४ तत्त्वसंग्रहाधिकारः
(ट्प्। [३८४] ३९४) अथ ————————————–
अनन्तभागमेयादि वैचित्र्यस्वीकारेऽपि आत्मानं
भेदशालिनमात्मत्वेन प्रथयते - विश्वोत्तीर्णं
पूर्णाहन्तात्मकमात्मानं यः प्रथयते भक्तानां
प्रत्यभिज्ञात स्वात्ममहेश्वरसमाविष्टानां
शिवादिक्षित्यन्तानन्ततत्वमयमानमिति मातृचक्रं च
भक्तानामप्यात्मानं योऽत्यैक्येन प्रथयते अविरतं (४९६) प्रकटी
करोति यस्तं शिवं स्तुमः ।
एवमिति । उक्तप्रकारेण ज्ञानाधिकारात्मना स्वसंवेदनेन
स्वानुभवेन क्रियाधिकारात्मना युक्त्या परमेश्वरप्रोक्तैरागमैश्च
सिद्धं महेश्वररूपं यत् वितत्यनिर्णीतं तदेव सङ्क्षेपेण
शिष्यबुद्धिषु निवेशयितुं सङ्क्षिप्य स्थापयितुं स्वात्मैव
सर्वजन्तूना उत्पले नोपपादितेत्यन्तेन श्लोकाष्टदशकयुक्ते नाह्निके न
तत्वार्थसङ्ग्रहं परमार्थभूतार्थसङ्ग्रहं प्रदर्शयति । तत्र
तत्वार्थसङ्ग्रहरूपे आह्निके श्लोके पारमार्थिकं स्वरूपमुक्त्वा
पतिरेवं विधस्तस्य प्रमेयमेवं विधमिति मातृमेय दर्शनदिशा
श्लोकनवकेन संसारात्मकबन्धस्वरूपं सप्तकेन महेश्वरात्मक
स्वस्वरूपप्रत्यभिज्ञानात्मकं मोषतत्वं श्लोकेन (तु)
शुक्तार्थोपसंहारं दर्शयति तात्पर्यम् ।
सर्वजन्तूनामिदमिति जडपरामर्शविश्रान्ति भूताहमिति
परामर्शस्वरूपाणां सर्वजन्तूनां मध्यमा जीवाभासा इति
पूर्वोक्तनीत्या शिवादिसकलान्तानां प्रमातॄणां महेश्वर एव
स्वात्मा तेषां स्वात्मैव महेश्वरः स चैक एव देशकालाकलित
संवित् स्वरूपत्वाद् एक एवा द्वितीय एव । इदन्तामन्तर्नीतां कृत्वा
अहमित्यखण्डामर्शबृंहितः एवं रूपे स्वात्मनि स्वातन्त्र्येण
वैश्वररूपप्रदर्शनात् शिवादिक्षित्यन्त विश्वरूपः ।
इहेत्यविप्रतिपत्तिद्योतकं सर्वसम्प्रतिपन्नमव्ययम् । इहास्मिन्
जगति घटपटादयो जडास्तावच्चेतन निमग्ना एव भान्ति ।
चेतननिमग्नत्वेन भाविनमेवदर्शयति - इदमिति जडपरामर्शः
। अहमिति संवित्परामर्श एव विश्राम्यति । तेन विना तस्येदमित्यस्य
विच्छिन्न (ट्प्। [३८५] ३९५) (४९७) इति नीत्यान्यत्र विश्रान्त्य भावात् । ततश्च
तथा हि जडभूतानां इत्युक्तनीत्या जडानामहमिति संवित्परामर्शे
विश्रान्तत्वात् जडानां निरात्मत्वात् जन्तवः जीवा एव सात्मानस्तेषां
जन्तूनां स्वात्मैव महेश्वरः स्व स्वात्मानत्वन्यः कश्चित् स्वात्मा
संवित्स्वभाव इति यतः अतस्स्वात्मैव महेश्वरः संविदो
देशकालाकारैर्भेदो नास्ति । व्यापारनित्यपूर्णस्वरूपत्वात्
तैर्देशादिभिरत्रत्येदानीं तन एवमाकारमित्यन्योन्यं भिद्यन्ताम् । ते
तु देहप्राणबुद्ध्यादयः जडपक्षपतिताः जडवच्चेतन एव निमग्न इति
चिदात्मा एक एव देशकालाकारशून्यत्वाद् घटादेर्देहादेश्चैकत्र
स्वात्मनि वैश्वरूप्यमाभासयति इति यतः ततः वैश्वरूप्या
भासनात् विश्वात्मिकामिदन्तामहन्तारूपविश्रान्तां
कृत्वेदन्तानुन्मुखस्वात्ममात्रविश्रान्तिरूपाहं विमर्शपरिपूर्णः
अत एव शिवादि सकलान्तप्रमातृवर्गनुस्यूताहं
विमर्शपरिपूर्णत्वाद् अस्य स्वात्मनः सर्वज्ञत्वसर्वकर्तृत्वे(ते) नास्य
यत्नोपपाद्ये श्रोतास्मि स्प्रष्टास्मि रसयितास्मि घ्रातास्मि
ज्ञानेन्द्रियस्य वक्तास्मि आदातास्मि गन्तास्मि विसर्जयितास्मि इति
विचित्रबुद्धिकर्मेन्द्रिय विषये ज्ञातृकर्तृत्वे यथा एकस्यैवात्मनः सं
भवतः परमेश्वरे इन्द्रियकल्पभूतरुद्रक्षेत्रसहस्रविषयस्य
भावराशिसम्बन्धिज्ञानं क्रिया च रुद्राः मायोतीर्णाः
प्रमातारः सद्गुरुकटाक्षानुगृहीताश्च रुद्राः क्षेत्रज्ञाः
मायान्तर्वर्तिनः प्रमातारस्तेषां तत् तज्ज्ञानं करणं चैकत्र
चिदात्मन्येकस्यैव सम्बन्धि भवति । एक एव चिदात्मा रुद्रक्षेत्रज्ञ
प्रमातृवर्गात्मना स्थित्वा जानामि करोमीत्यर्थः ।
(४९८) स्वात्मामहेश्वर(रूप)एकश्चेत् घटादि देहादि विश्रान्ति
भूमित्वात् महेश्वररूपस्वात्मा एक एवा द्वितीयश्चेत् स्थूलोऽहं
कृशोऽहं चैत्रोऽहं मैत्रोऽहं पुण्यभागहं
पापकर्माहमित्यादिरात्मनो नानात्वहेतु बन्धकः
तद्बन्धस्याश्रयः कः महेश्वररूपस्यात्मनो बन्धा भावात्
तद्व्यतिरिक्तस्यान्यस्य कस्याप्यभावात् यस्य सम्बन्धस्य अवमोचनाय
विमोक्षाय प्रत्यभिज्ञाशास्त्रोपदेशः ।
(ट्प्। [३८६] ३९६)
त्रिप्रत्ययमिदं ज्ञानं गुरुतः शास्त्रतः स्वतः।
इत्युक्तनीत्या प्रथमं गुरूपदेशः तन्मुखात् शास्त्राभ्यासः
ततस्स्वानुभवः इत्यादिरूपः ।
अयमुद्यमः यस्य सम्बन्धस्या व मोचनाय ।
तत् प्रसादवशाद् देव गुर्वागमत एव वा ॥
शास्त्राद् वा परमेशस्य यस्मात्तस्मादुपायतः ॥
एतत् तत्वपरिज्ञानं समोक्षः परमेशता ।
तत् पूर्णत्वं प्रबुद्धानां जीवन्मुक्तिश्च सा स्मृता ॥ इति ।
एवं भूते स्वात्मनि महेश्वरे स्थिते तस्मिन्नेव प्रकाशरूपे
स्वात्मदर्पणे स्वसृष्टे स्वात्मना परमेश्वरेण सृष्टे भागमध्ये
इदन्ता रूपं बुद्धिप्राणदेहादि यत् तद् ग्राहकात्मना अनेन
परमेश्वरेणाहङ्कारपरामर्शपदं नीतम् । तस्य बुद्ध्यादेर्बन्ध
इति शेषः ।
तत्रेति स्वात्मैव सर्वजन्तूनामित्युक्त प्रकारेण स्वात्मनि
महेश्वरे स्थिते इत्येकोऽर्थः । किञ्च प्रकाशस्वरूपे
विश्वप्रतिबिम्बनक्षमे पूर्णाहन्तात्मनि स्वात्मदर्पणे तेन
महेश्वरेण स्वस्वरूपसङ्कोचात्मक शून्य पुरस्सर इदं भागः
(४९९) सृष्टः । तन्मध्ये इदं भावमध्ये, इदन्तया वेद्य
बुद्धिप्राणदेहरूपं यत् तत् स्वस्माद्भिन्नं घटादि वेद्यतायै
समुचितबुद्ध्यादिरिदं भावाभिभवा प्रभविष्णुत्वात् कृत केन
पूर्णाहं भावेनाहं देवदत्तः अहं चैत्र इति च कास्ति ।
एवमस्तु बुद्ध्यादिद्यहङ्कारपरामर्शपदं नीतं भवतु ।
तथापि कस्य बन्धः ईश्वरव्यतिरिक्तोऽन्यो नास्ति बुद्ध्यादेः
प्रकाशमानत्वेनेश्वरात्मत्वात् स चैत्रमैत्रादि बुद्ध्यादिरूपः
प्रमाता स्वरूपा परिज्ञानमयः पूर्णाहन्ता स्वरूपा परिज्ञानेन
निर्मितः । अत एव तत् तद् देहप्राणादिग्रहणेनानेकः पुमान्
भोक्तामतः पुण्यपापभोक्तामतः । तत्र पुंसि ईश्वरेण सृष्टौ
क्रियानन्दौ रजस्सत्वगुणौक्रमेण सुखदुःखात्मको भोगः
उभयोर्विश्रमस्थानीयस्तमोगुणः सोऽपि भोगरूपत्वेनमतः ।
सत्वरजस्तमोमय प्रकृतिमयत्वात् तस्य ।
भवदुक्तं सत्यं परमार्थतः कश्चिन् नसम्बन्धः
सपरमेश्वर एव सर्वोत्कृष्टादति दुर्घटकारिणः स्वातन्त्र्यात्
पूर्णाहन्तात्मकं स्वात्मानं सङ्कुचितभवभासयति (ट्प्। [३८७]
३९७) यदा तदा भासनसमये स्वस्य पूर्णस्य
रूपस्याभासमानत्वेऽप्यपरामर्शरूपमररिज्ञानम्? यत्
तदपरिज्ञानमेव यस्य चैत्रादेः पुंसः कारणत्वेन कृतम् । सतु
शिवोऽहमीश्वरोऽहमित्यादेरन्तः स्थितस्यापि पूर्णत्वस्याख्याति
मात्ररूपः पुरुष उच्यते पुरुष इत्युच्यमानत्वादनेकः । अनेकत्वमेव
प्रतिपादयति तत् तद् इति । स्थूलोऽहं कृशोऽहं दुर्बलोऽहं प्रबलोऽहं
सुख्यहं दुःख्यहमिति तत् तद् देहप्राणबुद्धिविशेषात्मकसङ्कोच-
स्वीकारादनेकः । अत एव पुमान् दुःखसुखादिबोधरूपं बन्धमनु
भवति । भोगोनाम तस्य पुंसः परमेश्वरेण सृष्टौ कल्पितौ
क्रियानन्दौ । कल्पिता क्रिया हि दुःखं क्रियायाः रजोरूपं
दुःअखत्वं दर्शयति - रजोऽपि त्यादिना । रजो हि सत्वतमसोः प्रकाशा
प्रकाशयोः सत्वतमसोश्चाञ्चल्यरूपैकदेशात्मकमस्थिररूपं
सुखमुच्यते । केवलं प्रकाशस्वरूपं च सत्वं सुखम् ।
उभयोरप्यप्रकाशरूप दुःखसुखयोरप्रकाशरूपः द्वयोः
प्रलयस्थानीयः । प्रलयस्थानकल्पनामाह - तत्र सृष्टौ क्रियानन्दा
वित्यत्र । सृष्टा वित्यनेना सृष्टमपि किमप्यस्तीति सूचितम् ।
तयोर्मध्ये किं व्यवच्छेद्यं किञ्च ग्राह्यमित्याशङ्क्याह -
पत्युर्धरण्यादि शिवान्तेषु अहमित्येवं परामर्शमयस्य
शिवभट्टारकस्य ते ष्वहमेवति यज्ज्ञानं तेषु तज्ज्ञानप्राणन
विमर्शरूपा क्रिया च याते अहमिदमिदमहमिति परामर्शरूपयोः
सदाशिवेश्वरभट्टारकयोस्तदधिष्ठेययोर्मन्त्रमहेश्वराख्य
प्रमातृवर्गयोः क्रमेणस्वात्मभूतेषु स्वाङ्गभूतेषु भावेषु
मायाप्रमातु यद्वन्मूर्धादि पादान्तं स्वात्मरूपभूतं तद्वत्
स्वाङ्गभूतेषु भावेषु स्वाङ्गभूतत्वे न यत् ज्ञानमबोधः
स्वाङ्गभूतेनावमर्शनं क्रिया ते शिवभट्टारकस्य ज्ञानक्रिये
सदाशिवेश्वरभट्टारकयोर्-अधिष्ठातृ-
रूपयोश्चाहमिदमिदमहमिति इदन्ता प्रथमाङ्कुरस्फुरणात् ते
ज्ञानक्रिये मायया सहिते भवति । तत्र यं पशोः क्रमेणज्ञानं
सत्वं क्रिया रजः मायात्मतश्चेति भवति । (५०१) विश्वरूपस्य
शिवभट्टारकस्य सदाशिवादिधरण्यन्ते सर्वत्राहमिति यः प्रकाशः
अहमिति तत् प्रकाशानुप्राणकोयश्च विमर्शः ते तावत् तस्य (ट्प्। ३८८)
शिवभट्टारकस्य ज्ञानक्रिये अनन्तरमहमिति
स्वरूपपरामर्शमत्यक्त्वैवाहमिदमिदमहमिति इतीदन्तां कुरता
प्रथनरूपं पुनरप्यहमिति स्वरूपपरामर्शविश्रान्तम् ।
अहमिदमिदमहमिति सदाशिवेश्वरता परामर्शपरमार्थं
यद्विमर्शनं इदन्ताङ्कुरप्रधानत्वात् सदाशिवेश्वरभट्टारकः
येन शिवभट्टारकेण निर्मिता सदाशिवेश्वरभट्टारक सम्बन्धिनी
सा मायाशक्तिः ज्ञानक्रिया मायात्मिकास्तिस्रः शक्तयः भगवति
सदाशिवभट्टारके ईश्वरभट्टारके च क्रमेणासृष्टाः नैसर्गिक्यः
स्वत एव सिद्धाः तस्यैव भगवतः स्वमायाशक्त्या गूहित
स्वरूपत्वात् स्वस्वरूपापरिज्ञाने सति स्वाङ्गभूतेष्वपि
स्वस्वरूपादन्योन्यतश्च भिन्नेषु भावेषु अहमहमेवेदमिदमेवेति
यज्ज्ञानं सुखरूपं सत्वं तद् भिन्नभावसम्बन्धिनी क्रिया रजः
दुःखं तदुभय प्रकाशविमर्शशून्यं मायारूपं तमो मोहः
पशोः प्रकाशज्ञानरूपं सत्वं सुखं प्रकाशा प्रकाशौ
रजोरूपं दुःखमुभयोरप्रकाशस्तमो रूपो मोह इति क्रमेण
ज्ञानक्रिया माया पशोः सत्वरजस्तमांसि भवन्ति ।
ज्ञानक्रिया माया एव क्रमेण सत्वरजस्तमांसि चेतताः
ज्ञानक्रियामाया परमेश्वरस्य यथा अव्यतिरेकिण्यः शक्तय
इत्युच्यन्ते तद्वत्पशोः सत्वरजस्तमांसि अव्यतिरेकिण्यः शक्तय इति
प्रसज्यन्ते । तानि सुखदुःखमोहरूपतया भोग्यत्वाज्जडानि तानि
चिद्रूपात् पुस्तत्वाद् व्यतिरिक्तानि भण्यन्ते । (५०२) तदेतत् कथमिति
संशयं रामयितुमाह - अहङ्काराद्युपस्थान्तःकरणत्वेन
शब्दादि प्र्ठिव्यन्तकार्यत्वेन परिणामिनामेषां सत्वरजस्तमसां
गुणानां पशोरशक्तिमत्वेऽपि भवताशक्तिमत्वेनाशङ्क्यमानत्वात्
भेद स्थितेः भेदेन स्थितत्वा च्छक्तित्वं नापदिश्यते
गुणत्वमेवापदिश्यत इत्यर्थः ।
यद् भवदुक्तं तत् सत्यमित्याक्षेपोक्तिः । एवमिति ।
सत्वरजस्तमसामपि शक्तित्वं स्यात् । तेषां पुरुषेण सहभेदग्रहो
यदि न भवेत् इदानीं सत्वरजस्तमसां पुरुषेणायं भेद व्यवहारो
विचार्यते । अत्र च भेदव्यवहारे पुरुषः सङ्कुचितचिन्मात्रस्वभावः
अस्य पुरुषस्य घटपटादि भावविषयः प्रकाशविमर्शनरूपं (ट्प्।
३८९) न नैसर्गिकम् सहजम् । अस्य पशोः सहजं चेत्
सुषुप्ताद्यवस्थायामपि प्रकाशनादि प्रसङ्गात् । अन्य सम्बन्ध
कृतं परमेश्वरसम्बन्ध कृतम्, ततश्च नैसर्गिकत्वाभावाद्
अशक्तिमत्वेऽपि शक्तिमत्वेन शङ्क्यमानात् पशोः भेदे न यतः एतानि
सत्वादीनि स्थितानि तद भेदेन स्थितत्वाद् व्यतिरेकमुक्ताश्शक्तयः इति
नोच्यन्ते । व्यतिरिक्तान्येव पशोरूपकरणत्वात्
सुखदुःखमोहात्मकभोग्योपकरणरूपत्वात् गुणा इत्युच्यन्ते ।
सत्वादयः पुरुषात् किमिति भेदे नेष्यन्ते । उच्यते - भेदे नैवेष्यन्ते
अभेदेनेष्यते चेद् वक्ष्यमाणो दोषो भवति । सुखदुःखमोहात्मक
रणमयो दशकं सुखदुःखमोहपरिणामं रूपं कार्यदशकं
च तत् परिणाममयत्वात् सुखदुःखमोहस्वभावत्वेनानुभूयत इति
करणकार्यवर्गतादात्म्यवृत्तयः सुखदुःखमोहाः करणकार्य—–
——– जनवत् पुरुषस्थापि तादात्म्यं भजेरन् यदि तर्हि पुरुष एव
कार्यपर्यन्तकरणपर्यन्तः सृष्टिमयः (५०३) सम्पन्नः बीजाङ्कुरादि
वत् परिणामे चेतनस्य न युज्यते, परस्परस्वभावत्व इत्यादिना
श्लोकत्रयेण परिणामश्च दूषितः । स्वातन्त्र्यशक्त्यभावेऽपि पुरुषो
विश्वरूप इत्यायातम् । प्रकृत्यादि क्षितिपर्यन्त विश्वरूप इत्यायातम् ।
तथा स्वातन्त्र्यशक्त्या विश्वरूपत्वे पुरुषो न कश्चिद् अस्ति । अस्य पुरुषत्व
मेव न भवति । ईश्वरत्वमेव भवति । उक्तमेतत् सर्वं
प्रसङ्गापादनम् । तस्मात् प्रसङ्गा पादनत्वात्
स्वस्वरूपापरिज्ञानमयो नैकः पुमान् मत इत्युक्तनीत्या
अप्रत्यभिज्ञानमयपुरुषस्वरूपविचारे सत्वादयो गुणाः
पुरुषद्भिन्न एवेति स्थितम् ।
ज्ञानक्रियामायाः पशुं प्रतिकथं सत्वादि रूपा गुणा
भवन्तीत्यन्ते वासि प्रश्नमाशङ्क्याह - ज्ञानक्रियामायानां
पशुं प्रतिगुणी भावमेवाह - सृष्ट्यादिना विश्वपालयितुः पत्युः
सत्ता विश्वभवनकर्तृत्वं सैवक्रिया विमर्शात्मचमत्कारव्यतिरेकात्
सैव सत्तानन्दपरेणमुख्यत्यागेन स्वात्मविश्रान्तिरूपत्वात् पशोस्तद्
भावः । एवं भूसत्तानन्दयोरभाव एव पशुं प्रतिमोहात्मा तमो
गुणो भवति । सत्वगुणात्मिका सुखदुःखरूपा एतयोरंशेन सद्भाव
एव सुखरूपं सत्वं पशोरस्ति सत्वरजसोरात्मा मिश्रस्वभावो यः
अन्योन्यश्लेशिसत्वतमोमयं (ट्प्। ३९०) तद् दुःखरूपं रजः
पत्युर्ज्ञानशक्तिः पत्युः पश्ववस्थायां सत्वं रजः क्रियाशक्तिः
मायाशक्तिस्तमः ।
इहास्मिन् संविद्दर्शने विश्वस्य प्रकाशनावैचित्र्यलक्षणेन
सृष्ट्यादि नापञ्चकृत्येन पालयिता स्वयं प्रकाशस्वभावः
पतिरित्युच्यते सा स्फुरत्ता महासत्तेत्यत्र पूर्वव्याख्याता तस्य
विश्वपतेः भवन कर्तृता सत्ता स्वात्मनो विश्वात्मना भवन क्र्तृता
या सा सत्तैव स्वभावमवभासस्येत्युक्तनीत्या (५०४) प्रकाशस्य
विश्वभवनकर्तृता स्वातन्त्र्य स्वपरमेश्वरस्य प्राणभूतविमर्शा
व्यतिरेकाद्विमर्शः सोऽहमित्युक्तनीत्या अहमिति
विमर्शात्मकाकाररूपा सती क्रियाशक्तिरुच्यते । विश्वप्रकाशनात्मिका
सत्तैव क्रियाशक्तिरित्युच्यते । विश्वपतेः सा सत्तैव
स्वव्यतिरिक्तवस्त्वनतरा भावात् परौन्मुख्यत्यागेन
स्वात्मविश्रान्तिरूप आनन्दो भवति । भगवतश्चिदात्मतैवे यद् रूपा
सत्तारूपा । आनन्दरूपा क्रियारूपा च । पशोस्त्वंशेन सता
आनन्दश्चोभयोरभावश्च भवति । सङ्कुचितचिद्रूपत्वात्
सत्तानन्दयोरभवता । तने सङ्कुचित चिद्रूपत्वेन पशुं प्रति यः
सत्तानन्दयोरंशः पशोः प्रकाशसुखवृत्तिसत्वम् । तत्र सत्तायाः
अंशः प्रकाशवृत्तिः । एतद् उभयात्मकं सत्वं सत्तानन्दयोरभावो
यः तत् क्रमेण आवरणमोहरूपं तमः प्रकाशस्याभाव
आवरणरूपं तमः आनन्दस्याभावमोहरूपं तमः ते एते
सत्वतमसी यथा नीलात्मकमनीलात्मकं च वस्तु यथा
प्रस्परपरिहारेण वर्तते तद्वत् परस्परपरिहारेण कार्यकारणत्ववत्
वर्तेते यद्यपि तथाप्येकस्य प्रमातुः सत्वरजसोः सम्बन्धिन एकेन
परामर्शेन —– कार्यधर्म्यपेक्षया चित्रगतपतङ्ग
धर्मिगतनीलात्मकरूपन्यायोधर्मिः प्रमाता तस्यापेक्षया
विभातः । अतः मिश्रतया भावनात् द्वयस्यात्मा
सत्वतमसोर्मिश्रस्वभावत्वात् । अत्र रजोगुणप्रकाशा प्रकाशरूपयोः
सत्वतमसोः श्लेषेणाव स्थानमिति दुःखत्वम् । प्रियतपुत्रादेः
तदेकघनः नीरोगोनिरूपद्रव बहिः प्रकाशः सुखम् । एकघनः
अपुनर्दर्शनरूपः अप्रकाशोमोहः यस्तु कथं चित् प्रकाशः अहितया
प्रत्यक्षेण दृश्यमानया सव्याधिकदेहरूपतया यस्तु (ट्प्। ३९१)
कथं चित् प्रकाशः प्रमात्रादेरिष्टया अभिमतया गतगदादयः
कल्याणाधर्मयोगितायाः कथञ्चिदप्रकाशः तदेव रोगस्य
प्रकाशः नीरोगतायाः अप्रकाश इत्युभयमपि दुःखतत्वं पूर्वता
परमार्थं रोगस्य प्रकाशः पश्चाद् भाविन्या नीरोगतायाः
प्रकाश इति रोगस्य पूर्वापरीभावसारः क्रिया याः परमार्थः ।
अनेन प्रकाशरूपः सत्वम्, अप्रकाशरूपं तमः
प्रकाशाप्रकाशरूपं रजश्चोक्तम् । रजः सत्वतमसोरुभयात्मकं
भवतु । उभयोरनुभयाभावात्मकः पशोश्चतुर्थो गुणो नास्ति ।
कथमिति चेत् तस्यानुभयरूपस्य गुणस्य कल्पिताकल्पितरूपायाः
अनिश्चया निश्चयरूपायां प्रमातुः प्रतीतौ धियि अननुप्रवेशात् तस्य
। तथा हि अननुप्रवेशमेव द्योतयति - इदं नीलमिति । प्रमातुर्निश्चिताया
धियिभाति नीलाभावः अनीलात्मको नीलाभावस्तु नीलप्रकाशकाले
नीलपदप्रकाशमानत्वाद् विकल्पकल्पितः । एतन् नीलप्रतियोगी कश्चिदस्तीति
भासमानत्वाद् व्यवहारपरमार्थः नीलस्या नीलस्य च प्रत्यक्षस्य
चाप्रत्यक्षस्या नीलस्य चेत्युभयव्यामिश्रणात् तु नीलानीलं
नामवस्तुभातुस्सत्वतमसोरभावात्मकमनुभयरूपं यद् वस्तु
तदकल्पित या प्रत्यक्षीभूत या नीलप्रतीति न्यायेन न विषयी कृतं
चैतदनुभयरूपं वस्तु अकल्पिता अनीलधियमनुधावेत् ।
प्रत्यक्षान्नीलधियं प्रविशति चेत् तर्हि कल्पितामनीलधियमनुधावेत् ।
स्वत एव वस्तुत्वा भावादकल्पितां नीलधियं न प्रविशति । अत एव
कल्पितमनीलधियञ्च नानुधावति वस्तु ।
आक्षिपति - अथेति । तदनुभयात्मकं वस्तु कल्पितामनीलधियं
(५०६) नाविशतीति चेत् । अकल्पितया प्रत्यक्षभूतया नीलधिया विषयी
कृतं नीलमेवस्यात् । तदनुभयमकल्पितविषयी कृतं नीलसमानं
सत्वमेव स्यात् । न पशोश्चतुर्थोऽस्ति गुणस्सूत्रगतः । अपिशब्दश्चार्थे ।
पशोः सा विश्वपतेः सत्ता पशोः सत्वं तदभावस्तमः द्वयात्मा
रज इति सम्बन्धः ॥
एव मुक्तप्रकारेणपतिरूपं पशुरूपं प्रमातृतत्त्वं च
निर्णीतम् । (ट्प्। ३९२) पत्युः पशोश्च प्रमेयतत्वं निर्णेतुं प्रथमं
पत्या वित्थं वक्ष्यमाणरूपं प्रमेयतत्त्वं निर्णेतु माह - ये
भावाः प्रभोरयं घटः अयं पट इति साङ्केतिक
व्यवहाररहितत्वाद् असामयिकेदन्ता साङ्केतिकेदन्ता
परामर्शगोचराः के विभावाः मिश्रामिश्ररूपतया पशोर्यथा
प्रभोरपि मिश्रामिश्ररूपतया चित्रावभासिनः अनेक
सामान्यसमुदायात्मक स्वलक्षणरूपाः विभिन्नाः अन्योन्य
व्यामिश्रणशून्याः सामान्यात्मनः भावा भासन्ते ।
इहास्मिन् संविद्दर्शने इदमेतादृगित्यादि ष्वाभासा एवार्था
इत्युक्तम् । ते चार्थाः शुक्लोघट इत्यादि विशेषणविशेष्यरूपेण कदाचिन्
मिश्री क्रियते यदा पदार्थानां स्वलक्षणरूपता कदाचिद्
एकाधिकरणा विश्रान्ताः पृथक् पृथगेव परामृश्यन्ते यदा
सामान्यरूपता सामान्य विशेषरूपत्वे नोभयात्मनोऽर्थाः
असामयिकेनायं घटः अयं पट इत्यकल्पितेन
सहजभेदपरामर्शरूपेण स्वाभाविकभेद
परामर्शरूपेणाङ्गुली निर्देशादि प्रख्ये नेदं भावेन गोचरी
कार्याः प्रभोरपि न केवलं सद्योजातस्य तदानीं जातस्य
नालस्याव्युत्पन्नस्य चानुचितसाङ्केतिक व्यवहारस्य सामयिकेदन्ता
परामर्शभुवो भूत्वा सामान्य विशेषात्मना चित्रगतया व भासते
प्रभोरपि नेश्वरस्या (५०७) विचित्रतया व भासम् । चित्रत्वं नाम
स्वलक्षणात्मकमिश्रत्वं च भित्तितल इव युगपदेकाहन्ता
विश्रान्ततया भानम् । ईश्वरदशायाः विश्वोल्लासनान्तरीयकत्वेन
अविनाभावत्वेन पूर्णाहन्तात्मक संवित्सङ्कोचरूप संवित्प्रमाणे
नैव प्रकाशमानम्, निषेध्यवस्तूपरक्तो हि न अर्थः ।
अत्रेश्वरदशायां शून्यमिदमंशोल्लासादहमंशस्य
किञ्चिन्निषेध्यरूपं शून्यम् । अहन्तानिषेधरूपा
सामयिकीमिदन्तामुल्लासयति । एवं तावदीश्वरस्य ।
इत्थं प्रमेयतत्वं भगवति परमशिवे प्रमेयकथैन न
भवति भगवतः प्रमेय कथोत्थापकत्वमेव सदाशिवेश्वरत्वम् ।
पत्यौ प्रमेयवृत्तान्तं निरुप्य पशुं प्रतिप्रमेयवृत्तान्तं
निरूपयति श्लोकत्रयेण । ये तुर्विशेषं द्योतयति । पशोरित्थं भूतं
प्रमेयं न त्वीश्वरवदुक्तन्यायेन (ट्प्। ३९३) मिश्रतया
भिद्यमानावभासा अर्थाः स्वलक्षणरूपाः सामान्यरूपाश्च ते
प्रत्यगात्मनस्तु स्मृत्युत्प्रेक्षादि गोचरे स्मृता बुत्प्रेक्षायामनुभवे
विकल्पे सङ्कल्पादौ प्रियोऽयं शत्रुरयमित्याद्याभिरन्योन्य-
भिन्नाभिः सञ्ज्ञाभिः प्रकल्प्याः विकल्पनीयाः भावानां
विशेषानुसारेण ततत्सुखदुःखादि कारणीभिः सञ्ज्ञाभिः
प्रकल्प्याः । तस्य पशोः प्रियोऽयं शत्रुरयमित्यसाधारणी मम
शत्रुर्मम मित्रमिति प्रतिप्रमातृनियता सृष्टिः ईशसृष्टः मम चैत्रः
मममैत्र इत्यादि वस्तूपजीवनी सैषासृष्टिः, तदात्मनः
ईश्वरात्मनः पशोः । पूर्णाहन्तात्मक स्वात्मविश्रान्त्युपरोधाय च
लयस्पन्दमानया तत् तदाकारादिवर्णवैचित्र्यचित्रया ब्रह्म्यादि देवता
चक्रमय्या प्राणरूपया प्राणात्मिकया (५०८) पशोः ज्ञानत्वेन
वर्तमान येश्वरशक्त्योत्थापितया तत् तद् वर्णवैचित्र्युचितया प्रियः
शत्रुरित्यादि तत् तद् वर्णवैचित्र्य चित्रया विकल्पशक्त्या तस्य
पशोरसाधारणी सृष्टिः ।
ईश्वरवर्गात् पशुसृष्टेर्विशेषं द्योतयति ———— तदेवाह
प्रत्यगात्मनः पशोरर्थाः वक्ष्यमाणरूपेणार्थाः
प्रमेयरूपाः ईश्वरस्य यथा —————-
अत्र ग्रन्थपात इव
(५०९) अर्थाः असामयिकेदन्ता परामर्शभुवः तथा न सामयिकेदन्ता
परामर्शभुव एव भवन्ति । मिश्रतयेति स्वलक्षणात्मना
सामान्यात्मना च भिद्यमानः प्रकाशो येषां ते
विशेषसामान्यात्मानोऽर्थाः प्रति पुरुषं भिन्नभिन्नत्वेनाञ्चति
विश्राम्यतीति प्रत्यगात्मा असङ्कीर्णाहं प्रकाशात्मा
अष्टारत्निमात्रे देह एव स्थितो यस्या हन्ता तस्य विकल्पनीयाः
पत्युरविकल्पनीयाः प्रतिप्राणि प्रतिपुरुषं तत् तद्
अनुभववासनानुसारेण प्रियोऽयं शत्रुरयमित्यादिभिर्विभिन्नाभिः
प्रियोऽयं शत्रुरयमिति प्रियत्व शत्रुत्व भावनाविशेषानुसारेण
क्रमेण तत् तद् विचित्रसुखदुःखाद्युपयुक्तिभिः सञ्ज्ञाभिः स्मरणे
उत्प्रेक्षणे सङ्कल्पे प्रत्यक्षपृष्ठपातिनि विकल्पे अनुसन्धाने
विकल्पनीया इति सम्बन्धः ।
(ट्प्। ३९४) अत्र तात्पर्यार्थमाह - ईश्वरस्य प्रोयोऽयं
शत्रुरयमित्यादि विकल्पात्मतामन्तरेणार्थाः अहमिदमिदमहमिति
शुद्धविमर्शविषयी भाव्या अर्थाः पशोऽस्तुते अर्थाः अन्योन्यापोहने
कौतुकिनिविकल्पे समारूढा भवन्ति । संसारबन्धिनः शत्रोर्हानं
मित्रस्य दानमित्यादि हेयोपादेयादिव्यवहारोपयोगात् ते अर्थाः विकल्पे
समारुढा एव भान्ति । पत्युरविकल्पत्वे यावाने वार्थः
पशोस्तावानेव । तत् तस्मात् प्रमेयस्य पतिरूपतायां को विशेषः ।
तस्येति पशोः पशुकर्तृका सृष्टिः ईश्वरसृष्टानामुपरिवर्तिनी । अत्र एव
कामीश्वरसृष्टिमुपजीवन्ती असाधारणीति प्रतिप्रमातृनियता
कुम्भकारसृष्टिः । अन्या तु तुन्नकारसृष्टिरन्येत्यादि
प्रतिप्रमातृनियता । तदेव प्रतिपादयति - तद्यथेति इदं हृद्यमिति ।
यद्वस्तु येन सृष्टं तत् तस्यैव तथा श्लेष्मिण इक्षुर्नेष्टः कुष्ठिनः
(५१०) राङ्कवं पुरुषमिति तत् तस्यैव हृद्यं नान्यस्य ईश्वरवत्
पशोरपि सृष्टिशक्तिरस्ति । तर्हि पशुवत् ईश्वर एव । सत्यम् । असावपीश्वरः
पशुसृष्टेरपीश्वर सृष्टिः पृथिव्यादिवत् पशोरपि सृष्टिः
सर्वसाधारणी कथं न भवति । अहमपीश्वरः ईश्वरशक्त्याहं
सृजामीति परिजानीयात् यदि साधारणी भवेत् यावता तथा नः सा
स्वशक्तिः तस्या परिज्ञाता स्वशक्तिं न जानाति । परवशस्येव तस्या
सतस्तस्यासौशत्रुरेतन्मित्रमिति विकल्पशक्तिरुदेति । सा विकल्पनशक्तिः
केनावाप्यते ।
परिहरति - अहेति । पूर्णाहं परामर्शरूपतया
शब्दराशिलक्षणस्येश्वरस्याहं स्वरूपविश्रान्तलक्षणायाः
परमेश्वरताया उपरोधप्रयोजना ब्रह्मादि देवता चक्रमयी
तैस्तैराकारादि वर्णवैचित्र्यै विचित्रा या शक्तिस्तया शक्त्योत्थापित ——-
रसौ पशोर्विकल्पक्रिया एकस्मिन्नपि वस्तुन्यस्थैर्याज्जलचन्द्रवच्चञ्चला
चञ्चलत्वात् मित्रं शत्रुरिति वर्णवैचित्र्यानुबद्धा तया
विकल्पनक्रियया तदात्मन ईश्वरस्वभावस्यैव पशोः
पशोरसाधारणी सृष्टिः पञ्चदन्तश्चतुर्वक्त्रोहस्ती नभासिधावती
(ट्प्। ३९५) पञ्चसङ्ख्या हस्तिनः पशुकल्पितायां मिश्रतायामपि
विकल्पसृष्टिः तानीश्वरसृष्टान् पञ्चसङ्ख्याद्या
भासानेवोपजीवतीति सर्वापाशवीविकल्पसृष्टिरीश्वरसृष्ट्युपजीवनीति
उक्तम् ।
उक्तप्रकारेण पाशवी कर्तृता सृष्टिः पशोः संसाररूपा तर्हि
परमेश्वरकर्तृका सृष्टिः पशोः किं कुर्यात् । ऐशः सर्गः द्विधा
साधारणः अन्यथा च स्पष्टा व भासवान् साधारणो घटादिः
अन्यथेत्यसाधारणोद्विचन्द्रादिः । (५११) किञ्चान्यथेति परिज्ञातस्य
शक्तितः परिज्ञातेश्वर तादात्म्यश्चेत् पशोरपि सृष्टिः साधारणी
भवति । उभयात्मापि सर्गः अन्योन्या पोहनविकल्पहा नेनाहमिदमिति
सदा शिववत् ऐकाग्र्यात् क्रमेणाहमिदमितीश्वरता पदं पशोरपि
भवति ।
अन्यथेति पदेन निर्दिष्टो द्विचन्द्रादि रुभयस्य सामान्यलक्षणं
घटादेव घटादिरूपेण प्रकाशनं द्विचन्द्रादेर्द्विचन्द्रादिरूपेण
प्रकाशनम् । उभयात्मापि सर्गः अहमप्यन्यश्चैत्रः अन्यो
घटादिरन्य इत्येवं भूतविकल्पहानक्रमेणाहमेवेदमिति निर्विकल्पेन
परिगृहीतेन स्पृष्टामे अर्थे उभयात्मन्यर्थे अहमेवेदमित्येकाग्र
परामर्शमवलं न्याहमिदमेवेति पशोर्यदा
ऐश्वरपरामर्शपदं भवति पुरः स्थितस्य वस्तुनोऽन्तर्हृदये
लग्नत्वमस्मिन् निमेषोन्मेषरहिता
बहिर्दृष्टिरित्याद्युपदेशक्रमेणाभ्यासातिशयेन पशोः पशुत्वं
प्रतिहन्ति ऐश्वरी सृष्टिरीश्वरत्वं च दर्शयति ।
किञ्च तस्या साधारणीत्यादि श्लोकेन योऽयं विकल्पः सर्गः ।
अपरिज्ञातस्वशक्तिकस्य अपरिज्ञातेश्वरतादात्म्यस्य
पशोर्योऽसाधारणः सर्ग उत्कः । अन्यथेति । तद् विपरीतेनापरिज्ञात या
ईश्वरशक्त्या परिज्ञाततादात्म्यस्य भवति यदा तदा पशोः सर्गः
साधारण एव आप्यायनमभिषेका दिनेष्टपोषणम् । अभिचारणं
शत्रुवर्गस्य हिंसारोगशान्त्यादि न्यस्तमन्त्रभवितान्तः करणस्य
साधकस्याप्यायनाभिचरणादिर्यथा सर्वसाधारणो भवति तद्वत्
पशोरपि सर्गः साधारणः ।
एवमुक्तप्रकारेणान्योन्यापोहनात्मकविकल्पत्यागेन
निर्विकल्पकरूपात्मी भावे (ट्प्। ३९६) विश्वस्याहमिदमिदमहमित्यहन्ता
सात्कारलक्षणः स्वप्रत्ययः (५१२) पशोः स्वानुभवसिद्धः मोक्षो
दर्शित इति विकल्पहानेऽन्येत्यन्ये । अधुना विकल्पहान्यभावेऽपि
तन्मोक्षं दर्शयति - शिवादिक्षित्यन्तः अयं तत्वग्रामः
सर्वोममायं विभव इत्येवं परिजानतः अत एव विश्वात्मनः
पशोर्विकल्पानां प्रसारोऽपि महेशता भवति ।
प्रत्यगात्मेति । योऽहं प्रतिपुरुषमव्यामिश्रस्व-
संवेदनानुगमरूपः अन्यः कश्चित् पशुः नाहं स्वाङ्गरूपेषु
भावेष्वित्युक्तनीत्या स्वात्माङ्गत्वेन परिगृहीत
ग्राह्यग्राहकरूपाहं प्रकाशघनः परमेश्वरः अहं स एव
सोऽप्यहमेव न त्वन्यः । अतद्व्यतिरिक्तो न भवति । अत आवयोरन्योन्य
व्यतिरेका भावात् घटपटादिसम्बन्धिनी विकल्पसृष्टिरपि
स्वातन्त्र्यलक्षणो मम विभवः । एवं भूतविमर्शे दृढीभूते सति
अपरिक्षीणविकल्पोऽपि जीवन्नेव मुक्तः अहमन्यः परमेश्वरोऽप्यन्यः
घटादिरप्यन्यः इत्येवं भूतां संसारहेतु भूतां शङ्कामपि
नशङ्केत । इदं परमेश्वरात्मकमात्मस्वरूपं निश्शङ्कत्वेन
स्फुटं यथोक्तं विकल्पो हि नाम न मूर्छा प्रायं ततो
विकल्पमानमपि प्रकाश इति स्थिते प्रकाशमानत्वादेव ब्रह्मवत्
सत्यमेवेति ।
बद्धमुक्तः प्रमेयं प्रति को भेदः मुक्तः परमेश्वर इव
मेयं स्वात्मा भेदेन साधारणं मन्यते । बद्धः
पुनर्मेयमत्यन्तमभेदं मन्यते । श्रीमत्सदाशिवेश्वर-
पर्यन्तादारभ्य कृमिपर्यन्तं प्रमातृवर्गाधिष्ठातृ अहमिति
यद्रूपं तदेवात्मतयाभिनिविशते । यथोक्तम् -
प्रत्येकं प्रतिभाति यद्वषुदुदयं मां प्रत्युदेतीत्ययं
मार्ताण्डो भगवान् महीधरपुरग्रामा टवीवर्तिनाम् ।
पृथ्वीपूर्व सदाशिवान्तपदवी सञ्चारिणां प्राणिनां
प्रत्येकं प्रतिभाति तद्वदहमित्येक प्रमाता शिवः ॥ इति ।
ततश्चाभिनवेशाद् विश्वस्य प्रमातृवर्गस्य यत् प्रमेयं
तन्ममापि प्रमेयं विश्वप्रमातृमयत्वान् मम प्रमेयं यत् तद्
विश्वस्यापि प्रमेयम् । घटपटादिप्रमेयं च प्रमेयान्तरदेहादि च
ममैवाङ्गभूतम् ।
(प्। ३९७) अङ्गभूतत्वमेव दर्शयति - परस्परतश्च
प्रमेयवर्गाच्च । व्यावृत्तं सर्वं प्रमेयमेकरसाभेद विश्रान्ति
परमार्थम् अहमिति परामर्शपदमुपैति । बद्धस्य तु सर्वमेतत्
प्रमेयं प्रमेयाद् भिन्नं प्रमातृवर्गाच्चाभिन्नमिति शुद्धभेदैक
विश्रान्तबद्धः ।
स्वाङ्गरूपेष्वित्यादिना येऽप्य सामयिकेदन्तेत्यादिना च
सदाशिवेश्वरभुविमेयं साधारणं मुक्त इति । जीवन्मुक्त-
पदेबद्धः पुनरप्यन्तभेदवत् । इत्यनेन बद्धरूप पशुमातृविषये
च प्रमेय वृत्तान्तः परीक्षितः । परमशिवेत्वसौ प्रमेय वृत्तान्तः
कथमित्याशङ्क्याह - सर्वथा प्रमेय प्रकारेण प्रमातृप्रकारेण
चान्तरालीनानन्ततत्वाधनिर्भरः चिदानन्दघनः
परमाक्षरविग्रहः परमशिवः अन्तरालीनः पूर्णाहन्तात्मनि
स्वरूपे आसमन्ताल्लीनः शिवादिक्षित्यन्तानन्तत्वौघत्वौध
निर्भराचिन्मयानन्दघनोपदेश्याक्षरस्वरूपाकारादि क्षकारान्त
पञ्चाशदक्षरवाचक शिवादिक्षित्यन्त षट्त्रिंशत् तत्वात्मक वाच्य
कारणभूतपरमाक्षरविग्रहः ।
पूर्णाहन्तारूपा परमशिवे प्रमेय कथाकाचिन्नास्ति । तत्र हेतु
माह - शिवादिक्षित्यन्त तत्वौघस्य तत्र परमशिवे सर्वप्रकारेण
प्रमेयरूपेण प्रमातृरूपेण च चिद्रूपतामात्रविश्रान्तत्वे
विलीनत्वात् । ततश्च विलीनत्वात् सा परमशिवस्यावस्था
पूर्णाहन्तात्मकबोधस्वभावेन देहादिकालुष्यरहितत्वादकृत्रिमेण
अत एव नैसर्गिकेण अत एव स्वाभाविकेन सहजेनाहमिति
स्वात्मचमत्कारलक्षणेन नानन्देनैकघना अपरिच्छिन्न
तादृग्विधानन्दरूपा उक्तेन परमाक्षरेण विग्रहवती शिवादिक्षित्यन्त
विश्वोत्तीर्णस्य शिवादिक्षित्यन्त विश्वमयस्य पदे
ज्योतिरनुत्तरमित्युक्तनीत्यानुत्तरज्योतीरूपस्य गलितप्रमेयकथा
सर्वोत्तीर्णा अवस्था व्यपदिश्यते ।
ज्ञानाधिकार क्रियाधिकारागमाधिकार
तत्वार्थसङ्ग्रहरूपाधिकार चतुष्टयात्मक
श्रीमदीश्वरप्रत्यभिज्ञाशास्त्रोक्तं यद्वस्तु प्रतिपादितं
प्रमेयमेतच्छास्त्रपरामर्शफलस्य तत् फलमाह ।
उक्त प्रकारेणात्मानमीश्वररूपमेतस्यात्मनः
सम्बन्धिन्यौतद (ट्प्। ३९८) वियुक्ते तया प्राणभूते ज्ञानक्रिये पश्यन्
एव मीश्वररूपोऽयं ममात्मा तस्य व्यतिरिक्ते ज्ञानक्रिये इति
साक्षात्कारेणनुभवन् साक्षात्कुर्वन् यथेप्सिता निष्टानर्थान् जानाति
करोति च ।
आत्मानमीश्वररूपं तस्य च स्वाव्यतिरिक्ते ईश्वररूपता
प्रत्यभिज्ञानहेतु भूते ज्ञानक्रिये जानन् एवं भूतः
परमशिवरूपो ममात्मान तु वै शेषिकनैयायिकादिभिर्दर्शितः । तस्य
ज्ञानक्रिये एवं भूते न तु तस्य व्यतिरिक्ते सहजे (५१५) केचन इत्येवं
परामृशन् यद्यदिच्छति तत् तत् जानाति च करोति च मुहूर्तं स्मरत
इत्यादि क्रमेण मुहूर्तया मायामद्वयसमावेशाभ्यासपरः,
अनेनैव शरीरेण जानाति च करोति चेति सम्बन्धः । एतत् परः एवं यो
वेदतत्वेन इत्युक्तनीत्या समावेशाभ्यासरहितस्तु देहे सत्यापि
जीवन्मुक्तः जीवन्नेव शिवः देहपाते तु परमेश्वर एवेति ।
अस्य शास्त्राधिकारिणः स्वानुभव सिद्धस्य
शास्त्रार्थस्योपोद्बलकः गुरुपरम्परारूपो वक्तव्य आगमाधिकारेण
शास्त्रसिद्धानुभवो दर्शितः । त्रिप्रत्ययमिदं ज्ञानं गुरुतः
शास्त्रतः स्वतः । इत्येतद् दृढीकृतं भवति । इत्याभिप्रायेण
गुरुपारम्पर्यं दर्शयति ।
एष शास्त्रमार्गः कथञ्चिदासाद्येत्यादिना प्रकटितः नवः
सर्वरहस्यशास्त्रान्तर्गतत्वात् गूढः एषः शास्त्रमार्गः यथा
महागुरुभिः श्रीमत् सोमानन्ददैशिकैर्महागुरुभिः
शिवदृष्टिशास्त्रे यथा सुघट इत्युच्यते तत् तस्माद् अत्र शास्त्रमार्गे
पदं परामृशन् विदधत् विश्रामयत् अधिकारी आत्मनः शिवतामयीं
भुवनकर्तृतां विभाव्य जीवन्मुक्तो भवति । एवं
मार्गमनिशमविशच्छरीरप्राणबुद्धिशून्यां तत्रैव निमज्य
तमेव मार्गमनिशमाविशन् सिद्ध्यति विभूतीर्लभते ।
अस्मत् परमेष्ठिनः श्रीमल्लक्ष्मणगुप्ताचार्यस्यास्मत्
परमेष्ठिनः श्रीमदुत्पलदेवाचार्यभट्टारक
श्रीसोमानन्दनाथपादाः तैरुक्ते शिवदृष्टिशास्त्रे अभिनवः
सर्वरहस्य शास्त्रान्तर्गतः सन्निगूढत्वादप्रसिद्धः बाह्य चर्या
प्राणायामाद्यासन बन्धादिः । (५१६) आभ्यन्तरचार्या ध्यानादि ।
एवं भूतबाह्यान्तरचर्या प्राणायाम क्लेशप्रयास कलाविरहात्
सुघटस्तावदुक्तः मार्ग एवात्र (प्। ३९९) श्रीमदीश्वरप्रत्यभिज्ञा
शास्त्रे परवादकलङ्कापसारणेनावरणरूपबौद्धादि
परवादकलङ्कशङ्कापसारणे प्रकटतां नीतः अयमर्थः
शास्त्रगुरुस्वप्रत्यय सिद्ध इति यतः तस्माद् अत्रास्मिन् शास्त्रप्रमेये
पदं परामर्शं विदधत् विश्रमयन् विश्वकर्तृत्वलक्षणम्
ऐश्वर्यमात्मनो विभाव्य शिवादिक्षित्यन्त-विश्वकर्तृत्वलक्षणम्-
ऐश्वर्यं विभाव्यबुध्वा दार्ढ्ये दृढात्मनो निश्चये
पूर्वमेवान्तस्स्थितं गुरुमुखेन प्रत्यभिज्ञाय परामृशति यदा
तदा तदैश्वर्यपरामर्शमात्राद् एव प्रथमं जीवन्मुक्तो भगवान्
शिव एव परमेष्ठिपादैः श्रीसोमानन्ददेशिकैः सुवर्णे सकृत् ज्ञाते
इदं सुवर्णमेवं भूतमेतत् प्रमाणमियद्वर्णमिति ज्ञाते सुवर्णे
पुनस्तत् सुवर्णं प्रतिकरणं निकर्षणं भावना उन्मानं च मा
व्रजेत् । सकृज्ज्ञातमात्रेणेदमिति दृढनिश्चयत्वात् दार्ढ्यं
स्वपितरिस्वभूम्यादौ सकृज्ज्ञाते पुनर्ज्ञापकापेक्षा ज्ञानापेक्षा
च न भवति । प्रमाणेन स्वप्रत्ययेन शास्त्राद् वा गुरुवाक्यतो वा
सर्वस्थ आत्मनः शिवत्वे दृढात्मनः प्रतिपत्त्या ज्ञाते करणे
नासनबन्धनादिना भावना यामस्या भवनयापि वा अयं पिता
अयं भ्राता इति दार्ढ्ये नात्मनः शिवत्वस्य सत्यता भवति ।
शिवतामयीमात्मनो विश्वकर्तृतामवबुध्य निश्चित्य मुहूर्तादि
क्रमेण यद्यनिशमाविशति ।
आवेशमेव दर्शयति - शरीरप्राणबुधिशून्येषु मध्ये
अभ्यन्तर देहमेकं वा द्वयं देहं च प्राणं च वा त्रयं
देहं प्राणं च बुद्धिं च वा सर्वं वा देहप्राणबुद्धि
शून्यात्मकं (५१७) सर्वं वा तत्रैव शिवतामयां
भुवनकर्तृतायां तायां निमज्जयत्यनवरतं तत् तस्मात् तां
भुवनकर्तृतां विभूति पर्यन्तां लभते ।
कथञ्चिदासाद्येत्यादिना तदेव शिवरूपमेव चेत् तर्हि तस्य
शिवात्मनो वस्तुनः प्रत्यभिज्ञानाप्रत्यभिज्ञानयोरविशेषः बीजं
प्रमात्रा अप्रत्यभिज्ञातमपि सलिलादि सहकारिसाकल्ये किमङ्कुरं न
जनयति प्रमात्रा अप्रत्यभिज्ञातमप्यङ्कुरं जनयत्येव ।
तद्वदात्माख्यं वस्त्वप्रत्यभिज्ञातमपि शिवरूपमेवात्मा ईश्वर
इति प्रत्यभिज्ञाने को निबन्धः । अप्रत्यभिज्ञानेऽप्यात्मा ईश्वर एव ।
परिहारमाह - उच्यते उमात्मक जडरूप बीजादि अर्थ
(प्। ४००) क्रिया बाह्या अहं रूपप्रमातृविश्रान्ति चमत्कारसारा च
प्रीत्यादि रूपा इति द्विविधार्थक्रिया । भवदुक्तं सत्यम् । तत्र
तयोर्मध्ये आद्या प्रत्यभिज्ञानं नापेक्षते । द्वितीया
प्रीत्यादिरूपार्थक्रिया प्रत्यभिज्ञानमपेक्षत एव ॥
तदेव दर्शयति - इहेति । इहेश्वर प्रत्यभिज्ञाख्य शास्त्रे अहं
चैत्रः अहं मैत्रः । सद्गुरुकटाक्षादयमीश्वर एवेत्येवं भूत
चमत्कारसारा परसिद्धिजीवन्मुक्ति परसिद्धिविभूतिः सृष्ट्यादिना
विश्ववशीकरणक्षमा विभूति रित्येतदुभयलक्षण इति
इयमर्थक्रियामयः पुराणागमादि प्रसिद्ध ईश्वरः । स एवाह
मितीश्वरप्रत्यभिज्ञानमवश्यमपेक्षणीयमेव ।
पुनश्चोदयति - प्रमातृविश्रान्ति चमत्कार सारार्थ क्रिया
प्रत्यभिज्ञानेन विना न दृष्टा प्रत्यभिज्ञाने सत्यर्थ क्रिया दृष्टेति
क्वै तदुपलब्धमित्या सङ्क्याह - कान्तः अभीष्टो नायकः द्वीपान्तर
स्थितं तैस्तैर्दूती सम्प्रेषणैर्देवता प्रार्थनैर्यस्मिन् कस्मिंश्चिन्
महाजनसमुदायरूपे महोत्सवे एकत्र मण्टपे समागत्य सविधे च
स्थितोऽपि चिरकालमाकाङ्क्षितः दैवयोगात् सविधे स्थितोऽपि रूपादि
गुणसम्पदादूती मुखात् यथापूर्वं श्रुतः एवमिति तथा न
परिज्ञातः स्वसमीपस्थिते तरजनसमानतया स एवायमित्यपरिज्ञातः
रन्तुं तथा नालां लोकस्य प्रमातृवर्गस्य एष आत्मा तथा
नपेक्षितगुणः अन्तः स्थितत्वेऽपि अप्रत्यभिज्ञातेश्वरलक्षणा
अप्रत्यभिज्ञातात्मनिजवैभवा या विश्वकर्तृत्वज्ञत्व पूर्णत्व
विश्वनित्यत्व विश्वव्यापकत्वादि गुणः अहमिति रूप स्वात्मा विश्वेश्वरे
लोकस्य जनस्याहमिति प्रथमानोऽप्यात्मा अहमितीश्वर इति
प्रत्यभिज्ञानात्मक निजवैभवाय नालं ज्ञातुं समर्थो न भवति ।
तत् तस्माद् इयं सर्वदा प्रकाशमान स्वानुभवसिद्धा स
एवेश्वरोऽहमिति प्रत्यभिज्ञोदिता । कृपा गृहीतमानुष विग्रहेण
परमेश्वरेणोपदिष्टा । तदा तदुपयाचितः तन्व्या उपयाचित
वशादविचारितमेव प्रियतमे असविधवर्तिन्य वलोकिते तस्य कान्तस्य
रूपादि गुणवर्णनातिशयैः स एवायमिति हृदयपरामर्श
पदवीमगच्छद्भिः स्वसमीप स्थित जनसाधारणता मापादितमपि
सम्पन्नरसमप्राप्तमपि प्रियतमस्यावलोकनं सम्पन्नमपि तस्यास्तन्
व्या हृदयं न पूर्णी करोति । जनस्य स्वात्मनि विश्वेश्वरे
सततनिर्भासमानेऽपि तर्भासमानं (प्। ४०१) स्वात्मनो
विश्वेश्वरात्मनि भासनं हृदयस्य न पूर्णतामाधत्ते यतस्तस्मात्
कान्तवत्सोऽपि जनस्य स्वात्मजनस्याहमिति प्रतीतः सोऽपि स्वात्मा
विश्वज्ञत्वाद्य प्रतिहतशक्तिलक्षण परमेश्वरोत्कर्षयोगेन
परामृष्ट इति भासमान घटादिवत् तुल्यवृत्तान्तो जातः स्वयं
चेतनोऽपि स्वाप्रत्यभिज्ञानाच्चेत्यतुल्यो जायत इत्यर्थः । अद्भुत
सम्भूतमाश्चर्य सम्भूतम् । फुल्लन्यायेन ते नामर्शनेन कामपि
वाचामगोचरतामभ्येति । कान्तायाः स्वकान्तप्रत्यभिज्ञानवत् । आदि
गुरुवचनात् सम्पन्नादीश्वरशक्ति प्रत्यभिज्ञानादेव विश्वमय
विश्वोत्तीर्णः परमेश्वरोऽहमिति उत्कर्षो जायते । तदा तस्मिन् नवसरे
महानन्दात्मा जीवन्मुक्तिः प्रत्यभिज्ञात स्वात्ममहेश्वर
समावेशाभ्यास रसे तु शिवादिक्षित्यन्त विश्ववशीकरणक्षमविभूति
लाभ इति तस्य स्वात्मन ईश्वरोऽहमिति प्रत्यभिज्ञैव जीवन्मुक्ति
विभूतिरूप सिद्धिद्वय प्रदायिनी भवति । यथोक्तम् -
अवस्थितम व स्थितं न पुनरजचित्रं महा
निदं प्रथमिकारसः स खलुदेशिकापाङ्गभूः ।
प्रिया न किम् इयं प्रियो न किमयं किमेता वता
न चेदयमुदारधीरुचितकाकुरेको जनः ॥
जनस्य यः कश्चिज्जायमानः तस्येत्यनेनाधिकारि विषयो
नात्रकश्चिन् नियम इति दशयतीति प्रथमसूत्रव्याख्यानोक्तनीत्या
सर्ववर्णोपकारमित्यनेन वाक्ये नैतत् सूत्रं गतस्य जनस्येति
पदस्यार्थगत्या प्रायेण व्याख्या दर्शिता । महाफलं
जीवन्मुक्तिविभूत्यात्मक परापरसिद्धिरूप महाफलप्रदम् इत्यनेन
सूत्रगतस्या यत्नसिद्ध्यर्थमिति पदस्य व्याख्या अर्थगता दर्शिता ।
इदं शास्त्रमित्यनेन पदद्वये नेयमीश्वरप्रत्यभिज्ञेति पदस्य
व्याख्या दर्शिता । (५२०) प्रसिद्धान्वय योगेन नामधेयं
प्रसिध्येत्यनेन पदद्वयेन उदयाकरसूनुना उत्पले नेति पदद्वयस्य
व्याख्या दर्शिता ।
किञ्चोदयाकरसुनुनेत्यन्वयः प्रसिद्ध्योत्पले नेति
स्वनामप्रसिद्ध्या स्वान्वय स्वनामोत्कर्षस्मरणद्वार
जनितस्येदमित्यमेव भवति, नान्यथेति सम्भावनात्मक (प्। ४०२)
विश्वासलक्षणस्य स्वोक्तं शास्त्रं प्रतिसंवर्तकसंवेदनस्य
योजनां जनं प्रतिवर्तयितुं संवेदनं जने योज्यजनं शास्त्रे
प्रवर्तयञ्छास्त्रं उपसंहरति - जनस्य यस्य कस्यचित् जायमानस्य
जन्तोरित्यनेन ब्राह्मणादि वर्णापेक्षा । आदिशब्देन
तत्राप्यधिकार्यपेक्षा काचिन्नास्तीति अस्य शास्त्रस्य
सर्वोपकारित्वमुक्तम् । एतच्छास्त्र श्रवणेन जनस्य परापररूपा
सिद्धिरयत्नेन स्यादिति जनस्यमहाफलत्वं दर्शितम् । प्रसिद्धा जनः
प्रवर्त्य इति प्रवर्तनाद्वारेण न जनोनुगृहीतो भवतीति
उभयनामनिर्देशः । इयमिति स्वप्रत्ययत्वसूचकेन पदेन
जनस्योपपत्तिशतैर्हृदयङ्गमत्वमनीता
श्रीमदीश्वरप्रत्यभिज्ञेयमिति शिवं शिवात् प्रसृतत्वाज्जनस्य
जीवप्राप्तिहेतुत्वात् स्वयं शिवस्वरूपत्वाच्चेति शिवम् । जीवन्मुक्ति
विभूत्यात्मक परापरसिद्धि द्वयप्रदं मङ्गलम् ।
एषेति । स्वानुभव सिद्धा । किञ्चैषेति जनस्य स्वानुभवसिद्धत्वेन
दृश्यमाना श्रीमदभिनवगुप्तनामधेनेनाचार्येण
कथञ्चिदसाद्येत्याद्युत्पलेन नोपपादितेत्यन्त सूत्रार्थस्य प्रकर्षेण
विमर्शिनी सूत्रार्थं निश्शेषेण द्योतयन्ती प्रत्यभिज्ञाख्ये शास्त्रे
लघ्वीशास्त्रार्थमशेषं सङ्क्षेपेण दर्शयन्ती अभङ्गुरा
बौद्धादि सिद्धान्तैर्भङ्क्तुमशक्यावृत्तिः विस्पष्टत्वेन प्रकाशकी
पदवी ।
रचिता सा भि गुप्तं यत् पुराणञ्च प्रसिद्धिमत् ।
(५२१) हृदयं तत् परोल्लासैः स्वयं स्फूर्जत्यनुत्तरम् ॥
इति स्वोक्तनीत्या अनुत्तरात्मक सहृदयस्फूर्जनेन रचिता स्फारिता ।
लघ्वीत्यनेन पदेन पुनरपि स्वमुखेन वा यत् प्रतिज्ञा शास्त्रं
प्रतिस्वमुखेन बृहती काचिद्विमर्शिनी भविष्यतीति सूचितम् ।
वाक्यं मीमांसा शास्त्रम् । प्रमाणं न्यायशास्त्रम्,
पदं व्याकरणशास्त्रम् । सदागमाः शिवप्रोक्ता आगमाः । अमुतः
प्रत्यभिज्ञाख्यात् । सुशास्त्रात् शोभनात् सर्वोत्तरात् अमुतः
स्वानुभवसिद्धात् शास्त्रात् । एतच्छास्त्राध्ययन परस्य
स्वात्मनोपयोगं महेश्वररूपस्वात्मपरामर्शात्मकमुपयोगं
प्रयोजनमुपयान्ती समीपे प्राप्नुवन्तीत्यनेन शास्त्रेण विना तानि
वाक्यादीनि शास्त्राणि (ट्प्। ४०३) केवलं स्वयमेव स्वात्मोपयोगं
नायाति ।
तत्र दृष्टान्तमाह - भौमान् भूतगतान् । रसान् जलमयांश्च
ग्रीष्माद् एव क्षीणानि स्वमरीचि चक्रान्तर्निवेश्य वर्षिण्यादि मरीचिभिः
सस्यपुष्ठ्यै योजयितुमर्कं विना कोऽन्यः क्षमः ।
अहमिति प्रथमानमात्मानं
ज्ञानक्रियात्मकशक्तिप्रत्यभिज्ञाने नेश्वरात्मकमनभिज्ञाय
अन्यद्वाक्यप्रमाणादि शास्त्रं विवेक्तुमिच्छति तेन
भूताविष्टसमानेन स्वरूपप्रच्छादनात्मक माया भूताविष्टेन
को भवानिति प्रश्ने किं वाच्यम् । न किमपीत्यर्थः । यथा चैत्रो
भूताविष्टः स्वपित्रादिना सङ्केतितं स्वनामधेयं न जानति तद्वत्
महामाया भूताविष्टः आत्मन आदिसिद्धं महेश्वरं न
जानातीत्यर्थः ।
(५२२) इति श्रीप्रत्यभिज्ञासूत्रविमर्शिनी व्याख्या समाप्ता ॥
अक्षरं यत् परिभ्रष्टं मात्रा हीनं तु यद् भवेत् ।
क्षन्तु मर्हन्तु विद्वांसः कस्यनास्ति व्यतिक्रमः ॥
ज्ञानक्रियात्मनि सुखात्मनि निर्विकल्पे
मायाविकल्पितविचित्र भव प्रपञ्चे ।
विद्या विलीन सकले विमले सुपूर्णे
त्वय्येव मे शिव शिवास्तु सदानुभूतिः ॥
बृन्दारण्ये लसितशरच्चन्द्रिकायां निशायां
गोपस्त्रीभिः कलमुरलिकानादसम्मोदिताभिः ।
रासक्रीडामधिकमधुरामादधानं युवानं
वन्दे मूर्ध्ना वलभिदुपलश्यामलाङ्गं मुकुन्दम् ॥
इति शिवम्