धुबुद्धौ पानके च ते ते रसास्, तथा शौक्ल्यमहत्त्वपटत्वाद्यवभासाः परस्परानुप्रवेशक्षमाः, न तु नीलपीताद्यवभासास् तत्तदेककार्यैकद्रव्याभासभावेन कल्पन्ते प्रत्यक्ष एव । तद् एतत् सामानाधिकरण्यम् ॥

तत्राविशिष्टे वह्न्यादौ
कार्यकारणतोष्णता।
तत्तच्छब्दार्थताद्यात्मा
प्रमाणाद् एकतो मतः ॥ २,३।८ ॥

वृत्तिः कदा चिद् देशादिसहभावावछिन्नस्वलक्षणरूपविशेषत्यागेनैकसामान्यरूपाग्न्याभासमात्र एव त्रैलोक्यत्रैकाल्यगामित्वेन निजप्रमाणाद् एकस्माद् एव विशिष्टकार्यकारणतोष्णोर्ध्वभाग् अग्निशब्दवाच्यतादिस्वभावसिद्धिः ॥

सा तु देशादिकाध्यक्ष-
-न्तरभिन्ने स्वलक्षणे।
तात्कालिकी प्रवृत्तिः स्याद्
अर्थिनो ऽप्य् अनुमानतः ॥ २,३।९ ॥

वृत्तिः कायप्रवृत्तिः पुनो देशकालादिप्रत्यक्षभेदसाहित्येन स्वलक्षण एव तदर्थितया प्रमाणसमूहाद् एव । अनुमानाद् अपि धर्मिप्रत्यक्षविशिष्टाद् एव प्रवृत्तिः ॥

दूरान्तिकतयार्थानां
परोक्षाध्यक्षतात्मना।
बाह्यान्तरतया दोषैर्
व्यञ्जकस्यान्यथापि वा ॥ २,३।१० ॥

भिन्नावभासच्छायानाम्
अपि मुख्यावभासतः।
एकप्रत्यवमर्शाख्याद्
एकत्वम् अनिवारितम् ॥ २,३।११ ॥

वृत्तिः दूरान्तिकादिस्फुटास्फुटत्वादिना बहिरन्तश्चरत्वेन वाभासस्य च्छायामात्रभेदे ऽपि तन्मुख्यस्वभावरूपप्रत्यवमर्शैक्याद् अर्थानाम् ऐक्यम् अबाधितम् ॥

अर्थक्रियापि सहजा
नार्थानाम् ईश्वरेच्छया।
नियता सा हि तेनास्या
नाक्रियातो ऽन्यता भवेत् ॥ २,३।१२ ॥

वृत्तिः उल्लेखघटादीनां बाह्यार्थक्रियाविरहे ऽपि घटादितयैव, अस्वभाविकत्वात् तस्या ईश्वरेण प्रत्याभासं नियमितायाः ॥

रजतैकविमर्शे ऽपि
शुक्तौ न रजतस्थितिः।
उपाधिदेशासंवादाद्
द्विचन्द्रे ऽपि नभो ऽन्यथा ॥ २,३।१३ ॥

वृत्तिः रजते शुक्तौ च रजतावमर्शैक्येन रजतत्वे ऽपि पुनः शुक्तिदेशसङ्गतिबाधेनोपाधिसंवादाभावात् तद्बुद्धिर् अस्थैर्याद् भ्रान्ता । द्विचन्द्रे ऽपि नभोदेशासंवादान् मिथ्या ॥

गुणैः शब्दादिभिर् भेदो
जात्यादिभिर् अभिन्नता।
भावानाम् इत्थम् एकत्र
प्रमातर्य् उपपद्यते ॥ २,३।१४ ॥

वृत्तिः भावानां शब्दरूपसंस्थानादिना भेदाक्षेपो जात्यादिना चैकताक्षेपो ऽनुभूयमानः प्रमात्रैक्ये घटते । अन्योन्यभेदव्यवस्थाप्य् अनुसन्धानायत्ता ॥

विश्ववैचित्र्यचित्रस्य
समभित्तितलोपमे।
विरुद्धाभावसंस्पर्शे
परमार्थसतीश्वरे ॥ २,३।१५ ॥

प्रमातरि पुराणे तु
सर्वदा भातविग्रहे।
किं प्रमाणं नवाभासः
सर्वप्रमितिभागिनि ॥ २,३।१६ ॥

वृत्तिः अपूर्वाभासस्यासिद्धवस्तुसाधनान् नित्यावभासिनः प्रमातुर् न प्रमाणोपयोगः । तत्तन्नवाभासानां तत्तत्प्रमाणत्वात् कामं स प्रमाणम् अन्यस्य स्यान् न तु स्वात्मनः सदा सिद्धस्य, केवलं विभुः प्रमितौ स्वातन्त्र्यात् प्रमातैव । ते ते विचित्रा विश्वाभासास् तस्मिन् स्थायिनि वैचित्र्येणोपपद्यन्ते । तद् इच्छातो ऽपरावभासमानार्थानां तत्सारस्वरूपभ्रंशे मायाशक्तिवशाद् उन्मज्जननिमज्जने, तत्त्वतस् तस्यैवापराधीना सत्ता सदातनी विरुद्धप्राक्प्रध्वंसाभावादिप्रयोगात्, स अपि यावद् उपदिश्यते भावाभावाभ्यां तावत् स एव प्रमातृतां भजत उपदिदिक्षोर् अभावाद् उपदेशानुपपत्तेः ॥

अप्रवर्तितपूर्वो ऽत्र
केवलं मूढतावशात्।
शक्तिप्रकाशेनेशादि-
व्यवहारः प्रवर्त्यते ॥ २,३।१७ ॥

वृत्तिः मायाव्यामोहवशात् केवलम् अस्मिन्न् आत्मनि प्रमातृरूपे शिवेश्वरादिव्यवहारो यो न प्रवर्तितः स शुद्धस्वातन्त्र्यादिहेतुप्रदर्शनेन भावनाद्युपदेशाय साध्यते ॥

इति क्रियाधिकारे तृतीयम् आह्निकम् ॥

एष चानन्तशक्तित्वाद्
एवम् आभासयत्य् अमून्।
भावान् इच्छावशाद् एषा
क्रिया निर्मातृतास्य सा ॥ २,४।१ ॥

वृत्तिः प्रमाता चिद्रूपो ऽनन्तशक्तिर् ईश्वरः स्वेच्छावशात् तथा तान् भावान् आभासयेत् । सैव चेच्छाशक्तिर् निर्मातृताख्या क्रिया तस्य ॥

जडस्य तु न सा शक्तिः
सत्ता यद् असतः सतः।
कर्तृकर्मत्वतत्त्वैव
कार्यकारणता ततः ॥ २,४।२ ॥

वृत्तिः जडं प्रधानपरमाणुबीजादि तु न शक्तम् असतो निर्माणे, कर्तृत्वम् एव हि कारणत्वं कर्मतैव च कार्यत्वं न त्व् अन्यत् ॥

यद् असत् तद् असद्युक्ता
नासतः सत्स्वरूपता।
सतो ऽपि न पुनः सत्ता-
-लाभेनार्थो ऽथ चोच्यते ॥ २,४।३ ॥

कार्यकारणता लोके
सान्तर्विपरिवर्तिनः।
उभयेन्द्रियवेद्यत्वं
तस्य कस्यापि शक्तितः ॥ २,४।४ ॥

वृत्तिः असतः सत्स्वभावता विरुद्धा सतश् च सिद्धा । सिद्धस्यैवान्तर्बाह्यान्तःकरणद्वयीवेद्यतापादनम् ईश्वरेणोत्पादनम् ॥

एवम् एका क्रिया सैषा
सक्रमान्तर्बहिःस्थितिः।
एकस्यैवोभयाकार-
सहिष्णोर् अपपादिता ॥ २,४।५ ॥

वृत्तिः सैषा क्रियान्तर्बहिःस्थितिरूपतया सक्रमाप्य् एकस्य स्वसंवित्सिद्धस्य कर्तुर् आभासछायाभेदे ऽप्य् ऐक्येन प्रत्यवमृश्यस्य कर्मणश् चैकस्य सन्नन्धिनी तदभिन्नाश्रयत्वाद् एकत्वेन साधिता ॥

बहिस् तस्यैव तत्कार्यं
यद् अन्त यद् अपेक्षया।
प्रमात्रपेक्षया चोक्ता
द्वयी बाह्यान्तरस्थितिः ॥ २,४।६ ॥

वृत्तिः अर्थस्य बाह्यतापादनं कार्यत्वं, ततो बाह्यता कार्यता चैकापेक्षया प्रमातरम् अपेक्ष्य चान्तर्बहिर्व्यवहारः । ततस् तस्यैव कार्यम् ॥

मातैव कारणं तेन
स चाभासद्वयस्थितौ।
कार्यस्य स्थित एवैकस्
तद् एकस्य क्रियोदिता ॥ २,४।७ ॥

वृत्तिः एवं प्रमातैव कारणं स च बाह्यान्तरकार्याभासक्रमे ऽप्य् एक एवेत्य् एवम् अप्य् एकस्य कर्तुः सिद्धा क्रिया ॥

अत एवाङ्कुरे ऽपीष्टो
निमित्तं परमेश्वरः।
तद् अन्यस्यापि बीजादेर्
हेतुता नोपपद्यते ॥ २,४।८ ॥

वृत्तिः बाह्याभासतापादनम् उत्पादनम् इति चिद्रूपस्यैव कारणता ततो ऽङ्कुरादौ निमित्तकारणत्वेश्वरः कैश् चिद् इष्टो, न चापि बीजादेर् जडस्य कारणता निरनुसन्धानस्य युक्ता ॥

तथा हि कुम्भकारो ऽसाव्
ऐश्वर्यैव व्यवस्थया।
तत्तन्मृदादिसंस्कार-
क्रमेण जनयेद् घटम् ॥ २,४।९ ॥

वृत्तिः कुम्भकाररूपे प्रमातरि कारणे स्थिते ऽपि मृदादिसंस्कारापेक्षा घटस्येश्वरकृतनियतिसञ्ज्ञमर्यादया न स्वभावेन ॥

योगिनाम् अपि मृद्बीजे
विनैवेच्छावशेन तत्।
घटादि जायते तत्तत्-
स्थिरस्वार्थक्रियाकरम् ॥ २,४।१० ॥

वृत्तिः मृदाद्यनपेक्षस्य योगिनाम् इच्छामात्रेण घटादेः स्थिरस्य घटाद्यर्थक्रियाकारिणश् च निर्वृत्तिः ॥
योगिनिर्माणताभावे प्रमाणान्तरनिश्चिते। कार्यं हेतुः स्वभावो वा- -त एवोत्पत्तिमूलजः ॥ २,४।११ ॥
वृत्तिः अत एव कार्यं स्वभावो वा तदुत्पत्तिगर्भो योगिनिर्मितत्वाभावनिश्चयाभावे हेत्वाभासः । तन्निश्चये पुन ईश्वरनियत्यपेक्षया हेतुता स्यात् ॥

भूयस् तत्तत्प्रमात्रेक-
वह्न्याभासादितो भवेत्।
परोक्षाद् अप्य् अधिपतेर्
धूमाभासादि नूतनम् ॥ २,४।१२ ॥

कार्यम् अव्यभिचार्यस्य
लिङ्गम् अन्यप्रमातृगात्।
तदाभासस् तदाभासाद्
एव त्व् अधिपतेः परः ॥ २,४।१३ ॥

वृत्तिः अवह्न्याभासस्फुरणपूर्वको ऽपि जायमानो धूमाभासो दूरादौ नियतिशक्त्या कृतसामर्थ्याद् अग्न्याभासाद् एव तद्देशगततत्तत्प्रमात्रन्तरसाधारणात् तस्यैव स अव्यभिचारेण गमको, जातरूढस् तु धूमाभासस् तद्वह्न्याभासस्यात्यन्तपरिक्षयात् तत्तत्प्रमात्रन्तरगाद् धूमाभासाद् एव परोक्षाद् अपि पूर्ववत् कृताधिपत्यात् ॥

अस्मिन् सतीदम् अस्तीति
कार्यकारणतापि या।
साप्य् अपेक्षाविहीनानां
जाडानां नोपपद्यते ॥ २,४।१४ ॥

वृत्तिः अस्मिन् सतीदं भवतीति नियतं पौर्वापर्यं कृत्तिकारोहिन्युदययोर् अकार्यकारणयोर् अप्य् अस्तीति पूर्वस्य सामर्थ्ये परस्य सत्तेति स्यात् कार्यकारणभावस्, तच् चापेक्षारहितानां जाडानां न युक्तम् । एतावद् एतत् स्यात् पूर्वस्य सामर्थ्यं परस्य सत्ता न चैवं किञ्चिद् उक्तं स्यान् न च पूर्वस्य सामर्थ्यलक्षणः स्वभावः परसत्तारूपः ॥

न हि स्वात्मैकनिष्ठानाम्
अनुसन्धानवर्जिनाम्।
सदसत्तापदे ऽप्य् एष
सप्तम्यर्थः प्रकल्प्यते ॥ २,४।१५ ॥

वृत्तिः सद् असद् वा कार्यं कारणम् अप्य् आत्मपर्यवसितं जडम् अनुसन्धानशून्यं नान्यापेक्षस्वभावं ततश् च नात्र प्रधानापेक्षामयो गुणविभक्त्यर्थो घटते ॥

अत एव विभक्त्यर्थः
प्रमात्रेकसमाश्रयः।
क्रियाकारकभावाख्यो
युक्तो भावसमन्वयः ॥ २,४।१६ ॥

वृत्तिः एकप्रमातृसंलग्नस् तु क्रियाकारकभावाख्यो विभक्त्यर्थो भूमिबीजोदकादीनां समन्वयो युक्तो न तु शुष्को ऽन्यः कार्यकारणभावः ॥

परस्परस्वभावत्वे
कार्यकारणयोर् अपि।
एकत्वम् एव भेदे हि
नैवान्योन्यस्वरूपता ॥ २,४।१७ ॥

वृत्तिः कार्यकारणयोर् अन्योन्यरूपत्वे ऽप्य् एकतैव स्यान् न तद्भावः ॥

एकात्मनो विभेदश् च
क्रिया कालक्रमानुगा।
तथा स्यात् कर्तृतैवैवं
तथापरिणमत् तया ॥ २,४।१८ ॥

वृत्तिः एकस्वभावस्य भेदेन स्थितिः परिणामः कालकलितः क्रियैव, ततः परिणामे स्वतन्त्रस्य शाक्तिमतः कर्तृतैव हेतुना ॥

न च युक्तं जडस्यैवं
भेदाभेदविरोधतः।
आभासभेदाद् एकत्र
चिदात्मनि तु युज्यते ॥ २,४।१९ ॥

वृत्तिः जडस्याभिन्नात्मनो भेदेनावस्थितेर् विरोधाद् अयुक्तं, स्वच्छे चिदात्मन्य् एकस्मिन्न् एवम् अनेकप्रतिबिम्बधारणेनाविरोधाद् युज्यते ॥

वास्तवे ऽपि चिदेकत्वे
न स्याद् आभासभिन्नयोः।
चिकीर्षालक्षणैकत्व-
परामर्शं विना क्रिया ॥ २,४।२० ॥

वृत्तिः एकस्मिञ् चित्तत्त्वे ऽप्य् अकस्माद् आभासभेदो न घटते, न च तत्र क्रियात्वम् । यदा तु स चिदात्मा तथाचिकीर्षया परामृशन् बहिर् आभासयति तदा तद् उपपद्यते । जडस्याप्य् अस्ति भवतीत्य् अस्याम् अपि सत्ताक्रियायां बुभूषायोगेन स्वातन्त्र्याभावाद् अकर्तृत्वं, तेन प्रमातैव तं भावयति तेन तेन वा हिमाचलादिना रूपेण स भवतीत्य् अत्र परमार्थः ॥

इत्थं तथा घटपटा-
-द्याभासजगदात्मना।
तिष्ठासोर् एवम् इच्छैव
हेतुता कर्तृता क्रिया ॥ २,४।२१ ॥

वृत्तिः चिद्वपुषः स्वतन्त्रस्य विश्वात्मना स्थातुम् इच्छैव जगत् प्रति कारणता कर्तृतारूपा सैव क्रियाशक्तिः । एवं चिद्रूपस्यैकस्य कर्तुर् एव चिकीर्षाख्या क्रिया मुख्या, नाकर्तृकं कर्मास्ति कर्मादीनां कर्तृमुखेनोपचारतः ॥

इति क्रियाधिकारे चतुर्थम् आह्निकम् ॥

इति क्रियाधिकारः ॥