१ ज्ञानाधिकारः

कथं चिद् आसाद्य महेश्वरस्य
दास्यं जनस्याप्य् उपकारम् इच्छन्।
समस्तसम्पत्समवाप्तिहेतुं
तत्प्रत्यभिज्ञाम् उपपादयामि ॥ १,१।१ ॥

वृत्तिः परमेश्वरप्रसादाद् एव लब्धात्यन्तदुर्लभतद्दास्यलक्ष्मीर् अहम् एकाकिसम्पदा लज्जमानो जनम् अपीमम् अखिलं स्वस्वामिनं वक्ष्यमाणोपायेन प्रत्यभिज्ञापयामि येन परमार्थलाभेन परितुष्येयम् ॥

कर्तरि ज्ञातरि स्वात्मन्य्
आदिसिद्धे महेश्वरे।
अजडात्मा निषेधं वा
सिद्धिं वा विदधीत कः ॥ १,१।२ ॥

वृत्तिः सर्वेषां स्वात्मनः सर्वार्थसिद्धिसमाश्रयस्य तत्तत्सर्वार्थसाधनान्यथानुपपत्त्या क्रोडीकृतसिद्धेः स्वप्रकाशस्य प्रमात्रेकवपुषः पूर्वसिद्धस्य पुराणस्य ज्ञानं क्रिया च । स्वसंवेदनसिद्धम् ऐश्वर्यं, तेनेश्वरस्य सिद्धौ निराकरणे च जडानाम् एवोद्यमः ॥

किं तु मोहवशाद् अस्मिन्
दृष्टे ऽप्य् अनुपलक्षिते।
शक्त्याविष्करणेनेयं
प्रत्यभिज्ञोपदर्श्यते ॥ १,१।३ ॥

वृत्तिः केवलम् अस्य स्वसंवेदनसिद्धस्यापीश्वरस्य मायाव्यामोहाद् अहृदयङ्गमत्वाद् असाधारणप्रभावाभिज्ञानख्यापनेन दृढनिश्चयरूपं प्रत्यभिज्ञानमात्रम् उपदर्श्यते ॥

तथा हि जडभूतानां
प्रतिष्ठा जीवदाश्रया।
ज्ञानं क्रिया च भूतानां
जीवतां जीवनं मतम् ॥ १,१।४ ॥

वृत्तिः वस्तूनां जडाजडभेदेन द्वैविध्यम् । तत्र जडस्वरूपस्य जीवन्निष्ठा सिद्धिः, जीवतां पुनो जीवत्वं जीवनं ज्ञानक्रिये एव ॥

तत्र ज्ञानं स्वतःसिद्धं
क्रिया कायाश्रिता सती।
परैर् अप्य् उपलक्ष्येत
तयान्यज्ञानम् ऊह्यते ॥ १,१।५ ॥

वृत्तिः जीवतां क्रिया कायपरिस्पन्दपर्यन्तीभूतान्यत्रापि प्रत्यक्षा, ज्ञानम् आत्मवेद्यं परत्रापि क्रिययैव प्रसिध्यतीति सिद्ध एव स्वसंवेदनसंवेद्यतया स्वपरयोर् ईश्वरो ऽहम्प्रत्येय आत्मा, तस्य मायाशक्त्या निसर्गतिरोधानाद् एवं विमतिः ॥

इत्य् उपोद्घातः ॥

इति ज्ञानाधिकारे प्रथमम् आह्निकम् ॥

ननु स्वलक्षणाभासं
ज्ञानम् एकं परं पुनः।
साभिलापं विकल्पाख्यं
बहुधा नापि तद् द्वयम् ॥ १,२।१ ॥

नित्यस्य कस्य चिद् द्रष्टुस्
तस्यात्रानवभासतः।
अहम्प्रतीतिर् अप्य् एषा
शरीराद्यवसायिनी ॥ १,२।२ ॥

वृत्तिः ज्ञानम् एकं स्फुटावभासस्वलक्षणानुभवस्वरूपं निर्विकल्पकं ते कथयन्ति । अपरं तु शब्दारुषणया स्मृतिसंशयोत्प्रेक्षादिबहुभेदं विकल्पसञ्ज्ञम् । उभयम् अप्य् एतन् न युज्यते बोधरूपज्ञानातिरिक्तस्यान्यस्य सम्बन्धितया तस्यानुपलब्धेः । को ऽसौ स्थिररूप आत्मा ? साभिलापाहम्प्रत्ययेनापि शरीरादिकवेद्यवस्तूत्तीर्णो वेदयिता न कश् चिद् लोकैर् अवधार्यते ॥

अथानुभवविध्वंसे
स्मृतिस् तदनुरोधिनी।
कथं भवेन् न नित्यः स्याद्
आत्मा यद्य् अनुभावकः ॥ १,२।३ ॥

वृत्तिः स्मृतिकाले पूर्वानुभवनाशात् कथं पूर्वार्थानुभवावष्टम्भधर्मा स्मृतिर् जायेत यदि तदापि तदनुभवबोधो नानुवर्तेत, यश् चानेककालस्थायी बोधः स एवात्मानुभाविता ॥

सत्याप्य् आत्मनि दृङ्नाशात्
तद्द्वारा दृष्टवस्तुषु।
स्मृतिः केनाथ यत्रैवा-
-नुभवस् तत्पदैव सा ॥ १,२।४ ॥

वृत्तिः अर्थाभासनाशात् तन्मुखावलम्बनीयो विषयो ऽप्य् अत्र नास्ति स्मृतेर् इत्य् एकबोधात्मनि सत्य् अपि आत्मनि सा निर्विषयैवेतिव्यवहारोच्छेदः । असतो ऽप्य् अर्थानुभवस्य विषयेण सा विषयवती यदि ॥

यतो हि पूर्वानुभव-
संस्कारात् स्मृतिसम्भवः।
यद्य् एवम् अन्तर्गडुना
को ऽर्थः स्यात् स्थायिनात्मना ॥ १,२।५ ॥

वृत्तिः अनुभवात् संस्कारः संस्काराच् च स्मृतिर् जायमाना तं पूर्वानुभवम् अनुकुर्वत्य् एवावगाहितविषयं तम् अनुभवम् आभासयति । एवम् आत्मस्थैर्येण किम् अनुपयोगिना संस्कारस्यात्मवादे ऽप्य् अङ्गीकरणात् तेनैव च सिद्धेः ॥

ततो भिन्नेषु धर्मेषु
तत्स्वरूपाविशेषतह्।
संस्कारात् स्मृइतिसिद्धौ स्यात्
स्मर्ता द्रष्टेव कल्पितः ॥ १,२।६ ॥

वृत्तिः सुखदुःखज्ञानादिभिन्नधर्माश्रयत्वेनाप्य् आत्मनो ऽनुपयोगो भिन्नैर् धर्मैर् असम्भिन्नस्यानुपजातविशेषस्य स्मृतव् अव्यापृतेः । तद् द्रष्टृवत् कल्पनामात्रम् एतद् आत्मा स्मृतेति ॥

ज्ञानं च चित्स्वरूपं चेत्
तद् अनित्यं किम् आत्मवत्।
अथापि जडम् एतस्य
कथम् अर्थप्रकाशता ॥ १,२।७ ॥

वृत्तिः चित्स्वाभाव्ये ज्ञानस्य चेत्य् अधर्मदेशकालावेशयोगाद् आत्मन इव नित्यतादिप्रसङ्गः । जडत्वे कथम् अर्थस्यासौ प्रकाशः ॥

अथार्थस्य यथा रूपं
धत्ते बुद्धिस् तथात्मनः।
चैतन्यम् अजडा सैवं
जाड्ये नार्थप्रकासता ॥ १,२।८ ॥

वृत्तिः ज्ञानं बुद्धिः । सा जडापि यथा विषयरूपछायां धत्ते तथात्मनो ऽपि चैतन्यछायाम्, अतो ऽसव् अर्थप्रकाशस् तथा च तस्याश् चित्स्वरूपता स्यात् । एवं ज्ञानं सद् अपि नान्यस्य सम्बन्धि, अनुपपत्तेः । क्रिया तु न स्वरूपेणास्ति नान्यसम्बन्धितया ॥

क्रियाप्य् अर्थस्य कायादेस्
तत्तद्देशादिजातता।
नान्यादृष्टेर् न साप्य् एका
क्रमिकैकस्य चोचिता ॥ १,२।९ ॥

वृत्तिः क्रियापि पूर्वापरीभूतवयवैका कारकव्यापाररूपा न युक्ता क्रमिकस्यानेककालस्पृशह् स्वात्माइक्यायोगात्, नापि कालक्रमव्यापी चैकस्वभावश् च तस्या आश्रयो युक्तः, केवलं गमनपरिणामादिरूपा सा क्रिया । कायादीनां तु तत्तद्भिन्नदेशकालगतपूर्वसत्तामात्रम् एतद् अतिरिक्तस्यान्यस्यानुपलम्भात् ॥

तत्र तत्र स्थिते तत् तद्
भवतीत्य् एव दृश्यते।
नान्यन् नान्यो ऽस्ति सम्बन्धः
कार्यकारणभावतः ॥ १,२।१० ॥

वृत्तिः पूर्वस्मिन् सति परस्य सत्तेत्य् एतावन्मात्रे ऽनुभवः । क्रियावच् च न क्रियाकारकसम्बन्धः कश् चिद् भिन्नस्यास्यानुपलम्भात् । कार्यकारणभावाद् ऋते नान्यद् वस्तूनां ज्ञातेयम् ॥

द्विष्ठस्यानेकरूपत्वात्
सिद्धस्यान्यानपेक्षणात्।
पारतन्त्र्याद्ययोगाच् च
तेन कर्तापि कल्पितः ॥ १,२।११ ॥

वृत्तिः सम्बन्धो द्विष्ठो न चैकेनात्मनोभयत्रावस्थितिर् युक्ता न च द्वयोः सिद्धयोर् अन्योन्यापेक्षात्मा नापि स्वात्ममात्रनिष्ठयोः पारतन्त्र्यरूपः सम्बन्धः । ततो यथा ज्ञातृत्वं कल्पितं तथा कर्तृत्वम् अपीति कथम् आत्मा सर्वेशर इति ? ॥

सत्यं किं तु स्मृतिज्ञानं
पूर्वानुभवसंस्कृतेः।
जातम् अप्य् आत्मनिष्ठं तन्
नाद्यानुभववेदकम् ॥ १,३।१ ॥

वृत्तिः पूर्वानुभवसंस्कारप्रबोधजन्मापि स्मृतिर् आत्ममात्रनिष्ठत्वात् स्वरूपसंवेदिकैव न तु पूर्वानुभवावेशाभावात् पूर्वानुभूतार्थव्यवस्थापिका घटते ॥

दृक्स्वाभासैव नान्येन
वेद्या रूपदृशेव दृक्।
रसे संस्कारजत्वं तु
तत्तुल्यत्वं न तद्गतिः ॥ १,३।२ ॥

वृत्तिः सर्वा हि ज्ञप्तिः स्वसंवेदनैकरूपानन्यसंविद् द्वेधा, रूपरसज्ञानयोर् अन्योन्यवेदने ऽन्योन्यविषयवेदनम् अपि स्यात् ततश् चेन्द्रियनियमाभावः । पूर्वानुभवसंस्कारजत्वेन तत्सादृश्यमात्रं न तु पूर्वानुभवावगतिः, तत्सादृश्यम् अपि नावसेयम् ॥

अथातद्विषयत्वे ऽपि
स्मृतेस् तदवसायतः।
दृष्टालम्बनता भ्रान्त्या
तद् एतद् असमञ्जसम् ॥ १,३।३ ॥

वृत्तिः न चापि भ्रान्त्या पूर्वानुभवं तद्विषयं च शुक्तौ रजतम् इवासंवेद्यमानम् अध्यवस्यतीति स्मृतिस् तद्विषया ॥

स्मृतितैव कथं तावद्
भ्रान्तेश् चार्थस्थितिः कथम्।
पूर्वानुभवसङ्कारा-
-पेक्षा च किम् इतीष्यते ॥ १,३।४ ॥

वृत्तिः पूर्वानुभवाप्रकाशात् तद्विषयसम्प्रमोषे ऽध्यवसायमात्रात् स्मृतित्वं न युक्तम् । न च भ्रान्त्या पूर्वानुभूतार्थव्यवस्थापनम्, पूर्वानुभवास्पर्शे च तद्भिन्नयोगक्षेमाया भ्रान्तेः संस्कारजत्वे को ग्रहः ॥

भ्रान्तित्वे चावसायस्य
न जडाद् विषयस्थितिः।
ततो ऽजाड्ये निजोल्लेख-
निष्ठान् नार्थस्थितिस् ततः ॥ १,३।५ ॥

वृत्तिः अध्यवसाय एव भ्रान्त्या विषयव्यवस्थापको न तु स्वसंवित्, स च जडः कथम् अर्थव्यवस्थाया हेतुः ? चिद्रूपो ऽप्य् अतीतार्थमात्रम् आभासयेद् अबाह्यस्वात्मोल्लेखमात्रप्रकाशो वा न तद्धेतुः ॥

एवम् अन्योन्यभिन्नानाम्
अपरस्परवेदिनाम्।
ज्ञानानाम् अनुसन्धान-
जन्मा नश्येज् जनस्थितिः ॥ १,३।६ ॥

वृत्तिः ज्ञानानि स्वात्ममात्रपरिनिष्ठितानि स्वसंविद्रूपतया अपरसंवेद्यानि । तेषाम् अन्योन्यसङ्घट्टनामयः परमार्थोपदेशपर्यन्तो लोकव्यवहारः कथम् ॥

न चेद् अन्तःकृतानन्त-
विश्वरूपो महेश्वरः।
स्याद् एकश् चिद्वपुर् ज्ञान-
स्मृत्यपोहनशक्तिमान् ॥ १,३।७ ॥

वृत्तिः चित्तत्वम् एव विश्वरूपमतो ऽतिरिक्तस्यानुपपत्तेः, अशेषपदार्थज्ञानानाम् अन्योन्यानुसन्धानम् । अस्यैव ज्ञानादिकाः शक्तयः । मत्तः स्मृतिर् ज्ञानम् अपोहनं चेति ह्य् उक्तम् ॥

इति ज्ञानाधिकारे तृतीयम् आह्निकम् ॥

स हि पूर्वानुभूतार्थो-
-पलब्धा परतो ऽपि सन्।
विमृशन् स इति स्वैरी
स्मरतीत्य् अपदिश्यते ॥ १,४।१ ॥

वृत्तिः पश्चाद् अपि पूर्वानुभूतार्थानुभवितृत्वात् पूर्वानुभूतार्थप्रकाशासम्प्रमोषणम्, तस्यैकस्य विभोः कर्तुः स इत्य् अत्र पूर्वानुभूतत्वेन प्रत्यवमर्शः स्मृतिर् नाम व्यापरः ॥

भासयेच् च स्वकाले ऽर्थात्
पूर्वाभासितम् आमृशन्।
स्वलक्षणं घटाभास-
मात्रेणाथाखिलात्मना ॥ १,४।२ ॥

वृत्तिः स्मृतिशक्त्या स इति पूर्वानुभूतं स्वलक्षणं परामृशन्न् आभासयत्य् एवान्यथा प्रकाशितस्य परामर्शो न कृतः स्यात् स्वसत्ताकाल एव च, तेन स्मरणकाले नष्टस्याप्य् आभासो न दुष्यति । कदा चित् त्व् अर्थितावशाद् घटकाञ्चनद्रव्यसत्ताद्यन्यतमैकाभासरूपेणैवास्य स्फुटावभासः, अन्यदा तु सर्वात्मनार्थित्वेन तथैव । अतिशयनिरन्तरावहितचेतसस् तु दृष्टार्थप्रत्यक्षीकार एव ॥

न च युक्तं स्मृतेर् भेदे
स्मर्यमाणस्य भासनम्।
तेनैक्यं भिन्नकालानां
संविदां वेदितैष सः ॥ १,४।३ ॥

वृत्तिः पूर्वानुभूतश् चार्थो ऽनुभवेन सह तात्कालिकस्मृतिप्रकाशे ऽवभासमानः स्मृत्यभिन्न एव प्रकाशाद् भिन्नस्य प्रकाशमानतानुपपत्तेः । एवं चानुभवस्मृत्यादिसंविदाम् ऐक्यं स एव चात्मा वेदकः । तथा हि ॥

नैव ह्य् अनुभवो भाति
स्मृतौ पूर्वो ऽर्थवत् पृथक्।
प्राग् अन्वभूवम् अहम् इत्य्
आत्मारोहणभासनात् ॥ १,४।४ ॥

वृत्तिः स्मृतौ स्मर्यमाणो ऽनुभूतार्थो यथा पृथग्भूतो भाति न तथानुभवः स्वात्मन एवाहन्ताप्रत्येयस्यानुभवमयत्वेन प्रथनात्, यश् चानेककालो ऽहंवेद्यो ऽर्थः स एवात्मा ॥

योगिनाम् अपि भासन्ते
न दृशो दर्शनान्तरे।
स्वसंविदेकमानास् ता
भान्ति मेयपदे ऽपि वा ॥ १,४।५ ॥

वृत्तिः सर्वज्ञानाम् अपि प्रमात्रान्तरगतोपलम्भाः स्वसंविन्मात्रवेद्यस्वभावाः स्वात्मारूढा एव भासेरन्, अतश् च तेषां योगिनां परात्मतापत्तिर् एव तत्त्वम् । प्रमेयकक्ष्यायाम् अपि घटादिवत् प्रातिस्विकेन शुद्धबोधात्मना रूपेणावभासेरन् यदि तथा सम्भवेत् ।

स्मर्यते यद् दृग् आसीन् मे
सैवम् इत्य् अपि भेदतः।
तद् व्याकरणम् एवास्या
मया दृष्टम् इति स्मृतेः ॥ १,४।६ ॥

वृत्तिः मया दृष्टम् इति प्रमात्रान्तर्गतदर्शनपरामर्शात्मिकाया एव स्मृतेर् विभज्य कथनम्, एतद् एवम् अनुभवो ऽसौ ममाभूद् इति भेदेनापि निर्देशः ।

या च पश्याम्य् अहम् इमं
घटो ऽयम् इति वावसा।
मन्यते समवेतं साप्य्
अवसातरि दर्शनम् ॥ १,४।७ ॥

वृत्तिः परःस्थितार्थविकल्पने ऽपि घटम् इमं पश्यामि घटो ऽयम् इति वा प्रमातृमयम् एव दर्शनं प्रत्यवमृश्यते ॥

तन् मया दृश्यते दृष्टो
ऽयं स इत्य् आमृशत्य् अपि।
ग्राह्यग्राहकताभिन्नाव्
अर्थौ भातः पमातरि ॥ १,४।८ ॥

वृत्तिः तस्माद् दृक्परामर्शपुरःसारायां स्मृतौ विकल्पमात्रे वा दृक्षब्दानुवेधं विनापि स इत्य् अयम् इति वार्थमात्रनिर्देशेन सर्वत्रैकप्रमातृलीनव् एवानुभाव्यानुभावकौ मायाकृतविच्छिन्नावभासव् अपि प्रकाशेते ॥

इति ज्ञानाधिकारे चतुर्थम् आह्निकम् ॥

वर्तमानावभासानां
भावानाम् अवभासनम्।
अन्तःस्थितवताम् एव
घटते बहिर् आत्मना ॥ १,५।१ ॥

वृत्तिः प्रत्यक्षे ऽपि यावद् अर्थानां भेदेनावभासः प्रमात्रन्तर्लीनानाम् एव सतां युक्तः ॥

प्रागिवार्थो ऽप्रकाशः स्यात्
प्रकाशात्मतया विना।
न च प्रकाशो भिन्नः स्याद्
आत्मार्थस्य प्रकाशता ॥ १,५।२ ॥

वृत्तिः प्रमातृसञ्ज्ञप्रकाशस्वरूपतां विना यथादौ घटो ऽस्य नावभासस् तथा ज्ञानकाले ऽपि स्यात्, प्रकाशमानता चार्थस्य प्रकाशः स्वरूपतो न तु भिन्नः ॥

भिन्ने प्रकाशे चाभिन्ने
सङ्करो विषयस्य तत्।
प्रकाशात्मा प्रकाश्यो ऽर्थो
नाप्रकाशश् च सिद्ध्यति ॥ १,५।३ ॥

वृत्तिः प्रकाशमात्रं चार्थाद् भिन्नं सर्वार्थसाधारणं तस्य घटस्य प्रकाशो ऽयम् अयं पटस्यैवेति विषयनियमो निर्निबन्धनः । तस्माद् अर्थस्य सिद्धिः प्रकाशात्मतायत्ता ॥

तत्तदाकस्मिकाभासो
बाह्यं चेद् अनुमापयेत्।
न ह्य् अभिन्नस्य बोधस्य
विचित्राभासहेतुता ॥ १,५।४ ॥

वृत्तिः जडानाम् आभासमानतैव सत्तासिद्धिः सा च आभासात्मतैव । ततश् च बोधमात्रम् एकम् एवात्र तत्त्वम् । तस्याविशेषे ऽपि क्रमेण विशिष्यमाणो ऽर्थावभासस् ततो ऽन्यम् अप्रकाशमानं हेतुतया बाह्यम् अर्थम् ऊहयेद् इन्दियवत् ॥

न वासनाप्रबोधो ऽत्र
विचित्रो हेतुताम् इयात्।
तस्यापि तत्प्रबोधस्य
वैचित्र्ये किम् निबन्धनम् ॥ १,५।५ ॥

वृत्तिः विचित्रवासनाप्रबोधो न बोधाद् भिन्नः, तस्यापि वैचित्र्ये को हेतुः । ततो बाह्य एवार्थो भिन्नाभासहेतुः ॥

स्याद् एतद् अवभासेषु
तेष्व् एवावसिते सति।
व्यवहारे किम् अन्येन
बाह्येनानुपपत्तिना ॥ १,५।६ ॥

वृत्तिः आभासमानैर् एव अर्थैर् व्यवहारः, ते चाभासात्मकाः सन्तु का क्षतिः । तत् किं बाह्येन कार्यं तावता लोकयात्रासमाप्तेः । बाह्यश् चार्थः प्रमाणबाधितः सावयवो विरुद्धधर्माध्यासादेर् निरवयवश् च दिक्षट्कयोगादेर् बहुशः ॥

चिदात्मैव हि देवो ऽन्तः-
स्थितम् इच्छावशाद् बहिः।
योगीव निरुपादानम्
अर्थजातं प्रकाशयेत् ॥ १,५।७ ॥

वृत्तिः चित्तत्त्वम् एव ईश्वरत्वात् स्वात्मरूपतया उपपन्नाभासनम् अनन्तशक्तित्वाद् इच्छावशान् मृदादिकारणं विनैव बाह्यत्वेन घटपटादिकम् अर्थराशिं प्रकाशयेत् ॥

अनुमानम् अनाभात-
पूर्वे नैवेष्टम् इन्द्रियम्।
आभातम् एव बीजादेर्
आभासाद् धेतुवस्तुनः ॥ १,५।८ ॥

वृत्तिः पूर्वावभातान्तःस्थित एवार्थे नान्तरीयकार्थदर्शनवशात् तत्तद्देशकालादियोजनया विमर्शनम् अनुमानम् । इन्द्रियम् अप्य् अनुमीयते किञ्चिन्मात्रं निमित्तं तच् च बीजाद्याभासाद् आभासितम् एव ॥

आभासः पुनराभासद्
बाह्यस्यासीत् कथं चन।
अर्थस्य नैव तेनास्य
सिद्धिर् नाप्य् अनुमानतः ॥ १,५।९ ॥

वृत्तिः घटाद्याभासाद् बाह्यस्यानुपपत्तेर् नासीद् आभासः, ततस् तत्र नानुमानाद् अपि सिद्धिः ॥

स्वामिनश् चात्मसंस्थस्य
भावजातस्य भासनम्।
अस्त्य् एव न विना तस्माद्
इच्छामर्शः प्रवर्तते ॥ १,५।१० ॥

वृत्तिः चिदात्मनश् चेश्वरस्य आत्मनीवाभेदेनार्थेष्व् अपि प्रकाशे ऽस्त्य् अन्यथा प्रतिभासमानार्थैकविषयो निर्मातृतामयो विमर्श इच्छारूपो न स्यात् ॥

स्वभावम् अवभासस्य
विमर्शं विदुर् अन्यथा।
प्रकाशो ऽर्थोपरक्तो ऽपि
स्फटिकादिजडोपमः ॥ १,५।११ ॥

वृत्तिः प्रकाशस्य मुख्य आत्मा प्रत्यवमर्शः, तं विना अर्थभेदिताकारस्याप्य् अस्य स्वच्छतामात्रं न त्व् अजाड्यं चमत्कृतेर् अभावात् ॥

आत्मात एव चैतन्यं
चित्क्रिया चितिकर्तृता।
तात्पर्येणोदितस् तेन
जडात् स हि विलक्षणः ॥ १,५।१२ ॥

वृत्तिः आत्मद्रव्यस्य भावात्मकम् अप्य् एतज् जडाद् भेदकतया विमर्शाख्यं मुख्यं रूपम् उक्तं चैतन्यं दृशिशक्तिश् चितिर् इति [अदोप्त् वर्: चितिशक्तिर् दृशिर् इति] । सा चेतनक्रिया चितिकर्तृतैव ॥

चितिः प्रत्यवमर्शात्मा
परा वाक् स्वरसोदिता।
स्वातन्त्र्यम् एतन् मुख्यं
तद् ऐश्वर्यं परमात्मनः ॥ १,५।१३ ॥

वृत्तिः अभिन्नवाच्याद्या वाग् एषा नित्यचित्स्वरूपत्वेनानाद्यन्तापरतन्त्रा, भावान्तरानपेक्षं शुद्धम् एतत् स्वातन्त्र्यम् ऐश्वर्यसञ्ज्ञम् ॥

सा स्फुरत्ता महासत्ता
देशकालाविशेषिनी।
सैषा सारतया प्रोक्ता
हृदयं परमेष्ठिनः ॥ १,५।१४ ॥

वृत्तिः स्फुरद्रूपता स्फुरणकर्तृता अभावाप्रतियोगिन्य् अभावव्यापिनी सत्ता भवत्ता भवनकर्तृता नित्या देशकालास्पर्शात् सैव प्रत्यवमर्शात्मा चितिक्रियाशाक्तिः । सा विश्वात्मनः परमेश्वरस्य स्वात्मप्रतिष्ठारूपा हृदयम् इति तत्र तत्रागमे निगद्यते ॥

आत्मानम् अत एवायं
ज्ञेयीकुर्यात् पृथक्स्थिति।
ज्ञेयं न तु तदौन्मुख्यात्
खण्ड्येतास्य स्वतन्त्रता ॥ १,५।१५ ॥

वृत्तिः एतादृशशुद्धस्वातन्त्र्यवशान् नैष पृथग् एव लब्धप्रतिष्ठं वस्त्व् अवैति, अपि त्व् अज्ञेयम् आत्मानम् अनियन्त्रितप्रभावतया ज्ञेयीकरोति । भिन्नज्ञेयसापेक्षत्वे ज्ञानकर्तृता म्लायेत् ॥

स्वातन्त्र्यामुक्तात्मानं
स्वातन्त्र्याद् अद्वयात्मनः।
प्रभुर् ईशादिसङ्कल्पैर्
निर्माय व्यवहारयेत् ॥ १,५।१६ ॥

वृत्तिः अत एव वेद्यैकीभावलक्षणपूर्णतामयात् स्वातन्त्र्यात् तदानीन्तनम् एव वेदकम् आत्मानम् ईश्वरः शिवो वेदितेत्य् एवमादिविकल्पैर् आभासयति भावनादिव्यवहारार्थम् ॥

नाहन्तादिपरामर्श-
भेदाद् अस्यानयतात्मनः।
अहम्मृश्यतयाइवास्य
सृष्तेस् तिङ्वाच्यकर्मवत् ॥ १,५।१७ ॥

वृत्तिः वर्तमानप्रमातृभावे नाहम्प्रत्यवमर्शस्य प्रमेयत्वेनेदन्ता । विमर्शभेदे चाभासभेदे च प्रमातैवेश्वरशब्देन सृष्टो ऽहं परामर्शव्यवधानेन केवलम्, यथा क्रियादिशब्देन पचत्यादिवाच्यो ऽर्थः । यथाहुः क्रियागुणजातिसम्बन्धादिशाब्दैर् न क्रियादय उच्यन्ते पचत्यादिमुखेनाभिधानात् । ईश्वरशब्दाद् आत्मशब्दाच् चाहम् इति परामृशन् न एवात्मानम् अवैति न साक्षात्, प्रतीतिस् त्व् अस्त्य् एव स्मृत्येवानुभवमुखेनानुभूतस्य ॥

मायाशक्त्या विभोः सैव
भिन्नसंवेद्यगोचरा।
कथिता ज्ञानसङ्कल्पा-
-ध्यवसायादिनामभिः ॥ १,५।१८ ॥

वृत्तिः प्रकाशात्मनः परमेश्वरस्य मायाशक्त्या स्वात्मरूपं विश्वं भेदे आभास्यते । ततः सैव चितिर् ज्ञानम् अध्यक्षम् । तस्यैव भिन्नस्याभातस्य स्मृतिः सङ्कल्पो ऽध्यवसायो मनोबुद्धिरूपत्वे ऽपि चितिर् एव ॥

साक्षात्कारक्षणे ऽप्य् अस्ति
विमर्शः कथम् अन्यथा।
धावनाद्य् उपपद्येत
प्रतिसन्धानवर्जितम् ॥ १,५।१९ ॥

वृत्तिः साक्षात्कारलक्षणे ज्ञाने ऽपि चितो ऽर्थप्रत्यवमर्शो ऽस्ति सूक्ष्मः, वाचनधावनादौ शीघ्रक्रिया तत्तद्दृश्यमानदेशाद्युपादित्साजिहासानुसन्धानेन हि भवेत् ॥

घटो ऽयम् इत्य् अध्यवसा
नामरूपातिरेकिणी।
परेशशक्तिर् आत्मेव
भासते न त्व् इदन्तया ॥ १,५।२० ॥

वृत्तिः अयम् इति घट इति वाध्यवसायो भिन्नप्रकाशमाननामरूपातिरिक्तश् चितिशक्तिमय एवात्मेवाभेदेन अवभासते ॥

केवलं भिन्नसम्वेद्य-
देशकालानुरोधतः।
ज्ञानस्मृत्यवसायादि
सक्रमं प्रतिभासते ॥ १,५।२१ ॥

वृत्तिः चित्तत्त्वस्य मायाशक्त्या भिन्नं घटादि संवेद्यं तत्तद्देशकालभिन्नं प्रकाश्यते यस्याभेदेनावष्टम्भाद् विभिन्नदेशकालादिना ज्ञानस्मृत्याद्याभासते ॥

इति ज्ञानाधिकारे पञ्चमम् आह्निकम् ॥

अहम्प्रत्यवमर्शो यः
प्रकाशात्मापि वाग्वपुः।
नासौ विकल्पः स ह्य् उक्तो
द्वयाक्षेपी विनिश्चयः ॥ १,६।१ ॥

वृत्तिः प्रकाशस्यात्मन्य् अहमिति परावाग्रूपत्वात् साभिलापो ऽपि स्वभावभूतः प्रत्यवमर्शो न विकल्प इत्य् उच्यते, स हि प्रतियोगिनिषेधपूर्वो निश्चयो न चात्र प्रतियोगिसम्भवः ॥

भिन्नयोर् अवभासो हि
स्याद् घटाघटयोर् द्वयोः।
प्रकाशस्येव नान्यस्य
भेदिनस् त्व् अवभासनम् ॥ १,६।२ ॥

वृत्तिः प्रकाशाद् द्वितीयस्य भिन्नस्य प्रतियोगिनो ऽप्रकाशसञ्ज्ञस्यानवभासने प्रकाशेतरत्वं न स्यात् । तस्यानाभासे व्यपोहनायोगाद् विकल्पताहानिः ॥

तथा च

तदतत्प्रतिभाभाजा
मात्रैवातद्व्यपोहनात्।
तन्निश्चयनमुक्तो हि
विकल्पो घट इत्य् अयम् ॥ १,६।३ ॥

वृत्तिः प्रमातुर् एव स्वतन्त्रस्यान्तर्लीनतदतदर्थाभासस्य अतदपोहनेन घट इति निश्चयो विकल्पो नाम व्यापारः ॥

चित्तत्त्वं मायया हित्वा
भिन्न एवावभाति यः।
देहे बुद्धाव् अथ प्राणे
कल्पिते नभसीव वा ॥ १,६।४ ॥

प्रमातृत्वेनाहम् इति
विमर्शो ऽन्यव्यपोहनात्।
विकल्प एव स पर-
प्रतियोग्य् अवभासजः ॥ १,६।५ ॥

वृत्तिः चिदचित्तत्त्वस्यैवेश्वरस्य मायाशक्त्या भेदावभासिनि शरीरे बुद्धव् आन्तरे वा स्पर्शे तदुत्तीर्णे वाकाश इव शून्य एव विकल्पिते ऽहमिति प्रमातृभावेन विमर्शः, तत्तदाभासमानशरीरादिप्रतियोग्यपोहनकरणाद् घटो ऽयम् इतिवद् विकल्प एव ॥

कादाचित्कावभासे या
पूर्वाभासादियोजना।
संस्कारात् कल्पना प्रोक्ता
सापि भिन्नावभासिनि ॥ १,६।६ ॥

वृत्तिः विछिन्नविच्छिन्नेषु शून्यदेहाद्याभासभेदेषु पूर्वाभासाहङ्काराख्यानाम् ऐक्ययोजनान्तःपूर्वाभासस्थितिलक्षणसंस्काराश्रिता प्रमातृव्यापाररूपा कल्पनैव प्रत्यभिज्ञाख्या ॥

तद् एवं व्यवहारे ऽपि
प्रभुर् देहादिम् आविशन्।
भान्तम् एवान्त अर्थौघम्
इच्छया भासयेद् बहिः ॥ १,६।७ ॥

वृत्तिः आदिसर्गे वा व्यवहारे ऽपि वा महेश्वरो मायाशक्त्या देहादिम् आत्मत्वेन अभिनिविश्य प्रमातारं कुर्वन्न् अन्तःस्थितं विभान्तम् एव तं तम् अर्थं क्रमेण बहीरूपं कर्तृशक्त्या भासयति । तथाभासनम् एवोत्पादनम् । अस्य देहाद्यनाविष्टस्य तु स्वतो युगपद् अहमिदम् इति सर्वार्थप्रकाशः ॥

एवं स्मृतौ विकल्पे वाप्य्
अपोहनपरायणे।
ज्ञाने वाप्य् अन्तराभासः
स्थित एवेति निश्चितम् ॥ १,६।८ ॥

वृत्तिः सर्वसंवित्सु सर्वार्थावभासः प्रमातृसंलीनश् चित्तत्त्ववद् आनुरूप्येण प्रकाशमानः सदा स्थित एव ॥

किं तु नैसर्गिको ज्ञाने
बहिराभासनात्मनि।
पूर्वानुभवरूपस् तु
स्थितः स स्मरणादिषु ॥ १,६।९ ॥

वृत्तिः ज्ञाने बहिराभासनरूपे सहज एव चित्तत्त्वस्यान्तरर्थावभासः, स्मृत्यादौ तु पूर्वानुभवात्मा । अत एव स्मृतिः संस्कारजोच्यते ॥

स नैसर्गिक एवास्ति
विकल्पे स्वैरचारिणि।
यथाभिमतसंस्थाना-
-भासनाद् बुद्धिगोचरे ॥ १,६।१० ॥

वृत्तिः अवतन्त्रस् तु विकल्पश् चक्षुराद्यगोचरम् अपि बुद्धविषयतापादनेन यथारुचि पूर्वानुभूतत्वाविमर्शनेन नवम् एव तं तम् अर्थम् आभासयति सन्निवेशविशेषं च । तत्रासव् अर्थः सहज एवास्ति ॥

अत एव यथाभीष्ट-
समुल्लेखावभासनात्।
ज्ञानक्रिये स्फुटे एव
सिद्धे सर्वस्य जीवतः ॥ १,६।११ ॥

वृत्तिः अपूर्वार्थनिर्माणज्ञानसामार्थ्याच् च विकल्प एव सर्वस्य सर्वज्ञत्वं सर्वकर्तृत्वं च स्फुटम्

इति ज्ञानाधिकारे षष्ठम् आह्निकम्

सप्तमम् आह्निकम्

या चैषा प्रतिभा तत्तत्-
पदार्थक्रमरूषिता।
अक्रमानन्तचिद्रूपः
प्रमाता स महेश्वरः ॥ १,७।१ ॥

वृत्तिः तत्तत्पदार्थक्रमाच्छुरितश् चैषो ऽन्तःस्थित एव आभासः सर्वसंवित्कालव्याप्यक्रमानन्तचिन्मय आत्मसञ्ज्ञः प्रमाता स्वाङ्गभूते प्रमेये निर्मातृतया महेश्वरश् च ॥

तत्तद्विभिन्नसंवित्ति-
मुखैर् एकप्रमातरि।
प्रतितिष्ठत्सु भावेषु
ज्ञातेयम् उपपद्यते ॥ १,७।२ ॥

वृत्तिः अनेकसंवित्स्रोतोमुखैर् एकप्रमातृसिन्धुम् उपलीय भावभेदाः कार्यकारणतादिव्यवहारसमन्वयं भजन्ते ॥

देशकालक्रमजुषाम्
अर्थानां स्वसमापिनाम्।
सकृदाभाससाध्यो ऽसाव्
अन्यथा कः समन्वयः ॥ १,७।३ ॥

वृत्तिः स्वरूपम् अवभासनं च भावानां स्वात्मपरिनिष्ठितम् एव । युगपदेकाभासनिबन्धनश् चैषां समन्वयः । स अभिन्नः प्रमातृलीनतया कल्पते ।

प्रत्यक्षानुपलम्भानां
तत्तद्भिन्नांशपातिनाम्।
कार्यकारणतासिद्धि-
हेतुतैकप्रमातृजा ॥ १,७।४ ॥

वृत्तिः कार्यकारणभाव इव तत्सिद्धिर् अपि प्रत्यक्षानुपलम्भैर् एकप्रमातृमुखेन समन्वयम् आगत्य क्रियते, असमन्विताः प्रत्यक्षानुपलम्भाः क्रमिकस्वविषयमात्रज्ञापनक्षीणा नान्योन्यापेक्षोपलक्षणक्षमाः ॥

स्मृतौ यैव स्वसंवित्तिः
प्रमाणं स्वात्मसम्भवे।
पूर्वानुभवसद्भावे
साधनं सैव नापरम् ॥ १,७।५ ॥

वृत्तिः पूर्वानुभस्वसंवेदनस्य अभावात् स्मृतिस्वसंवेदनम् एव अत्रैकार्थाभासमयप्रमातृरूपं स्मृतिस्वरूप इव प्रमाणम् । स्मृतेः पूर्वानुभवाभासाभावे कार्यकारणभावासिद्धेर् न कार्यलिङ्गता ॥

बाध्यबाधकभावो ऽपि
स्वात्मनिष्ठाविरोधिनाम्।
ज्ञानानाम् उदियाद् एक-
प्रमातृपरिनिष्ठितेः ॥ १,७।६ ॥

वृत्तिः भिन्नस्वाभासमात्रनिष्ठानां ज्ञानानां को विरोधः, तत् कथं बाध्यबाध्कत्वम् । एकप्रामातृविश्रान्तौ तु युक्तम् ॥

विविक्तभूतलज्ञानं
घटाभावमतिर् यथा।
तथा चेच्छुक्तिकाज्ञानं
रूप्यज्ञानाप्रमात्ववित् ॥ १,७।७ ॥

वृत्तिः इह भूतले घटो नास्तीति घटाभावज्ञानं केवलभूतलज्ञानम् एव शून्यभूतलस्य घटाभावरूपत्वात् । तथैव यदि शुक्तिकारजतयोर् अपरस्परात्मत्वाच् छुक्तिकाज्ञानं रजताज्ञानम् इति प्रत्यक्षं बाधकम् ॥

नैवं शुद्धस्थलज्ञानात्
सिद्ध्येत् तस्याघटात्मना।
न तूपलब्धियोग्यस्याप्य्
अत्राभावो घटात्मनः ॥ १,७।८ ॥

वृत्तिः केवलभूतलज्नानाद् भूतलस्याघटात्मता सिध्यति, न तु तत्राधारे भिन्नो दर्शनयोग्यो ऽपि घटो नास्ति ॥

विविक्तं भूतलं शश्वद्
भावानां स्वात्मनिष्ठितेः।
तत् कथं जातु तज्ज्ञानं
भिन्नस्याभावसाधनम् ॥ १,७।९ ॥

वृत्तिः भूतलम् अभूतलविविक्तं सदैव तत् कथं तज्ज्ञानं कदाचिद् एव तत्र भिन्नघटाभावं साधयेत् । भिन्नघटविविक्तता च भूतलस्य कदाचित् कं रूपं स्याद् यदि घटसहिततापि कदाचित् स्वरूपं भवेत्, न त्व् एवम् । पदार्तौ द्वव् एव स्वात्मपरिनिष्ठितौ, साहित्यं न तदतिरिक्तम् उभयात्मकम् एकरूपम् । ज्ञानम् एकं तूभयाभाससंसर्गात्मकम् अप्य् एकाभासज्ञानान्तराभावरूपम् । वस्तु पुनः स्वात्मनिष्ठम् एव परिच्छिनत्तीति न वस्तुबलेन प्रदेशदर्शनात् प्रदेशसिद्धिवद् घटाभावसिद्धिः । उभयाभासैकज्ञानात्मककार्याभावात् तु स्यात् । न चैवं व्यवधानेन प्रतीतिः प्रदेशदर्शनाद् एव तत्सिद्धेः ॥

किम् त्व् आलोकचयो ऽन्धस्य
स्पर्शो वोष्णादिको मृदुः।
तत्रास्ति साधयेत् तस्य
स्वज्ञानम् अघटात्मताम् ॥ १,७।१० ॥

वृत्तिः प्रदेशेष्व् आलोकपुरं सन्तमसे मृदुम् उष्णादिकं स्पर्शं वा घटरूपस्पर्शाभावात्मकम् अनुभूयालोकादि घटाभावो ऽत्रास्ति, घटो नास्तीति व्यवहर्तुं युक्तम् ॥

पिशाचः स्याद् अनालोको ऽप्य्
आलोकाभ्यन्तरे यथा।
अदृश्यो भूतलस्यान्त
न निषेध्यः स सर्वथा ॥ १,७।११ ॥

वृत्तिः न चैवम् आलोकस्य पिशाचान्यत्वात् तत्र पिशाचनिषेधप्रसङ्गः, स ह्य् अदृश्यो ऽन्यत्वे ऽपि यथा मृद्गोलकस्याप्य् अन्तरनिवार्यस् तथालोकस्यान्तरे । ततस् तस्य अन्यमत इवास्मन्मते ऽपि नादृश्यत्वाद् अभावसिद्धिः ॥

एवं रूप्यविदाभाव-
रूपा शुक्तिमतिर् भवेत्।
न त्व् आद्यरजतज्ञप्तेः
स्याद् अप्रामाण्यवेदिका ॥ १,७।१२ ॥

वृत्तिः शुक्तिज्ञानम् एव रजतज्ञानाभावरूपं सिध्यति, तदानीन्तनशुक्तिज्ञानानुभवेन न भिन्नस्यातीतस्य रूप्यज्ञानस्याप्रामाण्यम् ॥

धर्म्यसिद्धेर् अपि भवेद्
बाधा नैवानुमानतः।
स्वसंवेदनसिद्धा तु
युक्ता सैकप्रमातृजा ॥ १,७।१३ ॥

वृत्तिः शुक्तिकाज्ञानकाले च न पूर्वं रजतज्ञानम् अस्ति । ततः स धर्मी न सिद्ध इति नानुमानेन बाधा, एकप्रमातृमयस्वसंवेदने त्व् एकदेशावष्टम्भ्युभयज्ञानमयसम्बन्धभासनात् सिध्यति । पश्चात्संवादः प्रत्यक्षस्वसंवेदने पूर्वस्यापि तस्य भासनाद् एकं प्रमाणम् इतरद् अन्यथेति भवति । संवादो ऽप्य् एकप्रमातृकृतः ॥

इत्थम् अत्यर्थभिन्नार्था-
-वभासखचिते विभौ।
समलो विमलो वापि
व्यवहारो ऽनुभूयते ॥ १,७।१४ ॥

वृत्तिः मायाशक्त्या भेदविषयो ऽयं सर्वो व्यवहारस् तथाज्ञानैनां शुद्धो ऽज्ञानान्धानां तु मलिनस् तत्तद्भिन्नार्थावभासभाजि भगवति सम्भाव्यते ऽनुभवेन ॥

इति ज्ञानाधिकारे सप्तमम् आह्निकम् ॥

तात्कालिकाक्षसामक्ष्य-
सापेक्षाः केवलं क्व चित्।
आभासा अन्यथान्यत्र त्व्
अन्धान्धतमसादिषु ॥ १,८।१ ॥

वृत्तिः आभासाः कदाचित् सन्निहितप्रत्यक्षाक्षिप्ता घटो ऽयम् इति व्यवहारहेतवः, अन्धतमसादौ तु पूर्वानुभवोत्थिताः ॥

विशेषो ऽर्थावभासस्य
सत्तायां न पुनः क्व चित्।
विकल्पेषु भवेद् भावि-
भवद्भूतार्थगामिषु ॥ १,८।२ ॥

वृत्तिः स्मृत्युत्प्रेक्षारूपेषु प्रत्यक्षपृष्ठपातिषु स्वतन्त्रेषु वान्येषु विकल्पेषु कालत्रयविषयेष्व् अर्थावभासो ऽन्तस् तुल्य एवावस्थितः ॥

सुखादिषु च सौख्यादि-
हेतुष्व् अपि च वस्तुषु।
अवभासस्य सद्भावे ऽप्य्
अतीतत्वात् तथा स्थितिः ॥ १,८।३ ॥

वृत्तिः सुखदुःखाद्याभासास् तत्साधनाभासाश् च सदैवान्तः सन्तो ऽपि न तदाह्लादादिमयीं स्थितिं कुर्वन्त्य् अतीतत्वाद् बहिस् तदानीम् अभावात् तदात्वविशिष्टानां च तथाकारित्वात् ॥

गाढम् उल्लिख्यमाने तु
विकल्पेन सुखादिके।
तथा स्थितिस् तथैव स्यात्
स्फुटम् अस्योपलक्षणात् ॥ १,८।४ ॥

वृत्तिः कुतश् चित् प्रयत्ननिवेशात् स्वतन्त्रविकल्पोल्लिखितं स्फुटम् एव सुखादि जातं विकासादिहेतुः ॥

भावाभावावभासानां
बाह्यतोपाधिर् इष्यते।
नात्मा सत्ता ततस् तेषाम्
आन्तराणां सतां सदा ॥ १,८।५ ॥

वृत्तिः सर्वेषाम् आभासानां भावाभावविषयानाम् अबहीरूपत्वे ऽपि सत्तास्त्य् एव स्मृत्यादौ, बाह्यत्वम् हि तेषाम् उपाधिर् न स्वरूपम् । अभावाभासस्यान्तःसत्तायाम् अपि बहिरभावात् तथात्वम् ॥

आन्तरत्वात् प्रमात्रैक्ये
नैषां भेदनिबन्धना।
अर्थक्रियापि बाह्यत्वे
सा भिन्नाभासभेदतः ॥ १,८।६ ॥

वृत्तिः अन्तश् च सर्वेषाम् एव नीलसुखाद्या भासानाम् सदा सत्त्वे ऽपि प्रमातृमात्ररूपत्वात् कार्यकारणादिभेदाश्रया नार्थक्रिया, प्रमातुर् भेदे ऽपि बौद्धचाक्षुषत्वादिभेदेनाभासभेदाद् आभासाश्रितार्थकारितापि भिद्यते रूपादीनाम् ॥

चिन्मयत्वे ऽवभासानाम्
अन्त एव स्थितिः सदा।
मायया भासमानानां
बाह्यत्वाद् बहिर् अप्य् असौ ॥ १,८।७ ॥

वृत्तिः चित्स्वरूपत्वेनाभासानां सदान्तस्तत्त्व एव स्थितिः । मायाशक्त्या बहिः प्रत्यक्षत्वेन प्रकाश्यमानेषु भावेषु प्रकाशाव्यतिरिक्तेषु बहिराभास इत्य् उच्यते, तद् अपि तेषाम् आन्तरत्वम् एव सिसृक्षादौ तु भावानाम् अपि ॥

विकल्पे यो ऽयम् उल्लेखः
सो ऽपि बाह्यः पृथक्प्रथः।
प्रमात्रैकात्म्यम् आन्तर्यं
ततो भेदो हि बाह्यता ॥ १,८।८ ॥

वृत्तिः विकल्पे घटाद्युल्लेखश् चक्षुराद्यगोचरे ऽपि पृथगाभासाद् बाह्य एव । अहंविमर्शो ह्य् आन्तरत्वं, इदम् इति तु बाह्यता । एवं च घटादीनाम् उभयी बाह्यता बाह्यान्तःकरणद्वयीवेद्यता, सुखादेस् त्व् एकान्तःकरणवेद्यतैव ॥

उल्लेखस्य सुखादेश् च
प्रकाशो बहिर् आत्मना।
इच्छातो भर्तुर् अध्यक्ष-
रूपो ऽक्षादिभुवां यथा ॥ १,८।९ ॥

वृत्तिः उल्लेखसुखदुःखलज्जादीनां चाक्षुषानां रूपादीनाम् इवेश्वरस्य शक्त्या साक्षात्करणरूपो बौद्धः प्रकाशः ॥
तदैक्येन विना न स्यात् संविदां लोकपद्धतिः। प्रकाशैक्यात् तद् एकत्वं मातैकः स इति स्थितम् ॥ १,८।१० ॥
वृत्तिः तत्तद्विभिन्नसंविदनुसन्धानेन हि व्यवहारः । एकश् च प्रकाशात्मा तदनुसन्धानरूपः स एव चैकः प्रमाता परमात्मसञ्ज्ञः ॥

स एव विमृशत्त्वेन
नियतेन महेश्वरः।
विमर्श एव देवस्य
शुद्धे ज्ञानक्रिये यतः ॥ १,८।११ ॥

वृत्तिः स परमात्मा चिद्रूपोविमर्शाख्येनैव मुख्यस्वभावेनाव्यबिचारिणा महेश्वरः । चित्तत्त्वस्य विश्वात्मनः शिवसञ्ज्ञस्याहंविमर्शनम् एव शुद्धे ज्ञानक्रिये, भिन्नाभिन्नज्ञेयकार्यगते त्व् ईश्वरस्य शुद्धाशुद्धे, भिन्नार्थविषये तु पुंसः सत्त्वरजोवृत्तिरूपे प्रकाशप्रवृत्तिसञ्ज्ञे तमसा सङ्कुचिते ऽशुद्धे एव॥

इति ज्ञानाधिकारे ऽष्टमाह्निकम् ॥

इति ज्ञानाधिकारः ॥