अथ (त्रयो दशमाह्निकम् ॥)
(४३८) अहमहमित्यादि विमर्श नदी प्रवाहः । किञ्च
तत्तत्प्रमातृगतघटपटादि ज्ञानरूपो विमर्श नदी प्रवाहः । किञ्च
गरुड एवाहमित्यादि भावनारूपेण तत्तद्गारुडादि रूप
तादात्म्यात्मा यो विमर्श नदी प्रवाहः । किञ्चायं सदा शिव एवं
रूपः अयं मन्त्रमहेश्वरः एवं रूपः अयमन्त्र एवं रूपः,
अयं विज्ञानकालः एवं रूपः अयं सकलः एवं रूपः अयं
तत्प्रमेयवर्गः एवं रूप इति शिवादि सकलान्त प्रमातृ तत्प्रमेय
प्रतिपादन रूपः परमशिवमुखोक्तः शब्द रूपोयः आगमसिन्धुः
एष सर्वः यं भैरवप्रोक्तं पूर्णाहन्तात्मकम् । अब्धिः केवलं
रत्नौघसारः । अयं परमागमाब्धिश्चिन्ता रत्नौघसारः । तत्रापि
शाम्भव स्वरूप चिन्तारत्नौघसारः । एवं भूतं
परमागमाब्धिं प्राप्य तस्मिन्नेव विश्राम्य पूर्णत्वमभ्येति ।
समुद्रप्राप्तनदसङ्घ प्रायेण पूर्णी भवति कृतार्थतां च
परमागमाब्ध्यैकात्म्यं चाभ्येति । एवं भूतं
परमागमाब्धिं नौमि । णमः प्रह्वत्वे इति नीत्या परिमित देहादि
प्रमातृतां
प्। ३४२) निमज्य तन्मयी भवामीति यावत् ।
श्रीमत्सदाशिव पृथिवी पर्यन्त प्रसरत्प्रकृष्ट
श्रीमद्विकासवत्प्रारम्भं वसुधान्तिकं यस्य
शिवस्यान्तस्तत्वानां चक्रं भातितं शिवं स्तुमः ॥
ज्ञानक्रियाधिकारद्वयेन ज्ञातृत्व कर्तृवमेव प्रमातुरीश्वर
प्रत्यभिज्ञा (४३९) हेतुत्वेन दर्शित मिति निर्णीतम् । इत्थं तथा
घटपटेत्यत्र । अनन्तरमेव क्रियाधिकारान्ते शिवादि क्षित्यन्त
विश्वपदार्थावभासा लक्षणेत्युक्तम् । विश्वपदार्थाः के इति प्रश्नः ।
तत्रविश्व पदार्थावभासन लक्षणेत्युक्तौ प्रमातृप्रमेय
लक्षणाजडचेतनाः पदार्थाः आभासा एव । ते पदार्थाः क्रियता
रूपेण सङ्गृह्यन्ते माया प्रमातुः प्रत्यक्षेण हि सर्वत्र क्रमते ।
माया प्रमातुरनुमानमपि न सर्वत्र क्रमते । अनुमानस्य प्रत्यक्ष
पृष्ठपातित्वात् । यद्यद्वस्त्वस्ति तत्र तत्र वस्तुनि लिङ्ग व्याप्तिग्रहण
सम्भवो न हीति । अपरिच्छिन्नः इयत्ता रहितः प्रकाशात्मक महेश्वर
विमर्शपरमार्थ आगम स्तुतिं न पश्येत् । तदनुसारेणागमानु
सारेण । शिवादिक्षित्यन्त विश्वप्रमेयी करणेन
प्रतिलब्धतछिवादिक्षित्यन्त पदार्थ निर्णयं निरुपयितु
मागमाधिकारं तृतीयमारभते । तत्रागमाधिकारे
श्लोकैकादशकेनैवमन्तर्बहिरित्यादि ना स्थूल सूक्ष्मभेदत
इत्यन्तेना गमसिद्धं शिवादि धरण्यन्तं प्रत्येकैका भास
रूपात्मकं पृथिवीत्वैकैकाभासरूपतात्मकन्यायदर्शने
सामान्यमिति यद्विश्वस्य व्यवहृतं यस्य
सामान्यात्मनस्तत्वग्रामस्य प्र्ठिव्यादि
शिवान्ततत्वग्रामस्यैकत्रसमुदायीकरणे नानेककाञ्चनत्वादि
सामान्य समुदित घटादिस्वलक्षणावभासनात्मकं
व्यूहविशेषपूर्वकः समस्तोऽयं शरीरभुवनादिर्विभवत्वस्य
तत्वग्रामस्य तत्वग्रामं परमेश्वरागमसिद्धम्, युक्त्या तत्वतः
अनुगतं तत्वग्रामं दर्शयतीत्याह्निक तात्पर्यं
ज्ञानक्रियाधिकारयोरागमाधिकारेण सङ्गतिं योजयन्
पूर्वपक्षनिरासं चोपसंहरन् शिवतत्वस्वरूपमेवदर्शयितुमाह -
(४४०) श्लोकैकादश कस्याप्येकार्थत्वात् प्रत्येकं श्लोकार्थो न
निरूपितः ।
एवमिति । परदर्शनोक्तः कार्य कारण भावो न युक्त इति यत स्ततो
हेतोः एवमेवा क्रिया सैषेत्युक्त नीत्या अन्तर क्रमा बहिः सक्रमा
पूर्वापरक्रमात्मक
प्। ३४३) काल क्रमानुगा क्रिया प्रमातुर्ज्ञातुरेव यतः (३४३) तत् तस्मात्
तस्य ज्ञातृत्वात् ज्ञातुरन्योन्यावियुक्ते ज्ञानक्रियेशिवतत्वं
जडरूपः प्रतिष्ठः जडरूप प्रधान परमाण्वादि प्रसिद्धः
बौद्धादिपरदर्शनोक्तः कार्य कारण भावः कथं चिन्नोपपन्न इति ।
एवमिति । यतः अन्तरक्रमत्वेन बहिः सक्रमरूपत्वेन
प्रकाशपरमार्थेनापि अतथा रूपेणान्तर्बहीरूपात्मना प्रकाशेन
वपुषा स्वरूपेण च वर्तमानः काल क्रम माक्षिपन्
क्रियेत्यभिधीयते । सान्तर्विपरिवर्तिनः । उभयेन्द्रियवेद्यत्वं तस्य
कस्यापि लिप्सया, इत्युक्त नीत्या परमेश्वरस्य कारणता विश्वस्य
तत्कार्यतेति कार्य कारण भाव एव क्रियेत्यभिधीयते ।
ज्ञानशक्तिपुषस्तस्य प्रमातुरेव सा क्रियाधर्मः । तस्य कर्तृत्वात्
तस्यैव स्वरूप भूतः तदिति तस्मात् कर्तृज्ञातृरूपस्य
प्रमातुरन्योन्यावियुक्ते ज्ञानक्रिये विमर्श एव देवस्येत्युक्त नीत्या
ज्ञानं विमर्शानुसम्भवति । अन्योन्या वियुक्तत्वात्
ज्ञानक्रिययोरन्योन्यावियुक्तज्ञानक्रियारूपं क्रियाद्वारेण
सदाशिवादिक्षित्यन्त तत्वराशितसृष्टिसंहारशतसहस्रान्तः करण
सहिष्णु अनाभासमानमिति । इदन्तया वभासमानत्वाभावेऽपि
उपदेशावसरे हि सर्वात्मना तावदस्य परमेश्वरता (४४१)
प्रमेयतास्य परिहर्तुं शक्येत्युक्तनीत्या गुरुरूपं ध्यानावसरे
उपदेश्यरूपतया ध्येयरूपतया चाभासमानं वस्तुतः
शिवतत्वमित्युक्तं भवति तत्रैवं भूत शिवतत्ववियुक्ते ज्ञानक्रिये
एव शिवतत्वानन्तरभाविशक्तितत्वम् ।
एवं भूतमिति । अन्योन्यन्यूनाधिक ज्ञानक्रियाशक्त्यवियुक्तं
वक्ष्यमाण सदाशिवादिक्षित्यन्तविश्वाभिन्नश्चेत् शिवतत्वं ततः
शिवत्वाव्यतिरिक्तं किमन्यत्तत्वं स्यात् । एकस्मिंश्चिद्रूपे शिवतत्वे
विश्रान्तौ सदाशिवादि क्षित्यन्तानां तत्वानां पूर्वापरात्मकः
कथं क्रमो भवेत् । शिवतत्वस्य देशकालायोगात् । तद्वत् शिवतत्व
विश्रान्तस्य सदाशिवादिक्षित्यन्तस्य तत्वस्य तदभिन्नत्वात् ।
तदभिन्नत्वेन तस्यापि देशकाला योगात् कथं पूर्वापरात्मकः तत्व
क्रमो भवेत् । एवमेवैतत् । तथापि शिवतत्व स्वातन्त्र्यात् क्रमो
भवतीत्याह -
प्। ३४४) किन्तु भवदुक्तं सत्यमेव । तथापि विशेषोऽस्तीति दर्शयति -
किन्त्वित्यनेन । आन्तर दशाया ज्ञानशक्तिरूपाया आन्तर दशायाः
क्रियाशक्तिं प्रत्युद्रेकात् किञ्चिद्विकासादादितः
शिवशक्तितत्वादनन्तरमादितः सदाशिवाख्यं तत्वं साद इति श्री
सदा शिवाख्यं तत्वमुच्यते । सादाख्यं सदाख्यायां भवं
यतः प्रभृतिसदिति सद्रूपस्य विश्वस्य प्रख्या प्रकाशः
अहमिदमित्यादि प्रकाशः तत्सादाख्यं तत्वं तादृक् प्रख्या हेतु
भूतत्वात् सादाख्यं तत्वम् ।
किञ्च सादाख्यायाः सदाशिवतत्व रूपायाः वाच्यत्वात्
तत्वमपि सादाख्यं सदाशिवाख्यम्, अन्तः स्थितस्य विश्वस्य
बहिर्भावहेतुत्वात् बहिर्भाव मय्याः क्रियाशक्तेरुद्रेके
ज्ञानशक्तितोऽपि क्रियाशक्ते रुद्रेकात् परतः (४४२) सदाशिव
तत्वादनन्तरं परमेश्वरमीश्वरशब्द वाच्यम् । ईश्वरतत्वं तु
सदाशिवतत्वात् ईश्वरतत्वस्य वस्तुतः अपृथग्भावेऽपि
पृथग्भावरूपं विशेष्यं द्योतयति । शिवतत्वे
सदाशिवादिक्षित्यन्तस्य विश्वस्याहमित्येव प्रतीति शिवतत्वे
विश्वस्येदन्ता प्रसङ्गोऽपि नास्ति । शक्तितत्वं
तच्छिवतत्वावियुक्तज्ञानक्रियाशक्तिरूपत्वान्न पृथग्गणित
सदाशिवतत्वे अहमित्येकाधिकरणसम्बन्धिन्या अत एव
सामानाधिकरण्या अत एव सामानाधिकरण्यात्मना प्रतीत्या
अहमिदमित अहन्ताच्छादितेऽहन्तारूपतयाङ्कुरायमाणस्य विश्वस्य
प्रतीतिः सदाशिवतत्वे विश्वसम्बन्धिन्या इदन्ताया अहमिदमित्थं
कुरायमाणत्वम् । ईश्वरतत्वे इदमहमिति सामानाधिकरण्यरूपया
प्रतीत्या इदमित्यङ्कुरितस्य विश्वास्याहन्ताच्छादित स्फुटेदन्तारूपा
प्रतीतिः ।
देशकालापरिच्छिन्नत्वात् शिवतत्वमेकमेव ।
तथाप्येकत्वेऽपितदीयं शिवतत्वं स्वातन्त्र्यमेव । स्वात्मनि निजेरूपे
सदाश