अथ नवममाह्निकम्
क्रियाधिकारः
(२९०) कर्तरि ज्ञातरीत्युक्तत्वात् क्रियाधिकारस्यैव प्राथम्यं प्राप्तम् ।
तथा विज्ञानं क्रिया च भूतानामिति । तत्र ज्ञानं स्वतःसिद्धमिति
ज्ञानक्रिये स्फुटे एवेति । विमर्श एव देवस्य शुद्धे ज्ञानक्रिये यतः । इति
तत्र तत्रोक्तनीत्या
एव मात्मान मेतस्य सम्यग्ज्ञानक्रिये तथा ।
पश्यन् यथेप्सितानर्थान् जानाति च करोति च ॥
प्। २२५) इत्युपसंहारश्लोकोक्तनीत्या च प्रमातुर्ज्ञानशक्तिसमर्थः न
रूपो ज्ञानाधिकारो निर्णीतः । इदानीं तज्ज्ञानाधिकार
प्राणभूतः क्रियाधिकारोनिर्णीयते - विततेत्यादि । क्षित्यादि शिवान्त
विश्वावकाश प्रदत्वात् वितते ।
ऐकध्यमध्वनां षण्णां यत्र सा भैरवी स्थितिः ॥
इत्युक्तनीत्या षडध्व स्फारात्मक
क्षित्यादिशिवान्तविश्वावकाशप्रदत्वाद्वितते परमावरणं मलमिह
सूक्ष्मं मायापञ्चकं स्थूलं बाह्यविग्रहरूपं
कोशत्रयवेष्टितोह्यात्मेत्युक्त नीत्या
पररूपाणवादिमलमायाकलादिपञ्चकात्मकः
सूक्ष्मरूपममलं प्रकृत्यादिशरीरान्तः स्थूलमलरहितत्वात्
विशदे उक्ततत्वप्रपञ्च प्रतिबिम्बनक्षमे मातृस्वांशे मेयताद्वय
इति माता परमशिव एव एकस्तरः तत्र प्रकाशमानत्वात् स्वांशं
पृथिवीपर्यन्तं प्रमेयं अपरस्तटः एवम्भूत घटद्वयसहिते
स्वात्मैव प्रमेयः प्रमाणप्रमात्रात्मकं प्रपञ्चम् । अतः
प्रतिबिम्बकल्पतया आसमन्ताद्दर्शयतीत्यादर्शः । (३९१) तस्मिन्
स्वात्मादर्शे स्वशक्तिरसोज्ज्वलामिति । अन्तःकार
बहिष्कारावकालक्रममात्मनः । अपराधीनमादधत्सेयत्त्वं
प्रभवनिर्भरः ॥ इत्युक्त नीत्या विश्वान्तः बहिष्कारात्मक
स्वातन्त्र्यरसोज्ज्वलाम् । अन्यत्र रसात्मनागुणेनोज्ज्वलां दीप्तां
बहुतरभवद्भङ्गीभूमिमिति - बहुतरं भवन्ती नामनेकधा
भवन्तीनां भङ्गीनां शिवादि सकलान्त तत्तत्प्रमातृ
तारतम्यानाम् । किं च वक्ष्यमाणानां सम्बन्धसामान्य
द्रव्यादि कालबुद्धीनां तत्सम्बन्धादि सामान्यं
प्राणभूतमानतत्फलमेव निरूपणात्मकं ज्ञाप्यज्ञापकता
सम्बन्धरूपायाः तत्प्राणभूतायाः कार्यकारणता
सम्बन्धरूपायाश्च भङ्ग्या तज्ज्ञाप्य ज्ञापकभाव
पूर्वभाविनः कार्यकारणभावात्मनः सम्बन्धस्य
भूमिमुदयविश्रान्तिस्थानम् । अन्यत्र बहुतर भवत्तरङ्गभूमिं
तदिदं शक्ति चक्रमविच्छिन्नप्रबन्धं भगवतां
भैरवनाथस्येत्युक्तनीत्या शिवादिक्षित्यन्त विश्वरूपेण सरणात्
क्रियैव सरित तां परां परिपूर्णां न तु यदा शिवादि क्रियावत्
परापरं पूर्णापूर्णं न तु माया प्रमातुः क्रिया वदपरां
अपूर्णां एवं भूतां सरितं यः प्रकटयति तत्कर्तृत्वेन स्थित्वा
प्। २२६) प्रकाशयति । वर्तमानप्रयोगेणाविरतं प्रकाशकर्तृत्वं
दर्शितम् । सर्वज्ञत्वसर्वकर्तृत्वादिरूपा प्रकृष्टां श्रीर्यस्य तद्वान्
स इति विश्वप्रकाशो गौरी पतिः पराभट्टारिका स्वामिनः अनुग्रह
योग्यानामस्माकम् । ऋतं स्वात्मेश्वरत्व प्रत्यभिज्ञानरूपं परं
पूर्णं परमार्थं प्रकटयतु अन्तः स्थितमेव निरोधकाभिमत
मायाशक्ति सम्या सरणेनाभिव्यञ्जयतु । अविरतमभिव्यञ्जयतु । अत्र
यत्तच्छब्दाभ्यामनवरतं (२९२) परमेश्वर
प्रसिद्धिरूपाभ्यामाचार्येण स्वात्मनः परामर्शैक परत्वं
सूचितम् । यत्रेति । तत्र क्रियाधिकारे । प्रथमाह्निक प्रतिपाद्यमेयरूपं
परमेश्वरं स्तौति - यत्रेति । यत्र तेजांसि तेजांसीति वत्
प्रथमादिकारक शक्त्याधिकरणभूते यत्त, अत्यन्तमिति ।
कर्तरिज्ञातरीत्युक्त्या कर्तृत्वस्यैव प्राधान्यात् ज्ञानशक्तेरपि
प्रियतमा क्रियाशक्तिः । विश्रान्तिमासाद्येति - स्वाश्रय भूते
परमकर्तरि अविचलामानन्दमयीं प्रतिष्ठामासाद्य परिपूर्णतया
सम्प्राप्याचित्रमिति । सदाशिवादि सकलान्त प्रमातृवर्ग
तत्तत्प्रमात्रनुरूप नानाप्रमेय प्रपञ्चावभासनात्मकत्वात् चित्रम्
। संविदेव पराभूमिः सैव सृष्टयादिकारिणी ।
इत्युक्तनीत्या सृष्टया द्यनुग्रहपर्यन्तं पञ्चकृत्यं तमधिकारं
दर्शयेत् । अविरतं दर्शयत्येव तत्तादृग्विध शक्त्याश्रय भूतं
श्रेयोरूपं शिवं स्मर्तुः ।
अथ ज्ञातृत्व समर्थन हेतुभूत ज्ञानशक्तिविषयं
ज्ञानाधिकारं विस्तरेण निर्णीयतज्ज्ञानप्राणभूता
क्रियाशक्तिस्वरूपं वितत्यनिर्णेतुं अधिकारान्तरं क्रियाधिकार
आरभ्यते । तत्र प्रथममाह्निके कालकलितत्वादक्रमरूपे परमेश्वरे
वर्तमानक्रियापरमेश्वरवत् अक्रमाकाले नासंस्पृष्टा
सत्यपिदेशकालसङ्कुचितान्योन्यभिन्न संसारिमाया प्रमातृगत
पूर्वापरात्मकक्रमाभासन योगात् सक्रमेति चेत्युपपाद्यते ।
एतच्छ्लोकाष्टकस्य तात्पर्यं - यथा ज्ञानाधिकारेण ।
ननु स्वलक्षणा भास मित्यादि चैतन्यमजडा सैवं जाड्ये
नार्भप्रकाशते इत्यन्तग्रन्थोक्तः ज्ञानशक्तिविषयः पूर्वपक्षः
प्रतिक्षिप्तः । तथा प्रथमश्लोकेन क्रियाप्यर्थस्य कायादेरित्यादि । तेन
कर्तापि कल्पित इत्यन्त ग्रन्थोक्त
प्। २२७) क्रियाशक्तिविषयः पूर्वपक्षः प्रतिक्षिप्तः । ततः
श्लोकेनक्रियायाः परमेश्वरे (२९३) अक्रमत्वं माया
प्रमातृष्वक्रमत्वमिति सक्रमत्वा क्रमत्वविवेकः । तत्र श्लोकद्वयेन
क्रियाया देशकाले रूपस्य सक्रमत्वस्य तद्रहिताक्रमत्वस्य
परमेश्वरे अक्रमत्वं माया प्रमातॄन् प्रति सक्रमत्वमिति
विषयविभागं विषयविभागे सत्यपि परमार्थः तयोः
सक्रमत्वाक्रमत्वयोरेकत्र परमेश्वरे विश्रान्तिरिति श्लोकेन निरूप्यत इति
आह्निकस्य तात्पर्यम् ॥
अथ क्रमेणश्लोकार्थो विभज्यते सत्यं किं त्वित्यादिना ।
विमर्श एव देवस्य शुद्धे ज्ञानक्रिये ततः ।
इत्यन्तेन ग्रन्थेन ज्ञानशक्ति समर्थनो पयोगिनि प्रमेये प्रसिद्धे
तत्प्रसिद्ध्यैव क्रियाशक्तिसमर्थनोपयोगि प्रमेयान्तरमप्ययत्नतः
सिद्धमिति दर्शयति प्रथमश्लोकेन । अत एवेति । ज्ञानशक्ति
समर्थनोपयोगिनः सत्यं किन्त्वित्याह्निकोक्तात्
ज्ञानशक्तिसमर्थनोपयोगि प्रमेयान्तानो हेतु कलापादेव
क्रियासक्रमाचेदेका न भवति । सक्रमा क्रिया एकस्य सम्बन्धिनी न
भवति । तस्यैकत्वे ऽभिमतस्य
प्रमातुर्देशकालाकाराश्लिष्टत्वेनैकत्वा भावात् । अत एव
क्षणिकत्वात्तत्र तत्रस्थिते तत्तद्भवतीति च द्विष्टस्यानेक रूपत्वादिति च
क्रियाशक्तिविषयं सम्बन्धिविषयं च यद्दूषणमुक्तं तदपि
प्रतिक्षिप्तम् । एकस्य ज्ञानस्य क्रियाशक्त्याश्रयभूतस्य
ज्ञातृरूपस्य न चेदन्तः कृतेत्यादिना विमर्श एव देवस्य शुद्धे
ज्ञानक्रिये यतः इत्यन्ते नैकस्य समर्थनात् । पूर्वपक्षे
ननुस्वलक्षणाभासमित्यादिना शरीराद्यवसायिनीत्यन्तेन । अनु —–
विकल्परूपाणि ज्ञानान्येव सन्ति तेषामाश्रयभूतः कश्चिदात्मा
नास्तीति यदुक्तम् अनन्तरमथानुभवविध्वंसेत्यादिना ————
कौस्मृत्यन्यथानुपपत्त्या आत्माकश्चिदस्तीत्यात्मवादिमतं निराकृत्य
ततः सत्यप्यात्मनीत्यादिना स्मर्ताद्रष्टेव कल्पित इत्यन्तेन श्लोकत्रयेण
(२९४) स्मृतेः संस्कारमात्रादेव सिद्धिरिति द्रष्टृरूपात्मनो सिद्धवत्
स्मर्तृरूपस्यात्मनोऽसिद्धिरिति यदुक्तं ततो ज्ञानं च चित्स्वरूपं
चेत्यादिना श्लोकेन ज्ञानमप्यात्मवत् चित्स्वरूपं चेत् तदस्यात्मवत्
कथं न नित्यम् ।
प्। २२८) द्वयोरपि नित्यत्वे आत्मज्ञानयोः कार्य कारणभावादिर्न
कश्चित्सम्बन्धः । अथचित्स्वरूपं न चेत् कथमस्यार्थप्रकाशतेति च
यदुक्तं अथार्थस्येत्यादिनाश्लोकेन ज्ञानं
जडमपिचित्प्रतिबिम्बधारणाद्विषय प्रकाशकं भवतीतिवादिनं
साङ्ख्यं प्रतितत्तच्छित्प्रतिबिम्बधारिणं जडरूपस्य ज्ञानस्य
मुख्यं चेत् ज्ञानमप्यात्मवत् चिन्मयमेव भूत्वा नित्यं भवति ।
तत्राप्यन्य्न्यसम्बन्धो नास्तीति ज्ञानशक्तिं प्रतियद्दूषणमूक्तं
तत्सर्वं प्रतिनिक्षिप्तम् ।
कुत्र प्रतिक्षिप्तमितिचेत् अन्योन्य
भिन्नानामनुभवादीनामेकाश्रयनिरूपणात्मना
एकेनाह्निकेनैकप्रमातृविश्रान्त्याविनानुपपत्तेर्वितत्यदर्शित्वात् ।
एतस्मिन् पूर्वं यदुक्तं स्मृतेः संस्कारमात्रादेव सिद्धिरिति तदेव
दूषयितुं सत्यभित्यादिना, ज्ञानस्मृत्यपोहनशक्तिमानित्यन्तं
श्लोकसप्तकमित्यनेन पूर्वोक्तेन ग्रन्थेन संस्कारमात्रात्
स्मृतिनास्तीत्यप्युक्तं ज्ञानमात्मवदजडमेव । सङ्कोचितरूपं च ।
असङ्कोचितरूपामपि तस्य ज्ञानस्वतन्त्र्यावभासित
बहीरूपदेशकालसङ्कुचित ज्ञेयोपरागवशादस्य
सङ्कोचावभासाय इति माया शक्त्या विभोरिति केवलं भिन्नसंवेद्ये
तत्र च दर्शितं यतः सत्यमित्यादिना —– विमर्श एव देवस्य
शुद्धेज्ञानक्रिये यतः । इत्यन्त ग्रन्थोक्तात् । अतो हेतु कलापात्
ज्ञानशक्तिविषयाणि दूषण रूपाणि चोद्यान्येव केवलं न
निवारितानि । (२९५) अत एव ज्ञानशक्तिसमर्थनरूपाद्धेतु जातात्
क्रियाशक्तिविषयाण्यापि दूषणान्यधिकरण सिद्धान्त
नीत्यापसारीतानीत्यापि शबदः क्रियाप्यर्थस्य कायादेरित्यत्र एका चेत्
कथं क्रमिका । अथ क्रमिका चेत् कथमेका तस्याः
सक्रमत्वमश्रयस्यैक स्वभावत्वे सति कथं घट तथा भूतैः
भिन्नदेशकालाकारैः क्रियाक्षणै राविष्ट आश्रयः कथमेकः
स्यादिति च क्रियाशक्तिविषयं तदाश्रयं च यद्दूषणमुक्तं तत्र
स्थित इत्यादिना तेन कर्तापिकल्पित इत्यन्तेन ज्ञानक्रिययोः
ज्ञानकर्तृरूपस्यात्मनश्चान्योन्य सम्बन्धो नास्तीति सम्बन्ध
विषयं च यदूषण मुक्तं तदपि प्रत्यक्षमेव । कथमिति चेत् यत इयति
ननु स्वलक्षणाभासमित्यादि, तेन कर्तापि कल्पित इत्यन्तेन
संविद्वादिनं
प्। २२९) प्रतिदूषणरूपं जीवितं मियदेव । एकमनेक स्वभावं
कथं स्यादिति, तत्राप्युक्तं चित्स्वभावस्यैकस्यैव दर्पणस्येव
तदेकतावबोधेन शिवादिक्षित्यन्ताभास भेदसम्भवेक इव विरोध इति
ग्राह्य ग्राहकताभिन्नावर्थौभातः । प्रमातरि विश्वरूपा भास
भेद सम्भवेऽपि स्वरूपहान्यभावात् स एवं विश्वरूपः
परमेश्वर इति प्रत्यभिज्ञानबलादेकोऽपि
पृथिव्यादिस्वभावभेदादन्योन्य विरुद्धान्द्या वत्
स्वर्गादावङ्गीकुरुते तावत्ते विरोधादेव निर्भासमानास्तदेकं
तन्निर्भासनं क्रियाश्रयं सम्पादयन्तीति । ततश्च कार्यकारणादि
वक्ष्यमाणानां सम्बन्धादीनामुपपत्तिरिति । तत्र च क इव विरोध इति
सम्बन्धादीनामुपपत्तिरिति तत्त्व परिहाररूप मुक्तमुक्तम् ।
एकमेव परं तत्त्व मनेकाकारमिच्छया ।
तत्क्रीडति स्वशक्तीनामुन्मज्जननिमज्जनैः ॥ इति ।
पूर्वापरीभूतत्वरूपं क्रमिकत्वमेव क्रियायाः स्वरूपं
सूर्यादिसञ्चाररूपायाः (२९६) क्रियायाः अरुणा
भासनानन्तरमुदयाभासः तदनन्तरं प्राह्लाद्याभासः । चैत्रः
पचतीत्यादौ प्रथमं चुल्लीसम्पादनम्,
तदनन्तरमिन्धनादिसम्मार्जनं
तदनन्तरमग्निप्रतिष्ठापनाद्योदनपाकपर्यन्तं चैत्रा गम्यत इति
गतो पूर्वपदक्षेपणानन्तरमुत्तरपद प्रक्षेपणमित्यादिरूपत्वं
क्रमिकत्वमभूत भवति भविष्यतीति भूतादिकालकलनाविहीने
भगवति भूत नाथे नास्तीति कथमस्य सा
भूतादिकालक्रमसम्बन्धी क्रिया भवेदित्याशङ्क्य तस्मिन् तस्याः
क्रमिकरूपायाः क्रियायाः सम्भावनापि नास्ति साक्रमिकरूप
चैत्रमैत्रादिसम्बन्धिन्येव भवतीत्याह - लौकिक्या चैत्रमैत्रादि
सम्बन्धिन्या गमन पचनादिक्रियायाः उक्त रूपं सक्रमत्व
माभासनविच्छेदन परदर्शन सामर्थ्यात् परमेश्वरात्
शक्तिविशेषात् । घटते उपपद्यते । शाश्वत्या इति । काला स्पृष्टायाः अत
एव नित्यायाः प्राभव्याः प्रभु सम्बन्धिन्याः । किन्तु निर्माणशक्तिः
साप्येवं विदुषः ईशितुः, ततो विज्ञातृविज्ञेय भेदो यदवभास्यत इति
वक्ष्यमाणनीत्या विश्वज्ञातृविज्ञेया
प्। २३०) भासन रूपायाः क्रियायाः प्रभोरिव प्रभुत्वं न स्यात् ।
तद्वतः प्रभोरक्रमत्वात्सम्भावनैव नास्ति । उत्क्षिपतिहस्तं
तदनन्तरमवक्षिपतीति हस्तोत्क्षेपावक्षेपणात्मना
क्षणमात्रकालावस्थायितत्वात् क्षणास्ते पूर्वापररूप क्रम वन्तः
यैषां लौकिकानामनभिज्ञानक्रिया
किञ्चिदभिज्ञत्वेनाभिमतानां वैशेषिकाणामिव तेषां सा क्रिया
घटपटादिवत् प्रत्यक्षेणैव भाति । अन्ये तु मन्तव्य इति नैयायिकादयः
तथा भूत इति प्रत्यक्ष परिदृश्यमान
पूर्वापरात्मकोत्क्षेपणावक्षेपण क्रमरूप भेदसम्पादिका चित् ।
अतीन्द्रिया चक्षुरादीन्द्रियगोचरा चैत्र मैत्रादिहस्तगता
उत्क्षेपणावक्षेपणात्मक व्यापार प्रबोधरूपा
इन्द्रियवन्नित्यानुमेया (२९७)शक्तिरेव क्रियातस्याः अनुमेयत्वात्
पूर्वापरीभूतत्वमप्यनुमीयत इति प्रत्यक्षात्मनानुमेयात्मना च
प्रकारेण लौकिक्याः क्रियायाः सक्रमत्वं कालशक्तिरत इति
अरुणाद्याभासविच्छेद स्फुटप्रभापुञ्जाद्याभासदर्शन
सामर्थ्य रूपात् परमेश्वरात् श्कतिविशेषादुपपद्यते घटे उपपद्यते
। या तु प्राभवी प्रभोः सम्बन्धिनी तदव्यतिरिक्ता शाश्वती प्रभुवत्
कालेना संस्पृष्टा क्रियाशक्तिः तस्याः सक्रन्त्वमस्तीति अस्तीति
सम्भावनापि नास्ति । तुरप्यर्थे । प्रभोरिवेति । यथा प्रभोः कालक्रमा
भावात् सक्रमत्वं सम्भाव्यं तथा तस्याप्यसम्भाव्यम् । उक्तं
हीति । उत्क्षिपति अवक्षिपतीत्यत्र हस्तस्य सम्रमत्वे तद्गतापि क्रिया स
क्रमेति ।
नन्विति । कालशक्तित इत्युक्तं सकालः भावानामिदानीं
तनोऽयमित्यादिरूपेण विशेषणभावमुपगच्छन् तान् भावान् स्वेन
भूतादिना रूपेण तस्मिन् तस्मिन् क्षणे अभूवन् भवन्ति भविष्यन्ति
अवच्छिनत्ति । अवच्छेदोदान तदन्यकालावेशासहत्वं तस्य विशेषण
भूतस्य कालस्य विशेष्य निष्ठत्वाद्विशेष्य व्यतिरेकेण कालो न
दृश्यत इति ।
तत्र कोसौ कालो नामेत्याशङ्क्य काल स्वरूपमेव
निरूपयितुमाह - काल इति । कालोनाम सूर्यचन्द्रादीनां सञ्चारः ।
तत्तद्वसन्तादि ष इर्तु भवन् तत्तत् सहकार मल्लिकादीनां
घ्राणादीन्द्रियविषयाणां पनसादि फलानां जन्मवा ।
प्। २३१) (२९८) अथवा स्पर्शेन्द्रिय ग्राह्ये शीतोष्णे कालः तल्लक्ष्यत इति ।
तत्वतः परमार्थतः । सूर्यसञ्चारलक्षणः पूर्वापररूपः काल
एव क्रमः क्रम एव कालः इत्येव कारो भिन्न क्रमः । यथोक्तम् -
निलीयमानैर्विहगैर्निमीलद्भिश्च पङ्कजैः ।
विकसन्त्या च मालत्या गतोऽस्तं ज्ञायते रविः ॥
ये इयत्तया परिनिष्ठिता एकस्मिन् मेषादि राशौ चन्द्रस्य
पादाधिकेनाहोरात्र द्वयेन सञ्चारः । सूर्यस्यैकांस्मिन् राशौ
मासेन सञ्चारः । अङ्गारस्य त्रिचत्वारिंशाद्दिवसेन सञ्चारः ।
बृहस्पतेरेकास्मिन् राशौ एकेन वत्सरेण सञ्चारः बुधशुक्रयोः
एकस्मिन् राशौ पञ्चविशद्दिनेन सञ्चारः सार्धेन वत्सर द्वयेन
शनेरिति । पुष्पफलानां तत्तदृतुरूप मासद्वयमात्रमिति
शीतोष्णयोः प्रत्येकं सङ्क्षेपेण मालषट्कमियत्ता चन्द्रसूर्य
सहकारमल्लिकाकुट च शीतोष्णपरमृतविलासोदर्ये इयत्तया परिनिष्ठित
। आभासाः सिद्धाः त एवकालः । कथमिति चेत् - अपरिनिष्ठितं
गमनपठनादिकैः सूर्यादिसञ्चारैरपिनिष्ठितं परिनिष्ठा रहितं
गमन पठनादि दिवसेन दशयोजनं गतः दिवसेन देवदत्तोग्रन्थ
सहस्रं पठितवान् । अहोरात्रेणैव त्रिसहस्रं ग्रन्थं लिखितवानिति
यत्तया परिनिष्क्रियते कनकं निष्कशतं निष्कसहस्रमिति
प्रतिमानवतकैः कनकभिवस एव चन्द्रसूर्यादीनां
सञ्चारविशेषः परमार्थतः क्रम काल एव क्रमं क्रम् एव कालः
इत्येवकारो भिन्न भिन्नक्रमो योज्यः । इमौ घट पटौ
इदानीन्तनावित्याभास यौगपद्यावभासौऽपि
तदानीन्तनकालाविष्टापरघट पटाद्याभासापेक्षया क्रम एव
कालस्य अयं घटाश्चिरेण निर्मितः (२९९) अयं घटोऽचिरेण जातः
इदानीं फलमचिरेण पक्वमिदामिति चिरेण पक्वमिति चिराक्षिप्रदिधीरपि
वितताविततत्ववशात् पूर्वापरात्मकक्रमरूपाभास भेद एव वर्तते ।
क्रमो नामैकस्य प्रकाशने अन्यस्य प्रकाशनाभावः । काचस्य चिरत्व
प्रतीतौ वर्तमानायां तदानीमेवाचिरत्व प्रतीत्यभावात्
चिरक्षिप्रादिधीरपि क्रम एव । काल सम्बन्धिनी परत्व बुद्धिः अनुभूत
विषय विशेषणत्वात् स्फुटा अपरत्व बुद्धिः भविष्यद्विषय
विशेषणत्वादस्फुटा तत्रैवेति क्रमे प्रतिमानवर्तक तुल्येन
प्। २३२) सूर्यसञ्चारादिना सहमीयमानः हेमस्थानीयो देवदत्तस्य
गमनरूपाभासभेद इत्थमुच्यते । दिवसं गच्छतीति । कालाध्वनोरिति
द्वितीया । अपरिनिष्ठिता देवदत्त गमनादिक्रिया इत्थं कालेनैव
परिनिष्ठीयते ।
नन्विति । कालः इदानीन्तनोऽयं तदानीन्तनोऽयमिति इदानीं तन –
————————- षु निष्ठत्वात् कठिनत्वादिवत्
तद्भावस्वभावभूत एवास्तु तत्तद्भाव व्यतिरेकेण काल इति
कश्चिन्नविद्यते । तस्य स्वत एव स्थित्यभाव———————– कालः
भावस्वभाव भेदमात्रं न भवतीत्याह - पूर्वापररूपः
क्रमोयः स भेदाश्रयः । भेदोनाम अन्योन्याभास व्यवच्छेदे ना
तदानीं विद्यमाने नैकैकाभास स्फुरणं तद्भेदमेव व्यक्ती करोति
। भेदोऽपि अरुणाभास सत्वादागमादि —————————
पुञ्जस्यासद्भवति । तयोराभासयोः सदसत्वे च चित्राभास कृता
प्रभोः स्वरूपाच्छादना प्रकाशेन प्रभवनशीलात्
परमेश्वरादेव भक्तः । प्रभोश्चित्रवभासकृतत्वं नाम स्वात्मनि
प्रतिभासमानैकैकस्मिन् घाटया भासे लो—————————
यमुन्नतोऽयं दृढो यमित्यादि विशेषाणां सामानाधिकरण्येन
योजयितृत्वं घटा भास पटाभास योरन्योन्यश्लेषाभासा भावेन
स्वात्मनि पृथक् स्थापनम् । यथोक्तम् -
क्रयो यो देशकालात्मा भेदप्राणश्च संविदाम् ।
विच्छेदादेष विज्ञातुर्विचित्राभासता इयतः ॥ इति ।
क्रमात्मा कालः भावः स्वभावभावमात्रं यदिस्यात् तर्ह्यङ्गुलि ।
चतुष्टयमन्योन्यं ह्रस्वदीर्घताया भिन्न स्वभावमिति
एकमेवाङ्गुली स्वरूपं भिन्नकालं भवेत्
तस्मात्कालस्वभावभेदमात्रं न भवति । तर्हि काल स्वरूपं
कीदृशमिति चेदाह - तस्मदिति । कालस्य भाव स्वभावत्वा भावात्
अरुणा भावस्य सद्भावस्फुट प्रभापुञ्जस्य चासद्भाव इत्याभास
सद्भावानुप्राणितो यो भेदस्तदाश्रय इति तद्भेद कृतः
कालात्माक्रमः । एतदुक्तं कालो हि भावानां भासनाभासनात्मा
क्रमोऽवच्छेदक इति आभासयोस्तौ भावा भावौ प्रकाशाद्बाह्येन
नित्यानुमेयेनाहेतुना
प्। २३३) बिम्बत्वेनाभिमते नार्थेन न कृतावितिचिदात्मैव हि देव इति
स्वामिनश्चात्मसंस्थ इति आत्मान मत एवायमिति भावा
भावावभासानामिति चिन्मयत्वेऽवभासानामित्यादौ
विस्तार्योपपादितमिति संवित्स्वभाव आत्मा यः स्वप्ने सङ्कल्पादौ च
तत्तद्गजतुरगाद्या भास वैचित्र्यनिर्माणे प्रभुः प्रभविष्णुरिति
सर्वप्रमाणानां स्वात्मत्वेन स्थितत्वात् संविदितः
स्वानुभवसिद्धः । तत एवेति तस्मादेव प्रभोस्तौ भवतः । अत एव
स्वरूपान्तः क्रोडीकृतमपरमविभिन्नाकारमात्मनि
परिगृह्यकञ्चिदेवार्थं स्वरूपादुन्मग्नमाभासयतीति पूर्वोक्त
नीत्या स प्रभुः नीलाद्युन्मज्जनिमज्जवत्
स्फुटप्रभापुञ्जादिरूपमन्यं कालाभासमात्मन्य भेदेन
परिगृह्यैकैकमरुणाद्याभासमुनञ्ज्जयति स प्रभुः शिवादिक्षित्यन्त
विश्वावकाश प्रदत्वादाकाशकल्पे स्वात्मनि स्वेच्छया
विश्वमुनीलयतीति नीत्यानीलादीनाभासाना भासयन् तत्रापि चित्रतया
नानारूपत्वेन भासते । चित्रतापादनमेव स्फुटयति -
स्वात्मन्याभासमानं घटाभासमधिकरणी कृत्य लोहिताभासं
दृढाभासमुन्नता भासामत्यदितत्तत्सामान्याभासं तस्मिन्नेव
तद्विशेषणभूतत्वेनाभासयति । किं च तत्रैव स्वात्मनि दर्पणतल
इवान्योन्य श्लेषाभासः पटाभासं च पृथक् पृथक्त्वेनावभासयति
संविन्मये एतल्लोहितादि सामानाधिकरण्या भासमन्योन्य भिन्न
घटपटाद्याभासं चा शान्तरत्वात् प्रमात्रैक्य इत्युक्तनीत्या
स्वात्मनि प्रमात्रैक्य रूपे नैकरसेनाभासयति । तत्रैकस्मिन्नैक्या
भासे आभासानां विशेषण विशेष्य भावः पृथक्त्वाभासश्च न
भवति । स्वात्मैक्येन प्रकाशमानत्वात् एषसमनन्तर मूर्तिवैचित्र्यत
इति वक्ष्यमाणे देशक्रम इहैवा सूचितः । देशक्रमस्यापि
स्वविशेषणभूत कालक्रमापेक्षित्वात् इयतीति सामानाधिकरण्यात्मनि
दृक्त्वाभासात्मनि घटपटादि सम्बन्धिन्याभासे
आभासत्वासत्वकृतभेदाश्रयस्य कालक्रमस्योदयो न स्यात् ।
कालक्रमस्य पारमार्थिकं रूपमाह - यदा तु शरदाभासं
हेमन्ताभासेन सर्वथैव तदीयशैत्यादि धर्मरहितत्वेनाभासयति
प्। २३४) तद्वद्धेमन्ता भासं च शरदाभासेन शून्यमाभासयति
यदा तदा तत्तत्कालात्माक्रमः उत्तिष्ठतीति ऊर्ध्वं विजृम्भते
सेयमित्थं भूत शरदाद्याभास वैचित्र्यप्रथन शक्तिः भगवतः
सम्बन्धिनी कालशक्तिरित्युच्यते । या चैषा प्रतिभेत्येतद्व्याख्याने
सक्रम यौगपद्यादिरूपः पदार्थानां वक्ष्यमाणेश्वर
स्वातन्त्र्यरूप देशकालशक्त्युपकल्पितः क्रमो देश काल
परिपाटीत्युक्तं सदेशकाल क्रमः अस्मिन्नेवाह्निकेद्रष्टव्यम् ।
यथोक्तम् - द्यावा पृथिवी देशः कालोऽहोरात्रमिति ययोः प्रसरः ते
भानतिरोधि कृती शक्तिमेव भाव बृन्दस्य इति ।
सूचितं भगवतश्चित्राभासकत्वमेव स्फुटयति - असावीश्वरः
आधारभूत भूतलतन्निष्ठ वृक्षश्चैत्रमैत्रादिघटपटादेः
पदार्थस्य किं गेहं प्राङ्कणादिस्कन्धशाखादि चरचरणा
पृथुबुध्नोदरादिमूर्ति वैचित्र्यतः देशक्रममाभासयति (२९९)
अविरतं प्रकाशयति ———— देवेदमिति प्रत्यभिज्ञाबलेन
वैचित्र्याभावात् एकैकरूपत्वेपि जन्मसत्ताविपरिणामादि क्रियाभेदात्
अन्यान्य रूपत्वाधायिनं कालक्रममपीश्वरत्वादेवाभासयतीति ।
यथोक्तं -
बाह्यभेदो द्विधासृष्टः क्रियातो रूपतस्तथा ।
----------------------------------------- द्यो देशतः परः ॥
देशकालौ नीलादिवत् स एव सृजतीति च । वक्ष्यति च - देशकालाभावे
वसामान्यरूपता प्रयोजक व्यापित्व नित्यत्व खण्डनाभिधान सविध
वृत्तिविशेषरूपतां वितरत इति ।
कालादेः पदार्थस्य स्वं स्वरूपं मूर्तिः तस्यामूर्तेः
यद्वैचित्र्यं —————– तद्भेदात्मकं वैचित्र्यमेवदर्शयति ।
एकस्मिन्नेव भूतले प्रथमं भूतल (३००) व्यतिरेकेण गृहमित्यत्
स्वरूपं प्राङ्कणमिति गृहादन्यद्विपणिरित्यन्य द्वेद गृहमित्यन्यत् ।
अरण्यमिति । तदितरत् परमेश्वरेणाभास्यमानात् । तस्मात् गृहादि
वैचित्र्याद्गृहादरण्यं दूरं प्राङ्कणं दूरं गृहादरण्यं
विततं प्राङ्कणाद्यविततमित्यादि
प् २३५) दूरादूर विततत्वावितत्वादिः क्रमो भगवतावभास्यते । यदा
तु एत एतत् एकमेव भूतलं गृहाङ्कणादिरूपेण नानाव्यस्तं
विभक्तं भवति भतीति गाढ प्रत्यभिज्ञाबलान्मूर्तेर्नभेदः न
वैचित्र्यम् । अथ चेति । वैचित्र्या भावात् भूतलादेः
पदार्थस्यैकरूपत्वेऽपीदमपि भूतलमित्येकैकस्मिन् रूपे
यदन्यदन्यद्रूपं भाति तदेकत्वा नेकत्वयोर्विरोधवशादसदपि
अविद्यमानमपि अयुक्तमपि भवत् ईश्वरस्वातन्त्र्यात् सञ्जायमानं
क्रियेत्युच्यते । अस्याः क्रियायाः क्षिप्रत्व चिरत्व परिमिता परिमित
रूपात्मकं वैचित्र्यं यत् इदं शीघ्रमेव भविष्यति इदं चिरेण न
फलिष्यतीति फलसिद्धा निबन्धन वशाद्यथेच्छं चर्चितेत्न
एकरूपेणाविच्छिन्नेनानुसन्धानेन निर्भासयत् कालरूपं
क्रममाभासयति एक स्वरूपस्य कथमन्यदन्यद्रूपं न
दित्येतद्भवता न वाच्यम् । कथमिति चेदसौ एकानेकरूपो भावः
संविदा विना स्वयमेवोद्भूय स्वतन्त्रो न भवति । एक स्वरूपस्य
कथमनान्यरूपत्वं भवतीत्येवं यो भावो भवतविकल्प्यते ।
संविदेव हि एकानेकरूपात्मना भाति । एकानेकरूपतया भावनमेव
तस्या ऐश्वर्यम् । एकानेकत्वयोर्भासने अन्योन्य विरोधात् कश्चिन्न
प्रभवति । सुखदुःखदेरन्योन्य विरोधात् कश्चिन्न प्रभवति ।
सुखदुःखादेरन्योन्य वोरोधः परोत्पन्नाद्भासनादेव कृतः
सुखाभासनवत् तयोर्विरोधाभासोऽपि ते नैव कृतः । तथा भासना
भाव इति । सुखस्य सुखरूपतया भासना भावः दुःखस्य
दुःखरूपतया भासना भाव एव विरोध स्वरूपम् । एतदिति । एकैकस्मिन्
(३०१) स्वरूपे अन्योन्य रूपत्वाभासनं सूत्रगते नापि
शब्देनेश्वरशब्देन च दर्शितम् ।
नन्वेवमिति । ईश्वर एकस्य भूतलात्मनो भावस्य
गृहप्राङ्कणमित्यादि वैचित्र्येण देशरूपं क्रममाभासयति ।
तस्मिन्नेव क्रियावैचित्र्यनिर्भासात् कालक्रममाभासयतीत्युक्त
प्रकारेण घटाद्याभासविषयाभ्यामेव कालदेशक्रमाभ्यां
भवितव्यं प्रमाता अनाभासः घटवदाभासात्मक प्रमेयरूपो
न भवति ।
प्। २३६) स प्रमाता घटवत् न कस्यचिदिदन्तया भासते । तस्य स्वात्मन्य
हन्तारूपत्वात्तस्य प्रमातुरेव सर्वं प्रमेयमाभाति यतः तस्मात् स
प्रमाता कस्य चिदपि इदन्तया ना भासत इत्यर्थः । ततश्चेति । तयोः
कालदेशक्रमयोः प्रमेय रूपाभासविषयत्वात् तौ कालदेशक्रमौ
प्रमातरि अहमभवं भवामि भवितास्मि गृहे तिष्ठाम्यरण्ये
तिष्ठामि देवगृह इति कथं दृश्यते ।
तस्मिन्कालदेशक्रमयोरूपपत्तिरेव नास्ति । किञ्च स्वयं
देशकालक्रमं शून्यस्येति स्वयं सर्वत्र व्याप्तत्वात् सर्वतो
दितत्वाच्चोक्तलक्षणदेशकालक्रमशून्यं किं नीलपीतादि
दूरमन्तिकं च कालस्यापि स्वयमेव प्रकाशकत्वात् तत्कालविशिष्टं
स्वव्यतिरिक्तं किं वस्तु वर्तमानमतीतं भाविवेति तत्परिपूर्णं
प्रमातारमाश्रित्य स्वात्मन्येव दूरदेश कालक्रमकृतं
दूरत्वादिभूतत्वादिवान सम्भवति । तदेतदिति । देशकाल
क्रमस्वरूपं विश्वपूर्णे विश्वतोदिते परमार्थप्रमातरि नघटते ।
किन्तु परिमितदेशादि प्रमातृष्वेव घटत इति समर्थयितु माह -
सर्वत्रेति । अनेक सामान्यसमुदायात्मकं स्वलक्षणात्मतया एकैक
रूपेषु तत्तत्काञ्चनादि सामान्यात्मानेकरूपेषु
भावेष्वप्ययमतीतमित्यादिभूतादिरूपेण वर्तमानः यः
कालक्रमस्तस्या कारः उत्पत्तिभूमिरिति । क्रमाभेदाश्रयो
भेदोऽप्याभास सदसत्वतः । (३०२)इत्यत्र प्रदर्शितः । एकस्य
सद्भावेनान्यस्या सद्भावेन कृत आभास भेदः सकालक्रमाकार
आभास भेदः दुर्बलोऽहं प्रबलोऽहं सुख्यहं दुःख्यहं
शून्योऽहं ——————– ति प्रमाभावस्य विच्छिन्नत्वात्
एतद्दुर्बलादि प्रमात्रवस्था स्फुरणे स्थूलोऽहमिति प्रमातृ भावोऽपि
विच्छिन्न इत्येवं विच्छिनाभासस्य शून्यप्राणबुद्ध्यादेर्भवेत् ।
सकृद्भातस्येति । विच्छिन्ना ——————— स्थूल
देहाभासरूपोऽहमिति तः युवा देहाभासरूपो भवामि इत्यादि
रूपेण स्वात्मनि सम्भाव्यते । किं च तस्याभास भेदस्य
सम्भावनैव नास्ति चेत् सम्बन्धिषु भावेष्वपि स्वात्मनीव
सकालक्रमाकार आभास भेदोऽस्ति । योऽहं बालोऽभूवं त ————
—— ब सहचारी घटाद्याभासो भवदित्यादि रूपस्य
स्वाक्षभावेष्वपि
प्। २३७) नास्ततापके वपुषीश्वर निर्भरेचित्सुधारसमये निरत्ययः
इत्युक्तनीत्या -स्थूलरूपेषु भावेषु प्रमाता कथ्यते पतिः ।
इति वक्ष्यमाण नीत्या भावानां तस्य योङ्गत्वेन स्फुरणात्
मितात्मनः प्रोक्त रूपस्य प्रमातुः कालक्रमवत् देशक्रमोऽपि
इहतिष्ठामि अरण्येतिष्ठामि इत्यादिरूपेण स्वात्मनि नास्ति
स्वापेक्षयायं भावोदूतोवर्तते अयमदूर इति भावेष्वापि प्रकाशतो
अभितस्थ तु परिच्छिन्नस्य प्रमातुर्भावाः स्वात्मनाहं भावेन यतो
भान्ति ततः स्वात्मैव पूर्णास्वात्मतयैव भान्ती त्यर्थः । तुरेवं
भूत प्रकाश विशेषद्योतकः । एतत् श्रीक्षेमराजविरचिते ईश्वर
प्रत्यभिज्ञा हृदये दर्शितम् । उत्तीर्णमिव भट्टारकस्य
प्रकाशैकवपुषः प्रकाशैक रूपाभावा इति । सर्वत्रेति । सर्वेषु
वस्तुषु एकानेक स्वरूपेषु स्वलक्षणात्मत्या एकरूपेषु
तत्तत्काञ्चनादि सामान्यात्मतया नैकरूपेषु इदमतीतमिदं
वर्तमानमिदमनागतमिति विजृम्भमाणोऽयं कालात्माक्रमः । तस्य
क्रमस्य य आकारः उत्पत्तिनिबन्धनमिति क्रमो भेदाश्रयः भेदोऽपि
आभास सद्सत्वे च चित्राभासकृतः प्रभोः । इत्यत्र सूत्रे व्याख्यातः ।
आभासस्येति । शरदादेर्भावाभावकृत इति शरदो भावेन हेमन्तस्या
भावेन कृतो यो भेदः सकालक्रमाकरः आभास भेदशून्य
प्रमाणबुद्धिदेहादेः प्रमातुर्भवतीति सम्भाव्यते । शून्यादिः
परप्रमातुस्तावद्विच्छिन्नाभासः विद्याच्च विच्छिन्ना भासः
अन्योन्यं च तस्य विच्छिन्नाभासस्य शून्योऽहमिति भासनं नास्ति ।
तस्य प्रमातुर्भासनं संविन्मयं भासनं स्वरूपं सहजं न
भवति । नीलादिवत् जडत्वात् अस्य प्रमातुः संवित्स्फुरणमेव भासनं
तस्य भासनस्य विच्छेदमेवप्रथयति - तद्भासनमस्य प्रमातुर्यदा
नास्ति यथा सुप्ते शून्य प्रमातृ तायां देहस्य शून्योऽहमिति
भासनं नास्ति तस्य प्रमातुस्संसारयात्रा पतित्वे शून्योऽहं
दुर्बलोऽहं दूषितोऽहमित्याहि प्रतिभासनं नास्ति । इत्येवं विच्छिद्येति
तस्मिन् शून्यादौ प्रमातरि उक्तरूपाभास सद्भावासद्भाव कृतः
कालक्रमोऽस्ति । तदेव दर्शयति - बालदेहा
प्। २३८) रूपोऽहमतीतः भवामि युवदेहाभासरूप इति सशून्यादि
रपरिपूर्णादहं भाव समावेशात् यतः प्रमाता अतः
परिपूर्णाहं भावः स्वरूपसमावेशात्मक
प्रमातृतत्वेनोद्रिक्तकाल क्रमत्वात् स्वात्मनीव स्वविषयेषु भावेष्वपि
काल क्रममाभासयति । योऽहं बालोऽभवं तत्सहभावीय
घटाभासोऽप्यभवदिति सकृद्विभातम् । अविरतं प्रकाशमान
इत्यनया वायो युक्त्या संविद्रूपः प्रमाता यः कालक्रमो न भवति
तस्य स्वात्मनि तदपेक्षया भाव जातोऽपि न भवति । तद्वेद्य भावं
तत्र प्रमातर्यभेदेन स्वाङ्गत्वेन भातीति एकश्लोकार्थः ।
एवं परिमितस्य प्रमातुः स्वात्मनि भावेष्वपि कालक्रमोऽस्ति ।
अपरिमितस्य (३०४) स्वात्मनि भावेष्वपि च नास्तीति प्रतिपाद्य
देशकालक्रमोऽपि परिमितस्यैव प्रमतुस्तद्विषयेषु च भवति । न
त्वपरिमितस्य स्वात्मनि विषयेषु च नास्तीत्याह - एवं देशक्रमोऽपीति ।
मूर्तिवैचित्र्यत इत्यादि उक्तरूपो देशक्रमोऽपि परिमितस्य शून्य
प्राणबुद्धिदेहरूपस्य प्रमातुः इह देवगृहेतिष्ठामि
अरण्येतिष्ठामीति स्वात्मनिभाति स्वापेक्षया यद्वेद्यं
ममसंयोगेन परिमित्येन सामिप्ये नवतते तदन्तिकमितरद्दूरमिति
भावेष्वपि देशक्रमोऽस्तमितस्य तु स्वरूपे यत्ताशून्यस्य
शिवादिक्षित्यन्त विश्वपूर्णस्य संवित्तत्वस्य भावाः स्वात्मना
अहमहमिदमित्युक्तनीत्या अहं भावेन यतो भान्ति ततः पूर्णः
अपरिच्छिन्ने स्वरूपे यत्ताकाः पूर्णाहं भाव स्वरूपाः । अत्र हेतुः
अमितस्य स्वात्मा तथा भूतः अपरिच्छिन्नेस्वरूपे यत्ताक इति अपरिच्छिन्ने
यत्ताकेन स्वात्मना सह स्वात्मैवभान्ति इदममित प्रमातृतत्वं
गृहमित्यन्यत प्राङ्कणमित्यन्यत् इत्युक्तरूपामूर्तिः आदित्यादि
सञ्चारात्मक क्रियातः तत्कृतात् कालतस्तास्मिन् तत्त्वे सर्वं
नीलपीतादिकं वस्तु सर्वतः पूर्णं संविन्मयत्वेनैकैकस्य वस्तुनः
संविद्वत् सर्वात्मकत्वात् । इह क्रियाप्रसङ्गात् कालक्रमः प्राकरणिकः
क्रियाशक्तिनिरूपणप्रकरणे क्रियाविजृम्भात्मकत्वात् आदौ
निरूपयितुं योग्य इति कालः सूर्यादिसञ्चारः इत्याद्युक्तम् ।
कालक्रमप्रसङ्गात्तद्दृष्टान्तत्वेन देशक्रमोऽपि
प्। २३९) मूर्तिवैचित्र्यत इत्यादिना निरूपितः । दृष्टान्त
दार्ष्टान्तिकयोर्मध्ये दृष्टान्तस्तु पूर्वं वाच्य इति नीत्या
वैचित्र्यनिरूपणावसरे देशक्रमस्य कालक्रमात् पूर्वमेव
मूर्तिवैचित्र्यत इत्यादिनादेशक्रमस्य स्वरूपं प्रदर्शितम् ।
पश्चात्क्रिया वैचित्र्यनिर्भासादित्यनेन दार्ष्टान्तिकरूपः
कालक्रमोऽपि दर्शितः । उपसंहारेतु सर्वत्राभासभेद इत्यनेन
प्राकरणिकस्य कालक्रमस्यादौ निर्देशः । अनन्तरं देशक्रमोऽपि
भावेष्वित्यनेन प्रासङ्गिकस्य देशक्रमस्यापि निर्देशः कृतः ॥
नन्वेवमिति । सर्वत्राभासभेद इत्युक्तनीत्या विच्छिन्नाभासः
प्रमातृसम्बन्धीकालक्रमे अविच्छिन्नाभासे प्रमातरि न भवति चेति
तस्मिन् क्रियापि नास्तीत्यायातम् । तस्याः
कालक्रमाश्रयत्वादित्याशङ्क्यैवम्भूत विच्छिन्नाभासं
प्रमातृतत्प्रमेय भेदावभासनमेव तस्य क्रियाशक्तिरित्याह - तथा
विज्ञातृविज्ञेय भेदो यदवभास्यते । इति । तथेति
देशक्रमकारिणामूर्तिभेदेन कालक्रमकारिणाक्रिया
भेदेनोपलक्षितः विज्ञातृविज्ञेय भेद इति विज्ञातृशून्यादेः
प्रमातुः अन्योन्यते घटादेश्च अहं चैत्र एव नमैत्रो न घट इति ।
एवं घटादेरपि अयं घट एव न पटः न चैत्रः इत्यन्योन्यतः
प्रमातुश्चयो भेदः तस्य द्विविधस्य भेदस्यावभासनं यत् ।
अवभासनं नाम परमेश्वरस्यैवं भूत विज्ञातृविज्ञेय
भेदावभासने च्छाया सा ई शितुरपि निर्माणशक्तिः क्रियाशक्तिः । न
केवलं शून्यादिप्रमातृ प्रमेय सम्बन्धिन्येव क्रिया भवति ।
तदुभय निर्मातुरी शितुरपि सम्बन्धिनी किं चैवं विदुष इति । एवं
स्वनिर्मितं ज्ञातृज्ञेयं भेदं स्वभित्तौ संस्थाप्य स्वयमेव वेत्ति
स्वस्मिन्नेवतस्यास्फुरणादित्येतद्वेदनमपि तस्य क्रियाशक्तिः ।
घटादिग्रहकाले त्वित्युक्त नीत्या वेदनस्यापि क्रियामयत्वात् परमेश्वर
एव शिवादिक्षित्यं तस्य विश्वस्यावभासिता वेत्तेति चायातम् । किन्त्विति ।
भगवत्येवं भूतद्विविधक्रियाशक्तिविशेषद्योतकम् । इहेति ।
अस्मिन्ननुत्तरदर्शने तत्त्वतः सदाशिवादीनामपि (३०६)
कारणभूतस्यशिवादि क्षित्यन्ततत्वग्रामे अप्रतिहत स्वातन्त्र्यरूपा
अपरिच्छिन्न
प्। २४०) ब्रह्मादिस्वातन्त्र्यविलक्षणत्वात् देशकालशून्यत्वात्
विश्वव्याप्तविश्वतोदिताविच्छिन्नस्वात्मविमर्शमयी अन्तः
कृतानन्तविश्वनिर्भरत्वात्स्वव्यतिरेकेण
कस्याप्यभावादनन्योन्मुखता रूपे च्छैव क्रियेति । एवमिच्छैव
हेतुता कर्तृता क्रियेत्यधिकारे उपसंहरिष्यते । माया पदेऽपीच्छायाः
क्रियात्मकमेवोपपादयति । चैत्रमैत्रादेः प्रमातुरपि
इन्धनचुल्यादिसम्पादनात् पूर्वमेवान्तः पचामीति या इच्छा जायते
सैवोदनपाकादिस्पन्दन पर्यन्तीभूतत्वात् क्रियेत्युच्यते ।
तत्रतुतदिच्छाविच्छेदात्मकः क्रमोनकश्चिददृश्यते । एवमिति । चैत्रादेः
पचनक्रियाक्रमाभावात् परमेश्वरस्यापि शिवादिक्षित्यन्त
विश्वनिर्माणे ईशे निर्माता भवामि तादृग्विध विश्वात्मना भासे
तस्य भासयितास्मित द्विश्वमन्तः संहृत्यस्फुरामि । सदा
त्रिभुवनाहार तृप्ताय भवतेनमः ।
इत्युक्त नीत्या स्फुरामि पूर्णे पूर्णत्वात् आनन्दघन तया
समुच्चलत्तया स्पन्दे एवं भूतमात्मानं प्रत्यवमृशामि आत्मनः
संस्कार शेषतया स्थितं विश्वात्मत्वे नामृशामि विमृशामि इति
सृष्ट्यादि पञ्चकृत्य
परमार्थतत्त्वमित्येतावन्मात्रतत्वमिच्छात्मकं विमर्शनं यत् तत्र
न कश्चित् क्रमः, प्रमातृ प्रमेय क्रम उल्लसतु इत्यमुनापारमेश्वरेण
वाक्येनैतद्विमर्शनमेवोच्यते । तत्रापीति । पारमेश्वरे विमर्शने चैत्र
मैत्रादि वचनात्मक विमर्शवन्न कश्चित् क्रमः । यथा पचमिति
इच्छात्मकं विमर्शनं चुल्लिसम्पाद्याद्योदनपाकपर्यन्ता
स्पन्दनात्मताङ्गतं मध्ये तद्युल्लीसं पादनादिक्रमेणोप ———–
- तथा भगवदिच्छापि शिवादिसकलान्तप्रमातृमनीषाषुद्युपस्थान्त
प्रमाणशब्दादिगन्धादि सूक्ष्म व्योमादिकमित्यन्त
स्थूलप्रमेयवर्गभेद पर्यवसिता इत्यनेन निर्माणरूपा क्रियाशक्ति
रुक्ता । तत्पर्यन्ततां प्राप्ता तत्प्रमातृप्रमाणप्रमेया क्रमे
वेदनरूपाक्रियाशक्तिरुक्ता । तत्क्रमोपश्लोष्टाभाती त्यत्र
दृष्टान्तमाह- दर्पणतलमिवेति । यथास्वान्तः प्रतिबिम्बरूपेण
विततं प्रवाहता नदी प्रवाहक्रमेण समश्लिष्टं भाति इत्यनेन
दृष्टान्तेन भगवते निर्मितः प्रमातृ प्रमाणप्रमेयात्मकः
प्रपञ्चः भगवतो त———— विम्बरूपतया भातीत्यर्थः ।
प्। २४१) (३०७) यद्वक्ष्यति- चेतनो हि भावान् स्वात्मनि
प्रतिबिम्बवदाभासयतीति सिद्धान्तः । इति दर्पणस्य जडत्वात् स्वात्मनि
तन्नदीप्रवाहक्रमवर्तनसामर्थ्यरूपेच्छा न भवति । किञ्च
दर्पणस्तस्मिन् प्रवाहं नदीप्रवाह क्रममपि न जानाति । अत्र
नैर्मल्यमात्रमवलम्ब्य दर्पण दृष्टान्तः । परमेश्वरस्य तु
शिवादिक्षित्यन्त निर्माणसामर्थ्यरूपा तत्स्वनिर्मित
विश्वप्रतिबिम्बनक्रियोपरागवेदनात्मिका इत्युभयथा
इच्छारूपाक्रियाशक्तिः । एवं कालक्रमवत् देशक्रमोऽपि भगवत एव
मूर्तिवैचित्र्यरूपं निर्माणं तन्निर्मित देशक्रमोपराग
वेदनञ्चास्तीति वाच्यम् । तत्र क्रमरूपयोपरागवेदने अन्यैरिच्छैव
ज्ञानशक्तिर्भवतीत्युच्यते । इह अस्मिन् दर्शने । घटादिग्रहकाले तु
घटं जानाति सा क्रिया । इत्युक्त नीत्या सा दृक्छक्तिः क्रियाशक्त्यैव
स्वीकृता क्रियाशक्तिरेव ज्ञानशक्तिः सैवेच्छाशक्तिरिति पिण्डार्थः ॥
अक्षरार्थस्तु तथेत्यादि । ततोऽपि तस्य
क्रियाशक्तिरित्यन्तग्रन्थार्थः अन्वये दर्शितः । अत इति । सत्यप्रमातरि
भगवति कालक्रमा भावेन भासनविच्छेदयोगात् क्रमाश्रया
क्रियास्थूलदृष्ट्या यद्यपि भवेत् क्रियानुपपत्तिशङ्का । किन्त्विति ।
तथाप्येवमिति क्रमरूपक्रिया निर्माणसामर्थ्येन
क्रमरूपक्रियोपरागवेदनेन च क्रियोपपन्नेति शिवम् ॥
इति प्रत्यभिज्ञा सूत्रविमर्शिनी व्याख्यायां नवममाह्निकं
सामाप्तम् ॥
अथ दशममाह्निकम् ॥
विरोधमित्यादि भावानां सम्बन्धि प्रमातृ प्रमेयात्मनाम्
स्वात्मन्येकैकरूपाणामपि देशकालाकार सम्भिन्नत्वेन भेदं स
एवायमिति प्रत्यभिज्ञाविषयत्वादभेदम् । एवं भूत भेदाभेद
कृतं चैकस्यानेकतारूपं पुनर्विरोधं पुनस्तस्यैवानेकस्य
प्रत्यभिज्ञाविषयैकतारूपमविरोधञ्च -
या सा शक्तिर्जगद्धातुः कथिता समवायिनी ।
इच्छा त्वं तस्य सा देवी सिसृक्षोः प्रतिपद्यते ॥
इत्युक्त नीत्या अविनाशिन्या स्वव्यतिरिक्तया पराभट्टारिका स्वरूपया
इच्छाशक्त्योपपादयन् स्वात्मनि स्वभित्तौ विश्वमुन्मीलयतीत्युक्तनीत्या
स्वात्मन्येवोन्मीलयन्मन्त्रतत्वविदिति घट
प्। २४२) गता भासः भेदाभेददृष्टिरेव परमार्थाद्वयदृष्टि प्रवेशे
उपायः समवलम्बनीयः । न तु व्यवहारोऽप्ययं
परमेश्वरस्वरूपानुवेशविरोधीति वक्ष्यमाण नीत्या स्वयं
विश्वोत्तीर्णविश्वमयतया एकानेकरूपत्वात्स्वाङ्गभूतानां
भावानामपि सम्बन्धि एकानेकात्मक स्वस्वरूपमयं
पूर्णाहन्तारूपं मन्त्रतत्वं वेत्तीति क्रियाशक्तेरेवायं
सर्वोविष्फारः इति वक्ष्यमाण नीत्या तदेव तद्विकास भूतस्य तं
शिवं स्तुमः ॥
यदुक्तम् । किन्तुनिर्माणशक्तिः सा इत्यनेन भगवतो निर्माण
शक्तिरप्रतिहतस्वातन्त्र्येति । तदेव निर्माण स्वातन्त्र्यमेव
क्रियाशक्तेरेवायं सर्वोविष्फार इति वक्ष्यमाण नीत्या
तद्विकासभूतस्या प्रतिहत स्वातन्त्र्येमेवा न हि नित्यानुमेयेन
कश्चिद्व्यवहार इति पूर्वोक्त नीत्या नित्यानुमेय बाह्यार्थ
वादिदर्शनानुपपद्यमानस्य (३०९) क्रियासामान्यादि पदार्थराशेः
समर्थनमुखे निर्वाहयितुं क्रियासम्बन्धेत्यादि
श्लोकसप्तकेनाह्निकं प्रस्तूयते ॥
तत्र प्रथमश्लोकेन तत्रैकमान्तरं
तत्वमित्यादिश्लोकषट्कसूत्रकल्पे नैकानेक वस्तुनिष्ठत्वात्
स्वयमप्यनेक रूपस्य क्रियादेर्बाह्यवाद एकं चेदनेकं न भवति ।
अनेकं चेदेकं न भवति इति
विरुद्धधर्माध्यासदूषणेनानुपपद्यमानस्यापि वपुरव
इयमर्थनीयमिति प्रदर्श्यते द्वितीयेन । तत्य्रैकानेकवस्तुनिष्ठे
क्रियादावेकानेक स्वरूपोपत्तिः सूच्यते तृतीयेन । घट चैत्रादि प्रमेय
प्रमातृ दृष्टानां क्रियादीनां परमार्थ सत्यत्वेन
निर्विकल्पकसंवेदनसंवेद्यत्वेऽपि विकल्पकाल एव स्फुटमेषां
रूपामित्युच्यते चतुर्थेन । एषामान्तरेकत्वं बहिरनेकत्वं
पञ्चमेन बहिरेवैकानेक रूपत्वमित्येकानेकताया विभागश्चिन्त्यते ।
तत्राप्यन्तरेकत्वं स्वत एव सिद्धं षष्ठेन क्रियासम्बन्धेति
प्रथमसूत्र सूचितसम्बन्ध स्वीकृतानां
क्रियाकारकभावादीनामिति कारक सप्तक व्यापिनी, क्रियाकारक
भावात्मनः सम्बन्धस्यादि
शब्देनावध्यवधिमद्भावान्वयालम्बयोर्दिक्कालबुद्ध्यात्मनोः
सम्बन्धयोः स्वरूपमुच्यते सप्तमेन क्रियादीनां
घटादिवदर्थक्रियायामुपयोग उच्यत इति सङ्क्षेपः ॥
नन्विति । किन्तु निर्माणशक्तिस्सा इत्यनेन विचित्र विज्ञातृविज्ञेय
प्। २४३) भेदाभासनरूपा भगवतो ज्ञानक्रिया निर्माणशक्तिरुक्ता ।
तथा यन्निर्मीयते तस्य निर्मीयमाणस्य वस्तुनः प्रमातृ प्रमेय
वैचित्र्य क्रम उल्लसतु । इति वाक्यनीत्या अवभासतैव निर्माणं नान्यदिति
प ———— भकारादिवत् विश्वनिर्माणे करचरणादिव्यापारान्तरं न
(३१०) सम्भवतीत्येव । सा चेति । निर्माणरूपानुभवभासनात्
द्विचन्द्रादेरपि तथैव प्रकाशमानत्वात् । अस्तिनीलादेरपि
नीलादिनिष्ठस्य क्रियासम्बन्ध सामान्यादेरप्यास्ति । ततश्चेति ।
अवभासनासाम्यात् द्विचन्द्रा ———————————- दौ च क्रमेणा
सत्यं सं प्रतिसत्यमिति यो व्यवहारः सकथं सङ्गच्छेतेति । एषां
त्रयाणामपि निर्मेयत्वाविशेषादित्याशङ्क्य नीलादीनां तावत्
सत्यत्वं नीलादेः सत्यत्वं सर्ववाद्यभिमतमिति निश्चित्य
क्रियादेर्विज्ञानवाद्यभिमतमसत्यत्वं नोपपन्नमिति वदन्
द्विचन्द्रादीनां त्वित्थमिति वक्ष्यमाणप्रकारेण सत्यत्वमिति
सूचयन्नाह - एकानेक वस्त्वाश्रयाः सम्बन्ध
सामान्यद्रव्यादिक्कालबुद्ध्यः स्थैर्थोपयोगाभ्यां सत्यामताः
स्थैर्योपयोगावित्यनेन द्विचन्द्रादेः स्थैर्योपयोगाभावादशक्यत्वं
सूचितम् । अत्र स्थैर्यं नाम देवदत्तो गच्छतीत्यत्र
ग्रामप्राप्तिपर्यन्तं द्विचन्द्रादि परामर्शवन्मध्ये
विच्छेदाभावः ग्रामप्रप्त्यादिरर्थक्रिया तस्यामुपयोगः
काञ्चनघट इति घट प्रतितिपर्यन्तं काञ्चनत्वशुक्लगुणः
स्रुतनुस्सूत्यादिसम्बन्धव्यस्थैर्यमुपयोगः ममघटः काञ्चन
इत्याह्लादकत्वम् । एवं सामान्योदरपि द्रष्टव्यम् ।
यत्र विश्रान्तिमासाद्येत्युक्तनीत्या शिवादिक्षित्यन्त विश्वविचित्र
सृष्ट्यादिक्रीडाविजृम्भितहेतु क्रियाशक्तिविश्रान्तिभित्तिभूतात् ।
चित्तत्वादन्यत्र मायापदे चैत्रो ब्रजति तण्डुला विक्लिद्यन्ते एघो ज्वलतीति
कर्तृकर्मकरणादिषु वर्तमाना या क्रियाबुद्धिस्तस्यां क्रियाबुद्धौ
एकानेकाश्रया मता इत्युक्तनीत्या एकानेकरूपं
चैत्राद्यर्थालम्बनं चैत्राद्यर्थस्यैकानेकत्वमेव प्रतिपादयति
तथा हीति । व्रजंश्चैत्र देहः तत्तद्देशकालाकारभिन्न तयानेकोऽपि
स एवायमिति प्रत्यभिज्ञा विषयाः एकरूपतामपरित्यजन्नेव निर्भासते
क्रियायास्तदेकानेकरूप चैत्र देहात् स एव चैकानेक रूपोऽर्थः
क्रियेत्युक्तम् । एकानेकरूपचैत्रदेहाश्रयत्वात्
प्। २४४) स्वयमत्येका नेकरूपा न तथैवेति गच्छन्तमेकानेकरूपं
चैत्रदेहमवलम्ब्य क्रियाबुद्धिरेकानेकरूपत्वेन प्रतिभासनात्
पारमार्थिकी सत्या । द्वि चन्द्रादि तु तथा भासमान मपीति । अक्षिदोषात्
द्विचन्द्रत्वेन भासमानमप्युत्तरकालं द्विचन्द्रोदयमिति प्रमाण
व्यापारानुवृत्तिरूपस्य स्थैर्यस्य द्विचन्द्रोनास्तीत्येवं रूपेण
केनचिदुन्मूलनेनासत्यम् । इहेति । क्रियाबुद्धौ पुनश्चैत्रश्चलतीत्येवं
भूतोऽनुवर्तमानो विमर्शः द्विचन्द्रादिवन्मध्ये न चलतीति
केनचित्प्रमाणेनोन्मूल्यमानो संवेद्यते । द्विचन्द्रादि तु
द्विचन्द्रदृष्टे रक्षिदोषातस्तदानीं भवादनेनायं
द्विचन्द्रस्तिमिरवशादुपप्लुतनयनः परमे वं वेत्तिति
वक्ष्यमाणनीत्या पश्चाद्भाविन्मुद्वेजने च यद्युपयोगि ।
अथवा - तदानीमेवतद्द्विचन्द्रं द्रष्ट्वसमपि वर्तिनो
बन्धुजनस्यायमेव मुपप्लुतनयनो जात इत्युद्वेजने द्विचन्द्रमानी तु
तत्र चन्द्रालोकनेनाध्यवस्यति । अपरेणैकचन्द्रक्रियमाणार्थ
क्रियाधिकारत एव द्विगुणमर्थक्रियां तत्र द्विचन्द्रालोकने
नाध्यवस्यतीति तस्यां द्वितीययामर्थक्रियायामसौ
द्विचन्द्रोनोपयुज्यते । व्रज्यायां तु गमनक्रियायां चैत्रो यामेव
ग्राम प्राप्तिरूपार्थक्रियामध्यवस्यति द्विचन्द्रप्रतीतिवन्नायं
द्विचन्द्र इति मध्ये वैकल्परहितायां ग्रामप्राप्तावस्याः
प्रव्रज्यायाः उपयोग इति स्थैर्यादुपयोगाच्चैकानेक
चैत्रादिवस्त्वाश्रयत्वादेकानेकरूपक्रियातत्वावलम्बना बुद्धिः
स्थैर्योपयोगादेतत् सत्यत्वं सम्बन्धादिकालपर्यन्त बुद्धिषु
वाच्यमुत्तरकारिकासु स्फुटी भविष्यति ।
(३१२) नन्विति । यस्य कस्यचिद्वस्तुनः
परस्परविरुद्धयोरेकत्वानेकत्वयोः सद्भावेऽङ्गी क्रियमाणे
एकस्यानेकत्वं बाधकम् । अनेकस्यैकत्वं
बाधकमित्येकत्वानेकत्वयोर्बाधक प्रमाणकृत
स्थैर्योन्मूलनप्रकार इत्याशङ्क्य तत्परिहर्तुमाह - तत्रेति । तेषु
क्रियादिषु । तत् प्रमाणभूतम् । आन्तरमन्तर्मुखरूपं तत्वम् । एकं
तदेवेन्द्रिय वेद्यतां प्राप्य ॥ इहामुत्रेति देशतः अधुना तदानीमिति
कालतः कृशः स्थूल इत्यादि स्वभावतः सा कलितं अनेकतां याति ।
तत्रेति । तेषां सत्यत्वे स्थिते सति । तत्रेति । तयोरेकत्वानेकत्वयोर्मध्ये
एकत्व मेव मनेकत्वमिति वक्ष्यमाण प्रकारेण योजनम् ।
प्। २४५) देशाद्याभास मिश्रताया मन्तः करणैकवेद्यत्वे
चिन्मात्रतायां चानेकत्व माभासान्तर मिश्रतायामुभय करण
वेद्यत्वे चिदतिरिक्तता भासने चेति एकानेकत्वयोः स्फुटो न विषयभेदः ।
एकानेकवस्तु निष्ठायाः क्रियाया एकानेकत्वं सत्यमिति
व्यतिरेकदृष्टान्तमुखेन दर्शयति । इह चैत्रमैत्रादेर्गमनक्रियायां
चैत्रे चलति दृष्टे अयं चैत्रः न चलतीति बुद्धिर्नजातुचिज्जायते ।
तस्माच्चलतश्चैत्रस्य तत्तद्देशकालाकार विशिष्टत्वादनेकत्वं स
एवाय मिति प्रतिभासादेकत्वमित्येकानेकरूप चैत्राश्रितत्वात्
सम्बन्धिनी क्रियाप्येकानेकरूपा । एवं भूत रूपा
क्रियाबुद्धिगन्तव्य प्रदेशप्राप्तेः पूर्वमेव मध्ये रजतमिति
निवर्त्यते । तथा नैषा ——————————— पुनरपि
व्यतिरेकदृष्टान्तेन दृढीकरोति - रजत बुद्धिवत् द्विचन्द्रेऽपि नायं
द्विचन्द्रस्तिमिरवशादहमुपप्लुतनयनः परं केवलमेव
द्विचन्द्रमिति वेद्मीति द्व ——————————— (३१३) लनं भवति ।
भवता एकमेव कथमनेकं भवतीतियत्तूक्तं तत्र प्रश्ने
एकस्यानेकभवनप्रकार उच्यते । अङ्कुरादिं प्रतिकरणभूतं
बीजाद्येवघटादिं प्रतिकथं कारणं भवति । अथोच्यते
विषयभेदात्तथेति बीजहेतुरङ्कुरोऽन्यः मृज्जन्यो ————————-
त्येवं स्वस्वकार्यरूपयोर्विषययोर्भेदात् बीजमङ्कुरस्यैव कारणं
नद्यटस्येत्युच्यते चेत्तर्हि उक्त लक्षण भेदे एतदिति बीजस्याङ्कुरं
प्रतिकारणत्वं घटादिं प्रत्यकारणत्वं च न विरुध्यति ।
अयमवसरः समयः केन वितीर्णः बीजादेः काराणाकारणता
परामृष्टबीजमङ्कुरं प्रत्येव कारणं भवति । न तु घट इत्येवं
भूतेन स्वानुभवेति चेत् चलतीत्यादावपि चलतो देवदत्तस्य
तत्तद्देशकालाकारभिन्नत्वादनेकत्वं स एवायानिति
प्रत्यभिज्ञाविषयत्वादेकत्वमिति वस्तुत एकत्वानेकत्वे
स्वसंवेदनमेवास्माभिः प्रमाणीकृतमिति किमिति न सह्यते । अत्रै
कत्वानेकत्वे विषयभेदोऽपि वक्तुं शक्यत एव । तथा हि -
देशकालादीनामाभासान्तरेणासंवेदने
तच्चैत्रादिरूपमेकाभासमात्रम् । अत एवेति ।
एकाभासमात्रत्वादेवेशापेक्षायोगात् अनुवर्तमानमविच्छेदेन
स्फुरन् आन्तरमन्तर्मुखम् तथा भूत इति ।
देशाद्यविशिष्टैकाभासमात्र ग्रहणोचितान्तः करणवेद्यतया
प्। २४६) चान्तरं तथा विधान्तर्मुख स्वरूपा परिच्युते स्तत्वं
परमार्थभूतम्, किञ्च
गुणादि स्पन्द निष्यन्दाः सामान्यस्पन्द संश्रयात् ।
इत्युक्तनीत्या सामान्यस्पन्दरूपत्वेन
निखिलव्यक्तिरूपाभासान्तरयोगेन तन्न सहिष्णुत्वाच्च तत्त्वं
सर्वानुस्यूतमेकमिति च प्रतीयते । तदेवेति । एषामान्तरं तत्वमेव
इहामुत्रेति देशाभासेनाधुना तदानीमिति कालाभासेन कुशः स्थूल
इत्यादिना स्वभावाभासेन च मिश्रीभूतम् । अत एवानेकमिति
बाह्येन्द्रियवेद्यतायां (३१४) प्रतीयते । किं च
स्वामिनश्चात्मसंस्थस्य इत्यत्र सत्स्वामिवदेकमविभक्तं
तादृग्विधं विश्वमेवान्तर्विपरिवर्तिनः उभयेन्द्रियवेद्यत्वमिति
वक्ष्यमाणकार्यकारणभावतत्वदृष्ट्येति वस्तुन एकानेकत्वे पुनरपि
स्पष्टीकृत देशकालादि ————————-
स्यैवैकत्वमाभासान्तरमिश्रतायमित्यादिना स्फुटो विषय भेद
इत्यन्तेन ग्रन्थेन वस्तुन एकत्वानेकत्वे दृष्ट्या पुनरपि विषय ————-
———— तथा त्वं सहजमेकत्वं तदेवेदमिति प्रत्यभिज्ञा न
बलादेव यथा बीजात्मनः कारणाकारणवदुपादानसहकारि वदिति
श्रथैकस्यैव बीजात्मनो वस्तुन अङ्कुरं प्रतिकारणं द्यटादिं
प्रत्यकारणत्वमिति कारणाकारणात्मकं द्विरूपं प्राप्तम् ।
किञ्चैकस्यैवमृदात्मनो वस्तुनः घटं प्रत्युपादानत्वमङ्कुरं
प्रतिसहकारित्वमिति द्विरूपं प्राप्तं तद्वदेकस्यैव वस्तुनः
अन्तरन्तःकरणैकविषयत्वादेकत्वं
बहिर्देशकालाकारकलितत्वेनानेकत्वं इत्येकत्वानेकत्व विरोधो न
बाधकः ।
अथ बीजमङ्कुरं प्रतिकारणं घटादिं प्रत्यकारणम् ।
आदिग्रहणात् घटं प्रत्युपादानकारणमङ्कुरं प्रतिसहकारि
कारणमित्येतादृग्व्यवहार मात्रं न वस्तु स्वरूप परामर्शं तत् ।
तर्हीह माया पदेऽपि वस्तुनश्चिन्मयत्वेऽपि अन्तरेकं बहिरनेकं
नीलं पीतमविकल्पकं सविकल्पकमित्येकानेक
नीलपीताविकल्पसविकल्पकः ज्ञातृज्ञानादिकं सर्वं
व्यवहारमात्रमिति भवदुक्तमस्मदुक्तं च सर्वं समानम् ।
तदेतदिति । एकानेकत्वं तदेवेन्द्रिय वेद्यतामित्येवकारेणोक्तं तदेव
विवृणोति - तत्रेति । तेषु पूर्वोक्तेषु क्रियादिषु यदान्तरं तत्वमिति
तदाश्रयभूतमहन्तारूपमेकं तत्वं यत्तदेवेन्द्रियवेद्यतं ।
प्राप्य देशादिभेदवद्बहिरेकतां यतीति सम्बन्धः ।
प्। २४७) तत्रेति वा सत्यत्वे स्थित इत्यादि इति वा योजनेत्येतदन्तमन्वय एव
दर्शितम् ।
(३१५) नन्विति । अन्तर्बहीरूपतया एकानेक
त्वयोर्विषयभेदेऽभ्युपगम्यमाने तद्वस्तु यदैकमिति प्रतिभाति तदैव
नानेकं भाति । तस्यैवा नेकत्वेन प्रतिभासे यदा तदेवा नेकत्वेन
प्रतिभाति तदैकत्वप्रतिभासो नास्तीति कथं वस्त्वेकानेकरूपं स्यात् ।
एकस्यचिद्वस्तुनः एकानेकत्वे गृह्यमाणे सति युगपदेवैकत्वानेकत्वा
भावादेकानेकत्वं न भवतीत्यर्थः ।
तदेव प्रतिपादयति - तथाहीति । गच्छंश्चैत्र केवलं
बाह्येनेन्द्रियेणैव तत्तद्विचित्रदेशगोऽनुभूयते ।
तस्मिन्नेकास्मिंश्चैत्र देहेऽनेकत्व हेतु
भूतदेशकालाद्याभाससम्मिश्रीकारं
प्रतिवस्तुमात्रप्रतिभासरूपस्यदेशकालाद्यविशिष्टवस्तुमात्रविषयस्य्
अ निर्विकल्पस्य व्यापारो नास्ति । सहसोपनिपतितविषयवशोत्पन्नस्य
निर्विकल्पः स्यात् तद्विषयविशेषणः भूतविकल्पसमयभाविनं
देशकालादिं प्रतित्यविचारकत्वात् । सर्वश्चायं
विकल्पोऽनुभवमूलः इत्युक्तनीत्या तत्पृष्ठपातिनामानसे नापि
विकल्पेन तथाभूतमेकानेकं वस्तु नैव स्मृश्यते । किन्तु नैसर्गिके
ज्ञाने बहिराभासनात्मनि ।
पूर्वानुभवरूपस्तु स्थितस्तत्स्मरणादिषु ॥ इत्युक्तनीत्या
निर्विकल्पक विषयवत्वात्तस्य इति कयाधिक्येति इति निर्विकल्पधिया
सविकल्पधियेवेति अनात्ववादिनः ज्ञानसन्तानमेव
तत्वमितिमन्यमानस्य परस्य व्यामोह निबर्हणायाह - तद्द्वया इत् ।
तद्द्व्यमिति । चैत्र घटादेर्वस्तुनः । तदिति पूर्वोक्तम् । एवमेकत्वानेकत्व
द्वयमवलम्बन्त इति तद्द्वयावलम्बना एता इति क्रिया सम्बन्धेत्यनेन
ग्रहणकसूत्रेण सूचिता तत्क्रियाद्याश्रय प्रमातृ प्रमेय
व्यापारमयी व्यापार स्वरूपा क्रियाधिबुद्धिः ।
नन्विति । निर्विकल्प विमर्शानन्तरभावि अध्यवसायात्मक (३१६)
निश्चयः सन्नन्तःकरणमेव करोतीति सङ्कल्पोऽभिमाना
ध्यवसायात्मकः स्वेस्वेव्यापारसाधन मन्तःकरणमेव करोति ।
इह ज्ञानमालाया इति । अनुभवादिरूपाया
ज्ञानशक्त्याद्याह्निक त्रयनिरूपिताया ज्ञानमालायाः । अन्तरिति ।
अन्तां रूपत्वेन सूत्रकल्पधारकः
प्। २४८) जीवितभूतः कश्चित्प्रमातास्तीति । प्रागिति ।
एकाश्रयनिरूपणाह्निके उपपादितम् । स च प्रमाता महेश्वर
निरूपणेनाष्टमेनाह्निकेन स्वतन्त्र इत्यपिनिर्णीतम् । स च सद्गुरु
कटाक्षवेद्येन विगलित मायाकालुष्यो यदा भवति
तदाविशुद्धस्वभावः शिवात्मा इदन्ताप्रतिभारूपे मायापदे पुनः
शिवैकरूपोऽपि तयातिरोहितत्वात् चैत्रोऽहं मैत्रोहमिति सङ्कुचित
स्वभावः पशुः अस्य पशुरूपस्य प्रमातुर्मनस इति प्रोक्तः
रूपस्यान्तः करणस्य समुल्लासावसर इति सङ्कल्पाभिमानादि
स्वस्वव्यापारं प्रतिसम्यगुल्लसावसरे अहमत्त्रयः अस्मिन्काले
वर्तमानः एवमाकार इति विकल्प भूमिकायां स्फुट उल्लासः
देशकालाद्यविशिष्टाहमिदमित्यैन्द्रियके निर्विकल्पके
अप्रत्यभिज्ञानतोऽपि प्रथमं देशकालाविशिष्टमेवेदमिति प्रथकाले
अहमिदमिदमहमित्यस्यैव सदाशिवेश्वरदशाभुदयात् एवं
भूतमैन्द्रियकं निर्विकल्पं विकल्पबुद्धिरूपवान्
क्रियासम्बन्धादीन् न करोतीत्यर्थः । साक्षात्कारक्षणेऽप्यस्ति
विमर्श इत्युक्तनीत्या एवं भूताविकल्पकबोधा बहिर्गतस्य
विमर्शव्यापारः अनुव्यवसायीति अनुपश्चाद्भावित्वाद्व्यवसायि
शब्दं वाच्यं व्यवसायं निश्चयात्मकं विकल्पं विदधत् मन इति
अन्तःकरणमेतान्क्रियायं बन्धादीन् करोति सम्पादयति ।
तद्द्वयावलम्बना इति । ते च विकल्पाः एकत्वानेकत्वरूपं
तद्द्वयमालम्बन्ते । इह स्मृति विकल्पे तावदर्थोऽध्यवसीयते । अन्यथा
(३१७) सुप्तमूर्छित कल्पतापत्तिः । एवञ्च यावदध्यवसायोऽर्थस्य
तावदर्थादिति सामर्थ्यादियद्भुपगन्तव्यम् । यतसोऽर्थः प्रकाशते
अप्रकाशमानेऽध्यवसातव्ये अध्यवसायोऽन्धप्रायः स्यादित्यत्र न
हि विकल्पेषु प्रतिभानमस्तु सदित्युक्तं सत्ताप्रकाश्यमेव
द्वितीश्रीमत्तन्त्रवटधानिकोक्तनीत्या वस्तुनः प्रकाशतैववस्तुत्वं
स्वरूपं वस्तुन्यप्रकाशेति विकल्पस्य तस्मिन् वस्तुनीदं गुञ्जाफलं
वा वह्निर्वा, गुञ्जाफलमेव वह्निरिति ममैवेदं गुञ्जाफलमिति
क्रमेण मनोबुद्ध्यहङ्कारं व्यापसाध्यं व्यापारान्तरं न
युक्तम् । ततो बाह्ये बाह्यमित्यादि । अत इति वस्तुनः प्रकाश
परमार्थत्वादबाह्ये ज्ञानसन्ताने स्वतोऽसदपि बाह्यनीलादिशुक्तौ
रजतवदारोपयतीत्यादि वचो वस्तुशून्यं न परमार्थः । तच्चैतादिति
प्। २४९) तदेतत् प्रमेयं भ्रान्तित्वे चावसायस्येत्यत्रोक्तम् ।
अनुव्यवसायीत्युक्तमुद्दिश्याह - निर्विकल्पकप्रमाणादिज्ञानेन
प्रकाशनीयं वस्तु कथं विकल्पः स्पृशेदिति भिन्न विषयत्वादिति
परोब्रूयात् । भवेदेवमिति । प्रमातारं विनायदि विकल्पः
स्वयमेवस्वतन्त्रो भवेत् तर्हि तदाविकल्पः निर्विकल्प विषयं
स्वलक्षणं स्प्रष्ट्वं न समर्थः । यावतेति । विकल्पः प्रमात्रा विना
विषयप्रकृतौ स्वतन्त्रो न भवति । तस्मादसौ विकल्पः मानसं
विकल्पज्ञानं प्रमातुरेव व्यापारः प्रमाता चायं घट इति
पूर्वानुभवान्तर्मुख संस्कारात्मक स्वसंवेदनरूपः । तस्य
प्रमातुरयमेवेति अनुभवपृष्ठपाति निर्विकल्पकव्यापारे
पूर्वानुभवत्वमिति पूर्वानुभूतं वस्तु तं देशं तं
कालमित्येतत् तस्य वस्तुनः तद्विशेषणभूतयोर्देशकालयोश्च विमर्श
मनुज्झन्नेवास्ते यत् तदयं विमर्श एव संस्कारः प्रमातरि (३१८)
संस्कारात्मना वर्तमानः पूर्वानुभवः यावत्स्व विषय
प्रकाशनात्मा तावत् तादात्म्यापन्नं स्मरणाद्यपि तथा निर्भासत
इत्युक्त नीत्या तादृग्विध पूर्वानुभवतादात्म्या पन्नः प्रमातृ
व्यापारोऽपि विकल्पः तावत् पूर्वानुभवविषय एव । अत एव
हेतोराचार्यैः श्रीमदुत्पल देव पादैरुक्तम् -
पूर्वानुभवसंस्कारः प्रमातुरयमेव सः ।
यदपोहन ------------------------- भव स्थितः ॥
इत्यादि प्रमातुरयमेव पूर्वानुभवसंस्कारः प्रमाता
अपोहनकालेऽपि पूर्वानुभवस्थित इति यत् तस्मादिति । प्रमातृ
व्यापाररूपत्वात् एकैकास्मिन् वस्तुन्येकत्वानेकत्व————————-
य्यो विकल्पात्माव्यापारः । व्यापारमयीति सव्यापार एव प्रकृतं
रूपं यासां तादृशीः क्रियादिकल्पनाः । इता इति । ग्रहणकवाक्य
सूचिताः क्रियादिकल्पनाः मन एव करोतीति स्थितम् । तृतीयेन निर्विकल्पक
संवेदन संवेद्यत्वेऽपि विकल्पकाल एव स्फुटमेषां रूपमिति
पूर्वोक्तनीत्या विशेषणा विशिष्टघटमात्रा वभासादाव विकल्पेऽपि
सामान्यसम्बन्धाद्याभासो यद्यपि तदेतिनिर्विकल्पावस्थायाम्
तथापि सामान्यादि स्पष्ट तया न प्रकाशते । तदेव प्रतिपादयति -
तथापि हि सामान्यादीत्यनेन । घटगतं घटत्वं सर्वदेशगत
घटानुस्यूतमिति समानोपरञ्जकत्वेऽपि द्विष्ठः सम्बन्ध इत्युक्त
नीत्या सम्बन्धस्य द्विष्ठत्वात् राज्ञः पुरुष इति वक्ष्यमाणनीत्या
प्। २५०) राजपुरुषात्मकः सम्बन्धिद्वयोद्भवे गच्छतश्चैत्रस्य
क्रियायाः पूर्वापररूपपदविक्षेपात्मकः क्रमिकक्षणं
सन्तानात्यागे घटादेर्मुखादिकदम्बकावयव स्वीकारे अस्माद्
घटादयं पटः पूर्वभागे स्थितः । अयं पश्चाद्भागे इति । तस्मात्
चैत्रादयः मैत्रः पुरत एव जातः अयं पश्चाज्जात
इत्यवध्यवधिमत्परिग्रहादौ इति क्रमेण सामान्यादेः कालान्तरस्य
वस्तुनः स्फुरणान्मानसविकल्पग्राह्या एकानेकरूपाः
सामान्यादयः इति स्थितम् । एवं चेति । असत्यं सत्यं सम्प्रतिसत्यमिति
भवदुक्ता संवृति विकल्प ज्ञानं तद्वशादिति । परमार्थरूपः
विकल्प बुद्धिमयत्वात् संवृतेरपि सत्यत्वमुच्यतम् । तत्संवृत्तिसत्यत्वं
सत्यस्यैव तु प्रकार इति भवदुक्तेः संवृति सत्यरूपस्य
क्रियादेर्द्विचन्द्रादिव नासत्यता । तत्र संवृति सत्य कथनेऽपि अयं
क्रियादिकालपर्यन्तः सर्व एव सम्बन्धः क्रियाशक्तिमच्याः
संविदः एवावतरणक्रमः क्रियाशक्तिमयी संवित्
क्रियादिरूपेणावतीर्य स्फुरतीत्यर्थः ॥ यथोक्तम् -
यतोनासौ कश्चिद्भावं य एवं विकल्प्यते संविदेव हि तथा
भानमेव तस्या ऐश्वर्यम् । इति । तत्र क्रियादावपि मूलभूतः क्रियादिः
कालपर्यन्तः सर्वः सम्बन्ध रूप एव । तदेव प्रतिपादयति तथा
हीत्यादिना समानानां घटादिव्यक्तीनां यदेकमनुस्यूतं भाति
तद्घटत्वं सामान्यं गच्छतो देवदत्तस्य देशतः कालत
आकारतश्च यद्वैतत्यं घटादेर्मुखाद्यवयवानामेकघट
स्वरूप विश्रान्तत्वाद्यदैक्यं तदाधारभूतलव्याप्त्या
यद्वैतत्यं च सोऽवयवी इमं शैलमवधिङ्कृत्वा अयं शैलः इत्थं
पुरस्तादिति प्रागादिदिक् । अस्य चैत्रस्यायं क्रिया प्रतानः स्तस्य
सहभावेन वर्तते गच्छतीत् रूपो वर्तमानः कालः
गमनादिरूपक्रियाप्रताने देवदत्तेन सहवर्तमाने अभूत् भविष्यदिति
भूतादिः काल एकाश्रयरूपदेवदत्त निष्ठत्वा देकत्वेऽपि
तत्तद्देशव्यास्या क्रियायामेकानेकरूपत्वम् । एवं
सामान्यादीनामप्येकानेकरूपत्वं वृक्षादेर्वस्तुयत्तारूप
प्रतिपदिकार्थपृष्ठपातिवृक्षस्तिष्ठति वृक्षेण स्थियते
इत्याद्याधिकरणपर्यन्तं यावद्वपुर्भाति तत्सर्वं स।बन्ध एव ।
(३२०) असौ सम्बन्धः क्वचित्सामान्यादि व्यवहारं
व्यपदेशान्तरग्रन्थिं सहते । तदानीं सामान्यादिसञ्ज्ञया
व्यवह्रियते । अत्र दृष्टान्तमाह - यथा सास्नादिमतां
प्। २५१) कपिलादि गोपिण्डानामनुस्यूतो गोत्वरूपः सम्बन्धो गा व इति
बहुवचनात्मैक व्यपदेश सहिष्णुः तत्र व्यपदेशान्तर ग्रन्थिसहने
सतः सामान्यादिना सम्बन्धस्य व्यवहार उक्तरूप
व्यपदेशग्रन्थ्यभावे सम्बन्धवाचो युक्तिरेव सम्बन्धः स इत्येव
व्यवह्रियते । तत्र दृष्टान्तमाह - यथा सास्नादिमतां कपिलादि
गोपिण्डानाम्मनुस्यूतो गोत्वरूपः सम्बन्धो गाव इति
बहुवचनात्मकैकव्यपदेश सहिष्णुः तत्र व्यपदेशान्तर ग्रन्थिसहने
सतः सामान्यादिना सम्बन्धस्य व्यवहार उक्तरूप व्यपदेश
ग्रन्थ्यभावे सम्बन्ध वाचो युक्तिरेव सम्बन्धः स इत्येव व्यवह्रियते
। अत एवेति । कारकाणां सम्बन्धरूपत्वादिष्टिहस्तादिभिः परिमेय
क्षेत्रमानं तस्य पूर्वापराभ्यां मानाभ्यां सम्बन्दं
दिष्टिमात्रस्य क्षेत्रस्य पूर्वापर दशाभ्यां सम्बन्धः
प्रस्थद्रव्ययोः सम्बन्धः । प्रस्थद्रव्यगतस्य परिमाणस्य
पूर्वापरपरिमाणाभ्यां सम्बन्धः । फलादेरुन्मानस्योन्मेयेन
स्वर्णादिना सह सम्बन्धः । पूर्वापरोन्मानाभ्यां चेति
प्रमाणपरिमाणोन्मानरूपम् । तत्र दृष्टिप्रमाण
परिमाणान्तरगतं चाणुत्व महत्त्वं सङ्ख्या पृथक्त्वादि च यत्
तत्सर्वं लोकव्यवहाररूपं तत् सर्वं सम्बन्धस्यैव विजृम्बितम् ।
ये केचित्सामान्यादि सम्बन्धं घटवत्
पदार्थान्तरममंसत, ते ऽपि समवायं तत्राभ्युपजग्मुः ।
जीवितत्वेन समवायश्च सम्बन्धात्मा तदनुग्राह्य इति
सम्बन्धानुग्राह्यः समवाय इति केषाञ्चिन्मते । तदेवाह -
समवायाख्यां तां शक्तिं सम्बन्धोनुगृह्णाति सम्बन्ध इति ।
उक्तमेवार्थं स्पष्टीकरोति - यदपि च कारकम् । क्रियाविमर्शविषयः
कारकाणां समन्वयः । इति वक्ष्यमाणनीत्या
तिष्ठतीत्यादिक्रियामुखप्रेक्षि सापि क्रिया स्वात्मनः प्राणेश्वरं
भूतादिं कालेमाश्रयति । (३२१) सोऽपि कालस्तिष्ठत्यादि क्रियाद्वारेण
तत्तिष्ठत्यादिक्रियाश्रयभूतसर्वभावात्मासम्बन्धमुद्धरयतीति
सम्बन्धाधीनेयं विचित्रा लोक यात्रा । यदाहाचार्य एव -
भेदा भेदात्मसम्बन्धः सहसर्वार्थ साधिता ।
लोकयात्रा कृतिर्यस्यः स्वेच्छया नौमितं शिवम् ॥
प्। २५२) ———————-रूपायाः सम्बन्धमयत्वात् सम्बन्धमेव
प्रथमं निरूपयति ।
राजाद्याभासरूपाः पुरुषाद्याभासरूपाश्च भावाः
स्वात्मनिष्ठाः स्वास्मिन्नेव रूपे विश्रान्ताः । अत एवविविक्ताभाः
अन्योन्य भिन्नप्रकाशाः एकप्रमातरि राजपुरुषाद्याभासग्राहके —-
——————— न्योन्यान्वय रूपमैक्यं भजन्ते यदा तदा त एव
सम्बन्धि यत्पदमालम्बनं भवति ।
विविक्ताभा इति । उभयग्राहकप्रमात्रन्तः करणविश्रान्तेः
पूर्वं बहिस्तटस्थौ अन्योन्यासम्पृक्तौ स्वात्मनि निष्ठा इति । अत एव
स्वात्मैव परिसमाप्तौ स्वस्वरूपमात्रविश्रान्तौ तदुभयग्राहक
प्रमातृभूमौ तदैक्यं गच्छतस्तदैक्यं
तत्प्रमातृतादात्म्यरूपं न भवति तयोः राजपुरुषयोः
राजपुरुषत्वविगलनापत्तेः । अपितु राजपुरुषेण परस्पररूपं
श्लेषात्मकं युगपदेकदैवनिमज्जदुन्मज्जत्पुरुषराजाभासरूप
भेदाभेद स्रोतोद्वय वेलारोहण लक्षण समन्वयरूपं यदैक्यं
गच्छतः तदा तावेवसम्बन्धीय आलम्बनं भवतः राज्ञः पुरुष
इति । तदेव प्रतिपादयति तयाहि - पुरुषदर्शनात् पूर्वं
राजाभासग्राहकस्य प्रमातुर्धिया गृहीतोऽपि पुरुषाभासविविक्त
स्वात्मविश्रान्त्या यदासराजा न तुष्यति तदा रूपान्तरेण पुंसः
(३२२) श्लेषं भजन् कृतार्थी भवति । पुरुषोऽपि स्वात्मविश्रान्त्या न
तुष्यति रूपान्तरेण राजाश्लेषं भजन् कृतार्थी भवति स
राजपुरुषयोरूपश्लेषस्वयमेक एव चिदात्मनि प्रमातरि तयेति
उक्तरूपेणैक्येन स्थितः । राज्ञः पुरुष इति पूर्वप्रतिलब्ध
राजसंवित्प्रतिष्ठः । अत एवाधिक पुरुष
संविन्निमज्जनाद्राजपुरुषयोरनाभासमानपृथग्भवनलक्षणः
स्वातन्त्र्ये विश्राम्यति तत्र स्वतन्त्रे चिदात्मन्येव निर्भासते । समस्कन्दित
पुरुष परमार्थोऽपि
राजाद्याभासानन्तरगोत्वघटत्वाद्येकरूपतामभेदरूपतां
बहिरेवतयोः कपिलादिरूपया व्यक्त्यामुखादिनावयव
रूपेणैकदेशेन च भेदमनेकत्वं चावलम्बन्ते तयोर्भेदाभेदो
बहिरेव ।
प्रकाशमानरूपा जातेर्ग्राहिकाः, गृहीतायाः
प्रमातृविकल्पबुद्ध्यस्ता न केवलं सम्बन्ध
वदन्तरेवैकरूपतामालम्बन्ते । यावद्बहिरपि कापिलादिव्यक्त्यनु
स्युताः गोत्वरूपतामेकतामप्यालम्बनवन्नयति ।
प्। २५३) तदेव सङ्क्षेपेणोपपादयति - गाव इति । बहुत्व प्रतिभासे बहिः
पृथक्कृतः अन्योन्यं पृथक्कृता बहिः कपिलादि व्यत्ययो भान्ति । येन
प्रतिभासनेनानेकत्वद्योतकं बहुवचनम् । इयं गौरियं गौरियं
गौरित्यनुयायि चासां गावां वपुर्भाति । यदातु गोत्वरूपैक
प्रत्पदिकार्थाः परामर्शानिगमः
एतदनुयायिवपुरुभयामित्येकत्वानेकत्वे बहिरेवोभयस्यापि
बहीरूपतरं प्रत्यक्षेण दर्शयति इमाइत्यङ्गुल्या निर्देशात्यनेन
केवलं बाह्यत्वमपि स्वात्मनः पूर्वसङ्गः परमार्थः ।
प्रकाशान्तर्भावे सति प्रकाशत इति । तत्र बाह्यत्वेन वस्तूनां
भेदाभेदौ न दूषणम् ।
एकतश्चैतश्च्चिन्मयत्वेऽवभासानामन्तरेव स्थितिः सदा मायया
(३२३) भासमानानां बाह्यत्वाद्बहिरप्यसावित्यत्र चित्रसंवेदन इवेति
। चित्रगतस्य पतङ्गस्य पतङ्गरूपेणैकत्वं भेदः नील
नीलवर्णपक्षत्व मनेकत्वम् । अनेनन्यायेन
घटादिद्रव्येऽप्येकोभागः काञ्चनः एको रजत इति
रक्तारक्तादिविरोधः परिहृतः । सर्वं वस्तु संविन्मयत्वात् संविदेव
सर्वरूपत्वं सहत इत्यर्थः । अस्या जातेः सम्बन्ध
द्वारेणान्तरमप्येकमस्ति । न केवलं बहिरेव सर्वत्रेति सर्वेषु
भावेष्वन्तरं चैकां सम्बन्धद्वारा एवमिति
जातिवदवभासमानस्य घट इत्यवयविद्रव्यस्य ग्राहिकायां
कल्पनाः विकल्पबुद्ध्यः अन्तरेक विषया बहिरनेक विषया इति न भवन्ति
। बहिरप्येकानेक वस्तु विषयास्तासां विकल्प बुद्धीनां
बहिरप्येकानेक रूपत्वमेव प्रतिपादयति ।
सन्निबन्धरूपत्वेनैकरूपमुख्याद्यवयविलक्षणैकदेशद्वारेण
भिन्नः अनेकरूपं च घटादिं स्वीकुर्वते, घट इति प्रतिभासमानो
भवः नि सन्निबन्धनैकसमुदाय
मयैकरूपस्तत्तद्देशव्यापिभिर्मुखाद्यवयवैर्विततरूअपश्च भातीति
। कारकाणां कर्त्रादिशक्त्याधाराणां वृक्षादि द्रव्याणां
देवदत्तः काष्ठैः स्थाल्यामोदनमिति
कर्तृकरणाधिकरणकर्मरूपाणामन्वयोयः
सपचतीत्यादिक्रियाविमर्शविषयः क्रिया विमर्शैक निमित्तः
दिक्कालग्राहिका धीरिममवधिं कृत्वा अस्मादयं पूर्वजातः,
अतोऽस्यायमग्रजः । भानोरुदयगिरिपर्यन्तं गमनं दिवसं तं च
चरमगिरि मारभ्य उदयगिरि पर्यन्तगमनं
रात्रिरित्यवध्यवधिमद्भावान्वयालम्बा दिगादिधीः
प्। २५४) कारकाणामिति प्रथमाद्यधिकरणान्त
कर्त्रादिशक्त्याधाराणां (३२४) कारकाणां चैत्रमैत्रादीनां
वृक्षादीनां चद्रव्याणां देवदत्तः काष्ठैः
स्थाल्यामोदनमित्यादि रूपो योऽन्योन्यं समन्वयो दृश्यते स
समन्वयः स प्रमात्रन्तर्लीन तत्प्रमात्मक पचत्यादिक्रिया
परामर्शैकनिमित्तकः कारकाणां समन्वयः क्रियाविमर्शविषय
इत्यत्र दृष्टान्तमाह - यन्मातृमेय मानानामिति ।
मातुश्चैत्रस्य —————– देस्तदुभय निष्ठस्य बहिर्मुखस्य
मानरूपस्य ज्ञानस्य च यथा पश्यत्यादिप्रमारूपायां
क्रियायां मिथः समन्वयस्तद्वदत्रापि प्रमातुरन्तर्वर्तिनं
पश्यत्यादि क्रियारूपं प्रमापरामर्शं विहाय देवदत्ते
वृक्षमित्यादि रूपयोर्वस्तुनोः साक्षात् स्वत एव न स ————————-
या विमर्श विषय इति कारकाणां समन्वयः पचत्यादि
क्रियापरामर्शैक निमित्तक इति क्रियां विनात्रान्यत्र
भवनासहिष्णुतारूपा निमित्तता विषयार्थः । कारकाणां प्रमातृ
परामर्शरूपया क्रिययाविना स्वत एव समन्वयो न
सम्भवतीत्यर्थः । प्रथमादिकारकशक्तीनामपि
स्वाश्रयैर्द्रव्यैर्वृक्षादिभिर्योऽन्योन्यं समन्वय
स्सतिष्ठत्यादिक्रिया पराम्र्शैकनिमित्तकः वृक्षास्तिष्ठति वृक्षं
पश्यति वृक्षेणस्थीयते वृक्षयददाति वृक्षात् पतति वृक्षस्येयं
सर्वं भवति वृक्षेतिष्ठतीति । इति द्रव्याणां शक्तीनाञ्च क्रियया
साकं साक्षात् सम्बन्ध इति इयती चैव भगवती
विश्वव्यवहारहेतुभूतः
प्रथमाद्यधिकरणान्तकारकविजृम्भितं
सम्बन्धामाविर्भावयति । बहिर्भावद्वयमालोक्या स्मात्
पर्वतादयं पूर्वः अयमपर इति प्रमात्रा बहिर्भिन्नतया
चक्षुरादिभिः परामृश्यमानर्भावयोरन्तरन्तःकरणे एकत्र
विश्रान्तत्वादभेदनपूर्वकं पुनर्बहिर्मध्ये मध्यकोटौ
अस्मादिदं पूर्वन्त्याद्यन्योन्यभेदोभासनात्मकं पुनरप्यभेद
विश्रान्तं चेद्ध्रुवमामृश्यते (३२५) तत्सामान्येन दिगित्युच्यते । अत्र
दिक्सामान्ये तयोर्भावयोर्मुखपृष्ठ दक्षिणोत्तरा वयव
परामर्शादरः इत्यनेन दिशां प्रागादिविभागसम्भवः तदवयव
सम्मुखत्वपराङ्मुखत्वादिनिशय इत्यनेन विदिगादिविशेषसम्भवः
। अनेन गिरिण संयुक्त इति संयोगः संयुक्तेन गिरिणा वृक्षादिभिः
सहसम्बन्धः संयुक्त संयोगः
प्। २५५) भावयोरदूरत्वादि परिग्रहश्च दिक्परामर्शे उपयोगी ।
एवं दिक्परामर्शात्मनो धिय
अवध्यवधिमद्भावान्वयालम्बायां पूर्वा परादि रूपतां
प्रदर्श्य अवध्यवधिमद्भावान्वयां पूर्वापरादिरूपतां
दर्शयति - कालपरामर्शेत्यादिना । अस्मादयं पूर्वं जातः । अयं
पश्चात् । तत्रापि चिरेण जातः अचिरेणेति जननानन्तरमयं चिरकालं
शिवः अचिरकालमिति भावयोर्जन्मास्थित्यल्पतादिविमर्श उपयोगी अयं
घटः घटिकामात्रेण निर्मितः अयं शरावोऽर्धघटिकामात्रेणेति
चिरक्षिप्रादिरूपत्वेऽपि अयं कलभोद्वादशवर्षेण जातः अयं
सूकरः मासषट्केण जातः इत्यादि चिरक्षिप्रदिजन्मादिपरामर्श
उपयोगी । पक्ष्यति पचत्यपाक्षीदित्यादौ तु भूतवर्तमान
भविष्यद्रूपस्य भविष्यतो वर्तमानस्य भूतरूपस्य क्रमेण
सम्भावितस्य स्फुटस्य स्फुटभूतः पूर्वस्यात्मीय संवित् स
प्रस्पन्दितस्यो च्छ्वासनिश्वासरूपस्य प्राणस्यादित्यादि सञ्चाररुपस्य
क्रियान्तरस्यौदनादेः फल विशेषणस्थ च चिरक्षिप्रादिरूपः
परामर्श उपयुज्यते । संस्ख्यायाः सङ्ख्या वति परिमाणस्यापि
परिमाणवति अस्मादिदं पृथगिति इति पृथक्तेऽप्ययमनेन संयुक्त इति
संयोगे अयममुना विमुक्त इति वियोगेऽपि इत्यादौ सर्वस्मिल्लोकव्यवहारे
सम्बन्धरूपतैव वाच्या ।
(३२६) एवं सम्बन्धस्वरूपं विस्तरेण प्रदर्श्य पुनरपि
सम्बन्धस्य पारमार्थिकं स्वरूपं सङ्ग्रहेण दर्शयति -
सर्वथा यत्सङ्क्षेप इत्यादि । सर्वथेति । सर्वदेशकालाकारात्मना
प्रकारेणायमिति सर्वस्य प्रत्यक्षेण भासमानः सम्बन्धस्य
स्वभावोदृश्यते । राजायदापूर्वधिया गृहीतोऽपि
स्वात्मविश्रान्त्यानतुष्यति तदा रूपान्तरेण पुंसाश्लेषं भजन्
कृतार्थी भवतीत्यत्रैव पूर्वोक्तनीत्या यत्रेति तस्मिन्नवसरे स्वानुरूप
पुरुषविविक्तस्वात्मविश्रान्त्या सन्तोषमपुष्यतः राजादेः
पदार्थावभासस्य पुरुषरूपाभासान्तरपरामर्शविश्रान्ति
साकाङ्क्ष तथा स्वरूपपरिनिष्ठा । तत्रान्योन्यसन्तोषात्मकार्थ
क्रियाकारी क्रियाशक्ति विजृम्भामयी सम्बन्धरूपतैव वाच्या । तत्रापि
राज्ञः पुरुष इत्यादि सम्बन्धरूपतायामपि पुरुषः
प्। २५६) कटक वानिति कटकात्मकभावान्तरस्पेक्षायामपि
सम्बन्धान्तरमप्यस्तु । द्रव्याश्रये सङ्ख्यादिः सम्बन्धोपरि
समवाय सम्बन्धं केचिद्यथाङ्गीकुर्वते । एकत्वाद्यस्मिन्
समवेतमिति अनवस्था वत्यपि दोषाय न भवति । पूर्वकल्प
सृष्ट्युपरिष्टाद्भवति उत्तरकल्पसृष्टिर्यथा
पूर्वकल्पसृष्टिक्षतिरूपाय दोषाय न भवति तद्वत् ।
उक्तमेवार्थं स्पष्टयति - उत्तरसम्बन्धाभासाभावे
पूर्वसम्बन्धाभासस्य हानिः काचिन्न भवतीति येन येना
विनाभावेन पूर्व सम्बन्धस्य मूलक्षतिः शङ्क्येत तादृशी
हानिर्नविद्यते क्रियाशक्तिविजृम्भात्मकम् । एव मित्युक्त प्रकारेण सकल
लोकयात्रानुप्राणित भूतमनल्पं सम्बन्धस्य
बन्धुरीभावमुच्छूनत्वमभिधाय तस्य क्रियासम्बन्धेत्यादि
निरूपिते स्थैर्यार्था क्रिये निरूपायितुमाह - अर्थक्रियार्थिनोमातुः
एवमेवेति क्रिया सम्बन्धिने त्यादिनोक्तप्रकारेण
सम्बन्धादिरूपतयाभेदाभेदवता (३२७)
घटादिनार्थेनार्थसिद्धिः कार्यसिद्धिः स्यात् । न तु
स्वभासमात्रनिष्ठेनार्थेनार्थक्रिया न भवति इति तेन स्थैर्येण
चार्थकारित्वेन च सम्बन्ध ग्राहिका बुद्धिः द्विचन्द्रादि बुद्धिवत्
भ्रान्तिर्नसम्भवति । इह भावानां न सत्ता सम्बन्धत्वमिति
भावानामस्तीति सत्तया सहसम्बन्धस्वरूपं न भवति ।
घटादेरस्तीति सत्ता सम्बन्ध एव स्वरूपं भवति चेत् घटो नास्ति
सुखं नास्ति नास्तीति इति विषयपद सुखादौ सत्ता सम्बन्धाभावात्
सत्ता सम्बन्धस्य सत्तासम्बन्धान्तरापेक्षेत्यनवस्था रूपो द्वीइत्यो
दोषः । उदकाहरणाद्यर्थक्रियापि सत्वान्नभवति वस्त्वन्तरत्वात् ।
यथोक्तम् - अर्थक्रियापि सहजानर्थानामिति । दोषान्तरमाह -
तत्कारित्वमेवस्वरूपमित्यङ्गीक्रियते चेत् अर्थक्रियासद्भावे
ऽप्यर्थक्रिया कारित्वमप्यास्ती तदसद्भावे अर्थक्रियाकारित्वं
नास्तीत्यन्वयव्यतिरेकगम्यस्यार्थाक्रियाकारित्वस्याप्रत्यक्षत्वे ततोऽपि
घटस्य प्रत्यक्षत्वप्राप्तेरर्थक्रियाकरणयोग्यत्वमपि स्वरूपं न
भवति । तस्यार्थक्रिया करणत्वस्य सत्यकेशो वा सत्यकेशोवेति केशादि
निश्चय कालेदुखधानत्वात् सर्वस्य चास्य
सत्तासम्बन्धादेरप्रकाशमानत्वे नरशृङ्ग प्रायत्वमर्थक्रिया
कारित्वं
प्। २५७) स्वरूपं
चेत्तस्यार्थक्रियाकारित्वस्यार्थक्रियाकारित्वान्तरापेइक्षेत्यनवस्था
भावस्य शुक्तिरजतबुद्धिवदनुन्मूल्यमानविमर्श परिस्पन्दाः
प्रकाशमानतैव सत्वं सा प्रकाशमानता भेदाभेद रूपेण
सम्बन्धादीनामस्तीति (३२८) एषां घटादीनामिव् असत्यत्वं
निराशङ्कम् । तथापीति । क्रियासत्यत्वे सत्यपीहजगति जनः प्राचुर्येण
तेन तेन घटादिनावस्तुनोदकाहरणाद्यर्थक्रियार्थीभूत्वा
तदर्थक्रियार्थी निवसति अर्थं व्यवहरति तदर्थ क्रियाकारित्वं
सम्बन्धादीनामस्तीति परो विज्ञानवाद्यनुबध्नीयात् । यदि तर्ह्यस्य
हृदयनिस्संशयमाश्वास्यतेऽनेन यदिनकुप्यते तदर्थ
क्रियाकारित्वं भेदाभेदात्मसम्बन्धसहसर्वार्थ साधिता
लोकयात्रा कृतिर्यस्येत्युक्तनीत्या सम्बन्धादिमये व्यवहारेऽस्ति यत्र
व्यवहारे घटपटादिनिष्ठा सामान्यादि सम्बन्धादिर्मये
व्यवहारेऽस्ति । यत्र व्यवहारे सम्बन्धादि धीरपरामृश्य मानत्वात्
स्फुटा नोदयति तत्राप्यर्थक्रिया कारित्वमिति
प्रमातुर्विकल्पधीरूपसम्बन्धसामान्याद्याश्रय भूततया
भेदाभेदवान्योऽर्थः ते नैवार्थक्रियोक्तरूप
प्रमातुर्व्यापारात्मकर्मादिकल्पनाशून्ये न वा
स्पृष्टेनोक्तविकल्पधीद्वारेण प्रमातृ प्रविष्टत्वात् स्वाभासमात्र
विश्रान्तेन न काचिदप्यर्थ क्रिया भवति ।
तदेव प्रतिपादयति - तथाहीति । लोके तावत् पूर्वमनुभूतेनात
एवानन्तरं स्मर्यमाणेन सुखेन तस्मिन्कान्ताविषये
पुनरप्यभिलाषः । आदिशब्देन विषयप्राप्त्यादिः । इत्यादिक्रमेण
सर्वोव्यवहारो जायते । येन प्रमात्रायः सुखाभासोऽनुभूतस्तेन स
एवाभिलष्यते । न त्वन्योन्यभूतः ससुखाभास एव प्राप्यते
यद्यभिलषितं सर्वमायातमिति तुष्यति स तत्सुखं तदेवेति
अनुभूतमेव यदि किमभिलष्यते पूर्वमेव प्राप्तत्वात् । अथवा अतदेवा
ननुभूतद्मेवा ज्ञातत्वमेव स्मर्यमाणत्वा भावात् कथमर्थ्यते ।
तस्मादिति । प्रमातृ नास्तित्ववादि भवेत् पक्षे (३२९) अपरिहार्यत्वात् ।
एतदेवमिति । वक्ष्यमाणप्रकारेण एवम्भवति तत् सुखं तदेवा
तदेवेति अनुभूतमेवाननुभूतमेवेत्यस्य पिण्डार्थः । तदप्यतदपि
चेति तत् सुखमनुभूतमपि पुनरप्यभिलाषा स्पदत्वादनुभूतमपि
भवति । सुखसाधनेष्विति ।
प्। २५८) साधनेष्विति । एवं सुखादिहेतु भूतेषु स्रक्चन्दनादिष्वपि
वाच्यम् । इष्टार्थितायां सुखार्थितायामिष्टं वा
विमृश्यतेष्टकारितेति सुखं वा तत्सुखसाधनं स्रक्चन्दनादिकं वा
प्रमात्रा विमृश्येतेति । न वाच्यम् । दृष्टमिष्टमिच्छाविषयं न भवति
। विशिष्टभोगभूद्यौरदृष्टापि इह लोके इयं भोगभूः इन्द्रयोग्यतेति
दृष्टभोगभूमित्वाद्द्यौरपीष्टा दृष्टमननुभूतं सुखं
दृष्ट्या अनुभवेन सहनष्टमिति पुनस्तस्मिन् कार्थिता तत्सुखं
द्रष्टैक्येन विमृष्टामित्यर्थः । द्रष्ट्रैक्येन विमृष्टत्वात्
पुनरपिस्मर्तुं तदेवेदमिति प्रत्याभिज्ञातुं च योग्यमित्यर्थः ।
आभासात्मनिभेदाभेदवति सम्बन्धरूपेऽस्मिन्नर्थे असंवेद्यं
स्फुटतया अप्रत्यक्षत्वमपि सम्बन्धान्तरं सामान्य
सम्बन्धरूपतयानुप्रविष्टम् । अन्यथेति । सम्बन्धादिना विना
व्यवहारे न केनापि प्रकारेण भवतीति
शिवादिक्षित्यन्तदेशतद्विशेषणभूत भूतादिकालजाग्रदादिदशा
शिवादि सकलान्त प्रमात्रुपयोगी । एव इति । क्रिया सम्बन्धसामान्य
द्रव्यादि क्काल बुद्धिरूपो व्यवहारः यदिन सत्यं तर्हि एतदाश्रय
भूतस्य भवन्मतेऽपि सत्यत्वेनाभिमतस्य घटपटादेरपि सत्यत्वं
नविद्म इति इयं क्रियासम्बन्धादि ग्राहिका बुद्धिर्भान्ति रित्यत्र न
भ्रमितव्यमिति शिवम् ॥
अत एव बहिर्मुखप्रकाशक विज्ञानस्वभावस्य
प्रमाणवर्गस्य योऽन्तः (३३०) प्रत्याभासमिदमिदमित्यनन्त
विकल्पमयो विमर्शात्मा प्राण ——————————-
योजनवि"रमणाघनेक प्रकार स्वातन्त्र्यपूर्णः शुद्धाहं
प्रत्यवमर्शमयः प्रमाता स भण्यत इति पूर्वोक्त नीत्या बहिर्मुख
प्रकाशात्मक विज्ञानस्वभावानि प्रमाणानि प्रत्यक्षादीनि
स्वलबाक्रमण क्रमादिति स्वेन निःस्वनबोधरूपेण ————————-
—— पीतमिति स्वस्वप्रमेया क्रमण परिपाट्या समवेश इति
तत्तन्नीलपीतादिप्रमेये तत्प्रमाणवर्गप्राणभूतान्तर्मुख
विमर्शात्मकः प्रमावेशे इदं नीलमेवेदं पीतमेवेत्यादि वस्तु
व्यवस्थापक प्रमावेशा वसरे यस्य परमप्रमातुः शिवस्य
वक्तवलोकिनीति अहं पश्यामीत्यन्तर्मुखाहन्ता विश्रान्त्यपेक्षया
पराधीनानि । एवं भूतप्रमेय प्रमाण प्रमाप्रमात्रात्मक
प्रपञ्चविश्रान्ति भूतं शिवं स्तुमः । यथोक्त मभियुक्तैः -
प्। २५९) प्रमातृ प्रमाणप्रमेय प्रमात्म प्रपञ्चोदयोल्लास
विश्रान्तिधाम्ने ।
असत्कीर्तन ध्वस्त सर्वाधनाम्ने नमस्त्र्यम्बकायाम्बिकावल्लभाय ।
इति स्वरूपं निरूपितम् । तत्प्रसङ्गाद्द्वितीयाह्निकेन
तत्क्रियाशक्तिविकासभूतसम्बन्धनिरूपणपुरस्सरं तत्क्रिया
शक्तिविकासभूतानां सामान्यादीनां तत्त्वमुपपादितम् । अधुनातु
तत्सम्बन्ध तत्वमेवैकयनतया प्राधान्येन व्युत्पादनीयं
विचारणीयं कर्तरि ज्ञातरीत्युक्तनीत्या ज्ञातृकर्तृस्वरूपप्रमातृ
निष्ठत्वात् तत्तु सम्बन्धकत्वमेव ज्ञाप्य ज्ञापकता (३३१)
कार्यकारणता चेति द्विविधम् । तत्रेति । ज्ञाप्य ज्ञापकता रूपे
मेयमानमिति मातृचिन्तास्पदभूते पूर्वसम्बन्धे क्रिया
सम्बन्धेत्यादिना स्वकीयं यत्स्वरूपमुक्तम्, अस्मिन्नाह्निके
वक्ष्यमाणं च यत् तत्सर्वं प्रमाणायत्तम् । यथा घटादि वस्तु
प्रत्यक्षादि प्रमाणायत्तं तद्वद्घटादिनिष्ठं
सम्बन्धादिरूपमपि तत्र तत्रदर्शने वस्तुसिद्धिः
प्रमाणायत्तेतिप्रसिद्धेः । एवं चेति तत्तद्वस्तु सिद्ध्यपेक्ष्या
तन्नतत्रकारक व्यापारवत्प्रमाणव्यापारोऽपि नित्यत्वं
स्वप्रकाशत्व स्यापि तत्र भावात् इत्युक्त नीत्या प्रकृते एवं भूतं हि
प्रमाणं तदेवं भूते भगवति कथं क्रमतामिति
वक्ष्यमाणनीत्या समर्थनीये च परम शिवस्वरूपवस्तुनि पूर्वः
प्रकाशमान घटपटादि परिच्छिन्नप्रमेय व्यवस्थापकं
परिच्छिन्न प्रमातृ लग्नं न घटत इति प्रकृत समर्थनीय
वस्तूपयोगितया स्वयं च सम्बन्धरूपतया
चेत्युभयप्रकारेणावश्यविचार्यम् । मानमेयमिति प्रमातृ स्वरूपं
निरूपयितुं मिदमेतादृगिति व्यवहारः प्रवर्त्यत
इत्यन्तश्लोकसप्तदशकेनाह्निकान्तरमारभ्यते । तत्र श्लोकद्वयेन
प्रमाणपलयोः स्वरूपं निरूप्यते । प्रमाणं प्रत्यक्षादिः फलं
प्रभा । तत्स्तत्प्रमाणविषयभूतस्य प्रमेयस्य स्वरूपं निरूपयितुं
तस्मिन् घट पटादि प्रमेय घटत्वकाञ्चनत्वलोहितत्वो
ज्ज्वलत्वादिरूपानाभासात् प्रतिप्रमाणव्यापारो न भवति । न तु
स्वलक्षणात्मक वस्त्वेकनिष्ठतादि नियमेनेति न केवल मनेकसामान्य
समुदायरूपे देशकालविशिष्टे स्वलक्षण एवैक स्मिन्
प्रमाणव्यापार इति दर्शयितुं प्रमातुः प्रत्यवमर्शबलेन
सामान्यात्मनः
प्। २६०) स्वलक्षणात्मनश्चाभासस्य प्रमेयस्य व्यवस्थेति दशभिः
श्लोकैरुच्यते । तत्प्रसङ्गादिति (३३२) । प्रत्यवमर्शप्रसङ्गात्
मिथ्याज्ञानस्वरूपं श्लोकेनोच्यते । सामान्यात्मक स्वलक्षणात्मक
द्विविधस्य प्रमेयस्य सिद्धिश्च कर्तरि ज्ञातरीति
प्रकृतमीश्वरस्वरूपमवलम्ब्यैव घटत इति श्लोकेनोपदर्श्यते
चतुर्दशभिश्श्लोकैर्निरूपितः स चैष प्रमाण तत्फल प्रमेयादि
प्रविभागो यः स पूर्वश्लोकेन प्रदर्शित रूपे प्रमातरि सति भवति ।
ततः प्रमाणं स्यात् व्युत्पत्तिभूतत्वात् तस्य घटादिवत् प्रमेयं न
भवति । येन प्रमेयत्वेन अत्रापि विश्वोत्तीर्णे प्रमातरि
प्रमाणव्यापारसम्भवः अस्मिन्नात्मनि ईश्वरोऽहं पूर्णोऽहं
नित्योऽहं व्याप्तोऽहमिति अप्रवर्तित पूर्वेश्वरादि व्यवहारमात्र
साधनफलमीश्वर प्रत्यभिज्ञा शास्त्रात्मकं प्रमाणमिति
श्लोकत्रयेणोच्यत इति तात्पर्याः । तेन भ्रान्तिरीदृशीत्यनेन
क्रियासम्बन्धादि बुद्ध्यो न भ्रान्ति स्वभावा इति यदुक्तं तासां
भ्रान्तिस्वभावत्वमेव निर्णेतुं बहिर्मुख विज्ञानात्मक स्वभावस्य
प्रमाणस्य तत्फलेति - तत्प्रमाण प्राणभूतस्य फलस्य
प्रमारूपस्यान्तर्मुखस्य विमर्शस्य च स्वरूपं
तावन्नैयायिकादिदर्शनप्रसिद्धमनुवदति । इदमेतादृगितिवस्तु
नीलपीतादिकं इदमिति सर्वत्रेदन्तात्मक वस्त्वनुस्यूत सामान्यरूपेण
एतादृगित्यनेक सामान्य स ——————————- हित देशकालविशिष्ट
स्वलक्षणरूपेण च । एवमिति उभ्यप्रकारेण यद्वशाद्व्यवतिष्ठत इति ।
यस्य बलान्नियतां निजनिजां प्रकाशमर्यादां नातिवर्तते । तत्
प्रमाणमिति श्लोकेव्यवह्रियत इति शेषः । सोऽपीति । सः प्रमाणरूपो
बोधः प्रतिक्षणं देशकाल ————- नवनवप्रमेयोन्मुखत्वात्
स्वयमप्यभिनवः नवनवोदयः ( ३३३) स्वाभास इति माया
प्रमातुर्मभेदमिति सत्वेनाभिमतः स प्रमाणाभिमताभासः ।
अन्तरिति । बहिर्यथा भूतं नीलपीतादि अन्तस्तथा विमर्शात्माभूत्वा
देशकालाद्यभेदिनि देशकालाकारैरविशिष्टे अत एव सामान्यायमाने
घटः काञ्चनोलोहित इत्येकैकभिधान विषये काञ्चनादि वस्तुनि न
रजतमिति वदबाधितामिति तत्प्रमाण फलरूपा प्रमाभवति ।
प्। २६१) यद्वशादिति । यस्य वशात् सामर्थ्यात् वस्त्विति बहिष्करण विषय
नीलादि अन्तः करणविषय सुखादि च इदमिति सर्वगतेदन्तानुस्यूते
सामान्यरूपेणैतादृगिति इतीत्थम्, अत्रत्यमिदानीन्तनमेवमाकारमिति
विशेषणभूत तत्तद्विशेषणरूपधर्मान्तरयोगेन च व्यवतिष्ठते ।
नीलमिति सुखमिति च नियतां स्वोचितां स्वप्रकाशमर्यादां नाति
वर्तते । तत्तादृग्विधवस्तु व्यवस्थापकज्ञानं लोके प्रमाणामिति
स्थितम् । अक्षपाद प्रमुखैर्निश्चितमितिशेषः । तत्
प्रमाणस्वरूपविवेचकेन तत्प्रमाणस्वरूपविचारक्षमेणविचार्यं
तद्विचारप्रकारं पश्य । इहघटपटादेर्वस्तुनः स्वरूपं प्रमातृ
व्यापारात्मक प्रमाणमन्तरेण स्वात्मवशेन तावन्नव्यवतिष्ठते ।
यदुक्तम् तथा हि जडभूतानामित्यादि । जडत्वात् स्वात्मवशेनैव
व्यवतिष्ठते चेत् नीलं प्रकाशते चैत्रस्य नीलं प्रकाशत इत्यवभासः
कथं भवेत् । तस्मादिति स्वात्मवशेन
व्यवस्थापनाभावादन्यवशेन व्यवतिष्ठत इति तद्वस्तु व्यापकः
तदन्यः प्रमाणाभसोऽपि तद्वस्तुवत् जडश्चेत्तदिदमन्धेनान्धस्य
हस्तदानम् । जडरूपः प्रमाणाभासो वस्तु व्यवस्थापन क्षमो न
भवतीत्यर्थः । तस्माद्वस्तु व्यवस्थापनायायातः
तत्प्रमाणाभासः संविदात्मैव भवति । सोऽपीति । संविदात्मा
प्रमाणाभासोऽपि (३३४) संविदात्मत्वादेव महासंवित्समुद्रे
शुद्धे परमाशिवे मग्नोभूत्वा शुद्धस्तद्वान्निर्विशेषः
परिपूर्णश्चेत् नीलस्यैकस्यैव व्यवस्था हेतुर्न भवेत् । तदैव
पीतादावपि तस्य प्रमाणाभासस्य व्यापकत्वात्
महाप्रकाशमग्नत्वाद् युगपदेव महाप्रकाशवद्युगपदेव
विश्वव्यवस्थापकत्वात् । तत इति । नीलपीतादेर्युगपद्व्यवस्यैव
व्यवस्थापक त्व प्रसङ्गात् । असौ प्रमाणाभासः
महाप्रकाशवद्व्यतिरिक्तः नीलमात्रोपरक्तकः । अत एव नीलोन्मुखः ।
तत एवं नीलप्रकाश स्वभावः नीलस्यैव व्यवस्थापकः नीलप्रकाश
स्वभावतैव हितस्य प्रमाणाभासकस्य तन्नीलव्यवस्थापकता । स च
नीलस्य प्रकाशः महाप्रकाशवद्व्यतिरिक्तस्य नीलस्य प्रकाशचेत्तर्हि
पीतस्यापि प्रकाशः स्यात् । तस्य पीतस्य प्रकाशात्मक चित्तत्त्व
तादात्म्या विशेषात् । तेन तस्मान्महाप्रकाशाद्व्यतिरिक्तस्य नीलस्यैव
प् २६२) प्रमाणाभासः प्रकाशो भवति । नीलमपीत्थं चेत् ततः
महाप्रकाशाव्यतिरिक्ताभास योग्यं स नीलप्रकाशकः
प्रमाणाभासः महाप्रकाशाद्व्यति (रेकः किञ्चिदपीति)
रिक्ताभासयोग्यं स नील प्रकाशकः प्रमाणाभासः
महाप्रकाकाशाद्व्यतिरिच्येत चेत् तस्य प्रमाणाभासस्य
महाप्रकाशवद्व्यतिरेकेततोनीलादेरपि व्यतिरेकाभावप्रसङ्गात् ।
महाप्रकाशाद्व्यतिरेकः किञ्चिदपीति प्रमेय मपि प्रमाण मपि
प्रमातापि न सहत इति परमशिवात्मकेन महाप्रकाशेन
स्वातन्त्र्यात्पूर्णाहन्ता स्वरूपे स्वात्मनि संविदः
वस्तूनाञ्चान्य्न्य सङ्कोचन प्राणनाहं महेश्वरः नाहं
घटादिः चैत्र एवेति सङ्कोचानिर्भासनीयः । अयं सङ्कोचः नाहं
महेश्वर इत्याद्यन्योन्य सङ्कोच प्राणत्वात् शून्य इत्युच्यते । एवं
भूतः सङ्कोचाभास एव मायीयप्रमातुरुत्थानं
महाप्रकाशस्या एवं भूतया एकया (३४६) अद्वितीयया सृष्टिशक्त्या
स्वात्मनः सङ्कोचावभासरूपया एकस्मिन्नेवकाले प्रमातृ
सङ्कोचावभास एव माया प्रमातुरुत्थानहेतुत्वात्
प्रमाणप्रमेयोल्लासं परमार्थतो भवति । तेन तस्मात् सुप्तोऽहं
मूर्छितोहं सुख्यहं दुःख्यहं क्षिधितोऽहं पिपासितोऽहं
स्हूलोऽहं कृशोऽहं सम्पन्नोऽहं दरिद्रोऽहमिति क्रमेण
शून्यप्राणदेहघटादिद्युपाश्रय स्वीकारात्मक सङ्कोच
परिग्रहसङ्कुचितात्तु अत एव देहादेर्ग्राहकस्य यो वेद्यांशः स एव
भगवता सृज्यते संह्रियते चानत्वाहन्ता प्रकाशात्मकं
कर्तृरूपं तस्य देहाद्यावेशेऽपि भगवदेकरूपत्वादित्युक्तनीत्या
देहपातेऽप्यविना"इत्वादादि सर्गमारभ्यानन्तकालमहमित्यन्तर्मुख
संवेदन रूपान्माया प्रमातुस्सम्बन्धी स प्राणाभिमत आभासः
यावद् घटपटादि प्रमेयोन्मुखतः स्वभावस्तावत् प्रमेयस्य
देशकालाकाराभास सम्भेदवत्त्वेनान्यरूपत्वात् सोऽपीति
तद्व्यवस्थापकः प्रमाणाभासोऽपिमेयवत् क्षणे
क्षणेऽन्योन्यरूपः द्रष्टव्यः । एतस्य ———— भिनवोदय इति
सूत्रपदेन । अभिनव पदस्यार्थमाह - तत्तत्क्षणिककालविशिष्टवस्तु
व्यवस्थापकत्वेन स्वयमपि क्षणिकत्वात् कस्मिंश्चिदपि वस्तुनि
क्षणावस्थिति मात्रग्लान्यपि
प्। २६३) न कलङ्कितः । तेनाकलङ्कितत्वेन नव नवोदय इत्यु————- पि
तथा भूतः प्राणाभासः माया प्रमातृलग्नो भवेत् । तर्हि
यस्यमम नीला भासो जातस्तस्य ममैव पीताभास इति प्रतीतिर्न भवेत् ।
मम नीलाभास इत्येतत् सर्वस्य स्वानुभवसिद्धं सर्वत्र सर्व
स्मिन्देशे सर्व स्मिन्काले चाबाध्यमानममायमिति माया प्रमातुः
स्वत्वेनाभासमानो नव नव प्रमेयौन्मुख्यात् नव नवोदयो
बोधाभासः । सप्रमाणं वक्ष्यमाणं प्रमाणं विधत्तं यतः
कासौ प्रमास्वभावेति चेत् । आह - स एवबोधरूपः प्रमाणाभासमिति
प्रमारूपं फलमिति सम्बन्धः । घटः कुम्भ इति वत्
प्रमाणस्यापरपर्यायं प्रमेत्युक्तं भवति । न तत्
प्रमाणफलरूपायाः प्रमायाः सरूपं नोक्तम् ।
अत्राभासबोधरूपे अभासः बाह्यघटाद्युन्मुखाया
प्रकाशरूपतया प्रमाणम् । या तु तस्य प्रमाणस्यैव प्रागिति या
चैषा प्रतिभेत्यत्रोपपादिता, अन्तर्मुखात्मा विमर्शरूपता
तत्स्वभावेन केवलं विषयदशा सङ्कुचितेनेति केवलमिति स्वात्मनः
संविद्रूपतया सङ्कोचा भावेऽपि सङ्कोचे विषयबहिर्मुख
निश्चयरूपया दशया सङ्कुचितेन तदन्तर्मुखात्मक
विमर्शस्वभावेन स एव प्रमाणबोधः फलं प्रभा । एक एव
बोधाभासः बहिर्मुखरूपत्वे प्रमाणम् । अन्तर्मुखरूपत्वे
रमेत्यत्र दृष्टान्त प्रकटनेन द्रढयति - यः शूरोऽहं स एव
विजयीति । एक पुरुषनिष्ठ शूरत्वविजयित्वे यतोऽहं शूरः ततो विजयीति
हेतुफलभावेन व्यवस्थाप्यते । एवमिति । शूरत्व विजयीत्वयोः
हेतुफलाभाववदेकस्मिन्नेवनीले एकस्य प्रमातुर्बहिः इदं नीलमिति
प्रकाशो यतस्ततः अन्तर्नीलमिदमिति परामर्शः इति नील सम्बन्धिनो
भधस्यैकरूपत्वेऽप्यन्तर्बहीरूपत्वप्रकाश विमर्शात्मतया
हेतुफलभावः । तद्वशात् प्रमाणवशात् प्रमेय व्यवस्थाप्नात्मा
प्रमारूपोऽन्तर्विमर्शः । किञ्च व्यापाररूपं फलमिति प्रमातृ
सम्बन्धिनः प्रमाणस्य व्यापाररूपं फलमिति
प्रमातृसम्बन्धिनः प्रमाण व्यापाररूपं फलं व्यापारश्च
व्याप्रियमाणात् प्रमातुस्तेन प्रमेयं
प्रतिव्यापार्यमाणादन्याकार इत्यभेदः इत्यभेदः प्रमाणफलयोः
प्रमाणमपि प्रमातुर्विमर्शबलेनैव प्रमाणं भवति ।
सर्वप्रमाणप्रमाणभूतो विमर्शः
प्। २६४) (३३७) स प्रमाणप्राणभूतः देशकालादि
रूपैराभासान्तरैरनामृष्टेति । अत एवैकरूपे सर्वत्रानुस्यूते
सामान्यात्मनिवस्तुनि घट इति लोहित इति घट गत घटत्व लोहितत्वादिषु
अभिधानरूपश्शब्दः प्रवर्तते । यतः वस्तूनामत्रत्यमिदानीं
तनमिति
स्वलक्षणत्वकरणप्रवणयोर्देशकालाभासयोरनामिश्रणाद्व्याप्ते
नित्ये अत एव सामान्याय माने घटत्वकाञ्चनत्वाद्याभासे
तत्तदभिधानशब्द जीवित विमर्श द्वारा प्रमाणं प्रवर्तते । घट
गतोऽयमित्यपि ह्याभासःकाञ्चनत्वाद्याभासवत्
देशकालाद्याभासान्तरानामिश्रे सर्वभावगते दन्तात्मक
पुरोवस्थितताभासमात्रे विश्रान्त इत्युक्त माचार्य पादैरेव नियतेति यो
यो भावः अयमयमिति प्रमातुः पुरोनियतत्वेन भाति ।
ततसर्वभावगतेदन्तासामान्येन घटतः काञ्चनत्वाभासः
सर्वदेशगत काञ्चनानुस्यूतोभाति तद्वद् घटगतोऽयमित्याभासः
सर्वदेशगत घटपटाद्यनुस्यूतेदन्ता सामान्येनैव जायत इति । तत
एवेदन्ता या अपि सामान्यरूपत्वात् सामान्यरूपाभासमात्रं
वस्तुस्वलक्षणं तु काञ्चनत्वादि सामान्यरूपत्वात्
सामान्यरूपाभासमात्रं भासाधिकरणभूतम् । एत एवैकैक
मन्यदाभासान्तरम् । अत एव सामान्येभ्योऽन्यत् तत्र तस्मिल्लक्षणे
प्रथने व प्रमाणं तत् स्वलक्षण ग्राहकं प्रमाणम् । तस्मिन्
स्वलक्षणे मिश्रीकार्येषु तेषु एकैकेन प्रमाणेन गृहीतेषु
काञ्चनत्वाद्याभासेषु गृहीत ग्राहिन प्रमाणमित्यत्रेति ।
तत्रावशिष्टे वह्न्यादिदावित्यत्र भविष्यति अध्यवसायस्य
विमर्शरूपस्य विमर्शश्च शब्द जीवित इत्यस्मदुक्त नयेन प्राणितस्य
घटत्वकाञ्चनत्वादि प्रत्याभासं विश्रान्तौ तदपेक्षं
इत्यध्यवसायापेक्षं स्वमते प्रमाणस्य प्रमाण्यं वदता
विज्ञानवादिनाप्यनिच्छतापि प्रत्याभासनिष्ठमेव (३३८)
प्रमाणमङ्गीकार्यमित्येत दास्ताम् । किमवान्तरेण प्रस्तुतात्
स्वरूपपरामर्शादन्येन । अन्तर्मुख विमर्शरूपायाः
प्रमाणफलात्मनो मिते रबाधितत्वमेव दर्शयितुं
शङ्कामवतारयति - नन्वित्यादिना ।
विमर्श एव यदि प्रमाण व्यापारस्तर्हि स तर्हि द्विचन्द्रेऽप्यास्ति ।
मैवन्तादृशो विमर्शः
प्। २६५) द्विचन्द्रो न सम्भवत्येव । काञ्चन इति स विमर्शः
काञ्चनानुभवसंस्कार योगादात्मानं स्वस्वरूपं ——————
——– ते लोके प्रसिद्धकटकाभरणाद्यर्थ क्रियाप्राप्ति
पर्यन्तमनुवर्तयन् मध्ये केनाप्यन्येन बाधकेन
विमर्शेनानुन्मूलितवृत्तिरत एव स्थिरः सन् तथा भवति ।
शुक्तिरजतवन्मध्ये पुनरुन्मूलनं सहते चेत्पूर्वमपि तथेतीति
काञ्चन विमर्शे ————————– रजतविमर्शवत् ।
बाध्यबाधकभावो ऽपि स्वात्मनिष्ठाविरोधिनम् ।
ज्ञानानामुदियादेक प्रमातृ परिनिष्ठितेः । इत्युक्त नीत्या
बाध्यबाधक रूपयोर्ज्ञानयोर्विश्रान्तिभित्तिभूतेनैकेनैव
वदेशकालान वच्छिन्नेनान्तर्मुखे नाहं रूपेण प्रमातृवपुषा
पूर्वमेव काञ्चन विमर्शस्य रजतविमर्शस्योन्मूलनात्पूर्वमेव
काञ्चनं न भवतीत्यर स्वसंविदेव स्वानुभव एव
साक्षिणीदूरतः शुक्ति मालोक्य नैर्मल्यात्पूर्वं यत् सत्यरूपेण
दृष्टं तदेवेदं रजतमिति शुक्तिविषये भ्रान्तिप्रवृत्तस्य रजत
विमर्शस्य पश्चात्कटकाभरणाद्यर्थं तस्यामुद्धृतायां
पूर्वमेव नेदं रजतमित्यविमर्शीकरणं संवेद्यते ।
एतदविमर्शीकरणं शुक्तिकेति रजतमिति च ज्ञानं रजतस्योन्मूलनं
तदीय विमर्शात्मक्प्रमारूपव्यापारानुवर्तनविध्वंसं कुर्वत्
प्रतिष्ठां प्रमातरि भजत इति वा था विचारेण वक्ष्यते च रजतैक
विमर्श इत्यत्र विमर्श स्वभावे । एवं स्थिते सत्यपिद्विचन्द्रं परस्यापि
प्रदर्श्य तस्याप्य पूर्ववस्तु दर्शनाख्यं कुतूहलं यावच्चिकीर्षति
तावदिति चिकीर्षणात्पूर्वमेव अज्ञोऽयं भ्रान्तः
शत्रुमित्रकृतापहास शोकादिविषयवशं समुन्मूल्यमानं
प्राच्यं द्विचन्द्रोदयमिति परामर्शं नायं द्विचन्द्र इति
परजनवचनाकर्णनेन (३३९) समुन्मूल्यमानं
स्वसंवेदनेनैवाभिमन्यते ।
नन्विति । द्विचन्द्रोऽयमितिज्ञानं
कुतूहलात्मकार्थक्रियाकरणसमये एकचन्द्रज्ञानेन वाधिकत्वाद्
भ्रान्तित्वं भवतु । यत्र यस्मिन्वस्तुनि अर्थक्रियां नान्विच्छति तत्र
कथं बाधा व्यवहारः किं न स्त्रुटितं
बाधाबाधव्यवहाराभावात् सर्वत्र कार्येप्रवृत्तिः प्रमातॄणां
प्रामाणिक एव इदमित्थं भविष्यतीत्येवं रूपेण निश्चयेनैव न
प्रमातॄणां तत्तत्कर्मणि प्रवृत्तिः केनेति चेत् । आह - फलमिति वा
प्। २६६) नेष्यति कृष्यादौ संशयत एव क्षुधितस्य सविषादं न
भोजनेन तत् क्षुद्बाधापरिहारात्मकार्थपक्षाधिकारात् प्रवृत्तिः
केषां चिद्बुद्ध्या एवं कृते सत्येवं प्रमादो भवतीति बुद्ध्या
निश्चित प्रत्यवसाये मनसा सम्भावित प्रत्यवाये चक्षुषा
अयोरशूलारोपणात्मकं दृष्टप्रत्यवाये च पश्चादपि राजा तस्य
चौर्यमुद्दिश्य प्रवृत्तिदर्शनात् । तत्तस्मात् लोकस्यार्थित्वातिशयः
आशातिशय एव प्रवृत्तौ निवन्धनम् । तस्मात् प्रमातुरर्थित्वातिशय एव
कृष्यादि प्रवृत्तौ निबन्धः क्वचनेति कदाचित्कृष्यादौ प्रवृत्तः स
प्रमाता फलपर्यन्तं अन्ध्येन रजतमितिवत् केनाप्यनुन्मूलित
प्रमितिकः इति इदमित्थं भविष्यतीति विमर्शवानित्याह । विमर्शः
कृष्यादि व्यापारस्य प्रमाणतां पलपर्यवसायिनीं सत्यतां
प्रतिपद्यते क्वचिदन्यथेति उक्तरूपतां प्रमाणतां भजंस्तस्य
व्यापारस्य फलाभावाद्विपर्ययं सत्यतां प्रतिपद्यते । अनेन
प्रमात्रा जनमतः प्रभृति वा पूर्व पूर्व जन्मशतैर्वा इदं
प्रमाणं भवतीति चिरपरीक्षया यतः प्रमाणा प्रमाण विभागः
यथाभ्यस्तस्तत इति अभ्यासात् रत्नहेमादि स्वरूपज्ञः मणिरूप्यादिवत्
प्रमाणस्वरूपम् । आपातमात्र एव दृष्टमात्रएव
इतरजनविलक्षणमीक्षते । एवं प्रमाणा प्रमाणविभागज्ञस्य
प्रमातुरितरजनेभ्यः जन्मान्तराभ्यासात्मक कारणभेदादिकृतं
वैलक्षण्यमस्त्येव । (३४०) ततश्चैवं भूत वैलक्षण्य
वत्त्वादागामिनि फले । आर्तिमभिनिवेशिनीमिच्छां स्वत एव प्रसरन्तीं
परिमितां कृत्वा स्व वशं नीत्वा सह्यां सोढुं शक्यामभिमन्यते
। न तु स्वोन्मूलन कारिणी । अत एवार्थिता परित्याभिमानात् तदर्थिता
महाग्रहेण महाभूतेन यत्र क्वापि कृष्यादौ न प्रेर्यते फलति वा न
फलतीति वेति संशयात्म संवादभीरुस्तत एव ममेदमितीत्थमेव
भवतीति निश्चित प्रामाण्याद् बोधात् प्रत्यक्षादिप्रमाणादिह लोके
दृष्टे कृष्यादौ स्वर्गादौ च प्रवर्तमानः न विसंवाद्यते तत्कृषि
स्वर्गादि फललाभेनानयि प्रतिपन्नो भवतीत्येवं भूतः प्रमाता
प्रेक्षापूर्वकारीभण्यते भाविनमर्थं पूर्वत एव प्रेक्षत इति
करोतीति प्रेक्षापूर्वकारीभण्यते लोके प्रमाणज्ञैरिति शेषः ।
सामान्य सम्बन्धादि ज्ञानमप्रमाणमिति विमोहाद्ये
मन्यन्ते तेषां तदप्रामाण्यशङ्कां
प्। २६७) शमयितुं घटादिष्विव घटादिनिष्ठे तस्मिन् सामान्यादावपि
प्रमाणं प्रवर्तत इत्येतत्साधयितुमलौकिकमिति अक्षपादादिभिरुक्तं
प्रमाणस्वरूपमनुस्तिमस्माभिरितिशेषः । क्रिया सम्बन्धादि
वस्तुत्व समर्थनार्थमेव केवलं प्रमाणस्वरूपमुक्तम् । अत
एवलोकः श्रोतृजनाविभाग इति बाह्यशास्त्रोक्त
प्रत्यक्षादिप्रमाणभेदः । विशेषस्तु अन्तःकरण
विषयसुखादिग्रहणं प्रमाणमेकं
बहिष्करणविषयनीलादिग्राहकं प्रमाणमेकं लक्षणं नाम
प्रत्यक्षमेवं विधमनुमानमेवं विधमिति परीक्षणं पौनः
पुन्येन चर्चनमित्यादिभिर्नायासितः । प्रत्यक्षादेः प्रमाणस्य
सामान्यलक्षणमाह - यद्यज्ज्ञानं शुक्ति रजतादिवदबाधित
स्थैर्यत्वादेवाप्रतिहतानु ————————– त्तिकं विमर्शफलं
विधत्ते स्वयं बोधरूपं बोध्यरूपविषयनिष्ठं प्रमातृस्वरूप
विश्रान्तं तत्तत्प्रमाणमिति । तच्चप्रत्यक्षरूपं प्रमाणं माया
प्रमातुरैद्रियके बाह्येन्द्रियजे ज्ञानेऽन्तः करण
विषयसुखादिस्वसंवेदने सर्वत्र व्याप्ते योगिज्ञान ————————-
- संवादमेव एवतस्य विसंवादो नास्ति । अविसंवादत्वे हेतु माह -
मुख्यतयैव प्राधान्येनैवा । अन्याभास नैरपेक्ष्येण
स्वविषयभूतेनीलादौ सुखादौ विश्वात्मनि च प्रमेय स्वरूपे आभासे
वस्तुनि साक्षादयं मित्यव्यवधानेन विश्रान्तेः ॥
एवं प्रत्यक्षप्रमाणं निरूप्यानुमानादि स्वरूपं
निरूपयितुमाह - तुः प्रत्यक्षादनुमानस्य विशेष द्योतकः । एवं
भूतमनुमानं प्रमाणमिति अनुमातुः प्रमातुः अनुमानप्राणजा
प्रतीतिस्तु कार्यभूतद्धूमादेराभासान्तरात् शिंशपादि
स्वभावान्वा आभासान्तरान् आभासान्तरे अग्न्यादौ वृक्षत्वादौ च
प्रतिपत्तिः निश्चयबुद्धिः वस्त्वन्तरस्य धूमादेः शिंशपादेश्च ।
तेनाऽन्यादिना वृक्षत्वादिना च सहकार्यकारणभाव नियमः
सामानाधिकरण्य नियमश्चेति । अग्नेरेव कार्यं धूमः
शिंशपावृक्षस्वभावैव भवतीत्येवं भूतेश्वरनियति
शक्त्युपजीविन एवावधार्यः नान्यथेति । ईश्वरनियति शक्त्या विना न
भवति तेनेश्वरः नियति शक्त्युपजीवनत्वेन यावति देशे कालेवा
नियत्युल्लङ्घन कृद्योगि सृष्ट धूमादिव्यतिरेकेण यावति देशे काले वा
प्। २६८) ऐश्वरी नियति शक्तिर्जाता तावतिदेशे काले वा नुमानं
प्रमाणं नान्यत्र देशे काले वा । आगमस्तु विषयरूप
श्रोत्रग्राह्यशब्द व्यतिरिक्तान्तरः शब्दरूपश्चित्स्वभावस्य
परमेश्वरस्येदभित्यमेव भवतीति द्रढीयस्तमविमर्शात्मा
अन्तरगः अविरतमविनाभूतः अयं घट एव न पटः अयमग्निमान्
पर्वत इत्येवं भूत विमर्शात्ममयत्वात् प्रत्यक्षादेरपि जीवितकल्पो
व्यवहारः । (३४२) यदुक्तम् यतः शब्दानुवेधेन न विना
प्रत्ययोद्भवः इति । तेनागमात्मा परामर्शेन यद्यथा दृष्टं
तथैव सत्यम् । तत्र दृष्टान्तमाह - यथेति । गरुड एवाहं
तस्मादेतद्विषये मामारयतीति तथा भूते ऽन्तरशब्दे नात्मनि
विमर्शेऽनुकूल्यं यो भजते शास्त्ररूपश्शब्दराशिः सोऽपि
विमर्शवत्प्रमाणम् ।
अत्रापि दृष्टान्तमाह - ज्योतिष्टोमकार्यहं स्वर्गं
मन्तेत्यस्मिन्विमर्शे स्वर्गकामो ज्योतिष्टोमेन यजेतेति एतद्वेदवाक्यम् -
यथानुकूलं भजते दीक्षितोऽहमपुनरावृत्ति भागित्यस्मिन्विमर्शे
शैवसिद्धान्तरूपः शब्दः आनुकूल्यं भजते ।
गाढक्लेशसहिष्णुरहं बुद्धपदं गन्तेत्यस्मिन् विमर्शे
बौद्धानमः यथानुकूल्यं भजते
गाढक्लेशसहिष्णुरहमर्हत्पदं प्रपत्तेत्यस्मिन्विमर्शे आह तं
शास्त्रं यथा कूल्यं भजते तत्र स्वर्गादौ तस्याधिकरिणः विपर्ययो
नोदेति । स्वर्गकामोज्योतिष्टोमेन यजेतेति विधिवाक्ये सति तद्वाक्या
श्वस्तस्यैव तत्रानुष्ठानयोग्यत्वात् । एवमन्य त्रापि द्रष्टव्यम् ।
ज्योतिष्टोमकार्यहं स्वर्गं गन्तेत्यादि विमर्शरूपं
शब्दनमन्यस्याधिकरिणः
दृढप्रतिपत्तिरूपत्वाभावादप्रमाणमेव । तदेकमेवशास्त्रं
कञ्चित्प्रतिप्रमाणं कञ्चिदप्रमाणमित्यायातम् । न चैतद्युक्तम् ।
शास्त्ररूपस्य प्रमाणस्य पक्षपातित्वात् ।
एवं वादिनं प्रत्युत्तरमाह - प्रतीति वृत्तस्य प्रसिद्धस्य
लोकवृत्तस्य तत्त्वज्ञो न भवति । तथापि त्वमस्माभिर्नोपेक्ष्यसे
प्रमाणमपक्षपातीत्युक्तम् । तस्य वचनस्य कोऽर्थः । एकस्य
नीलज्ञानं प्रत्यक्षरूपं जातं तन्नील ज्ञानं किं सर्वस्य
प्रमातुः किं नीलं भासयति (३४३) एकस्य प्रत्यक्षं धूमज्ञानं
सर्वस्य प्रमातुः अग्निमत्त्वं भासयति । किं प्रातर्निधिमनेन विधिना
लब्धासतीति सिद्धादेशरूप आगमः । स उपदेश्येन विना सर्वं
प्रतिकिं प्रमाणम् ।
प्। २६९) अथ तस्या अप्युपदेशस्यापि कदाचिदति प्रयत्नेन धन लाभस्तथे
हापि दृढविमर्शनरूपं शब्दनं स्वान्तर्गत मर्थमास मन्ताद्
गमयतीत्यागमसञ्ज्ञं प्रमाणं सर्वस्याधिकारिण स्तावद्भवति
। यथा प्रत्यक्षमिथ्या ज्ञान सहायताभजमानमालोकेन्द्रियादिक
मप्रमाणतासचिवमप्रमाणं भवति । एतावतेति ।
आलोकेन्द्रियादिदोषेण सम्यग्ज्ञान स्वरूपस्य प्रत्यक्षस्य न
काचित्प्रत्यक्षपातिता । तथेति । प्रत्यक्षवत् स एव ज्योतिष्टोमदिशब्दः
शुद्रादेरनधिकारित्वादेवा दृढविमर्शात्मनि । अत एवा प्रमाणे
अगमाभासे साचिव्यं विदधदप्यधिकारिणं प्रति
दृढविमर्शात्मकसत्यागमरूपशब्दनलक्षणप्रमाणोपयोगिताया।
म् प्रामाण्यं भजत् पक्षपात दोषप्रतिक्षेपयोग्यो भवति ।
किं बहुना । एवं कुर्यादेवं न कुर्यादिति निषेधात्मा वा सर्व
एव ह्यागमः नियताधिकारिनियतदेश नियतकालनियतसहकार्यादि
नियन्त्रितं विमर्शं विधत्ते । अत एवेति । नियताधिकारित्वाल्लोके अविगीता
प्रसिद्धिर्या सैवैश्वरी सत्यावाङ्मता । तयेत्यादि श्लोकेन यत्रयस्मिन्
देशे । यदेति यस्मिन्काले इति नियत देशकालत्वमुक्तम् । यदुक्तम् यावति
देशे काले नियतिशक्तिर्जाता तावति देशे कालेऽनुमानं प्रमाणमिति ।
तेन हेतुना सर्वदेशकाल व्याप्तौ प्रत्यक्षागमावनुमानस्य
बाधकावितिक्ताभवद्भर्तृहरि न्यायभाष्यकार प्रभृतय आहुः ।
तस्मादेवं प्रत्यक्ष ———————- क्षणे (३३४) ज्ञाने सर्वं
प्रमाणस्वरूपं ज्ञातं भवतीति किं विशेष लक्षणैः अविसंवादि
विज्ञानं प्रमाणमिति सौगता इति नीत्या यस्तस्य
प्रमाणस्याविसंवादक्त्वं लक्षणमाह - तेनापि प्रमेयं
प्रतिप्रमातुः प्रापकत्वं तत्प्रमेयप्राप्तं प्र———————-
प्रवर्तकत्वं प्रवृति योग्यस्य शक्य प्राप्तिकस्य प्राप्तुं शक्यस्य
वस्तुनः उपदर्शत्वमपि प्रमाणलक्षणं ब्रुवताबौद्धेन सोऽपि
स्वाभासोऽभिनवोदयः इत्युक्तनीत्या प्रमातृ स्वाभासरूपः
प्रमाणाभिमत ज्ञानविश्रान्तं स्वरूपं न किञ्चिदुक्तं तत्
प्रमाणम् । अनेनास्मदुक्तेन लक्षणेन निर्वाह्यते यदि तर्हिनिव्यूढं
सायङ्निरूपैतं भवति । अन्यथेति । अनेन लक्षणेन न निर्वाह्यते चेत्
तेनोक्तं तत् प्रमाणलक्षणं वक्तुशक्यत्वात्
प्। २७०) वाचा विना मुखभङ्गमूर्धकं पादाङ्गुली मोटनादि
मात्रमित्यलमतिविस्तरेण ।
एवं प्रमाण फलयोः स्वरूपं निरूप्यतत्प्रमाणफलविषय
भूत प्रमेय स्वरूपपरामर्शार्थं वितत्यदर्शयति - नन्विति । घट
इति । इदमित्येतादृगिति च बहिर्वस्तुव्यवस्थापकः प्रमाणाभास एवान्तः
तथा विमर्शात्मा प्राञ्चन इति लोहित इत्याद्येकैकाभिधान विषये
देशकालाविशिष्टे, अत एव सामान्यरूपे वस्तुनि मितिर्भवतीति यदुक्तं
तत्र घट इत्याद्येकैक मभिधानं
काञ्चनाद्याभाससमुदायरूपे अत्रप्यमिदानीन्तनमिति
देशकालविशिष्टे अत एव बाह्ये तादृग्विधवस्तु व्यवस्थापक बहिर्मुख
प्रमाणविषये घटादौ स्वलक्षणे वर्तते यदि । तत्तस्मात्तस्मिन्नेव
घटादौ तत् स्वलक्षणात्मकवस्तु ग्रहणात् पूर्वमेव सर्वदेशगत
घटानुस्यूते घटते । सर्वदेश गतानुस्यूते काञ्चनत्वादौ च घट
(३४५) इति काञ्चन इति लोहित इत्येकैकाभिधान विषये एकास्मिन्
सामान्याभासं प्रमाणं प्रवर्तत इति कथमुक्तं स्वलक्षणं तु
काञ्चनत्वाद्यनेक सामान्यभि श्रीकरणाभासरूपमित्याशङ्कां
शमयन् वस्तु व्यवस्थापकस्य प्रमाणस्य विषयभूतं प्रमेयं
यत्तस्य प्रमेयस्य स्वरूपं परमार्थतो दर्शयितु माह - काञ्चनो
लोहित इत्याद्याभासानुसन्धाने नैकत्वेन साधितेऽर्थे यथा रुचितस्य
प्रमातुरिच्छरूपेण यथार्थित्वम्, अर्थित्वानुसारेण यथा व्युत्पत्ति
काञ्चनोऽयं लोहितोऽयमिति सङ्केतकृद्वृद्ध व्यवहारशरणतानति
क्रमेण काञ्चन इति इतिलोहित इति अनेकः सामान्या भासोऽभिमन्यते ।
बहिरयमयमिति । परिदृश्यमानो घटादिरर्थः
पृथुबुध्नोदराकारतया आतानवितानादिरूपतया च
प्रत्येकमेकैकात्मापि न तावानिति एकैकरूप एव न भवति । अपि तु
काञ्चन इति लोहित इति दृढ इत्यनेकाभासरूपेण
पृथङ्निर्भज्यमानतां बहीरूपतामपि सहते । निर्भज्यमानता
सहनमेव प्रतिपादयति - तथा हीत्यादिना । एकैकस्मिन्नेव घटादौ
प्रमातुर्यथारुचि स्वातन्त्र्येण वा यथार्थित्वमिति अर्थित्वानुसारेण वा
यथा व्युत्पत्तीति प्रामाणिककृतं तत्तत्सङ्केतात्मक
पूर्वप्रसिद्ध्युपजीवनेन वा प्रत्येकं काञ्चन इति लोहित इति उन्नत
इत्यादिरूपं विवेचनं भवति ।
प्। २७१) एवं प्रमात्रोक्त क्रमेण यथारुच्यादिना त्रिधाविवेचने
क्रियमाणे पृथगेव भवन्ति काञ्चनादय आभासाः ।
नन्वेकरूप एवं घटः काञ्चनत्वाद्यनेक सामान्यरूपेण
विभक्तश्चेत् विभाग एव शिष्यते तत्समुदायरूपं कथमेकं
स्वलक्षणं उच्यते (३४६) पृथक् पृथग्भासमानानां तेषां
काञ्चनत्वाद्याभासानामनुप्राणितभूतः प्रमातुः सम्बन्धी यो
विमर्शः स कदाचित् प्रत्याभासमिति मूल्यार्थिनः
घटगतकाञ्चनाभासे विश्राम्यति । उदकाहरणार्थिनो घटमात्रे ।
औज्ज्वल्यार्थिनः घट गते उज्ज्वलत्व इति प्रत्याभासं विश्राम्यन्तो
भवति । तदेति । प्रत्याभास विश्रान्ति समये सविमर्शः । परापरेति ।
सर्वदेशकालगत काञ्चनत्वस्पर्शात् परं देशकालविशिष्टपुरोवर्ति
स्वलक्षणविशेष भूत काञ्चनस्पर्शित्वात् । अपर इत् इति परापरात्मक
सामान्य व्यवहारो भवति यदा तस्यैव प्रमातुः
कदाचित्काञ्चनाद्याभासानां गुणता भासनेन तदा
भासाधिकरण भूतस्य घटस्य
प्रधानतापादनेनात्रेदमिदमित्थमिति देशकालाकार व्यामिश्रणा
प्राणो विमर्शो भवति तदा तद् घटात्मकं वस्तु
तत्काञ्चनाद्याभास विशिष्टमेकं स्वलक्षणं भवति । इति सूत्रार्थ
तात्पर्यं प्रदर्श्य सूत्रयोजनामाह - अपिर्भिन्नक्रमः । अनुसन्धान
साधित इति काञ्चनाद्याभास मिश्रता विमर्शेन स एवायमित्येकत्वेन
साधितोयः स्वलक्षणात्मा स तत्रैकस्मिन्नपि सति घटादि स्वलक्षणे
रुचिं स्वातन्त्र्यमर्थित्वमर्थक्रियाभिलाषपरवशतां व्युत्पत्तिं
पूर्वोक्तवृद्धव्यवहारशरणतां च यथेति अनतिक्रम्य
काञ्चनाद्याभासो भिद्यत एव यथा रुचीत्यादिनोक्तोऽर्थः । नन्वथेति ।
परमार्थ एवेति प्रसिद्धता मसिद्धदर्शन पुरस्सरं द्रढयति ।
कश्चित् एकस्मिन् चेतनतया प्रसिद्धे पुरुष स्वलक्षणे
रुच्यनुरूपेण दीर्घतामेव विमृशति, या बहुतरस्थल व्यापिनी
तरुणामप्यास्ति कस्मिन् तस्मिन्नेवनिस्सन्धिबन्धनरूपां
वृत्ततामेवपरामृशति, या शिलादेरपि सम्बन्धिनी (२४७)
कश्चिदूर्ध्वादगाक्रमणरूपामूर्ध्वतामेव विमृशति ।
स्थाणोरप्यास्ति कश्चिद्गमना गमनादि स्वातन्त्र्यभावयोग्यं
पुरुषत्वमेव यत् सर्वपुरुष साम———————- न्नेव स्वलक्षणे
ब्राह्मणत्वाद्याभासा अपि निर्धार्या इति जडाजडव्यापी प्रसिद्धतरो
दृष्टान्तो दर्शितः ।
प्। २७२) एवमेक स्मिन् धूमस्वलक्षणेऽपि सर्वदेशवर्ति धूमगत
धूमत्वं सामान्यतश्चन्दनत्वं तत्रापि रक्तचन्दन श्वेतचन्दन
जत्व इत्य ————— न्धेन विभजनीया इत्ययमपि प्रसिद्धो दृष्टान्तः ।
देशकाल विशिष्टा एकस्मिन्नेव पुरुषादि स्वलक्षणे
प्रसिद्धतरादीर्घत्वादयः प्रसिद्धा धूमत्वादयश्च आभासा
यथा पृथक् पृथग्विभज्यन्ते रुच्याद्यनुरूपेण तथैकस्मिन्नेव
घटस्वलक्षणे पुरुष स्वलक्षणादिवदप्रसिद्ध ———————-
दार्ष्टान्तिके प्रथमं हृद्भङ्ग परिहारार्थीकश्चित्सत्तामेव विभजति
या पटादिष्वप्यास्ति । उदकाहरणार्थी घटत्वाभासं विभजति
यदन्यघटेष्वापि व्याप्तम् । नयनानयनयोग्य वस्त्वर्थी
द्रव्यासामं मूल्यार्थी काञ्चनाभासं हृदयतार्थी औज्ज्वल्या
भासम् । आदिग्रहणात् दृढतराभावार्थी दार्ढ्यम् । एवं
रुचिव्युत्पत्त्योरपि योजनीयम् । एवं सद्घटद्रव्यं चन्दनोज्ज्वलतादयः
आभास भेदा उक्तप्रकारेण हृद्भङ्गपरिहारादि
भिन्नाभिन्नार्थकारिणः ते ध्वनेः सन् घटो लोहित इत्यादि विमर्शे ।
रूपस्याभिधानस्य पदं विशयो भवति ।
इह तावच्चेतनत्वेन प्रसिद्धे पुरुष स्वलक्षणे यथा
रुचिस्वातङ्ग्येण रुचिरूपेच्छाया वा आभासान् विभजेत् । यथोक्तम् -
व्याक्षेपसारत्वात् कालक्षेपसारत्वात् स्वरसेन यथेच्छमुद्गच्छतः
चेतसो या रुचिः तया रुच्या एवं कुर्यादिति शेषः । (३४८) यथार्तित्वमिति ।
तस्मिन्नेव पुरुष स्वलक्षणे स्वलक्षणार्थक्रियामर्थयमानः वितत
देशव्यापिन एवार्थान् विभजेत् । यथा व्युत्पत्तीति व्यवहारे वृद्धैः
कीदृद्दीर्घान्नाम गीयत इति व्युत्पित्समानं मन्याद्व्युत्पादयितु
मिच्छर्वादीर्घताद्याभासविभागं कुर्यात् । एकस्मिन्नपि तस्मिन्
स्वलक्षण दीर्घताद्याभासभेदः
तेषामाभासानामेकस्वलक्षणत्वं नात्रत्यमिदानीन्तनमिति
देशकालविशिष्टघटादिविश्रान्तेर्भवति देशाभासः । कालाभासश्च
वस्तूनां सामान्य रूपता प्रयोजकस्य व्यापित्वस्य च
खण्डनविधाने सविध वर्तिनौ विशेष रूपतां स्वलक्षणरूपतां
वितरतः । एवं पुरुषत्वनिर्धारणवत् ब्राह्मणत्वक्षत्रियत्वा भासा
अपि निर्धार्याः ।
अत्र पुरुष स्वलक्षणैर्जडाजडसाधारण बहुतर
धर्मास्पदत्वादयं दीर्घादिः प्रसिद्धतर आभासभेदः । अनेन
प्रसिद्धतर निदर्शनेन धूमत्वचन्दनत्व
प्। २७३) श्रीकण्ठश्वेत चन्दनार्थितत्वादयो धूमा अन्यपदार्था
व्यापित्वात् निजनिज एवरूपे स्थितत्वाच्च प्रसिद्धा आभास भेदा
विभजनीयाः । अनेन प्रसिद्धेन धूमत्वादिना दृष्टान्तेन
निस्सम्बन्धनरूपत्वादप्रसिद्धभावोऽपि यो घटस्तत्रापि आभास
भेदो भवति । तस्मिन् सत्वादय अनेका भासाभिद्यन्ते ॥
तथा हीत्यादिना तदेव प्रतिपादयति - कश्चित् स्वभवनं प्रविश्य
तत्र यत्किमपि हृदयङ्गमं वस्त्वपश्यत् किञ्चिदप्यत्र नास्तीति
हृद्भङ्गमिवापद्यमानः पुरतः घटं पश्यन् अस्तीदमिति तस्य
सत्वाभासं मेव प्रधानतयाङ्गीकार्यत्वेन पश्यति । अपरानिति ।
सत्वाभासव्यतिरिक्तान् घटत्व काञ्चनत्वाद्याभास व्यतिरिक्तान् (३४९)
घटत्वकाञ्चनत्वाद्याभासान् नाम्नापितु नाद्रियेते तथा तद्वत्
उदकाहरणार्थी स्वतन्त्रामिति
सत्वकाञ्चनत्वादीनामधिकरणभूतं घटाभासमेव पश्यति
कश्चिदगमनागमने दुनयनानयनयोग्य वस्त्वर्थीतदनुरूपं
द्रव्यमेव पश्यति । कश्चिन्मूल्यार्थी काञ्चना भासमेव पश्यति ।
हृद्यतार्थी कश्चित् औज्ज्वल्याभासमेव पश्यति । आदिग्रहणात्
दृढतरभावार्थीदार्ढ्यमेवपश्यति । एवं रुचि व्युत्पत्त्योरपि
योजनीयमिति कश्चित् उक्तान् सत्त्वाद्याभासने कस्मिन् घट स्वलक्षणे
रुच्या केवलं स्वातन्त्र्येण कश्चिद्व्युत्पत्त्या
वृद्धव्यवहारशरणतानतिक्रमरूपया व्युत्पत्त्याविभजेत् । एवमेते
सत्वादय आभास भेदा एव एववस्तुतत्प्रमाणविषयत्वेन तथा तथा
आभासमानता सारत्वाद्वस्तुतायाः सर्वाद्याभासस्य
प्रमाणाभसस्य प्रमाणभूतो विमर्शः सोऽपि प्रमाणवत्
प्रत्याभासमेव प्रवर्तते । बोधजीवित प्रस्व्यस्य प्रकाश जीवित
प्रख्यस्य प्रमातुरभिजल्पात्मनः विमर्शमयस्य शब्दस्य घटो लोहित
इत्यादेः प्रत्याभासमेव विश्रान्तेः एषां सत्वाद्याभासानां सत्वा
सत्वरूपान्वय व्यतिरेकाभ्यामर्थक्रियाकारित्वमपि प्रत्याभासमेव
नियतं सत्वाभास मात्रेणैव हृद्भङ्गपरिहार सम्पादनात् तत्र
घटाभाससाध्यायां कूपोदकाहरणरुपायामर्थक्रियायां
याध्यायां तदा नयनाधारभूत पात्रापेक्षावत्
तद्घटाभासान्तरीयकत्वेन नियतस्या भासान्तरस्य
रज्ज्वाभासस्यापेक्षणात् । एवमेकैकेनाभासमानेनार्थक्रियायां
साध्यायां तदुचितस्थान्यान्या भासस्यापेक्ष । भवत्येव ।
प्। २७४) (३५०) एवं येन येन मुख्येन मार्गेणार्थो विचार्यते तस्य तस्य
वस्तुनस्तेनतेनैवाभासमात्रैव तथैव प्रतिभासात्
विमर्शनादर्थक्रियाकारणाच्चेति सिद्धम् । प्रसिद्धतराप्रसिद्ध पुरुष
धूमघट स्वलक्षण निरूपणत्वाशयेन घटाद्यर्थ एकोऽपि
दीर्घप्रवृत्तेति धूमेति सन् घटेति चेत्यनेक तया निरूपितम् ।
ननु सत्वमिति घटत्वमिति काञ्चनत्वामिति प्रत्याभासमेव
वस्तुत्वेऽङ्गीक्रियमाणे तदाभाधिकरणभूत एकोघटात्मा
आभासः न वस्तुस्यात् । तत्तदाभास व्यतिरेकेण तस्य स्वभावा
वस्तूनां घटत्वकाञ्चनत्वलोहितत्वादीनां घटः काञ्चनो लोहित
इत्याद्याभास भेदाद्विशेषात् पुनः हृद्भङ्ग परिहारादि
रूपिण्यर्थक्रिया नियता एकैक रूपा एकं घटं समानाधिकरणं
कृत्वा तस्मिन्नेव विशेषणरूपेण विश्राम्यतां तत्सम्बन्धकृतेन
सामानाधिकरण्येन ————– न् प्रति आभासान् अयं घटः त्रत्यः
इदानीं तन एवमाकार इत्यर्थोन्मुखात् प्रतिभासात् प्रकाशात्
अभेदिनामेकत्र विश्राम्यतां पुनरर्थक्रिया नियता घटः काञ्चनो
दृढ उज्ज्वल स्ततोऽयं शिवलिङ्गशिरः
सम्मार्जनोचिततीर्थोदकाहरणयोग्य इति समुदितरूपा । आभासानां
काञ्चनत्वादीनां मिश्रं समुदितं यद्रूपं
तत्रकश्चिदाभासस्तेषां प्रधानत्वेन विश्रान्ति पदे कर्तव्यः
सघटाभासः तेषां समानमधिकरणं तेन समानेनाधिकरणेन
यस्तेषां सम्बन्धस्तत्सामानाधिकरण्यं तेन
सामानाधिकरण्येनोपलक्षितः प्रतिभास अर्थोन्मुखः
रकाशस्तत्तत्काञ्चनाद्यर्थान् (३५१) प्रतिप्रकाशो यस्तदनु प्राणकोयः
कश्चनपदार्थात्मा इहेदानीमेवं भूत इति वेदार्थ
ग्रहणोन्मुखः परामर्शश्च यः तस्य सर्वस्य प्रतिभासस्य
विमर्शस्य च स्वलक्षणरूपेकाभासविश्रान्ततानियमात्
तस्मादेकाभास विश्रान्तत्वात् इहेदानीमेवं घटोऽस्तीति पुरः
स्थितदेशवर्तमानकाल पृथुबुध्नोदराकाराद्याकार विशिष्टः
घटोऽस्तीति बाह्यविषयोन्मुखत्वात् बाह्यात्मा वाक्यार्थ
परामर्शरूपो विमर्शः प्रोक्त लक्षणं तं सामानाधिकरण्य
मनुप्राणयति आत्मन उपोद्बलकं करोति । ततो हेतोः
तत्सामानाधिकरण्यानुप्राणनाद्धेतोः ये काञ्चत्वादयो
प्। २७५) भेदिनस्तदेक स्वलक्षणतां प्राप्ताः । तत्रापि काञ्चनत्वादि
स्वस्वरूपभेदमनुज्झन्तः तेषामेक स्वलक्षणविश्रान्तता नियता
अन्या तत्तत्सामान्यात्मकैकाभास क्रियमाणार्थ क्रिया तद्विशिष्टा
समुदितरूपाकाञ्चनाद्या भासानां तद्विमर्शानां स्वलक्षणात्
भेदे पुनरर्थक्रिया अन्यानियतापकैक मात्ररूपा
सूत्रगताभ्यामाभास प्रतिभास शब्दाभ्यां
समुद्रितरूपैकैअकात्मा च विमर्शोऽप्याक्षिप्त इति मन्तव्यः । पुनः
शब्दः सामान्याभासानां स्वलक्षणाभासस्य चार्थ क्रियायां
विशेषद्योतकः अभेदिनां वस्तूनामिति बहुवचनेन स्वलक्षणरूपे
ऐक्यावभासे काञ्चनाद्याभासानां परतन्त्रं सत् पृथक्त्व यत्
तत्र तस्मिन्परतन्त्रे पृथक्त्वेपि ऐक्याभासनरूप स्वलक्षणात्मक
व्यक्त्युपरञ्जकत्वेन पारमार्थिकं सामान्यरूपत्वम् ।
एतत्काञ्चनादि सामान्याधिकरणभूतस्य शुद्धस्यानेकाभास
प्रतिबिम्बलक्षणस्य स्वतन्त्रस्योदाहरणादिक्षमस्य काञ्चनादि (३५२) -
———-घटोऽयमिति परामर्शयोग्यतामात्रेण वस्तुतः
सामान्यरूपता तस्य व्यक्त्येकरूपत्वात् स्वलक्षणरूपात् द्रव्यादन्य
एव पदार्थः खलुपरतन्त्रतासारः तस्य द्रव्यादन्यस्य
पदर्थस्यैकद्रव्यविश्रान्त्यपेक्षया पारतन्त्र्यं घटात्मा
एकस्वलक्षणरूप आभासः सामान्यभासवत् सत्यमेव । आभास
बलेन विमर्शबलेनार्थक्रिया बलेन च तथा स्वलक्षणात्मतया
वस्थानात् ।
तत्राभास समुदायरूपे स्वलक्षणे
एकैकेनाभासेनैकैकार्यक्रिया न भवति । अपि तु काञ्चनाद्याभास
समुदायायादर्थक्रियाणां समुदायो भवति । आभासा
अन्योन्यमभिन्ना अपि एकामर्थक्रियां कर्तुं मिश्रीभवन्ति यदि तदा
तेषामाभासानामियत्तारूपा अवधिः क इति चोद्यमपि वदति ।
अन्योन्य विरुद्धावभासानां पृथक्पृथग्वर्तिनां
दीप्रप्रकाशानां पुनरेकभवनाभ्यन्तरसम्मूर्च्छितात्मना
मेकेनैव समुदित रूपेण स्वलक्षणेन सूक्ष्मतमवस्त्वबलोकन
क्षमा ऐक्यधीरर्थक्रिया यथा भवति । यथा सागरे पततां
स्रोतसामेकेन समुदितरूपेण स्रोतसां पातेन
बहुतरङ्गारम्भरूपार्थक्रिया भवति तथा अविरुद्धावभासाना
प्। २७६) घट लोहित काञ्चनानामेकेन स्वलक्षणे ऐक्यधीः
शिवलिङ्गोत्तमाङ्गाभिषेकोचिततीर्था हरणरूपा ऐक्यधीरर्थक्रिया
भवति ।
पृथग्दीपप्रकाशानामितिवत् पृथक्पृथग्देश वर्तिन्यः
प्रदीपप्रपाप्रमातुः सूक्ष्मतमवस्त्ववलोकन सामर्थ्यलक्षणां
यामर्थक्रियां न कृतवत्यः (३५३) पृथक् पृथक् पतित्वात् ता एव
प्रदीपप्रभाः तामेव सूक्ष्मतमावलोकन
सामर्थ्याधानलक्षणामर्थक्रियामेक भवनान्तरे *? भूय
सम्मूर्छितात्मनो विदधाति । तत्रैकभवनान्तर सम्मूर्छने तासां
दीपप्रभाणामर्थ क्रियासमुदायो न भवति ।
अर्थक्रियाणामनेकत्वं न भवति । अपि तु एकत्वमेव
सूक्ष्मरूपैरेकार्थप्रकाशकत्वात् यथापूर्वं पृथक् पृथग्वर्तिनि
पश्चात्सम्भूय सागरपतितानि स्रोतांसि बहुतर
तरङ्गरूपैकार्थक्रियाकारिणी । तन्त्राप्यर्थक्रिया समुदायो न भवति
। तद्वद् घटः काञ्चनो लोहितो दृढ इत्यनेक विशेषणाभास विशिष्टो
यतस्ततोऽयं शिवलिङ्गसमावर्जनोचित सलिलाहरणयोग्य इति दृष्टमात्र
एव पूर्ण प्रतीतिलक्षणार्थक्रिया कारीति सिद्धमेकार्थक्रिया कारित्वं
घटकाञ्चनादीनामप्याभासानामेकार्थक्रिया करणेकः सीमेति
यद्भवतापृष्टं तत्रैकार्थ क्रियाकरणे येषामविरोधः त एवा ——-
-भवन्ति चक्षुर्विषयो रूपा भास स्पर्शेन्द्रियविषयेण मरुताभासेन
मिश्रीभवति । अन्योन्यं विरोधादेकैकेन्द्रिय विषयत्वात् सोऽपि विरोधः
अयमेवं भवत्विति नियति शक्त्युत्थापितः इति तात्पर्येणार्थमुक्त्वा
सूत्रयोजनामाह - पृथक् पृथग्वर्तिनो ये ये दीपप्रकाशास्तेषां
सम्बन्धियदेकं समुदितरूपं स्वलक्षणं सागरे च पततां
स्रोतसां यदेकं समुदितरूपं तेन तेन प्रोक्तलक्षणार्थ
क्रियारूपा ऐक्यधीर्यथा कार्यातथा ये अन्योन्या विरुद्धा घटलोहित
काञ्चनाद्याभासास्तेषां सम्बन्धि यदेकं स्वलक्षणं तेन
कार्या ऐक्यधीरिति सम्बन्धः । ऐक्यधियां घटलोहित
काञ्चनादीनां समुदितो बहिर्मुखः प्रतिभासः अन्तर्मुखो
विमर्शोऽनुभवरूपार्थक्रियाचेति (३५४) त्रयमपि स्वीकृतम् ।
प्। २७७) (३५४) एवमित्युक्त नीत्या प्रमाणस्य पृथक् पृथक् प्रत्याभासं
तत्तत्काञ्चनाद्याभासं प्रति विस्रान्तत्वात् अग्न्याभासेऽप्याग्नि
ज्ञानमेव प्रमाण धूमज्ञानञ्च धूमाभास मात्र एव
प्रमाणं नत्वग्न्याभासे तयोर्धूमाग्न्योः कार्यकारणभाव
ज्ञानमपि कार्य कारणाभास मात्रे इति यतस्तस्मात् अग्निजन्या
धूमाभासोऽपि कारणरूपमग्न्याभासं व्यभिचरेदिति अन्यः
अङ्कुरादिः कार्यवर्गः सर्वः तत्तद्वीजादिकारणाभासं व्यभिचरेत् ।
तत्तत्कार्यैस्तत्रत्कारणानुमेयत्वाभावाद्बहुतरोपप्लव प्रसङ्ग इति
शङ्कां व्यपोहितुमाह - तत्रेति ।
प्रत्याभासं प्रमाणं विश्राम्यतीत्यास्मिन्नपि पक्षे
नकश्चिद्दोषः । देशकालाद्यविशिष्टे अत एव सामान्यायमाने
वह्न्याद्याभासे तस्य वह्नेरिन्धनकार्यधूमकारणता उष्ण
स्वभावता तत्तद्व्यह्व्यनलवैश्वानरादिशब्दवाच्यता । आदिग्रहणात्
घटादिप्रकाशता ऊर्ध्व ज्वलनतागन्धरस शून्यता इत्यादिरात्मा
अग्निधर्मभूतः स्वभावोऽयं स एकस्मादग्निप्रमाणादेव
संविदितो भवति । कार्यताकारणता तत्तच्छब्दार्थता चेति पृथक्
पृथग्भाव प्रत्ययः इन्धनादि वस्त्वन्तरापेक्षया च
कृतकाकृतकरूपाग्निधर्मभूतवर्गभेदं सूचयितुम् ।
तत्रेन्धनकार्यता धूमकारणता तत्तच्छब्दार्थता चेन्धनधूम
तत्तत्प्रमातृसङ्केतकृतवाचकापेक्षया च कृतकः
उष्णतोर्ध्वज्वलनतागन्धरसशून्यता (३५५) चाकृतको वर्ग इति
वर्गभेद सूचनार्थः । तदेव प्रतिपादयति - तथा हीत्यादिना ।
अत्रत्यमिदानीं तनमेव माकारमिति देशकालाकारैरसङ्कीर्णत्वेन
सामान्यमात्ररूपत्वात् अविशिष्टो यद्यपि च वह्न्यामासः
यावद्भिर्वक्ष्यमाणै ———- कारणताद्याभासैरविनाभूतत्वेन
भगवत्या निशति शक्त्या नियमितं तावतः
कार्यकारणताद्याभासान् प्रमाणकृतानिति
एकैनैवाग्निप्रत्यक्षप्रमाणेन कृतान् सम्पादितान् स्वीकृत्यैव
प्रमातुर्निश्चयपदवीमवतरति । ततश्चेति । एवं निश्चयपद
व्यवतारणात् सोऽग्न्याभासः स्वात्मनः इन्धनकार्यताभासेन
धूमकारणताभासेनोष्ण स्वभावता भासेन
प्। २७८) च स्वाभाविका व्यभिचरितसाहचर्यः सन् प्रतीयमानः
विश्वत्रैवसर्वस्मिन्देशे सर्वदैव सर्वस्मिन् काले च तथा प्रतीत इति
अव्यभिचरित साहचर्यः सन् प्रतीतो भवति । तस्य वह्न्या भासस्य तैः
कार्यताद्याभासैः शब्दैक्यात् अयं कार्यतादिवह्नेः स्वाभाविकः
स्वभावः पुरुषकृत समयादिमत्व प्रेक्षित्वाद स्वाभाविकोऽपि यः
स्वभावः सोऽप्येकाग्निप्रत्यक्षादेव निश्चीयते । तस्याग्निं प्रत्यक्षी
कुर्वतः प्रमातुः कृत्रिमेणाग्न्यादिशब्द वाच्यत्वरूपेणे
तरेणाकृत्रिमेणेन्धनकार्य तादिना रूपेण सहित तत्तदाभासान्तर
नान्तरीयकतया सवह्न्याभासः स यथापुरः संविदितः
सर्वदेशकालगतः तथैव सर्वस्मिन्देशे काले च नान्तरीयकतया
संविदित इति । तत्रेति । कृत्रिमे अग्न्यादिशब्दवाच्यत्वरूपे
चाग्निप्रमाणव्यतिरिक्तेन प्रमाणतत्तद्धूमकार्यता
दिव्यवस्थापकेन प्रमाणान्तरेण किं न किमपि प्रयोजनमस्ति । तस्य
सर्वस्यैव रूपस्याग्निप्रमाणमेवालं इन्धनकार्योऽयं (३५६)
धूमकारणमयं उष्वस्वभावोऽयामग्न्यादि शब्दवाच्योऽयमिति
पुरुष समयेन नियुज्यमानस्य तस्य तस्य शब्दस्य
स्फुरद्भास्वराकारः एक एववह्निरर्थ इति वह्नेरेवं
भूतेनेन्धनकार्यताद्याभासाविनाभावद्योतकी नियति शक्तिरेव
सर्वत्र सर्वस्मिन् व्यवहारे शरणामिति पिशुनयत्याचार्यः ॥
उक्तमेवार्थं व्यक्तीकरोति - एतदुक्तं भवतीत्यादिना । यस्य
कस्य चिद्भावाभासस्य यत्किञ्चित्कृत्रिममितरद्वा आभासान्तरेण
नान्तरीयकत्वमविनाभावः प्रतिभाति । तत्रेति ।
तत्तत्कृत्रिमाकृत्रीमाभासानान्तरि यकत्वे केवलं
नियतिशक्तिमात्रमेवविजृम्भते नियतिशक्तिरेव तन्नान्तरीयकत्वं
सम्पादयति तन्नान्तरीयकत्वभिन्धनकार्यत्वे
धूमकारणत्वेचाभासमानेनियतरूपं भूत्वा
पूर्वापरकालव्यापि सर्वकालानुस्यूतमित्यर्थः ।
वह्न्यादिशब्दवाच्यत्वादौ नान्तरीयकत्वामिति शेषः । ततश्च नियति
शक्तिबलात् धूमाभासोऽप्यग्न्याभासं न व्यभिचरेदिति
अनुमानकथायान कश्चिद्विप्लवः । श्लोकस्यार्थं साकल्येनोक्त्वा
तदन्वयमाह - कार्यकारणता तस्य शब्दस्यार्थता
प्। २७९) तत्तच्छब्दाभिधेयता । आदिग्रहणात् ग्रन्थासशून्यता इत्येवं
भूतो य आत्मा स्वभावे बह्न्यादौ स सर्वस्वभाव एकस्मादेव
वह्निप्रमाणात् मतः संविदित एव भवति । अन्धच्छेद इति समयः
काव्ये न तु शास्त्र इति द्वितीय तृतीय पादयोः कार्यकारणतोष्णता
तत्तच्छब्दार्थतादात्म्येति पूर्वार्धोत्तरार्धयोः सामस्त्येऽपिदोषो न
भवति । सामस्त्येऽधिकार्यकारणता उष्णता तत्तच्छब्दार्थता इति
पृथग्भाव प्रत्यय प्रयोगः । इन्धन
धूमाग्निशब्दवाच्यतादिवस्त्वन्तरापेक्षातस्तद्वस्त्वन्तरानपेक्षात"
स्च कृतकाकृतकरूपं वर्गभेदं दर्शयितुं सूचितम् । (३५७)
तत्रोष्णता स्वभावः स्वत एवाकृतकः इन्धनकार्यता
धूमकारणता चेन्धनादि वस्त्वन्तरापेक्षया कृतक प्रायाशब्दादि
वाच्यता कृअकैव इदमेतादृगित्यादिनाश्लोकषट्केण निरूपितं
काञ्चनादि सामान्याभासव्यवस्थापकं सामान्यप्रमाणं
तत्काञ्चनाद्यनेकाभास विशिष्टस्वलक्षणव्यवस्थापनात्मकं
स्वलक्षणप्रमाणं च सङ्क्षेपेण स्पष्टयति - एवमित्यादिना ।
काञ्चनाद्याभासं प्रतिविश्रान्तेनैकैकेन प्रमाणेन
तत्तत्काञ्चनाद्याभास व्यवस्थापनं क्रियते । तेषां
काञ्चनाय्दाभासानां यथोचितमन्योन्यं
विशेषणविशेष्यभावेन यथोचितमविनाभूतत्वं यत्
स्वलक्षणात्मकं वस्तु तदेकेन देशकालाविशिष्टेन संवित्स्वरूपेण
तत्तदिति ताभिस्ताभिः काञ्चनोऽयं लोहितोऽयमुज्ज्वलोऽयमित्यनेकाभिः
प्रमाभिर्मिते अन्तर्निश्चिते काञ्चनाद्याभासरुपे विषये
पूर्वप्रवृत्तस्य काञ्चनाद्याभास प्रमाण
संवेदनानुप्राणकस्यान्तर्मुखेनाहं भावात्मना
विश्रान्तिभूतेन निश्चियते । ततश्च तस्मात् काञ्चनाद्यनेकभासरूपे
स्वलक्षणे प्रमाणं घटोऽयं काञ्चनोलोहित इत्यनुसन्धानरूपं
तत् स्वलक्षणग्राहकं प्रमाणमनुसन्धीयमानेषु काञ्चनादि
विशेषणाभासेषु प्रवर्तते चेत्
गृहीतग्राहकत्वरूपाद्देषादप्रमाणम् । तत्र तेषु
काञ्चनाद्याभासेषु प्रत्येकं प्रत्येकं प्राच्यमेव
काञ्चनादिसामान्य वस्तु व्यवस्थापनात्मक संवेदनमेव
प्रमाणं प्रमातुः काञ्चनोऽयमुज्ज्वलोऽयमिति काञ्चनादि
तत्तद्भाव व्यवस्थापनात्मक मानसप्रवृत्त्यतिरिक्ताया (३५६)
उदकाहरणा पेक्षया स्वलक्षणात्मकं घटं ग्रहीतु
मुद्युक्तायाः
प्। २८०) काय प्रवृत्ते रूपयोगः । यथा चाक्षुषादि ज्ञानात्मक
प्रमाणविषयो यथा भवति तत्प्रकारं दर्शयितुमाह -
उदकाहरणार्थ क्रियार्थिनं प्रमातुः घटं प्रति तात्कालिकी
तत्तत्कालभाविनी उदकाहरणेच्छा समयसम्भवा घटोऽयमिति
वङ्मयी मनोमयी च करणाद्यवयवी च प्रवृत्तिर्या सा तु
देशादिकाध्यक्षान्तरभिन्नेति तद् घटाधारभूते देशे । आदि
ग्रहणात्तद्विशेषण भूते काले तद्विशेषणभूतकाञ्चनादि
स्वरूपान्तरे सोऽयं घट उदकाहरण योग्य इति
स्वरूपानुसन्धानादौ च प्रत्येकं यान्यध्यक्षान्तराणि
बहून्युदकाहरणान्तराणि तैरध्यक्षान्तरैर्भिन्ने सम्भिन्न एव
घटात्मनिस्वलक्षणे स्यात् । स एवं भूतावाङ्मनः कायप्रवृत्तिः
काञ्चनोऽयं घटोऽयं लोहितोऽयमित्येकैकात्मकः
सामान्यवस्तुग्राहकात् प्रमाणान्नभवति । अपि
तूक्तलक्षणप्रमाणं समूहादेव भवति । उक्तरूप
देशादिबहुप्रत्यक्षवति प्रमातुरन्तरभिन्ने स्वलक्षणे उक्तरूपा
प्रवृत्तिरिति वा योजना । देशादिकाध्यक्षान्तरैः प्रत्यक्षीभूतैः
देशकालकाञ्चनत्वाद्याभासान्तरैर्भिन्ने स्वलक्षणे निमित्ते उक्ता
प्रवृत्तिरिति वा । अत्रापि देशादि बहुबहुप्रमेय
निरूपणदिशातदनुयायित्वेनाभिधीयमानः प्रमाण समूहो
निमित्तत्वेनोक्तो भवति इति त्रिविधा योजना ।
एवं प्रत्यक्ष प्रमाणविषये देशादि भिन्ने
घटादिस्वलक्षणेऽर्थक्रियार्थिनः प्रमातुः काय प्रवृत्तिरिति
प्रदर्श्यानुमान विषयेऽग्न्याभासेऽप्येवमेव प्रवृत्तिरिति दर्शयति -
अप्यनुमानत इति । न केवलं प्रत्यक्षत एव
देशादिकाध्यक्षान्तरभिन्ने (३५९) स्वलक्षणे प्रवृत्तिः । अनुमानतोऽपि
पर्वतादिदेशादिकाध्यक्षान्तरभिन्न एवाग्न्याभासे उक्तरूपा
प्रवृत्तिर्भवतीत्यर्थः । अत्रापि पक्षरूप पर्वताभास प्रमाणं
यत्तद्वर्तिलिङ्गरूपप्रमाण यद्धूमाग्न्याभासा
व्यभिचारित्वप्रमाणं त्वद्गृहीत पर्वताद्याभासातिरिक्ते
अग्निस्त्रेत्येवं भूते अयोगव्यवच्छेदे यदनुमानात्मकं प्रमाणम् ।
एतत् समूहसम्भिन्ने अग्न्याभासेऽनुमानतोऽप्यर्थिनस्तात्कालिकी
प्रवृतिरिति सम्बन्धः । तु स्तत्सामान्यरूपकाञ्चनत्वाद्यर्थक्रियातः
स्वलक्षणार्थक्रियाया विशेषद्योतकः । प्रमातुर्मानस
प्रवृत्त्यतिरिक्ता बाह्यार्थक्रिया अनेक सामान्य समुदायिरूपात्
प्। २८१) स्वलक्षणतस्तस्य स्व ———— क्षण्य एवात्रत्यमिदानीन्तनमिति
देशकालाभासयोरन्तरङ्गत्वं तत्र देशकाला कार विशिष्टत्वे
प्रमातुरयमित्थं भूतः अत्रत्यः इदानीन्तन इत्यादि परामर्शं
विना तस्य स्वलक्षणस्य स्वत एव विशेष रूपता स्वलक्षणता न काचित्
तत्परामर्शद्वारेण परामृष्टरिप्रमातरि विश्राम्यति । प्रमातुः
संविदेकरूपस्य देशकालाकलितस्यान्तरैक्याद्देश काला
कारविशिष्टं स्वलक्षणं स्वां विशेष रूपतामुज्झत्येव । यदुक्तं
- स्वक्रमसिद्धामित्यादि । इति सर्वत्रापरमार्थतः
प्रमातृमयमद्वयं तथापि तस्य स्वलक्षणस्य या विशेष
रूपताभाति तस्यां विशेषरूपतां सम्पादनायां
परमेश्वरस्वातन्त्र्यमेवनिमित्तं यन्मायाशक्तिरित्युच्यते । अत्र
यत्तच्छब्दः प्रसिद्धिद्योतकः । तत्रमायाशक्तिविलासे विशेषेण
स्वलक्षणेन साध्येन समुदित रूपेणार्थक्रिया
विशेषणेनोदकाहरणादिनार्थक्रिया विशेषणयोत्थितस्य प्रमातुः
स्वलक्षणे तस्मिन् विशेषणरूपेऽर्थे या तात्कालिकी वाङ्मनः काय
प्रवृत्तिः सा तत् स्वलक्षणाधारभूते देशे ।
आदिग्रहणात्तद्विशेषणभूते काले विशेषणभूतः काञ्चनादि
स्वरूपान्तरे सोऽयं घट उदकाहरणादि योग्य इति
स्वरूपानुसन्धानादौ च यान्यध्यक्षान्तराणि भवन्ति
तेषामध्यक्षान्तराणां भेदे सम्भेदे सम्पर्के निमित्तेसति भवति
नान्यथा । एकैकेन देशादिना प्रमाणेन न भवति । अपि तु प्रमाण
समूहादेव भवति । प्रमाणानां समूहता तद्विश्रान्ति
स्वरूपानङ्गीकरणात् परस्य ज्ञानसन्तानवादिनो नोपपन्ना ।
अस्माकं त्वेक स्वसंवेदन विश्रान्तिमयी प्रमाणसमूहता युज्यते ।
न चेदन्तः कृते त्यत्रोक्तं इयमिति एकस्वसंवेदनविश्रान्तिरेव
प्रमाणानां योजना व्यमिश्रणायोजिका योजयित्री युक्तिः योग इत्युच्यते ।
योजनाव्यापार रूपा । योजिकाव्यापारयितृरूपा । युक्तिः सम्मेलनं
एतत्त्रयमप्येक स्वसंवेदन विश्रान्त्यैव भवति । यथोक्तम् -
तत्तद्विभिन्न संवित्ति मुखैरेक प्रमातरि । इत्यादि
ज्ञातेयमुपपद्यत । इत्यन्तमियं युक्तिर्गन्धद्रव्यादि युक्तिवत्
प्रमातुः हृदयसन्तोषात्मक विशिष्टार्थक्रिया कारिणी भवति ।
एवमुक्तरूपात्
प्। २८२) प्रत्यक्षसमूहादेव स्वलक्षण प्रवृत्तिरिति तात्पर्यम् ।
उक्तरूपदेशादिकाध्यक्षान्तरजुष्यपि
प्रमातुरन्तरभिन्नेस्वलक्षणे प्रवृत्तिस्तत्रेति वा सङ्गतिरिति वा योजना ।
प्रत्यक्षीभूतैर्देशादिकैराभासान्तरैः प्रमेयैर्भिन्ने व्यामिश्रे
स्वलक्षणे निमित्तेसति प्रवृत्तिरिति वा योजना ॥ अत्रापि योजनायां देशादिक
प्रमेयश्च बहुत्व निरूपणदिशा तत्तद्देशादि प्रमेयानु यायी (३६१)
प्रमाणसमूह एव निमित्तत्वेनोक्तो भवति ।
ननु किं प्रात्यक्षां प्रत्यक्षप्रमाण सम्बन्धिन्यां
प्रवृत्तावुक्तरूपः प्रमाणसमूहः उपयोगीत्याह -
प्रमातुर्नकेवलं प्रत्यक्ष्येव
प्रवृत्तिर्देशादिकाध्यक्षान्तरभेदनिरूपणसमूह निमित्ता
आनुमानिकी प्रवृत्तिरपि तथेति पर्वतादि देशादिकाध्यक्षान्तरः
प्रमाणसमूह निमित्ता तदेव प्रतिपादयति -
दूरवर्तित्वाद्विशेषणशून्ये धूमाभासमात्रे
तद्वदग्न्याभासमात्रे तद्वद्धूमाग्न्याभासा व्यभिचारित्वे
एतदधिकरणभूते पर्वताभासे च यानि तद्धूमाग्न्याभासा
व्यभिचारित्वे एतदधिकरणभूते पर्वताभासे च यानि
तद्धूमाग्न्याभासग्राहकाणि प्रत्यक्षान्तराणि तत्तत् प्रमाणगृहीत
धूमाद्याभासातिरिक्ते अग्निरत्र पर्वतेऽस्तीत्येवं भूते
अयोगव्यवच्छेदे पृथगनुमानात्मकं प्रमाणञ्च
यत्तदेतत्प्रमाणसमाहादेवार्थिनः अग्न्याभासं प्रतितात्कालिकी
प्रवृत्तिरिति सम्बन्धः । विमर्शबलादेववस्तूनां
स्वलक्षणसामान्यात्मकभेदाभेद व्यवस्था मूलभूतं
तद्विमर्शबल[देववस्तूनां स्वलक्षणसामान्यात्मक] एवं
पूर्णाहन्तात्मकं संवेदनात्मनः परमेश्वरस्य
सदाशिवादीनामपि स्वामिनः शिवनाथस्य स्वातन्त्र्यशक्तिविजृम्भितम् ।
तस्मात् परैर्बौद्धैर्दूरान्तिकादौ घटादेरर्थस्य भेदो नास्तीति तद्
घटादिस्वरूपस्यान्यथात्वं न भवतीति यदुच्यते तदप्यभेदत्वं
विमर्शबलादेवोपपद्यते । विमर्शबलेन विना तदभेदत्वं केनापि
प्रमाणेन नो पपद्यत इति निरूप्यते ।
अर्थानां दूरान्तिकतया परोक्षाध्यक्षतात्मना
बाह्यान्तरतया व्यञ्जकस्य दीपा लोकादेर्दोषैरन्यथापिवा
इन्द्रियादिपाटवादिनावा एकपार्श्वसम्मुखत्वादिना
वाभिन्नवभासच्छायानामपि स एवायमिति एक रूपेण
प्रत्यवमर्शेनाख्या आसमन्तात् ख्यातं प्रथनं यस्य
तस्मान्मुख्यावभासतः
प्। २८३) (३६२) एकरूपावभासात् तदिदमेवेत्येकत्वमनिवारितम् ।
प्रतिभासमात्रेणेति । यस्तु प्रतिभासानुरूपेण वस्तु व्यवस्थां
कुर्वता प्रमातुर्दूरादूरयोः स्थितस्य वस्तुनः कथं न भेदः ।
प्रतिभासस्य तत्प्रतिभासस्यादूरे सम्पूर्णतया दूरे आवृततया
अदूरेऽनावृततया च यथा कथं चिदपीति येनकेनप्रकारेणेतिभेदात् ।
ननु विमर्शोऽपि दूरादूरयोः प्रत्याभासं तथैव
सकलासकलादितयाभिन्नः । सत्यम् । प्रतिभासानुरूपविमर्शोऽपि भिन्न
एव । तथापि स एवायं पदार्थ इत्येक प्रत्यवमर्शरूपः परः
अनुसन्धानात्मा पू——————————— यः तेनैक
प्रत्यवमर्शेन । आसमन्तात् ख्यानं प्रथनं यस्य
मुख्यावभासस्यैक रूपावभासस्यैक प्रत्यवमर्शोऽपि तदुदित इति
मुख्या व भासोदितः एकरूपः अहं प्रकाशोऽस्त्येव ।
अभासविमर्शयोः प्रकाशविमर्शयोरन्योन्यमपि योगादेक
प्रत्यवमर्शानुप्राणितात् । तस्मान्मुख्यावभासात्
दूरादूरयोरर्थानामेकत्वमप्रतिहतमास्ते ।
परोक्षाध्यक्षतात्मनां भिन्ना वभासच्छायानामैक्यमाह -
यदेवानुदितं तदेवदृष्टमिति प्रत्यक्ष परोक्षतादिरूपेण । आत्मना
स्वयावेन भिन्ना अवभासच्छाया अमुख्योऽवभासो एषाम् । एक
प्रत्यवमर्शानुप्राणितान्मुख्यावभासात् एकत्वमिति सङ्गतिः ।
वाह्यत्वेनान्तरत्वेन च भिन्ना वभासानामैक्यं यदेव
दृष्टं तदेवान्तरहमुल्लिखामीति व्यञ्जकादीनां
दोषैर्भिन्नावभासानामैक्यं पदे वरक्तोत्पलं दोषाक्तेन दीपेन
नीलं दृष्टं तदेव सूर्यांशुभिः रक्तमेव पश्यामीति ।
अन्यायापीति । इन्द्रियापाटवादिना एक पार्श्वसम्मुखत्वादिना
वावलोकेन न येषामवभासच्छाया (३६३) भिन्ना तेषामपि
मुख्यप्रत्यवमर्शानुवृत्त्यवभासस्वरूपबलादैक्यमेवेति स्थितम् ।
ननु दूरादूरयोः परोक्षापरोक्षयोश्चार्थः स एवास्तु ।
तस्यार्थस्य स एवामयमिति प्रमात्रध्यवसितार्थक्रियांशे
तथैवेत्यध्यवसितानुरूपेणोपयोगाद्बाह्यान्तरत्वादाविति । यदेव
बहिदृष्टं तदेवान्तरहमुल्लिखामीत्युक्तं भवता ॥
तत्कथमान्तरस्य वस्तुनः प्रमात्रध्यवसितायामुदका
हरणादिरूपामिति भ्रान्तिं भङ्क्तुमाह - अर्थानामर्थक्रियापि
सहजा न भवति ।
प्। २८४) सा ईश्वरेच्छाया नियतेति । अयमर्थः - इमामर्थक्रियां करोतु
न करोत्विति नियमितः हि यस्मात्तेन तेनार्थवर्गस्य तस्यार्थक्रियायाः
अक्रियातः अकरणात् अन्यथात्वं न भवति ।
घटस्योदकाहरणाद्यर्थक्रिया भावे घटत्वं न घट यतितस्य
प्रकाशतैव रूपतेति ॥
तत्रविशिष्टे वह्न्यादौ कार्य कारणतोष्णतेत्यत्र घटप्रतिपत्ति
कारित्वमित्यनेन वाक्येनार्थक्रिया विभावस्य स्वरूपमिवयामध्ये
गणिता सा तस्य सहजा स्वरूपभूतान भवति । अर्थस्य भवनेऽभवने
च तत्कारित्वमिति अर्थक्रियाकारित्वामीश्वरेच्छा नियतं हियस्मात् । तेनेति ।
तस्या अर्थक्रियायाः । अक्रियात इति अकरणाद्धेतोः भावस्यान्यत्वं
नाशङ्कनीयम् । अर्थस्य घटादेः घटादिस्वरूप विगलने
खलवन्यत्वमाशङ्कनीयम् । न च स्वरूपमर्थक्रियाकारित्वमित्युक्तम्
। अन्तरत्वात् प्रमात्रैक्य इत्यत्र वक्ष्यते । जडस्य तु न सा शक्तिरित्यादौ
भावस्यबाह्यान्तरावपि स एवायमिति प्रत्यवमर्शबलात् (३६४)
स्वरूपमेकमेव ।
नन्वेवमुक्तप्रकारेण वस्तूनां विमर्शबलादेव
स्वलक्षणसामान्यात्मक भेदाभेद व्यवस्था । तर्हि
त्रिजगत्यामपिभ्रान्तिव्यवहारो निवृत्तः । शुक्तिकायामपि
शुक्तिरजतमेवा पतति । इदं रजतमिति विमृश्यमानत्वात् । ततश्चेति ।
शुक्तिकायामपि सत्य रजतपतनात् भ्रान्त्यभावे इदं रजतमिति
प्रतीयमानस्य रजत विमर्शस्य पश्चात्कारभाविनाशुक्ति ज्ञानेन
बाधानुपपत्तेः किमर्थ मिद मुक्तम् ।
एकाभिधानविषये मिति र्वस्तुन्यबाधिता ॥
इति रजतविमर्शस्य व्यभिचाराभावे अबाधितेत्यस्य मिति
विशेषणस्य बाधायोग्यं रजतविमर्शात्मकं व्यवच्छेद्यं न
लभ्यत इति आशङ्कां निरस्यति । शुक्तौ रजतैकविमर्शे विदूरेशुक्तिं
दृष्ट्वा इदं रजतमेवेति रजतविमर्शैक्येऽपि शुक्तौ रजतस्थितिः
उपाधिदेशा संवादादिति नैर्मल्यमात्राद्रजतछायात्मन्युपरतः ।
उपाधिरूपस्य शुक्ति रूपस्य पश्चात्काले इदं रजतमिति
विमर्शाभावाद्धेतोः द्विचन्द्रोऽयमिति द्विचन्द्रज्ञानेऽपि प्रमातु
रक्षि दोषात् द्विचन्द्रावरुद्धं नभः ।
प्। २८५) अन्यथा पश्चात् द्विचन्द्रावरुद्धो न भवति । द्विचन्द्रा वरुद्ध
नभो देशा संवादात् द्विचन्द्रोऽयमिति प्रतीति रपि भ्रान्तिरेव ।
दूरतः शुक्तिदृष्ट्वा तां प्रतिनैर्मल्यात्मक वर्णसाम्यात्
इदं रजतं स्थिरं सर्वप्रमात्रसाधारणं
कटकाभरणाद्यर्थक्रियायोग्यमिति इदमित्यंशे रजतमित्यंशे
स्थिरमित्यंशे सर्वप्रमात्रसाधारणमित्यंशे अर्थक्रियांशे
इदंरजतादेश्च सम्मेलनांशे चेदं
रजतमित्याद्याभासबलात्तदाभास विमर्शबलाच्चतदानीमिति
प्रथमविमर्शकाले तस्येदमं शादेः न कश्चिन्मिथ्यात्वं किन्तु
इदं न रजतं स्थिरं न प्रमात्रन्तरगम्यं नाभिमतार्थक्रियाक—
—————————— उत्तरकाले योभविष्यति यो विमर्शः
तद्विमर्शनीयमथमिति नेदं र्जतमित्यादिविमर्शेविमर्शविम"एनीयत
तद्रूपं पूर्वविमर्शकाल इति प्रथमतः शक्तिं दृष्ट्वातां प्रति
इदं रजतमिति विमर्शकाल एव समुचितं तस्मिन् पूर्वविमर्शकाले
प्रमात्रानामृश्यते ——————————— नेदं
रजतमित्यादिद्यामर्शनीये न रूपेण प्रथमकाल एव भाव्यम् ।
प्रथमविमर्शकाले इयं शुक्ति रेव रजत मभूदिति ह्युत्तरः
परामर्शः उदित प्रत्यस्तमितायामिति । उदित्वैव
तदानीमेवास्तमितायां शतह्रदा यामिव । इदानीमिति
शुक्तिविमर्शकाल एव न केवल——————————— रजतं
पूर्वमिदं रजतमिति रजतविमर्शकाल एव रजतं ना भूत् । ततः
यावतापूर्णे न कटकाभरणाद्य ———————————
करणक्षमेण रूपेण प्रख्यातव्यं रजतादिनेति शेषः ।
तावदर्थक्रियाकरणपर्यन्तम् । न प्रख्यातीत् । अपूर्णख्यातिरूपा
अख्यातिरेवाप्रकाशमान ——————————— व । अस्मिन्दर्शने
भ्रान्तित्वम् । तदुक्तं विरूपाक्ष पञ्चाशिकायाम् -
ख्याति पूर्णां पूर्णख्याति समावेशदार्ढ्यतः क्षपयः ।
सृजभुवनानि यथेच्छं स्थापयहरतिरय भासय च ॥ इति ।
तद्वशेनेति । अपूर्णख्यात्यात्मकाख्याति वशेन । असद्विपरीता
निर्वाच्याख्यातयोऽप्युच्यन्ताम् ।
असत्ख्यातिर्नाम स्वत एव शून्यस्य मृगतृष्णिकादेः प्रकाशः ।
विपरीतख्यातिर्यत्र कुत्रापि गत रजतस्य पुरः स्थितायां शुक्तौ
वर्णसाम्यादिदं रजतमिति विमर्शरूपा । अनिर्वाच्यख्याति सदसदिति
वक्तुमशक्या
प्। २८६) ननु पूर्णख्यातिरूपा अख्यातिरेव भ्रान्तिश्चेत् तर्हिसत्या
उदकाहरणाद्यर्थ क्रियामक्षत्वात् (३६६) सत्यरूपं
घटादिज्ञानमप्यपूर्णख्यातिः । घटादेरपि
प्रकाशमानत्वेनाहन्तारूपत्वेऽपि मायया इदन्ता
प्रथनमपूर्णख्यातिः । तत इति । सत्यघट ज्ञानस्य । पूर्णख्यात्या
किमायातम् । तत्किमिति चेत् सर्व भ्रान्तिरित्यागच्छेत् । साधु साधु
आयुष्मतस्तवदिष्ट्या दैवयोगेन । दृष्टिः परमार्थज्ञानम् ।
उन्मिल्मीलिषति उन्मीलयितुमिच्छति । तर्हीदन्तया प्रतीयमानं
मायापदं सर्वं भ्रान्तिरेव । तत्रापिति । तस्मिन् भ्रान्तिरूपे
मायापदेऽपि श्यामिति संविन्मयस्वादहन्तारूपत्वेऽपि माया
कॢप्तया भ्रान्त्या इदन्तया प्रतीयमानायां शुक्तौ प्रवर्तमाना
इदं रजतमिति रजत प्रतीतिः अस्थिरत्वात् सर्वजना साधारणत्वात्
भ्रान्तिरूपे स्वप्न इवाचिकित्सा विषये गन्धे
महाव्रणेतद्भेदकस्तदुपरि स्फोटाख्यो व्रण इवापराभ्रान्तिरूच्यते ।
घटादिवत् कटकाभरणाद्यर्थ क्रिया पर्यन्तमिदं
रजतमित्यनुवृत्त्युचितस्य विमर्शस्यौ स्थैर्यात् इदमंशे रजताद्यंशे
च न भ्रान्तिरिति यत् पूर्वमुक्तं तत एवहेतोः रजत विमर्शस्येदं
रजतं स्थिरमित्याद्या भासेषु न काचनभ्रान्तिः
द्विचन्द्रादिविमर्शवदुन्मूलनाभावात् । शुक्ताविदं रजतमिति
प्रतीयमानस्येदमंशस्य चान्योन्य सम्मेलनांशे तु नेदं
रजतमियं शुक्तिरित्येवं भूतविमर्शोदयकालादेवारभ्येदं
रजतमिति विमर्शानुवृत्तिनिर्मूलनं नेदं रजतमियं शुक्तिरिति
बाधकेन प्रमाणेन क्रियत इति । तत्रैववति । शुक्ति रजतयोः
सम्मेलनांशे भ्रान्तिभाव इति सिद्धमेव सूत्रार्थं विस्तरेण
प्रतिपाद्य सूत्र योजनामाह -
रजतैकविमर्शेऽपि शुक्तौ न रजतस्थितिः ।
इति शुक्ति विषये रजतस्य शुक्तिक्यासह इदं रजतमेवेत्यैक्यरूपो विमर्शो
यद्यपि तथापि शुक्तौ रजतस्य तेन ज्ञानेनेति रजत परामर्शात्मना
ज्ञानेनेदं रजतमिति (३६७) ये दन्तास्थितिः सा शुक्तौ नास्त्येव । अत्र
हेतुः । उपाधिदेशासंवादादिति । अत्रेति । पुरः स्थितायां शुक्तौ इदं
रजतमित् रजतच्छायां वर्णसाम्यादात्मन्युपरञ्जयन् अत
एवोपाधिरूपश्च शुक्तिदेशः पश्चादियं शुक्तिरिति प्रतीयमाने काले
इदं रजतमिति भूतपूर्वस्य तस्य रजत विमर्शस्यानुवृत्त्य भावात् ।
प्। २८७) अत्र संवादो नाम इदं रजतविमर्शानुवृत्त्याभासनं तस्य
संवादस्या भावात् हेतोः कारणात् । वादिरत्रभासने वर्तते
तस्माच्छुक्तौ रजतस्य स्थितिर्नास्त्येवेत्यर्थः ।
ननु शुक्तौ रजते पश्चाद्रजतच्छयोपरञ्जक
शुक्तिदेशसंवादा भावात् शुक्ति भावात् रजतयोर्मेलनांशे इदं
रजतमिति विमर्शानुवृत्तिनिर्मूलनाद्रजतज्ञानं भ्रान्तं भवतु ।
द्वौ चन्द्रा नित्याभासे रजतेशुक्तये वतद्द्विचन्द्रव्यतिरिक्तेन केन
केनापि वस्तुना सां मेलनं नाभासते । यस्मिन्मेलने बाधः स्यात् ।
इदमिति रजतमित्येकैकाभासांशे तु बाध इत्युक्तं
भवतैवाद्बौचन्द्रावित्याभासे मेलनं न केनचित्सहेति केनोक्तम् ।
एवं हि सतीति । मेलनाभावे । स्वालक्षण्येतेति । अस्मिन्नभोदेशे इदानीं
द्विचन्द्राविति नियत नभो देशी तत्कालविशिष्टत्वेन द्विचन्द्रस्य
कथमवभासः । तत्रद्वौचन्द्रावित्याभासे
विततदेशकालाभ्यांसहमेलनाभासोऽस्ति । यद्विमर्श इति । यस्या
मेलनस्यास्मिन्नभोदेशे इदानीं द्विचन्द्रोऽयमित्यनुविवृत्सुः
अनुवर्तितुमिच्छुर्विमर्शः । अत्र नभसि द्विचन्द्रोनास्तीति व्यावर्तनमिव
द्वित्वाभासचन्द्राभासयोर्मेलना भासेऽपि द्वित्वाभासव्यावर्तनं
वाच्यं (३६८) नायं द्विचन्द्रः तिमिर वशादुपप्लुत नयनः
परमेववेद्मीति पूर्वमेवोक्तत्वात् ।
एवं विमर्श स्वरूप प्रतिपादन प्रसङ्गात् शुक्तिकारजत
द्विचन्द्रादिषु प्रतीयमानो विमर्शः अर्थक्रियापर्यन्तानुवृत्त्यभावात्
भ्रान्तिरिति प्रतिपाद्येदमेतादृगित्यादि प्रस्तुतमेवद्रढयति -
एवमाभासा इत्यादिना । आभासा देशकालाविशिष्टाः अत एव व्याप्ताः
नित्याश्च घटकाश्च नत्वादि सामान्यकाराः ॥
यत्पुनराभासानां मिश्रीकरणे कः सीमेति तत्र
येषामविरोधः त एवाभासा मिश्रीभवन्तीत्युक्तनीत्या अन्योन्या
विरोधाभास नियमानुप्राणितं देशकालाविशिष्ट स्वलक्षणात्मकं
तन्मेलनं च । एतावदेवेति । द्विविधमेव प्रमेयम्, एतानि
सामान्यात्मकानि वस्तून्येवागमे आगमाधिकारे ।
एवमन्तबहिर्वृत्तिरित्यत्र प्रथमाह्निके वक्ष्यन्ते । घटकरीरकुम्भवत्
वस्तु तत्वं प्रमेयमिति पर्यायाः । एकैक व्यवहिताभासरूप
घटादौ षट् त्रिंशत्तत्वात्मनां सङ्क्षेपेण प्रतिपादयति - तथा
हीत्यादिना । घटे वर्तमानः काठिन्याभासः पृथिवीतत्त्वं
घटोलोहित
प्। २८८) इत्यत्र लोहिता भासरूपमप्तत्वं तेजस्तत्त्वं च घट
काठिन्याद्या भासनाद्योऽन्यमेलनाभासो रज इति तदुपलक्षितं
प्रकृति तत्वं स्वीकृतम् । अयमित्यमिति । घटसन्निवेशो नियति तत्त्वं
नियतिर्हि इदमेवं भवत्विति नियमः । स च घटादावन्यपटाद्याभास
भावप्राणः पटाद्यन्याभासा भावस्फुरणमेव हि
पृथिव्याभासस्य विचित्रतया चकासत् पृथुबुध्नोदराकारता
घटादेश्चैत्रादेश्चान्योन्य भेदावभासो माया तत् पृष्ठे माया
प्रतिभासानन्तरं घटोऽयम्मिति सत्याप्रकाशः शिवतत्त्वम् ।
एतदत्रोनुक्तानुक्तानां तत्त्वानां मप्यस्मिन् घटे अन्तर्भावतया
स्थितत्वादुपलक्षणम् । (३६९) एतत्तत्वनिरूपणमास्ताम् । अग्रे विस्तरेण
भविष्यत्ये तत् । सर्वथा सर्वप्रकारेणेदमेतादृगित्यादिनोक्ते प्रमेये
एकैकस्मिन् घटादौ घटत्वकाञ्चनत्वादि सामान्याभासभेदने
तत्समुदायरूपे स्वलक्षनात्मन्यभेदने च भगवत एव स्वातन्त्र्यं
घटादि गत काञ्चनाद्याभास भेददृष्टिस्तत् काञ्चनाद्याभास
समुदायरूपाभेददृष्टिश्च परमेश्वराद्वय दृष्टि प्रवेश इति
विश्वोत्तीर्णत्वादेक रूपविश्वमयत्वादनेकरूपे परमेश्वरे
द्वयात्मनि स्वरूपे अनुप्रवेशं प्रत्युपायत्वेन समवलम्बनीये
एकानेकात्मक घटपटादिव्यवहारोऽपि एकानेकात्मक परमेश्वर
स्वरूपानु प्रवेश विरोधी न भवतीत्यनेन प्रतिपादितम् । एतदेवेति -
उक्तमेवार्थं स्फुरयन् स्पष्टमेव प्रकाशयन्
स्वलक्षणसामान्यात्मनः सकलस्य क्षित्यादेः शिवान्तस्य प्रमेयस्य
सिद्धिः अवस्थितिः परमेश्वरायत्तेति निरूपयति - गुणैरिति । भावानां
प्रमेय प्रमातृरूपाणां शब्दस्पर्शरूपरसगन्धैः
गुणैर्विशेषणभूतैः दण्डादिभिरपि वा अयं पृथुबुध्नोदराकारो
मृत्पिण्डः घट इति शब्दवाच्यः कठिन स्पर्शवान्
निस्सन्धिबन्धनात्मकरूपवात् स्वोचितरसवान् पृथिवी मयत्वात्
गन्धत्वात् इति विशेषणभूतैः सहजैः शब्दादिभिर्गुणै । देवदत्तो
दण्डीछत्री इत्यादिभिरागन्तुकैर्विशेषणैश्च । अत्रत्यमिदानीं
तनमेवमाकारीति स्वलक्षणात्मको भेदः सर्वत्रानुस्यूतः देशे काले
च तत्तद्व्यक्तिष्वनु स्यूता घटत्व ब्राह्मणत्वादि रूपा जातिः ।
आदिग्रहणात् कमल मिव मुखमिति ईदृगभेद रूपं सादृश्यम् ।
किञ्च भेदाग्रहणं चेत्येतैश्चाभिन्नता । अभेदश्चेत्थमिति
प्। २८९) क्रियासम्बन्धेत्यादिना महता ग्रन्थेन निरूपिता
भेदाभेदश्च एकत्रेति (३७०) देशकालाविशिष्टे, अत एव व्याप्ते नित्ये
प्रमातरि सकलप्रमाप्रमाणसंयोजन वियोजनाद्य
सङ्ख्यकृत्यपञ्चक प्रपञ्चोचित स्वातन्त्र्ये शिव शब्दव्यपदेश्ये सति
उपपद्यते । प्रमाणेन घटते ।
गिरिवृक्षपुरादिष्वनुवृत्तं पृथिवीतत्त्वं
नदीनदसागरादिष्वनुस्यूतमप्तत्वम् इत्यादि रूपेणानुवृत्तम् ।
अत्रत्यमिदानीन्तनमिति । अन्यदेशकालाकार व्यावृत्तं च कासत् गिरि
वृक्षपुरादि नदीनदसागरादि च कतरेणेति । अनुवृत्तेन वा व्याकृतेन वा
वपुषा सत्यत्वमुच्यतां केनापि वपुषा असत्यं न भवति ।
उभयत्रापीति । अनुवृत्ते व्यावृत्ते च वपुष्यन्योन्य बाधकाभावा
देकतरत्रानुवृत्ते व्यावृत्ते वा वपुषि सत्यत एकतरो बाधकः स्यात् । यदि
तदुदय इति । तस्य बाधकस्योदये । स एवेति । बाध्यो भावः
पुनरुन्मज्जन स हिष्णुतारहित इति पुनरुत्था तु मशक्त इति वियुद्विलायवत्
विलीयेत । एवं न विलीनं भवति उभयोरपि प्रकाशमानत्वात् । अत एवेति ।
अभेदरूपाणां समान्यानां भेदरूपाणां स्वलक्षणात्मना च
वस्तूनामन्योन्य बाधरहितत्वेन प्रकाशमानत्वात्
भेदाभेदाभेदयोर्विरोधं दुःसमर्थमित्यभिमन्यमानैः । एकैरिति
कैश्चिद्वह्नवादिभिर्मिथ्यात्मकाविद्या रूपत्वेन निर्वाच्यत्वं
निश्चीयवक्तुमशक्यत्वादपरैरिति विज्ञानवादिभिश्चाभासलग्नतया
नीलपीतादिज्ञानलग्नतया साम्प्रतत्वमिति तन्नीलपीतादिज्ञानलग्नं
भेदाभेदात्मकं नीलपीतादिकं जगत् सम्प्रति सत्यं
व्यवहारमात्रसत्यम् । नपरमार्थमिति वदद्भिरनिर्वाच्यमिति ।
साम्प्रतमिति वदन्नात्मा च तद्वदनश्रवणपरः परोबोध्यश्च
वञ्चितः अपहारितः । उभावपि परमेश्वरेच्छया
प्रच्छादितस्वस्वरूपावेवाद्वयमपीति । भेदाभेदात्मकं
घटादिदेहादि प्रमेय प्रमातृभित्तिभूतसंवेदनविश्रन्तं भाति ।
(३७१) तदुक्तम् - ग्राह्य ग्राहकता भिन्ना वर्थौ भातः प्रमातरि ॥ इति ।
तस्य संवेदनस्य स्वातन्त्र्यात् जल ज्वलनमिति प्रमात्रात्मक
संविदन्तर्विश्रान्तानेकतामिति तत्संविदेकतामापाद्यमानौ
जलज्वलनौ अन्योन्यविरुद्धा भवति ।
प्। २९०) एतत्सर्वस्य तिरश्चोऽपि स्वसंवेदन सिद्धम् । तत एवेति ।
प्रमातृसंविद्विश्रान्तावन्योन्य विरुद्धत्वादेव । उक्तं - अत एव
यथाभीष्टसमुल्लेखेति ।
इतितात्पर्येण सूत्रार्थं प्रतिपाद्य योजना पुरस्सरं विस्तरेण
प्रतिपादयति - अतश्चेत्यादिना । अतश्चेति । संविदन्तर्विश्रान्त्या
विरुद्धत्वात् गुणैरूपाधिरूपतया विशेष्यस्य वस्तुनः विशेषाधायि
तया विवक्षितैः शब्दादिभिर्दण्डादिभिरपि यः प्रोक्तरूपो भेदः
घटत्व ब्राह्मणत्वादि जाति वशात् चन्द्रमण्डलमिवमुरवमिति
साद्।एश्याद्वा यथा स्थित पदार्थ वेदनम् । इत्युक्तनीत्या
भेदाग्रहणाद्वा यश्चा भेदः भावानाम् । इत्यमिति क्रियासम्बन्धेति
। क्रियासम्बन्धेत्यादिना निरूपितः । सभेदाभेदश्च । एकत्रेति ।
एकस्मिन्नद्वितीये प्रमातरि प्रमाण प्रमाप्रमातृविश्रान्ति भित्ति भूते ।
अत एव सकलादि सदाशिवान्तप्रमातृगतसकल प्रमा प्रमाण
संयोजनवियोजनादि विचित्रासङ्ख्यकृत्यपञ्चक प्रपञ्चोयित
स्वातन्त्र्ये परमगुरुकटाक्षपात् पवित्रितास्मदीय हृदयैकान्त शायिनि
न तु भेदवादि शैव नैयायिक बौद्धादि हृदयागोचरे
शिवशब्दव्यपदेशे सत्युपपद्यते । नान्यथेति । एवं भूत
प्रमात्रनभ्युपगमे नोपपद्यते । भावानां प्रमेय
प्रमातृस्वरूपाणां काञ्चनत्व ब्राह्मणत्वादि विशेषणान्येव
विशिष्टत्वा पादकानिति एतत् काञ्चनत्वाद्यतिरिक्तैरत
एवाप्रकाशमानत्वादनुमेयै रन्त्यैर्विशेषैः किं वस्तु भेदनेन
किमपि प्रयोजनमस्ति । (३७२) तेषां प्रत्यक्षेण प्रतीयमानत्वा भावात् ।
भेदकानि विशेषणानि दर्शयति अयं सपरमाणुः । स
इदानीमेतद्देशादि विशिष्टघटारम्भणकाले प्रथममिलित
द्व्यणिकद्वितीयानन्तरं तृतीयद्व्यण्कसङ्घटनकाले प्रथममिन्नितः
। एवं भूत परमाणुर्मित्वितोऽयं घटः अयं सः आत्मा यः पुरा
स्वर्गसदने सुरयोषितमित्थं परिरब्धवानितीत्यतैव
योगिसर्वज्ञादीनां सिद्धः परमाणवात्मादिषु भेदावभास इत्यन्त
मवान्तरेण प्रमेयेन ।
भेदा भेदरूपं प्रमेयतत्वमेक प्रमातृ विश्रान्त्या
निश्शङ्कतां श्रयतीति सिद्धम् । यथोक्तम् -
एक संविदि विभाति भेदधीः
नीलपीत सुखदुःख रूपिणी ।
निम्न नाभिरिय मुन्नतस्तनी
प्। २९१) स्त्रीति चित्रफलके समे यथा ॥ इति ।
किञ्च - गम्मीरनाभिरुत्तुङ्गस्तनी मातङ्ग गामिनी ।
इतीवभित्तौ संवित्तौ विश्ववैचित्र्यविभ्रमः ॥
यदि भेदाभेदात्मकं सकल प्रमेय प्रमाण प्रमा
प्रमात्रात्मक प्रपञ्चविश्रान्तभित्तिभूतोऽयं प्रमाता तर्हि तत्रैव
प्रमातरि प्रमाणं प्रदर्शयितुं प्रयतनीयम् । न तु तुच्छभूते
प्रमेये । प्रधाने वस्तुनिहियत्नः फलवानित्याह -
तदेतदत्यन्तान्तरङ्गान्ते वासी प्रश्न माशङ्क च
प्रथमोपक्षिप्तमिति शास्त्रारम्भे कर्तरि ज्ञातरित्युपक्षिप्तं प्रमेयं
चिरव्यवहितम् स्मारयतिमनसि प्रतिष्ठापयत्याचार्यः तथा हीत्यादिना
। सिद्धिं वा विदधीतकः इति - यद्वस्तु पूर्वं प्रस्तुतं
तत्प्रमाणस्वरूपे परमेश्वर स्वरूपे चोक्तप्रकारेण ज्ञाने
सतीदानीमेव निर्वहणार्हम् । एवाम्भूतमिति ।
पूर्वमप्रकाशमानस्य देशकालसङ्कुचितस्य अत एव परिच्छिन्नस्य
प्रमेयमात्रस्य अयं घटः अयं पट इति व्यवस्थापकं प्रमाणं
यत् तत् सकलप्रमेयप्रमाणप्रमाप्रपञ्च विश्रान्ति
भित्तिभूतेभवगवति प्रमातरि परमेश्वरे कथं क्रमतामिति
विचारयितुं युक्तम् । तस्मिन् प्रमातरि प्रमाणं न घटत इत्यर्थः ॥
तदेतत् स्फुटयितुमाह - विश्ववैचित्र्यचित्रस्येति । मेय मानमिति ।
मातृचक्रात्मक क्षित्यादि शिवान्तविश्व वैचित्र्यचित्रस्य
समभित्तितलोपम इति अविभागविश्रान्ति स्थान भूते अत एव सम इति
निम्नोन्नतादि तारतम्य रहित भित्तितलोपमे ततो विश्ववैचित्र्यभित्ति
भूतत्वादेव स्वात्मनिविरुद्धाभावसंस्पर्शे
असम्प्रतिपन्ननास्तित्वात्मक भावस्पर्शे अत एव परमार्थ सतीति
परमार्थतस्तथ्यरूपे ईश्वरे प्रमातरि सर्वदाभातविग्रहे इति ईश्वरे
विश्वसृष्ट्यादि कृत्य पञ्चक स्वतन्त्रे प्रमातरि सकल
प्रमेयप्रमाणमातृचक्राधारभूते सर्वदा भातविग्रहे सर्वदा
प्रपञ्चस्य पूर्वापरमध्यकोटिष्वपि अविरत भाता साधारण
पूर्णाहन्ता मय प्रकाशात्मक स्वरूपे अत एव पुराणे अकालकलिते
सर्वप्रमिति भागिनीति सकलादि शिवान्त
प्रमातृगतप्रमाणवर्गोपरिवर्तिन्यन्तर्मुखप्रमिति भागिनि
तत्तस्रमातृरूपतया स्फुरति नवाभाय इति अयं घटः अयं पट इति
देशकाल विशिष्ट नव नव प्रमेयौन्मुख्यात् स्वयमपि नव
नवाभासः क्षणिक तद्रूपं प्रमाणं किम् । तत्र
प्रमाणस्योपयोगः उपपत्तिश्च नास्ति । यथोक्तम् -
प्। २९२) (३७४) मितप्रमात्रयोर्वर्ति प्रमाणं मेय निष्ठितम् ।
परप्रमातुश्चैतन्यं परिच्छेत्तुं न चक्षमम् ॥ इति ।
यतः तदपि निर्णीत चैतन्याधीन सिद्धिकम् । इति ।
अत्रेदमेतादृगित्यादिना ग्रन्थेन चैत्रमैत्रादि परिमितं
प्रमातृलग्नः अयं घटः अयं पट इति सङ्कुचित प्रमेय
व्यवस्थापकम् । अत एव नव नवाभासः मित्युक्तम् । तत्रेति । प्रोक्तरूपे
प्रमातरि परमेश्वरे शिवादिक्षित्यन्त
विश्वक्रोडीकरणक्षमपूर्णाहन्तात्मक प्रकाशवपुषि
प्रकाशमात्र स्वभावे प्रमेय प्रमाणप्रमारमात्रात्मक
प्रपञ्चोदयात् पूर्वसिद्धे अत एव तत् प्रपञ्चमित्ति भूते प्रोक्त
लक्षणस्य प्रमाणस्य क उपयोगः किं प्रयोजनं कावा सम्भावना
उपपत्तिरपि नास्तीत्यर्थः ।
अत एव प्रतिपादयति - तथा चेत्यादिना । लोकेऽपि चैत्रमैत्रादि
प्रमातृलग्नसंविन्मयाहं प्रकाशान्तर्भूतविमर्शमयीं
तदधोवर्तिनः प्रमेयस्य । यं घटः अयं पट इत्येवं रूपां
सिद्धिमेव वितरति प्रमाणम् । आदिसिद्धस्याविच्छिन्न प्रकाशस्य अत एव
प्रपञ्चोदयात् पूर्वमेव सिद्धस्य परमप्रमातुः परमेश्वरस्य किं
लग्नासिद्धिरास्त्विति घटपटादेस्तावत् सिद्धिः । घटपटादि
व्यवस्थापक प्रमाण द्वारेण चैत्रमैत्रादि प्रमातृलग्ना भवतु ।
प्रमेश्वरोऽपि प्रमाणेन घट पट ————— यीक्रियते चेत् तर्हि
तत्सिद्धिः तस्मिन् प्रमातरिलग्ना भवेत् । यस्मात् परनाप्रमस्ति किञ्चित् इति
नीत्या ततः परं तस्याप्यभावात् इति प्रथमत् एव भगवति
प्रतिक्षिप्यमाणं प्रमाणमुद्देशेन प्रदर्श्य तस्मिन्परमेश्वरे
प्रमाणस्यानुपयोगं मनुपपत्तिं च विस्तरेण (३७५) प्रदर्शयति -
विश्ववैचित्र्येत्यादिना । मेयमानमात्रात्मकं विश्ववैचित्र्यं हि
पूर्णाहन्तात्मक प्रकाशैकात्मनि भगवति । यथा चित्रं
भित्तौभित्तिरूपपरमेश्वर प्रमात्रानभ्युपगमे विश्ववैचित्र्यमेव न
घटत इत्याह - यदित्यादिना भित्तिभूतं प्रमातारमन्तरेण
नीलमिदं पीतमिदमिति पृथक् पृथगेवेति प्रमात्रलग्न्तया परामृश्यते
चेत् तदानीं तेषु नीलादिषु स्वात्ममात्रविश्रान्तेषु सत्सु तथैवेति नीलादि
वत्तनीलपीतग्राहकाणि ज्ञानान्यपि नीलज्ञानं स्वविषयभूतं
नीलमेव गृह्णाति न पीत ज्ञानविषये जात्यन्धबधिरकल्पानीति
परविषयं द्रष्टुं श्रोतुं वक्तुञ्च न समर्थानि । स्व स्व
नीलादिविषय प्रमातृविश्रान्तानि
प्। २९३) तज्ज्ञानानुसारेण भवन्तस्तदनन्तरभाविनो विकल्पास्तथैवेति
नीलादिवत् नीलादिज्ञानवच्च स्वात्ममात्रविश्रान्तानीति प्रमात्र भावे
ज्ञेय ज्ञानज्ञात्रात्मकमिदं जगत् चित्रमिति प्रतिपत्तिः कथं कारं
भवेत् । लोकेऽपि भित्तिं विना चित्रं न दृश्यत इति प्रतिपादयति ।
एकत्रैकोन्नते निम्नोन्नतादिरहिते समे तथापि चित्रकृत्कल्पित रेखाविभक्त
निम्नोन्नतादिविभागजुषिभित्तितले गम्भीर नाभिरुन्नत स्तनीय मिति
चित्रावभासो युक्तः । तद्वद्देशकालाविशिष्टत्वाद्व्याप्त
नित्यैकस्वरूपपूर्णाहन्तात्मक महाप्रकाशभित्तिं लग्नत्वेन
प्रोक्तविश्ववैचित्र्यात्मकभेदोपपत्तिरिति ।
अपायोत्पादककालग्रासकत्वान्नित्यात् । अत एवाविच्छिन्नं स्वात्मनः
स्वप्रकाशतामाह - अन्यथा प्रोक्तस्य भावभेदस्य
विश्रान्तिस्थानानुपपत्तेः । तत्रेति । विश्ववैचित्र्यचित्रभित्तिभूते
स्वप्रकाशे परमेश्वरे प्रोक्तलक्षणेन परिमित प्रमेय व्यवस्थापकेन
(३७६) प्रमाणेन किं न किमपि प्रयोजनमस्ति । माया
प्रमात्रधोवर्तिनः प्रमाणस्य विश्वोत्तीर्णे विश्वभित्तिभूते च
स्वप्रकाशे परमेश्वरे सङ्क्रमितुमशक्यत्वात् । यथोक्तं
श्रीतन्त्रालोके -
प्रमाणा न्यपि वस्तूनां जीवितं यानि तन्वते ।
तेषामपि परोजीवः स एव परमेश्वरः ॥ इति ।
विश्व वैचित्र्यभित्तिभूतः कश्चित् परमेश्वरो भवतु । पूर्वस्यप्रकाशो
न भवति । अत एव तस्मिन्प्रकाशनाय तस्मिन् प्रमाणं
प्रवर्ततामित्यथोच्यते तर्हि पूर्वं तस्य प्रकाशो न विद्यत इति चेत् स एव
नास्तीति स्यात् । तस्य प्रकाशमात्रमेयरूपं यतः अस्य परमेश्वरस्य
नास्तीत्यभावेन स्पर्शोऽपि नोपपन्नः क्षित्यादि शिवान्तं
जजगन्महाप्रलयेऽपि असावेव हि परमार्थतस्सन्निति यतः प्रकाशस्य
परमेश्वस्य हि सदा सत्वात् सतश्चासद्रूपत्वायोगात् । अभावेन
स्पर्शोनोपपन्न इत्यर्थः । असा वीश्वरः अभाव स्पर्शायोगात्
स्वप्रकाशो भवतु । अस्येश्वरता पूर्वमप्रतिमिता इदानीं प्रमाणे न
प्रमाणस्थितस्य प्रमातुः पूर्वमप्रमिता ईश्वरता इदानी
मप्रमाणेन प्रमास्यत इत्यथोच्यते तदपिन भवति । असावीश्वरः
प्रमातृत्वेन न चकास्याच्चेत्
प्। २९४) ईश्वरं प्रतिविधि निषेधात्मक उद्यमः कस्य । अत्र इह क ईश्वरे
कीदृशेन प्रमाणेनास्तीति ज्ञानलक्षणां सिद्धिं नास्तीति
ज्ञानलक्षणं वा निषेधं कुर्यात् प्रमातेति चेत् स एवकः किं
देहादिर्जडः तदन्यो वा कश्चित् आत्मादि शब्दवाच्यः । सोऽपि च
स्वप्रकाशस्वभावो वा न वा । देहादिर्जड इति चेत् स एव
स्वात्मन्यसिद्धः परत्रकां सिद्धिं कुर्यात् । आत्माप्यस्वप्रकाशो जड
एव तत्तुल्ययोगक्षेमः स्वप्रकाश स्वभाव इति चेत् कीदृशेन
स्वेनरूपेण भाति यदि परिनिष्ठित संविन्मात्र रूपेण (३७७) तदा
संविदां भेदनं भेदितानाञ्चान्तरनुसन्धानेना भेदं
नस्यात् । तेन स्वतन्त्रस्वप्रकाशात्मतया तावद्भासते ।
तथाभासमानश्चान्यं कीदृशं साधयेत् निषेधेद्वा । कर्तृज्ञातृ
स्वभावं इति चेत् । नन्वेण प्रमातैव तथा भूत इति कोऽन्यः स
इत्येतावत् प्रमेय मनुसन्धेयम् । तस्मात् प्रमातृत्वेन चकास्तीति चेत्तर्हि
तस्य प्रमातृ तैवेश्वरता तदेवाहमीश्वरे प्रमातरि सर्वाभातविग्रह
इत्यसाधारणं पूर्णाहन्तारूपं प्रकाशात्मकं स्वरूपं
विशेषेणातिशयेन गृह्यत इति विग्रहः । अत एव पूर्णाहन्तात्मक
स्वतन्त्राकाशरूपत्वात् प्रोक्तरूपामावस्पर्शा योगे
अभावानुप्रवेशनेनेति अनित्यत्वानुप्रवेशात्मायः कालव्यवहारः सा
अस्मिन्परमेश्वरे नास्तीति पुराण इत्युक्तम् । तत्रैवं भूते प्रमातरि किं
प्रमाणं कुतः प्रयोजनात् प्रमाणम् । तत्र प्रमाणस्योपयोगः
किमित्यर्थः । किँञ्च तत्र किं प्रमाणं न किञ्चिदुपपत्त्या घटत
इत्यर्थः ।
प्रमाणस्य लक्षणमेवाह - प्रमाणं नाम
स्वयमभिनवाभासरूपं परिमिते प्रमातरि प्रमेयस्य प्रमिति
लक्षणं विश्रान्तिं विदधत् प्रमाणं भवति । परप्रमाता
अविच्छिन्नावभासः सर्वाः सकलादिशिवान्तप्रमातृगताः प्रमितीः
अन्तर्मुखरूप इति पूर्णाहन्तात्मनि भजते । तदिति ।
तस्मान्महाप्रकाशे प्रमातरि प्रवर्तमानमभिवाभासरूपं
प्रमाणं कथं भवेत् । तत्तदतिरिक्ते कुत्रप्रमातरि कथं तत्प्रमाण
व्यवस्थापिता तत्परमेश्वर प्रमिति स्तु कुत्र प्रमातरिविश्राम्यतु ।
तदुपरिवर्तिनः कस्यापि प्रमातुरभावात् तस्यैव सर्वोत्तीर्णत्वात् तस्मात्
स्थूल कृत दुर्बल प्रबल सुखदुःख तदभावमयदेह
प्रमाणपूर्यष्टकशून्यप्राय
प्। २९५) एव प्रमातरि घटादिष्विव प्रमाणमुपपद्यताम् । तत्रापि
घटादिवत् (३७८) देहादिमयस्यैवांशेऽपि नाम न तु कथञ्चिदपि
प्रमाणं प्रवर्तत इति शेषः । न तु कथञ्चित् अपि तद्देहाद्यहं
प्रकाशात्मक संविदंशे प्रमाणमुपपद्यताम् । तत्रदेहादि
प्रमातर्यपि घटपटादि विषयोन्मुखे सति प्रमाणमुपपद्यते । अयं
घटः अयं पटः इति तदङ्गादेर्विषयोन्मुखत्वादेव सङ्कुचिते
देहादौ सङ्कोच विहीनसंविन्मय सत्यप्रमातृलग्नतापेक्षया
कथ्यतां स्वसंवेदनं प्रमाणं संविन्मये परमार्थप्रमातरि
प्रमाणेन न किञ्चित्प्रयोजनं
कदाचिदप्युपपत्तिश्चपरमार्थप्रमातरि प्रमाणं न घटत
इत्येतदनुसारेण मयाऽप्युक्तं सर्वोऽपि जनः प्रमेयी कृतोऽस्मीति
आत्मनिवाञ्छितोऽस्मिति लज्जते । जनस्यापि लज्जावहं तत् प्रमेयीकरणं
कथं महेश्वरः सहताम् ।
नन्विति । क्षित्यादि शब्दान्तस्थूलसूक्ष्मरूपदशविधप्रमेय
चक्रगतगुह्यादि श्रोत्रान्तकर्मबुद्धिरूप
दशविधबहिष्करणात्मकप्रमाणचक्रं मन आद्यहङ्कारान्तः
करणात्मक त्रिविधप्रमाचैतात्क्षित्याघटं
कारान्तस्त्रयोविंशतिरूपकत्ववर्गः विभागात्मकैकरूप
प्रधानसकलप्रलयाकलविज्ञानाकलमन्त्रमन्त्रेश्वरमन्त्र
महेश्वर शिवात्मक प्रमातृसप्तको परिवर्तीनि परमशिवरूपे
भगवति प्रमातरि अनुपयोग्यनुपपत्ति च तस्मिन् भगवति
प्रमाणमप्रयोजनमनुपपन्नं च यदितर्हितादृश भगवत्
प्रत्यभिज्ञानात्मकं अत एव तद्विषयं शास्त्रात्मकं प्रमाणं
किमर्थं विश्ववैचित्र्येत्युक्तनीत्या तस्य भगवतः प्रत्यक्षादि वत्
शास्त्रात्मनोऽपि प्रमाणस्यागोचरत्वा दित्यन्ते वासि प्रश्नमाशं
क्याह - एवं भूते भगवान् स्वेच्छयैव -
तदेवं व्यवहारेऽपि प्रभुर्देहादि माविशन् ।
(३७९) इत्युक्तनीत्या देहादि माविश्य विश्वगय विश्वोत्तीर्णरूपं
स्वात्मानं स्वमायाशक्त्या प्रच्छाद्य स्वात्मनः ईश्वरोऽहं
स्वतन्त्रोऽहं परिपूर्णोऽहं नित्योऽहं व्यावृत्तोऽप्तोहमित्यादि
व्यवहारानपि प्रच्छाद्य चैत्रोऽहं मैत्रोऽहमिति व्यवहारं
स्वात्मन्यारोपयन् परमं यत्स्वातन्त्र्यं दुर्घटसम्पादनं
महेशस्य दैवी
प्। २९६) मायाशक्ति स्वात्मावरणं शिवस्यैतन्माया परिग्रहवशात्
बोधोमलिनः पुमान् पशुर्भवति कालकालानियति वशाद्रागा
विद्यावशेन सम्बन्धः । अधुनैव किञ्चिदेवेदमेवेति सर्वात्मनैव
जानाति इति परमार्थसारोक्तनीत्यापशुभूमिकामवलम्ब्य अत एवा
प्रत्यभिज्ञातस्वस्वरूपास्तिष्ठति यतः अत एव स्वरूपस्यास्य -
यदा शिवेभिलाषो वै पशूनां जायते तदा ।
--------- शिवादिमानास्ते जायन्ते परमाणवः ॥
मुक्तास्तदैव दीक्षां ---- प्राप्नुवन्ति गुरोस्ततः ॥ इति ।
नन्दिशिखोक्तनीत्या अप्रवर्तित पूर्वं
परमशिवाभिन्नसद्गुरुकटाक्षपातविगलिता एव मायीय
कार्ममलपरमेश्वरेच्छा प्रेरित सद्गुरु कटाक्षपात
विगविगलिताणवमायीय कर्ममलत्रयस्यास्य स्वात्मन्यप्रवर्तित
पूर्वमीश्वरोऽहमित्यादि व्यवहारं प्रवर्तयतीदं शास्त्रमिति यतः
एतच्छ्रवणानन्तरं अयं पशुः नित्योऽहं पूर्णोऽहं
स्वतन्त्रोऽहमहं विभुः । एत्येवं विमृशन्नासे स्त्ये न वचसा गुरोः ।
इतीत्येवं विधनीत्या प्रत्यभिज्ञातपरमशिवात्मक स्वस्वरूप आस्ते ।
अत एवास्मिन्नेतादृशे श्वरादि व्यवहार प्रवर्तकत्वात् तद्धिशास्त्रं
प्रमाणमेव । सर्वं शास्त्रं तच्छास्त्रकर्तर्यतिरिक्ततच्छ्रोत्ररूप
प्रयोजन रूपानुमानात्मकं तत्रापि शास्त्रे
प्रमाणादिषोडशपदार्थस्वरूपमयत्वेव परमार्थतः (३८०)
स्वरूपमिति शेषः । सौगतैरुदाहरणोपनयनात्मका
वयवद्वयवादिभिः प्रतिज्ञादिपञ्चावयवत्वम् आदिशब्देन
षोडशपदार्थमयत्वं च यद्दूष्यते तदाग्रहमात्रमिति
कण्ठशोषकरतर्कपिशाचिकाग्रस्तत्वं शास्त्रस्य षोडशसुपदार्थेषु
निरूप्यमाणेषु प्रतिपाद्यं तर्कशास्त्रसम्बन्धि प्रमेयं पर इति ।
उपदेश्य सम्यगिति अविप्रतिपत्त्या प्रतिपद्यते । एतत्प्राप्त्यभिहित
परिहारयोरुपयोगीत्यादिना ग्रन्थेन परस्य श्रोतुः किं प्रयोजनम् ।
तद्धि प्रयोजनं परस्य शास्त्रश्रोतुः प्रतिपत्यै । सा च प्रतिपत्तिः
परमार्थानुमानादेव सास्त्राद्भवति । तस्मिन्नपि शास्त्रे
प्रतिज्ञादिपञ्चावयवस्योपयोग इति तत्पञ्चावयवपूर्णं शास्त्रं
परं श्रोतृजनं प्रतिप्रतिपत्तिकारि । तत्वतस्तु ईश्वर
प्रोक्तागमव्यतिरिक्तं
प्। २९७) सकलमेवं पौरुषं शास्त्रं परमार्थानुमानमिति
न्यायनिर्माणवेधसाक्षपादेव निरूपितम् । विश्ववैचित्र्यादिसूत्रद्वये
कर्तरि ज्ञातरीत्यादि श्लोकोक्तमर्थं स्मारितम् । अत्रापीति ।
समनन्तरवक्ष्यमाणेश्वरादि व्यवहार प्रवर्तके
ईश्वरप्रत्यभिज्ञाह्ये शास्त्रेऽपि अप्रवर्तित पूर्व इत्येकेन श्लोकेन
किन्तु मोहवशादिति श्लोकोक्तमर्थं स्मारयितुमाह - अत्रेति ।
समनन्तरश्लोकद्वयोक्तस्वरूपे प्रमातरि सन्नपि मूढतावशात्
वक्ष्यमाणान् मायावशात् परमेश्वराभिन्नसद्गुरु कटाक्षपातात्
पूर्वमप्रवर्तित ईश्वरोऽहं पूर्णोऽहं विभुरहं नित्योहमित्यादि
व्यवहारः शक्तिप्रकाशे नेति ।
अस्मिन्वर्तमानानामीश्वरसम्बन्धिनीनां
इच्छाज्ञानक्रियाशक्तीनां प्रकाशेन प्रकाशकेन
प्रत्यभिज्ञाशास्त्रेण प्रवर्त्यते । व्यवहार
प्रवृत्तिकैतच्छास्त्रश्रवणेन लोकाः स्वात्मनि ईशादि व्यवहारं
प्रवर्तयन्त्विति एकोणिजर्थः । किं च शास्त्रकृता
चार्येणेच्छाज्ञानक्रियाशक्तिप्रकाशकेन करणभूतेन शास्त्रेण
लोके ईशादि व्यवहारः प्रवर्त्यत इति (३८१) द्वितीयोणिजर्थः । इह लोकेऽति
दुर्घटकारित्वमस्यानुत्तरमेव चदेतदेव स्वतन्त्रत्वमैश्वर्यं
बोधरूपता इति श्रीम्बोधपञ्चदशिकोक्तनीत्यापरमेश्वरस्येदमेवति
दुर्घटकारित्वलक्षणं परं पूर्णं स्वातन्त्र्यं यत् इदानीं
सद्गुरुकटाक्षपातप्रत्यभिज्ञातस्यात्ममहेश्वराणामस्मादृशां
प्राच्येषु पूर्वपूर्वजन्मशतसम्पादितेषु पशुदशाविशेषेषु
इदानीं सद्गुरुकटाक्षाभावादस्मदसम्भाव्यमानाति
दूराद्दुष्करवस्तुसम्पादनं हि यत् तस्य परमेश्वरस्य
दुष्करवस्तुसम्पादनमेव दर्शयति - इत इत्यादिना वाक्येन । इति इति
प्रतिपाद्यमानात् अतिदुर्घटकारित्वात् परं किमिति दुष्करं भविष्यति ।
तत्कीदृशमिति चेत् यत् प्रकाशात्मनीति पूर्णाहं रूप
प्रकाशात्मकेऽखण्डितताद्रूप्य इति अपरिच्छिन्नतादृशपूर्णाहन्ता
स्वरूप एव प्रकाशमाने, मनुष्यदेह मास्थायच्छन्न आस्ते
महेश्वरः । इत्यागमोक्तनीत्या स्वेच्छया चैत्रमैत्रादि देशादिमा
विश्य प्रच्छन्न इव स्थितः स्वात्मनि नाहं पूर्णाहन्ता स्वरूपः
नाहमीश्वरो नाहं प्रभुरिति इत्यादिरूपत्वेन प्रकाशमानः
प्। २९८) प्रकाशन निषेधा वभासो यतस्त स्मादिति । एवं स्वातन्त्र्य
वत्वादिदमिति तत्परमिति तस्मादुक्त लक्षणात् स्वातन्त्र्यात् अन्यदेतत् । न
केवलं परमेश्वरेण स्वात्मनि उक्त रूपं प्रकाशन
निषेधावभास एव प्रकाश्यते तथा वभासनमिति तस्मिन्नेव स्वात्मनि
तत्र सृष्टेदं भागे बुद्ध्यादि ग्राहकात्मना
अहङ्कारपरामर्शपदं नीतमनेन । तत् स्व स्वरूप
परिज्ञानमयोऽनेकः पुमान्मतः चैत्रोऽहं मैत्रोऽहमिति ।
पशुरूपता वभास इति वक्ष्यमाणनीत्याग्राहकांशमुत्थापनं
यत्तद्द्वारेण तस्य माया प्रमातुरिदन्तया प्रतीयमानं
घटपटादिग्राह्योल्लासनमपि (३८२) यत् स्वात्मनि एवं
भूतपशुरूपग्राहकोल्लासनं तदनुरूप ग्राह्योल्लासं च यत्
स्वात्मन्येतदुभयो ल्लासनमेव भगवतो मायाशक्तिः तदुक्तम्
ग्राह्यग्राहकयुगलं सहैव निर्मिमीता इति । यथोक्तम् - मायाविमोहिनी
नामेति । तदेवं भूतादिति । पशुरूपता वासनात्मक
मायाशक्तिरूपात् स्वातन्त्र्याद् गृहीत पशुभूमिक परमेश्वरस्य
यामूढता विनष्टतत्परमात्मक परमाहन्तामय पूर्णचेतनता
तस्या मूढतायाः पारमार्थिकं स्वरूपमाह - स्वात्मवर्तिन
इत्यादिना । स्वात्मवर्तिनः स्वात्मन्येव वर्तमानस्य ।
स्वामिनश्चात्मसंस्थस्य भावजातस्य भासनम् ।
अस्त्येव न विना तस्मादिच्छामर्शः प्रवर्तते ॥
इत्युक्तनीत्या भीषणीयं वर्गस्वेच्छास्पन्दोदये स्फुट
स्फुरितशिवादिकमित्यन्तस्य विश्वभावनिर्भरितात्मनः (तच्छक्ति
त्रयमयस्य स्वातन्त्र्यस्य ) पूर्णत्वस्य स्मृत्यनुभावापोहनात्मक्
शक्तिमत्वात् स्वात्मवर्तिनः तच्छक्तित्रयमयस्य स्वातन्त्र्यस्य -
स्वात्मैव सर्व जन्तूनामेक एव महेश्वरः ।
विश्वरूपोऽहमिदमित्यखण्डामर्शबृंहितः ॥
इति वक्ष्यमाणनीत्या एकत्वेन देशकाल सङ्कोच वैकल्यात्
स्वात्मवर्तिनः अयत्नसिद्धस्य बिभुत्व नित्यत्वादि धर्मस्य च स्वात्मनि
प्रकाशमानस्याप्यप्रकाशमान तया अभिमननं यदि यमेव सा
व्यामूढता तस्य वशादिति मूढतात्मकाभिमनन वशात्
सामर्थ्यात् । अत्रेति । विश्ववैचित्र्यादिसमनन्तरोक्ते श्लोकद्वयोक्ते
प्रमातरि सद् गुरु कटाक्ष पाततः पूर्वं न प्रवर्तितः ईशादि
व्यवहार इति ईश्वरतादिनोक्तेनैव
प्। २९९) पूर्णत्व स्वतन्त्रत्वविभुत्वनित्यत्वादिना यो व्यवहारः सकीदृश
इति चेत् । यः खल्वहमिति भाति पूर्णः स्वतन्त्रः विभुः नित्यः
इत्येवमादिरूपः तं व्यवहारं लोकाः स्वात्मनि प्रवर्तयन्त्विति । सेन
शक्तिप्रकाशेनेति । शक्तीनामीश्वरसम्बन्धिनीनाम् । (३८३) तथाप्यस्य
प्रत्यभिज्ञाप्यस्य प्रमातुः स्वात्मवर्तिनीनामिच्छाज्ञानक्रियाणां
प्रकाशकेन -
जना ये जानीते जगति कुरुते चैष स शिवः
पुराणादि प्रोक्तेश्वरवदिति वाक्यश्रवणतः ।
स्वयं जानन्कुर्वन्नहमवमृशामीत्थमनिशं
शिवोऽहं देवोऽहं पतिरहमहं भैरव इति ॥
इत्यभियुक्तोक्तनीत्या शिवात्मकस्वात्म प्रत्यभिज्ञारूपेण
स्वात्मनीश्वरादि व्यवहारसाधनपरार्थानुमानात्मना शास्त्रेण
तं व्यवहारं स्वात्मनि प्रवर्तयतां लोकानां तद्व्यवहार
प्रवर्तनात्मक समर्था चरणं क्रियते । आचार्याः अनेन शास्त्रेण
लोकस्यस्वात्मनि ईश्वरादि व्यवहारं प्रवर्तयन्ति इति । प्रवर्त्यत इत्यत्र
द्वौणि चौकेवलमिति ।
एवं प्रवर्तितेशादि व्यवहारेऽस्मिन् प्रमातरि ।
यथा स्थितं तथैवा स्व पाना बाह्य मथान्तरम् ॥
इत्यभियुक्तोक्त स्थित्या यथा स्थित शिवात्मक स्व स्वरूपादधिकं किं
चन नोत्पद्यते । अस्य शिवात्मकं स्वरूपं पूर्वत एव सिद्धमपि
तत्त्वतोऽप्रकाशमानत्वात् प्रकाश्यत इत्येतदपि न भवति । किन्त्वस्य
प्रमातुः प्रवर्तिते शादिव्यवहारास्पदे शिवात्मनि स्वात्मरूपे
प्रकाशमानेऽपि मायाशक्तितिरोधानान प्रकाशक इति यदभिमननं
तदपसार्यत इत्येता वनार्थः केवलशब्देनोक्तः ।
विद्याभिज्ञापितैश्वर्यश्चिद्घनोमुक्त उच्यते ।
इति वक्ष्यमाणास्थित्या विद्याशक्त्युन्मीलनात्मक देशिकेश्वरवचसा
तदमिमननापसरणमेव मोक्षः
पशुरूपापादकतादृग्विधाभिमननापसरणमेव बन्धः (३८४) अदित
एव शिवात्मनि स्वरूपे चैत्रोहं मैत्रोहमिति मायातिरोधानात्
बद्धश्च देवोऽहमित्यादिरूपो जीवन्मुक्तिश्चेत्युभयमपि सद्गुरु
कटाक्षात्मकविद्याशक्त्युन्मीलनात् शिवोऽहं देवोऽहमिति
जीवन्मुक्तिश्चेत्येतद्द्वयममभिमननमात्रसारम् । अभिमान
मात्रसारम् । उभयमपीति । एतत्सम्बन्धमोक्षद्वयमपि
भगवद्विजृम्भितमेव भगवानेनोभयात्मना स्फुरति । तदुक्तम् -
प्। ३००) नमः सतत बन्धाय नित्यनिर्मुक्तिभागिने ॥
इति श्रीमत्स्त्रोत्र रत्नावल्याम् । तदुक्तं भवतीत्यनेन दृष्टान्त
प्रदर्शनपुरस्सरन्दार्ष्टान्तिकमेवार्थं स्फुटं प्रतिपादयति -
भौतस्येति । यथा भूताविष्टस्य चैत्रस्य चैत्रोऽहमिति सञ्ज्ञिते
आत्मनिभासमानेऽपि भूतग्रस्तत्वात् भूतेनापहारितोऽहमिति
मोहान्मन्यमानस्य तद्भूतावेशात्मको मोहोऽपसार्यते तत्समर्थेन
साधकेनेति शेषः ।
तदपसरणप्रकारमाह - भूताविष्टमुद्दिश्यकः खलुत्वं
यस्येति । भूताविष्टं मन्यमानस्य भवतः
ईदृशघटादिवस्तून्मुखमिति भूतावधारणसमर्थे क्रमेण
साधनोक्ते सति भूताविष्टः स्वोन्मुखघटपटादिवस्तु
जालमीश्वरस्येक्वोन्मुखं न तु ममेति चेत् तत्प्रतिसाधक आह -
वत्सपश्यतद्विश्वौन्मुख्यं भवत एवाप्यस्ति इति पुनः पुनः
अभिदधतासाधकेनास्य भूतग्रस्तस्य पूर्वावस्थातोऽपूर्वं
किञ्चना चरितं तद्भूता वेशापसारणानन्तरं पूर्व
स्थितमेवानुसन्दधाति तद्वत् पशुलोकोऽपि मायाशक्तितिरोधानात्मक
पाशवावेशापसारणे चैत्रोऽहं मैत्रोऽहमिति साङ्केतिकीं
सञ्ज्ञां अपि परित्यज्य नित्योऽहं विभुरहमित्यादि व्यवहारं
स्वात्मनि प्रवर्तयतीत्याह - तथा पशुलोके त्यादि । तस्मिन् चैत्रोऽहं
मैत्रोहमिति प्रतीयमाने प्रमातरि मूढता वशादप्रवर्तित
पूर्वमीश्वरादि व्यवहारं प्रतिज्ञादिकावयवप्रदर्शनेन
प्रत्यभिज्ञापयति - (३८५) यो ही त्यादिना । त्वमीश्वरः
ज्ञानक्रियास्वातन्त्र्य युक्तत्वात् यो हि ज्ञानक्रिया स्वातन्त्र्ययुक्तः य
ईश्वरः । यथा सिद्धान्तपुराणप्रसिद्धः तथा चत्वं
ज्ञानक्रियास्वातन्त्र्ययुक्तः । तस्मात्त्वमीश्वर एवेति शिष्यस्य
ज्ञानक्रियाशक्तिमत्वात् ईश्वरत्वं प्रत्यभिज्ञापनं
पञ्चावयवेनसाधितं - त्वं विश्वेश्वरः,
तज्ज्ञानक्रियाशक्तिविषयज्ञेय कार्यात्मक मित्यादि शिवान्तस्य
विश्वस्य त्वादायत्तत्वात् । यस्मिन् प्रमातरि यत् क्षेत्र भवनादिकं
मायातं स तत्रेश्वरः राजेव स्वमण्डले । तथा क्षित्यादि शिवान्तं
विश्वं त्वदायत्तम् तस्मात्त्वं विश्वेश्वर एवेति प्रमातुर्विश्वेश्वरत्व
प्रत्यभिज्ञापनं प्रमातुरीश्वरता व्यवहारः नान्य निमित्त इति
तज्ज्ञान क्रियात्मक स्वातन्त्र्य निमित्तः
प्। ३०१) तज्ज्ञानक्रिया विषया सदा शिवादिक्षित्यन्त विश्वनिमित्तश्च
भवति । नत्वेतदन्यनिमित्त इति प्रतिपादयितुं यो हि ज्ञानक्रिया
स्वातन्त्र्ययुक्तः स ईश्वरः । तथा सिद्धान्त पुराण प्रसिद्ध इति
यदायत्तं स तत्रेश्वरः राजेव स्वमण्डले इति च व्याप्तिः प्रतिपादिता ।
किञ्चत्वं सदाशिवादिक्षित्यन्त विश्वपूर्णः तस्य विश्वस्य स्वेच्छया
स्वभित्तौ विश्वमुन्मीलयति इत्युक्तनीत्याभित्तिभूत संविन्मयत्व
लग्नत्वात् । यत्खलु यल्लग्नं भाति तत्तेन पूर्णं निधनमिव मणिभिः
सल्लग्नं विश्वं तस्मात् स्वं विश्वपूर्ण एवेति प्रमातुः
पूर्णत्वप्रत्यभिज्ञापनम् । किञ्चत्वं विश्वव्यापकः तस्य च
तदन्तर्वर्तित्वात् । यस्य यदन्तर्वर्तिभाति स तावति व्यापकः समुद्ग इव
मणिषु त्वयि संविद्रूपेश्वरादि शिवान्तं शास्त्रप्रक्रियोक्तं विश्वम् ।
तस्मात् त्वं विश्वव्यापक एवेति प्रमातुः क्षित्यादि सदाशिवान्त
विश्वव्यापकत्वप्रत्यभिज्ञापनम् । अपि च त्वं नित्यः
उदयलयधर्मिणोविश्वस्य पूर्वपरभागव्यापित्वात् । यस्मिन् स्थिते
यदुदेति लीयते च तत्तत्पूर्वापरभाग व्यापि । यथा भूमावङ्कुरः ।
(३८६) तथा च त्वयि विश्वमुदेति लीयते च । तत्त्वं
विश्वोदयलयपूर्वापरभागव्यापित्वान्नित्य एवेति प्रमातुः
संविन्मयत्वात् अकालकलितत्वेन नित्यत्वप्रत्यभिज्ञापनं यथोक्तम् -
त्वय्यात्मनि स्फुरति सन्ततमादि सिद्धे
विश्वं चराचरमुदेति विलीयते च ॥ इति ।
अस्मिन् प्रमातरि शिवत्वपशुपतित्व देवत्व भैरवात्वादयः
सहस्रशोऽप्यागम सिद्धधर्मश्रेयोमयत्वात्
पशुपालादिधर्मवत्वात् विश्वसृष्ट्यादि क्रीडा
परत्वाद्भीरूणामभयादि प्रदत्वाच्च योज्यः ।
एवमुक्तप्रकारेण प्रमातुर्मायात्मके व्यामोहे व्यामोहिते सति पुनरपि
शरीरादावनात्मताभिमान पुरस्सर एव तद्व्यामोह संस्कारमात्र
विधृते स्थूलोऽहं कृशोऽहमित्थाद्यात्मनाभिमाने घटादौ च
प्रकाशमानत्वादात्मताभिमान पुरस्सर
एवानात्मताभिमानसतितेऽपि यथा ज्ञातेन्द्रजालतत्वस्य
पुनश्चेन्द्रजालं पश्यतः तत्वतो व्यामोहो भवति । तथा
प्रत्यभिज्ञानात्मपरमेश्वरस्य परमार्थतो व्यामोहो नास्ति । तत
अनन्तरं पुनरावृत्त्यात्मना प्रायेण न प्रापित पर्यन्ते परिच्छिन्ने
देहे अस्य प्रमातुः घट कुड्याद्यन्तर्गतस्याकाशस्य तद् घट कुड्या
द्युपाधिगलने यथा स्थिता काशमयत्वमिव विश्वमय विश्वोतीर्ण
परमशिवादिक्षित्यन्त
प्। ३०२) तीर्णपरमशिवादिक्षित्यन्त तदुत्तीर्णपरम चिन्मय
परमशिवतैव । यथोक्तम् - स्वरूपप्रवेशिकायाम् - (३८७) विश्वानरो
वा पतितं शरीरं वैश्वानरो वा कबलीकरोतु ।
अहं शिवः सन्निखिलात्मभूतः
स्वधाम्निचिद्व्योम्निविशश्रमीमि ॥
इति ।
जीवन्नेवशिवोऽस्मियद्गुरु गिरा ज्ञानक्रियाशक्त्यभि-
ज्ञानेन प्रतिपादितेन जनवत् सञ्चेष्टमानोऽप्यहम् ।
प्रारब्धाखिल पूर्वकर्मसदसद्भोगोप भोगक्षयात्
देहेऽस्मिन्पतिते चराचर जगत्स्वात्मा स एवेश्वरः ॥ इति ।
यः काश्चित्सिद्धिकामः शिवशास्त्रोपदिष्टेन परमेश्वरस्वरूप
धयानसमावेशाहत्मकाभ्यास बलेन देहे वा घटादौ वा
परमेश्वरता समावेश मन्मिनीविश्यपश्यत इति स्वदेहे वा न्यदेहे वा
घटादौ वा परमेश्वरांशसमावेश्य तत्र तत्र परमेश्वरं
साक्षात्कुर्वत इहैव शरीरे सर्वज्ञत्व सर्वकतृत्व सर्वतो दितत्व
सर्वव्यापकत्वाद्यनन्तधर्मयुक्तस्य
परमैश्वर्यस्मांशधर्मोद्गम एकदेशात्मको धर्मो भवति ।
शरीरे विद्यमाने सर्वज्ञत्व सर्वकर्तृत्वादि रूपापूर्णता वस्तुतो न
भवति । अष्टारत्निमात्रस्य अत एव देशकालाकारात्मक सङ्कोचस्य
देहत्वस्यैव विगलने यथास्थित परम शिव एव तट् त्रिंशत्तत्वात्मकः
प्रपञ्च इति स्वरूप प्रवेशिकोक्तनीत्या परमशिव स्वरूपभूत
शिवादिक्षित्यन्त विश्वात्मकता पत्तेः यस्य प्रमातुः शक्तिपात
तारतम्यात् स ईश्वरतादि व्यवहार साधने पञ्चावयवात्मके तु
कलापे सत्यपि ईश्वरोऽहं स्वतन्त्रोऽहमित्यादि सिद्धताभिमानो न
भवति । तस्य तत्र सिद्धताभिमानेऽपि पुनः पुनरुक्त रूपैर्व्यवहार
साधनैरेव, यस्य त्विश्वरतादिव्यवहार साधने हेतुकलापे
प्रदर्शितेऽपि सर्वप्रकारेणायं व्यामोहो नापसरति । तत्र स्वरूप
(३८८) तिरोधानात्मकेश्वरशक्ति वशान् मूढतैव पशुतैव मूढता
विष्टस्य तस्यापि ईश्वरस्त्वं पूर्णस्त्वं त्वं नित्य इत्यादेर्बहुशः
परमदेशिक प्रयुज्यमानस्य व्यवहारस्य कर्णपथगमनात्
कदाचिदवश्यं संस्कारपाकः कदाचिद्भविष्यत एवेति । सा पि
कालान्तरेऽपि वेश्वरतादि व्यवहारः स्वात्मनि प्रवर्त यत्येवेत्यर्थः ॥
प्। ३०३) शास्त्रादौ कर्तरीत्यादि श्लोकद्वयेन यत् प्रमेयमुक्तं
तदेवेदानीं विश्ववैचित्र्येत्यादिश्लोकत्रयेण सम्यक्
विस्तृत्यपुनर्निरूपितः । कथमिति चेत् एवं भूतमिति ।
प्रकाशमानपरिच्छिन्न घटादिप्रमेय व्यवस्थापकं प्रमाणं तत्
एवं भूत इति । प्रमेय प्रमाणप्रमाप्रमात्रात्मक प्रपञ्चोत्तीर्णे
भगवति कथ मुपपद्यतामिति । ततश्चेति । परमशिवप्रमाणाघटनात्
शास्त्रादौ कर्तरीत्यादिश्लोकद्वयेन यत् प्रमेयमुक्तमिति तदेव
विश्ववैचित्र्ये त्यादि श्लोकत्रयेण निरूपितिशिवम् ।
इति प्रत्यभिज्ञा सूत्र विमर्शिनी व्याख्यायां एकादश माह्निकम्
समाप्तम् ॥
अथ द्वादशमाह्निकम् ॥
यः निर्मले आणवादि मलरहिते दर्पणबिम्बे
यद्वन्नगरग्रामादिचित्रमविभगिभाति विभागेनैव च परस्परं
दर्पणादपि च विमलतर परमभैरववोधात् तद्विभाग शून्योऽपि
अन्योन्यं च ततोऽपि च विभक्तमाभाति शिवरूपात् (३८९) इति
परमार्थसारोक्त्या विश्वप्रतिबिम्बनक्षमेस्वात्मदर्पणे
स्वस्मिन्नविनाशिनि आत्मदर्पणे पूर्णाहन्तात्मनि मुकुरे भावात्
क्षित्यादि शिवान्तात् जड्येतनाद्यवान्तर भेदशतसम्भिन्नश्चासा
वितिपूर्वोक्त नीत्या जडस्य घटादेः कुम्भकारः कारणं जडस्य
बीजादेः जडरूपमङ्कुरादि कार्यम् । अजडस्य चैत्रमैत्रादेरजडं
चैत्रमैत्रादि कारणम् । किञ्चाजडस्य वृश्चिकादेर्जडरूपं गोमयं
कारणमित्यादिरूपेण विचित्रम् । तेषां कार्यकारणभावं
चाभासयन् कर्तायस्य तदाभासनमेव कर्तृत्वं तं शिवं स्तुमः ॥
अत एव यदप्युक्तं क्रिया नैकस्य स क्रमा ।
एकेत्यादि प्रतिक्षिप्तं तदेकस्य समर्थनात् ॥ इत्यादि ।
तथा विज्ञातृ विज्ञेय भेदो यदवभासते ।
इति क्रियाधिकार प्रथमाह्निकोक्त क्रियाशक्ति विष्फारभूतस्य क्रिया
सामान्येत्यादि तेन भ्रान्तिरितीदृशीति द्वितीयाह्निकोक्तस्य
क्रियासामान्यादि सम्बन्धस्याभिधान प्रसङ्गादि मेतादृगित्यादि
व्यवहारः प्रवर्त्यत इत्यन्तेन तृतीये नाह्निकेन
प्। ३०४) कर्तरि ज्ञातरि स्वात्मन्यादिसिद्धे महेश्वर इति सूत्रे
ज्ञातरीत्युक्त्या वश्यं निर्णेतव्यस्य ज्ञाप्य ज्ञापक भावस्य
तत्त्वं प्रसाध्य निर्णीय इदानीं तज्ज्ञाप्य ज्ञापक भाव
प्राणभूतस्य कर्तरीत्युक्तवान् कर्त्रधीनस्य कार्य कारण भावस्य
तत्त्वं प्रसाधयितुम् । एष चेत्याद्येवमिच्छैव हेतुताकर्तृता क्रियेत्यन्त
श्लोकैक विंशत्या आह्निकान्तरमारभ्यते ।
तत्र प्रथमश्लोकेन स्वमत इति । संविद्वादिमते कर्तृकर्मभाव
एवेति ईश्वरस्यैव कर्तृभावः सदाशिवादिक्षित्यन्तस्य विश्वस्य
कर्मभावः इत्येवं भूतः (३९०) कर्तृकर्मभाव एव
कारणकार्यभाव इत्युपक्षिप्यते सं क्षिप्यते ईश्वर एव कारणं
विश्वं तस्यैव कार्यमित्यर्थः ।
ततः श्लोकत्रयेणेश्वर व्यतिरिक्तस्य प्रधानपरमाणुबीजादेः
विश्वं प्रतिकारणत्वं पराक्रियते । ततः श्लोकषट्केन चेतनस्यैव
परमेश्वरस्याग्नि बीजादेरित्येवं रूपकारणत्व प्रसङ्गात् । अग्न्यादि
जन्येन धूमादिनाग्न्यादिकारणं प्रत्यनुमाने
ईश्वरनियतिशक्तिरवश्यो पजीव्येति श्लोकत्रयेणोच्यते । तद्यथा योगि
शरीरानुप्रविष्टः परमेश्वरः स्वातन्त्र्येण कारणभूतमग्न्यादिं
विना कार्यरूपं धूमादिं जनयति अग्निधूममेव जनयतीति तस्य
नियत्युल्लङ्घनात् तद्योनिर्मिताग्निव्यतिरिक्तमग्न्यादिं प्रत्येव
तन्निभितधूमरहितेन धूमेनानुमाने अग्नेरेव धूमः
बीजादेरेवाङ्कुरः इत्येवं रूपानियतिशक्तिरवश्योपजीव्येत्यर्थः ।
नतदग्नेरेव धूमं बीजादेरेवाङ्कुर इत्येवं रूपे
कार्यकारणभावे तस्याग्न्यादेः कारणत्वमपोहितुं अग्नौ सति
धूमः बीजेसत्यं कुर इत्यग्न्यादिसद्भावानन्तर सम्भूत
धूमादि सद्भावात्मक सौगतोक्तः कार्यकारणभावः । एतेनैव
कर्ता तस्यैव कार्यं विश्वमित्यस्मत्पक्षमेवावलम्बते । नो
चेन्नकिञ्चिदपि भवतीति श्लोकत्रयेण्च्यते । अस्मत्पक्षानवलम्बने
विश्वस्य सत्वाभावात् तद्विश्वसम्बन्धिनः कार्यकारण भावस्य
स्वरूपमेव न भवति ततः प्रधानस्य महदादिक्षित्यन्त त्रयोविंशति
तत्वमयत्वं तस्य तत्वांशे प्रत्येकं प्रधान मयत्वं चेति
सूक्ष्मदृष्ट्या बीजस्यां कुर स्वभावः अङ्कुरस्य बीजस्वभाव इति
प्। ३०५) स्थूल दृष्ट्या च परस्पर स्वभावात्मक सङ्ख्योपदर्शितोऽपि
कार्यकारण भावोऽपि नोपपद्यते ।
(३९१) अस्मदुक्तं चेत(न)स्य कर्तृत्वं वाङ्गी क्रियते चेदिति
त्रिश्लोकैरुच्यते । बीजेसत्यं कुरः बीजस्यां कुर स्वभावः तस्य बीज
स्वभाव इति सौगत साङ्ख्ययो रभिमते कार्य कारणभावेऽपि जडस्य
बीजादेः करणत्वं युक्तमित्युक्तं चेतनस्य चिन्मात्ररूपिणो
ब्रह्मणोऽप्यनीश्वरतायामिति ।
इह खलु परमेश्वरः प्रकाशात्मा । प्रकाशश्च विमर्श
स्वभावः । विमर्शो हि नाम विश्वाकारेण विश्वप्रकाशनेन वा
अकृत्रिमाहमिति स्फुरणम् निर्विमर्शः स्यादनीश्वरो जडश्च प्रसज्येतेति
स्वरूप प्रवेशिकोक्ता कृत्रिमाहमिति स्फुरणरूपमयेश्वरात्मक
स्वातन्त्र्या नभ्युपगमे मायादिक्षित्यन्तं विश्वं कार्यं तस्य
ब्रहमैव कारणमित्येतन्नघटत इति द्वाभ्यामुपसंह्रियते
इत्याह्निकस्य सङ्क्षेपार्थः ।
ग्रन्थार्थस्तु - व्याख्यायते । क्रियाशक्तिनिरुपणद्वारगतेन
ज्ञाप्य ज्ञापक भावात्मना सम्बन्धे प्रमात्रैक रूपतामिति
भगवति व्यवहर्तव्यां ज्ञातरि पूर्वोक्तं ज्ञात्रैकरूपतां
प्रतिपाद्य तज्ज्ञात्रैक रूपता प्राणभूता आदितः कर्तईत्युक्ता ।
कर्तृरूपता हि तत एवेति तज्ज्ञातृता साधनेनैवायत्न सिद्धेति दर्शयति
-
एष चेति । विश्ववैचित्र्येत्यादि श्लोकत्रयोक्तस्वरूपः
प्रमातैवानन्तशक्तित्वादिति ।शक्तयोस्य जगत्सर्वं शक्तिमांस्तु महेश्वरः ।
इति श्री सर्वमङ्गलाशास्त्रोक्तनीत्या व्यक्तं हि पदार्थात्मकमिदं
जगन्नित्यमेव तल्लग्नं शक्त्यात्मकमव्यक्तं तत्रैव पुनर्निमज्जति च ।
इति श्री विरूपाक्षपञ्चाशिकोक्तनीत्या च योऽन्तरनन्तशक्तित्वं
स्वात्मवशाद्देशकालापरिच्छिन्न शक्तिमयत्व मवलम्ब्य (३९२) स्थितान्
। एवमिति । तत्तद्रूपतयामुनिति । अतीत सृष्ट्यादौ स्वात्मनैवाभासित
पूर्वान् । अनन्तरं स्वात्मनैवाभास मानान् भावानिति क्षित्यादि
सदाशिवान्तान् इच्छावशात् स्वान्तः स्वीकृततत्क्षित्यादि
सदाशिवान्तैषणीयवर्गया एषणीयैच्छाशक्तेर्वशात् सामर्थ्यात्
आभासयतीति वर्तमान प्रयोगेण भासनस्या विच्छिन्न प्रबन्धत्वं
द्योतितम् । एषिता परमेश्वरः स्वेच्छान्तर्गत मेषणीयं
प्। ३०६) विश्वं तदिच्छा मुखेना नवरतं प्रकाशयतीत्यर्थः । एवेति ।
अवभासमानैच्छैवास्य विश्वनिर्मातृरूपा क्रिया । यद्वक्ष्यति -
एवमिच्छैव हेतुता कतृता क्रियेति । चोऽवधारणे । सूत्रगतश्चकारः
अवधारणेवर्तते । पुराणः अकालकलितः प्रमातै व । अत एव भावान्
स्वात्मनैव भावनीयान् सम्पादनीयान् । अत एव भूतादि काल
कलितत्वात् । अमूनिति । आभासित पूर्वानाभासमानांश्च
प्रबन्धेनाभासयति ।
अनेनैवाभासितपूर्वत्वादाभास्यमानत्वाच्छाभास्यमानस्या
विच्छिन्न प्रबन्धत्वं द्योतितम् । कथम् ? इच्छा वशादिति । इच्छाया
एषितृरूपात् स्वात्मनः अभिन्नायाः अत एवा विकल्प रूपाया अवैषितृ
पद क्रमायाः क्रोडीकृत क्षित्यादि सदाशिवान्तैषणीय वर्गाया
वशेन सामर्थ्ये नैवाभासयतीत्यर्थः ।
आभास्य मानास्ते भावाः आभास मानात्
पूर्वमस्यकुत्रस्थिता इत्याशङ्क्याह - अनन्तशक्तिमवलम्ब्यान्तरे
स्थिता इत्यर्थः ।
स्वामिनश्चात्म संस्थस्येत्यत्र सूत्रे क्षित्यादि सदाशिवान्ता
विश्वे हि भावास्तस्यैव स्वामिनः स्वरूपात्मकत्व शक्तिरूपत्वेन
स्थिता इत्युक्तम् । यदेतत् क्षित्यादि सदाशिवान्तभावाभासनं या सा
एवं विधावभासनेच्छा सैवा स्य भगवतो निर्मातृता रूपा क्रिया ।
(३९३) नन्विति । बीजादेवोद्भवन्नं कुरो दृश्यते । अत्र
बीजेतदङ्कुरोद्भासकः कश्चिच्चेतनेनानुप्रविशन्नदृष्टः । तत्तस्मात्
चेतन एव भावानाभासयतीत्येतत् कथमुक्तनीत्याशङ्क्याह ।
पूर्वभसत एवाङ्कुरस्य पश्चादङ्कुरात्मना सत्तायत सा
जडस्य बीजादेः शक्तिसामर्थ्यान्न भवति । तस्य जडत्वादेव । तत इति ।
बीजादेः कारणत्वाभावादङ्कुरादेस्तत्कर्यत्वा भावाद्विश्वस्य
कार्यता कारणता च । कर्तृकर्मत्वतत्वैव कर्तृत्व तत्वाकारणता
तदङ्कुरादेरपि ईश्वर एव कारणं न बीजादित्यर्थः ।
कर्मत्व तत्वा कार्यता चेति यद्वक्ष्यति । अत
एवाङ्कुरेऽपीष्ठोनिमित्तं परमेश्वर इति । असतस्सत इति । असतो अङ्कुरस्य
सतोबीजस्य शक्तिर्नभवति । किञ्च असत एवाङ्कुरस्य बीजस्य च
सतोवाङ्कुरस्य बीजस्य शक्तिर्नभवति ।
जडं प्रधानपरमाणु बीजादिति श्रीनिजवृत्त्युक्तनीत्या
साङ्ख्यनैयायिकाद्यभिमतं प्रधानाद्येव कारणत्वेन वक्तव्यम् ।
तथापि तस्य बीजवत्
प्। ३०७) प्रत्यक्षत्वाभावात् जडस्य बीजस्येत्युक्तम् । जडस्य बीजस्यैवं
भूतसमर्थ्यमिति पूर्वं सद्रूपमं कुरं पुनः
परिदृश्यमानसत्तावन्तं करोतीति यदेतत् जडस्य बीजस्य सामर्थ्यं
नास्ति । बीजस्यां कुर सद्भावे सत्ता भावाद्बीजादङ्कुरोजायत इत्येतत्
जन्यस्यां कुरस्य महिमा न भवति । पूर्वमसत्वादङ्कुरो जायत इति
महिमाबीजस्य कथं भवेत् । घटो जायत इति महिमा कदाचिदपि परस्य
न बवेदेव तद्वदङ्कुरो जायत इति महिमा बीजस्य केनापि प्रकारेण न
भवति । इतर पदार्थवत्तस्याम् । ततः अङ्कुरादन्यत्वात् । यत एवमिति ।
उक्तनीत्या जडस्य बीजादेः (३९४) कारणत्वा भावादिति यतः तस्मात्
कर्तुं क्रियया व्याप्यं कर्मेतिनीत्याधरादिसदाशिवान्तं कार्यं
विश्वं क्रियाशक्त्या भास्यमानत्वात् कर्मैवेति
कार्यकारणतेत्यत्रकार्यमिति कृत्येनैवा विष्कृतम् । अनेन कर्त्रानिर्मिति
समर्था चरणे नानेन कर्ताकार्यत इति कारणत्वमपि चेतने कर्तरि
विश्राम्यति । चेतन एव विश्वकारणम् । तदुक्तम् - आत्मा खलु
विश्वमूलं तस्य प्रमाणं न कोऽप्यर्थयत इति । असतः सत इति ।
असद्रूपस्यैव सतः अङ्कुरस्य सत्ता उत्पत्तिः स्वसामर्थं न भवति ।
किं चा सतः सत इत्यत्र वार्थोऽपि गर्भीकृतः । असतोऽङ्कुरस्यैवासतो
बीजस्य वेति सामर्थ्यमित्यनुबध्यते । किञ्चासतः सत इति
सतोर्बीजाङ्कुरयोर्वासामर्थ्यं न भवति । यद्वक्ष्यति - ततश्च
यदिबीजं सत् अङ्कुरोऽसन्नथापि विपर्ययः उभयमपि वा सत् यदि वा
असदित्यादि ।
नन्विति । जडस्य बीजादेः सैवेत्यनन्तरमेव प्रस्तुता
अङ्कुरजननसामर्थ्यरूपा शक्तिः कथनं भवतीत्याह ।
यद्वस्तु स्वत एवासत् तदसदेव भवति । असतः सत्स्वरूपता युक्ता
न भवति । सच्चेत् तस्य सतः पुनः सत्तालाभेनार्थो न भवति प्रयोजनं
नास्ति तस्य पूर्वत एव । सत्वात् ।
कार्यं विश्वं सद्वासद्वेति पूर्वमेव सद्वासद्वेति
सम्भाव्यते इत्येवं विधासम्भावना युक्ता । उभयात्मकमिति ।
सदसदात्मकमनुभयात्कमिति । असदसदात्मकमनिर्वाच्यमिति सदिति
वक्तुं अशक्यम् । असदिति वक्तुमशक्यमित्येतत् सर्वं स्वभावेनैव
विरुद्धम् । विरुद्धमेवव्यक्तीकरोति - सदात्मकं (३९५) चेदसदात्मकं
न भवति । असदात्मकं चेत् सदात्मकमपि न भवति । यत् स्वत
प्। ३०८) एव सन्न भवति असच्च न भवति अस्य वस्तुत्वमेव नास्ति स्वत एवा
सति अस्तित्वा सम्भवात् पूर्व
दृष्टानन्तरनष्टवस्तुसम्बन्धिनोऽस्तित्वस्याप्य सम्भवात् ।
अनिर्वाच्येयमविद्येति चेत् कस्यानिर्वाच्येति न विदुः स्वरूपेण च भाति । न
च निर्वाच्येति किमेतदिति वक्ष्यमाणनीत्या अनिर्वाच्यस्याप्येवं स्वभाव
विरुद्धत्वमेव वाच्यम् । तत्किमनेनेति । तत् तस्मादुभयात्मक
मनुभयात्मकमित्यादिना स्वभाव विरुद्धेन प्रमेयान्तरेण किं
प्रयोजनं प्रकृतमेव परामृशामः ।
घटः स्वत एव । संश्चेत् तस्या सद्रूपत्वमेव तत्त्वमिति
कथमसत्वं स्वभाव विरुद्धं सत्वमभ्युपगच्छेत् । न हि नीलात्मनि
नीलरूपे वस्तुनि तन्नीलवस्तुनः वस्तु पाद प्रणाम प्रणति
प्राणिधानशतैरपीति लवमात्रमपि हि नापि दृश्यते । कदाचिदपि नीलं
पीतं न भवतीत्यर्थः ।
पक्षान्तरमाह - अथ सन्नेव घट इति । पृथु बुध्नोदरा
कारात्मा घटः यदि स्वतः सन् तर्हिनिर्माणार्थं तदन्यद्दण्ड
चक्रचीवरादि सहकारकारणं किमुपयाच्यते । तस्य स्वत एव सत्वात् ।
व्यक्ति विषयत्व स्फुटत्वादयोऽपि सदसद्रूपतया चिन्त्या इति । तेऽपि सत्वा
सत्व एव पर्यवस्यन्तीत्यर्थः । पूर्वमनभिव्यक्तो घटः
कुम्भकारव्यापारेणाभिव्यक्तः पूर्वमस्फुटः पुनः
कुम्भकृद्मापारेण स्फुट इत्यादयः सर्वे सदसद्रूपतया चिन्त्याः ।
नन्विति । घटादि कार्यं सच्चेत्
दण्डचक्रकुलालादिनापेक्षणीयम् । असच्चेत् स्वरूपविरुद्धं सत्वं न
प्राप्नोतीत्येवं चेत् तूष्णीमास्य तमिति प्रैवादिवचनमाशङ्क्याह -
(३९६) नैतदपीति । एतत्तूष्णीमासनमपि नयुक्तम् । तत्र सूत्रैकदेशेन
हेतुमाह - अथ चोच्यते कार्यकारणता लोक इति । अथ चेति । अथापि लोके
कार्यकारणतोच्यते तत् तस्मात् कार्यकारणभावात्मकोऽयमर्थः
अवश्यसमर्थनीय इति यावत् । ततश्चेति । अवश्य समर्थनीयत्वात्
अयमर्थः इत्थं भवतीति दर्शयति । सान्तर्विपरिवर्तिनः उभयेन्द्रिय
वेद्यत्वं तदेकस्यापि शक्तित इति लोके प्रोच्यमाना सा कार्यकारणता
तस्य कस्यापीति । अचिन्त्यापर्यनुयोज्य महिम्नः परमेश्वरस्य शक्तितः
स्वातन्त्र्यतः अन्तः पूर्णाहन्तात्मनि स्वरूपे विपरिवर्तिनः
तत्पूर्णाहन्तावस्थित क्षित्यादि शिवान्तविश्वभावा
प्। ३०९) भेदेन परिवर्तमानस्य घटस्य निर्मातृत्वेनाभिमतस्य कुम्भ
कारस्य कुम्भकारनिर्मितोऽयमिति पश्यतां चोभयेन्द्रिय वेद्यत्वम् ।
अन्तः करणबहिष्करणवेद्यत्व सम्पादनमये संवित्कुम्भकार
हृदये, अन्तरिति तस्य कुम्भकारस्य मनोगोचरत्वात् पूर्वमेव
स्वसंविदेकात्मतयेति विश्व पूर्णा विनाशि स्वसंविदैक्येनापीति
विचित्रत्वेन तत्र हृदये वर्तमानस्य शिवादिक्षित्यन्त विश्वभावभेदेन
परिवर्तिन इति परिवर्तमानस्य स्पन्दने नैक्यरूपेण स्पन्दनेन स्फुरतो
घटस्य देशकालसङ्कुचित परिमित पृथुबुध्नोदराकारतया तस्य
कुम्भकारस्यान्येषां च यदन्तः
करणबहिष्करणवेद्यत्वमाभास्यते एषा आभासने नैव सेति प्रोक्ता
कार्यकारणता उभये वेद्यत्वमित्यत्रोभव ग्रहणं वस्तुनः
पूर्णार्थक्रियासमाप्ते रूपेलक्षणं यस्य वस्तुनः अर्थक्रियायावति
समये पूर्णाभवति, केवलमन्तः करणैक वेद्यत्वेन
वोभयकरणवेद्यत्वेन वार्थक्रिया यस्य वस्तुनः यावति समये
पूर्णाभवति इति यावत् ।
(३९७) तदेवाह - सुखादीनमन्तःकरणवेद्यता पादनमेव
निर्माणं परमेश्वरः सुखादिमन्तःकरणवेद्यमेव निर्मिमीते ।
नीलादिमुभयेन्द्रियवेद्यं जडात्मकप्राणपुर्यष्टकशून्यप्राये
कुम्भकारे एतत् घटादिवस्तुनचास्थि तं भवति । तस्य कुम्भकारस्यापि
जडस्त्वात् । ततः संविदेव स्वेच्छया स्वभित्तौ
विश्वमुन्मीलयतीत्युक्तनीत्या स्वात्मनि विश्वमाभासयति,
स्वशक्तिवैचित्र्यात् । तस्य कस्यापि एव चानन्तशक्तित्वादित्यादि
पूर्वमुक्तस्याचिन्त्यापर्यनुयोज्यमहिम्नः परमेश्वरस्येत्यर्थः ।
घटादेः प्रोक्तमुभयेन्द्रिय वेद्यत्वमपि घटवत् सदसद्वेति
त्वयान वाच्यम् । तत्रोपपत्तिमाह - यतोऽयमत्र परमार्थ इति । अत्र
कार्यकारणभावप्रसङ्गे अयं परमार्थः । यतः
कुम्भकृन्निर्मितस्य बिम्बरूपस्य घटादेः दर्पणान्तः प्रतिबिम्बे
तत्प्रतिबिम्बाभास महिमा यथा दर्पणस्य यथा स्वप्ने गजतुरगादि
पदार्थदर्शने तत्पदार्थ निर्माणं संविद एव महिमा तथा
त्रापीति । घटादिनिर्मितौ तन्महिम्नैवेति । तस्य परमेश्वरस्य महिम्नैव
। एतेनेति । कुम्भकृता इदं घटादि वस्तु बहिः स्फुटरूपः क्रियत इति
अभिमान उल्लसतिलोकस्येति शेषः ।
प्। ३१०) एवं संविद एव महिम्ना कारणरूपे कुम्भकृति सह कारि
कारण रूपे दण्ड चक्रादौ कार्यरूपे घटादौ च स्थिते
तत्संविन्महिम्नैव जडत्वात् स्वात्मनः स्वत एवा कर्तृत्वेऽपि मयेदं
कृतं अनेनैवं कृतं मम हृदये स्फुरितम् अस्य हृदये
स्फुरितमित्यभिमानो जायते । तत्रेति - अभिमानप्रसङ्गे मृदादेर्जडस्य
जडत्वादेवाभिमानो दूरापेतः । संवित्स्वभावे परमेश्वर एव
कर्तृत्वं व्यवस्थाप्यते ।
(३९८) ननु घटादि भावरूपं सं विन्महिम्नेत्थम्मिति बहिः
स्फुटरूपं मास्यतां तस्य किमुभयेन्द्रिय वेद्यत्वेनेति,
उभयग्रहणमुपलक्षणम् । यस्य या वति पूर्णा अर्थक्रिया समाप्तिरिति
पूर्वमेवोक्तम् । अनेन द्वयेन्द्रिय वेद्यत्वेन घटादेः स्फुट
मर्थक्रियाक्षमं रूपमुक्तमित्यनेनोभयेन्द्रिय वेद्यत्वेन को
विरोधः ।
एष चानन्तशक्तित्वादिना ईश्वरस्यैव कर्तृत्वं न तु
प्रधानादेरित्यनेन कार्यकारण भावविचारेण प्रकृतमपीति
क्रियाप्यर्थस्य कायादेरित्यादिना प्रतिपक्ष्येण स्थित्वा कर्तृत्वं
नास्तित्वेन प्रतिपादितम् । पुनस्तत्प्रतिक्षेपायात् एवेत्यादिना प्रस्तुतं
क्रियास्वरूपमपि सिद्धं भवतीति दर्शयति - एवमेकेत्यादिना सूत्रेण ।
एवमिति ।
कार्यकारणता लोके सान्तर्विपरिवर्तिनः ।
उभयेन्द्रियवेद्यत्वं यस्य कस्यापि शक्तितः ॥
इत्युक्त नीत्या अन्तर्बहिः स्थितिरूपतया स क्रमा सैषेति ।
पूर्व पक्षे न साप्येका क्रमिकैकस्य चोचिता ।
इति स्वरूपत आश्रय तश्च नास्तीत्युपलब्धा । उभय कारसहिष्णोरिति ।
स्वातन्त्र्यादन्तर्बहीरूपता सहिष्णोर्देशकालाकलितस्य प्रमातुः
सम्बन्धितया एकेति चोपपादिता । बाधकं प्रमाणं निरस्येदानीं
बाधकेन प्रमाणेन प्रसाधिता । सैवेति । क्रियाप्यर्थस्य
कायादेरित्यनेन स्वरूपत आश्रयतश्च नोपपद्यत इति । यस्या
उपालम्भकृतः सा क्रिया उपपत्त्येति सक्रमत्वेनैकत्वेन च युक्ति युक्त
तया स्थापिता । तदेवाहं - यत इत्येवादिना । यत आन्तरादिति
पूर्णाहन्तामयात् (३९९) संविद्रूपात् प्रभृति तत्पूर्णा हन्ता
तत्स्थितघटादि बहीरूप निर्माणद्वारेणोभयेन्द्रियगोचरतया बहिः
पर्यन्ततयेति इदन्ता पर्यन्त तया आभासनरूपा स्थितिः
प्। ३११) यस्याः तत एव सा क्रिया सक्रमा तावदुप पन्ना । एकश्रय
रूपप्रमातृ तादात्म्याच्चैका क्रियाया एकाश्रय भूतः स प्रमाता
संविद्रूपत्वेनायाताभ्यां स्वच्छत्व स्वतन्त्रत्वाभ्याम्मिति ।
स्वच्छत्वं नाम स्वात्मना बहीरूपतया सृष्टस्य विश्वस्य
स्वात्मदर्पण एव प्रतिबिम्बन क्षमत्वं स्वतन्त्रत्वं तु स्वान्तः
संविन्मयत्वेन स्थितस्य विश्वस्य बहिरिदन्तया भासनम् । आभ्यां
स्वच्छत्वस्वतन्त्रत्वाभ्यां क्रमेणोभयमपीति एकत्व मनेकत्वं
चान्तर्बहीरूपत्वं सहत इति ।
ननु घटादाविति । घटादि निर्माणकाले तस्य घटादेः
कुम्भकाराद्यात्मक चेतनान्तर स्फुरितत्वात् । एवमिति । तत्तद्रूप
घटादि तस्य कार्यं भवतु तद्वत् । यत्र तु बीजाङ्कुरादौ चेतनानु
प्रवेशः प्रत्यक्षेणन दृश्यते , चेतनः बीजादिमन्तः प्रविश्य स्वान्तः
स्थितमङ्कुरादिं बहिराभासयन्न दृश्यते । तत्रेति चेतनानुप्रवेशा
भावे । अङ्कुरं बीजस्यैवकार्यं कथं न भवतीत्याशङ्क्याह -
यद्वस्तु यस्य परमेश्वरस्था पेक्षयान्तः तद्वस्तु तस्यैव
बहिष्कार्यः । बहिष्करणाहं परमेश्वरस्वान्तर्गतं विश्वं
स्वायमेव बहिष्करोतीत्यर्थः । तस्माद्विश्वस्य बाहान्तरात्मिका उभयी
स्थितिः प्रमात्रपेक्षया चोक्ता । तेन हेतुना मातैव विश्वस्य कारणं
न तु जडरूपं प्रधानादि । च शब्दो हेतौ । स एक एव प्रमाता
कार्यरूपस्य विश्वस्य बाह्यान्तरात्मका भास द्वय स्थितौ हेतुत्वे —–
——————- देति । तस्माद्विश्व निर्मातृता रूपा क्रिया एकस्य
प्रमातुरेवोचिता ।
स्वामिनश्चात्मसंस्थस्य भावजातस्य भासनम् ।
(४००) अस्त्येवेत्युक्तनीत्या परमेश्वरान्तराभास मानस्य विश्वस्य तथा
रूपेति अन्तारूपता परित्यागे नैव माया प्रमात्रपेक्षया
बहिरिदन्तया भासनं निर्माणम् । ततश्च यद्वस्तु
यदपेक्षयान्तरित्युक्तं तदनन्तर्यर्तितद्वस्तुरूप विपरिवृत्तिमात्रस्येति
स्वान्तरहन्तयावर्तमानस्य वस्तुनः बहिरिदन्तावभासात्मक
विपरिवृत्तिमात्रस्य प्रमातुरेव बहिष्करणार्हं भवति । आत्मान मत
एवयं ज्ञेयी कुर्यादित्युक्तनीत्या परमेश्वरश्चान्तर्गतं विश्वं
स्वयमेव बहिरवभास्य तदात्मना स्फुरतीत्यर्थः । संविन्मयं
प्रमातारमपेक्ष्यान्तराभासनोभावारतवदपेक्षयैव
प्। ३१२) बाह्याभासा इति । तेन प्रमात्रैव तेषां स्वान्तर्वर्तिनां
भावानां बहिष्करणाभासनं युक्तम् । तस्मात् प्रमातैव विश्वस्य
कारणं न जडः ह्यर्थे च । यतः स प्रमाता कार्यरूपस्य
विश्वस्यान्तर्बहिराभासनद्वये हेतुत्वेन स्थितः । अन्तरिति हि निकटं
तच्चेति किञ्चिदपेक्ष्यानपेक्षणीयश्च सर्वत्र प्रमातैवेत्युक्तनीत्या
अनेन विना तदपेक्षस्यान्तर्बहिराभास द्वयस्यानुपपत्तेः । तस्मादिति ।
निमित्तत्वेन स्थितत्वात् । एतत्क्रियाधिकारमारभ्य प्रसाधित रूपा
निर्मातृता क्रिया एकस्य प्रमातुरेवोचिता । न तु जडस्य प्रधानादेरुचिता
न भवतीति यतः ।
अत एवेति । चेतनस्यैव निर्मातृत्वात् अङ्कुरोऽपि नैयायिकादिभिरिति
शेषः । परमेश्वरोनिमित्तमिष्टः तदन्यस्थेतिकैः परमेश्वरादन्यस्य
बीजादेरपि हेतुतेष्टा सा जडस्य तु न सा शक्तिः, इत्युक्तनीत्या नोपपद्यते
। प्रत्य्क्षपरिदृश्यमान बीजभूमि जडादि कारणे सत्यपि तस्य
जडत्वादङ्कुरोत्पत्तौ चैतन्यरूपः परमेश्वरो निमित्तत्वेनोक्त इत्यपि
शब्दस्यैकोऽर्थः । अपि शब्दोऽवधारणे वर्तते । परमेश्वर एव
निमित्तमिष्ट इति ।
(४०१) बहिस्तस्यैव तत्कार्यमित्युक्तनीत्या चेतन एव विश्व निर्माता
यतः अत एव नैयापिकादिभिरङ्कुराद्युत्पत्तौ विश्वसृष्ट्यादि चतुरः
प्रशस्तबुद्धियुक्तः परमेश्वरोनिमित्तमिति हेतुत्वेनेष्टः ।
ननु तस्य परमेश्वरस्य निमित्तमात्रकारणता तैरङ्गीकृता ।
गन्धरसादिगुणसमवायि कारणभूत पृथिव्यादि
निजनिजावयवारम्भक्रिया विभाग क्रमायात पार्थिवादि
परमाणुद्व्यणुकादिद्वारतया गतस्य तदन्यस्येति ।
परमेश्वरादन्यस्य बीजजलादेरप्यङ्कुरादिं प्रतिहेतुता
कथितासत्यमित्याक्षेपेणार्घाङ्गीकारे । जडस्य तु न सा शक्तिः
इत्युक्तनीत्या सा तुनोपपद्यते । ततश्च -
आत्मानमत एवायं ज्ञेयी कुर्यात् पृथक् स्थितिः ।
इत्युक्तनीत्या ईश्वर एव कारणताभिमत बीजभूमि
जलाभासात्मना स्फुरितत्वादं कुरात्मना भासत इतीयानत्र
परमार्थः ।
प्। ३१३) नन्विति । परिदृष्टबीजादिकारणव्यतिरिक्तेनापरिदृष्टस्य
बुद्धिमत्परमेश्वरकारणस्य कल्पनेन विनां कुरोत्पत्तौ
किमुपरुध्यते । क उपरोध इति परस्य भ्रान्तिं भिन्दन्नाह ।
तथा हीत्यनेन निदर्शन प्रदर्शन पूर्वकं चेतनस्यैव
कर्तृत्वमिति दृढीभूतां व्याप्तिं दर्शयति - असाविति । लोके
प्रत्यक्षेणपरिदृश्यमानः कुम्भकारः । ऐश्वर्या ईश्वररूपया
व्यवस्थया स्थित्या तत्तन्मृदादिसंस्कारक्रमेण घटं जनयेत् ।
ईश्वर एव स्वेच्छया कुम्भकारात्मना स्थित्वा
तन्मृद्दण्डचक्र्चीवरादिकमर्दन प्रगुणत्व (४०२)
प्ररिवर्तनादिक्रमेणकार्यरूपं घटं जनयेत् इत्येकोऽर्थः ।
ऐश्वर्यैव व्यवस्थयेति । असौ कुम्भकारः तत्तन्मृदादि
संस्कारक्रमेण घटं जनयेदित्यैश्वर्यां
व्यवस्थायमीश्वरकल्पितया नियतिशक्त्या तत्तन्मृदादिसंस्कृत्य
घटं जनयेत् । अयथा स्वस्वान्तत्र्येणैव सृजति चेत् अचेतनामृदादयः
कुम्भकारेच्छां कथमनुरुध्येरन् ।
किञ्चैश्वर्या व्यवस्थयेति कुम्भकारस्यापि जडत्वेन स्वत एव
कर्तृत्वाभावादीश्वरकल्पितयामिथ्या कर्तृत्वाभिमानरूपया
व्यवस्थया स्थित्या घटं जनयेत् । किञ्चैश्वर्यैव व्यवस्थयेति
कुम्भकारोऽपि घटं जनयामि किम् उतनजनयामीत्येक
पक्षनिश्चयितृत्व हेतुभूतादीश्वरकल्पितात् सम्प्रश्नरूपात् विविधात्
स्वरूपावच्छादन प्रकाशरूपादवस्थानात् घटं जनयेदिति
तुरीयोऽर्थः ।
तथा हीत्यनेन चेतन एव कर्तेति व्याप्तिः । एवं भूतेति ।
वक्ष्यमाणप्रकारेण दृष्टान्त पुरस्सरं दर्शयति । तथा हीत्यनेन
जडाघट हेतु भूता मृद्दण्डचक्रादयः चेतनेन कुम्भकारेण
प्रेरिता एवं घटादिकार्यं कुर्वन्तिति मृदादयः कुम्भकृत् प्रेरणां
विना अन्योन्यसन्निधिमात्रेण कार्यं विदध्युश्चेत् कुम्भकारेण
किमत्र कृत्यं पृथु बुध्नोदराकारमटाघट प्रादुर्भावप्राग्भावि
शिबिकस्तूभकादि परम्परया घटं जयन्ति । सापरम्परा
कुम्भकारा यत्तेति चेत् तर्हि शिबिकादिसम्पादने एते मृदादयः चेतन
प्रेरणाभपेक्षन्त
प्। ३१४) इत्यस्मात् साध्यं सिद्धम् । तस्माज्जडकारणानामिति
बीजादीनामपि । अत एवाङ्कुरेऽपीष्टोनिमित्तं परमेश्वर इत्युक्तनीत्या
परमेश्वरात्मक चेतन प्रेरणामन्तरेण क्वचिदङ्कुरादि कार्यकारित्व
————– शा ———- ङ्कुरोत्पत्तौ चेतन प्रेरणां यदि न निमित्ती
कुर्यात् तर्हि मृदादयोऽपि घटोत्पत्तौ कुम्भकारप्रेरणां न
निर्मित्तीकुर्युरिति निश्चय एषः । जडश्चेतन प्रेरितं भूत्वैवकार्यकारी
भवती त्यत्र व्याप्तिं दर्शयितुं पञ्चावचनं प्रदर्शयति - ततश्चेति
। इह कारणत्वेनाभिमतं बीजादि चेतन प्रेरितमेव सदङ्कुरादिकार्यं
करोति । अचेतनत्वात् । अद्यचेतनं कार्यकारितत्तत् चेतनापेक्षं यथा
मृदादितद्विजादि चेतनापेक्षमेव कार्यकारि भवति स्वभाव इति न्यायः
। अचेतनस्य बीजादेरङ्कुरादि कार्यकारित्वं हि कादाचित्कत्वादिति ।
अत्रेदानीमिदमेवाकारं बीजमङ्कुरमुत्पादयति ।
ईश्वरनियतिशक्त्यानियतदेशकालाकारत्वात् स निमित्तं
स्वव्यतिरिक्तनिमित्तसहितं तत्सापेक्षम् । अस्य बीजस्याङ्कुरोत्पत्तौ
चेतनप्रेरणां विनान्यन्निमित्तं नोपपद्यते । तस्यानुपलम्भाच्चेतन
प्रेरणां यदि न निमित्तीकुर्यात् ताहि - चेतन प्रेरिता - कार्यं कुर्वन्तीति
मृदादयः इति पूर्वोक्त व्यापक विरुद्धमनिमित्तकत्वं बीजादेः
प्रसज्येत । तन्न युक्तम् । मृदादावपि तस्यैवा निमित्तकत्वास्यैव
प्रसङ्गात् । यथा मृदादयः परिगृहीत कुम्भकार भूमिकेन
परमेश्वरेण प्रेरिताः कार्यं कुर्वन्ति तथा बीजादयोऽपीश्वर
प्रेरिताः कार्यं कुर्वन्तीत्यर्थः इति व्याप्तिः सिद्धा । अत इति । व्याप्ते
सिद्धत्वात् तत्र घटादिनिर्माणे कुम्भकृदेवेश्वरः ईश्वर एव
कुभकारात्मना स्थित्वा घटादिनिर्मिमीते ।
उक्तं तात्पर्यार्थं सूत्रद्वयेन स्पष्टीकरोति - तदेतदित्यादिना ।
ऐश्वर्यैवव्यवस्थयेति । ईश्वररूपाया व्यवस्था स्थितिः तथा
व्यवस्थया तत्तन्मृदादिसंस्कार क्रमेणेति । कुम्भकारस्य यः स
मृद्दण्डचक्रादीनां संस्कारः मृदोमर्दनं (४०४) दण्डस्य
प्रगुणत्वमिति ऋजूकरणं चक्रस्य परिवर्तनमित्यादि तदारम्भोयः
प्। ३१५) क्रमः शिविकस्तूवकादिरूपः तेन क्रमेण घटं जनयेत् ।
नियोगतो जनयति अन्यथा न जनयतीति लिङ्नियोगे भवति । किञ्चेश्वर एव
कर्तेति पुनरप्युद्घोष्यते नयति कुप्यते कुम्भकृदपि वस्तुतः
स्वतन्त्रविमर्शात्मता रूपया ऐश्वर्येण व्यवस्थया कल्पनया
मृदादिसंस्कारापेक्षयेति अयं कुम्भकृत् मृद्दण्ड चक्रादि
संस्कृत्य न घटं जनयत्विति प्रदर्शित नियत्यभिधान
परमेश्वरनियति शक्तिविजृम्भितः उन्मिषितः घटं जनयेत् । अन्यथेति ।
तस्य नियति शक्ति विजृम्भितत्वा भावे । अचेतना इति । स्वयमहमिति ।
स्वयमहमिति चैतन्यशून्यामृदादयः तथा
कुम्भकारेच्छामनुरुद्ध्येरन् । अयं कुम्भकृदेभिर्मृदादिभिरेनं
घटं जनयेदितीश्वर नियति शक्त्यभावे म्र्दादयः
कुम्भकारवशवर्तिनो न भवन्तीत्यर्थः । अन्यच्च -
अकारणभूतास्तन्तवोऽपि घटसम्पादनेच्छा माद्रियन्त एव । तथा
हीत्यनेन सूत्रेण कुम्भकृदपीश्वर नियतिशक्ति विजृम्भित एव घटं
जनयतीत्येतत् प्रमेयमप्युक्तम् ।
नन्वेवमिति । कुम्भकृतः स्वत एव कर्तृत्वं नास्ति चेत् अयं
धर्मं कारोति अयमधर्मं करोतीति लोकेधर्माधर्मव्यवस्था
समुत्सीदेत् । सत्यम्, यदि प्रत्येषि युक्त्यागमयोरिति परमात्म
विमर्शात्मनियुक्त्यां परमेश्वरमुखोदिते आगमे च भवतः प्रत्ययो
विद्यते चेत् तदेवमेवेति ईश्वर एव कर्तान तु कुम्भकृत् । तथापि
शिवादिक्षित्यन्त विश्वनिर्माणमध्य एवेदमपि परमेश्वरेण निर्मितम् ।
तस्य कुम्भकार पशोरकतृत्वेऽपि विचलः अहमेव स्रष्टेति मिथ्या
कर्तृत्वाभिमानोऽयं प्रतिभुव इवाधर्मणाताभिमानः । (४०५) यदा
पुनः अस्य कुम्भकृतः अयं मिथ्या कर्तृत्वाभिमानो मोद्गमे दिति
ईदृशीचेदीश्वरेच्छा तदासौ कुम्भकृत् कर्ता न भवति कर्तृत्वा
भिमानो गलतीत्यर्थः ।
तथा हीत्यादिसूत्रेण कुम्भकृतो
मिथ्याकर्तृत्वाभिमाननिर्माणमप्युक्तम् । कुम्भकारोऽप्यहं
मृदादि संस्कारक्रमेणघटं जनयेय मुतन जनयेय मित्येकतर
पक्ष निश्चयार्थं सम्प्रश्नात्मा यो विचारः स ऐश्वर्यैव
प्। ३१६) व्यवस्थयेति ईश्वर सम्बन्धिन एवा व्यवस्थया विविधात्
स्वरूपावच्छादनतः प्रकाशरूपादवस्थानादिति भवति । अत्र
जनयेयमिति लिङ्सम्प्रश्ने वर्तते । तस्मादिति । कुम्भकारादेः
कर्तृत्वाभावात् शिवादौ क्षित्यन्ते जगतीश्वर एव कर्ता । अहं च स एवा
नतु परिमिते घटादौ वा कर्तेत्येतावति प्रमेये तदुपादानादि हेतु
भूते मृदादौ वेति कुम्भकृता ब्रह्मणासर्वथा
हृदयेनावधातव्यमिति स्थितम् ।
अस्य चेतनस्येति । एव चानन्तशक्तित्वादित्यादिना प्रोक्तरूपस्य
परमेश्वरस्य स्वातन्त्र्यमेव सर्वत्र शिवादिक्षित्यन्ते जगति
जृम्भमाणं दृश्यते । आत्मानमत एवायं ज्ञेयी कुर्यादित्युक्त
नीत्या जडानपि यत् स्वात्मता मापादयति । शक्तिर्विमर्शरूपा
शरीरयत्यखिलमस्तिमम । इत्युक्त नीत्या जडानपि स्वात्मीकरोति । न तु
जडानां मृद्बीजादीनां घटान्तरादि वस्त्वन्तराविष्करणे
सामर्थ्यमितियदुक्तम् जडस्य तु न सा शक्तिरित्यादौ । अपि तु चेतनस्यैव
स्वान्तविश्ववस्त्वाविष्करणमिति समर्थ्य तच्चार्वाकबौद्धादि सर्व
वादिप्रसिद्ध निदर्शनेन द्रढयतिलोके घटां कुरादिकारणत्वेन
प्रसिद्धे मृद्बीजे विनापि तत्तत्स्वार्थक्रियाकारमिति (४०६) तस्य तस्य
स्थिरस्य कलान्तरानुबन्धिनः अर्थक्रियान्तरानुबन्धिनश्च स्वस्य
आत्मीयस्योदकाहरणाद्यर्थक्रियाविशेषस्य करणे हेतु भूतं
तद्घटादिकार्यमिच्छावशेनैव जायते । तस्माच्चेतनस्यैव कर्तृत्वं
न जडस्य ॥
इहास्मिन्नाह्निके चेतनप्रेरिताः कार्यं कुर्वन्ति मृदादयः
इत्यत्रोक्तं दर्शितं चेतनेन कुम्भकारादिना प्रेरितं घटादि
कारणत्वेन प्रसिद्धं यन्मृदादियच्चतदनपेक्षमं कुरादि
कारणत्वेन प्रसिद्धं बीजादि यदि परमार्थतः कारणं स्यात्तर्हि
तद्बीजादि व्यतिरेकेण तत्कार्यभूतस्य घटां कुरादेर्योगीच्छा
मात्रेण कथं जन्म स्यात् । घटाङ्कुरादि योगीच्छामात्रेण जायते चेत्
तस्य घटाङ्कुरादेरकारणत्वप्रसङ्गः तेषां मृद्बीजादीनां वा
घटाङ्कुराधकारणत्वापत्तिर्भवेत् । अथ प्रसिद्धं मृद्बीजादि जन्या
घटाङ्कुरादयोऽन्ये योगीच्छाजन्याः अन्या इत्युक्ते तर्हि तत्राप्य
प्रबुद्धोक्तौ प्रबोध्यसे अज्ञानतिमिरमुत्सार्य सुप्रसिद्धी क्रियसे ।
कुम्भकारादि सृष्टस्योदकाहरणाद्यर्थक्रिया रूप विमर्श
प्। ३१७) भेदा दुभयोरभेद एवेति पूर्वमेवोक्तम् योगीव
निरूपादानमर्थजातं प्रकाशयेत् । इत्यत्रातत्रापीति प्रसिद्धा मृदादि
कारणे न विना निर्माणे योगी खल्वप्रतिहतेच्छः यः कुम्भकार
संस्कृतं मृदादिकृत सम्भवोदकाहरणादिभूर्यर्थक्रिया
करणचतुरवृत्तिर्भवेत् । मृदादिनापि तादृगेवघटो भवत्विति खलु तस्य
योगिन इच्छा । उक्तमेवार्थं स्पष्टीकरोति - तदेवेति ।
तत्तत्स्थिरस्वार्थक्रियाकारमिति तस्य तस्य स्थिरस्य
कालान्तरानुबन्धिनः पिपासा
शमनाद्यर्थक्रियान्तरानुबन्धिनश्च (४०७) स्वस्य
स्वकीयस्योदकाहरणाद्यर्थक्रियाविशेषस्य करणेसम्पादने हेतुः
तदर्थक्रिया विशेष करणशीलानुकूलरूपं घटादि जायत इति ।
अणुसञ्चय बाह्य वादेऽपि सञ्चयस्यान्यस्या भावेपि परमाणव
एवेत्युक्तनीत्या अणुसञ्चयवाद बाह्यार्थ वादिनो नैयायिकादयः
अणुसञ्चयरूपमुपादान कारणं विना घटाद्युत्पत्तिः । योगी तु
स्वयोगप्रभावेणाति सूक्ष्मानपि परमाणून् पश्यन् तेनैव घटादि
झटिति सङ्घटयतीति ते वाच्याः भ्रष्टव्याः । कुम्भकारः
उपादानादि कारण भूत मृद्दण्डचक्रादि चास्ति चेत् घटः सम्भवति
नास्ति चेत् न सम्भवतीत्यन्वय व्यतिरेकाभ्याम्, स्वर्गकामो
ज्योतिष्टोमेन यजेतेति ज्योतिष्टोमयाज्येव स्वर्गं गन्तानान्य इति पर्वतो
परिदृश्यमान धूमस्य पर्वततिरोहिताग्नेरेव
सप्रत्यक्षान्वयव्यतिरेकागमानुमान परिदृष्टः
कार्यकारणभावः योगिषु विपर्येति विपरीतो भवति । ततस्तत्कारणात्
विना कार्यं जनयति ।
किञ्चाग्न्यादि सामग्रीये सति तत् सारभूतं धूमं जनयेत् इति
वक्ष्यमाणनीत्या कर्यमप्यकार्यकरं सम्पादयतीति वः
युष्माकं हृदयं युष्मान् आवर्जयति वशीकरोति चेत् तत्
स्तद्घटादिनिर्माणयोगिनः परमाणुग्रहणेन किं प्रयोजनम् । वो
चेदिति । एवमावर्जनाभावे । योगिनो घट निर्माणे मृत्पिण्डजनितानि
कपालादीनि शरीरस्य निर्माणे करचरणादि तत्तत्स्वावयवा तेनैव
कपालादीनामवयवानां च स्वेन विना
घटादेस्तृणशस्तिलशोऽप्यन्यथा भवन सहमानं निजनिजं
प्रसिद्धं लौकिकमेव कारणमपेक्षणीयमिति योगिनो (४०८) घट
निर्माण दण्डचक्रादि विशेष निर्माणे परिदृष्टदीर्घतरकाले
परिवासंस्त्रिपुर्षसंयोगि
प्। ३१८) सर्वमपेक्ष्यमितितै विना योगीच्छा समनन्तरोदित
घटदेहादिसम्भवो दुःसमर्थ एव परमेश्वरस्यैताः शक्तयः
यस्तत्व ग्राम इति वक्ष्यमाणनीत्या भूरिभर्गोनन्तशक्तिर्भगवान्
ब्रह्मादीनां देवानां सृष्ट्यादि कर्माधिकारिणामपि सृष्ट्यादि
हेतुत्वान्महादेव शिवादि सकलान्तप्रमातृवर्गं स्वानुप्रवेशेन
चेतयतीति चेतनः परमेश्वर एव तथा तथेति कुम्भकारादिरूपेण योगि
सर्वज्ञादिरूपेण च नियत्यनुवर्तनोल्लङ्घनघनतर स्वातन्त्र्यं
भवतीत्यत्र पक्षे कुम्भकारादिरूपेण योगिसर्वज्ञादि रूपेण स्थित्या
नियत्यनुवर्तिनः परमेश्वरस्य लौकिक प्रसिद्धे कार्यकारणभावे
स्वातन्त्र्यं योनि सर्वज्ञादिरूपेण स्थित्वा
तन्नियत्युल्लङ्घनमाद्रियमाणस्य तु योगिप्राय प्रसिद्धे लोकोत्तरे
कार्त्यकारणभावे स्वातन्त्र्यम् श्यनिति कुम्भकारसर्गः योगिसर्गः इति
योस्तुलोक एक लोके इयं कुम्भकारसृष्टिः इयं योगि सृष्टिरित्यज्ञनात्
विभागः प्रतिभाति ।
परमार्थस्तु परमेश्वर एव कुम्भकृदादि योगि
सर्वज्ञाद्यायत्त क्रमाक्रमरूप विश्वसृष्ट्यादि कृत्यपञ्चक
प्रपञ्च स्वभावप्रकाशतो चेतनो भवति । वितत विशदस्वात्मादर्श
इत्युक्त नीत्या शिवादिक्षित्यन्त विश्वावकाश प्रदे महाप्रकाशरूपे
स्वात्मदर्पणे भावान् भूधरादीन् बाह्यदर्पणान्तर्गत घटादि
प्रतिबिम्बवदाभासयतीति सिद्धान्तः । बाह्यदर्पणान्तर्गतस्य
प्रतिबिम्बस्य बिम्बापेक्षान भवति । अस्य स्वात्मदर्पणगतस्य
प्रतिबिम्बस्य नास्तीति विशेष्ऽह् । तथा ह पूर्वगुरुः
श्रीभट्टनारायणः -
(४०९) ——————- निरुपादानमभित्तावेव तन्वते ।
जगच्चित्रं नमस्तस्मै कलाश्लाध्याय शूलिने ॥ इति ।
अभित्तौ अनुत्तर भट्टारकस्यात्मरूपे उपादानसम्भार रहितं
समुद्वृत्तिरूपं जगच्चित्रं तन्वते । अविरतं सृष्ट्यादिरूपेण
विस्तारयते । कलया इति प्रपञ्चविधामेनां कलनां कुर्वतीपरा ।
इत्युक्त नीत्या कलया तत्पञ्चविधकृत्य कारिण्या विसर्ग रूपया
श्रीपराभट्टारिकया श्लाध्याय लोकोत्कृष्टाय शूलिने
चतुर्दशस्वरात्मकेच्छा ज्ञानक्रियाशक्त्यात्मक श्रीशूलवते नमः
प्। ३१९) देहादि प्रमातृ पदमत्रेव निमज्य तमेव समा विशामीत्यर्थः ।
बीजादेव हि शिंशपा वृक्ष स्वभावाद् व्यभिचारिणी जाता
हुतभुक् स्वहेतुत इन्धनादेव धूम जनन स्वभावो जातः । तदिति ।
तस्मात् इदानी मेवं भूत नियत्युल्लन्धिनि योगिसम्बन्धिनि
कार्यकारणभावे सर्वमिदमिति शिंशपावृक्ष स्वभावा
अग्निर्धूमजनस्वभाव इत्यादि विघटते ।
तदेव दर्शयति । योगीच्छया हि शिंशपाप्यवृक्ष स्वभावा
भवेत् धूमेतु द्विगुणं चोद्यमिति योगीच्छोद्भूता अग्न्यादि सामग्री
धूमान्नजनयेत् । योगीच्छा धूममनाग्निमेव जनयेदिति
धूमादिनाकार्येणाग्न्याद्यनुमानं न स्यात् । तदनुमानं लोके
वर्तत इत्याशङ्क्याह अत एवेति । योगिनामपि मृद्बीजं विनैवेच्छा
वशेन तद् घटादि जायते । इत्युक्तनीत्या धूमादेः
शिंशपास्वभावोदेवश्च योगिनिर्माणता भावे प्रमाणान्तरेण ।
ननुयदि प्रसिद्ध (५१०) मृद्बीजादि कारणोल्लङ्घने नापि योगीछया
तत्प्रसिद्धकारणजन्यघटाङ्कुरादिकार्यतुल्यार्थ क्रियाणेव
घटाङ्कुरादिकार्याणि जायन्ते तर्हिलोके धूमेनैवाग्निरनुमेयः ।
शिंशपास्वभावेन वृक्षत्व मनुमेयमिति इति सिद्धा अनुमानकथा
भग्ना भवेयुः ।
तदेव प्रतिपादयति - तथाहित्यादिना । कथमन्यदिति
शिंशपादिधूमादिवस्तु अन्यत्र वृक्षादौ अग्न्यादौ च नियमा
दव्यभिचारेण भवेदित्याशङ्क्य
प्रमाणिकतरम्मन्यैर्नैयायिकादिभिः शिंशपाया
वृक्षतादात्म्यं धूमस्याग्नेरेवोत्पत्तिरिति तादात्म्यतदुत्पत्ती
नियमस्याभिचारस्य निदानमादिकारणमिति उपगते अङ्गीकृते ।
तदङ्गीकरणमेव प्रतिपादयति । नहि किमपि वस्तुनि स्वभावं
भवति नापि भिन्न स्वभावामिति स्वस्वभावं परित्यज्य
स्वव्यतिरिक्तवस्तुस्वभावं नाङ्गिकरोति । भिन्न स्वभावं चेत्
स्वभावभेदेनास्य वस्तुनोऽन्यत्व सम्भवात् । पर्यायश इति ।
शिंशपा कदाचित् वृक्षस्वभावा । कदाचित् पाषाणस्वभावा
इत्यङ्गीक्रियते चेत् तत्स्वभावद्वयाभाव इति शिंशपायाः
वृक्षस्वभावत्वे पाषाण स्वभावा भावः ।
प्। ३२०) पाषण स्वभावत्वे वृक्ष स्वभावा भाव इति निस्वभावता
प्रसङ्ग इति तादात्म्य व्यवहार उक्तः । एवमिति । धूमादिकार्यमपि
निर्हेतुकं निरग्निकं न भवति । नापिभिन्नहेतुकमिति । अग्नि व्यतिरिक्तवस्तु
हेतुकं न भवति । किञ्च धूमादिकार्यं कदाचिदग्निहेतुकं कदाचित्
सलिलहेतुकमिति चन भवति । तद्धेतु द्वया भावे निर्हेतुकता प्रसङ्ग इति
धूमेऽपि वाच्यम् । उभयत्रापीति । शिंशपाया वृक्षतादात्म्ये हुत
भुजोधूम जनन स्वभावत्वे च हेतुकृतेति हेतुना
स्वोत्पत्तिकारणभूतेन स्वस्वबीजेन (४११) शिंशपाया वृक्ष
स्वभावात्मिका व्यवस्था हुत भुजः स्वोत्पत्तिकारणभूतेनेन्धनेन
धूमजनन स्वभावात्मिका व्यवस्था ।
तदेवाह - स्वहेतुकृतः स्वलोक प्रसिद्धा जन्मान्तराभ्यासेन
वानिश्चिते सति धूमादि कार्यमुत्पत्तिमूलज इति उत्पत्तेर्मूलभूतात्
स्वबीजाज्जातः शिंशपात्वादि स्वभावो वा अग्न्याद्यनुमाने
वृक्षत्वाद्यनुमाने हेतुर्भवति । योगीच्छापि तादृशमेवेति
कुम्भकारादि सृष्टलोकप्रसिद्धार्थक्रियाकारिघटादिकार्यं जनयति ।
न तु वृश्चिक गोमयादिसम्भूत वृश्चिकादिन्यायेनेति । तथा
वृश्चिकसम्भूतस्य वृश्चिकस्य वीर्यं त्वन्यत् ।
यथागोमयसम्भूतस्य वृश्चिकस्य रसवीर्याद्यन्यत् तद्वत्
रसवीर्यादिना भिन्नं कार्यं न जनयति । इति तत्तत्स्थिरस्वार्थ
क्रियाकरमित्यनेन यत् कथितम् । अत एवा स्मादेव हेतोः कार्यं वा
धूमादि अग्न्याद्यनुमाने शिंशपात्वादि स्वभावो
वृक्षत्वाद्यनुमाने एवं हेतुर्भवति । एवमिति । तस्य धूमादेः
कार्यस्य शिंशपात्वादेः स्वभावस्य योगिनिमित्तत्वा भावे लोकोत्तरेण
स्वानुभवात्मना प्रमाणं तरेण । तथा लोक प्रसिद्ध्या च निस्चितो
भवति चेत् नान्यथा अन्यथा न । अनुमानहेतुर्न भवति । अत एवेति ।
प्रसिद्धबह्न्यादि कारणं विना योगीच्छयैव तत्कार्यसम्भवात्
धूमादिना कार्येणाग्न्यादिकारणानुमाने अनुमातुरयं धूमः
योगि सृष्टो न वेति विवेके जन्मान्तरागम प्रमाणाभ्यासः तथा लोक
प्रसिद्धिः स्वयुक्तिश्चेत्येतत् सर्व मवश्योपजीव्यम् । सा च श्रुत्यनुमान
प्रत्ययोद्बीजमिति ।
प्। ३२१) योगस्तु ननुयदि प्रसिद्ध मृद्बीजादि कारणोल्लङ्घने नापि
योगीच्छया (४१२) तत्प्रसिद्धकारण जन्यघटाङ्कुरादि कार्य
तुल्यार्थक्रियास्त्येवा घटां कुरादि कार्याणि जायन्ते । तर्हि लोके
धूमेनैवाग्निरनुमेयः शिंशपास्वभावत्वेन
वृक्षत्वमनुमेयमिति प्रसिद्धानुमान कथाभग्नाभवेयु ॥
तदेव प्रतिपादयति - तथा हीत्यादिना । कथमन्यदिति ।
शिंशपादिधूमादि वस्तु । अन्यत्र वृक्षादौ नियमादव्यभिचारेण
भवेदित्याशङ्क्य प्रामाणिकतरम्मन्यैः नैयायिकादिभिः
शिंशपाया वृक्षतादाम्यं धूमस्याग्नेरेवोत्पत्तिरिति तादात्म्य
तदुत्पत्ति नियमस्याव्यभिचारस्य निदानमादिकारणमित्युपगते
अङ्गीकृते । तदङ्गीकरणमेव प्रतिपादयति - नहि किमपि वस्तु
निस्वभावं भवति । नापि भिन्न स्वभावमिति । स्व स्वभावं परित्यज्य
व्यक्तिरिति वस्तु वन्नाङ्गीकरोति । भिन्नस्वभावं चेत् स्वभाव
भेदेनास्य वस्तुनोऽन्यत्वम् । न हि शिंशपादिरूपं वस्तु निस्वभावं
भवति । स्वस्वभावं परित्यज्य वस्वव्यतिरिक्तवस्तु स्वभावं
वाङ्गीकरोति । भिन्न स्वभावं चेत् स्वभावभेदेन तस्य वस्तुनोऽन्यत्व
सं भवात् । पर्यायश इति । शिंशपाकदाचिद्वृक्ष स्वभावाकदाचित्
पाषाणस्वभावावेत्यङ्गीक्रियते चेत् तत्स्वभावद्वयाभाव इति
शिंशपाया वृक्षस्वभावत्वे पाषाणस्वभावा भावः ।
पाषाणस्वभावत्वे वृक्षस्वभाव इति निस्वभावता प्रसङ्ग इति
तादात्म्य व्यवहार उक्तः ।
एवमिति । तर्हि धूमादि कार्यमपि निर्हेतुकं न भवति ।
नापिभिन्न हेतुकमिति । अग्निव्यतिरिक्तवस्तु हेतुकं न भवति । किञ्च
धूमादिकार्यं कदाचिदग्निहेतुकं कदाचित् सलिलहेतुकमिति च न
भवति । तद्धतु द्वया भावे निर्हेतुकता प्रसङ्ग इति धूमे वाच्य,
उभयत्रापीति । शिंशपाया (४१३) वृक्षतादात्म्ये । हुतभुजो धूम
जनन स्वभावत्वे च हेतु कृतेति हेतुना स्वोत्पत्तिकारणभूतेन
स्वस्वबीजेन शिंशपाया वृक्ष स्वभावात्मिकाव्यवस्था । हुत भुजः
स्वोत्पत्तिकारणभूतेनेन्धनेन धूमजननस्वभावात्मिका व्यवस्था ।
प्। ३२२) तदेवाह - हेतुतः स्वबीजमात्रेण पतञ्जलिरनुमानमृतं
भराख्यं योगि विषयमुवाच । अन्ये युक्तितत्वविदः योगि प्रत्यक्षकल्पः
स्व प्रत्यय रूपं किमपि प्रत्यक्षं समस्त वस्तु पारमार्थ्य
ग्रहणाय कल्पित वन्तः सां व्यवहारिकेति । लोक व्यवहाररूपे
प्रमाण अस्माकं भरोन कृतः । अस्माकं ही श्वर स्वरूपमेव
प्रकृतं तच्च स्वप्रकाशमेव । स्वव्यतिरिक्तपर्वतादि प्रमेयोपमेंशे
अग्न्यादि वदन्य प्रमेयो परोधोऽपि एतदीश्वर स्वरूपं नोपरुध्यत इति
असदुक्तम् । तस्य च प्रतिबन्धक सम्मतैरप्रतिबन्धनीयत्वात् इत्यादौ ।
भिन्नयो स्वभासोहि स्याद् घटाघटयोर्द्वयोः ।
प्रकाशस्य नान्यस्य भेदि नस्त्ववभासनम् ॥
इत्येवमादौ चान्यत्वेनाभिमतस्य प्रमेयस्यापि प्रकाशमानत्वात् ।
तेन प्रकाशात्मन ईश्वरस्वरूपस्योपरोद्यो न भवत्येव । यथोक्तं
स्वरूप प्रकाशिकायाम् अनेन च जगता अस्य भगवतः
प्रकाशात्मकं रूपं न कदाचित् तिरोधी यतो एतत् प्रकाशनेन
प्रतिष्ठां लब्ध्वा प्रकाशमानमिदं जगदात्मनः प्राणभूतं
प्रकाशं निरोद्धुं कथं शक्नयात् । कथं च निरुध्य
स्वयमवतिष्ठेतेति । स्वभाव हेतुअ किमनया कार्यकारण सम्बन्धिना
स्वभाव हेतौ स्वरूपमेवतावदाह सर्ववृक्षानुस्यूत
वृक्षत्वाद्व्यभिचारिण्या शिंशपाया उत्पत्तेर्यन्मूलं बीजं (४१४)
कारणं तस्माद्बीजादेव तद्वृक्षमात्रानुबन्धीशिंशपा स्वभावो
जायते । एकसामगयधीनस्य रूपादेरसतो गतिः । हेतु धर्मानुमानेन
धूमेन्धनविकारवत् ॥ इत्युक्तम् । एकस्यां रूपरसादेरविभाग
रूपाया सामगयास्वोत्पत्तिहेतुभूतायां पृथिव्यप्तेजो
वाय्वाकाशसम्मेलनसम्पूर्ता वधीनस्याम्रादि फलादेः
सम्बन्धिनः सित पीतादिरूपादेरसनानीन्द्रियेण विनापि रसतो गतिः ।
तदाम्रवणहेतु भूत बीजधर्मानुमानेन भवति । धूमेन
चन्दनादीन्धन विकारावगतिरेवेति स्वभाव हेतु न्यायः ।
ननु वृश्चिकादीनां जन्तूनां तत्कारणभूत वृश्चिकादिं
विना
प्। ३२३) कीटगोमयाद्यन्तरेणैकत्वं तावद् दृष्टम् । तत्र कीटगोमयादि
जाते वृश्चिकादौ साक्षाद्वृश्चिक जातेभ्योऽपि
रसवीर्यादिभेदोऽस्तीत्येतदन्यत् अप्रस्तुतम् । स्व कारणभूतेन वृश्चिकेन
विनापि गोमय जातस्य वृश्चिकस्यैवावह्निकस्यापि धूमस्य
योगिजन्यत्वं सह्यं नाम । स्वभावशिंशपात्मनः स्वभावस्य
योनीच्छया कथं विपर्याससम्भावना । नीलं नीलमेव सत् ना
नीलं भवतीति कश्चिदपि प्रामाणिको न प्रतीयात् ।
उच्यते । इह द्विविधः स्वभाव हेतुः । तत्रैकः
अन्तर्लीनकार्यकारणभावः अन्यस्तद्विपरीतश्च । तदेव दर्शयति -
तदित्यत्र स्वन्तर्लीनकार्यकारणभावे स्वभावहेतौ वह्निरिति धूम इति
कार्यकारणरूपं वस्तुद्वयमास्ति वहिमानयं पर्वतः ।
धूमवत्वात् । अनित्योऽयं कृतकत्वादित्यत्रैकस्मिन्नेव वस्तुनि
अनित्यत्वरूपं साध्यं तत्साधनभूतं कृतकत्वं च । तत्राद्यस्य
स्वभावहेतोः कार्यकारणभाव एव मूलमिति किं तत्रोच्यते अपरं
त्विति । अनित्योऽयं कृतकत्वादित्येष स्वभावहेतुः त्वया सह विचार्यते ।
यदि तावल्लोके कृतकन्त्वस्य कारणायत्तत्वं नाम स्वभावस्तर्हि अनेन
कृतकत्वेन साध्य मनित्यत्वं भवनस्वभावं वा ।
भवनस्वभावश्चेत् तद्ववन् परिच्छिन्नस्य कृत कत्वस्य तत्कथं
स्वभावः स्यात् । उभयोरप्याभास भेदात् । उभयोरप्याभासस्याभेदे
हेतोः कृतकत्वस्य सिद्धावेवसाध्यस्या नित्यत्वस्य सिद्धत्वात् ।
यत्कृतकं तद्नित्यमिति केवलं व्यवहार एव साध्यते । तरूरयं
वृक्षत्वादिति न्यायेन यत्कृतकं तदनित्यमिति व्यवहारश्च स्वात्मनो
ज्ञानार्थं परस्याभिधानार्थं साध्य एव । तत्रापि यत् कृतकं
तदनित्यमिति ज्ञानाभिधानात्मनि व्यवहारेऽपि कृतकं
चेत्तदनित्यमेव भवतु । यत्कृतकं तदनित्यमिति स्वात्मनाभासभेदं
विनेति ज्ञातव्यम् । परस्याप्यभिधातव्यमित्येवं भूता ऐश्वरी नियति
शक्तिरङ्गी कृता भवति ।
प्। ३२४) तस्मात् शिंशपा वृक्षस्वभावा सर्ववृक्षानुस्यूत
स्वपक्षत्वमूलभूत स्वबीजसम्भवत्वात् अग्निरुष्णस्वभावः पृथिवी
कठिन रूपा इत्यादि स्वभाव हेतुषु सर्वेषु शिंशपा
वृक्षस्वभावयोः अग्न्युष्ण स्वभावयोः पृथिवी कठिनरूपा इत्यादि
स्वभाव हेतुषु सर्वेषु शिंशपा वृक्ष स्वभावयोः
अग्न्युष्णस्वभावयोः पृथिवीकठिन स्वभावयोश्च स्वात्मन्याभास
भेदा भावात् शिंशपा वृक्ष स्वभावेत्यादि व्यवहार मात्रमेव
साध्यते । तत्र स्वभावहेतौ शिंशपात्मक हेतु हेतुरूपा
भासमयत्वादेव तस्मादनधिकं तेन साध्यरूपो वृक्षत्वा भासः
चैत्रो मैत्रा द्विलक्षणः सौ शील्यादिगुणैस्तद्विलक्षणत्वाद्विलक्षणः
तद्व्यावृत्तत्वादिति यो यद्विलक्षणः स च तद्व्यावृत्त इति
व्यावृत्तीनामेषैव ज्ञानाभिधानात्मावार्ता नित्योऽयमनित्यमिदं
सर्वव्यक्तावनुस्यूततया सामान्य रूपत्वात् इति सामान्यानामियमेव
सरणिः । यदुक्तम् -
सामान्यं नित्यमेकं सदनेक समवायि च ॥ इति ।
तस्मात् पूर्व सिद्धेति । अनादि सिद्धया नीत्या हेतु बलादिति ।
स्वोत्पत्तिहेतुभूत बीज सामर्थ्यात् । शिंशपा वृक्षस्वभावैव
भवत्वित्येवं भूत नियति शक्त्या यत्तं शिंशपा भास वृक्षा
भासयोः सामानाधिकरण्यं तदिति तस्मात् शिंशपाया अयं
वृक्षः स्वभावः हेतु हेतु मद्भावमूल इति हेतुः स्वोत्पत्तिकारणं
बीजं हेतुमती शिंशपा तयोर्भावः सत्ता । तन्मूल एव
शिंशपास्वोत्पत्तिभूतात् बीजाद्वृक्षस्वभावैवोत्पन्ना भवतीत्यर्थः
। सर्वस्वभाव हेतुः स्वोत्पत्तिमूलज इति सर्वसामान्येनोक्तं द्रष्टव्यं
विपश्चिद्भिरिति शेषः । आभासा एव वास्त्विति प्रागिति । एकाभिधान विषय
इति । तथैवसद्घट इत्यादौ तत्राविशिष्टे वह्नयादा वित्यादौ च
तद्योगिजन्यत्वम् अवह्निअकस्याभिधूमस्य सह्यं नाम स्वभाव
विपर्यासमेवाह ततश्चेत्यादिना । योगीच्छयेतर शाखादिमत्पदार्थ
शिंशपायामेकस्या मेव सृज्यमानायां
प्। ३२५) तस्य सामान्यात्मनः साध्यस्य वृक्षत्वाधाभासस्य
शिंशपायां नामापि नास्ति । तदानीं सम्भाव्यत एव । योगीछया
एतावानेव स्वभावविपर्यासः क्रियते इतर रूपमिति योगी च्छया सृष्टे
इतर सर्ववृक्षानुस्यूत अत एव तदेक रूपं विशिष्टं तद्वृक्षत्वं
शिंशपायामप्यनुस्यूतत्वात् शिंशपात्वमेव तद्वृक्षत्वं
सिद्धमिति नसाध्यमिदं घटादि मृदादिकारणायत्तम् । (४१७)
इत्याभासेऽपि कृतकत्वात्तस्यानित्यताभासः साध्योन भवति सिद्ध एव ।
घटादेरर्थ क्रियाकारि तत् स्थिरमित्यर्थः । इति स्वभावहेतवः सर्वे
ईश्वरनियति शक्त्यपेक्षयैव भवन्ति । नान्यथेति । नतु
निजनिजापेक्षाद्वा एव स्वभा हेतु न्यायः सर्ववाधविप्रतिपन्न एव ।
एवं भूतनियत्युल्लङ्घनं योगिनः सामर्थ्यम् । यथोक्तम् ।
उल्लङ्घित नियतीनां तु योगिनामुल्लेखेष्वनेक प्रमातृ
साधारण्यस्य प्रसिद्धार्थक्रिया याश्च दर्शनादिति प्रवेशके ॥
नन्विति । एवमाभास भेदा एव वस्तु आभास मानतासारत्वा
द्वस्तु ताया इत्युक्तनीत्या आभास वस्तुत्ववादे आसमन्तात् प्रत्यक्षतः
अनाभासस्याग्नेरवस्तु त्वमिति अवस्तुभूतेनात एवान्त भातेन कथं
पर्वतोपरि जातोऽयमिति प्रत्यक्षत्वेन दृश्यमानो धूमः कथं
जन्येता ततश्च तादृशाद्धूमात् कारणत्वेनाभिमतस्याग्नेः
कथमनुभिमानमित्याशङ्क्य तदेव समर्थयितुमाह - भूय इति ।
प्रथमं महानसे तन्महानस गतानां
प्रमातॄणामयमग्निः अस्मादयं जाते धूम इति
प्रत्यक्षत्वेनैकरूपयोरग्नि धूमयोरविनाभावात्मक व्याप्ति
ग्रहणानन्तरं पर्वतेऽपि तत्पूर्वगतानां कृमि सर्वज्ञादि
प्रमातॄणामेकरूपात् पर्वत तिरोहितत्वेन मार्गवर्तिनां
प्रमातॄणां परोक्षादधिपते रिति कारणभूतात् वह्माभासत एव
आदिग्रहणात् बीजादेरेवानुतनमिति तदानीमेवोद्भूतं नतु गोपाललीला
घटचिरोषित निर्गतं धूमादिकार्यभाव
प्। ३२६) एव भातुं शक्नोति । नान्यतः । तत एतद्धूमादि
अग्न्यादेरव्यभिचारिलिङ्गं भवति । (४१८) ते नैवाग्न्यनुमानं घटत
इत्यर्थः ।
आदौ तावदेक वारं महानसे इहा प्रत्यक्षतो धूमं
प्रत्यक्षेण पश्यन्ति । अग्निं तु यदि नोपलभते । धूममपि नोपलभत इति
प्रोक्त प्रत्यक्षानुपलम्भबलेन नाग्न्याभास धूमाभासयो
स्तत्कर्यकारणभाव व्युत्पित्सुभिः कार्यकारणभावो गृह्यते । तत्र
कार्यकारणभावे प्रमात्रन्तराणि यदिभिन्नानि
तदातन्निष्ठानामवभासानां भेद एव ज्ञानादव्यतिरिक्तं
न्यायात् ततश्चैकाभास निष्ठत्वा भावादेकाभास विश्रान्तः
सम्भूय व्यवहारोऽन्यस्यात् । इत्यन्यो व्यानुपरक्तं भूतग्रस्त
प्रकृति प्रायं जगदापद्यत इति प्रोक्तं नीत्या विज्ञानवादिनोदर्शने
प्रतिसन्तानमिति चैत्र सन्तानं प्रतिआभासे धूमाभासश्चान्यः
मैत्रसन्तानगताग्न्याभास
धूमाभासाभ्यामग्निधूमाभासाभ्यामन्याविति । स्वाभासयोरिति
। स्वसन्तानगतयोरग्नि धूमाभासयोरेव कार्यकारणता गृहीता ।
ननु सन्तानान्तरगतोस्तत्स्वव्यतिरिक्तं सन्तानमग्निं वा
साक्षात्करोति । अवेति तदीयवृत्तान्तस्यानेनासंवेदनात् । ततश्चेदानिमिति ।
अनुमानावसरे मार्गवर्तिनः विज्ञानवादिनः प्रमातुः
स्वसन्तानगतात् पर्वतोपरिदृश्यमानात् धूमाभासात् पर्वति तिरोहितस्य
तत्पर्वतवर्तिकृमिसर्वज्ञ प्रमातॄणामयमग्निरित्येकत्वेन
प्र्तिभासमानस्याग्न्याभासस्यानुमानं न भवेदिति निश्चयः ।
इहत्विति । अस्मत्संविद्दर्शने अग्निधूमाभासयोर्महानसे
व्याप्तिग्रहणावस्थायां तन्महानसदेश सम्भाव्यमान
सद्भावाः प्रमातारो यावन्तस्तावता (४१९) अयमग्निरयं धूम
इत्येक रूपोअषौ धूमाभासश्चबाह्यनय इव कस्याय मग्निरिति
प्रतिभासो क्षोऽग्न्याभासः तस्य सर्वस्यैकत्वेनैव भाति । तावतीति ।
धूमाभासबह्न्या भासमात्रे तेसां प्रमातॄणां
परमेश्वरेणैक्यं निर्मितम् । सच धूमाग्न्याभासे प्रमातॄनेकी
करोति । नितम्बिनि नृत्त इव प्रेक्षकान् इत्यत्र । यत्तत्किल प्रभुः परस्परं
व्यवहारकाले क्रयविक्रय प्रेक्षा व्याख्यानादौ
प्। ३२७) चैत्र मैत्रादि सम्बन्धिनो देहप्राणबुद्धिशून्यं
यत्तावत्याभास अविशन् अन्तर्भान्तमेवानुज्झितान्तः प्रकाशमेव
सन्तं बहिरेका भासरूपतया भासयतीति सम्भाव्यते ।
इत्येतज्जातमत्रापि च ततश्चेति । एवमैक्य निर्माण रसन्तानगतमिति
स्वपरसन्तान विशेष त्यागेन धूमाग्न्या भासमात्रं वह्न्या
भासमात्रस्य कार्यता परिदृश्यमाने धूमाभास विशेषे
स्वात्मसहचारिभिः प्रमात्रन्तरैः साकमलं धूमवेति
तस्मिन्नेकीभूय तेनैव कार्यरूपेण धूमाभासेन चन्दनादीन्धन
जातत्वरूपं शेषापरि ज्ञानात् सामान्यरूपे पर्वत तिरोहितत्वात्
परोक्षरूपांशसहिते तत एव प्रोक्तरूपा विशेषाभासान्तर विविक्ते
पर्वत गते वह्न्याभासे स्वव्यतिरिक्तैः प्रमात्रन्तरैः साकमत्र पर्वते
वह्निरस्तीत्येकीभवतीति यावत् ।
तात्पर्येण सूत्रार्थं प्रदर्श्य सूत्र योजनामाह - भूय
इत्यादिना भूय इति । व्याप्तिग्रहणानन्तरं पुनरत्यग्निनाविना यो
धूमा भासो गृह्यते । आदि ग्रहणात् अङ्कुराभासादि ।
सधूमाभासोऽपि नूतनः तदानीमेव जातः न गोपालघटिका चिरोषित
धूमजधूमवदप्रत्यग्रः पुरातनः । स च धूमाभासः अधिपतेः
स्वकारणभूतात् पर्वत
तिरोहितत्वेनासंवेद्यमानाद्वह्न्याभासादेव वा भवेत् । (४२०) तत् एव
जनितुं शक्नोति । नान्यतः । अत्र लिं विशङ्कार्थेर्वतते । स च
वह्न्याभासस्तेसु तेषु स्वात्म स्हचारिषु अनुमातृषु प्रमातृष्वेक एव ।
तस्य वह्नेरेकत्वाभावे एतद्वह्न्यनुमानं न युज्यत इत्याशयः ।
चतश्च सर्वप्रमातॄणामेकोऽधिपतिर्वह्न्याभासो धूमकारणम् ।
ततो धूमाभासोऽपि योगि कृतत्वाभावे निश्चिते सति व्याभिचरितं
कार्यं लिङ्गमभिज्ञानमपि तस्मादेव कार्यात् सोऽनिमीयते । असौ तस्य
धूमाभासस्याधिपतिर्वह्न्याभासः पर्वततिरोहितत्वात् परोक्षैव
वर्तते । यतः धूमाभासादेव वह्निरनुमीयते चेत् गोपाल
घटिकान्तराल चिरोषित निर्गतादपि धूमा
भासाद्वह्न्याभासानुमानमित्याशङ्क्याह - पर इति । नूतनादन्यः
तदा भासित धूमाभासः अन्यप्रमातृगा इति -
प्। ३२८) वह्न्याभास व्यतिरिक्त गोपालादि प्रमातृसङ्गृहीतात्
घटान्तस्तिरोहितत्वेन परोक्षाद्धूमा भासादेव जायते । न तु
वह्न्याभासात्तादृशाद्धूमाभासात् कथं वह्न्या
भासोऽनुमीयतामभिप्रायविशेषः पर इति । नूतनः पुरातनो यो
धूमाभासः गोपालघटिकान्तर्वर्तित्वेन परोक्षादधिपतिरूपादिति ।
स्वकारणभूताद्धूमाभासादेतज्जायत इति । तथा भूतादिति ।
धूमा भासादेव जायमानाद्धूमाभासादकारणभूतो
वह्न्याभासः कथमनुमीयतामित्यभिप्रायशेषः । कुशला इति ।
अनुमान तत्त्वज्ञाः । अयं घटान्निर्गतोधूमः । अयमग्नेर्निर्गत
एवेति संशयं क्षीयन्त एव । अस्य धूमरूपस्यावभासस्यात्यर्थस्य
बीजाङ्कुरन्तन्तुभ्यः पट इत्याद्यानुमानिकबहुतर व्यवहारोऽपि
योगिनोयत्नेनेति । तात्कालिकेन धूमेनाग्निरनुमीयते नान्येनेति व्युत्पत्तिः
कार्येत्याशयेन नूतनमित्यत्रयदेव सूचितं तदेवानुनरूपंस्यात् ।
भावव्यवच्छेद्यस्य धूमस्य दर्शनद्वारेण स्फुटीकृतम् ।
(४२१) एवं वह्न्या भासादेव धूमाभास्ये जायते
इत्यङ्गीकृतं चेत् एष चानन्तशक्तित्वादेव माभास यत्यमून् ।
भावानिच्छा वशादेषा क्रियानिर्मातृतास्य सा ॥
इत्यादिना चेतनस्यैव कर्तृत्वमिति यदुक्तं तत्कथं चेतनेन
विनैव वह्न्याभासादेव धूमस्य जायमानत्वात् । एतदेव प्रतिपादयति
- तथाहीत्यनेन ।
एवमग्नौ सति धूम इति यद्बीजे सत्यं कुरोभवतीति तत्
कथमनादरास्पदमित्याशङ्क्याह - अस्मिन्बीजे सति इदमङ्कुररूपं
कार्यं मस्तीत्यपि याकार्यकारणाता सोऽप्यपेक्षाविहीनानामिति ।
अयमङ्कुरोमत्तोबीजाज्जायते । अहमङ्कुरोबीजाज्जातोऽस्मीति
अनुसन्धानशून्यानां बीजाङ्कुरादीनां सम्बन्धिनीनोपपद्यते ।
लोकेबीजरूप एक एव भावस्तावन्नकार्यकारणभावः कार्यत्वं
कारणत्वं च न प्राप्नोति । कार्यकारणभावस्य वस्तुद्वयाश्रयत्वात्
घटपटौ यथा युगपद्भातः तद्वद्युगपत् भाव्यपि बीजाङ्कुर
रूपभावद्वयकार्यकारणरूपं न भवति ।
प्। ३२९) एतदनन्तरं ते यदिदमिति क्रमभाव्यपि अस्मादेवं भवितुं
योग्यमिति तु क्रमं विहाय नीलपीतादि ज्ञानवदनियतक्रमं
कार्यकारणरूपं न भवति । अस्मादेवास्योत्पत्तिरिति नियत क्रमत्वेऽपि
कार्यं पूर्वभाविकारणं श ———— भावीत्यपि न भवति ।
कारणरूपं बीजं नियत पूर्वभावमङ्कुररूपं कार्यं
नियतापरभावमिति परस्य तावन्मतम् । तत्र तस्मिन्मते पूर्वता च
परता च प्रमातृ विश्रान्ता न भवति । तत्र पूर्वापरं रूपता
क्षणानां विकल्पबुद्ध्यनुसन्धानात् । (४२२) न हि स्वात्मनि किञ्चित्
पूर्वमपरं वा वस्तुमात्रं हि तत् इति भवदुक्तनीत्या बीजाङ्कुरयोः
स्वरूपा दनधिकाचेत्तर्हि बीजाङ्कुरात्मकभावद्वय मात्रं स्यात् ।
नाधिकं किञ्चिद्भवति । स चेति । समुच्चयवक्षिचीचार्थोऽपि
कश्चिद्बीजाङ्कुरयोः सम्बन्धी न भवति ——————- स्यैवं
परामृष्टरूपप्रमात्रपेक्षारूपत्वात् चार्था भावे सन् स इति भाव
द्वयमानं स्यात् । सोऽपि परामर्शः प्रमात्रधीनः ।
अथ बीजस्य पूर्वता नाम पश्चाद्भाव्यङ्कुर
प्रयोजकस्वसत्ताकत्वम् । अङ्कुरस्यपरता च बीजप्रयोज्यसत्ताकत्वम् ।
तर्हि बीजस्य प्रथममङ्कुरप्रयोक्त्रीसत्ता स्वप्रयोज्याङ्कुर विश्रान्ता
अङ्कुरान्तर्भावं स्वात्यन्या यातीत्यङ्कुरस्य बीजे विश्रान्तत्वात्
बीजस्याङ्कुराभाव प्रयोकृत्वमात्रं स्यात् नाङ्कुरोत्पादकम् । तदपिति
। अङ्कुराभाव प्रयोक्तृत्वमपि न किञ्चित्स्यात् । एवं प्रयोज्यसत्ताकेऽपि
वक्तव्यम् ।
एतदेव दर्शयति । अङ्कुरस्यापि
बीजप्रयोज्यसत्ताबीजाविश्रान्ताबीजान्तर्भावं स्वात्मन्यानयतीति
बीजस्याङ्कुरे विश्रान्तत्वात् अङ्कुरस्य बीजाभाव एव
प्रयोज्यत्वमात्रं स्यात् । तदपि न किञ्चित् । बीजस्याङ्कुरानपेक्षत्वात्
इत्यङ्कुर एव शिष्यते न बीजं स्यात् किञ्चित् । एवमेक भव
भावस्तावन्नकेवलं कार्यकारणभावं भावद्वयमपि न युगपत्
भाविकार्यकारणरूपं घटपटवदित्यारभ्य पूर्वतानाम
प्रयोजक सत्ताकत्वं पर—————– प्रयोज्य सत्ताकत्वं इत्यन्ताः
पक्षाः नोपपन्नाः । जडस्य जडबीजस्य एवं भूतं सामर्थ्यं
नास्ति ।
प्। ३३०) यदसद्रूपं चाङ्कुरमपरिदृश्यमानसत्तावन्तं
करोतीत्युक्तनीत्या इदबीजममुमङ्कुरं (४२३) जनयतीति । न चाङ्कुरो
बीजापेक्ष इत्युक्तनीत्या अयमं कुरस्योत्पत्तौ इत्थं बीजमपेक्षत इति च
जडस्य तु न सा शक्तिरित्युक्तनीत्या अनेन बीजेनायमङ्कुरो जन्यत इति
कार्यरूपोऽयमङ्कुरः स्वकारणभूतायास्मै बीजाय जनक तनय
वत्किमप्यतिशयाधानं करोतीत्यर्थश्च बीजादं कुरो जायत इति
महिमानाङ्कुरस्येत्युक्तनीत्या अस्मादयमङ्कुरो जायत इति महिमा
कथं बीजस्येत्युक्तनीत्या अयमङ्कुरोऽस्य बीजस्यसम्बन्धीति च
इत्यादयो न केवलं कार्यकारणभावानोपपन्नाः । यावत्त्वास्मिन् बीजे
सति ————-या सप्तम्याबीजस्याङ्कुरं प्रतिप्रयोजकस्वसत्ताकत्वम् ।
इदमस्तीतिभाव्यमानविभवत्याङ्कुरस्यापि
बीजप्रयोज्यसत्ताकत्वमित्येवं रूपाप्रयोजक प्रयोज्य
सत्तासम्बन्धिन्यपि या कार्यकारणता सा नोत्पद्यते । प्रमाणे ———
—————– योर्जडत्वात् ममबीजं कारणम् । तत एव बीजापेक्षोऽहं
मामङ्कुरः कार्यं तत एवास्मिन् सम्बन्धोऽस्ति इत्यं
कुरबीजयोरन्योन्यापेक्षा सात्रकार्यकारणतया जीवितं सा च
जडानां बीजाङ्कुरादीनां न सम्भवति चेत् । उच्यते -
---------- स्वात्मैकनिष्ठानामनु सन्धान वर्तिनाम् ।
सद सत्तापदेऽप्येष स(प्त)म्यर्थः प्रकल्पते ॥
प्रोक्त लक्षणा पेक्षारूपान्योन्यानुसन्धान शून्यानाम् अत
एव स्वात्मैक निष्ठानां स्व स्वरूपमात्रविश्रान्तानां कार्य
कारण रूपत्वेनाभिमतानां बीजाङ्कुरादीनां सदसत्तापदेऽपीति
अस्मिन् सतीति बीजस्य सत्तापदे अयमङ्कुरो नास्तीत्यासत्तापदे च । अत एव
विभवत्यर्थः प्रमात्रैक समाश्रयः इति वक्ष्यमाणनीत्या
अहमिन्नित्युक्तः सप्तम्यर्थो न प्रकल्पते । उभयमपि एष सप्तम्यर्थः
सम्पादयितुं न प्रभवति । (४२६) आभास सद सत्त्वे च चित्राभास कृतः
प्रभो । इत्युक्तनीत्यातेनसद्भावासद्भावौ प्रमात्रधीनौ ॥
जडाः किलबीजाङ्कुरादयः । योऽहं बीजाज्जातः
सोऽहमङ्कुरजनक इत्यन्योन्यरूपमनुसन्धातुमप्रभविष्णु व ——
———— साहं मैत्रश्चैत्राज्जातः
प्। ३३१) सोऽहं मैत्रजनकः इत्यन्योन्यानुसन्धानरूपत्वं
जडरूपत्वं बीजाङ्कुरादि विरुद्धेन चैत्रमैत्रसम्बन्धिना
चैतन्येन व्याप्तमित्यपेक्षारूप मन्योन्यानु सन्धानं चैतस्य
स्वरूपमेव —————– नु सन्धानम् । अन्यत्रबीजाङ्कुरादौ
रथोगच्छतीत्यादिवत् उपचरितम् । अतोऽनुसन्धान विहीनत्वात् जडी बीजादि
भावः स्वबीजमत्रविश्रान्तिरूप सन्तोष सङ्कुचितशरीरः कथं
परत्रस्व व्यतिरिक्ते अङ्कुरादौ प्रसरेत् । ततश्च यदि बीजं सत् अङ्कुरोसन् ।
अथ विपर्यय इति अङ्कुरः सन् बीजमसदुभयमपीति बीजाङ्कुरद्वयमपि
वा सत् यदि वा सत् - अथ एतत् सदसत्त्वं
वार्थोपात्तगर्भीकृतःअसतोऽङ्कुरस्य सतोबीजस्येति अङ्कुरस्यैव
बीजस्यैव बी(ज)वाप्येवं सोपाख्यमिति । एकमिति ।
तयोबीजाङ्कुरयोरेकमङ्कुरस्य पूर्वभाबित्वात् । उअप आत्मन्याख्यया
प्रकाशेन सहितम् । अन्यदिति । अङ्कुररूपं वस्तुबीजसद्भावे असत्वात्
निरुपाख्यमिति । उपाख्यया आत्मनि प्रकाशन रहितं द्वयमपि
सोपाख्यन्ना तथापि प्रतिपदिकार्य मात्रमिति । तथापि
तद्बीजाङ्कुरद्वयं बीजाङ्कुरसत्तामात्र प्रतिपदिकार्यरूपं सत्
धर्मान्तरेण समुच्चयादिनेति बीजत्वाङ्कुरश्चेति समुच्चयादिनायेन
आदिग्रहणात् बीजमङ्कुरं जनयति ।अङ्कुरः स्वोत्पत्तौ बीजमपेक्षते ।
बीजिनाङ्कुरो जन्यते बीजायाङ्कुरः पितृपुत्रवत् सन्तोषं ददाति । (४२५)
बीजादङ्कुरो जायते । बीजस्याङ्कुरः सम्बन्धिबीजात्मा अवतिष्ठत्यं
कुर इति प्रमातृ विश्रान्त्याविना प्रथमाद्यधिकरणान्तेन
धर्मान्तरेणाप्यनालिङ्गितमवतिष्ठते । तस्य समुच्चया ————– स्य
बीजञ्चाङ्कुरश्च बीजमङ्कुरं जनयतित्यादिपरामृष्टरूपा
प्रमात्रपेक्षारूपत्वेन तत्प्रमातृरूपचैतन्यविश्रान्तत्वात् ।
अचेतनेष्विति । यस्मादहमिति प्रथारूप चैतन्यरूपेषु बीजाङ्कुरादिषु
प्रोक्तलक्षणा ———— न्यापेक्षा नोपपद्यते ।
अत एवात्रभूमौ अयं वृक्षः अनेनोदकेन वर्तते । चक्षुषा
वृक्षं पश्यति वृक्षेण पथिकेभ्यः च्छायादीयते, वृक्षाय जलं
ददाति, वृक्षात् पर्यां
प्। ३३२) पतति वृक्षस्य सम्बन्धि इदं कुसुमं फल—— बह्वीभिः
शाखाभिः सहिते वृक्षे पक्षी तिष्ठति इति भावसमन्वयरूपः
क्रियाकारकभावाख्य प्रथमाद्यधिकरणान्तो विभक्त्यर्थः । एवं
भूतः क्रियाकारक परामृष्टरूप प्रमात्रैक समाश्रयो युक्तः ।
अस्मिन्निति । सप्तमी रूपायाः अन्यस्याः प्रथमादिरूपाया
विभक्तेश्च, अस्मिन् पक्षिणः सम्भूय तिष्ठन्ति, अत्र
वृक्षस्तिष्ठतीत्यादिरूपक्रिया कारक भवलक्षणो योऽर्थः स एव
वृक्ष पक्ष्यादि भावानाम् ।
तत्तद्विभिन्नसंवित्तिमुखैरेक प्रमातरि ।
प्रतितिष्ठत्सु भावेषु ज्ञातेयमुपपद्यते ॥
इत्युक्त नीत्या प्रमातृ विश्रान्तिरूपः समन्वयः
प्रमातृविश्रान्तिरहितः नान्यः शुष्कः कश्चित् स च विभक्त्यर्थः । यदि
स्वतन्त्रे तत् संयोजन वियोजनादिसामर्थ्य युक्ते चिद्रूपे
कार्यकारणरूपं भावद्वयं विश्राम्यति तदोपपद्यते । अन्यथेति ।
स्वतन्त्रचिद्रूप प्रमातृ विश्रान्त्य भावेन । कथं चिदिति । केनापि
प्रकारेण नोपपद्यत एव । तथा हि - प्रमातृ विश्रान्त्य भावेन ।
कथं चिदिति केनापि प्रकारेण नोपपद्यत एव । तथा हि प्रमातृ
विश्रान्त्या विनानुभव पृष्ठभाविना विकल्पेनाप्यसौ विभक्त्यर्थो
(४२६)व्यवह्रियमाणः घटपटादि वस्तु निष्ठतया नोपपद्यते ।
अनुभूत घट पटादिवस्त्वनुसरण प्राणो हि विकल्पः ।
अनुभवानुसारितयैव भवति । साचेहवस्तुनि नास्ति । विकल्पः
अन्भवानुसारी अनौभवोवस्त्वनुसारी वस्तु स्वयमनुभवानुसारि न
भवति । अयं घटः अयम्पट इति वस्त्वप्रभवत्वेन तद्वस्तनुसारि
ह्यनुवादे देशकाल क्रमजुषाम्मर्थानां स्वसमापिनाम् ।
इत्युक्तनीत्या वस्तु च स्वात्मनिष्ठमित्युक्तम् । तस्माद्बीजे सत्यङ्कुरः
वह्नौ स तिधूमः इत्यादि सर्वस्वतन्त्रचिद्रूप प्रमातृ विश्रान्तत्वे
युज्यते नान्यथेति ।
एकस्मिन् सतीदं अस्तीत्यादिनाश्लोकत्रयेण जडरूप बीजाङ्कुरादि
निष्ठं सौगतोक्तं कार्य कारणभावं निरस्य साङ्ख्योपदशितं
कार्यकारणभावं पराकर्तुमाह नन्वित्यादिना । अङ्कुरबीजयोनि
प्रयोज्य प्रयोजक सत्तालक्षणापेक्षा तयोः स्वस्वरूपैक मात्र
विश्रान्तत्वे यदि नोपपद्यते तर्हि कार्यकारणयोरङ्कुर बीजादि
रूपयोर्बीजस्यां कुर स्वभावत्वमङ्कुरस्य बीजस्वभावत्वमस्तीति
प्। ३३३) तादात्म्य वादिनां साङ्ख्यानां मते सापेक्षा
जडरूपनिष्ठत्वेन सम्भवत्येव । स चत्र चिद्रूप प्रमातृ विश्रान्तत्वे
सर्वमेतद्युज्यत इत्युक्त चैतन्य विजृम्भात्मक
कर्तृवादसमर्थनेनेत्याशङ्क्याह - कार्यकारणयोरङ्कुरबीजयोः
परस्पर स्वभाव इति । अङ्कुरस्य बीजस्वभावत्वे
बीजस्याङ्कुरस्वभावत्वे चैकत्वमेवेति केवलं बीजत्वमेवाङ्कुरत्वम् ।
भिन्नभिन्नरूपत्वेऽन्योन्य स्वभावात्मकं तादात्म्यं न भवति ।
परस्पर स्वभावत्व इति । यदि बीजस्याङ्कुर एव स्वभावस्वरुपं
तर्हि अङ्कुर एव शिष्यते , न बीजं स्यात् किञ्चिद्विपर्ययोवास्यादिति ।
यद्यं कुरस्य बीजस्वभावस्तर्हि बीजमेव शिष्यते नाङ्कुर इत्येकत्वे
किं कारणं किं कार्यम् । तयो द्विष्ठत्वात् । भेदे हीति ———————–
अथ बीजमङ्कुरादन्यत् अङ्कुरो बीजादन्यः तर्हिबीजाङ्कुरयोः
परस्परात्मक त्वं न भवति । बीजस्याङ्कुराद् भेदः अभेदश्चेति
भेदाभदौ एकदेति । युगपदेव एक विषयौ एकैकरूप बीजाङ्कुर
विषयौ विरुद्धावेव ।
नन्विति । एएवमपीति । बीजाङ्कुरयोः परस्पर स्वभावत्वे एकत्वं
तदभावे जडत्वात् कार्यकारणतानोपपद्यते । तथापि बीजामङ्कुर
पगशाखा पुष्पफलरूपतया विचित्रमवभातमिति
दीर्घदीर्घपरामर्शशालिभिः पर्वतोत्यितो वाच्चिन्न समुद्रप्राप्तस्रोतो
मध्ये अवच्छिन्नस्वरूपं तत एव निर्वाधं प्रात्यवमृश्यते ।
बीजस्याङ्कुरोत्पत्तिमारभ्य फलपर्यन्तमवच्छिन्नतामेव दर्शयति -
तथाचेत्यादिना । बीजस्याङ्कुरादिफलपर्यन्ततया परिणामे
अहश्यमानत्वात् क्वगतं बीजमिति पृष्ठे अङ्कुरादिरूपं विहाय
नकुत्रचिद्गतम् । अपित्वङ्कुरात्मना वर्तते अङ्कुरोभूतम् ।
अयमङ्कुरस्तदिति वक्तरो भवन्ति । एवं प्रधानमपि बुद्ध्यादि
धरान्त तत्वभूतं तद्विकाररूप विभवीभूतञ्च ।
तद्विकारसम्बन्ध्यनन्तसर्ग प्रलय परम्परात्मतां प्राप्तमिति
विततग्राहिणो प्रतीतिः प्रधानं कारणं महदादि तस्य
कार्यमित्यंशादि निवेशवशात् कार्यकारणता परिकल्पनं तस्यै
महदादि रूपतया परिणतस्य । अत एव पूर्णस्य प्रधान रूपस्या
भावस्य विशसन प्रायं चण्डन प्रायमित्याशङ्क्याह -
प्। ३३४) (४२८) महदादि धरापर्यन्तमेकात्मनः एकरूपस्यापि
प्रधानरूपस्यहेतोः कारणस्य महदादि रूपेण भेदोऽयं
प्रधानादनन्तरं महत्तदनन्तरमहङ्कारः
इत्यादिपूर्वापरात्मकाल क्रमानुगा क्रिया तथेति महदादिरूपेण
परिणगत्तया जडस्यापि प्रधानस्य कर्तृतैव स्यात् । एकात्मापि
प्रधानरूपो हेतुः महदादि रूपेण परिणमति चेत्तस्य जडत्वेऽपि
पूर्वारात्मक काल क्रमानुगा क्रियास्यात् । क्रियायाः कर्तरि
विश्रान्तत्वात् कर्तृतैव स्यात् । तथा परिणमनक्रिया सामर्थ्यवत्त्वात् ।
प्रधानमेव महदादि धरापर्यन्तं परिणमतीति
दीर्घदर्शिनां प्रत्यक्षानुमानागमाद्यन्यतम प्राणमूलां
प्रत्यभिज्ञामाश्रित्य सत्व रजस्तमसां गुणानां साम्यावस्था
प्रकृतिरित्युक्त नीत्या तदेवेदं सत्व रजस्तमोरूप सुखदुःखमोह
साम्यमयं प्रधानं महदाद्यनन्तप्रकारवैषम्यावलम्बनेन
विश्वीभूतमिति समर्थ्यते । तत्र तदेवेदमिति प्रत्यभिज्ञाबलेन
यदेकात्मकं तस्य यो महदादिरूपेण भेदः
तत्तन्महदादन्यान्यरुपता इयमेवसाक्रियोच्यते । यतः कालक्षणेन
पूर्वापरादिनाक्रमेणानुगता तेह्यन्ये न्यमहदादि स्वभावाः
नयुगपद्भान्ति महतोऽनन्तरमहङ्कारः तदनन्तमनः
इतिपूर्वापरात्मना क्रमेणभान्ति सा पूर्वापरीभूततैव क्रियोच्यते ।
यत एवं पूर्वापरीभूत रूपाक्रिया वेशलक्षणेन प्रकारेण
प्रधानादेः कर्तृतैव स्यात् । न तु शुष्कजडरूपकारणता मात्रं
यतस्तस्मात् तथेति न महदादिधरान्तीभूतेन प्रकारेण
पूर्वापरात्मक क्रमकमहदाद्याभासन रूपं
परिणामलक्षणां क्रियामविशः, महदादि तत्वहेतु भूतस्य
प्रधानस्य परिणमत्तानाम स्वकीयं व्यावर्त्यं
प्रधानात्मकरूपं किञ्चिद्रूपं परिवर्त्यत्यक्त्वा (३२९)
उपर्यनुवर्तितव्यं महद्रूपं व्यवस्थाप्य
निर्वर्त्यमानोऽहङ्कारादि तृतीयरूप प्रह्वता तया हेतु भूतया
परिणमत्तया कर्तृतैवस्यात् । आदिशब्द इच्छादि जडस्य बीजादेः
स्वरूपमपरित्यज्यैवां कुरादिरूपग्रहणता नयुक्ता । यथोक्तम् -
बीजमङ्कुरतया यदा भवेत् बीजता न खलु दृश्यते तथा ॥ इति ।
ननु प्रधानमियता महदादि स्वरूपेण परिणाम क्रियायां
कर्तृभूतमिति
प्। ३३५) समर्थितमिति को दोषः । तर्ह्यस्माभिः पुरुषस्यैवास्य
प्रधानस्य कर्तृत्वमिष्यत इत्याशङ्क्याह - जडस्य प्रधानस्यैवं
भूता परिणमनक्रियाकर्तृत्वं न युक्तम् । महदादि भेदस्य
प्रधानरूपस्या भेदस्य चान्योन्यं विरोधस्तस्य
प्रधानरूपस्याभासस्यान्यत्वादेकत्रैकरूपे चिदात्मनि
भेदाभेदरूपत्वता विरोधात् कर्तृत्वं युज्यते ।
एवमिति । उक्तनीत्याभिन्न स्वरूपस्यैव धर्मिणः प्रधानस्य
सततप्रवहन्महदादि बहुतरधर्मभेदग्रहण स्वातन्त्र्यलक्षणं
परिणमनक्रिया क्रियाकार्तृत्वं यत् तत्तस्य प्रधानादेर्नर्युक्तम् ।
जडत्वात् । जडो हि नामत्रयत्येदानीन्तन इति परिनिष्ठितैकस्वभावः
प्रमेयपद पतित इदन्ताभूमिमापन्नः स्व————————–
महदादिस्वरूपभेदग्रहणात् स्वस्वरूपाद्भिन्नो व्यवस्थापनीयम् ।
यथा नीलस्यपीतादिरूपग्रहणे तन्नीलत्वं भिन्नं गलितं
पीतादिग्रहणे नीलत्वापरित्यागेनैकस्वभावत्वादभिन्ननीलैकरूपं
तद्वन्महदादिग्रहणेऽपि स्वरूप भेदग्रहणात् भिन्न (४३०) इति विगलित
स्वस्वरूपो व्यवस्तापनीयः । महदादि ग्रहणेऽपि
स्वस्वरूपापरित्यागेनैकस्वभावत्माच्चाभिन्नः न तु स एव
प्रधानात्मा स्वभावो महदादिरूपेण भिन्नश्च
स्वस्वरूपेणाभिन्नश्च भवितुमर्हति भिन्नश्च भवतु
तद्वदभिन्नश्च स्वस्वरूपेणाभिन्नश्च भवितुमर्हति भिन्नश्च
भवतु तद्वदभिन्नश्च भवेदिति विधिनिषेधयोरेकत्र जडे
वस्तुनियुगपदेव विरोधात् कश्चिन्महदादि स्वभावो भिन्नः
प्रधानात्मा स्वभावः अभिन्न इति चेत् तर्हि एकस्य प्रधानात्मनो
भावस्य द्वाविमा स्वभावौ भवेतात्म् ।
न चैवं युक्तम् । एवं चेत् तत्तद्देशकालाकारभिन्नः तत्र
चैत्रदेहीऽनेक स्वभावेऽपि स एवायमित्यनेक रूपतामपित्यजन्नेव
निर्भासत इत्युक्ता सर्ववस्तुषु भेदाभेदव्यवस्थोत्सन्नाभवेदिति
न्यायात्सर्ववस्तुनो भेदः तत्तद्देशकालाकारसम्भिन्नत्वं
तदेवेदमिति प्रत्यभिज्ञाविषयत्वं भेदः । प्रधानस्य तु स्व स्वरूपा
परित्यागोऽभेदः महदादि स्वरूपग्रहणभेदः
स्वस्वरूपापरित्यागात्मन्येकत्वे स तु नोपपद्यते । यत्रेदमिति प्रमेय
दशापतितं न भवति किन्तु चिद्रूपतया बोध रूपतया अहमिति
प्रकाश परमार्थरूपम् । अत एव चिदेक स्वभावं
प्। ३३६) स्वच्छं विश्वप्रतिबिम्बन क्षमं भवति । तत्र शिवादिक्षित्यन्त
विश्वात्मक भेदरूपता विश्वभेदग्रहणे स्व स्वरूपापरित्यागेना
भेदरूपता चोपपद्यते । सर्व प्रमातॄणामनुभवादेव हि स्वच्छस्य
तत्तद् घटपटादि बिम्बप्रतिबिम्बनक्षमस्या दर्शादेः स्वान्तः
प्रतिबिम्बित पर्वत मतङ्गजादि रूप सहस्रसम्भिन्नमपि
वपुरखण्डित स्वस्वभावमुपलभ्यते । शुक्तिं दूरतो दृष्ट्वा
वर्णसाम्येनेदं रजतमितिभ्रान्त्या प्रतीयमानं रजत मक्षि
रोगादयं द्विचन्द्र इति (४३१) प्रतीयमानोद्विचन्द्रश्च यथा शुक्तिकैक
चन्द्रस्वरूपतिरोधानेन वर्तते यथा दर्पणे प्रतीयमानं पर्वतादि
दर्पणस्वरूपतिरोधानान्नवर्तते दर्पणस्यैव हि यथा वभास इति
पर्वतमतङ्गजादि सम्भिन्ने अवभासेऽपि दर्पणवदप्रकाश
प्रदत्वाद्दर्पणतैव सुतरामुन्मीलति । अयं दर्पणः निर्मलः
पर्वतादि सर्वपदार्थप्रतिबिमबनक्षमः ये ये प्रतिबिम्बनक्षमाः
स्फटिकसलिलादयः तेभ्यः उत्कृष्टः शुद्धः संस्कारेण शोधित
इत्यालोकयतां प्रमातॄणामभिमानात् बाह्योदूरगतः पर्वतः
पर्वतः स्वयमागत्य तत्रदर्पणे न हिसङ्क्रामति । तथा चेदस्य
पर्वतस्य स्वदेशत्यागप्रसङ्गः । असौ पर्वतः अस्य दर्पणमधः
कृत्य तत उपरि न भाति । तदानीं दर्पणानवभास प्रसङ्गात् । न च
मध्य इति । असौ पर्वतः दर्पणमनुप्रविश्य तद्गर्भे न भवति ।
निबिडकठिनस्य तटशिखरतर्त्वादि प्रतिघसहितस्य तत्रानुप्रवेशं
सम्भावना भावात् । न च पश्चादिति पर्वत
आगत्यादर्शस्याधोभागेन भाति । तत्रादर्शनाद्दूरतः स्वस्थान
एव भासनाच्चबाह्यः पर्वतः दर्पणेन सङ्क्रामति केवलं
चाक्षुषामयूरवा दर्पणपतनोत्पलिताः ततः प्रत्यावृत्त्या बहिः
स्थितं पर्वतमेव गृह्णातीत्यपि न भवति । बिम्बप्रतिबिम्बयोरपीति ।
बहिः स्थितस्य बिम्बरूपस्य पर्वतस्य दर्पणान्तर्गतस्य
प्रतिबिम्बरूपस्य पर्वतस्य च पर्वत पार्श्वस्थापितान्य
दर्पणान्तावलोकनात् । तस्माद्दर्पणस्य निर्मलता माहात्म्यमेतत् ।
तस्माद्दर्पणस्य पर्वतमतङ्गजाद्यनन्तावभासग्रहणेऽपि
बाधारहितमेकत्वं दूरे च गिरि । शिखरोपवर्तिनः
प्रमातुरेकत्राहमिति बोधे नगर ग्रामादि गत सर्व पदार्थ सह स्व
मवभासत इति ।
प्। ३३७) चिद्रूपस्यैव विश्वावभासनकर्तृत्वमुपपन्नम् ।
स्वयमभिन्नस्यैकस्यैव (४३२) शिवादिक्षित्यन्त भेदावेशसहिष्णुत्वेन
तन्निर्मातृतारूप क्रियाशक्त्यावेशसद्भावात् । उक्तमेतत् -
एष चानन्त शक्तित्वा देवमाभासयत्यमुन् ।
भावानिच्छा वशादेषा क्रिया निर्मातृतास्य सा ॥ इति ।
नन्विति एतावतीति । चिन्मात्रेणरूपेणाहमिति
स्वातन्त्र्यात्मकविमर्शशून्यं ब्रह्मरूपं विज्ञानमेव इमामिति ।
शिवादिक्षित्यन्तां विश्वरूपतावैचित्रीं परिगृह्णातु न नु च, ननु च
तद्विश्वरूपता परिग्रहे ईश्वर एव सर्वत्रकर्ता अहं च स एवेति प्रोक्ता
या ज्ञान क्रिया लक्षण मीशितायाः इत्युक्तनीत्या ज्ञानक्रिया
स्वातन्त्र्य लक्षणाया ईश्वरतायाः कल्पनेन किमित्याशङ्क्याह -
ब्रह्मणः प्रकाशमानरूपे चिदेकत्वे वास्तवेऽप्याभास भिन्नयो रिति ।
स्वेन स्वेन कर्मरूपेण जडात्मनाकर्तृरूपेण चिदात्मना भासेन
भिन्नयोः क्रियमाणकर्तृरूपयोः स्थावरजङ्गमयोः सम्बन्धिनीति
क्रियाविचिकीर्षालक्षणैक परामर्शं विनेति - चिकीर्षारूपेण
स्वाभिनश्चात्मसंस्थस्य भावजातस्य भासनम् ॥ इत्युक्तनीत्या
स्वान्तः स्थितशिवादिक्षित्यन्तभाववर्गबेदपरामर्शेन विनानस्यात् ।
यदिवा प्रोक्तेनाभासेन भिन्नौ यौ जडचेतनौ तयोः
सम्बन्धिनी या चिकीर्षा इत्यमाणेषितृता रूपा ताच्चितृता रूपा
ताच्चिकीर्षा स्वभावः परामर्शं विनाक्रिया न स्यात् । किञ्चोत
प्रोक्तेनाभास भिन्नयोश्चेतन जडयोः
सम्बन्धीक्रमेणाहमिदमितियः परामर्शः
एकप्रमातरिविश्रान्तिरूपः चिकीर्षा तं परामर्शं (४३३) विना क्रिया
न स्यात् । अथवा प्रोक्तेन भासेन भिन्नयोर्जडचेतनयोः सम्बन्धिनम् ।
यदहं भावः पुंसामिदमह मव भासमात्मसात् कुरुते ।
इत्युक्तनीत्या अहमित्येक परामर्शं विना चिकीर्षा लक्षण कथं क्रिया
स्यात् । एवं चिकीर्षां परामर्शं वापेक्ष्याभासभिन्नयोरिति षष्ठी
आभासभिन्नयोरिति नित्यसापेक्षत्वात्समासः । विमर्शो हि नाम विश्वा
कारेण विश्वप्रकाशनेन विश्वसंहारेण वा अकृत्रिमाहमिति
स्फुरणम् । इत्युक्तविमर्शशून्य
प्। ३३८) प्रकाश मात्र रूपस्य ब्रह्मणः स्वात्मन्येकत्वं वास्तवं
यदि पृथ्व्यादि रूपोऽयं भेदः अविद्योपप्लवादित्युच्यते तदा सा
वविद्योपप्लवः तस्य सम्बन्धीति न सङ्गच्छते । विद्यैकरूपस्य
ब्रह्मणः कथमविद्यारूपता सम्भवेत् । ब्रह्म व्यतिरेकेण
जीवजडादिवस्तुतो नास्ति । यस्याविद्या भवेत् । अनिर्वाच्ये यमविद्येति चेदिति
इयमेवं विधेति वक्तुमशक्या चेत् तर्हिकस्यानिर्वाच्येति न विद्मः ।
ब्रह्मव्यतिरेकेण कस्य चिदप्य भावादविद्येति काचि स्वरूपेणभाति ।
अथाप्यनिर्वाच्येति किमेतद्भात्यवियुक्त्या नोपपद्यत इति चेत्
संवेदनतिरस्कारिणी का खलुयुक्तिर्नामेति प्रकाशमानाया
अविद्यायाः प्रकाशमानत्वतिरस्कारिणी
काखलुयुक्तिर्नामभासमानस्याविद्यास्वरूपस्य पश्चादनुपपत्तिश्च
कान्याभविष्यति ।
पक्षान्तरमाह - अविकल्पकेबोधे । ॐ तत्सदितिनिर्देशो
ब्रह्मणास्त्रिविधः स्मृतः इत्युक्तनीत्या सद्रूपं ब्रह्माभिन्नं
चकास्थि । विकल्पबलात्त्वयं (३४४) विश्वात्मको भेद इति चेत् तदानीमयं
विकल्पव्यापारः कस्य सम्बन्धी भवति । अविकल्परूपस्य ब्रह्मणः
विकल्प व्यापारो भवति चेद विद्यायोगो भवति । ब्रह्मव्यतिरेकेण विकल्प
व्यापारवान् न कश्चिज्जीवादिरस्ति । अविकल्पकं ब्रह्मसत्यं विकल्पं तु
विश्वम्मसत्यमिति कुतोविभागः । उभयोरपि भासमानत्वस्याविशेषात् ।
भासमानोऽपि विश्वात्मकोऽयं ब्रह्मरूपेणानेन बाधत इति चेत् ।
अभेदोऽप्ययं भेदाभासनेन तस्य बाधात् लोके यस्य च
भासमानत्वादेवं नान्यत इति तत्कारी भेदोऽपि भासमान इति
मूलभूताभासमाना अविद्याकथमवधीर्याः । अयमभेदः
प्रत्यक्षानुमानाभ्यां साधयितु मशक्यः । केवल भागमैक
प्रमाण इति चेत् आगमोऽपि प्रमातृ प्रमाण प्रमेय विभागात्मक
विश्व निरूपण हेतु भूतत्वात् भेदात्मक एव वस्तु भुत इति न किञ्चिदेतत्
। तस्माद् ब्रह्मणो वास्तवं चिदेकत्वमभ्युपगम्यापि तस्य
प्। ३३९) विश्वकर्तृत्व लक्षणा न भिन्न क्षित्यादि विश्वरूप
समावेशात्मिका क्रिया नोपपद्यते । विमर्शो हि नाम
विश्वाकारेणेत्युक्त परामर्शलक्षणं तस्य स्वातन्त्र्यं यदि भवति
तदोपपद्यते । सर्वमिति । सर्वकर्तृत्व लक्षण क्रिया तत्कार्यं च
विश्वमपि भवतीत्यर्थः । परामर्शोऽहि विश्वचिकीर्षा इच्छा ।
इच्छायां तव यस्यैतत् फलं लोक त्रयात्मकम् ।
तस्य तेनाधिकार्याणां को वेत्ति कियती गतिः ॥
इति श्री भट्टनारायणोक्त नीत्या तस्यां परामर्श रूपायामिच्छाया
मेवनिर्मातव्यं शिवादिक्षित्यन्तं विश्वमन्तरभेदकल्पनेनास्त
इत्युक्तम् । स्वामिनश्चात्मसंस्थस्येत्यत्र । (४३५) तेन प्रकाशमानत्वात्
स्वात्मरूपमेवविश्वं तत्तदर्थक्रियाकारित्वात् सत्यरूपं
प्रकाशमानात्मता परमार्थमत्रुटिताहं रूप प्रकाशाभेद
प्रकाशमेवसत् प्रकाशपरमार्थे नैवेदमिति भेदेन
प्रकाशयतिमहेश्वर इति तत् एवाति दुर्घटकारित्व लक्षणं
स्वातन्त्र्यलक्षणमैश्वर्यमित्युच्यते । आभासभिन्नयोरिति षष्ठी
क्रियापेक्षा सम्बन्धसामान्ये वर्तते । पश्चाद्यथोचितं विभज्यते ।
स्वेनाभासेन चिदाभासाद्भिन्नः जडाभासो घटादिः कर्मरूपः ।
तस्माद्भिन्नास्श्चिदाभासः कर्तृरध इति तयोः सम्बन्धिनीक्रिया एकस्य
घटादेः क्रियमाणत्वम् । अपरस्य चिदाभासस्य कर्ट्त्वमपि ब्रह्मणो
नभवेत् । इच्छारूपेण निर्मातव्य शिवादिक्षित्यन्त भववर्गा
भेदपरामर्शेन विनास्वयमेका चासौ क्रियाकथमन्योन्य भिन्नयोः
क्रियमाण कर्तृरूपयोर्जडचेतनयोः कथं स्वभावभूताभवेत् ।
आह - एकस्य क्रियमाणत्वमपरस्य कर्तृत्वमिति कार्यकारणता
प्रस्तावात् कर्तृकर्मणी कारके उक्ते ।
क्रिया विमर्श विषयः कारकाणां समन्वयः ।
इत्युक्तनीत्या कारकान्तराण्यपितु एककर्तृत्वरूप क्रियानुप्रवेशिनी
परमार्थतः । अन्यथा करणादौ कारक व्राते क्रियातो भिन्नेसातैः
कथमभिन्ना यदिवोक्तरूपेणा भासेन यौ भिन्नौ जडचेतनौ
तयोर्याचिकीर्षा
प्। ३४०) एकस्य घटादेरिव्यमाणता अपरस्यैषितृता तत्स्व भावमेकत्व
परामर्शं विना कथं क्रिया स्यादिति ।
यदि वा भासभिन्नयोश्चेतन जडयो रहमिदमितियः परामर्शः
पूर्णाहन्तात्मनि प्रमातरि विश्रान्तरूपश्चिकीर्षात्मातं विना
ब्रह्मणः कथं क्रिया स्यात् । (४३६) प्रोक्ताभासभिन्नयोर्जडचेतनयो
रहमित्येकत्व परामर्शं विना तच्चिकीर्षा लक्षणा कथं
क्रियास्यादिति वा । एवं क्रियां चिकीर्षां प्रोक्तं द्विविधं
परामर्शं वापेक्ष्य षष्ठी एभिनित्यसापेक्षत्वाच्चाभासभिन्नयोरिति
समासः ।
एतदाह्निकोक्तं प्रमेयमुपसंहरति - इत्थन्तया
घटपटाद्याभास जगदात्मना । तिष्ठासो रेवभिच्छैव हेतुता
कर्तृता क्रिया ॥
जडस्य तु न सा शक्तिः इत्यादिना जडप्रधान
परमाण्वादेविश्वं प्रतिकारणता न युक्ता । जडविलक्षणस्य
चिन्मात्ररूपस्येत्थं बाधात्मकत्वेऽपि येषां नोत्तम कर्तृतेति
वक्ष्यमाण नीत्योत्तम कर्तृता रहित स्वातन्त्र्य रहितस्य अत
एवानीश्वरस्य ब्रह्मणोऽपि जगत्कारणता नोक्तेति चेत्युक्तं यत इत्यमिति ।
अनेन प्रकारेण तथा तेन तेन जन्मस्थित्यादि विकाससहस्त्रेण युक्त
तत्तद्घटपटाद्याभास जगदात्मना तिष्ठासोस्तत्तद्रूपतया
स्थातुमिच्छोः परमेश्वरस्य । एवमिति । तिष्ठा सा रूपे च्छैव
शिवादिक्षित्यन्तं विश्वं प्रतिहेतुता कर्तृता निर्मातृतारूपा क्रिया ।
इत्यमिति । जडस्य तु न सा शक्तिरित्युक्तनीत्यायतो जडस्य प्रधान
परमाण्वादेर्विश्वकर्तृतारूपा न कारणता वास्तवेऽपि चिदेकत्व
इत्युक्त नीत्या । अनीश्वरस्येति । विश्वसृष्ट्यादिपञ्चकृत्यकारि स्वातन्त्र्य
रहितस्य चेतनस्य चिन्मात्ररूपस्य ब्रह्मणोऽपि न कारणता इत्यनेन
हेतु प्रकारेणेदं जातं तत् किमिति चेत् यद्वस्तु यः प्रमाता यथा
चिकीर्षुः तस्यैव सा चिकीर्षा । एव मेकाक्रियासैषा सक्रमान्तर्बहिः
स्थितिः । इत्युक्तनीत्या (४३७) आन्तरात् संविद्रूपात् बहिष्पर्यन्ततां
प्राप्ता क्रियेत्यभिधीयते । सैव चिकीर्षा कर्तृता तच्चिकीर्षा रूपमेव
विश्वं प्रतिहेतुत्वं चिकीर्षाव्यतिरेकेण कर्तृत्वादिनास्ति । तेन लोके
घटास्तिष्ठतीत्यस्यायमर्थः घटात्मनातिष्ठासुः
प्। ३४१) स्वातन्त्र्यात्तद्घटावस्थान मभ्युप गच्छन् न तु तद् घटादि
स्वरूपमसहमानः शुद्धशैवाद्यभिमतो यो महेश्वर प्रकाशः
स घटादि रूपेण तिष्ठतीति भवति । घटपटाद्याभास रूपं यत् किल
जगत् तदात्मनायत् तथेति तेन तेन तत्तज्जगद्गात जन्म स्थित्यादि भाव
विकार तद्भेदक्रियासहस्ररूपेण चस्था तु मिच्छुः स्वतन्त्र स्तस्य तस्य
सम्बन्धिनी या । एवमिति । विचित्ररूपेच्छा सैवक्रियेति सम्बन्धः ।
एतदेवेच्छाशक्तिश्चोत्तरोत्तर मुच्छूनतया क्रियाशक्तिपर्यन्ती भवति ।
दर्शयिष्याम इति पूर्वमुक्तम् । तेनेति । जडस्य
प्रधानादेस्तद्विलक्षणस्य चेतनरूपस्य ब्रह्मणोऽपि
कर्तृत्वाभावान्महेश्वर एव भगवान् विश्वस्य कर्तेतिशिवम् ।
इति श्री प्रत्यभिज्ञा सूत्र विमर्शिनीव्याख्यायां द्वादशमाह्निकं
समाप्तम् ॥
॥ क्रियाधिकारः समाप्तः ॥