१ ज्ञानाधिकारः

ईश्वरप्रत्यभिज्ञानसूत्रविमर्शिनी

व्याख्या

नामरूपात्मकं विश्वं यस्य लीलायितं वपुः ।  
प्रकाशाय नमस्तस्मै सविमर्शाय शम्भवे ॥

इह विश्वानुजिसृघृक्षापरः परमशिव एव
सकलभूमण्डलोत्तरे श्रीमच्छारदादिव्यक्रीडासदने
श्रीकाश्मीरदेशे श्रीनरसिंहगुप्तनाथ इति प्रख्याताभिधानो
निखिलरहस्याम्नायसरभूतं श्रीत्रैऽयम्बक सन्तान चूडामणि
श्रीमदुत्पलदेवाचार्य मुखोद्गीतं श्रीमदीश्वरप्रत्यभिज्ञाख्यं
शास्त्रं व्याचिख्यासुः स्वव्याख्यानस्य निष्प्रत्यूह परिपूरणाय
तच्छास्त्रसारभूतां परां देवतां समाविश्या
नुग्राह्यजनसमावेशार्थं स्तुतिपरामर्श पूर्वमभिमुखीकरोति
निराशंसादित्यादिना । यत् अहमिति पूर्णान्निराशंसात् उन्मेष
प्रसरणनिमेषास्थितिजुषः स्वरूपात् निजकलां
पुराद्धिशाखामाभा सयति । तदनु तामेव विभङ्क्तुमाशास्तेचा
तत्परमशिवशक्त्यात्मनिखिलमद्वैतं बन्दे इत्यन्वयः । यत्किल
श्रीत्रिंशिकाशास्त्रे -

अनुत्तरं कथं देव सद्यः कौलिक सिद्धिदम् ।  
येन विज्ञातमात्रेण खेचरी समतां व्रजेत् ॥  

(२) एतद्गुह्यं महागुप्तं कथयस्व मम प्रभो ।  
हृदये सा तु या शक्तिः कौलिकी कुल नायिका ॥  

तां मेकथय देवेश येन तृप्तिं व्रजाम्यहम् ॥  

इति प्रथमं देवी प्रश्न मवतार्य -

शृणु देवि महाभागे उत्तरस्याप्यनुत्तरम् ।  
कौलिकोयं विधिर्देवि मम हृद्व्योम्व्यवस्थितः ॥  

इत्यादिना सर्वतन्त्रेषु सर्वदा इत्यन्तेन ग्रन्थेन प्रतिवचनमर्पयता
भैरवेण चतुर्दशयुतमित्यत्रोद्धृत्यैतदनन्तरमन्याच्चार इत्यादिना

प्। २) तस्यैव सर्वसिद्धिविभूतिसमुदयत्वमुपवर्णितम् ॥

एवमनुत्तर भट्टारिकात्मक परभैरव यामल वाचकी भूतं
महा फल प्रदं हृदय बीजमस्मिन् शास्त्रावतार एतन्नायोगिनी जात
इत्यादि सर्वज्ञत्वमवाप्यत इत्यन्तेन जीवन्मुक्ति
विभूत्यात्मकपरापरसिद्धिहेतुभूतमनुत्तर
भट्टारकपराभट्टारिकात्मक भैरव यामल वाचकी भूतं
हृदयबीजमालोचितम् । तदन्त श्रीमदीश्वरप्रत्याभिज्ञाशास्त्र
व्याख्यानं भ ————- य पादैर्भङ्ग्यन्तरेण प्रकटीकृतम् ।
तद्यथा यदित्यनेनानुत्तरम् । निजकलामिति विसर्गशक्तिः । उन्मेष
प्रसरणेत्यादिचतुर्दशस्वरः । निखिलमित्यनेन सद्वृत्ति रूपम् । एतच्च
शास्त्रकारैरधिकारचतुष्टयेरहस्य भाषया तदभिहितम् । कथं
तत्र ————- निमेष लक्षणेन सङ्कोचविकासात्मना
ज्ञानक्रियालक्षणेन स्वभावेन स्वपरिस्पन्द न सारएव न तु
परिनिष्ठित परिच्छिन्न जडस्वरूप घटादितुल्यः । तस्य च सङ्कोच
विकास योगः त्रिकोण हृदय परिस्पन्दनादिषु यथा यथा स्फुटी भवति
———— भैरव संविदि यथा यथा च न्यूनीभवति तथा तथा
तन्निकृष्यते याबज्जडेपाषाणादौ । स च सङ्कोचविकासलक्षणोपि
सर्गस्वातन्त्र्यात्मा भगवतोऽनुत्तरस्य शक्तिरिति लधृवृत्त्युक्त न्यायेन
ज्ञानक्रियाधिकाराभ्यां बिन्दुद्वन्द्वात्मिका विसर्गशक्तिरा———-
रूपेणात्मना प्रशमेनाह्निकेन सद्वृत्ति प्रमातृतत्व निरूपणात्मना
द्वितीयेनाह्निकेन त्रिशूलं
सर्वधात्वन्तरालीनेत्यादिनानुत्तरमित्यधिकारचतुष्टयान्तर्हृदा
बीजस्वरूपं स्पष्टं द्रष्टव्यम् ।

इह हि एतद्धृदयबीजमेवाथार्यैरह—मकमहाम-----क्तम् ।   

अस्य महामन्त्रस्य । आद्यन्तान्तर्गतानन्तशक्तिविश्रान्तिनिर्भराम् ।
अनुच्चार्यामहं वाम मधीये हृदयं प्रभोः ॥

आद्यन्तान्तर्गतानन्त वाच्य वाचक निर्भरम् ॥  
रहस्यं मन्त्रमुद्राणां प्रपद्येऽहमनुत्तरम् ॥  

मह इति श्रीपर्यन्त पञ्चाशिकोपक्रमोपसंहारश्लोकोक्तनीत्या
आद्यमक्षरमनुत्तरम् ।

प्। ३) विसर्गोऽयमथात्यर्थं स्फुटोभूत् सृज्यविस्तरात् ।
एतत्पृष्टात्मशक्तीनामितरेतर मिश्रणात् ॥

भवत्क्षोभान्तरं नास्माद्विसर्गाद्बाह्यतो भवेत् ॥  

इतिनीत्या च । अकारादिहकारान्ताक्षर वर्गः पञ्चधा स चेति तन्त्र
सद्भावोक्तनीत्या चान्त्यभूतो हकारो विसर्गः ।
अमित्यत्रबीजौत्रिशूलसद्वृत्ती द्रष्टव्ये । कथं तद्वह्न । परं
शुद्धं शान्तमभिन्नात्मकं समं सकलं अमृतं सत्यं शक्तौ
विश्राम्यति भास्वर रूपाया मितयत इति वेद्य इति सम्पाद्यत इति च ।
भास्वर रूपेणामरामृष्टं सदपि तु नमः प्रसूनत्वमभ्येतीति
परमार्थसारोक्त प्रकारेणेच्छा ज्ञानक्रियात्मकं त्रिशूल मेषणी
यज्ञेय कार्यात्मक सद्वृत्तिरूपं वेद्यराशिं स्वीकृत्य
तदेतद्वेद्यवेदन वेदक विश्रान्ति त्रयमयं वर्ण त्रयस्यरूपमिति
श्रीलघुवृत्त्युक्त नीत्या स्वदा मपि वेदनात्मकत्वाद्विश्ववेद्या
विभागवेदनात्मा बिन्दुरिति श्रीसाम्ब व्याख्यानोक्तरीत्या
विश्ववेद्याविभागवेदनात्मनि स्वोपरिवर्तिनि बिन्दौ विश्राम्यतीत्यस्य
बिन्दो स्त्रिशूलसद्वृत्तिमयत्वम् । किञ्च हृदयस्य मूलभागे
सद्वृत्तिरूपे वेद्यांशे जाग्रत्स्वप्न सुषुप्त्यात्मकातिस्फुटस्फुटा
स्फुट भेदत्रयशान्तिनिसर्वथात्यन्मात्र प्रथमकला वपुषि
विश्राम्याज्वृत्तावुत्तररूपायां शक्तिशिवतत्त्वान्त क्रमेण तुरीय
पद पर्यन्तं विश्रान्तेन
क्रमभिन्नसमस्ततत्वस्वीकरणादासनव्याप्तिः प्रदर्शिता भवतीति
श्रीलघुवृत्तिदृष्ट्या सद्वृत्तित्रिशूलयोरपि वेद्यराशि मयत्वात्
क्षित्यादिशिवान्तवेद्याविभागवेदनरूपे बिन्दौ विश्रान्तिः ।

वेद्यं स्वक्रम सिद्धावित्तिमनुप्रविशदङ्गविषयाद्यम् ।   

इति श्री विरूपाक्षपञ्चाशिकोक्तनीत्यायुक्तै वेति हृदयबीजस्य
महामन्त्रान्तर्भावः । वस्तुवृत्त्या-

आमूलातः क्रमाज्ज्ञेया क्षान्तादृष्टिरुदा हृता ॥ इति ।  

प्। ४) अवर्णस्थो यथा वर्णस्थितः सर्वगतः प्रिये ॥ इति ।
अष्टत्रिंशत् परन्धाम यत्रैतद्विश्वकं स्फुरेत् ॥ इति ।
सार्णेन त्रितयं व्याप्तं त्रिशूलेन तुरीयकम् ॥ इति ।

ततो विसर्गात्मिका षोडशी भैरवात्मिका
यावत्सर्वोत्तीर्णतुरीयस्पृगिष्यत इति । अकारो वै सर्वा वागिति श्रीतन्त्रमसत्
। भावतं त्र वटधानिका मालिनी विजय लघुवृत्ति
श्रुत्युक्तनीत्यानुत्तरविसर्गयोः भैरवयामलयो रकारादिक्षकारान्त
वाचक क्षित्यादि शिवान्त वाच्य
समुत्तीर्णत्वान्महामन्त्रदशोत्तीर्णत्वम् । तथाप्यनयोरपि मातृकात्
एवान्तर्भावात्तन्मातृकामूलभूतमहामन्त्रमयत्वमप्यस्त्येव ।
किं बहुना महामन्त्र इति विमर्शो हि विश्वाकारेण विश्व प्रकाशनेन
विश्वसंहारेण वाकृत्रिमाहमिति स्फुरणमित्युपन्यासनीत्या

तौ मातृमा —— ति मेय मयार्थ गर्भौ
मातः शिवे शिवपितः शरणं श्रये वाम् ।

इति श्रीशुक्तावलयुक्तनीत्या च तयोः
परामृष्टरूपयोरनुत्तरपराभट्टारिकयोः स्वात्मशिवादि
क्षित्यन्तविश्वक्रोडीकारकोऽहमिति परामर्शः । तदुक्तं श्री तन्त्रालोके -

----------------------- सर्गात्मशिवशक्त्यद्वयात्मनि ।  
परामर्शोनिर्भरत्वादहमित्युच्यते प्रभोः ॥  

इतीत्यनेनैवाशयेनादावहमिति प्रयुक्तः । इतीति एवं भूतेन
महामन्त्रेण पूर्णात् भरितात् । पूर्णत्वं नाम शिवादिक्षित्यन्त
विश्वनिर्भरत्व माकां क्षणीय मपरं येन ————-
नाद्वितीयस्ययुक्तं यत् परिपूर्णता । इति श्रीमत्स्तोत्रावल्युक्तनीत्या
निराशंसादुन्मेषेत्यादिनानवरत जड
ब्रह्मवादिविलक्षणसृष्ट्यादिपञ्चविध कृत्यकारित्वमुक्तम् ।
तत्रोन्मेषः सृष्टिः । प्रसरणं स्थितिनिमे ——————– हौ गृह्येते ।

चिदात्मैव हि देवोन्तः स्थितमिच्छावशाद्बहिः ।  
योगीव निरूपादानमर्थजातं प्रकाशयेत् ॥  

प्। ५) इति वक्ष्यमाणनीत्या । अतः संविदैक्येन स्थित स्वभाव
राशेर्बहिरुन्मज्जनरूपत्वादुन्मेषस्य गृ ———- ति हेतुत्वात्
प्रसरणस्य स्थितित्वं बहीरूपताविलापनेनान्तर्निमज्जनात्मक
स्यान्निमेषस्य संहारत्वं संहृतस्य भावराशेरन्तः
संस्कारात्मनावस्थापकहेतुत्वात् स्थितेस्तिरोधानमयत्वं तादृशस्य
भावराशेश्चि ————- तरनुग्रहात्मत्वं च । यदिवोन्मेषेत्यादि
स्थितीत्यन्तेन केवलं सृष्टिसंहारावभिधीयेते
ततोन्मेषप्रसारणेत्यनेनसृष्टिः निमेषस्थितीत्यनेन संहारः स्थिति
विलयानुग्रहाणां विशि ———— त्वात् नाधिकामिति
प्रलयोदयाभ्यामेव पञ्चविधं पारमेश्वरं कृत्यं सङ्गृह्यते ।
श्रीस्पन्दनिर्णयोक्तनात्या स्थिति तिरोधानानुग्रहास्त्वनयोस्त्वन्तर्भूता
एव । तत्र सृष्टयन्तर्गता स्थितिः । संहारान्तर्गतौ तिरोधानानुग्रहौ ।
अनेन

यस्योन्मेषनिमेषाभ्यां जगतः प्रलयोदयौ ।  
तं शक्तिचक्रविभवप्रभवं शङ्करं स्तुमः ॥  

इति श्रीस्पन्दकारिकार्थसङ्गृहीतस्वरूपादात्मीयात्
अविनाशिनोरूप्यमाणस्य कार्यरूपविश्वस्य कारणभूतात्
शक्तिरूपात् - यो (७) विश्वजीवितमयो भगवान् प्रकाशः, इति
श्रीसुक्तावुक्तनीत्या प्रकाशनाद्भावात् । अथ च, निजधर्मिणं
स्वरूपं प्रकाशयन्ती प्रकाश्यवर्गस्य इति । इति
श्रीविरूपाक्षपञ्चाशिकोक्तनीत्या स्वंस्वात्मनः प्रकाश रूपं
प्रकाश्यस्य विश्वस्य रूपयन्तीति वा स्वरूपं तादृशात् ।

सर्वज्ञः सर्वकर्ता च व्यापकः परमेश्वरः ।

स एवाहं शैवधर्मा इति दार्ढ्याच्छिवे——- त् ॥ इति

श्रीविज्ञानभैरवोक्त स्थित्या सर्वज्ञत्वादि युक्तात् स्वरूपात् ।
निजकलामिति । निजां सहजां

शक्ति शक्तिमतोर्यस्मादभेदः सर्वदास्थितः ।  
अतस्तद्धर्मधार्मित्वात्पराशक्तिः परात्मनः ॥  

शक्तिश्चशक्तिमद्रूपाद्व्यतिरेकं न वाञ्छति ।  
तादात्म्य मनयोर्नित्यं वह्निदाहिकयोरिव ॥ इति ।  

प्। ६) अनन्यापेक्षिता यस्य विश्वात्मत्वं प्रतिप्रभो ।
तां परां प्रतिभां देवीं सङ्गिरन्ते ह्यनुत्तराम् ॥

अकुलस्यास्य देवस्य कुलप्रथनशालिनी ।  
कालिकी सा पराशक्ति रवियुक्तो यया प्रभुः ॥  

इति श्रीविज्ञान भैरव प्रबोधपञ्चदशिका तन्त्रालोक स्थित्या
स्वावियुक्तम् । किञ्च यस्मिंस्थिते यदुदेति लीयते च तत्तत् पूर्वापरभाग
व्यापि । यथा भूमावङ्कर इति वक्ष्यमाणनीत्या
विश्वपूर्वापरकोटिव्यापित्वान्नित्यां (८) स्वात्मनो —— भेदनं
क्षेपो भेदेति तस्या विकल्पनम् ।

ज्ञानं विकल्पः सङ्ख्यानमन्यतो व्यतिभेदनात् ।  
गतिस्वरूपा रोहित्वं प्रतिबिम्बवदेव यत् ॥  

नादस्वात्मपरामर्श शेषता तद्विलापनात् ॥  

इति पञ्चविधमेनां कलनां कुर्वती परा ॥

देवी काली तथा कालकर्षणी चेति चोच्यते ॥  

इति तन्त्रालोकनीत्या पञ्चविधकृत्यकारिणीं सृष्टिमयीं
स्वातन्त्र्यशक्तिम् । पुरेति अन्तः स्थितस्य बहिरवबिभासयिषायाः
प्रथमम् । द्विशाखामिति । द्विशाखात्वं नाम
स्वान्तरहमित्यैकात्म्येन विश्वस्याहमिदमिदमहमिति
श्रीसदाशिवेश्वरो चितान्तरायमाणाङ्कुरिते दन्ता प्रतीतिः । तद्वती ।
अनुत्तरं स्वयमेकमेव सत् स्वावियुक्तत्वादेकामपि सतां स्वातन्त्र्येण
द्विधारूपां प्रकाशयति । मासनं नाम आत्मानमत एवायमिति
वक्ष्यमाणनीत्या भासकस्यानुत्तरभट्टारकस्य
स्वातन्त्र्यात्तत्तद्रूपतया स्फुरणम् । तदन्विति ।
द्विशाखामाभासानन्तरं तामेव निजकलां विभङ्क्तुं
मन्त्रविज्ञाना कलप्रलया फल सकल प्रमातृ तत्प्रमेय
वर्गात्मनारूपेण प्रकाशयितुम् । आशास्ते इच्छति च । आशासनं
नामातिष्ठासोरेवमिच्छैव हेतुता कर्तृता क्रिया । इति वक्ष्यमाण नीत्या
इच्छायाः विश्वनिर्माणरूपक्रियापर्यन्ती भावः । आभासयति
आशास्त इत्येक कर्तृकत्व द्योतकेन यमुच्चयार्थेन
आभासनसक्तिविमर्शन बीजावस्थाप —————

प्। ७) पनतस्तानि पञ्चविधकृत्यानि करोतीति श्रीप्रत्यभिज्ञा हृदयोक्त
नीत्या आभासनादि शब्दवाच्येषु सृष्ट्यादिकृत्यस्य सर्वस्य स्वात्मन
एव कर्तृत्वं न तु ब्रह्मादिवत् एकैकस्मिन् प्रतिनियते कृत्यविशेष इत्येतत्
द्योतितम् । ——— विभागाशासनयोरव्यवधानत्वं च, आभासयति
आशास्ते चेति चवर्तमान प्रयोगेण तदिदं शक्तिचक्रमविच्छिन्न
प्रबन्धं भगवतो भैरवनायस्येति लघुवृत्त्युक्तनीत्या
अविरतमाभासनादिकर्तृत्वं दर्शितम् । तदिति स ——
परमशिवशक्त्यात्मनिखिलमिति । इच्छादियुक्तं परमशिवस्वरूपत्वं
द्विशाखामाभासनेन शक्त्यात्मकं विभा — तदद्वैतमिति
अनन्तेतावदाकार स्वीकारेऽप्येकलक्षणां तां स्वसंविदमाविश्य
विकल्पान्न ———— कोक्त दृष्ट्या शिवाद ———— तदेकघनस्वरूपा
। किञ्चाद्वैतमिति

यत्र तेजांसितेजांसि तमांसि च तमांस्यलम् ।  
तेजांसि च तमांस्येव ---------- ज्योतिरनुत्तरम् ॥  

इति श्री लघुवृत्त्युक्तनीत्या ——————- रम् ।

शिवाश्चिदानन्दघनः परमाक्षर विग्रहः ॥  

इति वक्ष्यमाणनीत्या स्ववाचकभूतरहस्याक्षराभिन्नतया अरूपं
विश्वोत्तीर्णं तदन्तर्गतविश्वबहिर्वमन ग्रसन शीलतयाद्वैतं
विश्वमयम् । अत्र तत्त्वामित्यध्याहार्यम् । वन्दे इति । वादि अभिवादन —–
– कष्टत्वेन परामर्शनीयः ।

अथ सर्वावस्थासुस्फुरद्रुपत्वादभिवदत् अभिमुख्येन
स्वस्वरूपं विमृशत् तत्समर्था चरणे न नित्योद्य — ता
प्रयत्नेनाभिवादये स्वरूप परामर्शनिष्ठं तत्सम्मुखीकरोति ।
तत्र स्मृतिर्ना——————–
तत्सम्मुखीकरणमभिवादनमितिसङ्क्षेपतः श्लोकार्थः,

एवमिष्टां चिद्देवतां अभिवन्द्य व्याचिख्यासितस्यशास्त्रस्य गुरु
परम्परया वतारं दर्शयन् व्याख्यामित्थं करोमीति प्रतिजानीते -

प्। ८) श्रीत्रैयम्बकसद्वम्श मध्यमुक्ता मयस्थितेः ।
श्रीसोमानन्द नाथस्य विज्ञानप्रतिबिम्बकम् ॥ २ ॥

अनुत्तरानन्य साक्षि पुमार्थो पाय मभ्यधात् ।  
ईश्वर प्रत्यभिज्ञाख्यं यच्छास्त्रं यत्सुनिर्मलम् ॥ ३ ॥  

तत्प्रशिष्यः करोम्येतां तत्सूत्र विवृतिं लघुम् ।  
बुद्ध्वाभिनवगुप्तोहं श्रीमल्लक्ष्मणगुप्ततः ॥ ४ ॥  

तत्रप्रथम मन्वयः - श्रीत्रैयम्बकसद्वंशमध्यमुक्ता
मयस्थितेः श्रीसोमानन्द नाथस्य विज्ञानप्रतिबिम्बकं अनुत्तरानन्य
साक्षिपुमर्थोपायं ईश्वर प्रत्यभिज्ञाख्यं शास्त्रं य अभ्यधात्
तत्प्रशिष्यः अभिनवगुप्तोऽहं श्रीमल्लक्ष्मणगुप्ततः बुद्ध्वा एतां
तत्सूत्रवृत्तिं लघुकरोमीति । श्रीत्रैयाम्बिकेति । श्रिया
जीवाच्छिवत्वाभिव्यक्ति लक्षणया मोक्षलक्ष्म्या अविभक्तस्य
त्रैयम्बकस्य सम्बन्धिनः सतः अविरतं वर्तमानस्याथ च सतो मया
कालुष्यरहितत्वात् शुद्धस्य ।

कैलासादौ भ्रमन् देवो मूर्त्या श्रीकण्ठरूपया ।  
अनुग्रहायावतीर्णश्चोदयामास भूतले ॥  

मुनिं दुर्वाससं नाम भगवानूर्ध्वरेतसम् ।  
नो च्छिद्येत यथा शास्त्रं रहस्यं कुरु तादृशम् ॥  

ततः सभगवान् देवादादेशं प्राप्ययत्नवान् ।  
ससर्जमानसं पुत्रं त्र्यम्बकादित्यनामकम् ॥  

तस्मिन् सङ्क्रामयामास रहस्यानिसमन्ततः ।  
सोपि गत्वा गुहं सम्यक् त्र्यम्बकाख्यं ततः परम् ॥  

तन्नाम्ना चिन्तितं तत्र ससर्ज मनसा सुतम् ।  
खमुत्पपातसम्बिद्धस्तत्पुत्रोपि तथा तथा ॥  

सिद्धस्तद्वत्सुतोत्पत्त्या सिद्धा एव चतुर्दश ।  
यावत्पञ्चदशः पुत्रः सर्वशास्त्र विशारदः ॥  

स कदाचिद्राग वशात् कुतश्चिद्ब्राह्मणात् स्वयम् ।  
ब्राह्मणी मानया मास ततो जातस्तथा विधः ॥  

तनयः स च काले न काश्मीरेष्वागतो भ्रमन् ।  

प्। ९) नाम्ना स सङ्गमादित्यो वर्षादित्योऽपि तत्सुतः ॥

तस्याप्यभूत् स भगवान् तरुणादित्य सञ्ज्ञकः ।  
आनन्द सञ्ज्ञकस्तस्यादुद्बभूव तथा विधः ॥  

तस्मादस्मिन् समुद्भूतः सोमानन्दाख्य ईदृशः ।  
करोतिस्म प्रकरणं शिवदृष्ट्याभिधानकम् ॥  

इत्यादिष्टं भगवता सोमानन्देन शासने ।  
स्वकीये तत्प्रसादेन शिवज्ञानामृतार्णवम् ॥  

अवाप्योत्पला देवोऽपि सद्भिः सम्पूजितस्सदा ।  
ईश्वरप्रत्यभिज्ञाख्य शासनैकविधिस्तथा ॥  

श्रीमत्स्तोत्रावली सञ्ज्ञा शिवामर्शामृताकरः ।  
शिवागम रहस्यार्थ प्रकाशन दिवाकरः ॥  

अजायत ततस्तस्मात् श्रीमल्लक्ष्मण गुप्ततः ।  
अधिगम्यरहस्यार्थं सकलं प्रत्यपादयत् ॥  

ततोभिनवगुप्ताय महामन्त्रेश्वराय सः ।  
समस्त शिवशास्त्राणां व्याख्याता शिवचोदितः ॥  

प्रत्यक्ष तपनप्राप्त शाङ्कर ज्ञान भाजनम् ।  
समस्तलोकयात्रात्म शिवरूप प्रकाशतः ॥  

अरक्षत् क्षेमराजाज्यस्त्रिलक्षग्रन्थकारकः ॥  

इति प्रोक्त ———- शमध्ये स्थितो मुक्तामणिः स्वप्रस्तुति हेतुं तं
वंशं विशदयन् यथा तिष्ठति तद्वत् त्र्यम्बकादिसम्बन्धिनः सतो
विरतं वर्तमानस्य, अथ च सतो माया कालुष्य रहितत्वात् शुद्धस्य
सन्तानस्य मध्ये तदन्तः मुक्तामयस्थितेः आमयोपलक्षितमाया
रहितस्थिते ——– श्री सोमानन्द नाथस्येति प्रोक्त लक्ष्मी सहितस्य
श्रीशिवदृष्टिकार श्रीसोमानन्दनाम्नो नाथस्य । अथवा
उमापराभट्टारिका वियुक्तस्यानन्दानां सर्वज्ञत्व सर्वकर्तृत्वादि
सिद्धीनां नाथस्यानुत्तरभट्टारकस्य -

गुरुशिष्य पदे स्थित्वा स्वयं देवः सदा शिवः ।  
--------------- त्वैस्त ---------------------------- रयत् ॥  

प्। १०) इति श्रीस्वच्छन्दोक्तनीत्यारहस्य सम्प्रदायाविच्छित्त्यर्थमनु
गृहीतै तन्नामधेयस्य । किञ्च

अथेन्दुः पुष्पसङ्काशः समन्तादवभासते ।  
आह्लादन --------- हे जगदा ह्लादयेत् क्षणात् ॥  

तद्वदेव महायोगी यदा पर्यटते क्षितिम् ।  
----------------------गश्चित्रं समर्पकम् ॥  

आह्लादयेत् समन्तादवीच्यादि शिवान्तिकम् ॥  

इति श्रीचन्द्रज्ञानोक्त स्थित्या सोमवदनुग्राह्यलोकमानन्दयति तत एव
नाथ्यते प्रार्थ्यते ————– सोमानन्दनाथस्य
विज्ञानप्रतिबिम्बकं विशिष्टस्य ———————– परामर्श
प्रतिपादक श्रीमच्छिवदृष्टिशास्त्रोत्पन्नस्य पूर्णाहं
परामर्शमयस्य ज्ञानस्योत्तरोत्तरमन्तेवासिचैतन्य दर्पणेषु
सङ्क्रम्यभा ——— प्रतिबिम्बकं न तु जलरूपदर्पणादि प्रतिबिम्ब –
———————अपिस्वात्मशिवत्व परामर्शात्मकार्थ क्रिया करण
समर्थम् । तदेवाह अनुत्तरानन्य साक्षि पुमर्थो पायमिति । उत्तर ———
————– वर्तमानं जडापेक्षया ग्राहकरूपं च ———————-
-त्यनुत्तरत्वम् इति श्री
लघुवृत्त्युक्तनीत्याग्राह्यग्राहकचक्रोत्तीर्णस्यानन्यसाक्षिणः
स्वानुभवैक गम्यस्य पूर्णाहन्तारूपिणः
शैवनैयायिकवेदान्तसाङ्ख्यभोगमोक्ष ———————–णत्वात् ।
अनुत्तरस्य तत्कृष्टस्य । नतु तदधिकारिप्र ———————– एवं यो वेद
तत्त्वेन तस्य निर्वाणगामिनी । दीक्षा (१४) भवत्युक्त नीत्या
जीवन्मुक्तात्मक विभूति रूपस्य । किञ्च - तद्द्वारेणास्योद्धारे कृत
इत्यादि । यच्छन्ति परम ———————– फलं यद्वा समीहितम् । इत्युक्त
श्रीत्रिंशिका शास्त्रोक्तनीत्या ———————– धरण्यादिशिवान्ताध्व
वशीकरणक्षम स्वातन्त्र्यलक्षणस्या परविभूति रूपस्य च
पुरुषार्थस्योपायमिति उक्त रूपोपेय प्रापकं मायातिरोधान
निरोधेन यथा स्थित स्वरूपाभिव्यञ्जकम् । सुनिर्मलभिति ————

प्। ११) ———————– वा वामं तु दक्षिणम् ।

दक्षिणात् परतः कौलं कौलात्परतरं त्रिकम् ।  
त्रैगुण्य विषया वेदानिस्त्रैगुण्यो भवार्जुन ॥  

इतिनीत्या तेषां तत्तद्चर्यादिविधिपराधीनत्वात्
स्वव्यतिरिक्तदेवतोपास्त्यागति परिमितफलप्र————— जनैर्मलयं
तदपेक्षया वाम दक्षिणादिशाक्तदर्शनानिलनिर्मलानि सङ्कोच
कार्यकारणभाववृत्तित्वात् । परमार्थतो न नैर्मल्यम् । इदं तु
वक्ष्यमाणस्वात्मम ————- र प्रभावात्मकत्वात् सुनिर्मलम् ।
ईश्वर प्रत्यभिज्ञाख्यमिति ।

जानता कुर्वताभाव्यं जीवता परमेशिना ।  
यो यो ज्ञानक्रियाविष्टः सससर्वोमहेश्वरः ॥  

इत्यभि युक्तोक्तस्थिता मीश्वरप्रत्यभिज्ञां जनस्या समन्तात्
ख्यापयतीति इश्वरप्रत्यभिज्ञाख्यं शास्त्रमिति । शस्ति ईश्वरः
पुराण शैव रहस्यागमेषु ज्ञाता कर्ता च प्रसिद्धः तस्य या
प्रत्यभिज्ञा स्वात्मनितल्लक्षणज्ञानक्रियाशक्ति दर्शनात् । स
एवाहमित्यत्यनुसन्धानं तामीश्वर प्रत्यभिज्ञानस्यासमन्तात्
ख्यापयतीति ईश्वर प्रत्यभिज्ञाख्यं शास्त्रमिति ।
आत्मानमीश्वराद्भिन्नम् अन्योन्यं भिन्नाः घटादयस्तु
ईश्वरादात्मवर्गाद्यान्योन्यतश्च भिन्ना इति भेदरूप शिव ना ——
व शासननिवारणेन विश्वमय विश्वोत्तीर्णे स्वात्मन्येव शिवरूपे
अधिकारिणं नियमयतीतिशास्त्रम् । शास्त्रात्मना स्थितो देवो मिथ्यात्वं
क्वापिनार्हति ।

नार्थवादादिशङ्कापि शास्त्रेमाहेश्वरे परे ॥  

इत्यभियुक्तोक्तस्थित्या ———————– रूपं य इति
श्रीमानुत्पलदेवाचार्यः । अभ्यधादिति । अभिमुख्येन पश्यन्ती
मध्यमारूपेण स्वयं धृत्वा वैखरीरूपेणानुग्रह जनं
प्रतिपरकटितवान् स्वात्मदेवतैव
प्रबुद्ध्यमानावस्थायामात्मानं परामर्शेनानवरतं पृच्छति
तत उच्यते श्री देव्युवाचेति श्रीलघुवृत्त्युक्तनीत्या अभ्यधादित्यन्वयः ।
भूतार्थोऽप्यवच्छिन्नां वर्तमानतां द्योतयति । उत्तरोत्तर
भाव्यमाचार्यहृदयमविश्याविरतमभिधत्त इत्यर्थः । तत्प्रशिष्य इति
। तस्येश्वर प्रत्यभिज्ञाकारस्य तच्छिष्यस्य शासनानुपालनात्
प्रकर्षेण शेषिभूतः ।

प्। १२) तत्र प्रशिष्यपदप्रयोगेण स्वात्मनस्तु परगुरु कृतशास्त्रसूत्रं
विवरणेऽवश्यकर्तव्यत्वेनादरातिशयो दर्शितः । अभिनव इति । श्रीमानभि
(नव) गुप्ताचार्य श्रीकण्ठनाथ एवेति । प्रतिपाद्य तामितरथा व्याख्या
नृत्वं कथं भवेदित्यम् । इत्युक्त नीत्या श्रीकण्ठनाथरूपत्वेन
पुराणोऽप्यनुग्राह्यानुग्रहार्थमाचार्यरूपेणावतारादभिनवसर्वज्ञ्
अत्व सर्व कर्तृत्वादिधर्मैः परिवृतत्वाद्गुप्तः । गुपूरक्षणे इति
धात्वर्थानुसारेण रक्षितः । किञ्च देशकालादिसङ्कोच वैकल्यात्
स्वयमेकोऽपिस्वातन्त्र्येणैकोऽपि अपूर्वापूर्वरूपविश्वात्मतया
वभासमानादभिनवः । स्वात्मप्रच्छादन क्रीडापण्डितः
परमेश्वरः । इति नीत्या जनैस्तथारूपेणाप्रत्यभिज्ञातत्वात् । यु————-
———- रूपः इत्यभिनवगुप्ताभिधानः
अहमितिपूर्वोक्तमहामन्त्रात्मक पूर्णाहं परामर्शमयः
श्रीमल्लक्ष्मण गुप्ततः -

अशेष विषयाशून्य श्रीसमाश्लेषसुस्थितः ।  

इत्युक्त प्रकारेण शिवादिक्षित्यन्त विश्वशरीरपरमेश्वरस्यावेश ——–
————— दिक्षित्यन्त विश्वनिर्भरः प्रशस्ताभक्तिलक्ष्मीः तया
अविरतं समाश्लिष्टात् श्रीमदुत्पलदेव शिष्यात् लक्ष्मणगुप्ताचार्यात्
बुध्वा उक्त लक्षणं शास्त्रं सम्यक् हृदयं समीकृत्या एकामिति ।
वक्ष्यमाणामपितदानीमेवब ———————– त् प्रत्यक्षी भूतां
तत्सूत्रवृत्तिं तस्येश्वर प्रत्यभिज्ञाख्यस्य शास्त्रस्य संवृत सौत्र
निर्देश विवृतिमात्र व्यापारायामिति निजवृत्त्युक्तनीत्या
संवृतार्थानामपि सूत्राणां प्रत्येकं स्पष्टा ———————–
णम् । स्वनिर्मितबृहद्विमर्शिन्यपेक्षया लघु सङ्क्षिप्तं
ग्रन्थविस्तराभावेत्यप्रयत्नेनाशेषशास्त्रस्वीकारक्षमं कृत्वा ।
किञ्च मायीय शास्त्र प्रतिपादित भेदभारनिवृत्त्या लघु शिष्याणां
धारण योग्यं यथा भवति तथा ———————– सम्पादयतीति ।
प्रतिज्ञाकरणं नामानुग्राह्याणां तत्प्रमेय हृदयं
गमीकरणं नापूर्वनिर्माणं करोमीति वर्तमान प्रयोगो

प्। १३) (१७) वर्तमानसामीप्ये वर्तमानवद्वेति समनन्तर
करिष्यमाणविवरणापेक्षया यद्वक्ष्यति व्याख्या ————————
वृत्तिन्तद्वृत्तिञ्च कृतवान् । ताभ्यामेव सूत्रार्थः प्रकटीकृतो भवति ।

किमनेनापूर्वेण विवरणेन प्रयोजन मित्याशङ्कां
शमयितुमाह - वृत्त्या तात्पर्यमिति । एतेष्विति । अविरतं
परामृश्यमानप्रमेयत्वादनुभवगो ————————
ग्रन्थकारेण शास्त्रकृता ।

पदच्छेदः पदार्थोक्तिर्विग्रहो वाक्य योजना ।  
तात्पर्यकथनं चेति व्याख्यानं पञ्चलक्षणम् ॥  

इत्युक्त नीत्या व्याख्यान लक्षण पञ्चकमध्ये पदच्छेदादि
लक्षणचतुष्ट्यमुत्सृज्योत्तमबुद्धि ————– नि हृदि निधाय
स्वमुखोत्थयावृत्त्या तात्पर्यमात्रं । तद्विचार इति । तस्य तात्पर्यस्य
विचारं निरूपणम्, दृब्धं सन्दृब्धं कथितं तावतासूत्रार्थो
न प्रकटी कृतः स्यादिति । यतस्तस्माद्धेतोः सूक्ष्म बुद्धीन् प्रतीत्थं
स्व ———————— दाद्यूहा समर्थतथासङ्कुचितधीषणायुक्तान् ।
अथवा सूक्ष्मेक्षिकातीक्ष्णबुद्धिमधिकारिणमुद्दिश्य सूत्रार्थं
सूत्रान्तर्गतं प्रमेयं य ईश्वरः स एवाह मित्यनुसन्धान
रूपायाः प्रत्यभिज्ञायाः तद्धेतु भुत प्रत्यभिज्ञाशास्त्रस्य च
विवेचनाय प्रकाशनाय सम्यक् व्याख्यास्ये इति पदच्छेदादि लक्षण
पञ्चक युक्तया प्रतिज्ञादिपञ्चावयव (१८) युक्तया च व्याख्यया
स्फुटी करिष्ये । पूर्वं करोमीति साम्प्रतं व्याख्यास्याम
इत्याभ्यां वर्तमान भविष्यत्प्रयोगाभ्यामविच्छिन्न प्रबन्धतया
व्याख्या तु रविरतं विवरण करणता दर्शिता सर्वोपकारं
महाफलमिदं शास्त्रमिति अस्या निर्मातु
मारब्धायास्तद्व्याख्यायाश्च सर्वोपकारित्वं दर्शयति -
सर्वत्रेत्यादिना ।

एवेति । निर्मातु मारब्धापि आ पर्यवसानं
बुद्ध्यानुभूयमाना व्याख्या सर्वत्रेति । इहये सुकुमार मतयः
अकृततीक्ष्णतर्कशास्त्र परिश्रमाः
शक्तिपातवशोन्मिषत्परमेश्वरसमावेशाभि लाषाः

प्। १४) कतिचिद्भक्तिभाजः तेषामीश्वर प्रत्यभिज्ञोपदेश तत्वं
मनागुन्मील्यत इति श्रीप्रत्यभिज्ञाहृदयोक्तनीत्यां सर्वत्राल्पमतौ
अकृत दीर्घपरिश्रमे सुकुमारमतौ सर्वत्र शास्त्रादिमध्या वसानेषु
परमेश्वरशक्ति विजृम्भारूपत्वात् मित बुद्धि लक्षणं पशुत्वं
व्यपोह्योपकारिणीति ज्ञानक्रियात्मक धर्मसमीप्यकारिणी
पतित्वापादिकास्यात् । यद्वा कुत्रापीति तर्कशास्त्र परिश्रमक्षमेतत् एव
स्वयमेवो हितुं शक्ते यस्मिन् कस्मिंश्चित् महाधिय्यपि । कुत्रापीति । गुरु
मुखादेव श्रोतव्ये शास्त्रस्यातिरहस्ये प्रदेशे उक्तप्रकारेणोपकारिणी
तस्याप्येतद्व्याख्यान मन्तरेण शास्त्रार्थो न प्रकाशत इत्यर्थः ।
नैवा न्यत्रेति । अल्पमतेखगाहितुमशक्यत्वात् सुमहाधियस्तु
स्वयमेवसूत्रार्थ प्रकाशनाच्चेत्युभयत्राप्युपकारिणी मा भूत् । अपि
तु निर्मातर्येव स्वात्मनि मय्येवोपकारिणी
गुरुकटाक्षप्रत्यभिज्ञातस्वात्ममहेश्वरदास्य प्रतिपत्त्यै एना
महमेव पौनः पुन्येन परामृशामीति यावत् ।

एवं स्वव्याख्यायाः सर्वोपकारित्वमुक्तम् । अथक्रमेण
व्याख्यातुं प्रथम सूत्रस्यावतरणिकां दर्शयति - ग्रन्थकार
इत्यादिना प्रयोजनमासूत्रयतीत्यन्तेन । ग्रन्थकारः
श्रीमानुत्पलदेवाचार्यः अपरोक्षात्मेति । एषादृष्टिरहं शिव इति
श्रीशिवदृष्टिकार श्रीसोमानन्दकटाक्ष वेधेन परोक्षे अहमिति
साक्षात्कृते आत्मनि संविन्मये स्वरूपे दृष्टशक्तिकामिति जानामि
करोमीत्यनुभूत ज्ञान क्रियात्मक स्वातन्त्र्यशक्तिकां सर्वज्ञत्वादि
सामर्थ्यपरतां परमेश्वरतन्मयतां परमेश्वरस्वभावतां
परत्र परस्मिन्नधिकारिणि जने परमेश्वर प्रसादादेव लब्ध्वात्यन्त
दुर्लभतद्दास्य लक्ष्मी महमेकाकी सम्पदा
लज्जमानोजनमपीममखिलं स्वस्वामिनं वक्ष्यमाणोपायेन
प्रत्यभिज्ञापयामि । येन तस्यापिपरमार्थलाभेन परितुष्येयमिति
पूर्णकृत्यस्य स्वात्मार्थेन ———— ष्यात्

प्। १५) परार्थ इव ह्यनपाया क्रियेवशात् ।
समस्तयन्त्रणातन्त्र प्रोतनाटकधर्मिणः ॥
नानु ग्रहात् परं किञ्चिच्छेषवृत्तौ प्रयोजनम् ॥ इति ।

संसाराब्धौप्लव इव जगत्तारणाय स्थिरः स्याम् ।

इति च निवृत्तितन्त्रवदधानिकातन्त्र ———— नः परिपूर्णत्वात्
परस्मिन्नधिकारिणि सञ्चिक्रमयिषुः सङ्कामयितु भिच्छुः । अत्र
सङ्क्रमणं ख्यादेरिव पूर्व पूर्व रूपराशि परित्यागेनोत्तर राशि
सङ्क्रमणम् न भवति । अपीत्थमधिकारिणि शास्त्रार्थस्य बिम्बप्रति —-
——– त्या स्वाश्रयभूतोपदेष्ट्वहृदया परिवर्जनेनोपदेश्य
बुद्धिनिवेशनं यद्वक्ष्यति । एवं
स्वसंवेदनोपपत्त्यागमसिद्धमित्यादि । तदेव सङ्क्षेपेण शिष्य
बुद्धिषु निवेशयितुमित्यन्तं स्वतादात्म्य समर्पणपूर्वकमितिस्वस्य –
———- प्रथमं समर्त्याधिकारिजने परमेश्वर तन्मयता सम्पत्तिं
निर्विघ्ना भवत्विति मत्वा तदर्थं स्वात्मनो विरतं वर्तमानमपि
महेश्वर दास्यात्मकं तादात्म्यं परामृश्याविघ्नेन तत्सम्पत्तिं
मन्यमान इति तस्य परमेश्वरस्तन्मयसं———— परमेश्वरोत्कर्ष
प्रह्वता परामर्शशेषतयेति । जगतां परमेश्वरो भवान् परमेकः
शरणोगतोस्मिते ॥ शरणानामपि शरणं
त्रिभुवनगुरुमम्बिकाकान्तम् । परमेश्वरता जयत्यपूर्वा————
तवविश्वेशयदी ———— । स्तोत्रावली स्थित्या परमेश्वरस्य सृष्ट्यादि
कृत्याधिकारिणां ब्रह्मविष्ण्वादीनामपि ईश्वरस्योत्कर्षं
माहात्म्यं स च महान् ब्रह्मादीनामपि सर्गादिहेतुत्वादिति स्तोत्रावली
व्याख्यानोक्तनात्यातान् प्रत्यपि सृष्ट्यादिकारित्वम् ॥ तदुक्तं -

———— दि देवेश प्रभाव प्रभवा व्ययेति । प्रह्वतानामास्मिन्
परमेश्वरे नमः देहादि प्रमातृता निमज्जनेन तदेवा

प्। १६) विशामीति । साम्बव्याख्यानोक्त नीत्या अधिकारिणोदेहादि
प्रमातृता निमज्जनं तयोः परमेश्वर प्रह्वतयोः परामर्शं
परमेश्वरो विश्वोत्कृष्टजनं प्रतिप्रह्वीभावमनुसन्धानं तस्य
शेषतया पात्रत्वेन जनस्य तत्पात्रतामापाद्य परमेश्वरतादात्म्य
योग्यता बुद्ध्येति प्रोक्त लक्षणतादात्म्यस्य योग्यता पादनबुद्ध्या
तदधिकारित्व सम्पादनमनीषया प्रयोजने कथिते सति तदिच्छया
सर्वज्ञत्व सर्वकर्तृत्वाद्यैश्वर्य लक्षणपरमेश्वरता लाभरूपं
प्रयोजन मासूत्रयति उपर्युपरितात्पर्यं विस्तरेण प्रतिपिपादयिषुः
अत्रसङ्क्षेपेण सूचयतीत्यर्थः । तत्रापरोक्षात्मेत्यादिना
सञ्चिक्रामयिषु रित्यन्तेन । कथञ्चिदित्यादि इच्छन्नित्यन्त सूत्रार्धस्य
तात्पर्यम्, स्वतादात्म्येत्यादिना मन्यमान इत्यन्तेन पुनरपि
कथञ्चिदासाद्येत्यादि दास्यमित्येतद्व्यञ्जितम् ।
परमेश्वरोत्कर्षेत्यनेन मेहेश्वरस्येति पदस्य तात्पर्यं दर्शितम् ।
प्रह्वते त्यनने दास्यतात्पर्यं परमेश्वरेत्यादि बुद्ध्येत्यन्तेन
उपकारमित्यस्य प्रयोजनमित्यनेन समस्तेत्याद्युत्तरार्धस्य तात्पर्यम् ।

एवमवतरणिकां प्रदर्श्य कथं
चिदासाद्येत्यादिवाक्यमुपक्रमते -

अकृतककृतकधर्मज्ञानयोगाद्यपेक्षया
सकलपुरुषकारोल्लङ्घिनी स्वैर वृत्तिः ।

अवृणुत शिवभक्ति श्रीमती सा स्वयं मां
व्यवृणुतच तदानीमेव निर्वाण लक्ष्मीम् ॥

इत्युक्तनीत्या सकलपुरुषकारोल्लङ्घिनी जन्मान्तर सहस्रै इत्यलभ्यः
कोऽपिपरमेश्वरप्रसाद प्रकारः सूचितः । किं च तत्प्रसादघटित
तदभिन्न श्रीगुरुचरणाराधनप्रकारोऽपि आसाद्येत्यनेन गर्भी
कृतं न चा स्वात्मनः परमेश्वरदास्यपरिपूर्णता गमयितृत्वं
दर्शितम् । अनेन परप्रयोजन शास्त्रकरणे योग्यता प्रकटिता । जन विषये

प्। १७) महेश्वर प्रत्यभिज्ञासादनात्मक प्रापकत्वं च दर्शितम् ।
आसाद्येत्यत्र स्वात्मानं जनञ्च प्रतिद्वौणिचौ द्रष्टव्यौ ।
महेश्वरस्येत्यनेन (२२) महच्छब्देन परमेश्वरस्यैश्वर्यस्य
देशकालापरिच्छिन्न विरिञ्च विष्णुसदाशिवाद्यैश्वर्य वै
लक्षण्यभावेदितम् । यद्वक्ष्यति एतासां च ज्ञानादि शक्तीनां
मसङ्ख्य प्रकारो वैचित्र्यविकल्प इति सामर्थ्यं स्वातन्त्र्यं
पराधीनं पूर्वं महदैश्वर्यं तन्निर्मित
ब्रह्मविष्णुरुद्राद्यैश्वर्यापेक्षयोच्यत इति । उक्तञ्च
श्रीपरमार्थसारे-

दिक्कालकलनविकलं ध्रुवमव्ययमीश्वरं सुपरिपूर्णम् ॥  

ईश्वरशब्देन शिवादि सर्वप्रमातृगत ज्ञानक्रियास्वतन्त्रत्वं दास्य
———— परमेश्वरधर्मिभूत सर्वज्ञत्वं सर्वकर्तृत्वादि
सर्वैश्वर्यदानपात्रतोक्ता । जनस्येत्यनेन जायमानस्य
सर्वस्याधिकारित्वं दर्शयता वर्णाश्रमाद्यधिकारिनियमाभावः
सूचितः । तदुक्तं श्रीस्पन्दनिर्णयेतद्वदधिकारिनियमसङ्कोचा भाव
———— पीति । किञ्च जनस्येत्यक्षर निरुक्त्या अनवरत जनन
नाशधर्मित्वेन दुःखभाजनत्वमवलोक्य तदुद्धरणक्षमस्वकीय
करुणाविषयत्वमपि निर्दिष्टम् ।

यथैवा ज्ञातपूर्वोऽयं भवेद्भक्तिरसो मम ।  
घटिकस्तद्वदीशानः स एव परितुष्यति ॥  

———— र्दितानां त्वं नःत्राता भवकरुणयेति । अपि शब्देन तस्यापि
परमार्थ लाभेन परितुष्येयमित्युक्तनीत्या स्वात्मनः
परमेश्वररूपतया प्रत्यभिज्ञातत्वात् पूर्णस्य
स्वाभिन्नपरप्रयोजनातिरिक्त प्रयोजनाभाव ———— स्यान्तः स्थिताया
अपिमायाशक्ति व्यामोहितत्वेना प्रत्यभिज्ञातया
जानक्रियाशक्तेराविष्करणेन परमेश्वर समीपकरणमुक्तम् ।
यथोक्तम् -

यो नाम जानाति करोति यास्मिन्
देवो नरो वा भुवनेसवीरः । इति ।

उद्घो —– ————————————————क्षणमीशताया

प्। १८) इति । इच्छान्नित्येनेच्छाशक्तिविषयी कृत उपकारः
प्रत्यभिज्ञोपपादनात्मिकायाः स्वप्रवृत्तेर्हेतुत्वेन दर्शितः । शतृ
प्रत्ययेनेच्छायाः
प्रत्यभिज्ञानोपपादनात्मकक्रियापर्यन्तानुवृत्तिः सूचिता । इच्छैव
हेतु ———— नेने च्छाया एव क्रिया पर्यन्तीभावः सूच्यते (सूचितः)
समस्तसम्पत्समवाप्तिहेतुमित्येतत् दास्यस्यो पकारस्य
प्रत्यभिज्ञायायाश्च विशेषणत्वेन सम्बध्यते । तत्र समस्तेति
सम्यगस्तायाः पुरैवसिद्धायाः अपि मा ————
परमेश्वरतादात्म्यस्वरूपायाः सम्पदः सम्यक् ————

नध्यायतो न जपतः स्याद्यस्या विधिपूर्वकम् ।  
एवमेव शिवाभासस्तन्नुमो भक्तिशालिनम् ॥  

इत्युक्त नीत्या ध्यान जपाद्यायासं विना प्राप्तेर्हेतुमिति
दास्यविशेषणम् । परमेश्वरतादात्म्य गु ————
ब्दतन्निष्यन्दरूपाणां सर्वज्ञत्वादि लक्षणानां समस्तानां
सम्पदां समवाप्तेः सम्यगभिव्यक्तेर्हेतुमित्युपकार विशेषं
समस्तायाः शिवादि धरण्यन्तशक्तिचक्रेश्वरतारूपायाः सम्पदः
समवाप्तेः हेतुमिति तत्प्रत्यभिज्ञाविशेषणम् । अनेन षष्ठीसमासेन
परमेश्वरतादात्म्य शिवादि क्षित्यन्त शक्तिचक्रेश्वरता
लाभलक्षणं च प्रयोजन त्रयमासूचितम् । समस्तानां बहिरन्तः
करणविषयाणां नीलसुखादिप्रमेयानां या सम्पत् तथा तथा
प्रकाशनं तस्याः सम्यगवाप्तिः । तत्तद्विभिन्न संवित्तिमुखैरेक
प्रमातरि ।

प्रतितिष्ठत्सुभावेषु ज्ञातेयमुपपद्यते ॥  

इति लक्ष्यमाणनीत्या । तच्चाक्षुषादि प्रमाण
प्राणभूतान्तर्मुखप्रमोहद्वारेण विमर्शमये प्रमातरि
विश्रान्तिः सैवहेतुर्यस्यास्तत्प्रत्यभिज्ञायां तामिति बहुव्रीहौ
स्वात्मानमभिज्ञानात् पुण्यापुण्यकर्मजनन द्वारा
संसारहेतुत्वेन विवक्षितस्यापि नीलसुखादिविषय जातस्थान्तर्मुखे
विश्रान्तिरेव परशक्तिपात पवित्रितहृदयस्य
स्वात्ममहेश्वरप्रत्यभिज्ञाने उपाय इति । सुव्रतिनोक्तम् नेत्रादि
मार्गैर्निखिलः पदार्थो निलीयते नि ———— दिरूपम् ।

प्। १९) यत्रस्वयं तद्विमृश ———————- ॥
—————-दानस्य पुंसां पुण्यादि हेतुतः । नीलादेर्मूलविश्रान्ति
द्वारेणैवापरोक्षिताम् ॥ धान्यैर्महेश्वरस्वात्मप्रत्यभिज्ञान
शालिभिः । प्रत्यभिज्ञामिति तस्य तस्य महेश्वरस्य बन्धिनीं विमर्श–
—— ततया विमर्शपदवीमप्रा———————- पुनः सद्गुरु
सपर्यया स्वात्मन्यभिमुखीभूतां ज्ञां प्रकाशात्मिकां
ज्ञप्तिं । एवं विध प्रत्यभिज्ञाहेतुत्वात्त देतत् प्रत्यभिज्ञा
सञ्ज्ञं शास्त्रं च । किं च तत्प्रत्यभिज्ञामिति तच्छब्देन जनोपि
परामृश्यते । तेन जनस्य महेश्वरं प्रतिप्रत्यभिज्ञा

अनुग्राह्यास्त्वया शिष्याः शिवशक्तिप्रचोदिताः ।  
मदीयां तनुमास्थाय त्वमेषां कुर्वनुग्रहम् ॥  

इतिनीत्यानुग्रहयोग्यता प्रकाशनं जनं
प्रतिमहेश्वरप्रत्यभिज्ञातदभिज्ञात प्रदर्शनेन महेश्वरत्व
प्रतिपाख्यापनम् । इति जन महेश्वरयोः सामान्योयं तस्य
प्रत्यभिज्ञेति शेषषष्ठी समासः । अनेन चार्यस्य
परमानुग्रहरूपं सौजन्यमभिव्यञ्जितम् । तामेनां
प्रत्यभिज्ञामुपपादयामीति तस्याविच्छिन्नसम्भवः सम्भवन्तीं
तां सम्पादयामीति ।

ननु ग्रन्थस्याविघ्नेन परिसमाप्तये प्रथमं मुखत एव
परमेश्वरो जयति ———————- न्द इति जयशब्दो वा क्रियमाणो
दृश्यते । अनेन ग्रन्थकारेण किमिति न
विहितमित्याशङ्क्यास्यमहेश्वरस्येति दास्यमिति च वदताचार्येण
तदुभयमपि मुखतः प्रकटीकृतमिति साधयितुं नम प्रह्वत्व ———
————- वत्प्रसिद्धमर्थमाह - इहेत्यवि प्रतिपत्तिद्योतकम् व्ययम् ।
अस्मिन् सर्वस्यविवादेन प्रकाशमाने जगति काय वाङ्मनसान्तदेक
विषयतेति । तदेक विषयत्वं नाम त्व ———————- ———————-
त्र महाधनः ।

कदा शम्भो भविष्यामि कर्म निर्मूलन क्षमः ॥

तदविभेदमतेरपरं नु किंसुखमिहा — विभूतिस्थ —— ।

प्। २०) ———————- किं कुपथमेति मनः परिहृत्यताम् ॥

क्षणमपीश मनागपि मैवभूस्त्वदविभेद रस क्षतिसाहसम् ।

इति स्तोत्रावल्युक्तनीत्या विभूत्याद्यनपेक्षणता शू————–
प्रोक्तलक्षणं परमेश्वरं प्रतिकायवाङ्मनसां
सर्वाधारभूतस्य कायस्य प्रभवतां प्रणामाङ्कश्च शिरसे
एवैक प्रभावित इति कायप्राधान्य निमज्जनात्मक प्रणामेनेति चोक्त
नीत्या स्थूलो ———————-त्मकः प्रणामं वाचस्तु महेश्वरेति
यश्चास्ति नामकं वाय्विभूषणमित्युक्त नीत्या महेश्वरोत्कर्ष
परामर्श प्रधानत्वं मनसश्च———-

चित्रं निसर्गतो नाय दुःख बीजमिदं मनः ।  
त्वद्भक्तिरससिक्तं यन्निश्रे---------------------- ॥  
सैव विभोऽर्यन्ति केचित्त्वामभितः स्थिताः ।   

इत्युक्त नीत्या परमेश्वरानुसन्धानायत्तत्वं
स्वरूपानुसन्धानं नियोजनानि यमेन प्रेरणा सा लक्षणं यस्या
स्तादृशी । येति प्रसिद्धा । इय मित्यनुभूयमा ———— रस्यार्थः । सा
च प्रह्वता प्रामाणिकस्य युक्ति तत्त्वविदा तथा चेत् कर्तुमुञ्चिता
नमस्करणीयस्य परमेश्वरस्य शरणादीनां ब्रह्म
विष्णुरुद्रादीनामपि शरणं विश्वेश्वरोऽपि सदाशिवादीनामपि
स्वामी इति स्वरसोद्वलना ज—– स्तोत्रैक देश व्याख्यानोक्तनीत्या च
ब्रह्मविष्णु रुद्रेश्वर सदा शिवादिभ्योऽप्युत्कर्षं महत्त्वं यदि
पश्येत् अन्तर्मुखया दृष्ट्या यद्यनुसन्दध्यात् । अन्यथेति
नमस्करणीयस्य सर्वोत्कर्षादर्शने -

त्रिप्रत्ययमिदं ज्ञानं गुरुतः शास्त्रतः स्वतः ।  

इत्युक्त नीत्या परमेश्वरभिन्न सद्गुरूपदेश
माहेश्वरशास्त्रश्रवण स्वानुभवात्मिकां युक्तिम् । अपरामृशतः
अविचारयतः । परमार्थरूपेऽपीति । संसारो यदि परावस्तितीर्षितोनः
पारस्थं पशुपतिमेक माह्वयेमः ।

आहुतैरिव पशुभिः कृतं महद्भिः
न ह्यब्धिं तरतिशिला शिलोच्चयेन ॥

प्। २१) इति श्रीमद्वादिप्रलयभैरवोक्त नीत्या तत्तत्सृष्ट्याद्येकैक ———-
——————————————————————————– पि
नमस्तदपिशुश्रुम देवताभ्य

स्त्वामन्तरेण मनसा वचसा न भूमिम् ॥

इति स्थित्या नमस्कारोऽङ्गीकरणा योग्योऽपि नमस्कारोद्यतस्य
सांसारिक ब्रह्मादिपशुजनमध्यपातित्वमेव । एतदेवा गमशक्त्या –
——————–तवैष्णव ———————- दर्वाचीनपदे स्थिताः
वैष्णवाद्या इत्यादि ग्रहणात् शैव नैयाधिकादयो गृह्यन्ते ।
विद्यारागेपरञ्जिता इति किञ्चिज्ज्ञत्वरूपया अविद्यया
विषयाभिष्वङ्गरूपेण रागेण तदुभयो पलक्षिताभिः
किञ्चित्कर्तृत्वनित्यत्व कर्तव्यानियमनरूपस्वरूपा ———————-
कला कालनियतिभिश्च किञ्चिज्ज्ञोहं किञ्चित्कर्ता हमित्याद्यभिमानेन
रूषिता ते परं विश्वोत्तीर्ण विश्वपूर्णरणादिकर्तारं च ।
देवन्दिवुक्रीडादाविति धातुगत्या विश्वसृष्ट्यादि क्रीडाविजिगीषा
तद्विश्वसम्बन्धाशेष व्यवहारानवरत प्रकाशमानत्वपरिमित
मायीय प्रपञ्च सृष्ट्यादि कृत्य नियुक्त ब्रह्मादि स्तुत्यत्वं तत्पर्यन्त
गन्तव्य भूमित्व षड्गुणयुक्तं परमकारणं कारणानां प्रोक्त
ब्रह्मादीनामपि कारणं तेषां सृष्ट्यादि क्रीडा परं शिवं
सर्वकर्तृत्व सर्वज्ञत्वादि श्रेयः शालिनम् । न विदन्ति अहमिति
स्वात्मत्वेन तिष्ठन्तमपि गुरुकटाक्षाभावान्न जानन्तीत्यर्थः । तान्
वैष्णवादीन् । माया अनात्मनि देहादावात्ममानित्वम् । आत्मनि
संविद्रूपे अनात्म मानित्वं चेति विदधती पारमेश्वरी
स्वातन्त्र्यशक्तिः अमोक्षे विश्वमय विश्वोत्तीर्ण स्वात्ममहेश्वरत्वं
समावेशात्मकं मोक्षं प्रच्छाद्या मोक्षे कला कालादि कलिते
परिमितैश्वर्य ब्रह्मादिपदे मोक्षलिप्सया इदमेव परं तत्त्वमितः
परं नान्यदिति अभिमननरूपया परमया भ्रमयति तत्रैव पातयति
ते आत्मोपासकाः विष्णुरेवात्मा ब्रह्मैवात्मेतिमत्वा
आत्मानमुपासकास्तैस्तैर्मन्त्रविशेषैः साधयन्तः परं
विश्वोत्तीर्णञ्च परशिवात्मकं पदं न गच्छन्ति मायाशृङ्खला
बन्धत्वात् नारोहन्तीत्यर्थः । तावन्ति हीति । अतः ष ———————-

प्। २२) ————— स्वात्मत्व निश्चयात् ।

वेद्यांशे मुक्तिरस्यस्यादावृत्तिः स्वोर्ध्वतः परम् ।  

इति श्रीतन्त्रवटधानिकोक्तनीत्या निकृष्टे मायान्त तत्ववर्तिनि परिच्छिन्ने
ब्रह्मादिपदे । हिशब्दो निष्कर्षद्योतकः । मायीयेत्यादिभेदोल्लासहेतुः
स्वातन्त्र्यशक्तिर्मायेता ———————या मायया
किञ्चिज्ज्ञत्वविषया भिष्वङ्ग मयापूर्णत्व
किञ्चित्कर्तृत्वरूपाभिरशुद्धविद्यारागकालाभिस्तदुपलक्षिताभ्यां
पूर्वापररूप क्रमकर्तव्या कर्तव्यात्मकनियम हेतु भूताभ्यां
काला नियतिभ्यां च सञ्चार्यमाणस्य परवशतया प्रेर्यमाण ——
————————-अः पशुमातरः ।

इति श्रीशिवसूत्रोक्त नीत्या

शब्दराशिसमुत्थस्य शक्तिवर्गस्य भोग्यताम् ।  
कलाविलुप्तविभवो गतः सन् स पशुः स्मृतः ॥  

इति श्रीस्पन्दशास्त्रोक्तनीत्या माहेश्वर्यादिभिः पाशनीयत्वमेवन तु
सर्वज्ञः सर्वकर्ता च व्यापकः —————————————————-
—————– दार्ढ्याच्छिवो भवेत् ।

इति श्रीविज्ञानभैरवोक्त नीत्या सर्वज्ञत्वादिगुणयुक्त
महेश्वररूपस्वस्वरूप प्रत्यभिज्ञानात्मकं पतित्वम् ।
इतरापेक्षया त्विति । तस्येन्द्रचन्द्रादिदेवताराधकजनापेक्षया तेभ्यः
इन्द्रचन्द्राद्याराधक——- न्त तत्वोत्तीर्णत्वं विष्णू पासकस्य
प्रकृत्यन्ततत्वोत्तीर्णत्वं रुद्रोपासकस्य मायान्ततत्वोत्तीर्णत्वं
ईश्वराराधकस्य शुद्धविद्यान्ततत्वोत्तीर्णत्वं
सदाशिवाराधकस्येश्वरान्ततत्वोत्तीर्णत्वम् । शिवाराधकस्य शक्त्यन्त
तत्वोत्तीर्णत्वं ——————— दिशिवान्त तत्वोत्तीर्णत्वं इत्येवं
रूपेण तारतम्येन समुत्कर्षोऽपिस्यात् । एतदेव
संवादयतियथोक्तमित्यादिना वरदः । इष्ट पोषणमनिष्ट
सदप्लोषणं तदुभयात्मकं परम् । वारि वहिमयमर्थिने ददत् देव
एव व ——- —————————- ॥ ——- रोदार चेतसां
वरदत्वयिश्लाघ्यः पूजाविधिः कोऽपि यो न याच्चा कलङ्कितः
इष्टपोषक मित्युक्तनीत्या अनिष्टसम्मतं मायात्मकं

प्। २३) भेदपदं प्लोषयित्वा परमाद्वयरूपसंविन्नैर्मल्य रूप
प्रसाद प्रदः अकृत्रिमैः अकृतकैः अ ——- वभट्टारक मुखोद्गतैः
रुद्रया मलादिभिस्तन्त्रैः किञ्च

अन्तर्मुखैरिन्द्रियैः शम्भो रभिन्नहृदया जयन्ति गुरवः ।  
पुरा निर्व्युत्थान समाधान प्राप्त पर्यन्त सम्पदः ॥  

इत्युक्तनीत्याभ्युत्थानशुन्यां त्वदनुभूतिं त्वत्समावेशरूपां
विश्वमय विश्वोत्तीर्णत्वात् समावेशकाष्ठां । तवविभूतिमिति पाठे
तव सम्बन्धिनीं जीवन्मुक्त्यात्मिकां सम्पदम् । पश्यतः
साङ्क्षात्कुर्वतः सकलादि शिवान्त प्रमातृसप्तकोत्तीर्णं व्युदस्य
विहाय । अपरतः अपरत्रसदाशिवादिपदे विभ्रमादपि भ्रान्ति वशात् अपि
स्तुति स्पृहास्तोतुमिछा, कस्य नाम भवेत् कस्यापि भवतीत्यर्थः ।
अपिर्भिन्नक्रमः । अत्रापरत इति सार्वविभक्तिकस्तासिः सप्तम्यर्थे वर्तते
श्रीमद्विद्याधरपतिरित्यनेन प्रसिद्धनामधेयेन संवादस्य
प्रामाण्यं दर्शयति सदाशिवादेर्निकृष्टत्वं
परमेश्वरस्योत्कृष्टत्वं चागमकाण्डे एवमन्तर्बहिर्वृत्तिरित्यादिना
परमाक्षर विग्रह इत्यन्तेन ग्रन्थेननिरूपयिष्यामः । तस्मादिति यदि
सर्वतोनमस्करिणी यस्योत्कर्षं पश्येदिति ग्रन्थोक्ताद्धेतो ——-
क्तरूपप्रह्वतालक्षणनमस्कारे नमस्करणीयस्य परमेश्वरस्य
निखिलेभ्य उत्कृष्टत्वेनाभिमतेभ्यः सदाशिवादिभ्यः उत्कर्षस्य
महात्म्यष्य परामर्शनम् । त्रिप्रत्ययमिदमित्युक्तनीत्या
गुरुशास्त्रस्वानुभवै ——- करयुयम् । तत्र तावत् ——-
यागोनाभ्युपाय ——- । ज्ञप्तावुपाय एव स्यादिति येज्ज्ञप्तिरुच्यते ॥

प्रकाशत्वं स्वप्रकाशे तच्छस्यादन्यतः कथम् ।  
संवित्तत्वं सप्रकाशमित्यस्मिन् किन्नुयुक्तिभिः ॥  

तदभावे भवेद्विश्वं जडत्वादप्रकाशकम् ।  
यावानुपायो बाह्यः स्यादान्तरोवापि कश्चन ।  
स सर्वं तन्मुखप्रेक्षी तत्रोपायत्वभाक् कथम् ॥  

प्। २४) उपायैः स शिवो भाति भान्ति ते तत्प्रसादतः ।
स एवाहं स्व प्रकाशो भासे विश्वस्थ रूपकः ॥

इत्याकर्ण्य सकृद्वाक्यं गुरोः केचन निश्चिताः ।  
विना भूयोनुसन्धानं विनासं विनाया स्थिता ॥  

इति तन्त्रालोक तन्त्रवटधानिकोक्तनीत्या परमेश्वरोत्कर्ष स्वप्रह्वता
परामर्शात्मकं पुरुषकारं विनापि आयात दृढेश्वर
शक्तिपातस्य संसारिणोऽनुगृह्णाति । विश्वस्य जगतः
प्रभुरित्युक्तनीत्या स्वैरत एवागतापि च पारमेश्वरानुग्रहस्य ।
ध्यानायासतिरस्कार शुद्धं यत्पूजनोत्सुकम् । इत्युक्तनीत्या
उच्चारकारणध्यानायासं विना स्वयमेव स्त्वात्मनैवा गत्य इयमिति
समावेशेनानुभूयमाना इयतीति शिवादि
धरण्यन्ततत्वषट्त्रिंशन्मयी विश्वोत्तीर्णस्य परमशिवस्य भूमिः
पूर्णाहन्तात्मिका स्थितिः । हृदय गोचरं हृदयङ्गमतां अभ्येति
आभिमुख्येन प्राप्नोति । अत्रेति - परमशिवभूमौ । स्वात्मीयः
पुरुषकारः पुरुषस्य कायवाङ्मनः कृतवन्दनध्यानात्मा ।
आगमोद्घोषितः परमेश्वरोत्कर्षपरामर्शा ——- पुरुषकारः कोऽपि
न निर्वहति न कश्चिदभ्युपायो भवति । सर्वस्य वाङ्मनः काय कृतस्य
पुरुषकारस्य माया प्रमातृकृतत्वात् मायी यत्वेन । अत एव स्व स्वरूप
प्रकाशना क्षमत्वात् अन्धतम स प्रख्यस्य अमायीयं मायोत्तीर्णम् ।
अत एव ——- णव मायीयक ——- रहितत्वात् शुद्धप्रकाशस्य स्वस्य
पुरुष कारस्य प्रतिद्वन्द्विनं विरोधिनं प्रति उपायैर्नशिवो भातीति
तन्त्रवटधानिकोक्त नीत्या उपायता नुपपत्तेः । यद्यत्येव मेवैतत् ।
तथापि तदेव पारमेश्वरं तथा विभमिति प्रोक्त पुरुषकार ————–
। प्रख्यो पाख्या क्रमेणेति - उपदेष्टुः स्वात्मानं प्रति प्रकर्षेण
तस्य स्वरूपस्य प्रकथनं व्याख्या । उपदेश्य स्वरूपे तत्स्वरूप
प्रख्यापन मुपाख्या इत्येवं भूतप्रख्यो पाख्या क्रमेण
स्वात्मपरावभास विषय भावजिगमिषयेति ———————————–
सस्य च विषय भावो नामे दमिति हृदयङ्गमीकरणम् ।

प्। २५) तज्जिगमिषया तदगमयितुं प्रापयितुमिच्छया जय जय भाजन
यज जित जन्म जरामरण जगज्ज्येष्ठ । अग्नीषोमरवि ब्रह्म
विष्णुस्थावरजङ्गम । स्वरूप बहुरूपाय नमः संविन्मयायते ।

यत्र तेजांसि तेजांसि तमांसि च तमांस्थलम् ।  
तेजांसि च तमांस्येत द्वन्दे ज्योतिरनुत्तरम् ॥  

यस्यां सदात्मना पूर्णमिच्छा ज्ञान क्रियात्मना ।  
विसृज्यते यतश्चेदं वन्देऽनुत्तर -------------------------- ॥  

——- त्कर्ष जयत्यादि शब्दविशेषाभिधायिनं जयति शब्दम्,
आदिग्रहणात् स्वप्रह्वताभिधायिनं नमः शब्दं च अनुवेध्य
अनुप्रवेश्य निखिलोत्कर्ष परामर्शनमपि तत्र स्वीकार्य मित्युक्तत्वात्
निखिलोत्कर्षपरामर्शात्मा प्रोक्त प्रह्वता लक्षणे —————————

  • र्षोत्कर्षविशेषाभिधायी जयार्थ आक्षेप्यः अन्तः स्वीकार्यः ।
    तत्रैतन्मातृतामात्र स्थितौ रुद्रोऽधिदैवतम् । भिन्न प्रमेयप्रसरे
    ब्रह्मविष्णू व्यवस्थितौ ॥ इति वक्ष्यमाणनीत्या माया प्रमातृवर्गः
    सृष्टि स्थितिसंहार दशाधिष्ठातृभू ————– भ्यः
    शुद्धविद्येश्वर सदाशिव तत्ववर्तिमन्त्रमन्त्रेश्वर मन्त्रमहेश्वर
    प्रमातृ वर्गाधिष्ठातृ भूतेभ्यः अनन्तेश्वर सदाशिव
    भट्टारकेभ्यः एतदशेषाधिष्ठातृभूतात् भवावतः शिवाच्चाति
    शयितेन समुत्कर्षेण शालिनि शोभमाने————– र्यविप्रुङ्भिरीश्वरी
    भूताः सभगवाननवच्छिन्न प्रकाशानन्द स्वातन्त्र्य परमार्थो
    महेश्वर इति वक्ष्यमाणस्य तादृशि प्रोक्तलक्षण महेश्वरस्य
    जयपदो दीरणेऽपि तादृग्विधजय भाजिनं महेश्वरं प्रतियेयं
    कायवाङ्मनसां तदेक विषय ——- नियोजना लक्षणा प्रह्वता सा
    नमस्कारस्यार्थ इत्युक्तनीत्या कायवाङ्मनोरूपं स्वात्मज्ञानं
    प्रह्वीकुर्वाणस्य अतएव तटस्थस्य तस्य दीयते अस्मै स्वामिना सर्वं
    यथाभिलषितमिति दास इति वक्ष्यमाणपरमेश्वर दास्य मप्राप्तस्य ।

तदत्र विदधत्पदं भुवन कर्तृता मात्मनो

प्। २६) विभाव्य शिवतामयी मनिशमाविशन् सिध्यति ।

इति वक्ष्यमाण परमेश्वररूप स्वात्म प्रत्यभिज्ञानात्मक
जीवन्मुक्ति तत्समावेशाभ्यास विभूत्यात्मक सिद्धिद्वयाभावात्
परं केवलं अनात्मोपकारित्वमिति प्रोक्त लक्षणेन समुत्कर्ष
विशेषेणाक्षिप्तः हठा दाकृष्टो नमस्कारः अवश्य मभ्यन्तरी
कार्यः परमेश्वरो जयति परमेश्वरं नमामीति उभयमप्येक दैव
प्रयोक्तुमशक्यमित्यनया युक्त्या जय नमस्कारयो रेकतरस्य प्र ———
—– अन्यतरस्या प्रस्तुतस्य स्वोचितवाचकरूप शब्दा भावा
दर्थाक्षिप्ततावश्यमङ्गी कर्तव्या । अन्यतरस्यार्थः अस्मिन्नाप्त
इत्यङ्गीकर्तव्यम् । वन्दे अवगच्छामि स्मरामि जपामि ध्यायामीति
परमेश्वरविषयाणां वन्दन मनन स्मरणादीनामपि
वन्दितृमन्तृ स्मर्तृ जप्तृ ध्यातृ रूपस्य प्रमातुः स्वात्मना
प्रबन्धरूप नमस्कारार्थ परमार्थत्वात् वन्द्या वगन्तव्य
स्मर्तव्य जप्य ध्येयपरमेश्वरोत्कर्ष वाचि यजत्यर्थ
परमार्थत्वाच्च इयमितिप्रोक्त लक्षण स्वात्म प्रह्वता
परमेश्वरोत्कर्षता रूपा वर्तनीपारमार्थिकी पद्धतिः । नमस्कार
जयत्यर्थव्यतिरिक्तासरणिर्नास्तीत्यर्थः । एवं जयनमस्कारयोरेकतरे
प्रयुक्तेऽन्यतरस्यार्था त्रिप्तता । नतु तस्मिन् स्वोचित शब्द परामर्शो
नास्तीति मत्वानेनायं ग्रन्थकृता तादृक् क्रम आश्रितः । यत्र क्रमे
द्वयमिति जयत्यर्थो नमस्कारार्थश्चेति उभयमपिस्वोचितशब्द
परामृष्टमेव । एतच्छ महेश्वरस्य दास्यमित्यनयोः पदयोरर्थं
व्याख्यानावसरे प्रकटीभविष्यति । जय नमस्कारयोः स्वोचितशब्द
परामर्शश्च सर्वजनहितत्वादिति सर्वस्यापि हृदयं गमत्वाद्युक्ति
युक्तः । स हि स्वशब्दपरामर्शः सर्वस्यैवातीक्ष्ण बुद्धेरपि झटिति
श्रवणपथ प्रविष्टमात्र एव हृदयङ्गमः । स्वोचित वाचक शब्देन
विनान्यतमशब्दः अर्थाक्षिप्तस्तु कतिचिदिति
विवेकक्षमानुत्तमाधिकारणः प्रतिनत्वकृत तीक्ष्णतर्कपरिश्रमान्
सुकुमारमतीन् प्रति हृदयङ्गमो भवति । अत्र हेतुः जयत्यर्थ वाचकस्य
जयशब्दस्य मुखतः प्रयुक्ते अर्थाक्षिप्ते नमोऽर्थे

प्। २७) कृतस्व —————– मा रूप वाक्तत्वावमर्शासम्भवात् । एवं
नमोर्थे वाचकेऽपि नमः शब्द मुखतः प्रयुक्ते अर्थाक्षिप्त जयत्यर्थ
स्वप्रतिभोदित जय शब्द परामर्शासम्भवात् झटित्यतीक्ष्णधियां
तदर्थो न हृदय —————– येण इमां युगपदेव जय
नमस्कारार्थ वाचितां लोकोत्तरां सरणिं
सम्यगनायासेनानुसरतिस्म अङ्गीकृतवान् । एव मादि वाक्ये जय
नमस्कारार्था वा चार्येण प —————– त्ये तपदं व्याख्यातुम् ।
विज्ञानाद्वैतमात्मेश्वररहित तया सौगताः सङ्गिरन्ते

ब्रह्माद्वैतं त्वविद्योपधि सहितमनिर्वाच्यमाग्नाय निष्ठाः ।

संवित्स्वातन्त्र्यमेतद् घटित सर —————–

—————– मागमानां हृदयमभिमतं
प्रत्यभिज्ञोपदिष्टम् ॥

इत्यभि युक्तोक्तनीत्या ईश्वराद्वयदर्श नस्य विज्ञानाद्वैतं
तस्माद्वितादि दर्शन वै लक्षण्यं दर्शयन्नेतद्दर्शन सारभूतां
प्रतिज्ञा मु———————————- जगति यद्यत् प्रमातृ प्रमाण
प्रमेयरूपं किञ्चन वस्तु स्फुरति तत्तद्वक्ष्यमाणेश्वररूप
स्वात्मप्रथामात्रम् । तत्तत्प्रथामात्रमिति सौगताः । स्वात्मप्रथा
मात्रमिति वेदान्तिनः । तदुभय व्यवच्छेदाय —————– दर्शने
ईश्वररूप स्वात्म प्रथा मात्रमित्युक्तम् । यदुक्तं नीलं पीतं
सुखमिति प्रकाशः केवलं शिव इति ।
यद्यदिन्द्रिय मुखं प्रकाशते तत्तदा कृति रुदञ्चतीश्वरः ॥ इति ।
प्रकाशमानं न परं प्रका——- केयं तदिदं
प्रकाशादनन्यमिति ।
घटात्मना यः प्रथते प्रकाशः पटात्मनापि प्रथते स एव ॥

इत्थं स्वतन्त्रः स्वयमेक एव प्रपञ्चमूर्तिः प्रथते प्रकाशः ।

इत्यादि तत्तत्प्रमेय प्रमाणप्रमात्रात्मनि प्रपञ्चे —————– क्रिया
सम्बन्धेत्यादिना हेतुता कर्तृता क्रिये त्यन्तेन ग्रन्थेन वक्ष्यमाणो
पायोपेय भावो ज्ञाप्य ज्ञापक भावरूपः स्म्बन्धोऽपि यथा
प्रकाशं प्रकाशपरमार्थभूत एव । उपायो मार्गः उपेयो ग्रामः ।
तदुभयनिष्ठो पायो पेयभावः तत्प्रभृतितदादि ज्ञानं ज्ञापकम् ।
ज्ञाप्यं घटादिः सूर्याद्या लोको ज्ञापकः पृथिव्यादि ज्ञात्यं
चैत्रः कारणं तत्पुत्रः कार्यम् ।

प्। २८) बीजं कारणं अङ्कुरः कार्यम् । इत्याद्युभय
वस्तुनिष्ठकार्यकारणभावोऽपि सम्बन्धः यथा प्रकाशं
तत्तत्प्रकाशानुसारेण परमार्थभूत
एवेश्वररूपस्वात्मप्रथामात्रमित्यर्थः । तु शब्दात्

द्विष्ठस्यानेक रूपत्वात् सिद्धस्यास्या न पेक्षणात् ।  
पारतन्त्र्याद्य योगाच्च केन कर्ता विकल्पितः ॥  

इति वक्ष्यमाणां विज्ञान वाद्युक्तां सम्बन्धस्या
वस्तुत्वाशङ्कां व्यावर्तयति - प्रकाशमानस्येति । तथा तथा
प्रकाशमानस्य सम्बन्धस्य केनाप्यनपह्नवनीयत्वात् । अपह्नवेसति
संविदोऽप्यपह्ववापत्तेः शून्यवाद आपतेत् ।

अत्रानपह्नवनीयत्वे संवादं दर्शयति । यथाह
श्रीभट्टदिवाकरवत्सो विवेकाञ्जने - भावानां पृथिव्यादीनां
तत्स्वीकारभूतानां घटपटादीनाञ्च, एष इति सर्वस्य प्रत्यक्षं
प्रकाशमानः भावा न प्रकारान्तामिति शापिक्त्या न प्रकाशत इति
शपथ वचनेन च न विलीयते चेत्तत्तद् घटपटादि भाव सम्बन्धिनः
हानादा नादि व्यवहारस्याभाव प्रसङ्गः । एवं प्रपञ्च वत्
तत्प्रपञ्च गतस्य कार्य कारण भावस्यापि पारमार्थिकत्वं
समर्थ्य कथं चिदित्यनेन विवक्षितममायीयं कार्यं
कारणभावं प्रदर्शयितुं तत्प्रतियोगिनं तं
लौकिकव्यवहारानिमित्तस्य तत्प्रतियोगिनो मायी यस्य कार्य कारण
भावस्य स्वरूपमाह कार्य कारणभावोद्विधा । लौकिकश्च
लोकोत्तरश्चेति । मायीयश्चेति कार्य कारणभावे तत्रेति । एवं द्वैविध्ये
स्थिते क्वचिदिति पूर्वस्मिन् कार्य कारण भावे परिपूर्णम् ।
अत्रत्यभिदानीन्तनमेवं रूपमिति । देश कालाकारा नवच्छिन्नं यत्
स्वातन्त्र्यं तल्लक्षणम् । अत एव ब्रह्मविष्णुरुद्रात्मकैश्वर्य
विलक्षणं यन्माहेश्वर्यं तन्नान्तरीयकतया तदधीनता
भावतया कौलीकृतं भने स्वीकृतरूपमिति देशकाला कारा कठिनत्व
द्रवत्वौष्ण्य स्पन्द मात्रावकाश प्रदत्वादिमयं किञ्चित्कर्तृत्व
किञ्चिज्ज्ञत्वादिरूपं चानन्तमपरिच्छिन्नं यत् शक्तिचक्रं
तच्चुम्बिता स्तदधिष्ठिताये भावाः ।

प्। २९) पृथिव्यादयः —————– दयश्चैत्र मैत्रादयश्चतैर्भावितेन
सम्पादितेन प्रथान्तरेण मृत्कारणं यद्वक्ष्यति - तथा कारणतादि
वादे बहुतर नीलादिजन्यं ज्ञानमिति । जडस्य प्रमेयस्य
अजडमप्रमाण —————– द्यवान्तर भेदशत सम्भिन्नश्चासौ
मायीयः कार्यकारणभावः तत्कृत इति ।

सर्वसाधारणार्थौद्य निर्माता परमेश्वरः । इति ।  
कुलालादिस्तु निर्माता तन्निर्मित मृदादिभिः ॥  

विश्वनिर्माणसामर्थ्यं विश्वे ----------------- ।  
----------------- मर्थ्यं कुविन्दादेर्न विद्यते ॥  

इत्यागमानुसारेणायमिति सर्वस्यापि प्रतीयमानः
सर्वोलोकव्यवहाररूपः घटः कारणं उदकाहरणं कार्यम् ।
कुम्भकारादयः कारणम् । घट ———- कार्यमित्यादि रूपेण
प्रथान्तरेण वक्ष्यमणादमायीयात् कार्यकारणभावा दन्येन
प्रथाविशेषेण परमेश्वर एव कारणं जगत्तस्य कार्यमिति अमायी
यायाः कार्यकारणभाव —————– चकास्ति स कार्यकारणभावः
। जडस्य तु न सा शक्तिरित्यादिस्थानेषु मायीयत्वेन स्थापयिष्यते ।
जडस्य घटादेः जडमृदादिकारणम् । अजडस्य चैत्रादेरजडतत्पित्रादि
अजडस्य —————– घटादेरजडः कुम्भकारादिः । आदिशब्देना
जडस्य प्रमाणरूपस्य ज्ञानस्य जडं
नीलादिरूपमभिव्यञ्जकत्वेन कारणं निष्पाद्य निष्पादकभावो
ज्ञाप्य ज्ञापक भावावभासः । निष्पाद्यं घटादि निष्पादक ——
———– स्य प्रमाणमुखेन ज्ञापकः प्रमाता । एवमन्योन्य
सम्बन्ध रूपेण निष्पाद्य निष्पादक भाव ज्ञाप्य ज्ञापक भावौ
तयो रवभासः अहं निष्पादकः इदं निष्पाद्यम् । अहं ज्ञापकः
इदं ज्ञाप्यमिति लोकव्यवहाररूपं प्र ———–द्यवान्तरभेद
शतेन कृत स्तन्मूल इति यावत् तद्यसम्बन्धतत्त्वं द्विविधमेव ।
परमार्थतो ज्ञाप्य ज्ञापकता कार्यकारणता चेति ।
वक्ष्यमाणाभिप्रायेण कर्तरिज्ञातरीति जानाति चकरोतिचेति
शास्त्रोपक्रमोपसंहार दृष्ट्या च निष्पाद्येत्यादिना सम्बन्धस्य

प्। ३०) द्वैविध्यमुक्तम् ।

एवं लोकव्यवहारनिदानं मायीयं
कार्यकारणभावमुक्त्वा अमायीयं कार्य कारण भावं
निरूपयति - यत्रत्वित्यादिना परमेश्वरघटितेनैवेत्यन्तेन ।
मायीयादमायीय विशेषद्योतकस्तु शब्दः । यत्रेति । पूर्वोक्तमायीय
विलक्षणे कार्यकारणभावशुद्धेत्यादि । शुद्धामायीय कालुष्य
रहिता स्वप्रथात्मिका स्वयं प्रकाशरूपा अविनाशि सहज प्रकाश एव
भावाद्यानुत्तरा सर्वोत्कृष्टा च शक्ति ज्ञानक्रियारूपा
तच्छालितयाश्लाधमानः । किं च शिवशक्तिसङ्घट्टमयानुत्तर
विसर्गात्मक प्रकाश विमर्श स्वरूपसम्पन्नः ।

आत्मैव सर्वभावेषु स्फुरन्निर्वृत्तचिद्वपुः ।  
अनिरुद्धेच्छा प्रसरं प्रसरद्दृक्क्रियः शिवः ॥

इति शिवदृष्टयुक्त नीत्या निरर्गलः अव्याहतः सदाशिवादिकीटान्त
स्वरूपस्वीकारात्मकज्ञानक्रियाशक्ति प्रसरः । मायीयेति ।

कर्तृता किमपरस्यसम्भवे जाग्रतित्वयितु सर्वकर्तरि ॥  

इतिनीत्या सर्वकर्तृत्व सर्वज्ञत्वादि महाप्रथाव्यवधायक
किञ्चित्कर्तृत्वादि मय भेद प्रथा लक्षणेन व्यवधानेन रहितम् ।
तदात्मनैव तस्य स्यात् कथं प्राणेन नियन्त्रणा । इत्यजड
प्रमातृसिद्धयुक्तनीत्या मयीय प्रथाया अपि प्रथमानत्वेन
परमार्थमयत्वात् । अन्यथा प्रथनायोगात् तस्यात्म प्रकाश भूत
महाप्रथाव्यवधायत्वासम्भवात् परमेश्वरैक कारणकोऽयं
स्वात्मप्रकाशः परमपुरुषार्थहेतुरित्याह - एष चेति । एषः
स्वानुभवसिद्धः स्वात्मप्रकाशः । अन्त्य इति सृष्ट्याद्यपेक्षया
पञ्चमः । ततः परं कृत्या भावदन्त्यः पारमेश्वरः
अनुग्रहलक्षणः कृत्य विशेषः ।

अनुग्रहादि सृष्ट्यन्तं सच्छक्तिरुदितं सदा ।  
अनुगृह्णन्नगृह्णानः संहरन् स्थापयन् सृजन् ॥  

इत्युक्त नीत्या च सृष्टेरपि पञ्चमत्वे विद्येते ।
एतद्व्यवच्छेदार्थमन्त्यः पञ्चमोऽनुग्रह लक्षण इत्युक्तम् । पर इति ।
पुरुषस्य परमशिवात्मकपरपुरुषार्थस्य प्रापकः । तदिति ।
तादृग्विधानुग्रहायत्त त्वात् जीवच्छिवत्वाद्यभि व्यक्त्यात्मनः

प्। ३१) परमार्थ मोक्षस्य । अन्यत्रेति प्रलयाकल विज्ञानाकल ।
मत्रमन्त्रेश्वराद्यभिमतां मुक्तिं कुतश्चिन्मुक्तिं न सर्वत इति ।
तत्रमाया तत्ववर्तिनां प्रलयाकलानां
क्षित्यादिकलान्तात्तत्वराशेर्मुक्तिः । ततः स्वोर्ध्ववर्तिनो
विद्यादिशिवान्ततत्त्व पञ्चकात् विद्यापदस्थितानां
मन्त्रप्रमातृणाक्षित्यादिमायां ततो मुक्तिः । न तु स्वोर्ध्ववर्तिनः
तत्व चतुष्टयात् । एवमन्यत्रापि द्रष्टव्यम् । अत एवेति । तस्य
तस्यापवर्गस्य निःश्रेयसामानत्वं न तु परमार्थनिःश्रेयसत्वम् ।
तदुक्तम्

स एव सत्यतो मुक्तः सर्वावच्छेद वर्जनात् ।  
अन्येन सत्यतो मुक्ता अवच्चेदाम्श सम्भवात् ॥  

इति तन्त्रवटधानिकायाम् । एतच्छागमकाण्डे
प्रमातृतत्वनिरूपणावसरे निरूपयिष्यामः । स चायमिति । यत्र तु
स्वप्रथेत्यादि —————– तः । अयमितिस्वानुभवसिद्धिः मयीय
कार्यकारणभावापेक्षया द्वितीयः । मृदादिकुम्भकारादि
जडचेतनात्मक कारणे सति घटादिकार्यं जायते । तस्मिन्नसति न
जायत इति लौकिकान्वय व्यतिरेकसिद्धप्रसिद्धकार्य कारणभाव विर —-
————- कारणमिति घटादिकुम्भकारादिवत् स्फुटेन रूपेणा
सञ्चेत्यमानः । तथापि - नाथविद्युदिवभाति विभाते या कदाचन
ममामृत दिग्धा ॥

इति रहस्य गुरूक्तनीत्या

यदा शिवे भिलाषोवै पशूनां जायते तदा ।  
तदा शिवाभिमाना ---------------- ----------------- ॥  

—————– वागमोक्त नीत्याकादाचित्केन तदानी मेश्वरेच्छोदितेन
वस्तु सद्भावस्यान्तः स्थितस्य संविन्मयस्याहं रूपस्यावभासेन
निश्चीयमन परमार्थ मति दुर्घटकरित्वमस्यानुत्तरमेव यदेतदेव
स्वतन्त्रत्वमैश्व—————– तथोभयम् । एकीकर्तुं न किं कर्तुं
विमर्शो जगति क्षमः ॥ इत्युक्तनीत्या वस्तुतः प्रकाशमानत्वादहं
रूपस्य विश्वस्य मायीय प्रमातृ वर्गं प्रति इदं तया परिमितस्य
देहादेरहन्तया प्रकाशनम् । यथोक्तम् -

प्। ३२) आत्मख्यातिमनात्मनि प्रथयते द —————–

—————– स्फुरणतः स्वान्या मिदन्तामपि । सैषा दुर्घट
कारिणी परचितस्वातन्त्र्यरूपासती
किं किं न प्रतिभासयेद्भगवती मायातुं माहेश्वरी ॥

इत्येवं विधाति दुर्घट कारित्व त्व लक्षणैश्वर्यस्य स्वातन्त्र्यस्य
विजुम्भया अनुग्रहा —————– नानुसन्धितः अद्भुतभावः
आश्चर्यस्वरूपः । प्रथमकोटीति । आसंसारोपचिति
सदसत्कर्मबन्धाश्रितानाम् इत्यादि श्रीसाम्बभट्टारकोक्तनीत्या
प्रथमकोटिसम्भावना शून्यमनादि सिद्धं कालिकाकारं
मलरूपं यत् स्व—————– परभावरणं मलमिह सूक्ष्मं
मायादिपञ्चकं स्थूलं बाह्यं निग्रहरूपं कोशत्रय वेष्टितो
ह्यात्मेति श्रीपरमार्थ सारोक्त नीत्या, —————–
कलादिकञ्चुकान्तस्थं काय प्राणादिवेष्टितम् ।

आत्मानमेवलोकानामनादिमल रूषितम् ॥  

इत्यभियुक्तोक्तनीत्याचाणव मायीय कार्माख्यं तिरोधान
करीमायाभिधा पुनः इति वक्ष्यमाणरीत्या

स्वस्वरूपतिरोधानं तन्निराकरणेपशोः ।  
---------------------------------- यन्मनोरथ शतम् ।  
नाहं वेदैर्न तपसा न दानेन न चेज्यया ।

शक्य एवं विधोद्रष्टुम्,

इति गीतोक्तनीत्या वेदाभ्यासतपोदानाश्वमेधादियागादिभिः
सम्पाद्यमानं यन्मनोरथशतं तेन दुष्प्रायः, केवलं
परमेश्वरानुग्रहमन्तरेण प्राप्तुमशक्यः इत्येवं प्रकार इति
लौकिकान्वयेत्यादिनामनोरथशतदुष्प्राप इत्यन्तः । ग्रन्थोक्तः एवं
भूतः अलौकिकः प्रकारः कथञ्चिदित्यत्र
मूलसूत्रप्रथमपादेनाविनाभूतया सहोच्चारितेन एवं भूत
लौकिकालौकिकप्रकारचेतकचिदितिनिपातयुक्तेन —————– मु प्रत्ययेन
निरूपितः । एवं कथञ्चिदिति पदस्यैकमर्थमुक्त्वा अस्यैव पदस्यै
तदर्थोपयोगिनमर्थान्तरमाह केन चिच्छेति ।

प्। ३३) प्रोक्तलक्षणपरमेश्वराभिन्नस्या विरतं तत्समावेशेन
प्रापिततदैक्यस्य । सम्यग्ज्ञान क्रियाप्राण मन्त्रमुद्रा यथास्थितिम् ।
गृह्णात्युपदिशत्यर्थं तात्विकं चेत्यतो गुरुः ॥

इति श्रीशिवसूक्तस्थ वर्तिकोक्तनीत्या अनुग्राह्याणां परमोपेयं
शिवस्वरूपं प्रतिवेष्टुमुपायस्य भूतस्य तन्मयं तात्विकमर्थं
गुणतो गुरोश्चरण कमल युगलं ज्ञानक्रियामरीचिद्वयमति (४३)
श्रीमत्स्तोत्रावली व्याख्योक्तनीत्या ज्ञानक्रियामरीच्यात्मनोः चरणयो
भगवन् भवदिच्छैव जातस्तवदासोऽस्मि परस्य नात्र शक्तिरिति
श्रीमत्स्तोत्रावल्युक्तनीत्या यदा शिवेभिलाषोवै इत्यादि दीक्षां
प्राप्नुवन्ति गुरो स्तत इति त्यक्त श्रीनन्दिशिखाग्रन्थोक्तनीत्या च
परमेश्वर घटिते नैवाराधनेन भक्तिश्रद्धेतव चरणो रन्यथा नो
भवेताम् इति श्रीसाम्बनीत्याभक्तिश्रद्धा युक्तया शुश्रूषया ।
चकारः प्रकारान्तरसमुच्चंयद्योतकः ।
एवकारोऽन्यव्यवच्छेदद्योतकः । गुरुचरणा राधं परमेश्वरेणैव
घटयितुं शक्यम् । जगतां परमेश्वरो भवान् इत्यादि शरणानामपि
शरणमित्युक्तनीत्या नत्वन्येन ब्रह्मादिना शिवान्तेन कारणवर्गेण -
न योगो न तपोनार्चाक्रमः कोऽपि प्रणीयते । इत्युक्तनीत्या स्वकीयेन
योगतपोऽर्चादिना व्यापारेण च । अस्मिन्नर्थे अभियुक्तवचनं
प्रमाणयति - यथोक्तमित्यादिना ।

भोगेच्छा विनिवृत्तस्य मोक्षमार्गैक काङ्क्षिणः ।  

शिष्यस्येति शेषः । गुरोश्चसुप्रबुद्धस्य सम्बन्धोतीवदुर्घटः इति ।

शिष्यः संसारिकक्षेत्र कलत्र पुत्रमित्रादि भोगेच्छाविनिवृत्तः
परमशिवैक्यात्मकमोक्षोपायैककाङ्क्षापरोऽपि तदुपाय
प्रदर्शकः सु प्रबुद्धः प्रत्यभिज्ञातस्वात्मपरमेश्वर स्वरूपो
गुरुर्दुर्लभः ईदृग्विधे गुरौ —————– उक्त लक्षणशिष्यो दुर्लभ इति
परमेश्वरानुग्रहमन्तरेण गुरुशिष्ययोः सम्बन्धोऽति दुर्घटः ।
एवं कथञ्चिदिति

प्। ३४) पदस्यार्थ द्वय मुक्त्वा आसाद्येतिव्याचष्टे आसाद्येति ।
वक्ष्यमाणलक्षणं दास्यं आसादित महाभिमानस्यापि —————
——— (४४) दमयं प्रभुविषये दासभावोचित इत्युक्त नीत्या

शिवदासः शिवैकात्म्यात्किञ्च भासादयेत् सुखम् ।  
तर्प्योऽस्मिदेव मुख्यानामपि येना मृता सकैः ॥  

इत्युक्तनीत्या व्युत्थानमयान्तराय रहित तया आसम————————
निदेशेत्वद्विशेषणभूते भूतादि कालेऽपि परिपूर्णतया सादयित्वा
स्वात्मनः शिवैकात्म्यरूपं निरर्गलां तिरोधानकरीमायाभिधा
पुनः कालादिकपञ्च ———————– पे तिरोधान वेष्टितात् माया
कालाद्यात्मार्गला रहितां । शिवोऽहं देवोऽहं पशुपतिरहं
भैरव इत्यादि परामर्शरूपामुपभोगभोगयोग्यतां गमयित्वा
प्रथमं स्वयं महेश्वरदास्य ———————— इयतेतीति
महेश्वरदास्य महेश्वरता सादनेन । विदितेति विदितं वेदरहस्यं
विदितोदेहादिरयमानात्मेति विदितः शिव इति चात्मा किमतः
परमस्तिजन्मसाफल्य मित्युक्त नीत्या स्वात्मनो महेश्वरत्व वेदनेन
परमार्थे अनुग्रा———————— इश्वर प्रत्यभिज्ञाशास्त्रकरणे
स्वात्मनः अधिकारो दर्शितः । योग्यता प्रकटीकृता । अन्यथेति दास्य
परिपूर्णतासादनभावेतु विदित वेद्यत्वा भावात् आत्मापरश्च
वञ्चितः इति वक्ष्यमाणनीत्या स्वात्मेश्वरत्वा प्रत्यभिज्ञा————
मा———— मेव फलितं भवति । आसाद्येति पौर्वकाल्येन
सामनन्तर्यं दास्या सादन समनन्तरभाविजनोप कारात्मक
प्रत्यभिज्ञोपपादन मत्रविवक्षितम् ।


(४५) कर्तरीत्यनेन स्वयमेव प्रमेय प्रमाण प्रमात्रात्मक प्रपञ्च
सृष्टिकर्तृत्वात्तादृग्विध प्रपञ्च पूर्वापरकोटि व्यापित्वाद्य
नित्यत्वेन तस्मिन्महेश्वरे कारकव्यापारो न सम्भवतीत्युक्तम् ।
ज्ञातरीत्यनेन तादृग्विधस्वसृष्टविश्वप्रकाशकत्वात्स्वयं
प्रकाशरूपत्वाच्च

प्। ३५) परिमित प्रमेय व्यवस्थापक प्रमाणात्मक
ज्ञापकव्यापारोऽत्र परमेश्वरे न सम्भवतीत्युक्तम् । यदितर्हिजनस्य
महेश्वरं प्रत्यभिज्ञापयामीति यो व्यापार उक्तः स कारक
व्यापारो वा ज्ञापक व्यापारोवा तदुभयात्मान्यो वा ।
इत्याशङ्क्याह - किन्तु जनस्यात्मा महेश्वरोऽपि
तदिच्छाकल्पितान्मायात्मकान्मोहवशादसीन् कथञ्चित्
इत्युक्तश्लोकोऽनेन श्लोकोक्ते महेश्वरेऽहमिति प्रतीयमानत्वात् दृष्टेऽपि
साक्षात्कृतेऽपि मोहवशादनुपलक्षितेऽहमेव महेश्वर इति
हृदयङ्गमतामप्राप्तेसति ज्ञानक्रिया रूपस्य तस्य महेश्वरस्य
ज्ञानक्रियात्मक शक्त्या विष्करणेनेयं स्वानुभसिद्धा प्रत्यभिज्ञा
उपदिश्यते । अहमेव महेश्वर इति उपजनं प्रतिदर्श्यते प्रकाश्यते
जनस्याहं रूप आत्मा ईश्वरस्वभाव एव प्रकाशते तावत् । तत्रेश्वर
स्वभावतया प्रकाशनेऽपि अस्यात्मनः स्वातन्त्र्यम् । यथोक्तम्

अस्थास्यदेकरूपेण वपुषा चेन्महेश्वरः ।  
मेहेश्वरत्वं संवित्त्वं तदत्यक्षत् घटादिवत् ॥  

इति न केनचिद्वपुषा न प्रकाशते सर्वात्मना प्रकाशत इत्यर्थः ।
सर्वात्मना प्रकाशनमेव प्रतिपादयति - तत्रेति । सर्वात्मना
प्रकाशने अप्रकाशात्मना हमिति प्रकाशात्मकचैतन्य
शून्यजडात्मना प्रकाशते । प्रकाशात्मनेति शिवात्मनापि प्रकाशते
। तत्र प्रकाशात्मना प्रकाशेऽपि मन्त्रमहेश्वर मन्त्रेश्वर
मन्त्रात्मना तेषामहं प्रथोद्रेकात् (४६) भागशः इत्यहन्तायाः
सद्भावेऽपि परमेश्वरेच्छाकल्पितेन नेदमित्यभिमानतयां
प्रकाशने सत्यपि अहं प्रथायाः इदं प्रथाव्यतिरेकेण प्रलया
कलात्मना कतिपयस्य पूर्णाहं प्रथाव्यतिरेकेण
देवादितिर्यग्गतसकल प्रमात्रात्मना प्रकाशते । आत्मेति
जडोल्लासात्प्रभृति परमशिवान्ताः सप्तप्रकाराः । सप्तप्रकारमेव
विवृणोतितत्रेत्यादिना । मध्य ———————————— कलान्ता
जीवाभासाः यत् स्वातन्त्र्य मुक्तं

प्। ३६) सैव भगवतो माया विमोहिनीनामशक्तिः । तद्वशात्
मायावशात् । आत्मनि महेश्वरात्मक स्वप्रकाशात्मतया सतत
मवभासमानेऽपि भागेन महेश्वरो न ————————————
शन वशात् अनुपलक्षिते सर्वथा पूर्णता हृदयं गमभावमप्राप्ते
। अत एवा प्राप्तत्वादेव महेश्वरोऽहमिति पूर्वणतावभासन
साध्यां चमत्क्रियामकुर्वति तस्य महेश्वरोऽहमिति
पूर्णतावभासनात्मकस्याभिमानविशेष ————————————-
———————– न व्याख्यात पूर्वा दर्श्यते । शक्तेः
शक्तिमन्निष्ठत्वा दीश्वरनिष्ठत्वेन प्रसिद्धायादृक्क्रियात्मिकायाः
जनस्याविनाभूतत्वेन स्थितायाः आविष्करणेन प्रदर्शनेन
प्रत्यभिज्ञादर्श्यत इति सं———————————— साध्यानां
चमत्क्रियाणां शक्तिमत्त्वाभिमानसिद्ध्याविना असिद्धेः
अप्रकाशनात् । अस्मिन्नर्थे दृष्टान्तमाह - तथा चेत्यादिना ।

एतदुक्तं भवति - जनं प्रति महेश्वर प्रत्यभिज्ञा
व्यापारोऽयं महेश्वर ———————— अपितु नाहमीश्वरः चैत्र
एवेतिव्यामोहापसारण मात्रमनित्यत्वादिव्यवहार साधनानां
प्रमाणानां म (४७) प्रवर्तित पूर्वोऽत्रेति वक्ष्यमाणनीत्या
ईश्वरत्वादि व्यवहार साधनानां शास्त्रात्मनां प्रमाण ———-
————– त्र विश्रान्तेः घटः पक्षः अग्र गत्वं साध्यं
अग्रगत्वसाधने घटस्य प्रत्यक्षत्वं हेतुः । यत्र यत्र घटे
प्रमातारं प्रतिपुरोवर्तित्वं तत्र तत्र तस्याग्रगत्वम् । यथा पटादेः,
तथा चायं पटः तस्मात्तथा ———————— वयात्मना वाक्येन
घटो ज्ञाप्यते घटो न प्रकाश्यते । घटः प्रत्यक्षेणैव
ज्ञाप्यमानत्वान्न वाक्येन । अन्यथा प्रत्यक्षेणैव ज्ञाप्यमानत्वा
भावे घटरूपस्य पक्षस्य प्रत्यक्षत्वान्मनोहेतोश्चासिद्धः ———-
————– टाभावात्मकमोहमात्र मपसार्यते नाथं महेश्वर इति
मोहोऽयं देशिकटाक्षकृत मोहासरणं च यत् महेश्वरात्मक स्व
स्व रूपाच्छादनं तत्प्रकाशनं च भगवतः स्वातन्त्र्य
विजृम्भमात्रं न त्वधिकं किञ्चिदिति तथैव ———————— तथा
प्रवर्तित पूर्वोऽत्रेति । शक्त्याविष्करणेनेति

प्। ३७) वदता कस्यचित् शक्तिः कञ्चित् प्रत्याविष्क्रियत इत्युक्तम् । तत्र जडा
जडभेदेन परिदृश्यमानस्य भावराशेर्द्विविधत्वात् जडाजडरूपे
जगति जडस्य शक्तिर्जडं प्रतिवा अजडस्य शक्तिरजडं प्रतिवा आविष्कृत
इति विकल्प्य पक्षद्वयेऽप्येतन्नयुज्यत इति आशङ्कते नन्विति ।
किमीयाशक्तिरिति जडगताशक्तिरजडगतावाकं च प्रतीति जडं प्रतिवा
अजडं प्रतिवेति विकल्पार्थः । जडानां शक्त्याविष्करणं
तावन्नसम्भवतीत्याह - जडानामिति । शक्तिर्ज्ञानं क्रियते च
द्विप्रकारा तत्र जडानां पाषाणादीना महमिति प्रतीति
रूपशून्यत्वं सर्वसं प्रतिपन्नमेव । ज्ञानं विमर्शजीवितं
विमर्श एव क्रिया तत्र च जानामीत्यन्तः संरम्भ योगो विभातीत्यादि ।
स च संरम्भो विमर्शक्रियाशक्तिरुच्यते । ज्ञानं विमर्शजीवितं (४८)
विमर्श एव क्रियेति च वक्ष्यमाणरूपा करोमि गच्छामीत्यादि
स्पन्दनात्मक स्वातन्त्र्य प्राणाक्रियाशक्तिरविदूरेऽत एव नास्ति तथा
च रथो गच्छतीत्यादिना केचन लाक्षणिका उपचारं प्रतिपन्नाः न
परमार्थ जडस्य रथस्य गमन क्रियाया अभावात् रथस्थ एव
गच्छतीत्यर्थः । न च जडान् प्रतीतिशक्तिमत्वादीशादिव्यवहार
साधनमुचितं घटं प्रत्यागच्छेति वोक्ते
गमनाद्यदर्शनवदचेतनत्वेन जडं प्रतीशादि साधन
व्यवहारसाधनानुपपत्तौ । यद्वक्ष्यति - घटेन स्वात्मनि न
चमत्क्रियते स्वात्म —————- शमृश्यते न स्वात्मनितेन प्रकाश्यते
ना परिच्छिन्नतयावभास्यते । ततो न चेत्यत इत्युच्यत
इत्यजडगताशक्तिरजडं प्रत्याविष्क्रियत इति द्वितीयपक्षमवल————
-थेति । अजडो यो जीव उभय योग्यो जनः तदधिकारेण शक्तिमत्त्वं
शक्त्या विष्करणं चेत्युभयमपिपीति । अथमतं अथाजडं
जीवज्जनाधिकारेणोभयमपीति पठे अयमर्थः - तस्मिन् पक्षेऽपि
अजडानां बहुत्वात् किमजडस्य चैत्रस्य शक्तिः अजडमैत्रं
प्रत्याविष्क्रियत इति वा । एकस्यैव चैत्रादेरन्यतरस्याप्रत्यभिज्ञाता
पारमेश्वरी स्वशक्तिस्तमेव प्रत्याविष्क्रियत इति वोच्यते । पक्षद्वयेऽपि
सर्वेषां स्वात्मन इति नैजवृत्त्युक्त प्रकारेण भवदभिमत सर्वात्म
महेश्वरत्वं न सिध्यति । शक्तिमत्त्वा भावेन
जडानामनाविष्कृतशक्तीनाम

प्। ३८) जडानां च बहिष्करणात् इति परिहरति पूर्ववादी । तर्हीति तदेतदिति
। उक्तप्रकारेण सर्वथा शक्त्याविष्करणेन प्रत्यभिज्ञोप पादनं न
सम्भवति ———————— शङ्क्य तदुपपादन प्रकारं निरूपयति
————————नादी । तथा हीत्याद्युत्तर सूत्रेण । अथा
जडज्जीवज्जनं प्रतिव्यवहारसाधन ———————— (४९) जीवज्जनस्य
शक्तिरजडज्जीवज्जनं प्रत्याविष्क्रियत इति मतं तत्र जडस्य चैत्र ———
————————– विष्क्रियत इत्यायातं तथा ———————————–
गतश्च ——————————- न्यत्राविष्करणा सम्भवात्तयोर्भेदस्य
प्रत्यक्षसिद्धत्वादभेद प्रत्यभिज्ञा पना योगात् पक्ष एवायं न
सम्भवतीत्याह नेतिरन्यशक्तेरन्यत्रा ————————————
त्रैवशक्तिस्तमेव प्रत्याविष्क्रियत इति ———–हा ————— इति शङ्कते -
अधिकारिणीति । अधिकारिणि प्रत्यभिज्ञायोग्ये शक्तिमत्त्वं
तदाविष्करणं चेत्युभयमपि विवक्षितमिति संविद्वादि————
कारिणः प्रत्यभिज्ञया महेश्वरत्वे सिद्धे ————-न्येषां
जीवानां जडानाञ्च तदात्मत्वा भावात् सर्वस्यात्मा महेश्वर इति
स्वाभिप्रेत —————–षयति पूर्व वादी - तर्हीति ।
एतच्छङ्कोत्तरत्वेनोत्तरसूत्र मवतारय ——————————-
ज्ञोपदर्श्यत इति यदुक्तं तद्युक्ति पूर्वं पश्यामीति । तथा हीति
शब्दस्य समर्थस्यैकोऽर्थः । तथा प्रकृतं साध्यं
जनस्यैवेश्वरत्व प्रत्यभिज्ञानं हीति
ज्ञानक्रियाशक्तिमत्त्वलक्षणहेतुयुक्तमुपपद्यत इति व्यस्त ————–
न यानिति सूत्रनीत्या । तथा तेन स्मरणविषयीभूत बुद्धिसन्निहित
वक्ष्यमाण प्रकारेण सर्वमेतदिति शक्त्या विष्करण विषये
त्वयानुपपन्नमिति यथोक्तं एतत्सर्वं युक्तं हि यतस्ततस्तव चोद्यं
नावतरतीति व्यक्त ———————— अप्रकाशात्मनापि परमेश्वर एव
प्रकाशत इत्युक्तनीत्या स्वतो जडत्वाभावेऽपि तन्माया शक्त्या
जडभूतानां देहादि घटादीनामिह जडश्चेतन निमग्ना एव (५०)
भान्ति इदमिति हि जडपरामर्शः । अहमिति संवित्परामर्श एव व ———
————— ति वक्ष्यमाणनीत्या जीवत्प्रमात्राश्रया प्रतिष्ठा मम
देहो भातीत्यादि प्रकारेण प्रमात्राभिमुख्येन स्थितिः न स्वतः
प्रतिष्ठास्तीत्यर्थः ।

प्। ३९) भूतानां चिन्मयत्वेन सत्यानां जीवतां प्रमातॄणां
जीवनं जीवयितृरूपं ज्ञानक्रियाचेति शक्तिद्वयं मतमागमेषु
प्रसिद्धम् । उक्तञ्च चित्क्रियासदसद्भावौ हेतूह्यैश्वर्य जडययोः ॥ इति

अतःजीवतामिति बहुवचनं देहाद्युपाधिवशाद्देहादेरपि
घटादिवत् जीवलग्नत्वात् जीवस्यैकत्वमेव पर्यवसितमिति घटादि
देहादिलक्षण विश्वप्रतिष्ठाभूत महेश्वरा साधारण लक्षण
ज्ञानक्रियाशक्त्या विष्करणेन महेश्वरात्मत्वे सिद्धे सर्वस्यापि
महेश्वरात्मत्वं सिद्ध्यतीत्यजडपक्षावलम्बनेन चोद्यपरिहारः इति
तात्पर्यार्थः । महेश्वराभिज्ञानभूतशक्तिमत्वं जनविषये
दृश्यतां किलेति । प्रसिद्धमेतदित्यर्थः । तथाहीति । शब्दस्य
समर्थस्यैवार्थः । व्यस्तस्यात्मद्वयं अजडजीवज्जन ——————- द
हृदयं गमा हृदयङ्गमी क्रियत इति । स्वाभिप्रेत द्वितीयपक्षे
पूर्वपक्षिणोक्तं महेश्वरस्य सर्वात्मत्वा सिद्धिदोषं
प्रथमपक्षा नङ्गीकारे कारणं च वक्तुं जडस्य
भावराशेरस्तित्वमजड प्रमातृ विमर्शाधीनमिति साधयति - इहेति ।
नीलादिभावराशिः यथायेन नीलादिना प्रकारेण विमृश्यते प्रमात्रा
स्वात्मारोहेण परामृश्यते । तथा तेन प्रकारेणास्ति स्वसत्तां
नातिवर्तते नतु विमर्शमन्तरेण स्वत एव वेति तावद्विश्वस्वरूप
परमार्थ निरूपिता प्रतिज्ञा

ननु प्रकाशमानत्वात् स्वत एवास्यास्तित्वं किं न
स्यादित्याशङ्क्यजडया अहमस्मीति स्वात्मास्तित्वस्य स्वेनापरिज्ञाना
द्विमृष्टरूप प्रमातृविमर्शाधीन तथैव स्फुरणान्सैवमिति
प्रतिज्ञातार्थे हेतु माह - अस्तित्वस्येति । प्रकाशं शरणी कुर्वत इति ।
अप्रकाशश्च नास्त्ये व सत्ता प्राकाश्य मेव हि । अतः प्रकाशाधीना च
सत्तास्मिन् सार्वकालिकी ॥ इति तन्त्रवटधानिका नीत्या
प्रकाशाधीनस्यास्तित्वस्य प्रकाशप्राणितदेशीयमिति ।
स्वभावमवभासस्य विमर्शं बिन्दुरन्यथा । इति वक्ष्यमाण नीत्या
प्रकाश जीवितभूतं विमर्श माश्रित्य समुन्मेषादिदं नीलमिति
विमर्शे सति नीलं नीलतया स्फुरति । नतु स्वत एवाहं नीलमस्मीति

प्। ४०) स्फुरतीति यतस्ततो हेतोर्यद्वस्तु यथा विमृश्यते तथास्तीत्ययमेव
परमार्थः । अत उक्ता प्रतिज्ञा युक्तैवेति भावः । विपक्षे बाधक
प्रदर्शन मुखे नैतदेवोपपादयति - अविमृष्टं हीति । नीलादिवस्तु
प्रमातृविमर्शेन विनापि स्वत एवास्तित्वाङ्गीकारे
नीलादिसाङ्केतिकनाम तदाकारतत् सत्वासत्वादिनाकेनापि प्रकारेण
व्यवहारा गोचरतया प्रमातुर्हृदयाना ————————————
हेतुं नीलं कुतो न पीतं कुतः सत् कुतोऽसदिति केनचित् प्रश्ने कृते सति
किमपि नोत्तरं वक्तुं शक्यं हृदयानारुढत्वाद्विमर्शाङ्गीकारे
विमृश्यमानत्वादिति हेतुपूर्वकमुत्तरं घटते । यद्वक्ष्यति - इह
घटः कस्मादस्ति खपुष्प ———————— वन्ति घटो हि स्फुरति न
त्वितरदिति साधितमर्थं निगमयति - तेनेति । तस्माद्विमर्शाधीनमेव
वस्तुनोऽस्तित्वम् ॥

ननु शुक्तिरजतद्विचन्द्रादेर्विमृश्यमानत्वेऽपि न सत्वम् । अतो न
व्याप्तिरित्याशङ्क्याह - यावदिति । अर्थक्रियाप्राप्तिपर्यन्तं
शुक्तिरजतादिवन्मध्ये (५२) बाधविधुरं यद्विमृश्यते तत्तावन्तं
कालमस्ति । विमृश्यमानस्य शुक्तिरजतादेर्विपक्षे बाधमस्तित्वेनोक्त
योत्र इत्यर्थः । विमतं नीलादि अबाधित प्रमातृविमर्शाधीनसत्ताकं
तदधी न तया प्रकाशमानत्वे सति नीला रूप व्यवहारास्पदत्वात् ।
व्यक्तिरेकेण शकिरजतादिवत् इति प्रयो ———————— गो द्रष्टव्यः ।
अनेन प्रपञ्चमिथ्यात्वपादि शून्यवादि विज्ञान वादि स्वतो
जडास्तित्ववादिनैयाधिकादि मतनिरासः कृतः । नीलसुखादि
प्रमात्रन्वेषण द्वारेण पारमार्थिक प्रमात्रलाभोपदेशोऽयं
भाव ——————————————————————————————
—————————————— ता स्वतः ।
बौद्धश्रुत्यन्त विन्न्याय वाद्युक्तं नैव युज्यते ।
अबाधित प्रमात्रैक विमर्शाधीन सत्यता ॥
तदधी न प्रकारत्व व्यवहारादतत्वतः ।
विपश्चिताङ्गी क्रियतां न चेन्न व्यवहार्यता ॥

अबाधित विमर्श विषयत्वात् ———————————— त्र
विज्ञानवादिप्रभृतिभिरसत्यत्वेनाभिमतानां द्रव्यादि
बुद्धीनामपि परमार्थ सत्यत्वं वक्ष्यमाण

प्। ४१) प्रमाणमित्याह तत एवेति । अबाधितं विमृश्यमानमस्तीति
यतस्तत एव देशतो विततं द्रव्यं काल वितत क्रिया अकार ———
सम्बन्धः । आदि शब्देन सामान्य दिगादि एकत्वे नैवाबाधितैक
परामर्श विषयत्वेनैव विमर्शाधीनं वस्तुनोऽस्तित्वमिति स्थिते
शिवादिक्षित्यन्तरूपेण विततमपि सङ्क्षेपतो विमर्शावस्थायां
विमृश्यं जडं पृथिव्यादि स्थूलं गन्धादि सूक्ष्मं नीलादि
विमृष्टरूपं जीवदजडं चैत्रमैत्रादिः । भवतुद्वैविध्यम्, ततः
प्रकृते किमायातमित्यतः आह -

(५३) तत्रेति । जीवन्तं प्रमातारमाश्रित्य प्रतिष्ठेति ।

एकसंविदिविभाति भेदधीः नीलपीतसुखदुःखरूपिणी ।  
निम्ननाभिरियमुन्नत स्तनी स्त्रीति चित्रफलके समे यथा ॥

यथोक्तमिति । अजडप्रमातृ सिद्धावितिशेषः । आत्मनिजडात्मके
स्वस्वरूपे सत्तापरामर्शा भावादसत्कल्पाः । प्रकाशस्य
प्रमातृरूपस्य सम्बन्धितयैव सन्तिममघटः स्फुरतीति
प्रमात्रधीनमेवघटादेः सत्वभित्यर्थः । जडानां स्वतः
सत्वाभावमुपपादयन् स्वतः सत्वे प्रयोजकमाह - स एवेति ।
अन्यानुपहिततया स्वस्वरूपेण स्फुरणं स्वतः सत्वे प्रयोजकम् । तच्च
प्रमातु रेवास्ति । अहमिति स्फुरणात् । जडस्य तदभावात् । भारूपेति ।
अहं रूप प्रकाशोपारोहेणैव जडस्य स्फुरणात् तेनेति । जडानां
स्वतः सत्त्वा भावेन प्रथमः पक्षोऽनङ्गीकृत एवेत्यर्थः ।

ननु द्वितीयपक्षेऽपि जीवानां बहुत्वात् पूर्वोक्त दोषस्तदवस्य
इत्याशङ्क्य जीवभेदेनूपाधिभूत शरीरादे जडत्वं तद्व्यतिरिक्तस्य
चैतन्यस्यैव जीवत्वमित्याह ये त्वन्य इति । पुर्यष्टकेति । प्राणादयो
वायवः पञ्च, ज्ञानेन्द्रिय कर्मेन्द्रिय वर्गद्वयं बुद्धिश्चेति ।
अथवा शब्दादि तन्मात्रा पञ्चकं मनोऽहङ्कारबुद्धयश्चेति
पुर्यष्टकम् ।

ग्राह्यग्राहकताभिन्ना वयौ मातः प्रमातरि ॥  

इति वक्ष्यमाणनीत्या स्वशरीरादि यल्लग्नं भवति ।

(५४) ननु जडभूतदेहाद्याश्रयस्य प्रमातुरपि चैत्रादिरूपेण
बहुत्वप्रतीते रुक्तदोषो न परिहृत इत्यत्राह - तस्यचेति । प्रतीयमानमपि
बहुत्वा पारमार्थिकमित्यत्र हेतु माह - अन्योन्याश्रयादिति ।
तदेवस्पष्टीकरोति -

प्। ४२) जीवाहीति । देहादि भेदेसिद्धे तत्तद्देहादि विशिष्टचैत्रादि
भेदसिद्धिः । चैत्रादिभेदे सिद्धे तत्तद्देहोऽहमिति देहादिभेदसिद्धिः ।
इति पर ———–सद्भावात् कल्पितो भेद इत्यर्थः । अयं नीलः पटो
मैत्रस्यैव विपीतस्तु चैत्रस्यैव इत्यादि व्यवहार दर्शनात् नीलादि
विषयभेदात् जीवभेदो भविष्यतीत्याशङ्क्यते । नीलादीनां स्वतः
सत्त्वा भावात्————— स्थूलोऽहं कृशोऽहमिति देहादौ न स्वतत्वा
नीलादेरिदन्तास्पदतया स्वतः सत्त्वः सम्भावनैव नास्तीति
विशेषद्योतकरतुशब्दः । सर्वस्यस्वात्मा———-क्ष्युक्तदोष
परिहारेण परमेश्वरशक्तिर्जीवं प्रत्याविष्क्रियत इति साधितम् ।
तत्राविष्क्रियमाणा शक्तिः कीदृग्रूपा । सा च कथं जीवस्यास्तीति
गम्यत इत्याशङ्क्याह - जीवनं चेति । ज्ञानक्रिया—————————-
——– दाष्टर्य शक्ति मत्वात् जडरूप पाषाणादि विलक्षणं जीवत्वं
भवति । ततश्च जानन् कुर्वन् प्रमाता यया शक्त्या
जडरूपपाषाणादिसैवजीवयतीति जीवस्य जीवयित्री ज्ञान क्रियारूपा
शक्तिरस्त्येवेति । ततोऽयं जीव ईश्वरस्य—————- स ईश्वर । यथा
पुराणादि प्रसिद्धः तथा चायं जीवो ज्ञानक्रियाशक्त्य वियुक्तः
तस्मादीश्वर एवेति प्रतिज्ञा पञ्चावयवयुक्तो नानुमानेनेश्वर
स्वभावः———प्रत्यभिज्ञापितं निरीश्वर साङ्ख्य वौद्धादिमते
ईश्वरस्य—————— पक्षः दृष्टान्तश्चाश्रयहीन (५५) इत्यत्राह
तदप्रसिद्धाविति । तस्य पुराणा गमादि प्रसिद्धेश्वरा
प्रसिद्धावपीत्यर्थः । रूपं चक्षुषा पश्यामि, श्रोत्रेण शब्दं
शृणोमि, वाचा वक्तव्यं वदामि पद्मां गन्तव्यं गच्छामि
अग्निष्टोम———— ज्ञियसर्वविषय ज्ञानक्रियाशक्तिमत्त्वं सर्वस्य
सम्प्रतिपन्नमेतत् शक्तिमत्त्वमेवेश्वरत्वं तच्च पुराणादि संविदापि
सर्व प्रसिद्ध ज्ञानक्रियाशक्ति मात्रावलम्बने नैव नोक्तदोषः ।
अलौकिकेश्वरानङ्गीकारे विशे———————- ष्टादिर्दृष्टान्तोऽस्त्येव ।
अयमात्माविश्वत्रेश्वरो भवितुमर्हति । विश्वत्रज्ञातृत्वात् कर्तृत्वाच्च ।
यो यावति ज्ञाता कर्ता च सतावतीश्वरः । यथा राजा स्वमण्डले ।
तथा चायमात्माविश्वत्रज्ञाता कर्ता च । तस्माद्विश्वत्रेश्वर ।

प्। ४३) एवेत्यनुमानं द्रष्टव्यम् । पक्षेबाधकमाह - अनीश्वरस्येति
जीवस्येश्वरत्वाभावे घटादिवत् ज्ञातृत्वकर्तृत्वे च न स्यातामिति
बाधक मस्तीति यतः अत ईश्वरत्वं सिद्धमित्यर्थः । उपनयमाह -
आत्माचेति ।

अत्ताखुवीसमूलं तत्थपमाणं णकोवि अत्थे ई ।  

इति श्रीमहार्थमञ्जर्याम् । विश्वत्रशिवादि क्षित्यन्ते सिद्धेति निगमनम् ।
आत्मा विश्वत्रज्ञाता कर्ताचेत्युपपादयितुं
ज्ञानक्रियाशक्त्योर्व्याप्तिमाह - ज्ञानेति । स्वाभाविक्याविति । अहं
प्रथारूपे न खलु भगवति श्रीपरमशिवे प्रमेय कथा काचिदस्तीति
वक्ष्यमाणनीत्या शिवदशायां भेदकथैव नास्ति ।
सदाशिवेश्वरदशयोः अहमिदमिदमहमिति भेदमात्रस्य सत्वेऽपि
अहन्ता विश्रान्तत्वादप्ररूढोन्मेषतायां सदाशिवेश्वरसञ्ज्ञो
तदुक्तं श्रीतत्वगर्भस्तोत्रे -

(५६) ज्ञानक्रियास्वरूपेण प्रवृत्तायास्तुते शिवे ।  
सदा शिवं जगुस्तत्वं भोगाह्वं तत्ववेदिनः ॥  

गुणभूतज्ञशक्तित्वं व्यक्तिभूतक्रियात्मिका ॥  

यत्तदैश्वरमिति । तयोः कारण भूतया शुद्ध विद्या रूपे च ।
यद्वक्ष्यते - अधिष्ठातृदेवताद्वयगतं करणं विद्या तत्वमिति ।
अहमहमेव इदमिदमेवेति भिन्नाधिकरणयो रह मिदं प्रथयोः
प्रसिद्धौ नीलादि विशेषा प्रतिभासे इदमाकारेण सामान्यतो भेदस्य
प्ररोहे किञ्चिज्ज्ञत्वकिञ्चित्कर्तृत्वरूपे अशुद्ध विद्याकले । तदुक्तं
श्रीपर्यन्तपञ्चाशिकायाम् -

क्रिया ज्ञानात्मचिच्छक्तिर्भेदासूत्रण कारणम् ।  
कला विद्यापदं प्राप्य ॥  

इति चैत्रादि नीलादि साङ्केतिकविशेषाकारेण भेदस्य प्ररोहे बुद्धि
कर्मेन्द्रिय गुणरूपे तद्विषय तया सूक्ष्म स्थूल
भूतशब्दादिधरापर्यन्त तत्वरूपे च जाते यदुतं तत्रैव -
भेदोद्भेदे पुनर्भवेत् ।

प्रमाणबुद्धिप्रकरा यत्क्रिया या विकल्पनाः ।   
सैवविच्छिन्न विच्छिन्न क्रियामायोद्यमा यदा ।  

कर्मबुद्धक्षतां याता ॥ इति ।

एवं ज्ञानक्रिया शक्त्योः शिवादिधरान्त विश्वव्याप्तिः
प्रदर्शिता । अत एवं विध ज्ञानक्रियाशक्तियुक्त आत्मा विश्वत्र
ज्ञानाकर्ताचेत्युक्तम्

प्। ४४) युक्तमेव चेत्यर्थः । भविष्यतीति । तत्र ज्ञानक्रिये स्वतः सिद्धे
इत्यत्र

विमर्श एव देवस्य शुद्धे ज्ञानक्रिये यतः ।  
एवमन्तर्बहिर्वृत्तिः----- ॥ इत्यादा वागमाधिकारे च ।

ननु जीवस्य संविन्मात्र स्वरूपत्वादेकत्वेन नी———————–
-वत् (५७) प्रमातृत्वे नाभिमतदेहादे रहं यं विल्लग्नत्वात् संविदश्च
नदेशेन न कालेन न स्वरूपेणापि भेद इति वक्ष्यमाण नीत्या एकत्वात्
संविदोजीवनं मतम् । इति निर्देशे कर्तव्ये जीवतामिति निर्देशः कि——–त
इत्याशङ्क्य————–सिद्धा जङ्गमनिर्देशः कृत इत्याह - जडा इति ।
आपात इति । गुरुपदेश भावादप्रत्यभिज्ञानावस्थायां
जडाजडरूपेण संविदेवभातीति लोकस्य प्रसिद्धिः । अतः
जडाजडभित्तिभूतां केवलां संविदं————-भिव्यक्तेः
संविदाविष्टत्वेन प्रसिद्धा जङ्गमा एव ।

इत्थमनेनाभिप्रायेण जीवतामिति पदेन निर्दिष्टा
जीवस्येश्वरात्मत्व साधको ज्ञानक्रिया शक्तियोगलक्षणो हेतुरेवा
सिद्ध इति शङ्कते नन्विति कथमिति । अन्यसम्बन्धेन सिद्धे वा स्वतः
सिद्धेवा विषय सम्बन्धाधीनतया सिद्धत्वे तयोरीश्वरत्व साधकता
न स्यात् । स्वतः सिद्धत्वे विषयोपरागाभावेऽपि सुषुप्तादौ जानामि
करोमीतिव्यवहारप्रसङ्गः । अतोनोभयथापि हेतु सिद्धिरित्यर्थः ।

एतच्छङ्कोत्तरत्वेन हेतु समर्थन परमुत्तरसूत्रमवतारयति -
इति शङ्कां शमयितुमिति । तत्रेति । जीवस्य ———————— जीवति
प्रमातरीति वा ज्ञानं स्वतः सिद्धं कालत्रयानुस्यूतं स्वयं
प्रकाशं नान्यतो विषयाद्युपरागाद्विषयस्य स्वतः सत्त्वा भावात् ।
यदुक्तं श्रीमत्स्तोत्रावल्याम् -

सर्वज्ञेसर्वशक्तौ च त्वय्ये -------------- मये ।  
------------------------------------जगतः प्रथा ॥ इति ।  

अत्र तु दर्शने विषयस्यापि विमर्शमयत्वात् इति वक्ष्यते च । न च (५८)
सुषुप्तादौ व्यवहारप्रसङ्गः । स्वतः सिद्धे
विज्ञानक्रियाविकासभूतेन्द्रिय वर्ग विलयात् तदनभिव्यक्ते भूयोऽपि
स्वतः सिद्धासातु————————-इत्युपलक्ष्येत । नतु स्वात्मनैव
तथा क्रिया अन्यस्य ज्ञानमूह्यते इति सूत्रस्यार्थ सञ्ज्ञेपः ।

प्। ४५) अवतारितं सूत्रं व्याचष्टे - अहमिति । परिनिष्टितं विश्रान्तं
अत्र ज्ञाने अन्यदस्तित्वं नास्तित्वमित्यादि । विपक्षे बाधकमुखे
नैतदुपपादयति - तदप्रकाश इति । अन्धतमसमपि तदाकारेण घटादि
यत्प्रकाशमानत्वादिदमन्धतमसमिति ज्ञानस्याप्रकाशेन स्यात् ।
तदुक्तमभियुक्तैः -

यद्भाति तत्सकलमेव यया विना स्या-
दन्धं तमस्तदपिवा भवितुं न योग्यम् ॥ इति ।

ज्ञानं स्वतः सिद्धमित्येतदपरिज्ञातसाङ्केतिक सकल व्यवहारस्य
स्तनन्धयस्यापि प्रसिद्धमित्याह बालोपीति । ज्ञानस्याहं प्रकाशे
विश्रान्तिं संवेदयते स्तन्य पानाद्या
काङ्क्षानिमित्तरुदिताभिज्ञापयति । इदं स्तन्यपानादि
क्षुदादिनिवृत्तिसाधनं ममेति ज्ञानपूर्वमेव खलु बालोरोदनादि
करोति । ततोऽस्यापि ज्ञानमस्तीतिसर्वैर्ज्ञायते । अतः आ बालाविपाल
पण्डितं प्रसिद्धमेवेतिभावः । तत्र श्रुतिरपि प्रमाणमित्याह -
तदुक्तमिति । बृहदारण्यके मैत्रेयी ब्राह्मणी याज्ञवल्क्ये नोक्तम् । अरे
इति सस्नेहं स्वप्रियां आत्मतत्वोपदेशयोग्यां सम्बोधयति । सर्वस्य
विज्ञातार मात्मानं केन प्रकारेण विजानीयात् । प्रमेय
व्यवस्थापकस्य प्रमाणस्यापि तत्रैव विश्रान्तत्वात् । तदुक्तं
श्रीतन्त्रालोके -

प्रमाणान्यपि वस्तूनां जीवितं यानि तन्वते ।  
(५९) तेषामपि परो जीवः स एव परमेश्वरः ॥ इति ॥  

अतश्चास्य वस्तुनः साधकमिदं प्रमाणं
प्रतिषेधकमित्यनुसन्धानात्मक साधक
बाधकप्रमातृरूपतयास्य वस्तुनः सद्भावे किं प्रमाणमिति वस्तु
सद्भावमनुमत्य तादृक्स्वभावत्वे किं प्रमाणमिति च
प्रष्ट्टरूपतया पूर्व सिद्धस्य महेश्वरस्य स्वयं प्रकाशत्वं
सर्वस्य स्वसंवेदनसिद्धम् । किञ्च प्रमाणमपि यमाश्रित्य
प्रमाणं भवतीत्यादि -

विश्ववैचित्र्य चित्रस्य समभित्तितलोपमे । इत्यादि

किं प्रमाणं न वा भासः सर्वप्रमिति भागिनीत्यन्तं
वक्ष्यते च । प्रश्न प्रतिवचनान्यथा नुपपत्त्याप्येतत् सिद्धमित्याह
तन्निह्नव इति ।

प्। ४६) तस्य ज्ञातृस्वभाव भूतस्य ज्ञानस्य निह्नवे अपलापेप्रष्टुः
प्रष्टव्यज्ञानाभावे प्रतिवचना योगात् इति तात्पर्यम् । अस्यैव
ज्ञानस्य सिद्धिक्रियायाः कथमित्यात्राह - तत्रेति । ज्ञानस्य स्वतः
सिद्धत्वे सर्वप्रमाणसिद्धे सति ज्ञानस्य शुक्लादेश्च
गुणत्वाविशेषेऽपि स्वयं जडभूतात् जडरूपघटादि विश्रान्ताच्च
शुक्लादेरजडबोधस्वभावता अजडप्रमातृविश्रान्ता च ज्ञानस्य
विशेषोऽन्तः संरम्भ[रूपा विमर्श लक्षणा क्रिया शक्ति —] लक्षण
क्रियाशक्तियोगात् भवतीति यतः केन जानामीत्यत्रान्तरी
ज्ञानसंरम्भरूपा विमर्शलक्षणा क्रियाशक्ति——————– श इति
सिद्धम् । क्रिया कालाश्रिता सती । सूत्रशेषार्थमाह - यैवेत्यादि ।
सैवक्रियाशक्तिः उभयोः स्वप्रकाशत्वे समानेऽपि क्रियायाः स्पन्दन
रूपतया प्रत्यक्षादि प्रमाणविषयता लक्षणं विशेषं तु शब्दो
द्योतयति । स्वशक्त्या (६०) स्वसाम———————— त्यभिमानहेतौ
प्राणे तदनु उच्छ्वासादिप्रवृत्ति मम प्राणादि पञ्चक
ज्ञानकर्मेन्द्रिय वर्गद्वयबुद्धिलक्षणे शब्दादि
तन्मात्रापञ्चकमनो बुद्ध्यहङ्कार लक्षणे पुर्यष्टके च
सङ्क्रम्य शरीरमप्याविश्य चेष्टयन्ती गमनादि व्यापार वाग्व्या —
——————— प्रत्यक्षादि सिद्धा । तथान्य ज्ञानमूह्यत इति
व्याख्याति । साचेति । चैत्रादि पर शरीर प्राणादिसाहित्येन तच्चेष्टादिना
ज्ञाता शरीराद्यवेशेन स्वं प्रत्यक्षी भूय परस्मिन्नपि स्वभाव
भूतं ज्ञानं परं प्रतिज्ञापयति । स्पन्दमानस्य इयं प्रवृ ——-
ति यदि क्रियया ज्ञानं ज्ञाप्यते तर्हि कथं तस्य स्वप्रकाशत्वमित्यत
आह - नच ज्ञानमिति । अज्ञानात्मक घटादिज्ञेयवदिदं तया
ज्ञानस्य प्रतीतौज्ञानत्व मेव नस्यात् । न हि घटः पटरूपेण
कदाचिदपि भाति । तत इदमाकारेण प्रतीयमानघट ————————
भासमानस्य ज्ञानस्येदं रूपत्वाभावादहमित्येव वपुः
स्वरूपं । अहमिति प्रतीयमान ज्ञातृविश्रान्तत्वात्
ज्ञानमप्यहमेवेति भाति । यथा इदमिति प्रतीयमान शौक्ल्यादि
रिदमाकारेणैव

प्। ४७) भाति तद्वदित्यर्थः ।

ननु भवतु स्वगत ———–स्य कथमित्यत्राह इति परज्ञानमपीति
। स्वपरभेदस्तावदौपाधिकः । ज्ञानस्य भासन कालोऽहमित्येव
रूपं परमस्यापि स्वास्मिन्नह मित्येव स्फुरणात् । नत्वौपाधिक
भेदवशादपि स्वपर ज्ञानस्य प्रतीति भेदः स्यादित्याह स च————-
–नात्व कारणस्योपाधि भूतस्य
देहादेर्जडत्वादजडात्मविश्रान्ततया वस्तुतस्तद्व्यतिरेका भावात् ।
तथा हि जडभूतानां इत्युक्तनीत्या (६१) जडभूतस्य
घटादेर्देहादेश्च विश्रमस्थानस्य विश्वस्य सदाशिवादिकीटान्तस्य
प्रमातृवर्गस्य परमार्थ वृत्त्यैक प्रमातृ परमशिवरूपत्वं
तस्यैव परप्रमातुः सदास्तित्वं नान्यस्य । तत्र प्रमाण
जडप्रमातृसिद्धिगतपूर्वसंवादितश्लोकशेषः । स्वात्मनः
परिपूर्णस्वप्रकाशाहं परामर्शात्मनः स्वभावभूतः
प्रकाश एव स्वपरात्मभिः स्वेनाहन्तारूपेण परेण
विश्वात्मनेदन्तारूपेणास्ति । नतु तद्व्यतिरिक्तं प्रमातुः स्वरूपं
पररूपं वा अस्ति । ततश्च सदाशिवादि
कृमिपर्यन्तशरीरादिष्वाविष्टचैतन्यरूपस्य परमेश्वरस्यैव
मुख्यं ज्ञातृत्वमिति सर्वज्ञत्वं तेनैव न्यायेन सर्वकर्तृत्वमपि
तस्य सिद्धमेव ।

न क्रिया रहितं ज्ञानं न ज्ञान रहिता क्रिया ।  

इत्यभियुक्तवचनात् । इच्छामीत्यत्र शक्तित्रयानुवेधेन । एवं जानामि
करोमीत्यत्रापि युक्तत्वाभासाम् इत्यादिनीत्या ज्ञानक्रियाशक्त्योरपि
युक्तत्वात् । अनेन जनस्य स्वात्मेश्वर प्रत्यभिज्ञानहेतुर्ज्ञानक्रिया
वत्त्वलक्षणः समर्थितः । ऊह्यत इति पदप्रयोगस्याभिप्रायमाह -
प्रयोगत्वमिदन्ता कारेण प्रमाणविषयत्वम् । ऊहनं नाम
आत्मान्तरस्थतया स्वतः सतो ज्ञानस्य क्रियाया अभिव्यक्तिः । अस्याः
क्रियाया मूलभूतं ज्ञानं किमप्यस्तीति ज्ञापनम् । तच्च
ज्ञानमहन्तारूपेणैव प्रतिभातीति न प्रमेयं अनुमेयत्वे
अग्न्यादिदन्तारूप तयावभास प्रसङ्ग इत्याभिप्रायेणानु मीयत इति
नोक्तम् ।

एवं कथञ्चिदित्याद्यादिवाक्य प्रतिज्ञातार्थ समर्थनपरं
कर्तरीत्यादिश्लोक चतुष्टयात्मकं प्रथममाहिकं व्याख्यातम् ।

प्। ४८) तदर्था नु वाद पूर्वकं नैयादिकादि दर्शनान्तर परिहारेणै
तस्मिन् संविद्दर्शने (६२) नियमेन प्रवर्तमानानां देहादि
जडाहम्भाव विधुराणां जीवाच्छिवत्वाभिव्यक्तिलक्षण
पुरुषार्थसिद्धिर्भवत्येवेति वदन्नस्याहिकस्य
प्रसिद्धामुपोद्घातयञ्ज्ञामाह - तदेवमिति । ज्ञानक्रियाशक्तियोगात्
जनस्येश्वरत्वं सिद्धमिति यस्मात् तत्तस्मादेवं
श्लोकचतुष्टयोक्तप्रकारेणास्मिन् संवेदनपथे स्वात्मन ईश्वरत्वं
सम्यक् स्वप्रत्ययेनैव वेदयतीति जीवरूपस्य स्वात्मन एव
महेश्वरत्वं प्रत्यभिज्ञापके संविन्मार्गे इति ॥

ये रूढाः---------- संवित्तिपरमार्थ पवित्रिताः ।  
परमार्थपदे रूढास्तेऽप्युपाया नियन्त्रिताः ॥  

इति श्रीतन्त्रोक्तनीत्या स्वात्मानमीश्वर————– जडत्वेनानात्मतया
प्रसिद्ध घटादिवत् शरीरप्राणसुखशब्द वाच्य बुद्धि
तदभावाख्य शून्यादीश्वरा नात्म तत्वाविशेषात् तत्रैव
विश्वचित्रमित्तिभूते विश्वोत्तीर्णे स्वरूपे परमेश्वर एव निमज्जयन्तः
नितरां तत्————————-प्रमेयपर्यन्तं मज्जयन्तः तन्मयी
कुर्वन्तस्ते इतीश्वरात्मत्वे सदावर्तमानेऽपि तत्स्वातन्त्र्य शक्त्या
देहाद्यहन्ता लक्षणं पशुत्वं प्रापिता एत इति पुनस्तत्प्रसाद
घटित सद्गुरु कटाक्ष प्रत्यभिज्ञापित स्वात्मेश्वर————————-
व भवन्ति । यदुक्तं शिवसूत्रेषु शिवतुल्यो जायत इति ।

प्रविश्यस्वं मार्ग सहज दयया देशिक दृशा
षडद्धध्वान्तौघच्छिदुरगणनातीत किरणाम् ।

परामाज्ञा करां सपदिशिवयन्तीमविदितां
स्वमा————————————————– ॥ इति ।

श्रीसकलजननीस्तोत्रे -

(६३) जीवन्नेव शिवोऽस्मिसद्गुरु गिरा ज्ञान क्रियाशक्त्यभि
ज्ञानेन प्रतिपादितेन जनवत् सञ्चेष्टमानोऽप्यहम् ।

प्रारब्धाखिल पूर्वकर्मसदसद्भोगोपभोग क्षयात्
देहेऽस्मिन् पतिते————————————————– ॥

————– क्तैरप्युक्तम् । अत्र तार्किकशब्देन केवलं तर्कमात्रा
बलम्बिनः

प्। ४९) स्वात्मानुभववर्जिताः सर्व एव वादिनो गृह्यन्ते । यद्वक्ष्यति -
देहमान भूमिकायां स्थिताश्चार्वाकाः चैतन्य विशिष्टः कायः
पुरुषः इति कायमेव प्राध —————————- न स्थितय इति
श्रीप्रत्यभिज्ञा हृदये ।

बुद्धितत्वे स्थिता बौद्धा गुणेष्वेवार्हताः स्थिताः ।  

इत्याद्यागमेषु चोक्तम् । नित्यदृष्टात्मनास्तित्व वादिनो बौद्धाः
स्थिरात्मसद्भावेऽपि तस्या नीश्वरत्व वादिनो नैयायिका वैशेषिक स—-
—————आत्मनानात्व जडात्मवादिनः सर्वेऽपिसंविद्दर्शने
परदर्शनस्था गृह्यन्ते । तेषां प्रवादाः परस्परं जडम्भजल्पा
एव पां सवः । यदुक्तमभियुक्तैः -

इमं प्राश्निकमुद्दिश्य तर्क ज्वर भयातुराः ।  
त्वाच्छिरस्कवचो जालैर्मे ---------------------------- ॥  

————– । न्ति क्षयमवश मन्योन्य कलहैः, इत्यादि ।

मिथः केशाकेशि प्रथन निधनास्तर्कघटना, इत्यादि ।

यश्चलौकिकवैदिक शैव वामदक्षिणकुर्वादि प्रसिद्धान्
शङ्कासङ्कोच कार्यकारण भाव वृत्तीन् विधीनित्यादि केवलं
परिक्षीण शङ्क—————————- गिशङ्कायाः सन्देह
विप्रतिपत्तिसारतया एकरस तद्विमर्शात्मकसमावेश (६४) विघ्न
भूतत्वादिति च श्रीलघुवृत्ति स्थित्या स्वयं विन्मार्गा वारकाः
तत्पातेन धूसरी भावः आच्छादित तान् वृत्तो भूतपर्वः येषां
धन्यानां अत एत इत्युक्त्या एतदितर दुर्दर्शनाभ्यासविपर्यसित
बुद्धीनामेवात्राधिकार इति दर्शितम् ।

यदुक्तमाम्नायेषु - पशुशास्त्रपरित्यागी शिवशास्त्रपरायणः । इति ।
परिहृतपरदर्शनप्रसङ्गात् पतिमतमेव सदातु वर्तमानः ॥ इति च ।

तत् इति । उक्त प्रकारेण । एतदर्थानुसन्धान वतामीश्वर समावेश
प्रदत्वादयं ग्रन्थसन्दर्भ उपोद्घात सञ्ज्ञां लभते ।

अस्योपोद्घातत्वं व्युत्पादयति - उपेति । उपशब्दस्यात्मनः
समीप इत्यर्थः । उदित्यस्योत्कर्षः । तत्वान्तर्वर्तिनः
सदाशिवादेरत्यतिशयः सर्वतत्त्वोत्तीर्णता रूपं विश्वोत्तीर्णस्य
भगवतो विश्वत्रया

प्। ५०) प्रकाशः यश्च विमर्शः, ते एव ज्ञानक्रिये इति वक्ष्यमाण
न्यायेन घात शब्दस्य हन्यते येन स इत्यर्थः । करणे धञ् प्रत्ययः ।
हन हिंसा गत्योरिति धातुः । अन्तर्विश्रान्तिलक्षण प्रप्त्यर्थात्र गतिरिति
विवक्षिता । विश्रम्यत इत्युक्तम् टङ्कवदिति । अद्रेर्महाभूमेः कुठारो
यथा निरवतितः तत्रैव दृढसंसक्तः पुनरुत्पादयितुमशक्यः
तद्वदयमुत्कर्षः गुरुणा ज्ञापितः पुनरहार्थः
पाशवभ्रमापादकोन भवतीत्यवयववृत्त्या एकोऽर्थः । अस्य
प्रत्यभिज्ञाख्यग्रन्थस्यैतावत् श्लोकचतुष्टयोदीरितमेव तात्पर्यं
प्रधान तयोप्रतिपादनीयोऽर्थः उत्तरग्रन्थः अस्यैव
पूर्वोक्तपक्षनिरास मुखेन विस्तररूप इति प्रधानं प्रतिपाद्य
तात्पर्यकथनरूपत्वात् प्रधानभूतो पाद्घात इति
समुदायरूढवृत्त्यर्थः उपेति । उपांशुसङ्क्षिप्तं कृतेति
क्रियाविशेषणम् (६५) । उदिति ऊर्ध्वे शास्त्रस्यो परिभागो वक्ष्यमाण
प्रमेय विषयो व्यामोहः । तीक्ष्ण तर्कोक्ति निमित्तं कीदृशम्
आत्मप्रधान प्रमेयमिति श्रोतुर्विचाररूपो भ्रमः अनेनैव हन्यते
हिंसार्थमादायापसार्यत इति गत्यर्थाज्ञानार्था इति नीत्या
गत्यर्थमवलम्ब्य ज्ञायत इति च प्रतिपादितम् ।
ततश्चायमप्यवयवार्थः ।

एवमुपोद्घातशब्दस्यार्थत्रयं । सङ्क्षेपविस्तराभ्यां
हिमन्दोत्तमधियां नृणाम् । वस्तुच्यमानमेत्यान्तः करणं तेन
भण्यते ॥ इति न्यायमाश्रित्यसङ्क्षेपतः प्रधानाभिधेयः
शास्त्रार्थो हृदये प्रवेशितः ॥

एवं स्वमते विश्रम्यते ज्ञायत इति, इत्यर्थं हन्तिं
व्याख्यायमतान्तरेण गत्यर्थ मादाय हन्यत इति पदं ख्यातिः
(व्याख्याति) केनाचिदिति । स्त्रियं गच्छतीत्युक्ते स्त्री विषयं गमनं
यथाप्रतीयते तद्गदत्रात्मविषयां गतिं हन्त्यर्थमाहुः केचित् । तु
शब्देन तन्मतमनादरणीयमिति सूचयति । सा हि गतिरैक्यरूपा न
भवति । भेदस्य प्रतीय मानत्वात् । तदृशी गतिस्त्रन विवक्षिता ।
अभेदविश्रान्तिलक्षणायाः एव गतेर्विवक्षितत्वात् । उपसंहरति - एवमिति
। उपोद्घात ————– नवग्रन्थसन्दर्भो वक्ष्यमाण सकल
शास्त्रार्थ सङ्ग्रह रूप इति स्थिते लभ्यत सर्वदाहमिति स्वस्वरूपतया
प्राप्तः विमोहवशादप्राप्तं इव तन्मोहापसारणेन
प्राप्यतेऽभेदेन समाविश्यत इति यावत् ।

प्। ५१) सदासर्वत्रदेशिके—————————————— करूपस्य
चतुष्टयार्थस्य जाग्रदादितुरीयान्तस्य सृष्ट्याद्यनाख्यान्तस्य
भावनादार्ढ्यात् समावेशस्थैर्यात् परमशिवस्तुरीयातीतः
पञ्चकृत्यकारीशास्त्रप्रत्यभिज्ञेय इति । शिवमिति । एवं रूपं
प्रमेयं शिवात् प्रसूतत्वात्—————————- (६६) स्वरूपा
भिन्नत्वाद्य । शिवमयमेवेति आह्निकान्ते
शिवशब्दप्रयोगोमङ्गलार्थः । तदुक्तं श्रीपातञ्जलभाष्ये -
मङ्गलादीनि मङ्गलमध्यानिगङ्गलान्तानि च शास्त्राणि प्रयन्तं
इत्यादि ।

॥ इति शिवम् ॥

॥ इति श्रीप्रत्यभिज्ञासूत्र विमर्शिनी व्याख्यायाम्
प्रथममाह्निकम् ॥

॥ अथ द्वितीय माह्निकम् ॥

अथस्थूणानिखनन्यायेन————– नाक्षेपसमाधानाभ्यां
उक्तमेवोपोद्घातार्थं दृढीकर्तुम्मेतदाक्षेपरूपं व्याचिकीर्षुः -

सहि भैरवसिद्धान्तः पूर्वपक्षोहियन्मयः ।

इति श्रीपर्यन्तपञ्चशिखोक्तनीत्या पूर्वपक्षरूपेणापि
स्फुरन्तं शिवमनुसन्धा ————– दम्पूर्वपक्षतया
आभास्याभेदोत्तरपक्षान्तर्नीयतेतं शिवंस्तुम इत्यन्वयः । येनेति ।
अहमेव विश्वरूपः करचरणादिस्वभाव इव देहः सर्वस्मिन्नहमेव
स्फुरामि भावेषु भास्वरूपमिवद्रष्टाश्रोता —————————-
कर्तापि सिद्धान्ताङ्ममतर्कांश्चित्रानहमेवरचयामीति
श्रीपरमार्थसारोक्तनीत्या सर्वदर्शन कर्ता भेदाभेद रूपेण
स्फुरता विश्वमुपोद्घातोक्तं सर्वं प्रमेयं शिवादि
क्षित्यन्तप्रमातृप्रमेयवर्गश्च भेद इति —————————- भेदेन
परस्परमुतभेदेन च ।

(६७) विमलतरचरभैरव बोधात्तद्वद्विभागशून्यमपि ।  
अन्योन्यं च ततोऽपि च विभक्तमाभाति शिव रूपात् ॥

निर्माय मानगणमात्मविलक्षणाभं
तस्माच्चभिन्नमखिलं किलमेय राशिम् ।

स्वस्मादभिन्नमव भासयता तदेदं
सर्वं महात्रिपुरसुन्दरि चेष्टितं तत् ॥

प्। ५२) इति नीत्या यस्मात् परमप्रमातुर्भेदेन परस्पर भेदेन च
पूर्वपक्षतयेति उक्तार्थविपरीतबौद्धादिमतरूपेणे दन्तया वा
आभास्य आभासीकृत्याक्षिप्याभासनमात्रं कृत्वा न
वस्तुप्रकाश्येति वा अभेदोत्तर पक्षान्तर्नीयते । संविन्मयतया
अभेदरूपस्योत्तरपक्षस्य सत्यं किन्त्वित्यादिना वक्ष्यमाणस्य
सिद्धान्तस्यान्तर्मध्ये नीयते प्राप्यते पूर्वपक्षनिरासेन
सिद्धान्तमयी क्रियते । पूर्वपक्षेह्युपन्यस्ते सिद्धान्तोपन्यासस्या
वकाशो भविष्यतीति मत्वा अभेदोत्तरपक्षान्तर्नीयते इत्युक्तम् । किं चा
भेदेति देशकालाकलितत्वादभेदस्यैकरूपस्य,—————-
यत्रस्थितमिदं सर्वं कार्यं यस्माच्चनिर्मितम् । इति भारूपं
परिपूर्णं स्वात्मनिविश्रान्तितो
महानन्दमिच्छ्वासंवित्करणैर्निर्भरितमनन्तशक्तिपरिपूर्णं
सर्वविकल्पविहीनं शुद्धं शान्तं व्ययोदयविहीनं यत्परतत्वं
तस्मिन् विभाति षट्त्रिंशदात्मजगत् इति श्रीस्पन्दपरमार्थसारोक्तनीत्या
उत्तरपक्षस्य विश्वोत्तीर्णस्य पूर्णाहन्तात्मना प्रकाशस्यान्तर्नीयते ।
तमिति यच्छब्दनिदिष्टमाम्नायादि प्रसिद्धं च शिवम् ।
अशिवरूपसांसारिकमोहापहं तना योगादानन्दसार
भोगापवर्गरूपपरापरश्रेयः परमार्थं स्तुमः (६८) अभेदेन
परामृशामः । बहुवचनस्य निर्वाहः पूर्ववत् ।

ननूपोद्घातसञ्ज्ञितस्य
श्लोकचतुष्टयरूपाह्निकस्यार्थभावनादार्ढ्यादेव
परमशिवोलभ्यत इति पूर्वमुक्तत्वात् किमुत्तर
ग्रन्थसन्दर्भेणेत्याशङ्क्य
तदर्थाक्षेपसमाधानद्वारैतद्विवरणरूपत्वात्तस्य सार्थकत्वमिति
वदन् सिद्धान्त स्थापनोपयोगितया पूर्वपक्षोपन्यासः
प्रथममवश्यं कर्तव्य इति समनन्तरस्याह्निकस्य तात्पर्यं
दर्शयति - इहेति । इहोपोद्घाताह्निके प्रतिपादितं यत् परमार्थरूपं
तदित्यादि स्पष्टार्थम् ॥ अत्र संवादमाह - यदाहेति ।
भवेतिसम्बुद्ध्या परमेश्वरं समावेष्टुमभिमुखीकरोति -
भूसत्तायमिति । धातुगत्या अनवरतं विश्वात्मना भवनशीलः
सर्वदा वर्तमान सद्रूप ते सृष्टयादिशक्ति चक्रेश्वराय
नमसामवसानभूमये तुभ्यं नमः । देहादि प्रमातृता
प्रदर्शनेन

प्। ५३) त्वामेवशश्वदाविशामि । कीदृशायेत्याह - भवसम्भ्रान्तेति ।

संसारैकनिमित्ताय संसारैकविरोधिने ।  
नमः संसाररूपाय निस्संसाराय शम्भवे ॥  

इति श्रीमत्स्तोत्रावल्युक्तनीत्या स्वस्वातन्त्र्यविजृम्भिते मायादि क्षित्यन्त
भवे संसारे स्वस्वरूपापरिज्ञानायात् निरयादिदुःखभोगे मये
सम्भ्रान्तानां सम्यक् स्वात्मानुसन्धानात्मकसुखरहिततया

अनारतगमागमैरनवतिष्ठमानात्मना
क्षणेन पततामयः क्षणत ऊर्ध्वमुद्गच्छताम् ।

इतिनीत्या भ्रमतां भ्रान्तिं अज्ञानसम्बद्धं ज्ञानं बन्ध इति
श्रीशिवसूत्रस्थित्या एतत् तदन्धकारं यद्भावेषु प्रकाशरूपतया
आत्मानतिरिक्तेष्वपि (६९) भवत्यनात्मभिमानोऽयमिति तिमिरा —————-
———— महानयं स्फोटः यदात्मन्यपि
देहप्राणाभावात्ममानित्वम् । इति श्रीपरमार्थसारमर्यादया
चात्मनिसंविद्रूपे नाहं शिव इत्याद्यनात्मता ज्ञानरूपं
अनात्मनिदेहादावहं कृशः स्थूलः—————————-
इत्याद्यात्मता ज्ञानरूपञ्च विभ्रमयुगलमुद्भाल ———————-
——इयभिन्दते यदनात्मनि तद्रूपतावभासनं तत् पुरा
निराकृत्यात्मन्यनात्वरूपां भ्रान्तिं विगलयति परमात्मा
इतिनीत्यासमूलं विच्छिन्दते देवेति पुन —————————- नयोरप्यस्य
सामर्थ्य मस्तीतिद्योतयति । दिवुक्रीडाव्यवहार द्युतिद्युतिस्तुतिगतिष्विति
धातुगत्याहेयो पादेय कथा विरहे स्वानन्दघनतयोच्चलनं क्रीडा
सर्वोत्कर्षेण वर्तमानेच्छा स्वतन्त्रत्वं व्यवहरणमभिन्नेऽपि
स्वात्मन—————————- तनमस्यसति यतः सकलं
तत्प्रवणमात्मलाभात् प्रभृति समस्तोऽपिकर्तव्यः बोधात्मकः
समस्तः क्रियामयो दृक् क्रिया गुणश्च गतिः इति निर्वचनैः
शिवतनुशास्त्रे गुरुभिर्वृतोदेवः इति दृष्ट्या विश्वसृष्ट्यादि
क्रीडापरविश्वोत्कर्षशालितया विजित —————————-
नवरतद्योतमान सर्वस्य स्तोतव्य गन्तव्य निर्द्वन्द्वमिति ।

प्। ५४) तत्तद्रूप तयाज्ञानं बहिरन्तः प्रकाशते ।
न हि ज्ञानादृतो भावाः केनचिद्विषयी कृताः ॥

ज्ञानं तदात्मतां यात मेतस्मादवसीयताम् ॥  

इति नीत्यास्वव्यतिरिक्ता भावादद्वितीयं ज्ञान—————–मानन्दं
(७०) वृत्वा मायया पूर्वपक्षभूमिकाग्रहणेनाच्छाद्यवृण्वते ।
संवित्सिद्धान्तमवलम्ब्य माया पसारणेन व्यक्तीकुर्वते उद्भाव्य
भिन्दते वृत्वाविवृण्वते इत्यनेनानवरतमुद्भावनभेदेन
विवरणस्वभावत्वोक्त्याभगवत ————————-त्वं द्योतितम् ।
तत्रचेहेति । प्रतिपक्ष प्रतिक्षेपे सत्येव पूर्वोक्तं परमार्थरूपं
स्थापितं भवतीति स्थिते अनात्मनीश्वर वादिनां क्षणिकं
विज्ञानमेवात्मातद्व्यतिरिक्तस्तदाश्रयः स्थिरः कश्चिदात्मानास्ति ।
तदभावात्तस्येश्वरत्वं च नास्ति । तव ज्ञानवादिनः
आत्मास्तित्वमभ्य्पगम्य ईश्वरानास्तिवादिनः
निरीश्वरसाङ्ख्याभाट्टाश्च आत्मानीश्वरं चाभ्युपगम्य
तर्योर्भेदात्मन ईश्वरत्वं नास्तीति आत्मनानात्ववादिनो
नैयायिकवैशेषिक शैवादयः आत्मन एकत्वेऽपि विश्वस्य मित्यात्वेन
विश्वकर्तृत्वलक्षणस्वातन्त्र्या भावात्
ज्ञानक्रियाशक्तिमयमात्मानं नास्तीतिश्रुत्यन्त विदः । एतेषां
सर्वेषामभिमतं परमार्थतोविचार्यमाणावस्थायां भ्रान्तिरेव ।
तद्भेदन पूर्वकः परमार्थः स्वात्मन एवेश्वरत्वं सत्यं किं
त्वित्यादिभिरुत्तरोत्तराह्णिकैर्विवदिव्यन्नन्वित्यादिश्लोकैकादशकान्वितेना
नेनानाह्निकेन तस्याभ्रान्ते रुद्भावनं करोतीति श्लोकसमूहस्य
तात्पर्यम् ॥

प्रत्येकं श्लोकानां तात्पर्यमाह - तत्रेति । दृश्येति ।   

दर्शनयोग्यत्वे सत्यनुपलब्ध्याषष्ठप्रमाणेनात्मनोऽभाव उक्तः ।
मानस प्रत्यक्षमवेद्य आत्मेति वादिनोमीमांसकनैयायिकादिन्
प्रतिस्मृति स्मृति विकल्पादिरूपमनुसन्धानं पूर्वानुभव संस्कारात्
सिद्धमितितेनानुमीयः कश्चिदात्मास्तीत्यनुपपन्नम् ।
अनुमेयात्मवादिन इति संविद्वादिनः आत्मनः प्रत्यक्षत्व (७१)
मनुमेयत्वं चोभयं मतम् ।
वैशेषिकादेर्ज्ञानादिगुणैर्नित्यानुमेयत्वम्, तत्रश्लोकत्रयेणेति ।
आत्मानास्ति चोद्धानादानादि सर्वव्यवहारहेतुभूता
अनुभूतार्थस्मृतिः

प्। ५५) कथं भवेदित्यात्मवादिपक्षमेकेजश्लोकेनाशङ्क्यान्येन
द्वयेनैव सा स्मृतिरात्मान मन्तरेण संस्कारात्सिद्धा
आत्मानुमानाय न पर्याप्तेत्युक्तम् । ततः श्लोकेनेति ज्ञानादि
भावानां तैर्नवभिर्गुणैर्गुणिन्यात्मनि प्रतिपत्तिरित्यत्यनुमानं
निरस्तम् । एवमिति । प्रत्यक्षेणवानुमानेव वात्मानास्तीत्यभिधाय
तत्रात्मनि ज्ञानक्रियाशक्तिं सम्बन्धमैश्वर्यं निराकर्तुं
व्यतिरिक्तमिति आत्मानित्यः चित्स्वरूपश्च ज्ञानं चिद्रूपं मनित्यमिति
नैयायिकादिमतम् । ज्ञानं जडम् । आत्मा चिद्रूप इति साङ्ख्यमतम् ।
उभयोरप्यात्मनो व्यतिरिक्तं ज्ञानमिति सम्मतम् । तन्नयुज्यत इति
निरूपितम् । अनेन ज्ञानमात्रमस्ति । तद्व्यतिरिक्तस्यात्मनः
सम्बन्धितया तन्नास्तीत्युक्तम् । वाद्यन्तरेति । आत्माचिद्रूपः
नित्याचाज्ञानं च तच्छक्तिरूपत्वात्तद्वदेवेति वदतः संविहादिनो
व्यतिरिक्तामीमांसक नैयायिकादयः । तत एकेनेति । क्रियातु आत्मवत्
स्वत एव नास्तीति कार्यादिवद्दृश्यत्वाभावात् । क्वचिदिति
चैत्रमैत्रादिकाय व्यतिरेकेण क्वाचिद्देशे काले आकारे वा
क्रियास्तित्वसाधकं प्रमाणं नास्ति । बाधकं चेति-क्रियाया एकत्वे
पूर्वापरक्रमानुपपत्तिः । क्रमे सत्ये कत्वानुपपत्तिः ।
एकाश्रयसम्बन्धे अनेकत्वानुपपत्तिश्चेतिबाधकं प्रमाणम् ।
एकाश्रय सम्बन्धेन क्रियाया एकत्वां गीकारे तस्याश्रस्य देशकाल
विशिष्टत्वेन प्रतिक्षणमन्योन्यरूपत्वादेकत्वानुपपत्त्या
ज्ञानक्रिययोरात्मनश्चान्योन्यसम्बन्धो नास्तीति
सम्बन्धास्तित्वसाधकप्रत्यक्षानुमानत्मक प्रमाणाभावं
वदता परिगृहीत बौद्धभूमिकेनाचार्येण सम्बन्धस्य (७२)
नास्तित्वं प्रतिपादितम् । साधकप्रमाणाभावं वदता
पूर्वपक्षिणोक्तं सम्बन्धस्य द्विष्ठत्वादेकत्वानुपपत्तिरिति
बाधकं प्रमाणं नात्मास्थिर इत्यादिज्ञानस्य स्वसामग्री
कार्यत्वात् —————- भावात् कर्तरि ज्ञातरीत्युक्तमनुपपन्नमेवेति
पूर्वपक्षस्य सर्वस्य ताडिताडितार्थः ।

ननु स्वलक्षणभासं नित्यस्य कस्यचिदितिश्लोकद्वयम्,
अथानुभव विघ्नस्ते सत्याप्यात्मनि यतोहीतिश्लोकत्रयं ततो
भिन्नेष्वित्येकश्लोकं —————-

प्। ५६) थार्थस्येति श्लोकद्वयं क्रियाप्यर्थस्येत्येकः तत्र तत्र स्थिते
तत्तदित्येकः द्विष्ठस्यानेकरूपत्वादित्येकः, एवं प्रतिश्लोकं
तात्पर्यमुक्त्वा ग्रन्थं व्याख्यातुमुपक्रमते अथेति । आत्मनो
ज्ञानक्रियाशक्तिभ्यां महेश्वरत्वं प्र——————————–
मित्यनेन प्रमातृनिष्ठे ज्ञानक्रिये स्वतः सिद्धेस्तः इत्युक्तम् ।
तत्रज्ञानव्यतिरिक्तस्तदास्थिर आत्मैव नास्ति । ज्ञानमपि न भवदभि
प्रेतशक्तिरूपं प्रदर्श्य संविद्वाद्यभिमतस्य किन्तु क्षणिकमेव
क्रिया तु स्वत एव नास्तीतिक————————- नानुपपन्नमिति
प्रथमाह्निकोक्तमर्थं माक्षिपति । नान्वितिपदेन
स्वलक्षणाभासमित्यादिना प्रथमं स्वाभिप्रेतं ज्ञानस्य
स्वरूपं प्रदर्श्य संविद्वाद्यभिमतस्य ज्ञानस्य तदाश्रय
भूतस्य नित्यस्यात्मनश्च नास्तित्वं प्रतिपादयन्ति —————————-
—- नन्तरभावि विकल्प ज्ञानकाले स्फुटीभाविष्यत्
देशकालाकाराख्यं लक्षणम् ।
अत्रत्यमिदानीन्तनमेवमाकारमित्यादि विशेषणं प्र्थमं
निर्विकल्पकाले स्वस्वमात्रगतं नीलादिनिष्ठं न तु
द्रष्टृरूपाभिमताहं प्रतीति गतं नीला ——————————–
क्षणं निर्विकल्पकालेद्रष्टा (७३) परामृश्यते । तदानीं
वस्तुमात्रस्यैवावभासात् । तदुक्तं वस्तुमात्रावभासं
निर्विकल्पकमिति । नामादिभिर्विशिष्टार्थविषयं सविकल्पम् ।
अविशिष्टार्थविषयं प्रत्यक्षं निर्विकल्पकमिति च । एवं
स्वरूपरूपतया ——————————– देशादिरूप लक्षणवतो
नीलादेराभासोऽन्तर्मुखः प्रकाश बहीरूपस्य विषयस्य
ग्रहणोन्मुखत्वेन स्वयमपि बहिर्मुखे यास्मिज्जाने भवति तत्
स्वलक्षणाभासं निर्विकल्पाख्यं ज्ञानम् । एतदेकं
एतन्मूलत्वादुत्तरभाविनां तदुत्तर भाविनां विकल्पानां
प्रधानम् । किञ्च स्वविषयस्य नीलादेर्नानात्वेऽपि स्वात्मन्येतद्विकल्प
ज्ञानवदवान्तर भेदरहितं परमिति एतदनन्तरभावि एतदीय
विषयादन्य विषयत्वेन विषयभेदादेतदन्यच्च । पुनः शब्दो
विशेषद्योतकः । साभिलापमिति - अभिलापेन इदं तत् तदिदमित्यादि
सञ्जल्पात्मना शब्देन रूपेणसहितं । अत एव बहुधा विकल्प

प्। ५७) स्मृत्यनुसन्धानादिरूपेण नानाविधं विकल्पाख्यं
विकल्पकज्ञानमिति निर्विकल्पक सविकल्पकभेदेन ज्ञानद्वयमेवास्ति ।
नतु तद्व्यतिरिक्तं नित्यं ज्ञानम् । ननु भवत्वेवं विधमेव
ज्ञानद्वयम् । तेनापि प्रत्यभिज्ञासिद्ध्यत्येवेत्यत आह - नापीति ।
तद्द्वयमपि नित्यस्य कस्यचिद्द्रष्टुः सम्बन्धिनभवति ।
अनुभवविकल्प स्मृत्यादिकालेषु अनुसन्धातृरूपेण य एवाहं
स्फुटमन्वभूवं स एवेदानीं तं स्मरामि
इत्याद्यनुसन्धानवशात् अनुस्यूतस्य नित्यत्वेन भवदभिमतस्य
द्रष्टुरनुभवादिज्ञानाश्रयस्यात्मनः सम्बन्धि न भवति । अत्र
हेतुमाह - तस्येति । अत्र प्रोक्त ज्ञानद्वयमध्ये तस्य
द्रष्टुरनवभासतः अप्रकाशनात् ।

नन्वहं जानामि अहं विकल्पयामीति ज्ञानद्वयाश्रयभूत
आत्मा प्रकाशत एवेत्यत्राह अहमिति । एषा आत्मनिसाधक प्रमाणत्वेन
भवदभिमता सर्वस्य प्रसिद्धा अहं प्रतितिरपि शरीराद्यवसायिनी
शरीरादिमेवात्मत्वेनाध्यवस्यति । सख्यहं दुःख्यहं
ज्ञानसन्तानं वा अत एतदहं प्रत्ययलक्षणः प्रत्यक्ष
प्रमाणगम्यः शरीरादिव्यतिरिक्त आत्मा नास्ति । अहं प्रतीति प्रत्येयत्वे
आत्मनोऽपिदृश्यत्वात् बाह्यार्थ वादिमतानुसारेण दृश्यं
दर्शनमिति द्वयमेवस्यात् । नतु द्रष्टा इत्यात्मानं
प्रतिप्रत्यक्षाभाव उक्त इति श्लोकस्य सङ्क्षेपार्थः ।

अवतारितं श्लोकद्वयं प्रतिपदं व्याख्यातुमुपक्रमते -
नान्वित्याक्षेपे इति । अनेनाक्षेप्य व्याक्षेपकलक्षण ।
पूर्वोत्तराह्निकयोः सम्बन्धोदर्शितः । कर्तरीत्यनेनात्मनः स्थिरत्वं
ज्ञातरीत्यनेन स्वप्रकाशत्वं चोक्तमनूद्य तदाक्षेपं प्रकटयति -
इहेति । अनन्तरं करिष्यमाण ज्ञानक्रिया स्वरूप
तत्सम्बन्धरूपैश्वर्यनिराकरणापेक्षया तावच्छब्द प्रयोगः ।
तावत् प्रथमम् । इह पूर्वस्मिन्नाह्निके । आत्मा संवित्स्वभावा स्वयं
प्रकाश इति । ज्ञातरीत्यनेनोक्तं स्थिर इति कर्तरीत्यनेनोक्तं चायुक्तम् ।
अत्र हेतुः नित्यस्येति । मुख —————- व्याख्या स्थिरस्येति ।
द्रष्टुरित्यादिव्याख्या - स्वप्रकाशस्येति । अनवभासतः
दृश्यत्वेनाप्रकाशादिति । नन्विति । पूर्वोक्तवैपरीत्यप्रतिज्ञां नित्यस्य
कस्यचिद्द्रष्टुरनवभासत इति हेतुः ।

प्। ५८) एवं भूतस्यात्मनोऽप्रकाशनादसत्वे किं शून्य मेव ———-
———————- प्रकाशमानत्वात् तेषामेवात्मशब्दवाच्यत्वमित्यत
आह - तथाहीति । घटप्रकाश इति । वस्तुमात्रविषयं निर्विकल्पज्ञानं
विकल्पः घट एव न पट इत्यन्या पोह जीवितो विकल्पः सोऽयं घट इति
स्मरणानुभवोभयरूपा प्रत्य—————- । दिवत्
प्रत्यक्षान्तर्भावात् स्मृतेः पूर्वमेव प्रदर्शनं घट स्मृतिः
पूर्वानुभवसंस्कारमात्रजं ज्ञानं घटोत्प्रेक्षाऽनूनं
घटेनात्र भवितव्यमित्यादिरूपा । (७५) आदिशब्देन सङ्कल्पः ।
भिन्नकालानीति । इदमिति वस्तुमात्र प्रथाकाल ए ————— तदिदं
नीलमिति प्रत्यभिज्ञाकाल एकः नूनं नीलमित्युत्प्रेक्षाकाल एकः ।
भिन्न विषयाणीति । इदमिति देशकालाविशिष्टं वस्तुमात्रं निर्विकल्पस्य
विषयः । अत्रत्यमिदानीन्तनमेवमाकारमिति देशकालाकारविशिष्टं
नील —————- समानाकारं नीलं प्रत्यभिज्ञाविषयः तन्नीलमिति
भानरूपं स्मृतेर्विषयः । प्रायेण नीलं भवतीत्युत्प्रेक्ष्यमाणं
नीलमुत्प्रेक्षाविषयः । समानाकारं नीलं प्रत्यभिज्ञाविषयः
तन्नीलमिति भातरूपं स्मृतेर्विषयः प्रायेण नीलं
भवतीत्युत्प्रेक्ष्यमाणं नीलमुत्प्रेक्षा विषयः भिन्नाकाराणि चेति
इदमि त्येवमाकारं निर्विकल्पकं इदं नीलमेवेत्यादिकं विकल्पादि—–
———– य भेदश्चाकार भेदश्च । एवं घट प्रकाशादीनि
ज्ञानान्येवात्मशब्दवाच्यानि प्रकाशन्ते नत्वेतानि
तद्व्यतिरिक्तद्रष्टुः सम्बन्धीनि प्रकाशन्ते इत्येवमाकारस्यार्थः ।
इहेत्यादिना भिन्नाकाराणि चेत्यन्तेन श्लोकद्वयस्य तात्पर्य—————-
स्वलक्षनाभास शब्दार्थमाह - तत्रेति । ज्ञानान्येव प्रकाशन्त इति
स्थिते पदार्थ प्रकाशनमेव तावत् संवेदनं प्रसिद्धमिति
श्रीत्रिंशिकालघुवृत्तिन्यायेन ज्ञानस्य ज्ञेयाधीनत्वात् नीलस्य
प्रकाश इत्युक्तम् । कीदृशस्य ——————————– अन्याननुयायीति
प्रमात्रननु यायी । स्वरूपेति । नीलस्वरूपमात्रे सङ्कोचेन स्थितं
यस्य लक्षणं देशादि स्वं आत्ममात्रनीलं न तु द्रष्ट्टगामि तस्य
स्वलक्षणस्य बहिर्मुखस्यनीलस्य आभासः तद्ग्रहणोन्मुखे, अत एव —
——————–रेण गत्वा तदन्तः प्रकाशनं तदविकल्पकं ज्ञानम् ।
(७६) एकशब्दार्थमाह - विषयभेदेऽपीति । स्वस्वरूपे एक रूपं तत्र
हेतुः ।

प्। ५९) (७६) तद्वैचित्र्यमिति । अविकल्पके स्वरूपवैचित्र्यं
नास्तीत्युपपादयितुमेतत्प्रतियोगिनि निर्विकल्पके वैचित्र्यका ———————
———– ल्पहीति । वैचित्र्यकारणमभिलापे निर्विकल्पके विषयस्य नास्तित्वे
तदुपपादयति नहीति । अभिलापः साक्षात् सङ्केतितं योऽर्थमभिधत्ते
स वाचकः । ——————————– इतिनीत्या इदं नीलमित्यादिसाङ्केतिको
व्यवहारः प्रमातृगत श्रोत्रग्राह्यश्चक्षुर्विषयस्य नीलस्य धर्मो न
भवति । असा वभिलापः प्राप्यः प्रागेव प्रामाणिकैः
कल्पितत्वान्ननीलादिग्रहणभावः । अत एव तदानीं स्मर्तव्यः ।
स्मर्तव्यस्य स्मृतिरपेक्षिता । स्मृतेश्च संस्कार प्रबोधः ।
तस्यानुभूतविषयसदृशवस्तुदर्शनम् इत्येभिः
प्रकारैर्व्यवहितस्याभिलापस्य वस्तुमात्रदर्शनरूपनिर्विकल्पसमये
स्मृतिरेवनास्तीति न तस्यवैचित्र्यकारणम् । अत एकरूपमिति सिद्धम् ॥

परशब्दस्यावध्यपेक्षत्वात् तत इत्युक्तम् । ततस्तस्मात् ।   

प्रकृनिर्विकल्पकात् परमनन्तरभाविविकल्पज्ञानं विकल्पस्य
निर्विकल्पानं तरभावित्वेहेतुमाह सर्वस्येति । इदमिति
प्रतिभासानन्तरं इदं नीलमेव नपीतमित्येवं
निर्विकल्पकसमनन्तर भाविनोऽन्यापोहनरूपस्य विकल्पस्य साक्षात्
अव्यवधानेन निर्विकल्पकमूलत्वं तदित्यादिरूपस्य
स्मृत्यादेर्निर्विकल्पकमूलसबिकल्पकमूलत्वाद्व्यवधाने
पारम्पर्येण निर्विकल्पक पूर्वानुभवसंस्कारोद्बोधाव्यवधानेन
निर्विकल्पकमूलत्वं । परशब्दस्यार्थान्तरमाह - परमितीति ।
निर्विकल्पकरूपादर्थादन्योऽर्थो विकल्पस्य विषय इति ।

अन्यार्थरूपत्वमेव विवृणेति - सामान्येति । तस्य सविकल्पस्य
सामान्यलक्षणनिर्विकल्पविषयस्वलक्षण व्यतिरिक्तं
सर्वप्रमातृसाधारण देशकाला काराख्य लक्षण विशिष्टं (७७)
वस्तु विषयः हानादानादिव्यवहारसाधकः । ननुस्वलक्षणमेवा
स्यापि विषयः किं नस्यादित्याशङ्क्य तस्यसाङ्केतिक
व्यवहारागोचरत्वान्मैवमित्याह स्वलक्षण इति ।
निर्विकल्पकविषयेदेशकालाकाराविशिष्टतयातिसङ्कोचवति
वस्तुमात्ररूपेण विकल्पेन च साध्यस्योद्बोधस्य व्यावहारिकस्य
लोकव्यवहार प्रसिद्ध्यस्यौपदेशिकस्य गुरूपदेश सिद्धस्य
रहस्याभिधानस्य वा सङ्केतस्य कर्तुमशक्यत्वात्

प्। ६०) सङ्केतकरणे तस्य सामान्य लक्षणत्वेन स्वलक्षणत्व हानि
प्रसङ्गात् । वस्तुमात्ररूपे वा भ्रान्त्या अन्यस्मिन्नन्य सञ्ज्ञा
कारणवत् कथञ्चित्कृतस्यापिसङ्केतस्य व्यवहारसाधकत्वेन
निष्प्रयोजनत्वात् । तेन सङ्केतकरणयोग्येनाननुयायिना प्रमात्रननु
गतेन स्वस्वरूप मात्र निष्ठेन लक्षणे न पुनः सङ्केत
ग्रहणानन्तर भावी व्यवहारो न स्यात् । अतो
व्यवहारोपयोगिसामान्यलक्षणमेव विकल्पस्य विषयः
इत्यन्यार्थरूपं विकल्पज्ञानमिति सिद्धम् ।

बहुधेति पदस्यार्थमाह तच्चेति । तत् विकल्पज्ञानं स्मृत्यादि
भेदेन बहुप्रकारम् । तस्य न——————पदं हेतूकरोति- यत इति ।
तदित्यादिस्पष्टार्थम् । इदमिति वर्तमानरूपम् । तदिति भूतरूपम् ।
तदिदमिति भूतवर्तमानरूपम् । इदं वेदं वेत्युत्प्रेक्षारूपम् ।
शब्दनं वर्तमान समये इदमिति प्रथमानस्य
नीलस्यक्षणेक्षणेऽन्यान्यनीलरूप——————————– नमपि
इदमिदमित्यन्यान्यरूपं भवति । इति वा इदं वेदं वेत्तीत्यत्यस्यार्थः

ननु विषय गत शब्दनभेद मात्रेण विकल्पस्य बहुभेदत्वं
कथमित्यत्राह तच्चेति । तत् तत् शब्दनं प्रमातृधर्मत्वात्
विकल्पज्ञानविषयनीलादिजड——————————–
स्मृत्यनुसन्धानादिरूपेण वैचित्र्यमुत्पाद्य मानमित्यर्थः । (७८)
स्वलक्षण भासमित्यादि बहुधेत्यन्तेनोक्तमित्थं सङ्गृह्य दर्शयति
एवमिति । ज्ञानान्येव प्रा ——————————– वमुक्तेन
प्रकारेणानुभवपरम्पराघटस्मृति घटानु सन्धानादि सन्ततिः ।
एवं पटादावपीति । अनुभवानां विकल्पानाञ्च————–परम्परा
किमन्येन भवति । स्वत एव वा । आद्येऽनवस्था । द्वितीये कतृविरोध इत्यत
आह स्वप्रकाशत्वेनेति । आद्यपक्षोऽनङ्गीकारपरास्तः । द्वितीये स्वस्य
प्रकाशेऽन्यानपेक्षत्वमेव स्वप्रकशत्वमित्यङ्गीकारात् । न तु ———-
———————- लक्षण स्वयम्प्रकाशत्वेन । नापि तद्द्वयम् ।

नित्यस्ये त्यादि ग्रन्थं व्याख्यातुं
तन्निरस्याशङ्कामुत्थापयति स्यादेतदिति । यथाचित्रं भित्तिलग्नं
भाति । अथासावनुभवविकल्पपरम्परा

प्। ६१) लग्ना यस्मिन् अनुभवितृविकल्पयितृरूपे————————–आभाति ।
स्वाश्रय भूतस्य तस्या प्रकाशे स्वस्या अपि प्रकाशाभाव
प्रसङ्गादित्येतत् भवतो मतंस्यादित्यर्थः । एतच्छङ्कोत्तरत्वे नापि
तद्द्वयमित्याद्युत्तर ग्रन्थमवतारयति - तन्नेति । नित्यस्य कस्यचित्
द्रष्टुरितिनित्य——————————– राकालेष्वनुस्यूतस्य
कस्यचिद्युक्तिनिरूपणमसहमानस्य ज्ञानद्वयाव्यतिरेकेण
दृश्यस्याश्रयत्वेनास्तीति त्वयोच्यमानस्येत्यर्थः ।
स्मृत्यादिविकल्पानामत्यनुभवमूलत्वादनुभवितुरित्यनुभवाश्रयग्र्
अहणेन स्मृत्याद्याश्रयोऽपि गृहीतः । तेन ज्ञानद्वयव्यतिरेकेण
तदाश्रयं कोऽपिनास्तीत्यर्थः ।

ननु विज्ञानपादे ज्ञानस्य द्वयव्यतिरेकेण
दृश्यस्याप्यभावात् द्रष्टुः (७९) सम्बन्धि न भवतीति
वक्तव्यमित्यत्राह - दृश्यस्य त्विति । स्वमतेदृश्या भावोऽपि
बाह्यार्थवादिमतानुसारेण दृश्यस्य सम्बन्धिभवतु वा ।
विचार्यमाणे तदप्यनुपपन्नम् । तथाप्यङ्गीकृत्योच्यते ।
सञ्चिद्वादिसम्मतं द्रष्ट्टसम्बन्धिनभवत्येवेत्यत्रभरं
कृत्वैवमुक्तमित्यर्थः । ज्ञानद्वयं न द्रष्टुरित्यत्रहेतुकथनपरम् ।

तस्येत्यादिग्रन्थमवतार्य व्याचष्टे -अत्रेति । तस्येति मूलपदस्य
द्रष्टुरित्यनवभासत इत्यस्य हेतुत्वद्योतनायावभासो नास्तीति यत इति च
व्याख्यातम् । ननु द्रष्टुरवभासायोग्यत्वादनवभासः
नत्वसत्वादित्यत्राह - अत एवेति । संविद्वादिना द्रष्टासंवित्स्वभाव
इत्युपगम्यते । संविच्च स्वप्रकाशा । अतः
स्वप्रकाशसंवित्स्वभावत्वेन———-राभिरस्य
स्वप्रकाशतथाप्यङ्गीकर्तुं न्याच्यत्वात्——————त्राह - अत एवेति ।
—————- वादिना —————- ति । आपन्ना आगता उपलब्धीति
ज्ञानद्वयसमीपा वगमरूपा प्राप्तिर्यस्यतस्येत्यर्थः । अथवा -
आपन्नाप्राप्ता उपलब्धिलक्षण प्राप्तिः । उपलब्धौ यल्लक्षणं
कारणं तस्य प्राप्तिर्योग्यता येन तस्येत्यर्थः । योग्यत्वे
सत्यनुपलब्धिः सर्वत्र तत्तद्वस्तुनो भाव ज्ञानहेतुः ।
तत्रोपलब्धिकारणप्राप्तिर्योग्यता । तथाचद्रष्टृप्रकाशता योग्यत्वात्

प्। ६२) योग्यत्वेसति लक्षणानम्श सद्भावात् । अयोग्यत्वादनवभास इति
वक्तुमशक्यत्वादनवभासाच्च तस्यसत्तेव नास्तीतिभावः । अत्रेति
मूलपदस्यैतद्बाधद्वयमध्य इत्यर्थः ।
एतत्सूत्रोक्तेबोधद्वयमध्ये अहं प्रतीतिरित्युत्तरार्ध (८०)
व्यावर्त्याशङ्कां दर्शयति - नन्विति ।
उपलब्धिकारणप्राप्तिमतोद्रष्टुं योग्यस्यानुपलब्धिः
द्रष्टृभावसाधकत्वेन त्वयो पन्यस्ता असिद्धेति न द्रष्टृनास्तित्व
निश्चयः ।

अवभासस्यास्तित्वमेव साधयति - तथाहीति विदादीति । विदज्ञाने ।   

चिञ्चयने । स्मृङ्-अध्ययने इति विदादि रूपायाः प्रकृतेः प्रत्ययात्
प्रथमं क्रियत इति प्रकृतिः शब्द विशेषः ।
तस्यार्थरूपाद्वाच्यभूतादनुभवरूप
ज्ञानवृत्त्यादेस्तद्विषयाच्च अहंवेद्मीत्यादिष्वनुभूते अहमिति
प्रकाशे अनुयायि अहं प्रतीतिप्रत्ययं ज्ञानाद्याश्रयभूतं
वेदितृनिश्चेतृस्मर्तृ स्वभावमात्माख्यं रूपं भातीति
दृश्यानुपलब्धिरसिद्धेति द्रष्ट्रस्तित्वं सिद्धमित्यर्थः ।
अहमित्यस्य स्वप्रकाशत्वमेव नास्तीति सूत्रगतापि शब्दार्थं
मनसि निधाय परिहारमाह - एकमिति । असम्बद्धप्रलापोऽयमित्याह-
क एवमिति । युक्तितत्वज्ञोऽनुयायिरूपं परी———किञ्च ज्ञानादेवं
वदसीत्याक्षेपार्थः किं शब्दः । अहमित्यस्य वस्तुतः
शुद्धप्रकाशत्वमेव नास्तीतिवक्तुं प्रकाशस्यस्वरूपमाह-
भानंहीति । शब्दसञ्जल्परहितं निर्विकल्पकमेव
प्रकाशशब्दस्यार्थः । अहमिति प्रतीति स्तथानभ——————————
अहमित्याकारेण शब्देनानुविद्धा । अत एव विकल्पप्रत्ययः ।
अस्तुत्वदुक्तनीत्या अहमित्यस्य विकल्पप्रत्ययत्वम् । तथापि तत्प्रत्ययो वि—–
——– ते—-नन्विति । किं रूपं विकल्प्यते विकल्पप्रत्ययाद्व्यतिरिक्तं
विकल्प्यं किमपि रूपमङ्गीकार्यम् तदात्मरूपमिति शङ्कार्थः ।
विकल्प्यः शरीरादिरेव तदतिरिक्त आत्मा अङ्गीकर्तव्य इत्याह शरीरेति ।
प्रतिक्षणं शरीरादीनाम——————————–

प्। ६३) (८१) सन्तान इत्युक्तं शरीरम् । सन्तानस्य विकल्प्यत्वेहेतुमाह -
कृशोऽहमिति । ननु ममशरीरमिति शरीर व्यतिरेकेणात्मनः
प्रतीयमानत्वात् कथं शरीरसन्तानस्याहं प्रत्यय विकल्पत्वम्,
विज्ञानवादिनो देहात्मवा——————————- शङ्क्या परितोषात्
पक्षान्तरमाह - ज्ञानेति । ज्ञानसन्तानस्य विकल्प्यत्वे हेतुमाह
सुख्यहमिति ।

ननु सुखमस्यास्तीति सुखीति तदस्यास्त्यस्मिन्निति
विहितमत्वर्थमादाय वर्तमानस्य अत इनि ठनौ इतीनि प्रत्ययस्य प्र——
—————- याश्रयोज्ञान सन्तान व्यतिरिक्त आत्मा अङ्गीकर्तव्य इत्याह

  • मत्वर्थी यश्चेति । अहं प्रतीतिरित्यादितात्पर्यतो व्याख्याय
    शब्दसङ्गत्याव्याकरोति - तदेतदिति । अवसायो विकल्पः । तत्र हेतुः
    सदृशेति । पूर्व पूर्व क्षणदृष्टस्तु सदृशानां
    पूर्वपूर्वाकारसदृशाकारतया भ्रान्त्या
    प्रतीयमानानामुत्तरोत्तरक्षणेष्वन्यान्य रूपाणां भावानां
    सविशेषाणां नीलादीनां ग्रहणे एकाकारतया भ्रान्ति प्रतिभासने
    सामर्थ्यवत्यावक्ष्यमाणया वासनया अविष्टत्वात् ।

एषेति पदस्यार्थमाह - एषभावन्मते आत्मसाधकत्वे न
सम्मता इयम स्माभिर्नापलपिता । अहं कृश इति सर्वेषां स्व
प्रत्ययसिद्धतया प्रतीयमानत्वात् । किन्तु विकल्पान्तर्भूतत्वेन
सङ्गृहीतैव ।

अहमित्यादेः पिण्डितार्थमाह - एतदुक्तं भवति -
विदादिप्तकृत्यर्थ ज्ञानादि तद्विषयाभ्यां व्यतिरिक्तं ज्ञातार
मात्मानं साधयता वक्तव्यः किमहं प्रतीतिरेवात्मा तत्प्रत्ययो
वेतिविकल्प्य पक्षद्वयमपि न सम्भवतीत्याह - अहं प्रतीतिरिति ।
स्थूलोऽहमित्येकदा कृशोऽहमित्यन्यदेत्यादिना (८२)
प्रतिक्षणमन्यान्य रूपत्वादेकाकारप्रतीतेरस्थिरत्वात् ।
घटादिप्रतीतिप्रत्यये घटादिरूपवदहं प्रत्येयः शरीराद्व्यतिरिक्त
आत्मा नास्ति । तद्व्यतिरिक्तात्माङ्गीकारेऽपिन
भवदभिमतमात्मसिद्धिरित्यपि शब्दार्थमाह - भवन्नपीति ।
घटादिवद्वेद्यत्वादहं प्रतीति प्रत्येयत्वाङ्गीकारात्
वाचकशब्दाभावात्कथमयमर्थोगत इत्यत्राह - एतदपि शब्देनेति ।

प्। ६४) श्लोकद्वयोक्तमर्थं निगमयति - एवमिति । एवं प्रत्यक्षेणा
आत्मनो नावगतिः । दृश्यानुपलब्ध्या तन्नास्तित्व प्रतीतेरित्युक्त्वा
अनुमानेनापि न तत्प्रसिद्धिरिति वक्तुमुत्तरश्लोकेनानुमानमात्मनि
प्रमाणत्वेनोत्थाप्यत इत्याह - अत्रेति । एवं प्रत्यक्षमात्मनि
प्रमाणमित्युक्त्वा अनुमानमपि तदस्ति साधकमिति वक्तुं
उत्तरश्लोकेनानुमानमुत्थापयतीत्याह - अत्रेति । प्रत्यक्षेणात्मान
सिद्धयतीत्युक्ते संवित्संवेद व्यतिरिक्त आत्मास्तीति वादी आत्मवादी
तेनोपन्यस्यमानमात्मसाधकं स्मृतिलिङ्गमनुमानम् ॥

अथेति चोद्यप्रारम्भे नित्य अनुभावक आत्मानस्यात् । यदि तर्हि
अनुभवविध्वंसे तदनुरोधिनी स्मृतिः कथं भवेदित्यथ इत्यन्वयः ।
नित्य इति । पूर्ववदनुभावकः अनुभवकर्ता अनुभवता आत्मा
अहंरूपः अनुभवेति । अयङ्घटोऽयं पट इत्यनुभवस्य
नाशेतदित्यनुभावानुरोधिनी स्मृतिः अनुभूतविषया
सम्प्रमोषरूपा कथं केन प्रकारेण भवेत् स्यात् ।
स्मर्तरभावेऽर्थस्य स्मर्यमाणत्वा भावात् अर्थेनाकिञ्चित्करेण
स्मृत्युपपत्तिः । अनुभवेनापिनैवस्मृतिर्घटते । नष्टत्वादेव । अतोन
केनापि प्रकारेणैव स्मृतिर्घटेत ।
स्मृत्यभावेसङ्केतशब्दस्मरणाधीनाः सर्वे विकल्पा अपि नस्युः ।
निर्विकल्पमात्रेण च व्यवहा ——————————– क्ष्यति । इह
दृष्टमपि निर्विकल्पकेन यावन्नपरामृष्टं विमर्श विशेष
विश्रान्त्या तावत् स्मर्यत इति सर्वव्यवहार (८३) विलोप प्रसङ्गात् ।
व्यवहारसिद्धये स्मृतिस्तावदङ्गीकर्तव्या । तदाश्रयभूतोनित्यः
अनुभवकालो अनुभूत ——————————– श्चिदात्माङ्गीकर्तव्य इति
धूमलिङ्गेनाग्न्यनुमानादिवत् स्मृति लिङ्गेनानुमान मुक्तं भवति ।
इति यो दयासि किमिति सूत्रस्य सङ्क्षेपापार्थः । इहेति ।
अनुभवकालानन्तरभाविनिस्मृतिकाले अनुभूतः स्मर्तुमिष्टाऽर्थः
वा ——————————– तध्वंसतां वा नष्टेनानष्टेन वा
नेनार्थे न स्मृतेः किं प्रयोजनं अर्थस्मृति जनको न भवतीत्यर्थः ।
तमेवेति । स्वत एव विषयाभावोऽनुभूतमर्थमेवस्वात्मनो विषयी
कर्तुमनुभवमेवमेव ————————————————

प्। ६५) मनु भावानुसारेण स्वत एवानुभववाद्विषयः किं
नस्यादित्यात्राह - तथा हीति । प्रकाश इति । इदमिति वस्तुमात्रतया
स्फुरण मध्यवसायः । इदमेवेति निश्चयः । अयमनुभवोऽयमर्थ
इत्यनुभवार्थयोः सहभावेन प्रका——————————–ष्य भावे
दण्डविशिष्टो देवदत्त इति वदनु भवविशिष्टोऽयमर्थ इति । तत्र हेतुः
सर्वत्रेति । स्मृतावर्थस्य प्रकाशे अध्यवसाये अनुभवार्थयोः
सहप्रकाशेऽनुभवविशिष्टस्यार्थस्य प्रकाशे निश्चयेवा सति
प्रकाशाध्यवसाय ———————————————— ज्येति । न च
स्मृतावर्थस्यायमिति प्रकाशः स घट इति तत्रा विशिष्टस्यैवार्थस्य
स्फुरणात् ।

ननु स्मृतौ स्वत एवार्थः प्रकाशाभावे कथ मर्थावभास
इत्याशङ्क्यानु भवानुसारेण स्यादित्याह - किं त्विति । त्विति पदं
स्मृतेः स्व——————————- व स्वात्मनोऽर्था वभासा
पेक्षयानुभवानुसारित्वं चापेक्षितमिति द्योतयति । संस्कारात्मना
स्मृतिकालेऽप्यनुवर्तमानः (८४) अनुभवप्रकाशे एव प्रधानम् । अत्र
हेतुः - अनुभवस्येति । ततः किमित्यत आह - अनुभवे —————————–
— स्यानुभवस्य वासनारूएपे प्रकाशे सत्ये व स्मृतौ स
इत्यर्थावभासो भवतीत्यर्थः । सर्वयेति । संस्कारात्मनापीत्यर्थः ।
अनुभवः प्रमातरि संस्कारात्मना अनारूह्य संस्कारेण
ध्वस्तायदिति । तत्प्रकाशेति । अनुभवप्रकाशरूपा । तद्द्वारेणेति ।
अनुभवप्रकाशद्वारेण । स इत्यर्थ विषया स्मृतिः कथं स्यात् ।
माभूत् स्मृतिरितिनवक्तव्यमित्याह तयेति । तयास्मृत्या पूर्वानुभूतं
वस्तु मनसा स्मृत्वा हानादानादिः सर्वोव्यवहारः क्रियत इति
सर्वव्यवहारमूलाभूता स्मृतिः सर्वस्य स्वप्रसिद्धा
स्वरूपेणनापलपनीया स्वकारणभूतस्य्सनुभवस्यनाशे
स्वाश्रयभूतमपि नष्टं किञ्चिद्रूपमस्तीत्यावेदयति ।
यदिज्ञानान्येवप्रकाशन्त इरि भवमन्तं तन्निरस्तमेव ।

नन्व्तावता नित्यद्रष्टुरसिद्धिः कथमित्यत्राहत्तदेवचेति ।   

स्मृत्यन्यथानुपपत्त्या सिद्धं तदेवानिष्टं रूपं
पूर्वमनुभवकर्तृ । अत एवानुभवितृसत् अनुभावको नित्य आत्मेत्युच्यते ।
अनुभावक इति ।

प्। ६६) मूलपदस्य व्याख्या अनुभवन कर्तृ इतिण्वुल् प्रत्ययः ।
तद्द्वारेण स्मृतिरूपं चेति सिद्धमेव । इयदेवेति । स्मृति
मात्रमेवेत्यर्थः । तह्यत्रकिमिति विस्तरेण प्रकाशितमित्यत्राह - तत्त्विति ।
इहैव पूर्वपक्षे । एवं स्मृतिशक्त्या आत्मासाधितः । तेनात्मना
विनेयं स्मृतिः कथं भवेदित्याक्षेपार्थः । कथमिति शब्दः
आत्मानङ्गीकारेऽर्थेनोनुभवेना स्मृतिर्घटत इति वक्तव्यम् । तत्र
प्रथममयमित्येवं प्रकाशमानस्यार्थस्य स इति विमर्श रूपायां
स्मृतावकिञ्चित्करत्वान्मूलभूतस्यानुभवस्य च विनष्टत्वात् केनापि
प्रकारेण स्मृतिर्नोपपद्यत एवेति साधितम् । आत्मानङ्गीकारे
स्मृतिर्नस्यादित्युक्तं माभूत् (८५) स्मृतिः । दोष इत्यत्र तदभाव इति
घटादेस्तस्य तस्य पदार्थस्य पूर्वसिद्धसङ्केतशब्दं
सञ्ज्ञारूपं स्मृत्वा सम्भवन्तः सर्वे तन्मया दृश्यन्त इति
वक्ष्यमाणाद्वा विंशति प्रकारा । अयमेव नान्यः । सोऽयमित्यादि
विकल्पाः सञ्जल्पनादिरूपा व्यवहारा अप्यस्तं प्राप्ताः विकल्पा
अपिमाभूवन् । निर्विकल्पज्ञानमेकमेवास्त्वित्यत्राह - निर्विकल्पकमिति ।
निर्विकल्पस्य व्यवहारप्रयोजकत्वाद्दर्शनवचनं
श्रवणादिव्यवहारानुस्युः । यदुक्तं श्रीतत्वगर्भ -

स्तोत्रे - ततश्च सर्वव्यापारभावहारा पह स्तनात् ।  
अन्धं मूकं ननुभवेज्जगदेतदपि ध्रुवम् ॥ इति ।  

सैषा संसारिणां सञ्ज्ञा बहिरन्तश्च वर्तते ।  
यदुत्क्रान्तोऽपि सञ्ज्ञोयं दृश्यते काष्ठ कुड्यवत् ॥  

इति भगवद्भर्तृहरि प्रोक्त प्रकारेण निराक्रन्दं शवप्रायं
चाक्षुषवाचिकश्रावण व्यवहार रहितं न किमपि स्यात् । इति शब्द
आत्मवादि प्रश्न परिसमाप्तिद्योतकः । एवमात्मसिद्ध्यर्थमुत्थापितं
स्मृतिरूपकार्यान्यथानुपपत्तिलक्षणमात्मवाद्यनुमानमन्यथोपप्
अत्त्या दूषयितुं लोके कार्येण कल्प्यमानं कारणं
स्वसाधनसमर्थमेवकल्प्यते । आत्मा च न
स्मृतिकार्यसम्पादनसमर्थः । अतस्तेन सङ्कल्पः किं तु
पूर्वानुभवः संस्कार एव तत्सम्पादनसमर्थमित्यत आह - इहेति ।
इहलोके । कार्यव्यतिरेकेण कार्यमन्तरेण कस्यान्यथानुपपत्त्या

प्। ६७) तादृक्कारणं कल्पयितुं योग्यम् । यत् कल्प्य मानं कारणं
तत्कार्यं स ————— देवदत्तो दिवानभुङ्क्ते इत्यत्र दिवा भोजन
रहितस्य पीनत्व लक्षण कार्येण स्वसम्पादनसमर्थं
रात्रिभोजनमेव कारणत्वेन (८६) कल्पितं दृटम् । तद्वत् स्मृति कार्येण
कल्प्यमानः आत्मा तत्समर्थो न भवति ।———————————— त्यत
आह - अर्थो हीति । अनुभूतार्थस्य स्मरणार्थमात्मा भवताङ्गीक्रियते
। अर्थोऽनुभवप्रकाशमुखेनैव स्मर्यते । नत्वात्ममुखेऽर्थस्मरण
द्वार भूतोऽनुभवो ध्वस्त इत्युक्तम् ।

अथानुभवविषय ——————————————— नात्मना
स्मृतेः किं प्रयोजनम् । आत्मनोऽस्तित्वे कल्प्यमानेऽप्यनु भव
नाशादनुभव प्रकाशाभावेन ततद्वार स्मृते रनुदयादात्मना न
किमपि प्रयोजन मित्यर्थः । स्मृति कार्य सम्पादना
समर्थस्यात्मनोऽस्तित्वे—————————— आत्माकाशयोरूभयोरपि
कार्यकारणसामर्थ्याविशेषादिति भावः ।

आत्मनः के वलस्य स्मृत्यनुपयोगित्वेऽपि
अनुभवसंस्काररहितत्कन्नायमुपालम्भ इति शङ्कते - अथेति । एतत्
स्मृतिरूपं कार्यं केवलशब्दव्याव ——————————
आत्मानङ्गीकृत्यापि संस्कारेण विनाकार्यानुदयस्य
त्वयाप्युक्तत्वादुभयवादिसम्प्रतिपन्नः संस्कार एव स्मृतिकार्येण
कल्पनीयः । नात्मेत्युत्तरमाह - पूर्ववादीतर्हीति । स्वसंस्कार
एवतदेतदिति इहकार्यव्यतिरेकेणे —————————— प्रमेयं
दर्शयति श्लोकद्वयेन - इहेत्यादि किन्तेने त्यन्तम् । सत्यपीत्यनेनोच्यते ।
आत्मानि सत्यपि दृङ्नाशात् दृष्टवस्तुषु तद्द्वारास्मृतिः केन
भवेदित्यन्वयः । तद्द्वारेति । दृष्टवस्त्वं
शस्पर्शेत्वद्रूपानुभवद्वारयुक्तासती दृङ्नाशात् दृ———————
——— व भासद्वारभूतस्य विज्ञानवादेरनुभवस्येवात्मत्वात्
दृगिति प्रयोगः नाशादात्मनि सत्यपि केनार्थस्तावत्तस्यामकिञ्चित्कर इति
त्वयैवोक्तत्वान्मूलभूतानुभवस्य (८७) ध्वस्तत्वात् । अनुभवस्य
नाशे अयमित्येवप्रकाशस्यापि
च्छिन्नत्वात्तत्वांशविशिष्टस्म्र्टित्वाभावादनुभविता कश्चिदस्ति चेत् स
अनुभवनाशादनन्तरमुद्भवितुं योग्यायाः स्मृतेः किं कुर्यात् ।
तस्यानुभवितृत्वादनुभवनाशेनैव नष्टत्वात् स्थिरस्यां गीकारेऽपि

प्। ६८) तेनात्रानुपयोगात् अर्थेनुत तदनुभवेनात्मना
स्मृतिर्नभवेदित्यर्थः । दृष्टं वस्तुष्वितिविषयसप्तमी । तद्द्वारेति
बाहुव्रीहिः । अनुभवोदृगात्मेति स्वमतानुसारेण ज्ञानस्य
सर्वस्याप्यर्थ एक्ॐशः ज्ञानाख्य्ॐशोऽन्यः
इत्युभयांशसद्भावादर्थेंशेत्युक्तम् ।

विपक्षे बाधकमुक्त्वा नष्टत्व मेवोपपादयति - तस्येति । अत्रुटितो
अविच्छिन्नः । कास्मृतिरिति । स इत्याकार स्मृतित्वमेवनस्यात् । अनुभवस्य
नाशे सति तदनुभविता स्वयमपि नष्टः स्वमते परमतेन स्थितोऽपि
स्मृतौ न प्रयोजकः । अनुभवितृत्वादेव स्मर्तृत्वा भावात् अनुभवित्रा
किं स्मृतेः प्रयोजनम् । अनुभूतेनैवार्थेन स्मृतिर्भवतीतिशङ्कते -
अथेति । अत्रैवानुभवः सा तत्पदैवानुभवविषयो
नीलादिरनुभवकालोअणुभूयमानावस्थान् अनुभवकाले स्मर्यमाणो
भवतीति स एव स्मृतेर्जनक इत्यर्थः । पदमिति । विषय इत्यर्थः ।
सोऽनुभवस्य विषय एव पदं विषयोयस्याः स्मृतेः सातत्पदेति
बहुव्रीहिसमासः । तत्पदत्वं कथमित्याशङ्क्य तत्र
हेतुत्वेनोत्तरश्लोकपूर्वार्धमवतारयति - नन्विति । घटज्ञानविषयस्य
पटज्ञानविषयत्वाभावात् अनुभव विषयस्य स्मृति विषयत्वं न
घटत इति शङ्कामुत्थाप्य तदुत्तरत्वेनोत्तरार्धमवतारयति -
नन्वित्यादिना । विषयित्वेति । अन्यविषयेणान्यस्य
विषयवत्वमभिमानमात्रमेव । अनतु वस्तुतोऽस्ति । (८८)
विषयत्वाभिमाने किं निमित्तमिति शङ्कातदुत्तरं यतोहीति ।
पूर्वानुभवसंस्कारात् स्मृति सम्भवो हीति यतः ।
अतस्तत्पदैवेत्युक्तं युज्यते । हीति शब्दः सर्वत्र प्रसिद्धिं द्योतयति ।

अवतारितं ग्रन्थं व्याचष्टे - अनुभवेनेति । स्वोचित इति । या
दृशोनील सुखाद्यनुभव उत्पन्नस्तेनैवानु भवेन
तादृशोऽनुभूतस्य नीलसुखादेः स्मर्यमाणत्वेन
पुनरुत्थानबीजभूतः संस्कारो वासनापर पर्याय उत्पद्यते ।
संस्कार जत्वात् स्मृतेः अनुभवविषयेण विषयत्वं सम्भवतीति
वक्तुं संस्कारस्यलोक प्रसिद्ध स्थित स्थापितत्वं दर्शयति
संस्कारश्चेति । संस्कारस्थितस्थापकाख्यम् । आकृष्टेति - चिरेति

प्। ६९) चिरं कालं वेष्टित तया स्थितस्य पश्चात् प्रसार्यमाणस्य
भूर्जकटादेश्च इति लोके प्रसिद्धं यतस्तेन हेतुना ।
अत्रानुभवविषयेऽपि संस्कारः तां स्वस्माज्जातां स्मृति
पूर्वानुभवकारिणीं करोति पूर्वानुभवोऽयं विषयमग्रहीत्
स्मृतिरपि तमेव विषयं गृह्णाति यथा तथा करोति ।
विषयस्यायामित्यनुभव काले स इति स्मृतिकाले प्रतीतिः इति । इयानेव
विशेषः सर्वाथानुभव——स्त्वेक एव पटज्ञनस्य
घटज्ञानसंस्कार जत्वा भावात् न जटविषयत्वम् । स्मृतेस्तु
पूर्वानुभवसंस्कारजत्वात् पूर्वानुभवविषयेण विषयवत्त्वं
सम्भवतीति विषमोभवदुक्तोदृष्टान्त इति भावः आत्मनापि —————
————— नोस्मृत्यजनकत्वात् स्मृतिकार्यकारणः समर्थः संस्कार
एवेति ।

आत्मना न किमपि प्रयोजनमित्याह - यद्येवमिति । एवं यदितर्हि
अन्तर्गडुना स्यायिनात्मनाकोऽर्थः स्यात् । एवमिति । संस्कारः
स्वतोनिर्विषयः स्मृतेर——————– दयतितित्वयोच्यते । यदि तर्हि एवञ्च
हन्तनिराक्रमन्दमित्यादि यदुक्तं भवता तदपि परिहृतमित्याह -
सर्वमिति । (८९) संस्कारा यत्त सर्वः सर्वोव्यवहार —————————-
—————– स्य स्मृतिहेतुत्वात् स्मृत्यन्यथानुपपत्ति
रूपार्यापत्तेरन्यथाप्युपपत्तिदोषदुष्टत्वान्नात्मानुमापकत्वमित्यु
क्तम् ।

इदानीं संस्कारस्यापू———————————————
थात्माधस्तनपृथिव्याद्याश्रयत्वा सम्भवात् परिशेषादात्मा
संस्काराश्रयत्वेन सिद्ध्यतीति शङ्कामुत्थाप्य तदुत्तरत्वेनोत्तर
श्लोकभवतारयति - ननुकस्येति । आत्मानमन्तरेण संस्कारास्यैव
स्मृति —————————— मित्युक्तम् । संस्कार एव गुणत्वात्
स्वाश्रयभूतं गुणिनमात्मानमनुमापयतीत्याशङ्कते - नान्विति ।
तस्येति । स्मृतिकारणभूतस्य संस्कारस्य गुणत्वेन
रूपादिवदाश्रयसाकाङ्क्षत्वात् तदाश्रयत्वेनात्मानुमीयत इत्यर्थः
। त ——————————————— षु ततो धर्मिणः आत्मनः
धर्मेषु ज्ञानादिगुणेष्वभिन्नेषु अष्यतिरिक्तेषु व्यतिरिक्तेषु स्वीकृतेषु
सत्सुनित्यत्वे नाभिमतस्य धर्मिण आत्मनोऽनित्याद्धर्मभूतात्

प्। ७०) ज्ञानादेः स्वरूपादविशेषतो भेदाभावेन नित्यत्वानित्यत्व
विशेषाभाव प्रसङ्गात् । (ज्ञानादेः स्वरूपादविशेषतो
भेदाभावेन) अनित्यत्वं तस्याप्यापतत् भिन्नेषु व्यतिरिक्तेषु
तस्मिन्नात्मस्वरूपे विशेषा भावात् । न हि घटस्वरूपे पटेन
विशेषोभवति । परस्परभिन्नत्वात् । प——–घटानुमानात्तावत्
भिन्नेन संस्कारेणात्मानुमान्नस्तन्न भवति । न चापि स्मृति
संस्कारयोराश्रयाश्रयि भावः सम्बन्धोऽस्तीति वाच्यम् । वस्तु
व्यतिरिक्तस्य सम्बन्धस्य तत्र तत्रास्थिते द्विष्टस्यानेकरूपत्वादिति
श्लोकद्वयेन निराकरिष्यमाणत्वात् । नापि तद्द्वयं नित्यस्य
कस्यचिद्रष्टुरित्युक्तनीत्या निर्विकल्पक सविकल्पक दर्शनाश्रय
भूतत्वेन भिमतो द्रष्टा यथा (९०) कल्पितस्तथा
स्मरणाश्रयत्वेनाभिमतस्मर्ता कल्पितः । एवंस्मरणस्य
संस्कारादेव सिद्धिः ।

इहेत्यादेरयं भावः - संस्कारेण स्वाश्रय आत्मानुमीयत
इत्यत्र विवेचनीयम् । संस्कारे जायमाने आत्मनस्तज्जननावस्थातोपि
विशेषोऽस्ति नवेति । आद्येतस्य विशेषस्यात्मनो व्यतिरेककोष्यति रेको
वाघटात् पटानुपणत्तिवत् । आत्मनो विशेषोत्पत्त्यसम्भवात्
सम्बन्धस्य दुर्निरूपत्वेन तस्य विशेष इति च वक्तुमशक्यत्वात् ।
अव्यतिरेके च तस्योत्पद्यमानस्य नित्यत्वादनित्य
विशेषाभिन्नात्मनोऽप्यनित्यत्वप्रसङ्गः । विशेषो नास्तीति द्वितीय पक्षे
आश्रयेपटादौ विशेषाधायकस्य शौ क्ल्यादेरेव
गुणत्वाद्विशेषाधायकत्वस्य गुणस्यैवाभावात् ।
संस्कारेणात्मानुमानं न सम्भवति गुणत्वहेतोरसिद्धत्वादिति । इह
संस्कारेणात्मानुमीयत इति पक्षे अङ्कुरे जायमाने
बीजस्योच्छूनताशेषविद्विशेष इति संस्कार जननात्
प्रागवस्थातोऽतिशयः काश्चित्स इति तदानीन्तनो विशेषः । आत्मनो
व्यतिरिक्तो न भवतीति । विपक्ष इति । व्यतिरेकपक्षे सम्बन्धा भावेन
तदीयत्वा सम्भवात्तदीयत्वा सिद्ध्यर्थमव्यतिरिक्त इति स्वीकारे आत्मा
अनित्यविशेषवत् स्वयमपि नित्यो नस्यात् । नित्य इति

प्। ७१) भवत्पक्षो न सिद्ध्यति । अनित्य विशेषाभिन्नस्यानित्यत्वमेव स्यात् ।
अस्येति आत्मनः । तेनेति स्वाश्रयभूत आत्मनि विशेष साधकेन
संस्कारेणात्मनः किं भवति । तस्य गुणत्वं गुणित्वमात्मनश्च न
स्मा अते गुणत्वहेतोरसिद्ध्या नात्मानुमानं संस्कारे जायमाने
आत्मनो विशेषान्तरं मा भूत् । स एव विशेषो भवतु । वस्त्वन्तरात्
स्वाश्रय व्यावर्तको हि विशेषः । अतश्च गुण एवेति शङ्कते - अथेति ।
संस्कारस्यानित्यत्वात् तस्यास्मविशेषत्व स्वीकारे विशेषस्य तदीयत्व
सिद्धार्थमव्यतिरेकस्याङ्गीकर्तव्यत्वात् ।
अनित्यसंस्काराभिन्नात्मनोऽप्यनित्यत्व प्रसङ्ग इत्युत्तरमाह - तर्हीति ।

(९१) अथ संस्कारः अव्यतिरिक्तो व्यतिरिक्तोवा अद्यावलम्बनेन
दोषः न व्यतिरिक्त इति । तेनेति । विशेषः भूतेन संस्कारेणासावात्मा
व्यतिरिक्तो न भवति । व्यतिरिक्त तेन भिन्नेन विशेषेण
विशेष्यवत्वाभावाद् विशेषान्तरपक्षोक्तवत् पुनरपि ज्ञानरूपे
संस्कारे अनित्यत्वे सति अ———————————————
विशेषाद्व्यतिरिक्त आत्मापि अनित्य इत्यायातम् । स्वतो
ज्ञानव्यतिरिक्तोनित्यसंस्कारो नास्तित्यभिप्रायेण ज्ञाने संस्कार
इत्युक्तम् । वैशेषिकाद्यभिमत भावात्मक नित्य संस्कारस्य
व्यवच्चेदार्थं जडरूपघटादिगतस्थित सा———–ज्ञान इत्युक्तम् ।

ननु ज्ञानं नाम गुणान्तरं संस्कारश्चान्योगुण इति
कथं तस्य ज्ञानरूपत्वमित्यत्राह - अनुभवादिति ।
अनुभवान्निर्विकल्पज्ञानाद्विशिष्टं विकल्परूपत्वात् परोक्षरूप
विषय विशेषालिङ्गित ————–नकं जानं परम्परया जायमानं
संस्कार शब्द वाच्यम्, विषयस्य क्षैकत्वेन पारम्पर्यात्
तद्ग्राहकतानुभवादेर्ज्ञानस्य च पारम्पर्यात् तज्ज्ञान जनकस्य
संस्कार ज्ञानस्यापि पारम्पर्यम् । एवकार——————–स्पष्टार्थ
इति भावः ।

आत्मनो विशेष भूतः संस्कारो व्यतिरिक्त इति द्वितीयपक्ष
मवलम्बते - अथ संस्कारे व्यतिरिक्तत्वे आत्मविशेषत्व मेव
संस्कारस्य न स्यादित्याह - तस्येति । असौ संस्कारः तस्यात्मनः किं
भवि ——————–व विशेषोन य्यदित्यर्थः ।
घटशौक्लयादिवद्व्यतिरिक्तस्य संस्कारस्यात्मना

प्। ७२) श्रयाश्रयिभावसम्बन्धसद्भावात्तद्विशेषः स्यादित्यत्राह -
सम्बन्धश्चेति । वस्तु व्यतिरिक्तो वस्तुनिष्ठः सम्बन्धः
कश्चिदस्तीतिपक्षोनिराकरि(ष्यते) — तत्रस्थिते
द्विष्ठस्यानेकरूपत्वादितिश्लोकद्वयेनसंस्कारवत् ज्ञानादिगुणैरपि
नात्मानुमीयत इत्यत्राह - एवं ज्ञानेति ।
ज्ञानसुखादीनामात्मव्यतिरिक्तानामात्मगुणत्ववत् संस्कारस्यापि -
——– दित्यत्राह - एवं ज्ञानेति । ज्ञानसुखादौ जायमाने
आत्मनोविशेषोऽस्तिवान वा । ज्ञानसुखादिरात्मनो
व्यतिरिक्तोऽव्यतिरिक्तोवेति विकल्प्य निराकरणीयम् । असम्प्रतिपन्नोदृष्टान्त
इति भावः ।
एव तात्पर्यार्यमु——- उक्तेऽर्थेपदशः श्लोकं योजयति - तत इति ।
मूलपदस्यात्मन इत्यर्थः । अभिन्नेषु भिन्नेष्वितिचाकारप्रश्लेषा
प्रश्लेषाभ्यां व्याख्यातं ज्ञानादिषु संस्कारान्तेषु गुणेषु
गिणिन आत्मनो व्यतिरिक्तेष्व व्यतिरिक्तेषु
वाङ्गीक्रियमाणेष्वित्यपेक्षितशेषपूरणं सर्वसप्तमी यमिति
द्यतयति - तेषु सत्स्वपीति ।
अभेदाङ्गीकारेऽनित्यधर्मवदात्मनोऽप्यनित्यत्वप्रसङ्गेन तेषु
ज्ञानादि धर्मेषु आत्मस्वरूपेचनित्यत्वानित्यत्वादि विशेषाभाव
प्रसङ्गात् । धर्म धर्मिभावासम्भवेन
तैर्गुणैर्गुण्यात्मानुमीयत इति निरस्त एव पक्षः ।

——————- आत्मानुमानः सद्भावात् आत्मव्यापारमन्तरेण
संस्कारादेरेव स्मृतिः । सिद्ध्यतीत्याह - सतावदिति । तावदसन्देहे ।
स्मृतिज्ञानस्य गुणत्वादात्माश्रयत्वमित्यपिन । अभेदपक्षे
धर्ममयत्वादस्मत्तृत्वादिभेदपक्षे सम्बन्धाभावादस्मृत्तृत्वा
विकल्पैतृत्वादि प्राच्यरूपेति सकल विकल्परहित निर्विकल्पानुभव
एवात्मनो निजरूपं तदनपायात् तद्व्यतिरिक्तात्मना (९३) स्मृतेः
प्रयोजना भावात् संस्कारात् स्मृतेः सिद्धत्वात् स्मर्ताद्रस्टेव कल्पितः ।
नन्वित्यादिना श्लोकद्वएन प्रत्यक्षम् अथानुभव विध्वम्स
इत्यादिनानुमानञ्च निराकृतम् । ततो भिन्नेष्वित्यनेन बाधकं च
सूचितम् । तदेव बाधकमाह धर्मयोग इति । ज्ञानादिगुणैरात्मनि
विशेष आधीयते चेत् विकारित्वाच्चर्मवदनित्यो विशेषो न
भवेदाकाशादिवदसत्कल्पः ।

प्। ७३) ननु पूर्वमात्मनिराकरणं कृतम् । उत्तरश्लोके ज्ञानस्वरूपं
निरूप्यते । अतश्च पूर्वापरसङ्गतिर्नास्तीत्याशङ्क्य पूर्वं
प्रस्तुतस्यैवात्मनः कर्तरि ज्ञातरिस्वात्मनिमहेश्वर इत्युक्तं
ज्ञानक्रियाशक्तिमत्त्वरूपमैश्वर्यं निराकर्तुं
ज्ञानशक्तिस्वरूपनिरूपणं प्रकृतो पयोग्येवेति पूर्वोक्ता
धर्ममनुद्योत्तरश्लोकतात्पर्यमाह - इत्यमिति । एवं
प्रत्यक्षानुमानरूपसादकप्रमाणभावेनोक्त प्रकारेणात्मना सह
समुच्चयं द्योतयति । आत्मा यथाचित्स्वरूपं तद्वत् ज्ञानं च
चित्स्वरूपं चेति तज्ज्ञानमनित्यं किं किमित्यनित्यम् आत्मवन्नित्यमेव
स्यात् । चिद्रूपत्वाविशेषादिष्टमनित्यत्वं न सिद्ध्यतीति भावः ।
आत्मनो व्यतिरिक्त मनित्यं ज्ञानमस्तीतिवादीप्रष्टव्यः ।
तत्त्वदभिमतं ज्ञानं प्राभाकरादिमतवत् चित्स्वरूप ——————

  • दिमतवत् जडं वा । आद्ये ज्ञानस्य चिद्रूपात्मवन्नित्यत्वम् ।
    द्वितीयपक्षे घटादिवत् स्वेष्टा अर्थ प्रकाशक्ता न स्यात् ।
    ज्ञानशक्तिश्चिद्रूपा जडाचेतिविकल्प्य दूषणं ज्ञानशक्तिपरीक्षा
    ज्ञानस्य चिद्रूपत्वेऽप्यनित्यत्वाङ्गीकारे आ———————————
    रप्यनित्यत्वे अन्योन्या पेक्षा भावे————बन्धासं भवात् आत्मनो
    धर्मोज्ञानमित्युक्तिर्नघट इत्यर्थः ।

ननु ज्ञानस्य चिद्रूपत्वे आत्मवन्नित्यत्वं स्यादित्यनित्यत्व (९४)
प्रसङ्गः आपाद्यते विज्ञानवादि————————————प्रादनेन
स्वस्यकश्च लाभ इत्याशङ्क्य स्वमत सिद्धेन नैतत्प्रसङ्गापादनं
किन्तु यैः परैः काणादनैयायिकादिभिरात्मनो व्यतिरिक्त ——————
——————– तदनिष्टापादनं तेन क्रियते । ज्ञानस्य चिद्रूपत्वे
आत्मवन्नित्यत्वं प्रसज्येतेति नित्यत्वं चनेष्टम् । अतश्चिद्रूपस्यापि
तस्यानित्यत्वाङ्गीकारे आत्मनोऽप्यनित्व प्रसङ्गे न नित्यस्यात्मनो
ज्ञानशक्तिरिति पर————————– स्य ये स्वेष्टश्च लाभश्चास्तीति
युक्त एव ।

एवं प्रसङ्गादापादनमित्याह - ज्ञानस्यापिचिद्रूपत्वे
आत्मवन्नित्यत्वं स्यादिति प्रसङ्गः । तद्विपर्ययस्त्वनित्यत्वं तस्मिन्
प्रसङ्ग विपर्यये चिद्रूपत्वेऽप्यनित्यत्वेनेष्टज्ञाना————————
नित्यस्यात्मनो

प्। ७४) नित्यं ज्ञानं शक्तिर्नस्यादिति पूर्ववादिनो लाभः ।

नन्वात्मवन्नित्यं स्यादिति प्रसङ्ग आपद्यते । आपादिते प्रसङ्गा
लाभेरप्यस्तीति स्थिते तत्र पराभ्युपगम एव प्रदर्श्यते । आत्मवादी
आत्मनो नित्यत्वं वक्ष्य——————-ना नित्यत्वं साधयितुं
तत्प्रतियोगिन्यनित्यत्वे कालं निमित्तमाह - इहेति । लोके कलयति
स्वेनरूपेणभावमवच्छिनत्तीति कालम् । इदं भावः इदन्ता
तयाभिनिविष्टस्य प्रमात्रा इदमिति परामृश्यमानस्य घटादेस्त्वयं
विशेष———————– नस्तदानीन्तन इति तं भावं विशिष्टीकुर्वन्
तेन वर्तमानादिकालविशेषेण सङ्कोचात्
स्वान्यकालानावेशापादनेनानित्यं सम्पादयति । अनेन
भावानामनित्यत्वकारणं काल एवेत्युक्तं भवति ।

किमेतावता प्रकृते आयातमित्यत आह - आत्मन इति । चिदिति । (९५)
अहं प्रकाशरूपत्वात् कुत आत्मनोविशेष्यत्वं नास्तीत्यत्राह -
विशेषणेति । नीलमुत्पलमित्यादौ इदं नीलं विशेषणम् । इदमुत्पलं
विशेष्यम् इतिताभ्यां व्यतिरिक्तः कश्चित्प्रमाताद्योयोजयति नतु त एव
स्वकीय विशेषणविशेष्यभावं जानीतः । अतः आत्मनो विशेष्यत्वे
तदर्थं कश्चिद्योजकोऽपेक्षणीयः । भवतु तथेत्यत्राह - न चेति ।
योजकान्तरापेक्षणे स्वप्रकाशत्वमेवनस्यात् । अनवस्थाचस्यात् । अत्
योजकान्तरा भावात् विशेष्यत्वा भावे न
कालपैर्च्चेदाभावादनित्यत्वमात्मसिद्धमेवेत्यात्मवादि सिद्धान्तः ।

एवं पराभ्युपगमेनात्मनो नित्यत्वमुक्त्वा तद्दृष्टान्तेन
ज्ञानस्यापि तदापादयति - स इत्यमिति ।

अस्माभिः पृच्छ्यते - स्वप्रकाशस्यात्मनो धर्मभूतं
ज्ञानमपि स्वप्रकाशमस्वप्रकाशं वेति । आद्ये दोषमाह ज्ञानमिति
। तत्रापि ज्ञानेऽपि चित्स्वभावत्वादिदमिति प्रथनाभावे नित्यवादिनोक्ता
वार्तैवनाधिकं वक्तव्यमिति । आत्मवदेव ज्ञानस्यापि नित्यत्वं स्यात् ।
अस्तु द्वयोरपि नित्यत्वं को दोष इत्यत्राह - न चेति । नित्ययोः
कार्यकारणभावा सम्भवात्तद्व्यतिरिक्तस्य सम्बन्धस्य
भवन्मतेऽभावाच्च माभूत् सम्बन्ध इत्यपि न वक्तव्यमित्याह - तत्
इति । सम्बन्धा भावात् सम्बन्धार्थे षष्ठी सम्बन्धाभावेन
घटते । अत

प्। ७५) इदं मत मव सन्नं निरस्तम् । द्वितीयपक्षमनूद्यदोषमाह -
अथेति । स्वस्वरूपं न प्रकाशयति चेत् स्वव्यतिरिक्तस्य सुतरां न
प्रकाशकः । प्रकाशत्वमित्थं बोधस्येत्याह - स्वप्रकाशेति । स्वस्य
बोधस्य प्रकाशरूपस्या वेदनं विदधत् परस्मिन् स्वकीयं
प्रकाशमावेशयन् परस्यापिप्रकाशो भवति । भावान्तरवत् घटवत्
(९६) जडरूपो घटस्य प्रकाशने परापेक्षतया स्वयमशक्तः
सन्नन्यस्य पटादेः सुतरां यथा न प्रकाशकः तद्वज्ज्ञानं
जडात्मकं चेत् स्वविषय प्रकाशकं न स्यात् । अतश्च स्व प्रकाशत्वे
आत्मवन्नित्यत्व प्रसङ्गेनान्योन्य सम्बन्धा भावात् जडत्वेऽर्थ
प्रकाशकत्वाभावेन ज्ञानत्वस्यैवाभावात् । उभयथापि न
ज्ञानमात्मनः शक्तिः । आत्मनः स्वत एव नास्तित्वात् ज्ञानस्य
सद्भावे ऽप्यन्योन्य सम्बन्धा भावेन तच्चह्क्तित्वाभावाच्च
तच्छक्तियोगादात्मेश्वर इति भवदुक्तं युक्तमेवेत्युक्तं भवति ।

साङ्ख्य मत मवलम्ब्य ज्ञानस्य जडत्वेऽपि
चित्प्रतिबिम्बग्रहणेनार्थ प्रकाशकत्वं स्यादिति जडपक्षोक्तदोषं
परिहरन्नाशङ्कत इत्युत्तरश्लोकार्थ तात्पर्यमाह - जडोऽपीति । इत्थमिति
। वक्ष्यमाणप्रकारेण । असौ बोधः बुद्धिरर्थस्य स्वरूपं
यथाधत्ते तथात्मनश्चैतन्य प्रतिबिम्बमपि बिभर्ति । चैतन्य
प्रतिबिम्बधारणादेवास्य जडत्वादि सिद्धे——————ता विलक्षणं
बोधरूपत्वं बुद्धौ प्रतिबिम्बेनोप सं———————त्वादर्थस्य
प्रकाश इति दृष्टान्तं साधयितुं लोक प्रसिद्धं
व्यवहारमुक्त्वार्थस्य प्रकाशोऽन्यनिरपेक्षो निस्वभावो न
भवतीत्याह - इहेति । इह ————————————– बुद्धौ प्रतिबिम्ब
रूपेणोपसङ्क्रमे सति घटं जानामि मम घटः प्रकाशत इत्यादि
व्यवहारोलोकप्रसिद्ध उपपद्यते न त्वर्थस्य—————————-हजं
रूपं घटादेः प्रकाशरूपत्वे चाक्षुषा————————————
घटादिग्राहक प्रमातॄन् विना तदन्येषामपि तत्प्रकाशप्रसङ्गात् ।
तदन्यत्प्रत्यप्रकाशेतान् प्रत्यप्रकाशता वास्यात् । प्रकाशस्य————
———— प्रकाशाप्रकाशविशेषा सम्भवात् सर्वस्य सर्वज्ञता
अज्ञतावान् स्यात् । यस्य चक्षुरादि सम्प्रयोगस्तं

प्। ७६) प्रत्येव प्रकाशता तदन्यं प्रत्यप्रकाशतेति विभागो न स्यात् ।
(९७) अतः प्रकाशं स्वरूपं न भवतीत्यर्थः । चिद्रूपात् पु————–
—— ख्यं रूपमर्थे आगतमित्यपि नाशं कनीयम् ।
अन्यस्मादागमित्यङ्गीकारेऽपि अर्थायत्तत्वात् प्रकाशस्य
प्रमातृविशेषा पेक्षया प्रकाशा प्रकाशविभागो न स्यात् । इत्येष एव
दोषः । तदिति निजस्वरूपत्वां भावाच्च पृ———————–न्यतमस्य
तत्त्वस्य वायं प्रकाशाख्यो धर्मस्वरूपमित्यङ्गीकार्यम् ।
अन्यधर्मत्वेऽप्यर्थस्य प्रकाशः कथमित्याकाङ्क्षायां
यत्रयस्मिंस्तत्वविशेषे स इति घटपटादिः तदुत्पत्तिहेतुभूतः
पृथिव्यादिस्तद्गुणभूतो गन्धादिश्चा ————————————–
न्द्रियद्वारा प्रतिबिम्बेन दर्पणतल इवोपसङ्क्रामति । तत्र तत्त्वान्तरे
तस्यार्थस्य प्रकाशो भवतीति नूनं निश्चितम् । तस्मिंस्तत्त्वविशेषे
कथमर्थस्य प्रतिबिम्बेनोपसङ्क्रम इत्यत्राह - तदिति ।
प्रकाशरूपसत्त्वप्रधान्यात् सङ्कल्प प्रतिबिम्बोपग्रहयोग्यं
तर्हिसर्वदासर्वग्रहप्रसङ्ग इत्यत्राह - तमसेति । अप्रकाशरूपेण
तमसा वृतत्वात् सकलप्रतिबिम्बकत्वमेव गृह्णाति ।
सत्वगुणप्राधान्यात् सकलोपग्रह योग्यता । तमोगुणप्राधान्यात् न
किञ्चिद्ग्रहणशक्तिः । रजोगुणयोगात् सर्वग्रहणं सर्वग्राहकं च
मुक्त्वा मध्यस्थ तया किञ्चिद्ग्राहकता भवतीति
गुणत्रयमित्यर्थमयः । तथापि बुद्धिरर्थस्य स्वरूपं धत्त इति
स्वसिद्धान्तः कथमित्यत्राह - तदेवेति ।

ननु प्रतिबिम्बग्रहणेन कथमर्थ ज्ञानमित्यत्राह - अर्थेति ।   

अस्या बुद्धेः वृत्तिरूपा ज्ञानं स्वात्मनिघटादि
प्रतिबिम्बग्रहणमेवबुद्धिरात्मनि घटादिमर्थं
प्रतिबिम्बरूपमुपगृह्य तदाकारेण वर्तते यदा तदा तद्
घटादिज्ञानमित्युच्यते । वृत्तिस्तदाकारपरिणामः परिणामे च
बुद्धिरूपहानिः स्यादित्यत्राह पूर्वेति । पूर्वव्यपदेशः क्षीरमित्यादि
व्यवहारः । दुग्धं परिमत्त (९८) इत्यत्रमधुरवस्तु
रूपमम्लवस्तुरूपं द्रवरूपं कठिन रूपमिति वक्ष्यमाणनीत्या
कारणभूतं दुग्धादिव्यपदेशतिरस्कारि दध्यादिरूपपरिणामात्

प्। ७७) विलक्षणः परिणमति । विशेषा पूर्वरूप व्यपदेशा परित्यागेन
रूपान्तर व्यपदेशभाक्त्वम् । अत्र बुद्धेः घटादि
प्रतिबिम्बग्रहणात्मक ज्ञानरूपः परिणामः
कारणरूपबुद्धिरूप व्यपदेशं न तिरोधत्त इत्यर्थः । एवमिति । उक्त
प्रकारेण किञ्चित्प्रकाशाशङ्कसत्वप्राधान्यात् । तर्हि बुद्धिरेव
प्रकाशरूपत्वादात्मा न ततोऽन्यः कश्चिदात्मा नास्तीत्यत्राह - इयं
चेति । सत्वादीनां सुखादिरूपतया भोग्यत्वात् सत्वादिरूपाबुद्धिरपि
भोग्ये जड एवान्तर्भुतेति अस्य भोगस्य जडस्य बुद्धितत्त्वस्य दर्पण एव
दविद्रूपत्वं जडस्यापिदर्पणस्ये व प्रतिबिम्बग्राहकत्वं
बुद्धेर्भोग्यत्वाद प्रकाशत्वाच्चस्वविरुद्ध भोक्तृरूप
प्रकाशनात्मक स्वभावो न युक्त इति स्वव्यतिरिक्तो भोक्ता
कश्चिदस्तीत्यायातम् । स भोक्ता स्वप्रकाशमात्रस्वभावः न
स्वप्रकाशरूपत्वाद्व्यतिरिक्तो यो य स्वभावत्वेनान्यैरूच्यते स
सर्वोऽप्रकाशरूपो भोग्य रूपश्च । भोक्तुः स्वभावतया न
सम्भवतीति स्वभावान्तरं न कल्पनीयमेवेति भावः । स चेति ।
बुद्धौस्वप्रतिबिम्बसमर्पणमन्तरेण स्वयमेव प्रकृत्यादि
धरान्तविश्वस्य प्रकाशको यदि भवति तर्हि प्रकाशरूपस्य तस्य सदा
तनत्वेन प्रकृतिमहदहङ्कारादि क्रमेण प्रकाशे
कारणान्तराभावाद्युगपदेव विश्वस्य प्रकाश प्रसङ्गे अयं घटो
अयं पट इति घटादेरन्योन्य प्रकाशभेदाभावात् घटादि
साध्योदकाहरणाद्यर्थ क्रिया——————————द्विश्वस्यान्योन्य
व्यामिश्रणरूपं साङ्कर्यं प्रसज्येतेति बाधक दर्शनं
पूर्वमात्मनो विश्व प्रकाशकत्व भङ्गीकृय विश्व
साङ्कर्यलक्षणं बाधकं प्रदर्श्येदानीमस्य तेन विश्वेन
सम्बन्धा भावाद्विश्वप्रकाशकत्वमेव न सम्भवतीति————-(९९)
रादीन्द्रिय विभयभूतात् बिम्बरूपान्नीलादेरर्थाद्बुद्धिगतात्
तत्प्रतिबिम्बात् तत्प्रतिबिम्बाधारभूतात् बुद्धितत्त्वाच्च
विलक्षणमर्थस्य प्रकाशकं कथं स्यात् । असङ्गोह्ययं पुरुष इति
श्रुतेः । असङ्ग स्वभावस्य पुरुषस्यात्वे——————————माणेन
साधितमर्थमाह - तस्मादिति । पुरुषस्य स्वप्रकाशत्वे नैवार्थ
प्रकाशकत्वं सम्भवति इति यस्मात् तस्मात् बुद्धिरेव

प्। ७८) सत्व प्रधानतया स्वच्छत्वादर्थ प्रतिबिम्बमिव प्रकाशस्य
प्रतिबिम्बमपि गृह्णाति । बुद्धेरर्थस्य चैतन्यस्य च प्रतिबिम्ब
ग्रहणमात्रेणार्थः प्रकाशत इति लोकप्रसिद्ध व्यवहारसिद्धिः
कथमित्यत्राह - तत इति । अर्थ चैतन्ययोः उभयोरपि प्रतिबिम्बग्रहणात्
ततो हेतोर्बुद्धौ प्रतिबिम्बस्य चैतन्यस्य तस्या——————————-र्थ
प्रतिबिम्बसङ्क्रमद्वारा बिम्बभूतनीलादि सङ्क्रमान्नीलमिदं
जानामि मम नीलं प्रकाशत इति व्यवहारः सिध्यति । प्रकाश
प्रतिबिम्बस्य परिग्रहस्य महिम्ना प्राप्त प्रकाशा वेशे स्वतो जडेऽपि
बुद्धितत्त्वे नीलादिनारोपित ——————- बिम्बतद्द्वारेण तत्समर्पक
बिम्बबूत नीलाद्यर्थ पर्यन्तं प्रकाशावेशस्य सङ्क्रमात्
साङ्ख्यः साधितं स्वमतं निगमयति तदेवमिति । बुद्धितत्वस्यार्थ
प्रतिबिम्बवत् चैतन्य प्रतिबिम्बग्रहणात् बुद्धेरर्थ प्रकाशकत्वं य—
—————- देवमुक्तेन प्रकारेण जडबुद्धिपरिणामरूपतया
व्यतिरेकात् स्वयं जडमपि बुद्धिवृत्तं ज्ञानं
स्वव्यतिरिक्तबुद्धिगतचित्प्रतिबिम्बयोगाद्विषयस्य प्रकाशकं भवतीति ।

अथापि जडमे तस्य कथमर्थ प्रकाशता ॥  

इति विज्ञानवाद्युक्त दोषपरिहारः साङ्ख्यमतेनाशं कनीयः ।
अस्मिन् साङ्ख्यमतेऽनुपपत्ति समुद्भवादरुचि सूचक सूत्रगतोऽथ
शब्द इति वक्तुमनुपपत्तिमाह - (१००) एतदेवेति । प्रकाशात्मा पुमान्
बद्धात्मनि बुद्धितत्वे आत्मस्वप्रतिबिम्बमर्पयतीति यत् एतदेव
प्रथममनुचितम् । एतदङ्गीकृत्य दोषं पश्चाद्वक्ष्यते तदपेक्षया
तावच्छब्दप्रयोगः ।

अनौचित्येहेतुमाह - सामान गुण इति । अत्र दृष्टान्तमाह -
रूपवती रूपत्त्वेन घटादि बिम्बसमानं गुणे घटाद्यपेक्षया च
विमले दर्पणे घटादि स्वरूप प्रतिबिम्बं यथा दृश्यते तद्वत्
आत्मसमानगुणे आत्मापेक्षया च विमले बुद्धितत्वे आत्मा
प्रतिविम्बमर्पयतीति वक्तव्यम् । तच्चनास्तीत्याह - आत्मेति ।
आत्मनश्चित्स्वरूपत्वात् बुद्धेश्च जडत्वात् जडाजडयोस्तमः
प्रकाशवद्विरुद्धस्वभावत्वात् समानगुणत्वाभावात् बुद्धेस्तमसा
वृतत्वादात्मनस्तदनावरणात् बिम्बभूतात्मापेक्षया
वैमल्याभावाद्य

प्। ७९) न बुद्धेरात्मनः प्रतिबिम्बनक्षमत्वमित्यनुपपद्यमानमेव ।
तत् साङ्ख्योक्तं । एतद्बुद्धौ चैतन्यस्य प्रतिबिम्बितत्वं भवतु
तावदित्यरुचिः । प्रौढ्यैतदङ्गीकृत्यापि दूषणमुच्यत इतीममर्थ
मथशब्देन सूचयति । अनुचितमपि प्रोढ्यङ्गीकृतं चेत् अस्मदिष्ट
सिद्धिरित्यत्राह - किं त्विति । भवतु तावदित्याक्षेपोक्तिं सूचयत्यथ
शब्दः पूर्वोक्तदोषः परिहतुमशक्य एवेति सूत्रशेषेणाभिधीयत इति
तात्पर्यं दर्शयति - किं त्विति । अनुचितमेतदङ्गीकृत्यापि
भवदभिमतं यथा न सिद्ध्यति तथा विशेषं वदाम इति किं तु
शब्दस्यार्थः । न केवलं कारणादिभिरेवास्मदुक्तं दूषणं न
परिहृतं भवदभिमतेन प्रतिबिम्बवादेनापि किञ्चित् प्रतिसमाहितम् ।
एवं सा अजडा भवेत् । जाड्येऽर्थप्रकाशता न बुद्धिः स्वच्छत्वात्
चैतन्य प्रतिबिम्बमपि प्रतिगृह्णातीत्यङ्गीकारे सति तत्प्रतिबिम्बं
चैतन्यं मुख्य प्रकाशरूपं वा । (१०१) मुख्य प्रकाशरूपं चेत्
मुख्य चैतन्य वती सा बुद्धिरपि चिदात्मवच्छुद्धा चिद्रूपिणी भवेत् ।
बुद्धिर्जडेति त्वदभिमतं न स्यात् । आत्म प्रतिबिम्बग्रहणेनात्मवत्
स्वात्मनोऽपि चिन्मयत्वादजडा आत्मवत्स्वनित्या भवेत् । आत्मा च नित्योन
स्यात् । उभयोरपि नित्यत्वेऽन्योन्य सम्बन्धा भावः । अमुख्य
प्रकाशरूपं चेत् तद्धेतुकबुद्धे ——————- डत्वे प्राप्ते
भावान्तरवन्नार्थः प्रकाशतेत्युक्त एव दोषः पुनरप्यापतेत् । किं
चार्थ प्रतिबिम्बग्रहणे अर्थ प्रतिबिम्बग्रहणद्वारा अर्थमयी
विज्ञावादप्रसङ्गादपसिद्धान्तश्च स्यात् । इति सूत्रशेषार्थः ।
प्रकाशात्मा पुमान्——————तीति पक्षे बुद्धौ तत्प्रतिबिम्बितं
चैतन्यं मुख्यप्रकाशरूपं वा न वेति विकाद्ये पक्षे स्वमतिरिति
सिद्धिरिति वदिष्यन् मुख्यप्रकाशरूपं न भवतीति
द्वितीयप्रक्षदूषणं जाड्येनार्थः प्रकाशतेत्येतदेवादौ व्याक—–
——————————— बिम्बधारणेन बिम्बं प्रसिद्धार्थ
क्रियाकारित्वादर्शनात् चैतन्य प्रतिबिम्बधारणे न (बिम्बं
प्रसिद्धार्थ क्रियाकारित्वादर्शनात् चैतन्यप्रतिबिम्ब ) बुद्धेरर्थ
प्रकाशकत्वस्य ————————————– चैतन्य
प्रतिबिम्बमुख्यप्रकाशरूपं नवेति विकल्पावसर इति द्रष्टव्यम् ।

प्। ८०) बुद्धेश्चैतन्यप्रतिबिम्बेन सम्बन्धेऽङ्गीक्रियमाणे सति
बिम्बभूतचैतन्यवत् बुद्धिगतं प्रतिबिम्बकमपि
मुख्यप्रकाशरूपमेव न भवति ।———————–तर्हि
येनामुख्यप्रकाशरूपेण बुद्धिगत चैतन्यप्रतिबिम्बेनापि
बुद्धेरर्थ प्रकाशनं प्रतिन किञ्चित् कृतं स्यात् । चैतन्य प्रतिबिम्ब
धारणेनापि बुद्धेरर्थ प्रकाशक्त्वं त्ययोक्तम् । प्रतिबिम्बस्य च
मुख्यप्रकाशकत्व———————————प्रकाशरूपत्वाभावात्
अमुख्यप्रकाशरूपस्य चैतन्यस्य धारणेन बुद्धेरर्थ
प्रकाशकत्वं न स्यात् । तदेव दृष्तान्तेनोपपादयति - नहीति ।
तदेवार्थान्तरन्यासेन (१०२) - न हीति । प्रतिबिम्बितस्य
वह्निरूपस्यावस्तुत्वात् ।—————————त्वं यथा दृश्यते तद्वत्
प्रकृतेपीत्यर्थः ।

आद्य पक्षमुत्थाप्य तत्र परस्यानिष्ट प्रतिपादकमजडेत्यादि
मूलग्रन्थं व्याख्यातुमाह - अथ मुखेति । बुद्धेस्तच्चैतन्य
प्रतिबिम्बक मुख्यप्रकाशरूपमेवेति मतं चेत् तर्हितत्प्रति —————-
———————- धारभूताया बुद्धेर्व्यतिरिक्तम् । न
भवतिदर्पणबिम्बे यद्वन्नगर ग्रामादि चित्रमविभागि ।

भातिविभागे नैव च परस्परं दर्पणादपि च ॥  

इत्युक्तस्यित्या दर्पणादेरतिस्वच्छत स्वभावतया प्रतिबिम्बग्रहणेऽपि
तस्य प्रतिबिम्बितस्य वस्तुनः स्वाधारदर्पणादि व्यतिरेकेण
भावमात्रमेव । न वस्तुवृत्त्या व्यतिरेकोऽस्ति यथा तद्वच्चैतन्य
प्रतिबिम्बस्य मुख्यप्रकाशरूपत्वे स्वाव्यतिरिक्त तद्ग्राहिणी बुद्धिरपि
मुख्य प्रकाशरूपैव जाते वति हेतोः स्वमते जडत्वेनोष्टाय
बुद्धेर्मुख्याचिद्रूपत्वं न सम्भवतीति भोग्यस्या प्रकाशस्य
तद्विरूद्धभोक्तृरूप प्रकाशात्मक स्वभाव सम्भवो न युक्ति युक्त
इति पूर्वमुक्तनीत्या विरूद्धाविरुद्धयोर्जडत्व चिद्रूपयोरेकत्र बुद्धा
वध्यासो भविष्यतीति यस्माद्विरुद्धधर्माध्यासात् दोषाद्भिरुभिः
साङ्ख्यैस्तष्य तस्य दोषस्य परिहारार्थं यतो विरुद्ध धर्मास्यादिति
भोग्यस्य बुद्धितत्त्वस्य भोक्तृत्वं प्रकाशरूपस्य तस्य
प्रकाशरूपत्वं च विरूद्धमिति भोग्यत्वभोक्तृत्वयोरप्रकाशरूप
प्रकाशरूपत्वयोः अन्योन्य विरुद्धयोः एकत्राध्यासलक्षणो दोषः
बुद्धेरात्मत्वाङ्गीकारे प्रसज्येतेति तादृशाद्विरुद्ध धर्माध्यासात् ।

प्। ८१) (१०३) किञ्चा नित्यस्य ज्ञानस्य चिद्रूपत्वाङ्गीकारे
आत्मवन्नित्यत्व प्रसङ्गः । अनित्ये चित्स्वरूपेज्ञाने तद्विरुद्ध नित्यत्व
धर्माध्यासः नित्येचित्स्वरूप आत्मनि तद्विरुद्धानित्यत्व
धर्माध्यासः । एवं विरुद्ध धर्माध्यासात् । किञ्च
दोषाद्भीरुभिर्भवद्भिस्तत्परिहारार्थः । एवमिति । जडाया अपि
बुद्धेश्चित्प्रतिबिम्बयोगादर्थ प्रकाशत्वमित्ये तत् कल्पितं भीति
वशादविचार्यैव कथितम् । न तु तद्युक्तियुक्तं सभवद्भिः
परिहर्तुमिष्टा विरुद्धधर्माध्यास एव पुनरिदानीं भवन्मुखत
एवोक्तत्वा । जाज्वल्यमानं पूर्वस्मादप्यति स एव दोषः पुनरप्या
पतितः मुख्य प्रकाशरूप चैतन्य प्रतिबिम्बाधार मुखेन
भवद्भिरेव बुद्धेर्मुख्यप्रकाशत्व रूपत्वस्यैवोक्तत्वात् । जडत्वं
चिद्रूपत्वं च विरुद्धं धर्मद्वयम्, एतस्यां बुद्धौ
पुनरप्यापतितमेवेति भावः ॥

माभूत्तर्हि बुद्धेर्जडत्वं मुख्यप्रकाशरूपमेवास्तु को
दोष इत्यत्राह - ततश्चेति । मुख्यप्रकाशरूप चिअतन्य
प्रतिबिम्बाव्यतिरेकात् बुद्धिरपि मुख्य प्रकाशरूपैवेति यतः ततश्च
भवद्भिर्जडत्वेनेष्टा सा बुद्धिरेव चिन्मयी स्यात् ।
एवकारण्यावर्त्यमाह किमिति । बुद्धेर्जडत्वं परिकल्प्य तद्व्यति रिक्तेन
कल्पितेनात्मना भोक्ता प्रकाश स्वरूपेण किमहमिदं जानामीत्यादि
लौकिक व्यवहार प्रवर्तने चिन्मयी बुद्धिरेवालं तदर्थं नात्मा
कल्पनीय ——————- बुद्धिविलक्षणात्मा सिद्ध्या बुद्धिरात्मेति
विज्ञानवादः प्राप्त इति दोषः न तु तथापि बुद्धिव्यतिरेकेणार्थाङ्गी
कारात् न विज्ञान वाद इत्यत्राह - एवमिति । यथा
बुद्धिश्चित्प्रतिबिम्बधारणाच्चिन्मयी तथार्था
प्रतिबिम्बधारणेनार्थमय्यपि स————————-स्याप्यवकल्पनीय
त्वाद्भवदुक्ति बलादेव बुद्धिव्यतिरिक्तयो (१०४) नङ्गीकारे
चिन्मयत्वार्थमयत्वयो रूपपत्तिः कथं विज्ञानवादे स्यादिति
शङ्कायां किमुत्तरमित्यत्राह - कुत इति । बुद्धेः क्षणिकत्वात्
पूर्वपूर्वक्षणवर्ति———————————प्रतिकारणभूतानां
चिन्मयत्वार्थ मयत्वयोः सद्भावात् पूर्वकारणपरम्परातो
बुद्धेस्तद्रूपं भवतीत्युत्तरं वाच्यं मयोते
बिम्बप्रतिबिम्बवादस्य

प्। ८२) नाङ्गीकरणीयत्वात् विज्ञानवाद एव स्वस्थ इति भावः ।——-तीति ।
एवमिति । मुख्य प्रकाशरूपत्वेन सा बुद्धिरेव प्राग्वदिति ज्ञानं च
चित्स्वरूपञ्चेत्युक्त प्रसङ्ग विपर्ययलाभो भविष्यतीति यत्
पूर्वमुक्तं तदिदानीं सिद्धमिति सङ्क्षेपतः श्लोकद्वयस्य
तात्पर्यमाह - एवमिति । ननु ————————————– द्विविधं -
सविकल्पकं निर्विकल्पकञ्चेति । तत् ज्ञानद्वयं ज्ञातुरात्मनः
सम्बन्धिनी शक्तिर्नभवतीत्युक्त प्रकारेणात्मनो भावात्
ज्ञानमात्रमेवास्तीति ज्ञानं परिक्ष्य क्रियां परीक्षते - अपि
शब्देनात्मनो ज्ञान ——————- वत्तित्यत्राह । वक्ष्यमाणनीत्या
तस्याः स्वत एवाभावात् क्रियापि कायस्य ।
आदिग्रहणाद्दुग्धादेरर्थस्य । तस्मिन् तस्मिन् देशे गृहे तद्बहिरङ्कणे
तद्बहिर्वीथ्यादिप्रदेशे प्रथमः प्रातः समये पश्चान्मध्यन्दिने वा
अनन्तरं सायन्तन इत्यादिकालः । आदिग्रहणात् दध्याद्याकारे जातता
जातत्वं तत्र तत्रस्थितत्वं तत्र तत्रस्थितस्य कायादेर्व्यतिरेकेण
क्रियानामन काचिदस्ति । तस्याः क्रियायाः प्रत्यक्षेणतत्पृष्ठ
पातिनानुमानेना दर्शनात् ।

इह जगति गच्छति चलति वलतीत्यादिरूपेण प्रतिभास गोचरं
प्रत्यक्ष प्रमाण विषयीभूतं यत् परिस्पन्दनरूपं तत्र
गच्छत्यादिपरिस्पन्दने देवदत्त गमनात् पूर्वं गृहास्थित देवदत्त
देहादनन्तरं सदेवदत्त देहं बाह्यदेशवर्तीत्येतावदुपलभ्यते
प्रत्यक्षेणदृश्यते । बाह्यदेशवर्ती देवदत्त देह (१०५)
व्यतिरिक्तामन्यां काञ्चित् क्रियां न प्रतिमः । न पश्यामः ।
तद्देवदत्त देहवत् स्थूल नीलदीर्घादिरूपत्वेन तस्या
अदर्शनाद्देवदत्तो दिनं तिष्ठतीत्यत्र व्यवहारे सदेवदत्तदेहः
पूर्वं प्रभातकालाविष्टः ततः मध्याह्नकालाविष्टः इत्यादि
रूपेण भाति । अत्रापि तत्तत् कालाविष्ट देवदत्तदेह व्यतिरेकेण क्रिया न
काचिद् दृश्यते । दुग्धं परिणमते इत्यत्र म परिणमने मधुररूपं
दुग्धं अम्लरूपं द्रवरूपं दुग्धं कठिनरूपमित्यादि भाति ।
तत्राप्यम्ल कथिनात्मक दध्यादि व्यतिरेकेण परिणमनात्मिका क्रिया न
कायिद्दृश्यते । एवं तद्देशतया तत्तद्देश स्थितत्वेन
तत्तत्कालाविष्टत्वेन तत्तत्परिणामाकारतया

प्। ८३) भाव एवभाति । पूर्वपूर्वाकारस्य कालाविष्टत्वात्
ध्वंसेऽपियो देहः पूर्वं गृहं गतः स एवायमङ्कणगतः यः
प्रभात कालाविष्टः स एवायं मध्याह्नकालाविष्टः । यद्वस्तु
पूर्वं क्षीरात्मिकयास्थितं तदेवेदं दध्यादिरूपेण परिणमितमिति
प्रत्यभिज्ञा । अन्यान्यरूपे परित्यन्त पूर्वपूर्वरूपे काशकेर्श
नखादौ या प्रत्यभिज्ञा भवति स एवायं कालः स एवायं केशः स
एवायं नख इति प्रत्यभिज्ञेव तत्प्रत्यभिज्ञा भ्रान्तिरूपैवेत्यर्थ
देशान्यत्वे कालाकारयोरन्यत्वे सति अन्योन्य रूपत्वे सति कालान्यत्व
मवश्यं भावि कालान्यत्वाभावेतयोरप्यन्यत्वा
भावाद्देशकालयोरन्यान्य रूपत्वे अङ्गीक्रियमाणे
आकारस्यैवदेशत्वात् कालान्यत्वे सत्याकारस्यान्यत्वाद्देशकालाकारा
आकार एवपर्यवस्यन्ति आकारात्मनिदेशे पर्यवस्यन्तीति । तन्ना न
तत्तद्देशजाते त्येतावदेवालम् । तथापि स्थूलदृष्ट्यादि भेदोऽस्तीति ते
देशकालाकारा भेदेनैव पृथक् पृथगेव बौद्धैरुच्यत् इत्यादि पदं
प्रयुक्तमाचार्येण । एवं प्रत्यक्षप्रमाणे क्वचिद्देशे का—————–
——————— काकारे वा क्रिया न दृश्यते ।
प्रत्यक्षप्रमाणाभावात् । तत्प्रत्यक्षप्रमाण पूर्वकेणानुमाने
(१०६) नापि दृश्यत इत्यर्थः । क्रिया काचिन्नास्तीति चेत् गच्छतो देवदत्तस्य
ग्रामप्राप्त्यादीत्युत्तरस्तु स्वात्मक्षणरूपं कार्यं च देशवस्तु
स्वरूप——–त घटादि वस्तुरूपं तद्वस्तु व्यतिरेकेण कार्यमिति किमपि
नास्तीति कार्यान्यथानुपपत्त्यापि सा क्रिया न कल्प्या । तस्याः क्रियायाः
दर्शनं नातीति क्रिया साधक प्रत्यक्षानुमान प्रमाणाभाव उक्तः
। बाधकमप्याह - सूत्रशेषेणेति । ——————काचन भवति एकाचेत्
क्रमिकान भवति । एकस्य प्रमातुरुचिता न भवति ।
किञ्चैकप्रमात्राश्रयत्वेनैकान भवति । तस्याप्येकत्वेनभिमतस्य
मातुस्तत्तद्देशकालाकाराविष्टत्वेनानेकत्वात् ———————————-
—————————क————————————-ता—————– अयं
घटः पूर्वं जातः अयं घटः पश्चाज्जातः अयं घटः
पुर्वदेश स्थितः अयं घटः उत्तरदेश स्थित इति पूर्वापररूपता
प्रमातुर्विकल्प बुद्ध्यनुसन्धानात्तेषां घटादि क्षणानां
स्वरूपे पूर्वम् ————————————– त्वादिगुणावत्तद्वस्तु

प्। ८४) लग्नत्वा भावात् तेषां स्वरूपं चक्षुरादिग्राह्यं
वस्तुमात्रमेव प्रमातुर्विकल्पानुप्राणितं पूर्वापरीभूतत्वं
क्रमरूपता क्रियायालक्षणं घटादिवस्तु न स्पृशति । तस्य
पूर्वापरी भूतस्य प्रमात—————————- णा अन्योन्य स्वरूपा
विष्टा न भवन्तीति तत्सम्बन्धिनी कथमेका क्रिया क्रमो
ह्यन्योन्यभेदेन व्याप्तः अभिन्नेवस्तुनि तदभावात् ।
प्रमातुर्विकल्पकृप्त पूर्वापरक्रमाभावात् । भिन्नं चेत्
भेदस्यैक्यं वि————————— एकाचेति स्यात् ।
एकप्रमात्राश्रयेऽवस्थानादेकातस्मिन्नपि व्यवहारे
देवदत्तकालक्षणातिरिक्त आश्रय इति कश्चिन्नानुभूयते ।
देवदत्तदेहादि क्षणा एव प्रबन्धवृत्तयोभान्ति (१०७) काला विष्टत्वात्
भिन्न भिन्नत्वेन भान्ति । किञ्च ——————- याया एकत्वा
भावसूचक मन्यदप्यस्तीत्याह - किञ्चेत्यादिना
तथाभूतैर्भिन्नदेशकालाकारैः क्रियात्वेनाभिमतैः
क्षणैराविष्टः देवदत्तकायः कथमेकः स्यात् । क्षणे क्षणे तस्या
न्यान्यरूपत्वात् । अत एवाश्रयस्यैकत्वा भावात् यो देवदत्तः
नगरान्निर्गतः स एवायं ग्रामं प्राप्त इति भ्रान्त्या इति भ्रान्ति
रूपात् सादृश्याद्भवन्ती प्रत्यभिज्ञा तस्य देवदत्तस्य स एवायामिति
वास्तवमैक्यं साधयितुमलम् ।

एवमित्युक्त प्रकारेण सदृशापरापरभाव
भेदग्रहणाविष्टत्वादहं प्रमितेः सदृश परापरघटपटादि
भावग्रहणात्मकं ज्ञानमात्रमेवास्ति । एवं भूतं
ज्ञानमात्मनः शक्तिर्नभवतीति उक्त नीत्यातस्या भावात् क्रियाया
आत्मनः स्वत एव । भावात् भावात् साप्यात्मनः शक्तिर्नभवतीति
ज्ञानं क्रियां च परीक्ष्य आत्मना सह ज्ञानक्रिययोर्यस्मिन्
सम्बन्धे सति ते ज्ञानक्रिये सर्वज्ञ सर्वकतृता
रूपैश्वर्यप्रसाधनाय प्रभवतः । तमेव सम्बन्धं
ध्वंसयितुं तद्विषयं साधक प्रमाणा भावं तावदाह
मृत्पिण्डस्तूबकशिबिकादिरूपे तथैवाग्निबीजादिरूपे वस्तुनि स्थिते सति
तद्घटाङ्कुर धूमादिक्रमेण भवति । तत्त ज्जायते
प्रत्यक्षेणालोक्यते नान्यदिति मृत्पिण्डादिषु वस्तुषु तत्तद्वस्तु
व्यतिरेकेण तदन्योन्य सम्बन्धात्मकं किमपि वस्तु प्रत्यक्षेण न
दृश्यते । यथा क्रिया प्रत्यक्षानुमानाभ्यां न दृष्टा
तद्वदनुमानेनापि सम्बन्धाख्यं वस्तु न दृश्यते । तत्कार्यकारण
भावतः

प्। ८५) अन्यः सम्बन्धो नास्तीति बीजादनन्तरमङ्कुरस्य सद्भावः
मृत्पिण्डो भावक्षणा दृश्यन्ते मृत्पिण्डादि भावक्षणव्यतिरेकेण
नाधिकं किञ्चित् सम्बन्धाख्यं वस्तु प्रत्यक्षेण प्रमाणेन
दृश्यते । क्रियामिवानुमानेनापि सम्बन्धोनास्तीति वाच्यम् । (१०८)
अग्निबीजाद्या धाराभावेऽप्ययमेव पन्थाः । अग्नौ सति धूमः
इत्यादि विज्ञानवादीस्वमत कार्यकारणभाव स्वरूपमाह - पूर्वं
पृथग्वर्तिनोः कुण्डबदरक्षनयोरनन्तरं वायुप्रेरण वशात्तस्मिन्
बदरे कुण्डान्तः पतिते सतिनिरन्तरात्मक कुण्डविशिष्टबदरोदय इति ।
अयं बदरात्मको भावः कुण्डात्मना भावान्तरेण सहनियत
पूर्वापरतयेति पृथग्रूप कुण्डबदरक्षणानन्तरं निरन्तरात्मक
कुण्डविशिष्ट बदरोदय इति प्रमातुर्विकल्पेन व्यवह्रियमाणं
कार्यकारणभाव इत्यभिधीयते । अस्मिन् पूर्वपक्षे प्रस्तूतमेव
परामृशति - न चेदित्यादिना । आत्मज्ञानक्रिययोश्चान्योन्य
कार्यकारणभावत्वमेवदर्शयति - न चेदित्यादिना । आत्मज्ञान
क्रिययोश्चान्योन्य कार्यकारणभावत्वमेव दर्शयति - न चे त्यादिना
लोके कर्तृरूपत्वेनाभिमतस्यात्मनः कारणत्वेनाभिमते ज्ञान———
————– वात् तर्हिज्ञानमात्मनः कार्यं भवत्वित्याशङ्क्य तदपि
नास्तीत्याह - ज्ञानस्य विषयेन्द्रियसन्निकर्षात्मक
स्वसामग्रीकार्यत्वात् क्रियायाश्च स्वत एवाभावा दात्मनः कारणं
का———————–क्रिया सम्बन्धो नास्ति आत्मनः यतः सम्बन्धात्
ज्ञातृता कर्तृते स्याताम् । एवं सम्बन्धे साधनं प्रमाणं
पराकृत्य सं ———————————–स्वेन विशेष मुखेन दर्शयति -
सम्बन्धि द्वयनिष्ठस्य सम्बन्धिद्वय निष्ठत्वा देवैकरूपत्वा
भावात् इत्यनेन इति सर्वं सम्बन्ध—————————–मुक्तम् ।
घटः पूर्वमेव सिद्धश्चेत्तस्य मृदाघनपेक्षा नास्ति । तस्य
सिद्धत्वादेव घटोसिद्धश्चेत् सुतरामन्यापेक्षा नास्ति । असत्वादेव
सिद्धस्यान्यं प्रतिपारतन्त्र्यादिकम——————————–मुक्तम् ।
ता आदि शब्देन सिद्धय्तो राजपुरुषादिरूपयोर्वस्तुनोरन्योन्यरूप
श्लेषात्मक सम्बन्धोऽपि नास्तित्वे रूपवती—–स्तनी (१०९) कथं
श्लिष्यतः । द्वयोरेकत्वानुपपत्तेः । एकत्वे वा कल्लोल———————–पि
सम्बन्धस्य बाधकं प्रमाणं निरुपितम् । सम्बन्धिनोः परस्पर
प्राप्तिरूपस्य सम्बन्धस्यान्योन्य प्राप्तिभाजोः सम्बन्धिनो
रूपर्येकः सम्बन्धस्तिष्ठतीति सा

प्। ८६) मान्य लक्षणम् । तच्चैकसम्बन्धस्योभयत्रावस्था——-कथं
भवेत् । एकत्र सम्बन्धिनिविश्रमिताशेष शरीर सा सः
सम्बन्धोऽन्यत्र शरीरसम्बन्धिनिविश्रमितुमलम् । स सम्बन्धः
अन्यत्रापि सम्बन्धिनि विश्राम्यति चेत् स्वरूप भेद प्रसङ्गात्
सम्बन्धस्वरूपस्य द्विधा तत्व प्रसङ्गात् । उभयत्रापि विश्राम्यति चेत्
(स्वरूपभेदप्रसङ्गात्) तत्सम्बन्धिद्वयव्यतिरेकेण सम्बन्ध इति
काश्चिन्नास्ति । दृद् अनुभवात्मकं ज्ञानं तज्ज्ञानं जडात्
घटपतादिरूपात् ज्ञेयात् विशिष्यते । तत्र हेतुः ज्ञानस्य
स्वप्रकाशैकरूपतया घटपटादिरूपेओ जडः प्रकाशच्चेतनेषु
चेतन प्रतिकोटि कल्पनया चेतनेषु पारतन्त्र्यात्मा चेतनस्या चेतनं
क्षेत्र धनादि प्रतिपारतन्त्र्यम् । अचेतनस्य चेतनं प्रति आरतन्त्र्यमिति
यः सम्बन्धो व्यवह्रियते तत्र चेतनस्य वा चेतनस्य सिद्धस्य
पारतन्त्र्य मन्योन्यं नास्ति । तस्य सिद्धत्वादेव । असिद्धस्य वस्तुनः न
तरां पारतन्त्र्यम् । असिद्धत्वादेव निःस्वरूपस्य पारतन्त्र्या योगात् ।
सिद्धस्य वस्तुनोऽपेक्षात्मा सम्बन्धो नास्ति । सिद्धत्वादेव । असिद्धस्य
न तराम् । आदि ग्रहणस्यार्थमाह - द्वेराज पुरुषात्मके रूपे कथं
श्लिष्यतः । द्वयोः पुरुषयोरेकत्वानुपपत्तेः । द्वयो रूपयोरेकत्वे
सतिश्लेषः कः उभयो रप्येकरूपत्वात् । तमेवाह -
ज्ञानसम्बन्धाद्यया कल्पितः ज्ञात्रत्मकोन परमार्थः
तथाक्रियासम्बन्धात् कर्तात्मकोऽर्थो न पर्मार्थः । इति पूर्वः
पक्षः ।

(११०) इति प्रत्यभिज्ञा विमर्शिनीव्याख्यायां द्वितीयमाह्निकं
समाप्तम् ॥

अथ तृतीय माह्निकम्

अभेदोत्तरपक्षान्तर्न्नीयत इति यदुक्तं तदभेदोत्तर
पक्षान्तर्नयनम् । एतदाह्निकमारभ्य येनात्मना शिवेन विना समस्ता
अनुभवविकल्प स्मृत्यनु सन्धानादिरूपा दृष्टयः बोधाः
अनुभवितृविकल्पयितृस्मर्त्रनु सन्धाताद्यात्मना विना न किञ्चित् स्यात् ।
प्रथमां स्वसत्तां न लभते स्व स्व विषय प्रकाशन क्षमा अपि न
भवन्ति । अनस्तमितमिति । देशकालाकार

प्। ८७) कलितत्वात् व्याप्तानि——————परिपूर्णाहं प्रकाशात्मकं
शिवं स्तुमः । स्मृतेः संस्कारमात्रादेव सिद्धिरिति एतस्मिन्नुक्ते
पूर्वपक्षे यदुक्तं तदेवदूषयितुं श्लोकसप्तकम् । क्रियायां
सम्बन्धे च यद्दूषणं क्रियाप्यर्थस्येति तत्र तत्र स्थितेत्यादि
श्लोकत्रयेण क्रियायां सम्बन्धे च यद्दूषणमुक्तं तदुद्धरणं
द्वितीये क्रियाधिकारे भविष्यति । ज्ञानशक्ति विषय दूषणमस्मिन्
ज्ञानाधिकार एवोद्ध्रियते । परेण बौद्धेन ज्ञानं चित्स्वरूपं
चेत्यादिना श्लोकद्वयेनात्मनो व्यतिरिक्तं ज्ञान————दि साङ्ख्यादि
दृष्टि निराकृतं सन्निराकरणं ग्रन्थकृत अभिमतमिति
दूषणान्तमेव तत्र श्लोक सप्तके सर्वस्य ज्ञानस्य स्वसंवेद्न
रूपतया स्व ——————- रूपतयानुभव संस्कारजत्वेऽपि
स्मृतेरनुभवविषयवदनुभवस्य स्मृताव—————————-नस्य
ज्ञानान्तरवेद्यत्वा भावात् श्लोकेन स्मृतिभ्रान्तेति प्रथम
माशङ्क्य द्वितीयेन तद्भ्रान्तित्वं पराकृत्य तृतीयेन स्मृति प्रसङ्गात्
——————- रूपाणां सर्वा सर्वाध्यवसायानां
भ्रान्तित्वाशङ्का ————————————– पपत्तौ हानादानादि
व्यवहारस्यो च्छेद इति श्लोकेनोक्ते स्वपक्षे संविद्दर्शने
स्मृत्युपपत्तिरिति श्लोके नोक्तमित्याह्नि——————————— ।

सत्यमित्यर्धाङ्गीकारात्मना पदेन पूर्वपक्ष—————ङ्गी
कर्तव्यमित्युक्तम् । तत् किमिति चेदात्मनो व्यतिरिक्तं ज्ञानं पराकृतं
तन्मयाप्यङ्गीकर्तव्यमित्यर्थः । विशेषाभिधायिनाकिं त्वित्यनेन
यन्मया——————————–मृष्यतीत्युक्तं भवदभिमतेन स्मृति
ज्ञानं पूर्वानुभव स—————————– स्वप्रकाशं स्मृति
ज्ञानं स्वात्मनः पूर्वस्यानुभवस्य ज्ञानस्यानुभूत विषयवत्
वेदकं ज्ञापकं न भवति । तस्यापि स्वप्रकाशत्वात् स्मृतिका————
—————-लस्यानु भवितः प्रमातुरात्मा रूढत्वाच्च । इह दर्शने
स्मृते ————————————– यमात्रस्य प्रकाशः समर्थनीयो न
वर्तते । यः विषयः प्रकाशः अनुभव संस्कारादेव सिद्ध्यति । अत एव
समर्थनीयो न वर्तते ——————- पपत्तिं तावद्विचारयति इदमिति ।
अनुभव पृष्ठपातिनी स्मृतिः तद———————–दनन्तरं तदित्येवं
रूपा स्मृतः (तिः) कथं स्यात् । स्मृतिर्माभूदिति नवक्तव्यम् ।

प्। ८८) स्मृत्या विना पूर्वानुभूत वस्तुसम्बन्धी हानादानादि
व्यवहारः कथं स्यात् । अस्य विषयस्यानुभवेन हि सुख
साधनतानिश्चिता । तत इति सुखसाधनमिति नि——–नाभिल———–तत
उपादानात् अनुभूत विषयस्य पुनरप्यं गीकारात् । तत्र स्मृतेः
संस्कार जत्वे पूर्वानुभव संस्कारात् स्मृति ज्ञानस्यैता वज्जातम् ।
तत्स्मृति ज्ञानमनुभववद्विषयेण न जनितमेव ।
तथाप्यनुभवज्ञान विषयमित्येतावत् स्मृतेः संस्कारादेव
तावज्जातम् । अनुभव विषय विषय विषयित्व (११२) सम्पादकेन
संस्कारेण स्मृतेः न किमपि जातम् । आत्मनिष्ठे स्वयं प्रकाशे तस्मिन्
स्मृति ज्ञानेऽनुभूत विषयस्येव प्रच्यस्यानुभवस्या प्रकाशनात्
सोऽनुभवः स्मृतौ प्रकाशते चेत् स्व प्रकाशो न भवति । घटवत् ज्ञेयी
भवति । अनुभवोऽनुभावकाधीनः । स्मृतिः पूर्वानुभवितुरूप
स्मर्त्राधीना ज्ञानानि प्रमात्राधीनानीत्यर्थः । स्मृतिः
पूर्वानुभव संस्कारजनितत्वादेव पूर्वानुभूतं मपि स्वविषयी
कुरुतामित्याशङ्क्याह -

दृक् अनुभवात्मिका स्वभासैव स्वप्रकाशैव न पर प्रकाश्यात् पर
प्रकाश्याचेत् अस्याः स्वप्रकाशत्वं न घटते । तस्मात् स्वभासैव किं
च स्वष्टाविषयस्या भासिका प्रकाशिका अन्येन स्मृतिज्ञानेन वेद्या न
भवति । वेद्या चेत् चक्षुषैव चक्षुर्विषयस्य क्षीरादे राभ्रादेः
फलस्य च रसना विषयोरसोपि गृहीतः स्यात् । तस्मान्नान्यज्ञानेन
वेद्या । स्मृतेः संस्कार जत्वं तु अनुभव विषय
विषयीकरणादनुभवतुल्यत्वम् । अनुभवस्य स्मृतेश्चैकविषयत्वात्
अनुभव सादृश्यमात्रं भवति । न तद्गतिः अनुभव गतिर्न भवति ।
भवज्ञानविषयीकार्यं न भवति । तच्छब्देन तुल्यत्वावगतिरपि नास्ति
। स्मृतिः पूर्वानुभवेन सह मम तुल्यत्वमिति तत्तुल्यमपि न जानाति ।
स्मृतिः पूर्वानुभव तुल्येति तस्य तुल्यत्वस्य प्रमात्रधीनत्वात् । किं
चेदानीं तदितियो विषयभूतो घटः एष घटः पूर्वानुभव विषयी
कृत इत्येतदपि स्मृतिर्नजानाति ।

प्। ८९) तज्ज्ञानस्यापि प्रमात्रधीनत्वात् संविदात्मकात् प्रकाशात्
पृथग्भूतो वक्तव्यः । व्यवहार दशायामिति शेषः । जडस्यापि
परमार्थतः प्रकाशमानत्वात् (११३) जडाद्विशिष्टत्वेन दृक्
स्वाभासात् । आभासो नाम प्रकाशमानता । सा प्रकाशमानता स्वं
रूपं व्यभिचारि यस्या दृशः । किञ्च स्वस्य स्वान्तः स्थितस्य
विषयस्येदमिति बहिराभासकत्वं रूपं यस्या इत्यपि स्वाभासा
स्वयमेव प्रकाशमानत्वात् स्वविषयस्य च भासकत्वाच्च
स्वाभासेत्यर्थः । विषये ज्ञानाद्बाह्ये इत्यं गी क्रियमाणे
सत्यपितद्बाह्य विषय शरीर सङ्क्रान्तं तज्ज्ञानस्य स्वरूपं
भवितुं नार्हति । अत्र हेतुमाह - स्वस्मादन्यत्वेनाभिमत स्वा————
त्मक निजरूप प्रकाशनं हि ज्ञानस्य भव्यते । तदनुभव
ज्ञानमुक्तप्रकारेण स्वाभासमेव भवतु । तथापि
स्वपश्चाद्भाविनि स्मरणे भासिष्यते । स्मरणे प्रवर्तमानस्यानुभव
ज्ञानस्य स्वाभासत्वहानि————————————– त इत्याह
अनुभवज्ञानमन्योन्य स्मरण ज्ञानेन वेद्यं न भवति ।
परत्रस्मरणे अनुभवज्ञानं यदि भासते तर्हि तदनुभव ज्ञान
प्रकाशं न भवति । अनुभवात्मनः प्रकाश रूपस्येदमे—————-
———————-प्रकाशते । अनुभवस्यस्वयं प्रकाश समये अनुभव
ज्ञानस्याधिकरण भूता सम्बन्ध प्रमाणापरत्रेति सप्तमी कथं
सङ्गच्छताम् । तस्मिन् स्मृति ज्ञाने घटवदारुह्यानुभवस्य
प्रकाशना भावात् अन्योन्य वेद्यान भवती———————-ज्ञानेन
रसेदृग्रसविषयं रसना विषयरस ज्ञानं न वेद्यते चेत् चक्षुषैव हि
रसः फलतः अर्थात् सामर्थ्यात् । किञ्च चक्षुर्विषयादाभ्रादेरसना
विषयोरसो गृहीतः स्यादिति इन्द्रियनियमाभाव—————————–चेत् ।
किं तर्हि संस्कारेण स्मरण ज्ञानस्य किं कृतं स्यात् । दृष्तान्ते
विषय इति द्योतयति रूप ज्ञानं चेत्यादिना । रूपज्ञानं च
रसज्ञान जात् संस्काराज्जातं न भवति ।
स्मृतिरनुभवसंस्काराज्जाता । तत् कथं दृष्टान्तः । कथं————–
—– न्येनवेद्येति (११४) भवत् सम्भावित दोष प्रसङ्गाय संस्कार एव
प्रभवेत् । किमुक्तं भवति - संस्कार एवानुभवं स्मृतेर्विषयी
करोतीत्यर्थः । नैतदिति यद्भवदुक्तं तन्न भवति । अनुभव संस्कारे
संस्कृतात् सम ————–त् । अनुभूत वस्तु सदृश वस्तु ज्ञानादुत्थित

प्। ९०) स्मृति स्वबोधः । तेनानुभव सदृशो भवेत् स्मृति बोधः
अनुभववदेको न भवति । उत्तरोत्तर कालजायमानोत्तरोत्तर शाखा
सन्निवेशः पूर्वपूर्वशाखा सन्निवेशसंस्कारजातत्वात् पूर्व
पूर्व शाखा सन्निवेश तुल्य इवोत्तरोत्तरकालीनं स्मृति बोधोऽपि
पूर्वकालीना संस्कारानुभव संस्कारजातत्वात् पूर्व काली
नानुभव तुल्यो न भवति । लोके यद्भाव संस्कारात् योभावो जातः
सभावस्तस्य भावस्य वेदक स्वभावो न भवति । जनक संस्कारा
ज्जातः सुतः । तथा हि - तस्यातीतस्य जनकस्य वेदकस्य भावो न भवति ।
बीजसंस्काराज्जातोऽङ्कुरः नष्ट स्वरूपबीज स्वभाववदेक्न भवति
यथा तद्वदनुभवसंस्कार जात स्मृति बोधोऽपि पूर्वानुभव
वेदकोन भवति । स्मृतेरनुभवसदृशत्वस्यावगतिरपि कथम् अनुभव
ज्ञानं स्मृति ज्ञानेन स्वात्मनः सादृश्यं न गमयति । स्मृति
ज्ञानमप्यनुभवेन सह स्वात्मनः सादृश्य
महमनुभवज्ञानतुल्यमिति नावगमयति ।
परस्परमसंवेदनेऽनुभव ज्ञाने स्मृति ज्ञाने
द्वयनिष्ठसादृश्याद्यवसायायोगात् सादृश्य ज्ञानं
प्रमातृनिष्ठम्व भवति । मुखं कमलतुल्यमिति वदुभयो रनुभव
स्मृत्योर्वेदनं तस्य तद्व्यतिरिक्तस्या न्यस्य ज्ञानस्याभावात् । तस्मात्
संस्कारात् केवलमनुभव समानविषयता मात्रं सिद्धम् ।
अनुभवः विषयो न भवति । अस्य स्मृतिज्ञानविषयस्य घटादेः
पूर्वानुभव विषयीकृतत्वमपि स्मृ(तेः) सिद्धं न भवति । इति निश्चय
एषः ।

(११५) अथ स्मृतिं भ्रान्तिरित्याशङ्कते - अयं घट
इत्यनुभवपृष्ठपातिनि स्मृति ज्ञाने तस्य घटादेरनुभवेन सह
नष्टत्वेऽपि सघटः स पट इति तन्नष्टं घटादिं विषयी
कृत्योदीयमाने स्मृति ज्ञाने अनुभवस्यायमिति सत्यतः प्रकाशः
तदनुभवमुखेन तदनुभवविषयस्य च सत्यतः अयमिति प्रकाशः
स्याद्यदि तदानुभव समान
विषयत्वादनुभवविषयैकविषयत्वात्तमनुभूतमर्थं स इति
प्रकाशयतीति भवदुक्ते खकाशः । यावतेति प्रक्रान्तार्थ
निर्वाहाभावद्योतकमव्ययम् । तथानेत्यर्थः स्मृतेर्विकल्पस्या

प्। ९१) संस्पर्शिनो हि विकल्पा इत्युक्तनीत्या विकल्पस्यार्था
संस्पर्शित्वाद्विकल्प रूपा स्मृतिः केवलमप्रकाशमेवानुभवं
तद्विषयं चाध्यवस्यति । अध्यवसायोनाम अतस्मिंस्तदारोपः इत्यादौ
रजतादिरूपा रोपवत् । तदर्थासंस्पर्शित्वाद् भ्रान्ति स्वभावा । तत्र
स्मृतौ तया विना व्यवहारो न घटत इति कोऽयं निर्बन्ध
इत्येतप्रमेयं श ————————————– दर्शयति । स्मृतेरनु
भवस्यानुभूतार्थस्य च विषयत्वाभावेऽपि तयोरवसायतः
अतस्मिंस्तद्बुद्धिरूपादवसायात् । भ्रान्त्या सघट
इत्यनुभूतार्थालम्बनतानपरमार्थ इत्यर्थः ।

स्मृतेर्दृशमनुभवो न वि ————————————– या
नविषयः उभयोर्विषयत्वाभावेऽपि भ्रमरूपतया स्मृत्या
ध्यवसीयते । एतां स्मृतेर्भ्रान्तित्वाशङ्कां निराकरोति ।
निराकरणमेवाह श्लोकशेषेण । स्मृतिभ्रान्तेति यद्भवतोक्तं ———–
————————— अत्रासामञ्जस्येकारिकयानन्तरसूत्रेण युक्तिमाह

  • तावत् प्रथमं भ्रान्तेति यत् स्मृतितैव कथं स्मृतेर्वक्ष्यमाणं
    लक्षणं भ्रान्तेः कथं भवेत् । किञ्चिद्
    भ्रान्तित्वेनाशङ्कमानायाः स्मृतेः ————————————– स्य
    व्यवस्थापकत्वं (११६) कथम् । अर्थ व्यवस्थाभावात् । पूर्वानुभव
    संस्कारापेक्षा च स्मृतेः किमिष्यते ।

स्मृतेर्लक्षणं निरूपयति - अनुभूत विषया
सम्प्रमीषस्मृतिरिति । योगसूत्रनीत्यानुभवप्रकाशितस्य घट————-
——————हारः तथैव प्रकाशनं यदेतत् स्मृतेः अयं घट
इत्यनुभूतस्यार्थस्य स तथैवान्यूनाधिक तया प्रकाशनम् एतदेव
स्मृते रात्मीयं रूपम् । अनुभूतार्थस्य तथा प्रकाशना भावेऽपि
घटेततम——————————— वत् भ्रान्तौ असद्रजतादि सद्रजतादि
ग्राहकः भ्रान्त्या कारो वा प्रख्याति पकाशते तया भ्रान्त्या अर्थो न
स्वीक्रियते । असतोऽर्थस्या प्रकाशनात् सत्यरूपस्य परमार्थभूतस्य
प्रकाशनात् तया भ्रान्त्या अर्थो न व्यवस्थापित एव ।
व्यवस्थाप्नानामर्थस्य प्रकाशना भावे संस्कार जत्वे स्मृति
भ्रान्तेः पूर्वानुभव संस्कारजत्वेन किमपि प्रयोजनत्वं नास्ति ।
भ्रान्तेः संस्कार जत्वाभावादेव । तद्धि संस्कार जत्वे
स्मृतेरनुभवेन सादृश्यं

प्। ९२) लब्धुमवलम्ब्यते । यथोक्तम् संस्कारजत्वं तत्तुल्यमिति । विषय
प्रकाशनात्मनानुभवेन सह सर्वथा यमिति वास इति वेति प्रकारेण
विषयमस्पृशन्त्याः भ्रान्तेः किञ्चिदपि सादृश्यं नास्ति । तस्मात्
संस्कारजत्वेन भ्रान्तेर्न किमपि प्रयोजनम् ।

भ्रान्तेरर्थ प्रकाशकत्वमस्तीत्याशङ्क्यते -
अनुभवोयस्तद्विषयश्च यस्तदुभयमपि तया भ्रान्त्या ध्यवसीयत इति
यतस्ततः अध्यवसायात् सादृश्यमनुभवेन स्मृते स्तत्सिद्धये सादृश्य
सिद्धये संस्कारपरिग्रहः । तस्मादर्थ व्यवस्थापकं तत
एवानुभवसादृश्यं तत्सिद्धये संस्कार परिग्रहश्चेति भ्रान्त्यैव
लोकव्यवहारः सर्वः सम्पन्न इत्याशङ्क्योत्तरमाह - अध्यवसीयत इति
। (११७) भवता किमिच्यते अध्यवसीयत इत्यनेनार्थः भ्रान्त्या प्रकाशत
इत्युच्यते चेत् तस्मान्न भ्रान्तित्वं भवति । अध्यवसीयत इत्यनेन
प्रकाश्यत इत्युच्यते चेत् पुनरपि विषयो न स्फुटः ।
पूर्ववद्भ्रान्तेश्चार्थ स्थितिः कथमित्युक्तनीत्या विषयो न स्पष्ट एवेति
सम्भ्रान्ते रनुभव सादृश्यमिति शब्दगडुमात्रमर्थो न भवति ।

एतदुक्त प्रमेयं दर्श्यति - अवसायस्य विकल्पः ज्ञानस्य
भ्रान्तित्वे अङ्गीक्रियमाणे सति तस्माज्जडादवसायाद्विषय स्थिति
व्यवस्था न भवति । स्मृति भ्रान्तेरन्यस्य वा भ्रान्ति बोधस्य
प्रकाशमाने संवेदनांशे स्वज्ञानांशे न भ्रान्तिता अर्थ
वैपरीत्या भावात् दूरवर्तिनीं शुक्तिं दृष्ट्वा तन्नैर्मल्यं
गुणादिदं रजतमिति सम्भूतस्य भ्रान्ति ज्ञानस्येदं रजतमिति
प्रकाशमाने स्वसंवेदनां शेन भ्रान्तिता वैपरीत्या भावात् तत्
भ्रान्तं चेत् सर्वं रजत् ज्ञानं भ्रान्तं भवति । तत्र भ्रान्ति ज्ञाने
अध्यवसीयते स्वाकारोयो रजताकार तस्मिंस्तद्बुद्ध्या आरोप्यते यो
रजताकारः स आकारः विपरीत तया अस्वाकार त्वेना
रजताकारत्वेनार्थ तया विषया कारत्वेनाध्यवस्यत इति शुक्त्याकार
एव रजतत्वेनाध्यवसीयत इति तस्य रजत ज्ञानस्य तत्र विषयांशे
भ्रान्तिता न ज्ञानांशे भ्रान्तिता सोऽर्थरूपां शुक्ति रजतादि
बुद्धिरूपयावा द्विचन्द्रादिबुद्धिरूपया वा

प्। ९३) स्मृत्या न स्पृश्यत इति तत्रार्थांशे तूष्णीके न्यप्रकाशिकेति
अस्याः स्मृति भ्रान्ति संविदः तत्र विषयांशे जडत्वमस्या यातम् ।
शुक्तिविषये जातस्य रजत्ज्ञानस्य स्वीयेविषयरूपे रजताम्श ————–
—– पात् जडत्वं घट ज्ञानस्य तु पटज्ञान विषये पटे
प्रकाशकत्वा भावात् पटज्ञान विषय एव जडत्वं न तु स्वविषय इति
शेषः । जडेन ज्ञानेन किञ्चित् कृत्यं नास्ति । तत्प्रकाशत्वा भावात् ।
ततश्च (११८) स्मृति भ्रान्तेः प्रकाशकत्व——————————— रोऽपि
लुप्येत । ततः अथ स्मृति भ्रान्ति ज्ञानस्या जाड्येऽङ्गीक्रियमाणे सति
निजे स्वसंवेदनांशे अतस्मिंस्तद्बुद्ध्या शुक्ता बुल्लिख्यमाने सति
ततः स्वाकारे रजताकारे च निष्ठता ततः अवं———————————
—–र्यस्थितिर्न भवति । अथ शब्दः प्रश्ने भ्रान्ति रूपायाः स्मृते
खसाय रूपं विकल्पात्मकं स्वसंवेदनां शञ्ज्ञानांशम् ।
अत स्मिंस्तद्बुद्ध्योल्लिख्यमानं खाकारं वा वलम्ब्या
जडत्वमङ्गीक्रियते किम् । एवमपि भ्रान्ति स्वरूप —————————–
——— सति निजं स्वज्ञानांशमुल्लिख्यमान स्वाकारं स्वविषयं
चापरमार्थ भूत स्वविषयः इत्युभयत्रैव परिनिष्ठितैषास्मृति
सत्यरजतरूपस्य विषयस्य प्रकाशकत्वा भावात्तस्य नामापि ग्रही तु
मशक्नुवतः स्मृतिर्विकल्प ————————————– भवति
तस्यार्थस्य व्यवहार्यत्व सम्पादनं सामर्थ्यम् । अर्थस्य
हानादानादि व्यवहार्य सम्पादन सामर्थ्यं संस्कारे सत्यपि
स्मृतेर्न कथं घटते अर्थ प्रकाशनाभावाद्धेतोः । ततः अनन्तरं
सत्यमित्यादिना ——————- लानि ज्ञानानि परस्पर सङ्गति हीनानीति ।
अनुभव स्तावत् स्मृतेर्विषयीभावात् स्वविषयमपि स्मृतेर्विषयत्वे
नार्पणाभावाच्च स्मृतिसङ्गति हीनः । एवं स्मृतिविकल्पयोरपि
द्रष्टव्यम् । इति परस्पर सङ्गति हीनानि । अनुभवादीनाम—–मित्युक्तं
तत्प्रकृतेति । अथानुभव इत्यादिना प्रकृते आत्मनो भावे स्मृत्यभावात्
स्मृत्यभावेहानादानादि व्यवहारा भाव इति प्रकृते यो जयति ।

एव मुक्त प्रकारेण न्योन्य भिन्नानामित्यनुभव
ज्ञानादन्यद्विकल्पज्ञानं तस्मादन्यत् स्मृति ज्ञानमित्यन्योन्य
भिन्नानामपरस्पर वेदिना मिति (११९) ।

प्। ९४) अनुभवज्ञानं स्मृति ज्ञानं न जानाति स्मृति विषयञ्च
स्मृतिज्ञानं चानुभवमनुभव विषयं च न जानाति ।
तदुभयोर्मध्यवर्ति विकल्प ज्ञानमप्येव मेवेत्यपरस्परवेदिनां
ज्ञानानामनुभवादिना मनुसन्धान जन्मेति । अयमित्यनुभवः ।
अयं घट एव न पट इति विकल्पः । स घट इति स्मृतिः सैवानुसन्धानं
तज्जन्मा जनस्थितिः । हानादानादिर्व्यवहारः ।
अनन्तरश्लोकवक्ष्यमाणः परमेश्वरो न चेत् । किञ्च एवमिति
भवन्मताभ्युपगमे नश्येदिति सम्भावनामात्रं न श्यतामिति
भवदभीष्टमात्रान्न नश्यति । प्रकाशमानत्वात् ।
ज्ञानानामनुसन्धान जन्मना जनस्थितिः हानादानादिर्व्यवहारः
महेश्वरो न चेन्नश्यति समहेश्वरोऽस्त्येव । तस्मात् जनस्थितिर्न
नश्यतीत्यर्थः । जनस्य लोकस्य या काचन स्थितिः
हानादानादिर्व्यवहारः सा सर्वा व्यवहाररूपा स्थितिः । एकस्य
प्रमातुर्विषया भावोपपन्न स्मृतिरूपता प्राप्तिरूपं । किञ्च
अनुभव विकल्प स्मृति ज्ञानानामेकविषयतामुपपन्ना स्मर्तृरूप
प्रमात्रधीनाया स्मृतिता तत्प्राप्तिरूपमनुसन्धानं यत्तज्जन्मा
तदायत्ता अनुसन्धानाधीना सर्वस्य प्रत्यक्षादि ज्ञानस्य
व्यवहारस्य च स्मृत्यायत्ततामेव प्रतिपादयति - तथाहीत्यादिना ।
सर्वोव्यवहारस्मरणायत्तः प्रथमं घटं जानामीति प्रत्यक्ष
ज्ञानं पटदर्शनात् पूर्वं योऽहं घटादि पूर्वमन्वभूवं
स एवाहमिदानीं घटमनुभवामीति अनुभवसंस्कारोत्पन्न
स्मरणानुप्राणितेनाहमिति पूर्वपरासंविदैक्य रूपानुसन्धानेन
विना घटते तेन विना घटते चेत् अहं जानामीति तस्य प्रत्यक्षस्य
प्रमातरि विश्वान्त्यभावः प्रसज्येत । अप्रत्यक्ष प्रसङ्गश्च ।
प्रमातारं विना तस्य प्रत्यक्ऽं भवति, तज्ज्ञानं
सुखमनुभवामीति सुख प्रत्यक्षात्मकज्ञानं तत्सुखवति प्रमातरि
(१२०) विश्रान्त्या विना न घटते । सुखवति प्रमातरि विश्वान्त्यभावात्
सुख प्रत्यक्षत्वा भाव प्रसङ्गात् । एवं सर्वत्र घट
सुखादिविकल्पोह्येवं हानादि सर्वे व्यवहाराः स्मरणमया एवेति ।
जडो वा चेतनो वा यः प्रतिकूलो भावः पूर्वमनुभूतः स अन
भिमतत्वात्वात्त्याज्यः । यः पुनरनुकूलत्वेनानुभूतः

प्। ९५) स अभिमतत्वादुपादेयः । यः पूर्वं दृष्टश्चैत्रः सोऽस्मिन्
कार्ये समर्थः एनं प्रेरयेति प्रेरणमपि स्मरण निबन्धनं सर्वजन
सम्प्रतिपन्नोऽङ्गीकारोऽपि एवं स्मरण निबन्धनः । त एवं
भूतादनुसन्धानाज्जायमानाजनस्थितिः । किञ्चैवमिति
शब्दस्याक्षेप रूपेणार्थान्तरमाह आत्मेश्वर रहित विज्ञान
वादिमताद्यङ्गीकारे जनस्थितिर्न नश्येते । नश्यतीति सम्भावना ——–
———– कवक्ष्यमाण महेश्वरायत्तत्वात् नतु परमार्थतो नश्यति ।

सम्भावनायां हेतुमाह - कुत इत्यादिना ।   

जनस्थितिर्नाशसम्भावनायाम् ।
अन्योन्यभिन्नानामपरस्परवेदिनामिति ज्ञानानां विशेषणद्वारेण
हेतुमाह - अन्योन्येति । इदमित्यनुभवज्ञानं विकल्प स्मृत्योरन्यत् । इदं
नीलमेव न पीतामिति विकल्प ज्ञानमप्यनुभव स्मृत्योरन्यत् ।
तन्नीलामिति स्मृति ज्ञानमप्यनुभव विकल्पयोरन्यदित्यन्योन्यं
तावद्भिभानि ज्ञानानि विकल्पदशाया मेव ज्ञानस्य कालसंयोजन
विश्लेषादि व्यक्तितेद्रानीन्तनमित्युक्तम् । तान्येतानी ज्ञानानि
क्रमेणायमिति अयं घट एव न पट इति स घट इति च
स्वस्वविषयरकाशमात्ररूपाणि परविषये इतरेतर ज्ञानं तद्विषये
जात्यन्ध बालमूक कल्पानि स्व ————————-रेकेण परविषयं
द्रष्टुं विवेक्तुं वक्तुं च न समर्थानीत्यर्थः । न चेति
स्मरणज्ञानं विकल्प ज्ञानस्य प्रकाशकं न भवति । विकल्प
ज्ञानमनुभव ज्ञानस्य प्रकाशकं न भवति । (१२१) किञ्चानुभव
ज्ञानं विकल्प ज्ञानन्यो प्रकाशकं न भवति । विकल्पज्ञानं
स्मरणज्ञानस्य प्रकाशकं न भवति इत्यन्यो न्यस्य प्रकाशरूपाणि
न भवन्ति उक्त प्रकारेण । एवं ज्ञानानां निज निज स्वरूपतः
विषयतः एकाभाव रूपमनुसन्धानं नास्ति । अन्योन्यमेक ज्ञानस्य
विषयित्वम् । इतरस्य विषयित्वं च नास्ति । अनुभवस्य विषयत्वं विकल्पस्य
विषयत्वम् । अथवा विकल्पस्य विषयत्वमनुभवस्य विषययत्वम् । एवं
स्मृतेरपि विषय विषयि भावो नास्ति । अनुभव विकल्प स्मृतिव्यतिरित्कं
तुरीयं ज्ञानं निबन्धनं कारणी भूय एतेषामनुभवादीना
मनुसन्धातृपदे स्थित्वा अनुसन्धानाधायि सम्भाव्यते । तादृशं
तुरीयमपि

प्। ९६) ज्ञानं नास्तीतिध्वंसेरन् । सर्व व्यवहारः ध्वंसन्तामिति
भवदभीष्टमात्रात्तेन ध्वंसन्ते प्रकाशन्ते यतः ततः
व्यवहाराणां प्रकाशमानत्वात्तत एतदापद्यते य्द्वक्ष्यमाणम् ।
एतदेव व्यवहार प्रकाशनमेव समर्थयितु मुद्यन्तं यत् । अद्योगः
कर्तव्य इत्येतदापन्नं तच्च प्रकाशमानं कर्तरि
ज्ञातरीत्यभिमतमहेश्वरात्मक स्वात्मरूपेण विना
ब्रह्मणोऽप्यशक्य समर्थनमिति दर्शयति - अन्तः
कृतानन्तविश्वरूपश्चिद्वपुः ज्ञानस्मृत्यपोहनशक्तिमानेको
महेश्वरो न चेत् जनस्थितिर्नश्येदिति सम्भाव्यते । सोऽस्त्येव ।
तस्मान्नश्यतीत्यन्तश्लोकेन प्रसङ्गस्य विपर्ययः । अन्तः
पूर्णाहन्तायां कृतं तन्मयत्वमापादितं शिवादिक्षित्यन्तं
देशकालयोरपि तत्वान्तर्भूतत्वात्ताभ्यामपरिच्छिन्नं विश्वरूपं
येन सः तादृग्विधः चिद्वपुः प्रकाशैकघनः अनुभवापोहन
स्मृत्यात्मक प्रशस्तशक्ति त्रययुक्तः एकं तासां
शक्तिनामाश्रयभूतः महेश्वरः तच्छक्तिसंयोजनवियोजन (१२२)
विश्रमण स्वाच्चन्द्य उक्तः । एवं भूतो न चेदिति पूर्वश्लोकेन
सम्बन्ध इदं सूत्रं कथं चिदासाद्येत्याद्युक्त वक्ष्यमाण स्मृति
ज्ञानापोहनैकाश्रय माहेश्वर्य निरूपण रुपाणामाह्निकानां
तदुपरि क्रियाधिकार गमाधिकारागतसूत्राणामपि सूत्रभूतम्,
संवित्तावत् प्रकाशत इति ज्ञानात्मिकासंवित्तावत् प्रकाशत इति केचित् ।
सर्ववादिभिरपि यं विदः प्रकाशमानमङ्गीकृतं तं सर्वा विवादे
न प्रकाशमानाम् । अपह्नुवते आच्छादयितुं न प्रभवन्ति सा संवित्
स्वात्ममात्रा संविन्मात्रविश्रान्ता चेत् कथमर्थस्य प्रकाशिका
अर्थस्पर्शाभावात् । अर्थस्य प्रकाशिका चेत् स संविद्रूपः प्रकाशः
अर्थस्य धर्म एव स्यात् । शक्तत्वादितिवत् । तत"चार्थ धर्मत्वा देवार्थ
प्रकाश इत्यर्थ प्रकाशात्मिका संवित्तावत्येवार्थ एव पर्यवस ——–
—————– ग्राह्यमयं ग्राहक इति ग्राह्यग्राहक भावः । अतः
ग्राह्यग्राहकभाव गलन प्रसङ्गात्संविदमर्थ
प्रकाशात्मिकामिच्छता । तद्वलादिति - तत्संवित्सामर्थ्यादेव । अर्थोऽपि
संविद्रूपान्तर्गत एव ।————————- प्रकाशात्मिका संवित् ।
अन्यश्चान्यश्च यैव पूर्वं

प्। ९७) घटप्रकाशात्मिका सैव पटप्रकाशिकेत्येवं रूपमैक्यं
विहाय विज्ञान वादि दर्शनवत् घटे न्या पटे न्या—————–मन्व
भूतः स एव स्मर्यत इति अन्वभूतस्य विषयस्य स्मरणमनुपपन्नं
स्मरणानुपपत्तेरेकैवा सावित्येकत्वात् सर्वोवेद्यराशिस्तयै कया
संविदा क्रो————————-निच्छता विज्ञानवादिनाङ्गीकार्यम् ।
एवमपीति । सर्वेवेद्यराशिरेकसंवित् क्रोडीकृत इति अविरतं
संविदुन्मग्ना चेद्युगपदेव बहिः शिवादिक्षित्यन्तं विश्वात्मना
प्रकाशेत । निमग्ना चेदन्तः युगपदेव क्षित्य– ————————-शत
एवं स्वभावत्वात् परमार्थत एवमेव । तथापि न तथा प्रकाशते
स्वातन्त्र्यात् । अत एव सासंवित्स्वरूपान्तः क्रोडी कृतं यो भावराशि
मुन्मज्जयितु मीहतः (१२३) तव्यतिरिक्तं स्वात्मनः अविभिन्नाकारमर्थ
————————- त्मनि परिगृह्य कश्चित् घटमात्रमर्थं
पटमात्रं वाहं रूपमिदन्ता
रूपतयोन्मग्नमाभासयतीत्यापतितम् । एवमाभासात्मिका संवित्
ज्ञानशक्तिः उन्मग्नघटाभासं भिन्नं यत् चित्स्वरूपं यत्
स्वात्मना बहिष्ट्वन प्रकाशित विषयोन्मुखत्वेन बहिर्मुखत्वात्
स्वयमबहिर्मुखम् । तत्तद्वहिर्मुख नवनवान्योन्यभिन्न
तत्तद्विषयच्छायानुरागात् ज्ञानं स्वयमपि नवं नवमुक्तम् ।
एवमपिनवं नवत्वेन नवनवाभासाः घटपटादिबोधः
प्रतिक्षणमुदय व्ययभाज इति प्रतिक्षणमुदयव्ययभाक्त्वमेव
व्यवहार निर्वाह हानिः । तत्तदनुभूतविषय
स्मृतिरूपानुसन्धानाभावन हेतोस्तेन व्यवहार हानि प्रसङ्गात्
गृहीत पूर्वे विषये अयं घट पर इति बहिर्मुखे सविवेदनमभूत् ।
तस्य बहिर्मुखस्य संवेद्न स्यान्तर्मुखं प्रमात्राकं चित्
स्वरूपत्वं तच्चित्स्वरूपत्वं यत् तदनुभवपृष्ठपातिनि
कालान्तरेप्यवस्थास्नुः स्वात्मगतं स्वात्म स्थितं
अनुभवकालोभूत घटादिविषय बहिर्मुखत्वं तस्मिन् काले तस्मिन्
देशे यो घटो बहिर्मुखो दृष्टः तद्देशकालविशिष्टतद्विषयः
सघटः स पट इति विशेष बहिर्मुखत्वं प्रकाशयति ।
तस्यान्तर्मुखस्य चित्स्वरूपस्यैवा परामृष्टिरेव स्मृति श्कतिः तद्वस्तु
इदं नीलमिति नवं भासयति । तन्नीलमिति स्मरति तद्वस्तु
अनुभवस्मृत्योर्विषयरूपं वस्तु परमार्थतः प्रकाशमानत्वात्
शिवादिक्षित्यन्त विश्वमय्या

प्। ९८) संविदा तादात्म्य वृत्तीति स्वयमपि संविद्विश्वमयं
पूर्वमेवेति नवं नकिञ्चित् घटमात्र माभासितम् । अनुभवेन
प्रकाशितं स्मृतं स्यात् । इदमप्यङ्गी कार्यं प्रवाहेण संवित्
प्रवाहेणेदमप्यङ्गीकार्यम् । एवमपि नभवति अनुभव काले यत्
घटमात्रं वस्त्वाभास्यते तत् प्रथमंसंविदो विच्छिद्यते
घटग्राहिकात्मिकायाः (१२४) संविदो विच्छिद्यते । घट व्यवस्थापिका
संवित् पटस्य व्यवस्थात्मिकायाः संविदो विच्छिद्यते । संवेद्यं च
घटात्म संवेद्यं पटादिसंवेद्यान्तराद्विच्छिद्यते ।
सर्वस्याप्येकसंविन्मयत्वात् । परमार्थतो न विच्चेद इति विच्छेदनस्य
संविदां संवेद्यानाञ्चान्योन्य विच्छेदनस्याभाव
भासनमात्रं तद्विच्छेदन माभासन माभासनमात्रतया न
पारमार्थिकं निर्मीयमाणस्यग्राह्यग्राहकात्मनः
पदार्थस्यायमेवान्योन्य विच्छेद इव परमार्थः ग्राह्यस्य संविदः
प्रथमं विच्छेदः ग्राह्यान्तरात् ग्राहकाच्च विच्छेदः । एवं
संविदश्च संविदन्तरात् संवेद्यवर्गात् संवेत्तुश्च विच्छेदः ।
संवेत्तुश्च संवेत्रन्तरात् संविदः संवेद्यान्तराद्विच्छेद इति ।
अयमेव विच्चेदः परमार्थः । यतः एष विच्छेदः परिच्छेदनात्
परिच्छेद उच्यते तदवभासनम् । एवं
भूतपरिच्छेदावभासनमपोहनमशक्तिः । अयमितिं अयमेव स इति
व्यवहारः । अनेन शक्ति ————————- तत् शक्तित्रयं
शक्तिमतोभगवतः एव शक्तित्वात् । तच्च भगवत एव शक्ति त्रयमित्यनेन
सूत्रकृतस्यैक शब्दस्यार्थो निर्वाहितः । यथोक्तम्

शक्तिश्च शक्तिमद्रूपा द्व्यतिरेकं नवाञ्छति ।  
तादात्म्य मनयोर्नित्य ------------------------- -------- ॥  

(शक्ति) त्रयस्य भगवदधीनत्वं नाम तथा भूत इति तच्छक्तित्रयवत्
अनुभवितृस्मर्तृ विकल्पयितृस्वभाव चैत्रमैत्राद्यवभासनं
समहेश्वर एव स्वेच्छया तेन तेन चैत्रमैत्रादि वपुषा———————
—- यथोक्तं सूत्रकारेणैव घटपदाद्यर्थ स्थितिः (१२५)
अर्थव्यवस्था प्राणपुर्यष्टक नियन्त्रिते जीवे निरूद्धा तत्रापि
निरोधेऽपि परमात्मनि स्थिता । एतासां ज्ञानादिशक्तीनां
घटानुभवः घटस्मृतिः पु ————————- रोवैचित्र्यविकल्पः ।
अपराधीनसम्पादनसामर्थ्यं तत् स्वातन्त्र्यनिर्मित
ब्रह्मविष्णुरुद्रैश्वर्य निर्मित सदाशिवेश्वरापेक्षया
पूर्णमहमित्युच्यते । एतदैश्वर्यमेव

प्। ९९) चिन्मयः । वपुरिति कृत्वा शिवादिक्षित्यन्त इति यदा—————— तैक
रूपजडत्वेन परमेश्वरस्यैषा ज्ञानस्मृत्यादियुक्ततारूप
माहेश्वर्य मुपसम्प्राप्तम् । एवम् भूतमहेश्वरानङ्गीकारे नेदं
विश्वं चित्रं किञ्चिद्भासेत इति प्रसङ्गः ।
विश्रान्तिभूतमित्यभावाद्विश्वं भासते ————————- तदेव
माहेश्वर्यमेवा वश्यमङ्गीकर्तव्यम् । इति प्रसङ्ग विपर्ययः
यद्येवं न स्यात् एवं भूत महेश्वरो न स्यात् जनस्थितिर्नश्चेत् इति
प्राक्तनेन । एवमन्योन्यभिन्नामिति श्लोके नाति प्रसङ्गः । न चेदित्यनेन
श्लोकेन प्रसङ्ग——————– तः ॥

इति प्रत्यभिज्ञासूत्रविमर्शिनी व्याख्यायां तृतीयमाह्निकं
समाप्तम् ॥

अथ चतुर्थमाह्निकम् ॥

ज्ञानस्मृत्यपोहनशक्तिमानित्युक्त क्रमेण ज्ञानशक्तावेव
प्रथमं निरूपणीय योग्यायां सत्यामपि पूर्वमेव
अथानुभवविध्वम्स इति सूत्रेण सूचित प्रसङ्ग विपर्ययसमर्थन
(१२६) दिशा स्मृति शक्ति निरूपणमेव प्रथममुपक्रम्यते । तथाहि -
पूर्वपक्षस्वरूपनिरूपणानन्तरं पूर्वपक्षं निराकर्तुं
प्रथमं सत्यं किन्त्वित्युपक्रान्तत्वात् पदार्थरत्ननिकरमिति ।
पदार्थेति । शिवादिसकलान्ताः प्रमातारः । तत्प्रमेय भूतानि
सदाशिवादिक्षित्यन्तानि तत्वानि तद्विकारभूत्वा घटादय एव विश्वस्य
व्यवहारमूलत्वेनाह्लादकारित्वात् रत्नानि । अनुभूत विषय
सम्प्रमोघ स्मृतिरिति योगसूत्रोक्तनीत्या च रत्नानि तेषां
निकरमनेकसामान्यसमुदायरूपं स्वलक्षणात्मकम्, निजं
किंस्वात्मवदविनाशिनी स्वीयं हृदयमेवविश्वसङ्कोच विकास
लीलायोगात् कज्जं कमलम्, कुञ्ज पाटे हृदयमेव शिवादिक्षित्यन्त
विश्वावकाश प्रदत्वात् कुञ्जम् । यथोक्तम् -

लब्ध्वाप्यलभ्यमेतत् ज्ञानधनं हृद्गुहान्ते, त्यादि सत्यत्वा
विच्छिन्नत्व प्रबन्धेनैव सर्वव्यवहारजीवितभूतस्य
स्मृतिसूत्रान्तर्मध्ये सन्तत्याग्रऽनन्तं लम्बिकं कुर्वन्तं शिवं
स्तुमः । एवमिति । ज्ञानस्मृत्यपोहनशक्तिमानित्युक्तप्रकारेण स्मृति
ज्ञानपूर्विका स्मरणोभयानुग्राहिण्यपोहन शक्तिरिति तं नवं
भासयति स्मरति वा तद्वस्तुतः संविदा विश्वमय्यातादात्म्य वृत्तीति
विश्वमयं पूर्णमेवेति नवं न किञ्चिदाभासितं स्मृतं वा
स्यादितीदमपि प्रवाहा पतित मूरीकार्यम् । यत् किल तदाभास्यते तत्
संविदो

प्। १००) विच्छिद्यते । संविच्च संविदन्तरात् संवेद्यं च
संवेद्यान्तरात् इत्यादिनीत्यातदुभयानुग्राहिण्यपोहन शक्तिरिति
प्रथममनुभव विषयभूत घटपटादिपदार्थोदय क्रमेण
दर्शितम् । इदानीं सत्यं किन्तु स्मृति ज्ञानमित्युपक्रमानुसारेण
प्रथमम् । कथं भवेन्न नित्यः स्यादात्मा यद्यनुभावकः । इति
सूत्रप्रसङ्गविपर्यय समर्थन सदृशा विवेच्या । एतस्मिन् पूर्वपक्षे
यदुक्तं - स्मृतेः संस्कारमात्रादेव (१२७) सिद्धिरिति तदेव दूषयितुं
सत्यमित्यादि ज्ञानस्मृत्यपोहनशक्तिमानित्यन्तं श्लोकसप्तक
मित्युक्तनीत्या भवदुक्त संस्कारमात्रात् स्मृतिस्तावन्मोपपाद्येव
भवता ।

इदं तु वक्तव्यं तथा भूत इति न चेदन्तः कृतेति सूत्रोक्त
भवदभ्युपगत भगवत्प्रभावोऽपि एनां स्मृतिं कुर्यादिति
शङ्काशमयितुं स्मृतितत्व निरूपणाय
श्लोकाष्टकेनाह्निकमारभ्यते । तत्र प्रथमेन कर्तरिज्ञातरीत्यादि
श्लोकोक्ते संविद्वाद एव स्मृतिरूपपन्नेति कथितम् । द्वितीयेन -

अथा तद्विषयत्वेऽपि स्मृतेस्तदवसायता ।

दृष्टालम्बनता प्रान्ते, इत्युक्त नीत्या स्मृतिभ्रान्तिरूपेति
विज्ञानपादिमत निरासाय पूर्वानुभवविषयीकृत घटपटादिक
स्वलक्षण प्रकाशन सामर्थ्यमुक्तम् तृतीयेन स इति स्मृतेः
अयमित्यनुभवेन तद्विषयेण चैकीभाव पर्यन्त आवेश उक्तः ।
स्मृतिरनुभवं तद्विषयं चैकीभावपर्यन्तमाविशति । तत
एवायमित्यनुभूतो विषयः स इति सत ————————- स्मृते रनुभव
तद्विषययोरेकी भावपर्यन्त आवेशश्चेत् अनुभूतघटवत् । अनुभवोऽपि
विषयी भवतीत्याशङ्क्यानुभवस्य स्वसंविद्रूपत्वेन स्मृत्या
प्रकाशं नास्तीति निरूपितं पञ्चमेनातीतानागतवर्तमान ————
————————————– नमपि चैत्रमैत्राद्यनुभवं
पृथग्भावेन न विषयी करोतीति वदता तुरीय श्लोकार्थ एवोपोद्बलितः ।
योगी चैत्रमैत्रादिज्ञानं विषयी करोतीति चेत् तच्चैत्रमैत्रादिदेहम —–
———–त्वा घटमनुभवामीति । ननुस्वस्यतिरिक्त चैत्रमेवादिज्ञानं
विषयी करोतीति वदता तुर्यश्लोकार्थ एवोपोद्बलितः । षष्ठेन सघट
(१२८) इति वत् सादृङ्मे आसीदित्यनुभवस्य शङ्क्यमान स्मृत्या
पृथग्विषयीकरो———

प्। १०१) ——————सप्तमेन स्मृतिर्यथा पूर्वानुभवं विषयी करोति
तद्वदनुभवपृष्ठ पातिनी विकल्पोऽप्युभवं विषयी करोति । स्मृति
प्रसङ्गात् स्मृतावपि कल्पेपि पूर्वानुभवेनैकात्म्य भावो दर्शितः ।
अष्टमेन स्मर्तव्यस्य———————- चैत्रमैत्रादेः स्मर्तुश्च
देशकालानवच्छिन्न पूर्णाहं प्रकाशात्मिकैकचित्तत्व
विश्रान्तिरुक्ता । स्मृति प्रसङ्गात्तत्पूर्व भाविनः
वक्ष्यमाणाह्निकरूप्यमाणस्य दृश्यस्य दर्शनस्य
द्रष्टुश्चेत्याह्निक तात्पर्यार्थः ।

अथ श्लोका —————– च्यते - यः पूर्वानुभूतार्थोपलब्धा
इति । पूर्वमयमित्यनुभूतस्य घटादेरर्थस्योपलब्ध्या उप आअत्मनि
लब्धा अन्तर्मुखं अहं रूपो बोधः । सहीति । अन्तः कृतानन्त
विश्वरूपयुक्तो महेश्वर एव परतोऽपीति तदनुभवकाल तत्परास्मिन्
अनन्तरभाविस्मृति कालोऽपि सन् वर्तमानः । स्वरिति
स्वमिच्छाज्ञानक्रियात्मक मुपकरणं स्वकर्तव्ये
सृष्ट्यादावीरयतीति स्वैरी । किं च स्वकर्तव्येषु स्वमात्मानमेवेरयतीति
च स्वैरी स्वतन्त्रः । एवं स्वतन्त्रत्वादनुभूतमर्थं स इति विमृशन्
स्मरतीत्यपदिश्यते । अपदेशोनाम तस्य पूर्वापरादिकालकलासङ्कोच
सहिष्णुमाया प्रमातृभावसङ्कोच परिग्रहः ।

पूर्वमयमिति । अनुभूतार्थस्योपलब्धायः अन्तर्मुखो बोधः,
अद्यापीति । तदनुभवकालात्परतः स्मृतिकालेऽप्यस्त्येव संविन्मात्र
स्वभावस्याहं रूपस्य प्रमातुः ।

न तदा न सदा न चैकदेत्यपि सा यत्र कालधीर्भवेत् ।  

इति श्रीमत्स्तोत्रावल्युक्तनीत्या
कालकृतविशेषावच्छेदायोगादनुभूतार्थोपलब्धेत्यनेनानुभवस्य
अन्तरर्थोऽप्यापृथग्भावेनावस्थित (१२९) इत्ययत्नसिद्धम् । इयत्तु ।
चिन्त्यमिति । स इति विमृशन्नित्युक्तं तत्स इति विमर्शात्मक स्मृत्युत्पत्तिरेव
चिन्त्या । अकालकलित इति । प्रमातरि पुराणेतु सर्वदा भात विग्रहे । इति च
वक्ष्यमाणनीत्या नित्ये पूर्णाहन्तात्मिके पर प्रमातृरूपे संवेदने
तदन्तर्वर्तिनि क्षित्यादि सदाशिवान्ते सर्वत्र भावजाते सति तस्य भाव
जातस्य तत् संवेदनवत् चिन्मय तया तावत् परामर्शश्चेत्तर्हि तस्या
हमित्येतावता पूर्णेन

प्। १०२) विमर्शेन भाव्यम् । तदन्तर्वर्तिनस्तस्य भावजातस्य तस्मात्
प्रमातृरूपात् संवेदनादि दन्तया पृथग्भावावभासेन परामर्शो
भवति चेत् तत्रापीति इदन्तया पृथग्भावावभासनेऽपि द्वयी गतिः ।
अहमिति पूर्णरूपेंशेतद्भाव जात सम्बन्धिन इदं ता यदि
विश्राम्यति तर्हि तस्य भाव
जातस्याहन्ताच्छादितत्वादहमिदमिदमहमिति
श्रीसदाशिवेश्वरदशया भाव्यम् ।

अथ तस्मिन्न हमित्यंशे इदन्ता विश्राम्यतिचेत् तदानीं
भावजातस्य माया प्रमात्र चितेनेदमित्येवावभासनेन भवितव्यम् ।
अपूर्वतेति । नवनवरूपेण भासनादेतदिदमित्यवभासन
मनुभवनमेव स्यात् । अहमिति शिवदशायाम्, अहमिद महमिदमिति
श्रीसदाशिवेश्वरदशयोरिदमिति माया प्रमातृदशायाः प्रमातृ
दशायामपि स्मरणं नास्तीत्याशङ्क्याह -
स्वमात्मीयमिच्छाज्ञानक्रियात्मकमुपकरणं स्वकर्तव्येषु
सृष्टयादिषु अवश्यमीरयति । अवश्यमुपकरणे करणशीलश्च । किं च
स्वात्मनं स्वकर्तव्ये स्वयमेव प्रेरयतीति स्वेच्छया स्वभित्तौ
विश्वमुन्मीलयतीत्युक्तनीत्या स्वकर्तव्ये ब्रह्मादिवत् प्रेरकान्तरं
नापेक्षत इति स्वैरीस्वतन्त्रः ————————- स्वतन्त्रत्वात्
ससप्रमाता (१३०) अनुभवं नानन्तरभाविनि कालेऽपि
स्थित्वानुभूतमर्थं स इति विमृशति । स इति विमर्शनस्ये दमेवरूपं
तस्य कालकलिताहं स्वरूप परामर्शनं
यत्तदेवनेदमित्यन्तभेदपरापर्शनमपि ————————-
नुभूतकाले तद्देशकाल प्रमान्तरसाचिव्येनेत्यनुभवविषयस्य
घटादेर्य आधारभूतः तद्विशेषणरूपो देशस्तदानीं तनः
कालश्च तद्देशवर्ति चैत्रमैत्रादिसाहित्येन ————————- याः
संविदः पृथक्कृतः पश्चात्तस्यामेव पूर्णाहन्तायां तन्मयत्वेन
विलीनीकृतः सः तादृगेवेति पृथक्कृत रूप एव सन् तस्य प्रमातुः तदन्य
विषयानुभवादि प्रवृत्तत्वादनुभूत वस्तु सदृशदर्शनात् बोधित —–
——————– कालाम सेवाच्छाद्यावस्थापितः तत एव
संस्कारशब्दवाच्यः अनुभवितृविषये तिष्ठति सदृश वस्तु
दर्शनोत्थितात् तत्संस्कार प्रबोधात्तस्य वस्तुनः काल
व्यवधानरूपं तमाच्छादकमपहस्तयति ।

प्। १०३) तत्र ————————- तोविषयः पूर्ववदनुभवकाल इव
प्रमातुः पृथक्कृत एवाभाति । प्रमातुः पृथक्कृत एवाभाति चेत्
सम्पूर्ववदिति अनुभवकाल इवेदन्तयावभासेत । इत्याशङ्क्य परिहरति

  • मैवमिति । सः इद ————————- वप्रतिपादयति इदनीन्तनेन
    स्मरणकालावभासेन तदनुभवकालात् पृथक्कृत
    स्मर्तृशरीरप्राणादि सम्बन्धमनवधूयैवहितस्यानुभूतस्य
    प्रकाशः । ततश्चेति । इदानीन्तनस्मर्तृशरीरादि सम्बन्धमवलम्ब्येव
    प्रकाशनात् तस्यानुभूतस्य विषयस्येदानीन्तनस्मरण काल
    परामर्शोऽपि न निमीलतीति । तत्परामर्शेति ।
    इदानीन्तनकालपरामर्शभित्ति प्रधान्येन
    पूर्वानुभवकालपरामर्श इति विरुद्ध पूर्वापरकालपरामर्श
    स्वभाव एव स इति परामर्श उच्यते । एवञ्च (१३१)
    विरुद्धपूर्वापरकाल परामर्शविशिष्टमनुभूतं परमेश्वर एव
    स्मरति । तस्य परमेश्वरस्यै तदेव स्मरणम् एवं प्रकार इति विरुद्ध
    पूर्वाअरपरामर्शात्मक काल कलादिसङ्कोच सहिष्णुमाया
    प्रमातृभाव परिग्रहोयत् । यथोक्तम् स एव तेन तेन वपुषा जानाति
    स्मरति विकल्पयति चेति माया विद्याद्वयाद्वयमयमिति प्रमातृ
    पृथग्भूत देशकाल विशिष्ट पदार्थ विषयत्वान्माया इति संविन्मय
    प्रमातृ प्रकाशलग्नत्वेन प्रकाशाद्विद्येति माया विद्या
    द्वयसम्मेलन रूपं स्मरणं तत एव सकल सिद्धिवितरण
    चतुरचिन्तामणि प्रख्यं इति । तत एवेति माया विद्याद्वयाद्वयमयत्वात्
    प्रमातुर्भेद प्रथारूपया मायया सिद्धिं प्रत्याकाङ्क्षा विद्या
    तद्वितरण चतुरा इति तादृग्विध सिद्धिवितरण चिन्तामणि प्रख्यं
    स्मरणमित्यागमिका मन्यन्ते ।

पुर्वा (व) मर्शत्वमवेक्ष्य बाह्य
मन्तर्विमर्शैक मयत्वमाप्ता ।

ध्यानादि भावं स्मृतिरेव लब्ध्वा
चिन्तामणिस्तद्विभवं व्यनक्ति ॥

इति पूर्वानुभूतार्थोपलब्धेत्यनेन तृन्नन्त समासेनानुभवस्य
प्रमातृवत् संविन्मयत्वेन कालस्पर्शाभावेऽपि यत्नतोऽनुभूते
त्यनेनातीत काल स्पर्शनम् । अर्थेत्यनेनार्थ विश्रान्तताम् ।
उपलब्धेत्यनेन द्वयोरपि प्रमातृ विश्रान्तिं

प्। १०४) प्रमेयप्रमातृनिष्ठाभ्यां भेदाभेदाभ्यां दर्शयति -
पूर्वानुभूतार्थो पलब्धेति । वृत्तावनुभवार्थयोरेक प्रमातृ
विश्रान्त्यात्मकैकार्थीभावात्तस्य प्रमातृभेदा भेदमयत्वं (१३२)
क्रिया सम्बन्धेत्यादौ वक्ष्यामः । एतत् स्मृति तत्वमेवोपपादयितुं
शेषं श्लोकसप्तकम् । तत्र स्मृति विषये कश्चिदिति ।
अनात्मनीश्वरवादिनामन्यतमा यदि ब्रूयात् इह स्मृतिः अतस्तिं स्तदा
रोपण रूपो विकल्पः । अत एवानेन स्मृति विकल्पनानुभूतोऽर्थः न
प्रकाश्यते । योऽर्थःप्रकाशरूपोबोध इति पुर्वपक्षोक्त
नीत्यानुभवस्यैवार्थ प्रकाशकत्वादर्थासंस्पर्शिनोहि विकल्पाः
पूर्वं येनानुभवेन स इत्यनुभवविषयोऽर्थः अयमिति प्रकाशतां
नीतः । इदानीमिति स्मृति काले कीर्तिमात्रमूतिर्जातः तदानीमेव
नष्टत्वात्कथामात्रशेषः सोऽनुभवस्मृत्या न प्रकाश्यते । दृक्
स्वभासैव नान्येन वेद्येत्युक्त नीत्या ज्ञानस्य ज्ञानान्तरेणा
संवेद्यत्वात् तस्येदानी मसत्वाच्च तत्प्रकाशितस्यार्थस्य प्रकाशना
भावात् तत्प्रकाशितस्यार्थस्यापि प्रकाशनाभावादनुभूतमर्थं
स्मरामीति ————————- था ताद्विषयत्वेऽपि स्मृतेस्तदवसायतः
दृष्टालम्बनता भ्रान्ता इत्युक्तवत् पुनरपि भ्रान्तिमात्रमित्यापतितम् ।
भ्रान्तिमात्रमिति पूर्वमुक्तं तदेव पुनरप्यापतितमिति ।

एवं ब्रुवाणप्रत्युच्यते - स हि पूर्वानु ————————- यः
स्मर्तृरूपः प्रमातोक्तः स स्वकाल इति स्मृतिकाले अर्थात् सामर्थ्यात्
पूर्वाभासितं पूर्वमनुभवेन प्रकाशितं स्वलक्षणं देशकाल
विशिष्टं काञ्चनत्वाद्यनेक सामान्य समुदायमयं स्वलक्षणं
स इत्यामृशन् काञ्चन ————————- त घटभासमात्रेण ।
अथवाकाञ्चनाद्याभासयुक्तं या स्मृति शक्त्या भासयेत्
भासयेदित्यनेन विधिरूपेण नियोगेन भासयत्येवेति नियमोलक्ष्यते ।
इहानुभवपृष्ठपतिनी स्मृतिर्भवताभ्रान्तिरूपतयोक्तेपि ——————
——- अर्थनिश्चयाभिभावे तस्य स्मृतिविकल्पस्य मूढतारूपसुषुप्त
मूर्छितता प्राप्ति रनुभूतमर्थं न प्रकाशयतीत्यर्थः । ततः स्मृति
विकल्पे अनुभूतस्यार्थस्य निश्चयो यावद्भवति तावदर्थादिति तत्स्मृति
सामर्थ्यात् सोऽनुभूतोऽर्थः

प्। १०५) प्रकाशत इति य ————————- अप्रकाशमाने
सत्यध्यवसायः अन्धप्रायः स्यात् । तस्यार्थ प्रकाशकत्वात् ।
तस्मादर्थ प्रकाशतः स्मृतिविकल्पे तदित्यर्थ प्रकाशनं
तदानीन्तनानुभवकालस्य त्यागेन भवति । त्यागेन चेत्तदिति
परामर्शाभाव प्रसङ्गः अनुभवकाल———————– स्वीकारेण
चेदिदमित्यवभासमान प्रसङ्गः । तस्मात् स्मृतार्थ प्रकाशने
अनुभूतार्थ विशेषण भूतः पूर्वानुभवकालः तत्पूर्वानुभूत
भावस्वालक्षण्यापेक्षकत्वे नानुभव विषये वेद्यभागे
अपेक्षणीयः । तस्य वेद्यभागस्य प्रकाशत्मानुभव
कालाभिनिवेशितये दानीं तनस्मर्तृरूप
प्रमातृदेहप्राणाद्यवभासकालश्चालम्बनीयः ।
स्मर्तृरूपवेदकभावे तस्य वेदा भागस्य विमर्शोशाभिनिवेशित्वेन
तस्मात् स्मृता वर्थप्रकाशे उभयकालस्पर्शोऽप्यपेक्षनीयः
स्मृत्यनुभवादि ज्ञानविषयस्य पदार्थस्य घटत्व
काञ्चनत्वाद्येकतमरूप्यमन्यभास मात्रमेव स्वरूपम् ।

तथैव सद्घटद्रव्य काञ्चनोज्ज्वलतादयः ।

प्रत्याभासं प्रमाणस्य व्यापारात् —— इति
अभास भेदाभिन्नार्थ कारिणस्ते पदन्ध्वनेः ॥

इति वक्ष्यमाणनीत्या तत्स्वलक्षणात्मकघटाभासवर्ती
काञ्चनत्वाद्यवभासं प्रतिप्रमाणव्यापारात्तदेवेति
तद्घटाभास मात्रमेव, विशेषणभूत काञ्चनत्वाद्याभासान्तर
व्यामिश्रणया दीप सहस्रप्रभा सम्मूर्च्छन इव स्फुटीभवति ।
तस्य घटाभासस्य काञ्चनत्वाद्याभासान्तर व्याअमिश्रणया
स्फुटीभावाभावेऽपि (१३४) तदित्यनुभव कालाभास सम्भेदेनैव
तस्यानुभूतस्याभासस्य स्वालक्षण्यमिति स्मृति विषयता करोति
प्रमातेति शेषः । कालशक्तेरेव भाव भेदकत्वात् इति वक्ष्यते । सर्वत्र
भासभेद इत्यत्रोक्तमेवार्थ मनुवदति । एवं तावदनुभूतस्य
घटस्य मृतौ स्वलक्षणीभावः इति तदिति विषयभावः ।
प्राक्तनानुभवितृरूपमातृदेहादि
साचिव्याद्युदितानुभवकालाभासयोजनयेति तावति घटाभास मात्र
एव वा स्मृतिः काञ्चनाद्याभासान्तरैः व्याभिश्रे घटाभासे
तदीया स्मृतिरतिस्फुटा । अनुभूतस्य विषयस्य
मुखाद्यवयवपरामर्शेत्यन्त स्फुटीकारेऽपि

प्। १०६) तस्य तदिति परामर्शात्मिका तदानीं तनकालातानत्रुट्यति । अन्य
सा धारण्येना नव भासात् तथा वभास इति एकेनानुभूतस्य
विषयस्य तदन्यप्रमातृ वर्ग साधारण्येने(नवभासात् तथावभास
इति) दन्तया वभासे तत्तथाविधमवभासनं योगिनो निर्माणमेव न
त्वनुभूतार्थ प्रकाशनम् ।

ब्रह्मोवाचेति । ब्रह्मादि भाषितावभासने आगमादि
प्रमाणान्तरानुभूत ब्रह्मादि स्वरूप स्मरण परम्परा
अभ्युपायः । तत्राप्य ब्रह्मादि भासिटावभासनमपि तद्ब्रह्मादि
स्वरूप समाविष्टस्य साधकस्यानुभवरूपमेव भासयेदिति
विधिरूपेण विनियोगेन भासयत्येवेति नियमोअक्ष्यते । स्वकाल इति । स्मरण
काले । आमृशन्नित्यनेनानुभूतवेद्याम्श स्पर्शी, केवलस्येति -
काञ्चनादि विशेषणरहितस्यापितु वेद्यभूतस्य घटाभासस्य तदिति
स्वालक्षण्यापत्ति हेतुभूतः कालो दर्शितः । इयदेवेति । अनुभूत
घटाभासमात्र प्रकाशनमेव स्मृतेख्यभिचारि वपुः
प्रमातुरर्थिताशयात् अनुभूतस्य विषयस्य विशेषणविशिष्टरूपं
(१३५) स्फुटत्वं भवतीति द्योतयत्यथ शब्दः ।

तदेवाह - तदिति । स्फुटत्वं स ————————-
नत्वादिसर्वाभास मिश्रेण वपुषा भासयेत् । अनुभूतमर्थं
विशेषणभूतकाञ्चनादिविशिष्टं च स एव परमेश्वरः
स्मरतीत्युक्तनीत्या परमेश्वर एव स्मर्तृरूपो भूत्वानुभूतमर्थं
स्मृतिशक्त्या भासयेत् । ————————- तं स्वलक्षणं
स्मृत्याभासयेदित्युक्तं स्मृतावेवं स्वलक्षण प्रकाशने तत्
स्वलक्षणं तस्याः स्मृतेः अनुभवादि व बहिर्भेदेनेदन्तया भासेत ।
एतदेव तस्य स्वलक्षणस्य बहिरवभासनं स्मृतौ स्वलक्षण प्रकाश
————————- बहिरवभासनादिति शङ्काशमनाय निरूपयति - न
चेति । स्मृतेर्विषयभूतस्य स्वलक्षणस्यानुभवादिवेदमिति भेदे सति
तदिति स्मर्यमाणस्य भासनं न युक्तम् । अनुभूयमानमेव
तद्भवते नेति स्वलक्षणस्य बहिर————-प्रकाशनेबिन्नकालानामिति ।
अयमिति अयमेवेति । स इति । भिन्नाभिन्न कालानामनुभवविकल्प स्मरण
संविदामैक्यमस्ति ।

प्। १०७) अयमित्यनुभूतस्यार्थस्यैव विकल्प स्मृती प्रत्यपि विषयत्वात् ।
अनुसन्धानं हि नाम पूर्वा परयोर्ज्ञा——————— वेदिभ्यां
ज्ञानाभ्यामेव सद्भावं घटेत । घटते तु पूर्वा
परयोर्ज्ञानयोरहमिति यदैक्यं स एव वेदितेति सामानाधिकरण्येन
दर्शितः । एष स इति आच्छादितस्यैव प्रमातृरूपत्वस्य
स्फुटत्वावभासनरूप ————————- ति अनुभवादिवेदनेषु
संयोजनवियोजनादि स्वातन्त्र्य कर्ता ।

अयमित्यनुभूतोऽर्थः यद्यनुभवादिवत् स्मृतिज्ञानात्
बहिरिदमिति भिन्नत्वेनावभासते तर्हि तदिति स्मर्यमाणस्य यद्भासनं
तदेव न स्यात् । (१३६) तत् स्मृतिविषयं ————————- मानमेव
भवेत् । एवं चेत् स्मृतौ कथं स्वलक्षणस्य प्रकाशनं
पूर्वाभासितमित्यनेन इदानीं स्मरणकाले, तस्य स्वलक्षणस्य न
प्रकाशनम् । अपि तु पूर्वानुभवकाल एव तस्य प्रकाशनमित्येतदुक्तं
तदेति अनुभवकाले । असौ स्वलक्षणात्माघटः । अयमिति बहिरवभास
एव । तर्हितदा प्रकाशितस्य स्वलक्षणस्येदानीं स्मरणकाले किं
विमर्शनमिति ब्रूमः ।

ननु भवदुक्ते नैव वाक्येन स्वलक्षण सम्बन्धिनोः
प्रकाशनयोर्भिन्नकालत्वमापतितं किमिति भिन्न कालत्वात् किं
दूषणमापतितम् । उभयमपीति । प्रकाशनं च विमर्शनञ्च । न
किञ्चित्स्यात् स्वभावमन्वभासस्येति
वक्ष्यमाणनीत्योभयस्याप्यन्योन्य जीवितत्वात् ।

मैवम् । ज्ञानान्येव प्रकाशन्ते । भिन्नकालानि भिन्न विषयाणि
भिन्नाकाराणि चेत्युक्तनीत्या यस्यान्योन्य भिन्नानि क्षणिकानि
ज्ञानान्येव तत्वम् । तस्य ज्ञान सन्तान वादिनः । इदमित्यनुभव
स्मरणयोः प्रकाशन विमर्शनयोः । इदमिति भिन्न कालत्वमनुभवादि
ज्ञानानुसन्धान जन्माजनस्थितिः । ज्ञानस्मृत्यपोहनशक्तिमान्
महेश्वररूप स्वात्माङ्गीकारे यथा प्रतिसमाधेया तद्वदनुभव
स्मरण रूपयोः प्रकाशन विमर्शनयोः
भिन्नकालत्वमप्यप्रतिसमाधेयमेव । कर्तरि ज्ञातरीत्युक्त नीत्या
कर्तृज्ञातृरूप महेश्वरात्मक

प्। १०८) स्वात्मास्तित्ववादिन्यस्मद्दर्शने तु संविदः अनुभवाद्याः ।
अयमित्ययमेवेति । य इति भिन्न काला अपि तत्तद्भिन्न कालात्यागेन
स्वात्मन्यैक्या भासनेन तत्कालत्रयानुस्यूत स्वतन्त्रः प्रमाता
अहमित्यात्मारोहेण भानादिति वक्ष्यमाणनीत्या यावत्काल
मनुभवमनुभूतं चार्थं स्वात्मन्यारोप्यान्तर्मुखतया तावति
अनुभूते विषयांशे विमृशति तावदनुभवरूपस्य प्रकाशस्य
तात्कालिक बहिर्भावावभासः स्मरण रूपस्य
विमर्शनस्येदानीन्तवान्तर्मुखास्थितिर्भवतीति एतद्विमर्शनमेव तस्य
प्रमातुरनुभवादि वेदनाधिकं नेत्तृत्वम्, अनुभवादिवेदनेषु
तदिदमिति स्मरणानुभवसंयोजने इदमिति विकल्पस्मरण वियोजने
इदमेवेत्यनुभव स्मरण वियोजनेन्य यथा रुचिकरणः स्वातन्त्र्यं
वेदितृत्व कर्तृत्वयोरन्योन्या वियोगात् एतद्वेदितृत्वमेव कतृत्वमुच्यते ।
तदेव प्रदर्शयति - घटमन्वभूवन्तिति । अनुभवं घटञ्च
स्वात्मन्यारोप्य केवलमनुभूतविषयनिष्ठं विमर्शनं वेति
संविदात्मैक्य मनुसन्धानं तदनुसन्धातु रभिन्नमिति
दर्शयितुं यदैवैक्यं स एववेदितेति सामानाधिकरण्येनोक्तम् । एष स
इति विस्मयगर्भेणानुभवस्मरणरूपेणानुसन्धानेन
मायाशक्त्याच्छादितस्य प्रमातृतत्वस्य स्फुरत्वा वभासनरूपं
प्रत्यभिज्ञानमेव सूचितम् । अजड प्रमातृसिद्धौ यदाह ग्रन्थकार
एव -

इत्थं स्वसंवित्तिमपह्नु वानैः
यत्तद्वदद्भिः कलुषी कृतं यत् ।

प्रमातृ तत्त्वं स्फुट युक्तिभिस्तान्
मूकान्विधाय प्रकटीकृतं तत् ॥ इत्यादि ।

नन्विति तावत् प्रकाशस्यतात्कालिक बहिर्भास इति भवदुक्त नीत्या
यदि प्राच्योऽनुभव एव तदानीमन्वयमित्यनुभूतस्य इदानीं तदिति
स्मर्यमाणस्य विषयस्य —————– तुर्बहिरवभासनरूपः
प्रकाशः (१३८) तर्हिस्मर्यमाणस्यानुभवेन विना तत्तया प्रकाशना
भावात् सोऽनुभवः अनुभूतविषयवत् इदानीं स्मरणेन विषयी क्रियत
इति यदुच्यतां स्मर्ता

प्। १०९) द्रष्टेव कल्पित इत्युक्तनीत्या —————–
प्रमातुरभावात्तद्विश्रान्तिरूपेणा लौकिके नेति लोके प्रसिद्धेन
संविदामैक्येन कोऽर्थ इति परकीयं व्यामोहं विहन्तु माह - प्रागिति
। अनुभवकाले अर्थवदित्यनुभवविषयभूतोऽर्थः यथा तस्मा
दनुभव ———————————- भेदेन भातिस्म, तथानुभवः
स्मरणकाले तस्मात् स्मृतिज्ञानात् पृथक्त्वेनेदं पूर्वमनुभवनमिति
न भाति इति वैधर्म्य दृष्टान्तः । किञ्च स्मृति ज्ञाने
यथानुभूतोऽर्थः स इति भाति तद्वदनुभवोऽपि स इति न भाति । इत्यपि
वैधर्म्य दृष्टान्त——————————– स्मृति ज्ञानात् स
इत्यनुभूतोऽर्थः । प्रागिति पूर्ववद्बहिरवभासन स्वभावः । न च
युक्तं स्मृतेर्भेदः इत्यनन्तरोक्तनीत्या न भेदेना भाति । स्मृतिकाले
स्मरणविषयस्यार्थस्यानुभवविषयवत् बहिरवभासा भावात् एतं
तत एव —————– पूर्वोऽप्यनुभव स्मृतौ न भेदेनाभातीति
साधर्म्य दृष्टान्तः । तर्हि उभयमिति अनुभवः अनुभूतो विषयश्च
स्मृतौ । अथ किं केन प्रकारेण भातः आह - अन्वभूवमिति । अस्मदर्थ
विश्रान्तावेवभातः । उभयस्याप्यहमिति पूर्वापर संविदामेक्यमिति
पूर्वश्लोकेन सम्बन्धः । किञ्चाहं रूपः प्रमाता स्मृति काले
उभयमप्यात्मनि विश्रमय्यान्वभूवमिति भासते । अन्वभूवमिति
लुङा बूतकालस्य द्योतितत्वात् । प्रागीतं भिन्नक्रमः । उत्तम
पुरुषेणास्मदर्थस्य द्योतितत्वादहमित्यपि भिन्नक्रमः ।

स्मृतावनुभवः पृथङ्नाभातीप्यस्मिन्नर्थे वैधर्म्य
साधर्म्याभ्यां (१३९) दृष्टान्तमाह - यथा अर्थतः अनुभवकाले
अनुभवात् पृथग्भूतः अयं घट इति भातिस्म । तद्वत् स्मृतिकाले
अनुभवोऽपि । तस्मात् स्मृति ज्ञानात् पृथक्त्वेनेदमनुभवनमिति न भाति
। किञ्च यथा स्मृतिकाले स्मर्यमाणोर्थः । यद्वक्ष्यति - स्मर्यते
यद्दृगासीन्मेसैवम् इत्यादि । तस्मात् स्मृइ ज्ञानात् स इति पृथग्भूतो न
भाति तद्वदनुभवोऽपि स इति विषयत्वेन पृथग्भूतो न भाति ।
इत्युभयथापि वैधर्म्य दृष्टान्तः । स्मृतिकालेऽनुभूतोऽर्थः प्रागिति
पूर्वस्वभावः । तस्मात् स्मृति ज्ञानाद्यथा बहिर्भूतोन भाति तस्य
स्मृति कालेऽनुभवकाल इव बहिरवभासा भावात् । एवमिति । अर्थस्य
पृथग्भावाभावाद्धेतोः पूर्वोऽप्यनुभवः पृथग्भूतो न भातीति
साधम्य दृष्टान्तः ।

तर्हि उभयमपि स्मृतिकाले कथं भाति । आह - अन्वभूवमिति ।   

प्। ११०) अस्मदर्थ विश्रान्तमेव भाति । अनेन किमुच्यत इति चेत्
पूर्वापरात्मकानुभव विकल्प स्मरण संविदन्तर्मुख स्वभावः
अहमित्येवं स्वरूपो य आत्मा तत्र तयोर्यदारोहणं विश्रमः तेन
हेतुना स्वप्रकाशायाः पूर्वानुभव संविद्रूपताया भासनात् ।
तल्लीनस्येति । तदनु भव लीनस्य घटादेरपि स्वप्रकाशकत्वेन
भासनमुक्तम् । किञ्च स्मर्तृरूपः प्रमाता अनुभवमर्थं
चात्मन्यारोप्य भासत इति णिजर्थोऽप्युक्तः । तदेव स्पष्टीकरोति -
प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूत इति न्यायात् । सङ्ख्याक्षिप्त इति -
अन्वभूवमित्येक त्व सङ्ख्याक्षिप्ते । तद्वति सङ्ख्या वति । कतृभूते
अस्मदर्थे प्रत्ययार्थे प्रकृत्यर्थरूपोऽनुभवः बृंहितः पोडितः ।
तदनुभवद्वारेणानुभूतोऽर्थोऽपि तत्रैव बृंहितः । न तु
स्वातन्त्र्येणेति । अनुभवद्वारेण विना असावनुभूतोऽर्थः स्वयमेवा
(१४०) स्मदर्थे विश्रान्तो न भवति । तदर्थमिति ।
अस्मदर्थेऽनुभूतस्यार्थस्यैव विश्रान्त्यभावात् अनुभवद्वारेणैव
विश्रान्तत्वात् । अन्वभूवमित्यत्रानुभाव्यस्य कर्मणा स्वत
एवसिद्धत्वात् कर्म निर्दिष्टम् । पटादिः पुनः अयं घट
इत्यनुभवकाले अन्वभूवमिति भूतार्थ रूपमस्मदर्थं नारोहति ।
हीति । यस्मादनुभवस्मृतौ पृथङ्नभाति ।
अन्वभूवमहमित्यात्मारोहेणा भासनादित्य परार्धोक्ता द्धेतोः ।
तस्मात् संविदामैक्यमिति पूर्वश्लोकेन सम्बन्धः । अन्वभूवमिति
लुङ्गा भूत कालस्यद्योतितत्वात् । प्रागिति भिन्नक्रमः । उत्तम
पुरुषेणास्मदर्थस्य द्योतितत्वादहमित्यपि भिन्नक्रमः । आरोहणमिति
रुहिरपिणिजर्थोऽपि —————– माहेति अनुभवस्मृतेरर्थवत्
पृथङ्नभवतीति केनोक्तम् । अर्थवन्नभातीति चेत् अर्थोऽपि
अनुभवनन्नभातीतिपृथुबुध्नोदराकारात्मना स्वभावेन किं न
भाति । भातीत्येतदर्थानुभवयोः समानम् । अर्थास्यानु —————–
प्यर्थ सादृश्याभावादनुभवोऽर्थवत्प्रकाशत इत्येतद्दूषणं न
भवति । स्मृतावुभयमपि प्रकाशत इत्येतत्तावदङ्गीकर्तव्यम् ।
अनुभवः पृथक् न भातीत्येतदेव प्रतिपादयति - तथाहीत्यादिना ।
अतीतानागतः स —————– था सर्ववादिभिरूपगतं यथा

प्। १११) प्रत्ययस्य परचित्तज्ञानमित्यादिना योगसूत्रे परचित्तमपि
विषयी भवतीत्युक्तम् । तत्रेति प्रत्ययस्य परचित्तज्ञानमिति सूत्रे
घटपटादिक्षणिक ज्ञानात्मना परिणतगुणरूपं सत्वमेव
चित्तशब्देनोक्त —————– न भवति चेत् योगि प्रत्ययस्य संयम
विषयीकार्यत्वं किमुच्यतेति ।

अत्र संयमो नाम विषयेन्द्रिय
सन्निकर्षाज्जायमानश्चेत्रमैत्रादि ज्ञानवलम्बन योगः शक्येत
सालम्बनं च न शक्येत । तस्माद्योगि ज्ञानं परकीयमनुभव (१४१)
—————– पूर्व भाइनं निजमनुभवमपि
विषयीक्रियतामित्याशङ्क्य परकीयमनुभवतीति दृष्टान्त एवं
भातीत्यन्ते सूत्रेणासिद्ध इति यति । अथ वाङ्गीकारेण दृष्टान्तस्य
सिद्धत्वेऽपि अन्वभूवमिति प्रकृतेऽर्थे अयं चैत्रः
घटमनुभवतीत्य—————– यपदेऽपि वेति सूत्रशेषेण सूचयति ।

योगिनामपि भासन्ते नदृशो दर्शनान्तरे ।  
स्वसंविदेक मानास्ता भान्ति मेय पदेऽपिवा ॥ ५ ॥  

दृशः चैत्रमैत्रादेः अनुभवादि ज्ञानादिनियोगिनामपि दर्शनान्तरे
भावना द्युद्भवे लोकोत्कृष्टज्ञानविशेषे अर्थवद्विषयत्वेन न
भासन्ते । यथोक्तम् - न च ज्ञानमिदन्तया भाति । इदन्ता
ह्यज्ञानत्वं न चान्यदन्य वपुषा भातं भातं भवेत् तज्ज्ञाने
न भात्येव । परं भाति च यत्त देवाहमित्यस्य वपुरिति परज्ञानमपि
स्वात्मैवेति ताश्चैत्रादि दृशः स्वसंविदेकमाना इति स्वप्रकाशैक
प्रमाणाः अहं रूप स्वप्रकाशाः । किञ्च चैत्रमैत्रादि परकायानु
प्रवेशात् चैत्रमैत्रादि प्रमातॄ न हमिति स्वात्मी कुर्वतो योगिनः
तच्चैत्रमैत्रादि स्वसंविदेक मानास्ता इति स्वाहन्तैकरूपा भान्ति । अपि
वा भान्ति चेत् अयमनुभवतीति मेयपदेपतन्ति न त्वन्वभूवमित्यस्म
दर्थरूपे मातृपदे योगिनां परिमित चिअत्र मैत्रादि प्रमातृ
विज्ञानविलक्षणं तत एव तद्विषयी करणक्षमं
ध्यानधारणाद्युद्भूत मलौकं ज्ञानं मस्ति । तत्र योगि ज्ञाने
दृश इति चैत्र मैत्राद्युपलब्धयः विषयत्वेन भान्ति । तदेन
सर्ववाद्यपि संवादित्वेन प्रतिपादयति - तथा हीत्यादिना ।
सौगतानां ज्ञान सन्तानमेव

प्। ११२) तत्त्वमिति सौगता इत्युक्तनीत्या ज्ञान सन्तानमात्र तत्व
वादिनां तावत् ज्ञानं (१४२) स्व प्रकाशैकरूपं तत्तादृशं
ज्ञानं ज्ञानान्तरेणेति । योगि ज्ञानेन वेद्यं चेत् तह्यनन्य
वेद्यतया प्रकाशनरूपं तस्य ज्ञानस्य वपुर्यत् तद्वपुः
प्रकाशितं स्यात् । तस्मात् सौगतानामपि ज्ञानं ज्ञानान्तर वेद्यं
न भवति ।

साङ्ख्यानामपि क्षित्यादि प्रकृत्यन्त जडरूप तत्वोत्तीर्णस्य अत
एवा संवेद्य पर्वणश्चिद्रूपस्य पुरुषस्य प्रतिबिम्बरूपा
च्छायैवोपलब्धिः । पुरुषश्चासंवेद्यपर्वेति संवेद्यकोटौ न भवति
इत्युपलब्धिरूपा तच्छाया कथं वेद्या स्यात् ।
प्रतिपाणिभिन्नभिन्नस्यात्मनो नित्यानुमेयत्ववादिनां
वैशेषिकाणामात्मनि क्षीरादौ शक्यत्वादिवा भेदेन
समवायिपरगतमिति चैत्रमैत्रादिगतं ज्ञानं योगिशरीरान्तर्वर्तिना
मनसा कथं गृह्येत । योगिनस्तच्चैत्रमैत्रादि शरीरान्तः प्रवेशे
तत्रस्य चैत्रमैत्रादि प्रमातुः अहमिति शरीर करणाद्योगि प्रमातृरूपे
काहन्ता भासित्वाच्च वैरोषिकाभिमतः आत्मनेऽन्योन्यं भेदो विगलेत् ।
योगिनाप्रत्यक्षी कृतत्वादात्मनः नित्यानुमेयत्वं च विगलेत् । अनुभव
ज्ञानस्य ज्ञानान्तर वेद्यत्वे तज्ज्ञानस्यापि ज्ञानन्तरवेद्यत्वं
तस्यापि ज्ञानन्तरवेद्यत्वं मूलक्षति रूपमवस्थानम् । आदिशब्देन
स्मरणकाले तस्यासत्वं चेद्युक्तं तस्मादिति ज्ञानस्य ज्ञानान्तर
वेद्यत्वा भावात् योगिनश्चैत्रमैत्रादि परचित्तवेदनावसरेवातद्य्तैत्र
मैत्रादि प्रमातृ देहान्तर्गताहं रूप प्रकाश सहचारि घटसुखादि
प्रकाशत इति । इयानितीति । एतावानेव प्रकाशः । तत्रेति । तादृशे प्रकाशे
प्रकाशो तद्घटसुखादीदन्तया भाति । तद्गतस्तु प्रकाश इति -
तच्चैत्रमैत्रादि देहगतः प्रकाशः योगिनः अहमित्येवं
स्वप्रकाशतया प्रकाशते । जडत्वेऽपि प्रमात्रीकृते चैत्रमैत्रादिनि——
———– —————– (१४३)शभागेऽपि मन्यमानः इदं
परज्ञानमित्यभिमन्यते योगी । अविगलित स्वपरविभागत्वात्
प्राप्तयोगप्रकर्षस्तु सर्वं परमेश्वर पदात्मत्वेनपश्यन्
स्वपरविभागं स्वकल्पितमेव पश्यतीति चैत्रमैत्रादिज्ञानस्य
योगिज्ञान —————— ता भवतु । तथाप्यन्वभूवमिति प्रकृतम् ।
एतद्योग्यनुभवसदृशं न भवतीति दर्शयति तथा हीत्यादिना योगिनः
अयं चैत्रः पटमनुभवतीति चैत्रमैत्रादिपरनिष्टह् एवानुभवः
प्रकाशते । अहमनुभवामीत्यात्मारेहेण प्र ——————
भवस्याहमंशविश्रान्तिरनालीढेदं

प्। ११३) भावैव भवतीति यस्मादनुभवः पृथङ्गाभाति । तस्मादैक्य
भिन्न कालानां संविदां वेदितेत्युक्तं नैव ह्यनुभवो भाति स्मृतौ
पूर्वोऽर्थवत् पृथक् पृथगन्वभूवमहमित्यात्मारोहेण —————–
—————— श्रान्ति वशादनुभव स्मृतौ पृथङ्गा भातीत्युच्यते चेत्
तदातर्हि स्मृतिरूपः कश्चित् परामर्शविशेषः सोऽनुभव आसीदिति
अनुभवमिदं तया परामृशन्नुपलभ्यते । यदि वा किञ्च मयादयिता
वदन कमलं दृष्टमिति इदन्ता रूप दयिता पदा —————— न् अन्यत्
परामर्शान्तरमुपलभ्यत इत्युभयपरामर्श विशेषानु सारेणापि
अनुभवस्मृतौ पृथग्भातीति किं न व्यवह्रियते इति पराभिप्रायं
प्रतिक्षिपति सा दृङ्न मे आसीदिति । भेदतः पृथक्त्वेनायं स्मर्यते
सोऽनुभवो ममासीदिति एवं भूतं स्मरणं यत् तन्मया दृष्टमिति
दृश्येन घटेन दर्शनेन तदनुभवेन सह माया दृष्टमित्यस्मदर्थ
विश्रान्तायाः स्मृतेः व्याकरणं विभाज्य स्पष्टीकरणं सा
दृङ्नमे आसीदित्यत्राप्यनुभवात्मा दृक् अस्मदर्थ विशान्तैवेत्यर्थः ।
किं च सा दृक् मे आसीदित्येवं मया दृष्टमिति च भिन्न क्रमत्वेन
योजयति । अत्र सा दृङ्नमे आसीदिति केवलं दृङ्मात्र रूपं
परामर्शनं मया दृष्टमिति विषयविश्रान्तं
दर्शनपरामर्शनं चेति स्मरणरूप मेतदुभयमपि
अन्वभूवमित्युचित परामर्शायाः स्मृतेर्व्याकरणम् । अपिश्चार्थे ।

लोकस्य लोक्यमान घटपटादि तुल्या व्युत्पन्नस्य सा दृङ्मे
आसीदित्येवं भूतं संवेदनं न भवति । स लोकं काञ्चिदपी
दृशं स्वात्मनः पृथग्भूतान्न मन्यते तथापि तु एवं भेदेन यत्
स्मर्यते कस्यचिद्विवेचकं मन्यस्य एवं भूतं स्मरणं
यत्तत्स्मरणं वक्ष्यमाणायाः स्मृतेः व्याकरणं व्यक्ती करणं
पदस्य प्रकृति प्रत्ययार्थ निरूपणमिव काल्पनिकं विभज्य आकरणं
परत्रेति अधिकारिणि प्रतिपाद्नमात्रं सविवेचकं
मन्योऽप्यन्वभूवमिति पूर्वोक्तां स्मृतेर्मूल प्रतीतिं विमृशति यदि
तदासादृङ्मे आसीदित्यनुभवं पृथग्भूतं न वेदयते
शिरोव्यतिरेकेण राहोरभावात् एतद्राहोः शिर इत्येतत् प्रथनं यथा
काल्पनिकं (मन्यते विवेचकं मन्यते) तद्वत् सादृङ्मे आसीदित्येवं

प्। ११४) तदपि अनुभवस्येदन्तया पृथग्भवनमपि काल्पनिकं मन्यते ।
विवेचकं मन्यः पारमार्थी करोति । अन्यथेति भेदं काल्पनिकं न
मन्यतेचेत् स घट इत्यत्रस्मर्यमाणो घटः स्वप्रथने
प्राक्तनमनुभवमपेक्षते । तद्वदनुभवोऽपि स्वप्रथने
प्राक्तनमनुभवान्तर मपेक्षणीयं स्यादित्यनवस्था ।

(लोकस्य लोक्यमान घटपटादितुल्यस्या व्युत्पन्नस्य सा)

उक्तमेवार्थं प्रकटी करोति - तदित्यनेन
दृश्यदर्शनयोरप्यनुभूतत्व सूचकेन तच्छब्दपरामर्शेन हि
दृश्यस्य घटस्य दर्शन रूपस्य च स घटः सोऽनुभव इति
परामर्शात्मिका पूर्वानुभव विषयतापत्तिरुच्यते अन्यथा तच्छब्द
परामर्शाभावे दृगित्येव स्यात् । तस्मादनुभवं
चाधत्वदनुभवान्तरेणापतित इत्यापतितम् । तत्रापि दृङ्मया
दृगन्तरेणानुभूतमित्यत्रापि दर्शनस्य दर्शनान्तरानुभूतत्वेऽपि
तस्य दर्शनान्तरापेक्षया (१४५) न तु मूल प्रतीतिं विमृशन् इत्युक्तं
भवता । सा स्मृतेर्मूल प्रतीतिः कीदृशीति चेत् आह - मया
दृष्टमित्येवं भूतास्मदर्थ विश्रान्त्यात्मिका सा मूल प्रतीतिः ।
तत्रापि चोदयितुमाह - मया दृष्ट पूर्वमित्यत्रापि भवता मूल
प्रतीतित्वेनाभिमतेऽप्यर्थे तदनुभवात्मकं कर्शनं
दृश्यरूपतावदनविश्रान्तमुक्तं शुक्लवद् दृश्यविशेषणी
भूतत्वाद्दर्शनमपि दृष्टमित्येतत् दयिता वदननत् स्वयमपि
दृश्यमेव भवति । नत्वात्मारूढं दर्शनस्य कर्मणि दयिता वदने
निष्ठोत्पत्तेर्दर्शनमपि दृश्य विश्रान्तत्वात् दृश्य सदृश ——————
कर्मणि निष्ठोत्पत्तेरिति स्ववाचमपि स्वमुखोत्थां वाचं
परमार्थं न जानाति । तस्य वाचोऽर्थं परमार्थतो न जानाति ।
कर्तुतुः क्रियया व्याप्यं कर्मेति एतद्वदनं न जानाति । तथा च तदेवो
पपादयति - कर्तृ स्थमेव क्रियमाह —————— दर्शकै राज्ञि
दर्शनस्य विश्रान्तत्व मुक्तम् । न भृत्यविश्रान्तत्वं । कर्तुः क्रियया
व्याप्यं कर्मेत्यत्र क्रियायाः कर्तृविश्रान्ततैव न तु कर्मणि । तेन
ज्ञानक्रिये प्रमात्रायत्ते । जैमिनीयैरिति मीमांसकैरपि तत्तत्कर्मफल
प्रद—————— न्त्र एव फलं ददातीति फल भावनात्मिका दृशिः
संवित्तिः । अर्थात् भाययितृरूप प्रमातृविश्रान्तैवोक्ता ।

प्। ११५) दृष्टतां रूपाघटादेः प्रकटता घटादि विषय धर्मो न
भवति ।

प्राभाकरमतेऽपि स्वप्रकाशत्वात् स्वतन्त्रापि संविद्विषय ——-
———– नस्य प्रमातृविश्रान्तित्वमेव कथयितुं सूत्रे मेयेत्युक्तम् ।
तस्मादन्वभूवमहं मयानु भूतमित्येतद्द्वयं शब्द
वैचित्र्यमात्रं नत्वनयोरर्थभेदो भवति । अन्ये तु भिन्न क्रमत्वेन
योजयन्ति । दृगासीत् सामे इत्येवं मया —————— (१४६)
इत्यनन्तरोक्तायाः अन्वभूवमित्युचित परामर्शायाः
स्मृतेर्व्याकर(ण)मित्यत्र योजने । अपिश्चार्थे वर्तते ।
देशकालाकाराविशिष्टवस्तु मात्र साक्षात्कारिणा निर्विकल्पकेन
दृष्टं नीलादिवस्तु अत्रत्यमिदानी —————— वं भूते
प्रमातुर्विमर्श विशेषे विश्रान्तीकृत्य यावन्नपरामृष्टं तावन्न
स्मर्यते । धावतो जनस्य मार्गे निर्विकल्पकदृष्टं तृण पर्णादि
इदमेवं तृणमिदं पलालभित्यादि विशेष रूपेणा परामृष्टत्वात्
यथान स्मर्यते क तथानि —————— दृष्टमपि वस्तु
प्रश्चान्नस्मर्यते । तस्मान्निर्विकल्पक समनन्तर भाविनिर्विकल्प काले
तान्निर्विकल्पकं ज्ञानं नीलवादिदन्तया भातपूर्वं
वानवेतीदमेवविचारणीयम् । तदेतदिति । स्मृतावनुभवस्य प्रकाशो
माभूत् विकल्प ज्ञाने निर्विकल्पकं किं न प्रकाशत इत्याशङ्क्याह -
याएत्यादि । अहमिमं पश्यामीत्यर्थ
दर्थपरामर्शपुरस्सरदर्शनप्रधानायाः अवसा——————
किञ्च घटोऽयमिति केवल विषय परामर्श प्रधाना च या वसा
तद्द्विविधमपि विकल्प ज्ञानं स्वपूर्वभाविदर्शनं निर्विकल्पकम् ।
अवसातरीति । विकल्पयि तृरूपे प्रमातरि अपृथग्भावेन समवेतं
बोधमिति । अहमित्यारोहे भासनादित्युक्त नीत्या यथा स्मरण काले
अनुभवस्मर्तरि विभागेन समवेतो भवति । तद्वद्विकल्प कालेऽपि
निर्विकल्पकं विकल्पयितरि समवेतं भवति । तस्मान्निर्विकल्पकमपि
विकल्प ज्ञानस्य न विषयी भवतीत्यर्थः । इह दर्शनामिति ।
निर्विकल्पकं ज्ञानं स्वकाले येनाविनाशिना अत एव सहजेन
निजेनात्मज्ञानात्मना वपुषा यादृशमहं रूपं तादृशे नाहं
रूपेण वपुषा सर्वदेति विकल्पादिज्ञानकालेपिभातव्यं
विकल्पादिज्ञानकालेऽपि

प्। ११६) तादृशं वपुर्नत्यजति । तच्च निर्विकल्पात्मक दर्शनं स्वकाले
अनव्य प्रकाशं अन्येन विकल्पादिना ज्ञानेन प्रकाश्यमानं अत एवा
हमित्येता (१४७) वातारूपेणो चित प्रकाशं तस्य निर्विकल्पक ज्ञानस्य
सम्बन्धिविकल्पाम्श विचारः । तदानीं स्वकाले न कुत्रचिदिति स्वात्मनि
विषये वाङ्गं न भवति अङ्गी भवति । अङ्गी भवति चेत् तन्निर्विकल्पकं
विकल्प ज्ञानमेव भवति । किन्तु तन्निर्विकल्पकानन्तरभावी अवसायोऽपि
विकल्पज्ञानमपि । एवं भूत इति । स्वकालेऽनन्यप्रकाशः
अहमित्येतावता रूपेणापि प्रकाश इति सूचयत्यपिशब्देना तत्र विकल्प
ज्ञाने । निर्विकल्पक समनन्तरभाविना तेन विकल्प ज्ञानेन
परामृश्य मानं वस्तु अहमिमं पश्यामीति वर्तमानत्वे
नास्मदर्थ परामर्श पुरस्सरानुभव परामर्श मुखेन वा
परामृश्यते । इममित्यनेन प्रत्यक्षायमाणत्वेनास्य विकल्प ज्ञानं
प्रत्यक्ष व्यापार निर्विकल्प स्येति दर्शितम् । घटोऽयमिति केवलं तद्वस्तु
मात्र निष्ठत्वेन वा परामृश्यते । अस्य विकल्पस्यात्रायमिति शब्देन
प्रत्यक्षायमाणत्वमुक्तम् । तत्रेति । घटोऽयमित्यन्त्ये विकल्पे दृश्यत
इत्येव मादिरूपस्य दर्शनादेः पृथक् परामर्श एव नास्तीति का तत्र
दर्शनस्ये दन्ताशङ्का । ततश्चान्त्ये विकल्पे दृश्यत इति प दर्शन रूप
परामर्शा भावेन पारिशेष्यान्मया दृश्यत इत्यहन्तयैव
परामर्शस्तदभावेऽपि दृश्यत इति दर्शन परामर्शा भावेऽपि
विकल्पस्य निमीलिताक्षेऽपि सम्भवात् निमीलिताक्षे प्रमातरि
नीलादेरर्थस्यादर्शनात् तत्सम्बन्धी विकल्पः —————— दित्याह -
स्वयमित्यादिना ।

एवं स्मृतौ विकल्पे वा प्यपोहन परायणे ।  
ज्ञाने वा प्यन्तराभासे स्थित एवेति निश्चितः ॥

इति वक्ष्यमाणनीत्या स्फुट क्रमविषय पर्यवसितः
अध्यवसायः स्वयमर्था स्पर्शे सति मीलित —————— सहज एवार्थो
भासः । अहं पश्यामीत्याद्ये (१४८) विकल्पे पश्यामीति दर्शनं
विषयनिष्ठत्वेनाहमित्यस्मदर्थान्तर्भूतम् ।

प्। ११७) अत एवाहं भावास्पदम् । अवसातरि प्रमातरि विश्रान्तम् । ततः
अहं रूपतया परामृष्टमिति विक—————— विकल्पबोधान्तर
भूतेन स्वात्मना बोध्यतां न बोधयति । केवलं स्मृति रेव बोधस्य
बोधान्तरबोध्यतां न बोधयति विकल्पोऽपि न बोधयतीत्यर्थः । अवसा
नाम अवसायः । समवेतमित्यनेन पदेने ——————————
कल्पस्यापृथग्भावमाह - अवसासुस्वतन्त्रः इत्यवसातरि अन्तर्मुखं
स्वरूपं ज्ञेयस्य ज्ञानमस्य तु ज्ञाता ज्ञानस्य ज्ञातृतनोः
स्हितिरेकास्यास्त्वहं नान्य इति श्री विरूपाक्ष पञ्चाशिकोक्तनीत्या ज्ञे–
—————- न्तास्पद इत्यर्थः । दर्शनमिति ।
निर्विकल्पकमनुभवनमुक्तम्, विकल्पस्मृत्यादेरपि एतदुप लक्षणम् ।
ज्ञानस्य ज्ञानान्तरेण परामर्शे अयमेवन्याय इति तज्ज्ञानं
तदानीं प्रमातरिसमवेतं भवति । ज्ञातृलग्नत्वात् ज्ञाना————–
—- देवदर्शयति - अहं विकल्पयामि अहं स्मरामि मया विकल्पितं
मया स्मृतमिति अहन्तारूढ्यैव विकल्पादेरवभासात् । इति । अत एवेति ।
अनुभवादिनामस्मदर्थ रूप प्रमातृविश्रान्तत्वात् अमी अनुभव
विकल्पाद्याः आत्मनः परमेश्वरस्य स्वरूपे विश्रान्तत्वात्
शक्तिविशेषा इति दर्शितम् । ज्ञानस्मृत्यपोहनशक्तिमानित्यत्र । एवमियत
इति । स हि पूर्वानुभूतार्थोपलब्ध्येत्यादि अवसातरिदर्शनमित्यन्तस्य
प्रमेयस्य यत् फलं तदुपसंहर्तुमिति उपसंहारद्वारेण
प्रदर्शयितु माह तदिति । तच्छब्दस्तस्मादत्यर्थे वर्त्मानो हेतु भावेन
स्थित्वा श्लोकसप्तकोक्तस्य पर्यन्तेऽष्टमश्लोके उपजीवनं सूचयति ।
तद्यथा अनुभवस्यार्थस्यैव स्मरणान्न भेदेनावभासः स्मृतिः
शक्तिश्च परमेश्वरस्येति यदुक्तं ततः (१४९) अत्र इदं
तत्परिनिष्ठितत्वमिति मया दृश्यत इति अयमिति दृष्ट इति स इति मया दृष्ट इति
मया दृष्टः स इति चामृशति परमशिव रूपेसंविन्मये प्रमातरि
ग्राह्य ग्राहकता भिन्नाविति । ग्राह्यरूप तया ग्राहकरूपतया च
भिन्नौ योजितौ अर्थौ घटादि देहादि स्वभावौ वेद्यौ भातः ।
प्रकाशेते इत्यायातम् । तदित्यत्र तच्छब्दस्य निर्वाहान्वय एव कृतः इह ।
नच युक्तं स्मृतेर्भेद इत्यनेन स्मृति रनुभवं क्रोडीकरोतीत्युक्तम् ।

प्। ११८) कदाचिन्मया दृश्यत इत्यभिसन्धि प्राधान्येनानुभवितृरूप
स्वात्मदर्शन परामर्श पूर्वक मनुभाव्य मामृशति
कदाचिन्मया दृश्यत इत्यस्मदर्थपरामर्शं दर्शन परामर्शनं
च विहाय सहसा घटपटादिवस्तूपनिपाते चा तदर्थक्रियां
प्रत्याग्रह विशेषे वा स्वात्मानं दर्शनं चा
नाभिसन्धायायमित्यनुभाव्यमेव परामृशतीति अनुभवोद्विधा ।
तत्रापीति । अयमित्यनुभव परामर्शेऽपि मया दृश्यत इति
प्रमातृरूपः प्रकाशपरमार्थोऽस्त्येव । अन्यथा अयमित्यस्य
प्रकाशायोगात् एवं मया दृश्यते अयमित्युभयथानुभवे क्रमेण
मया दृष्ट इति मया दृष्टः स इति स्मर्तृरूपा स्मदर्थ परामर्श
पुरस्सरं स्मरण परामर्शपुरस्सरं च द्विधा स्मरणभेदः
स्मर्तृरूपा स्मदर्थ परामर्शं विना केवलं दृष्ट इति स्मरणमात्र
परामर्शेन एकोभेद स इति विषयमात्रपरामर्शेन एक इति चत्वारः
स्मरणभेदाः मया दृश्यत इत्यस्मदर्थानुभवित्रनुभवात्मक
दर्शन परामर्शात्मना अयमिति केवलमयमितिदृश्य परामर्शना चेति
द्वावनुभवभेदौ स्मृतिरनुभवस्य मानं सोऽर्थस्य
द्वौसहानुसन्धानमित्युक्त नीत्या
एतदनुभवस्मरणोभयमेलनात्मकानुसन्धानरूपं
प्रत्यभिज्ञानमपि अत्रैवेति अनुभव स्मरणयोरनार्भूतं
तदनुसन्धानमेतदनुभवस्मरणभेदादष्टधा । तदेव दर्शयति -
सोऽयमिति । स्मरणानुभवानुसन्धेय वस्तुपरामर्शात्मकमेकं
(१५०) दृष्टोऽयमिति स्मरणात्मक दर्शनानुभवानुसन्धेय वस्तु
परामर्श प्रधानमेकं मयादृष्टोऽयमित्यस्मदर्थ
स्मरणात्मकदर्श्नानुभव परामर्शप्रधामेकं मया दृष्टः
सोऽयमिति अस्मदर्थपूर्वानुभवानुभूत वस्तु
स्मरणानुभवपरामर्शप्रधानमेकम् । एतच्चतुष्कं
भूतार्थरूपं स दृश्यत इति स्मरणवर्तमान दर्शनात्मक ———–
— वस्तु परामर्श प्रधानमेकम् । सोऽयं दृश्यत इत्यनु भूत
वर्तमान वस्तु दर्शन परामर्श प्रधानमेकं स मया दृश्यत इति
स्मरणा स्मदर्थ दर्शनात्मकानुभवपरामृश्य वस्तुपरामर्श
प्रधानमेकं मित्यनुसन्धानचतुष्कं वर्तमानेऽर्थे वर्तत
इत्यष्टधा । एतदनुसन्धानं व्युत्क्रमेणाप्यष्टधा भवति ।

प्। ११९) तद्यथा - अयं सः, अयं दृष्टो मया, अयं स दृष्टो मया,
इत्यत्राप्येतच्चतुष्क ———————– यं स दृश्यते । मया स दृश्यते
मयायं स इत्येतच्चतुष्कं वर्तमानेर्ऽथे वर्तत इत्यनुसन्धानम्,
षोडशधा इति पूर्वोक्ताः स्मरण भेदाश्चत्वारः
द्वावनुभवभेदौ, अनुलोम प्रतिलोम क्रमेणानुसन्धानं षोडश–
——————— षु अनुभवादिसंवेदनेषु प्रकाशमान
मनुभव्यादिसंवेद्य रूपं ग्राह्यं ग्राह्यं प्रकाशादिति
विश्वसत्ता प्रसादान्महाप्रकाशादबहिर्भूतम् । अन्यथा तस्य
प्रकाशायोगात् तद्ग्राह्यमहाप्रकाशात् बहिर्भूतञ्च । अन्यथा
बहिर्भूतत्वा ———————– भवात् । नच तत एवेत्यादि । ततो
महाप्रकाशादेव । तदेवेति । तद्ग्राह्यमेव तदेवेति । एकस्मिन्नेवकाले
पृथग्भूतं चा पृथग्भूतं च न भातीति । नूनं निश्चये, न तत्र
महाप्रकाशग्राह्ययोर्मध्ये घटादिवत् स्वयमपि ———————–
दावहमिति कल्पित प्रकाशात्मा माया प्रमातृरूपः अन्यः
कश्चिदर्थोऽस्ति । यतोमाया प्रमातु रभावे प्रकाशमानतया ।
प्रागिवार्थेऽप्रकाशः स्यात् प्रकाशात्मतया विना । (१५१) इति च
वक्ष्यमाण नीत्या महाप्रकाशाभिन्नानां ग्राह्यग्राहक
रूपाणामर्थानां चैत्रोऽन्यः मैत्रोऽन्यः घटोऽन्यः पटोऽन्यः इति
कथं कारं पृथग्भावो भवेत् । तस्मात्
महाप्रकाशप्रमेययोर्मध्ये परिमित प्रमात्रात्मकः
कश्चिदर्थोऽस्त्येव । तेन विनाघटपटादिकस्य वेद्यं भवेत् ।
महाप्रकाशस्य तावत् अहमित्यशेष विश्वक्रो।डीकाराद्वेद्यं न
भवति घटपटादेरन्योन्यं वेद्य वेदकभावो नास्ति । तदुक्तं
श्रीलघुवृत्तौ - पुरुषस्य संवेद्यरूपस्यैव परिमितस्य वेद्यराशौ
गणनम् । तेन हि विना कस्य तत्पृथिव्यादि वेद्यं भवेत् । तेन
वेद्याभासस्येयद्रूपं यद्वेद्य राशेरेवात्यक्त वेद्यभागस्य
भिन्नवेद्ये वेदकीकरणं तद्व्यापृतानि तत्वानि कला वायु रूपा
किञ्चित्कर्तृत्वेन प्रेरिता अशुद्ध विद्या तेजो रूपा किञ्चिज्ज्ञत्वेन दत्तेन
वह्नि प्रकाश तेजो रूपा आप्यायिका च माया सलिल रूपा
अभिष्वङ्गरूप निज मज्ज नात्मक स्तम्भन स्वभावा इन्द्रोपलक्षित
पृथिवीरूपा रागशक्तिः । ता एताश्चतस्रः

प्। १२०) शक्तयः पुरुषं धारयन्ति । मध्ये त्रिशङ्कुवत् विश्रामयन्ति ।
अन्यथा पाषाणादिवत् जडभूमिमेवापतेत् । परमेश्वर वद्ना
संविद्गगनमेवोत्पतेत् । इत्युभयथापि माया प्रमातृभावे वेद्यमपि
न किञ्चिदिति सङ्कोच विकासा वपि न काचिदित्यादि वक्ष्यति च अत्रत्योऽयं
प्रमातापि प्रमेय एव । स तु प्रमात्रीक्रियमाण आच्छादित
प्रमेयताकः इहोच्यत इति । यश्च प्रमाता शून्यादिः प्रेमेय व्यतिरेकिणी
। माता य मेयः सन् कालादिकपञ्चकवेष्टित इत्यत्र सोऽयमिति विकल्पित
प्रकाशात्मार्थः जडत्वात् वेद्येष्वेक तम एव
महाप्रकाशादन्योन्यतश्चैत्रमैत्रादेः घटपटादेश्च विच्छिन्न एव
। गौरोऽहं तृषितोऽहमिति अनुज्झितदेहप्राणाद्यात्मकवेद्यभाव एव
तस्मिन्नेव देहादावहमिति विच्छेदशून्य प्रकाशोचितेन (१५२)
परामर्शेन परामृश्यमानो मया प्रमातेति वक्ष्यते । देहे
बुद्धावित्यत्र स च स्वव्यतिरिक्तं ग्राह्यं प्रतिग्राहक उच्यते । एवं
विश्वप्रतिबिम्बनक्षमत्वाद्विमलमुकुरकल्पे स्वात्मनि नील सुखादि
ग्राह्यरूपं चैत्रमैत्रादि ग्राहकरूपं चेत्येतद्युगलं
परमेश्वरः स्वस्मादविनापिनः सर्वस्यात्मभूताच्च
विमर्शचिद्धानात् प्रकाशादव्यतिरिक्तं प्रकाशलग्नत्वात्तदभिन्नं
ग्राह्यग्राहकयुगलं सहैवनिर्मिमीते । इत्युक्तनीत्या
सममेवाभासयतीति यत् एतदवभासनमेवास्य भगवतो
ज्ञानशक्तिरूपं —————————— र्तृत्वं
स्मरणशक्तिरूपमनुभूतवस्तुस्मरणकर्तृत्वं चेत्युच्यत इति
तात्पर्यार्थः । पदार्थस्तु - महाप्रकाशरूपः प्रमाता स एव हि तेन
तेन वपुषा जानाति स्मरति विकल्पयतीत्युक्तनीत्या चैत्रमैत्रादिरूपेण
स्थित्वा मया —————————— येनासा वनुभवतीत्युच्यते । तत
आमर्शनात् ग्राहग्राहकरूपौ अनुभाव्यानुभावकौ घटादि
देहाद्यर्थै । तस्मिन्विशुद्धप्रकाशरूपे अनुभावतरि प्रमातरि
भातः प्रकाशेते । इत्येतल्लक्ष्य —————————— रूपो माता
दृष्ट इति । स इति यत्परामृशति यतोऽसौ स्मर तीति व्यपदिश्यते । अतः
आदर्शनादपि शुद्धात्मनि स्मर्तृरूपे प्रमातरि स्मर्तव्य स्मर्तृरूपा
वर्थौ भात इत्येतदेव लक्ष्यते । एवं ज्ञानपूर्वक ————————-
—– क्तरित्युक्तनीत्या स्मृते रनुभवरूपोपजीवित्वं द्रढयितुं स्मृति
शक्तिनिरूपणप्रसङ्गादत्रश्लोके

प्। १२१) मया दृश्यते अयमिति चेत्यनेन भविष्यन्त्या
ज्ञानशक्तेरप्युन्मीलनं कृतम् । आमृशन्निति रात्रादेशो लक्षणे
वर्तते —————————— विच्छिन्न वेद्य वाची ग्राहक इति मायीय
कल्पितः प्रमातेति शुद्ध प्रकाश स्वभावो महा प्रमाता । आदितः एक
त्रिंशत् ।

(१५३) इति प्रत्यभिज्ञासूत्रविमर्शिनी व्याख्यायां चतुर्थमाह्निकं
समाप्तम् ॥

अथ पञ्च माह्निकम्

महागुहान्तरित्यादि - देशकालानवच्छिन्नत्वान्महतीशिवादि —-
——-त्वाद्गुहा । तथा हृदय बीजस्थं जगदेतच्चराचरम् । इत्युक्तनीत्या
श्रीपराशक्तिरूपं हृदयमत्रनितरां तदैक्ये न संवित्मयत्वेन
मग्नस्य तदैकरस्येन स्थितस्य प्रमातृप्रमेय रूपस्य भावजातस्य,
अत एव स्वरूपान्तः क्रोडीकृतमर्थराशिमपरमविभिन्ना
कारमात्मनि परिगृह्य कञ्चिदेवार्थं स्वरूपा
दुन्मग्नमाभासयतीत्युक्तनीत्या मायाप्रमात्रपेक्षया अयं चैत्रः
अयं घट इतीदन्तारूपतया ज्ञानशक्त्यात्मना प्रदीपेनयः
सदाप्रकाशितस्तं शिवं सदा स्तुमः ॥

एवमिति । स हि पूर्वानुमार्थेत्यादिना आह्निकेन स्मृतिशक्तेः
स्वरूपं प्रतिपादितम् । अधुनात्वनुभवमूल
स्मृतिशक्त्युपजीवनीयज्ञानशक्तिपरमार्थ निर्णयं
वितत्यश्लोकैकविंशत्या प्रतिपादयति । तत्र वर्तमानवभासानम्,
इत्याद्यश्लोकेनानुभव शक्त्यात्मनि वस्तुनि प्रतिज्ञां करोति । एवं
भूताज्ञानशक्तिरिति । ततः प्रागिवार्थ इति भिन्ने प्रकाश इति च
श्लोकद्वयेन तदनुभवशक्तिविषयाणां अर्थानां
पूर्णाहन्तात्मकं प्रकाश एव स्वरूपमित्याह - ततस्तत्तदैकस्मितेति ।
न वासनाप्रबोधोऽत्रेति श्लोकद्वयेन, अहं प्रथारूप प्रकाश
बाह्यानामर्थानां सद्भाव विज्ञानमेव (१५४) विज्ञेयत्वेन भाति ।
नतु विज्ञान व्यतिरिक्तं बाह्यं विज्ञेयमिति केवल विज्ञान वादि
वासनादूषणेन बाह्यार्थ वादिना दृढीकृत माशङ्क्य ततः
स्यादेतदवभासेष्विति षष्ठेन तावद्धानादानादि व्यवहाअरजातं
न किञ्चिदुपरुध्यदर्शयति ततश्चिदात्मैव हीति श्लोके नाहं
प्रकाशान्तर्गते घटपटादिबाह्यार्थ वादिना भ्युपगतैः

प्। १२२) प्रतिबिम्बाभासैरेव हानादानादि व्यवहार जातस्य सिद्धत्वे
चक्षुरादीन्द्रिय विषया अमी घट पटादयो भावा अहं
रूपबोधदर्पण लग्नत्वेन प्रकाशमानत्वात् प्रतिबिम्बात्मकाः
एतत्प्रतिबिम्बसमर्पकाः प्रकाशाद्बाह्या नित्यानुमेया बिम्बरूपा
घटादयः केऽपिसन्तीति प्रकाश बाह्यार्थसद्भावनाभ्युपगमेऽपि
तावत् प्रोक्तं अ व्यवहार जातं न किञ्चिदुपरुध्यत इति दर्शयति अथ
चिदात्मैवहीतिश्लोकेन । स्वसंविद्दर्शने विश्वस्य संविन्मयत्वमेव
स्वरूपमिति दर्शयन् प्रकाश बाह्यार्थ सद्भावे प्रत्यक्षं
प्रमाणं पराकरोति । ततः अनुमानमनाभात पूर्व इति । अभासः
पुनराभासादिति श्लोक द्वयेन प्रत्यक्ष प्रमाणाभावात् तत्पृष्ठ
भाविनानुमाने नापि बाह्यस्यार्थस्यानुमेयतामपि निरस्यति ।

एवं प्रत्यक्षानुमान प्रमाणाभावात् बाह्यार्थस्य सत्तैव
वास्तीत्यायातम् । ततः स्वामिनश्चात्मसंस्थस्ये त्यनेन
स्वभावमवभासस्य विमर्शं विदुरिति वक्ष्यमाण नीत्या इह
परमेश्वरः प्रकाशात्मा प्रकाशश्च विमर्शस्वभावः इति स्वरूप
प्रवेशिकोक्तनीत्या च चिदात्मनः परमेश्वरस्य परामर्श
स्वभावत्वात् शिवादिक्षित्यन्तस्य परामृश्यस्य
तत्परामर्शान्तर्गतत्वात् परामृश्यं जगत्परामर्शद्वारेण
परामृष्टरि अनुत्तर भट्टारके विश्राम्यतीति
चिदात्मन्यर्थानामवश्यं सद्भाव इति दर्शयति - ततः स्वभाव
मवभासध्येति । आत्मात एव चैतन्यमिति चितिः (१५५) प्रत्यवमर्शात्मेति
सास्फुरत्तामहासत्तेति च श्लोकचतुष्टये प्रमातृरूपस्याहं
प्रकाशस्याहं प्रत्यवमर्श————————– वक्ष्यमाणनीत्या
प्रत्यवमर्श एव जीवितमित्यनुभवागमयुक्ति
स्वरूपनिरूपणाभिरभिधत्तेततः आत्मानमत एवायमिति ।
स्वातन्त्र्यादुक्तमात्मानमिति ना हन्तादि परामर्शादिति श्लोकत्रयेण ।
ज्ञान ——————— वभूतः परामर्श एव स्वभित्तिभूतं
प्रकाशरूपमात्मानं स्वातन्त्र्य जात नीलपीतादि
जडरूपज्ञेयत्वेनावाहनादिष्विदन्ता रूपत्वेन प्रतिभासमानत्वेऽपि
अनुज्झितशुद्धाहं तादि परामर्शादिति —————– त्मक ज्ञेयत्वेन
च प्रथयतीति तस्यैव परामर्शस्य

प्। १२३) प्रधानत्वे न्यायमाह - ततः मायाशक्त्या विभोरिति श्लोकेन
प्रमातृप्रमाण प्रमेय रूपस्य प्रपञ्चस्य प्रकाशैकरूपत्वेऽपि
भेदोल्लास एव हेतु स्वातन्त्र्य शक्तिमान् —————— या माया शक्त्या
ज्ञाता ज्ञात्रन्तराद् ज्ञेयाच्च भिन्नः ज्ञानं ज्ञानान्तरात्
ज्ञातुः ज्ञेयान्तरा ज्ञातृज्ञानाच्च भिन्नमित्याह ततः साक्षात्कार
इति । घटोऽयमित्यध्यवसेति श्लोकद्वयेन विशुद्ध——————————
विकल्परूपे ज्ञाने सविकल्परूपे च विमर्श एव प्राणितमित्याह ततः
केवलं भिन्न संवेद्येत्याह्निकोपसंहारात्मना श्लोकेन
ज्ञातुर्ज्ञानस्य च पूर्वपक्षे ज्ञानं च चित्स्वरूपं च त्यादिना
श्लोक द्वयेन यद्दूषितं भीनत्वं तन्मायाशक्त्योपपन्नमिति
समर्थयति इत्याह्निकस्य तात्पर्यम् । श्लोकार्थस्तु निरूप्यते तत्र
प्रथमश्लोकस्य । वतरणिकामाह -
नन्वित्यादिनामनुविकल्पानुसन्धान सङ्कल्पोत्प्रेक्षाणामनुभव एव
प्रमाणभूतः । तत्र तेषां स्मरणविकल्पादीनां जीवितभूते
तस्मिन्ननुभवे प्रकाशमाना अर्था घटपटादयः यदिमहतः
प्रकाशात् भेदेनावभासन्ते तत्तर्हि तेष्वपि स्मरण विकल्पादिष्वपि
प्रकाशमानस्यानुभूतस्यार्थस्य तथैव भेदेनावभास उचितः । नो
चेदनुभवो भेदेनावभासते चेत् ते ष्वपि स्मरणविकल्पादिष्वर्थाः ।
अन्यथा न भेदेनावभासन्त इत्यर्थः । तत् तस्मात्
स्मरणविकल्पादीनां कारणभूतः ज्ञानशक्तिरूपोऽनुभव एव
ज्ञानशक्तिरूपेण निरूपणायः । इत्याशयेनाह - माया
प्रमात्रपेक्षया अयं घटः प्रकाशते अयं पटः प्रकाशत इति
बहिरात्मना वर्तमानावभासानां तत्तदनुभवविषयाणां
घटादीनां भावानां अमायाप्रमातुर्बहिरात्मना वभासनं
यत्तदवभासनम् । अन्तरिति । शुद्धचिन्मये परमार्थप्रमातरि
स्थितवतां तेन सहैकात्म्य मनुज्झतामेव घटते तदवभासनम् ।
अन्तः स्थितत्वमनुज्जतामेव प्रमाणेनोपपद्यत इत्यर्थः ।
प्रमातारमुज्जित्वा भावाः स्वयमेव भासन्ते चेत्
तदिदमित्यवभासनमपि न स्यात् । प्रमातारं विना कं
प्रतीदम्मित्यवभासनम् । वर्तमानत्वेन स्फुटयता इदमित्येव
माकार मवभासनं येषां तेषां भावानां
यदेतद्वहिरात्मनेति कल्पितमायीय

प्। १२४) प्रमातृ पृथग्भावेन हेतुना भिन्नानां ततो माया
प्रमातुर्विच्छिन्नानां यदेतदिदमित्येवावभासनं तद्भासनं
चिन्मये महाप्रकाशमये परमार्थ प्रमातरि अन्तः स्थितवतां तेन
परमार्थ प्रमात्रा सहैकात्म्यमनुज्झतामेव घटते । अयमत्र
पिण्डितार्थः । तेनान्तः स्थितवत्वेनानुज्झितपरमप्रमात्रात्मक
संविदभेदस्य भावस्य चैत्रोऽहं मैत्रोऽहमिति विकल्पित
प्रमात्रपेक्षया इदमिति भेदेन प्रकाशनं भगवतो महेश्वरस्य
ज्ञानशक्तिरित्युक्तं भवति । बहिरिदमित्यनुभवगोचरत्वेन
प्रकाशमानानां भावानां तदिदमिति प्रकाशमानम् अन्तः
शुद्धचिन्मये प्रमातरि स्थितवतां तदैक्यमनुज्जतामेव घटते
प्रमाणेनोपपद्यत इत्युक्तम्, तदिति । तदृग् विधार्थप्रकाशकं
प्रमाणं दर्शयति - अयमित्यनुभवगोचरत्वेन बहिः
प्रकाशमानोऽर्थः (१५७) शिवादिक्षित्यन्त विश्वसत्ताप्रदविश्वोत्तीर्ण
प्रमातृरूप प्रकाशात्मतया विना प्रागिव तदर्थ ज्ञानोदयात्
पूर्वमिव स्वीय ज्ञानोदयेऽपि अप्रकाशः स्यात् । प्रकाशात्मतया विना
स्वसत्ताया एवाभावात् । तस्मात् स्वीयज्ञानोदयेऽप्य प्रकाशः स्यात् ।
विश्वसत्ता प्रदः प्रकाशह् स्वात्मनि स्वस्वरूपेन भिन्नः अन्योन्य रूपो
न भवति । स्वात्मन्येक एवेत्यर्थः । किञ्च प्रकाशः अर्था——————-
———– वति । तस्मादर्थस्य विश्वस्यात्मा स्वरूपं प्रकाशता
प्रकाश एव विश्वात्मना प्रकाशत इत्यर्थः । यथोक्तम् - यत्प्रकाशते
तदेक प्रकाशात्मकमिति यथोक्तम् - अवैश्वात्म्ये जाड्यं प्रसजति चितः
स्पन्द वपुषः

प्रकाशाद्भिन्नं चे ------------------------------ ।

चितोविश्वात्मत्वादपि च जगतश्चिन्मयतया
शिवः सर्वं सर्वं शिव इति शिवं यामिशरणम् ॥

अर्थोनीलादिः तस्य नीलस्य नीलादिरूपतैव प्रकाशता
नीलशरीरोत्तिर्णा अपरा नील व्यतिरिक्त अप्रमात्रात्मिका प्रकाश ————
—————— तर्हि तस्मात्तन्नीलं सर्वान्नीलाननुभवितृन् प्रमातॄन्
प्रति अहं नीलमिति सम्भावनया यथा भण्यते तद्भणनं
सम्भावनामात्रमेतत् । तन्नीलं परमार्थतः स्वात्मन्येव नीलस्य
नीलतां न तु चैत्र मैत्रा ———————- मैत्रादिनिष्ठत्वानुपपत्तेः

प्। १२५) न हि जटा दन्यः पटः घटनिष्ठो भवति । नीलं स्वात्मनिवा न
नीलं प्रमातृ दृष्टिगोचरत्वा भावात् नीलं न चेत् पीतं
भवत्वित्याशङ्क्य नानीलं नीलं स्वात्मनिपीतमपि न भवति ।
प्रमातृ प्रकाशा —————————— अत् । एवं नीलस्य नीलता यथा
(१५८) तथास्य नीलस्य प्रकाशमान वापि सर्वान् प्रतिभवेत् । सर्वानिति ।
नीलं न साक्षात्कुर्वतः प्रमातॄन् प्रति नीलं साक्षात्कुर्वन्तपि वा न
स्यादिति नीलादेः प्रमातृवर्ग चक्षुरादीन्द्रिय गोचर ————— भवेत् ।
इन्द्रिया लोकदीपादिक्षण वर्गात् पूर्वमप्रकाशमानः
प्रकाशरूपोऽसौ नीललक्षणेन्द्रियादिलोकादिक्षणा विशिष्ट एव जात इति ।
अथैवमपि स एवेन्द्रियादिक्षणविशिष्टो नीलक्षणः प्रकाशरूपो जात
इत्यत्र —————————— इन्द्रियादि विशिष्टः स नीलक्षणोऽपि सर्वान्
प्रति वा न किञ्चिद्वा प्रति प्रकाशते । इन्द्रियादिक्षण विशिष्टस्य नीलस्य
प्रकाशमानतापि सर्वान् प्रति न किञ्चिद्वा प्रति प्रकाशत इति
इन्द्रियादिलोकादिक्षणवर्गात् प्रकाशरूपोऽसौ नीलक्षणो विशिष्ट
इत्यत्रापि पूर्वोक्तः प्रसङ्गः आपतेत् । नीलस्य प्रकटता नीलस्यैव
धर्मश्चेत् सर्वान् प्रतिप्रकटता भवेत् । नि किञ्चिद्वा प्रति सर्वथा
नीलस्य प्रकाशता इन्द्रियादिक्षणविशिष्टस्य नीलस्य प्रकाशता नीलस्य
चक्षुरिन्द्रिय सन्निकर्षात् प्रकटता इति सर्वथा प्रकाशः अर्थ शरीर
विश्रान्तश्चेत् अर्थो ममाभासत इति प्रमाऋलग्नतया प्रकाशस्य
मितिर्दुरुपकदा ।

अथेन्द्रियादिमयः प्रमातेति चक्षुरादीन्द्रियमयः प्रमाता
अर्थं प्रति तदानीं चक्षुरादीन्द्रिय सन्निकर्ष समयेऽर्थरूपस्य
प्रकाशस्य कारणं भवेत् । बीजं
यथापूर्वमप्रकाशमानस्याङ्कुरस्य, दृष्टान्त एव दुष्ट इति
दर्शयति - न चेत्यादिना । अङ्कुरः बीजापेक्षयानङ्कुरात्मा न भवति ।
अपितु ईश्वरेच्छया चक्षुरादीन्द्रियमयः प्रमाता तदानीमिति
चक्षुरादेर्घटादेश्चान्योन्य संयोजन समयेऽर्थ रूपस्य
घटरूपस्य प्रकाशस्य कारणं भवेदित्याशङ्क्य दृष्टान्त एव
दुष्ट इति दर्शयति - न चेत्यादिना । अङ्कुरः बीजापेक्षया अनङ्कुरात्मा
न भवति । अपित्वीश्वरेच्छया । यद्वक्ष्यति -

प्। १२६) (१५९) जडस्य तु न सा शक्तिः सत्तायदसतः सतः ।
कर्तृकर्मत्वतत्वैव कार्यकारणता ततः ॥

अत एवाङ्कुरेपीष्टो निमित्तं परमेश्वरः ।  
तदन्यस्यापि बीजादेर्हेतुतो नोपपद्यते ॥ इत्यादि ।  

तस्मात् बीजं यथाङ्कुरमस्य कारणं न जातं
तद्वदिन्द्रियादिमयः प्रमातापि जडत्वा दर्थरूपस्य प्रकाशस्य
कारणं न भवति । ततः इति प्रकाश स्पर्शा दर्थस्य । एवं विधः
उक्तरूपो दोषो भवति चेत् योऽर्थः प्रकाशात्मा न भवतु । प्रगिव,
अयं घटः इति ज्ञानो दयात् पूर्वं यथा प्रमातुः असौ घटः
अप्रकाशो जातः तथा ज्ञानोदयेऽप्यप्रकाशो भवति ।

ननु ज्ञानं नामार्थ प्रकाशमेव तत् तस्मादर्थ
प्रकाशरूपात् ज्ञानस्यो दयानुदययोरप्यर्थस्य कथं तुल्यता स्यात् ।
ज्ञानस्योदयेऽर्थस्य प्रकाशः अनुदयेऽप्रकाश इति
उदयानुदययोस्तुल्यताकथं भवेत् । अर्थः ज्ञानोदयात् प्रकाशो
भवति । ज्ञानस्यानुदयेऽप्य प्रकाशो भवतीत्येतत् सम्भवेत् ।
यद्युपपद्येत उपपत्तिरेव नास्तीति दर्शयति यावतेत्यनेन ।
अर्थाद्भिन्नं ज्ञानस्य चिद्रूपत्वात् अर्थस्य
जडरूपत्वाच्चार्थाद्छ्न्नं यत् ज्ञानं तज्जडरूपस्यार्थस्य
सम्बन्धितया कथं स्यात् । पटो यथा स्वस्माद्भिन्नस्य पदस्य
सम्बन्धीन भवति तद्वत् स्वस्माद्बिन्नस्यार्थस्य ज्ञानमपि सम्बन्धि
न भवति —————– । —————————– रपि पक्षान्तरमाह -
ज्ञानस्य स्वरूपं अर्थः प्रकाशत इत्येवं भूतं यदि तत्
तस्मादर्थ (१६०) ज्ञानयोरभेद एवायातः । घट स्वरूपमेव
ज्ञानात्मतयोक्तत्वात् ज्ञानस्यार्थस्वभावत्वेऽङ्गीकृते सति
ज्ञानस्यार्थ ——————————– तिकिञ्चिद्वा प्रतीत्यादिना
चिद्रूपस्य ज्ञानस्य जडत्वं चापतेत् ।

अथार्थं प्रकाशयतीति ज्ञानस्य स्वरूपं तर्हि तस्मादर्थं
प्रकाशमानं करोतीत्यापतिते अर्थाद्भिन्नं यज्ज्ञानं तदर्थस्य
सम्बन्धितया कथं ————— अर्थ प्रकाशते अर्थं प्रकाशयतीति
यथ कर्म प्रकृत्यर्थ व्यर्थयोर्विवेकः मयैव भेदविदारणे ग्रन्थे
कृत विस्तर इति तत एवान्वेष्यः । तस्मादर्थाद्भिन्नः प्रकाशः अर्थस्य
सम्बन्धी भवतीति सम्भावनैव नास्ति । तस्मात् प्र ————- रूपं

प्। १२७) प्रकाशत्वं प्रकाश मानत्वं महाप्रकाशाभिन्नत्वमिति ।
एवं भूतः प्रकाशः घटेऽन्यः पटेऽन्यो यदि प्रतिपदार्थं
विच्छिन्नं चेत् क्षणिक ज्ञानवादिमत इव तदन्यश्चेत् योऽहं घट
मन्वभूवं स एव पटमनुभवामीति एवं भूत ————————–
प्रकाशयोः स्वरूपे विश्रान्तत्वादेकप्रमातरि विश्रान्त्यभावादिति
वितत्यो पपादितं नश्येज्जन स्थितिरित्यत्र ।
तस्मादनुसन्धानस्यायोगादेक एव प्रकाशः प्रकाशः स्वात्मनि न
भिन्न इत्येतदपि प्रमेयं दर्शित —————————- दित्यनेन । अर्थान्
प्रतिव्यतिरिक्तस्य ज्ञानस्यार्थ प्रकाशकत्वं न घटते ।
तथाप्यर्थप्रकाशकत्वमङ्गीकृत्य बाधकान्तरमाह -
बाधकान्तरं नाम विषय साङ्कर्यं तद्विषयसाङ्कर्यं घट
ज्ञानोदय एव पटादीनामुदयः सर्वस्य पदार्थस्य युगपदेवोदये
चक्षुषैव रूपज्ञानं घ्राणेनैव गन्धज्ञानमिति मर्यादा भावो
भवेत् । अर्थाद्भिन्नेप्रकाशे अत एवस्वात्मन्यभिन्ने एकत्वे सति
व्यवस्थापकत्वा भावात् विषयस्य संस्कारः । किञ्चार्थाद्भिन्नं
अत एव स्वास्मिन्नभिन्नं ज्ञानं पुनरप्यर्थेन सम्बध्यते चेत् (१६१)
सर्वस्यार्थस्य युगपदेवोदियात् साङ्कर्यं तज्ज्ञानं नीलमात्रैक
प्रकाशकं चेत् पीतादेः प्रकाशकं न भवति । किञ्च युगपदेव
सर्वार्थोदये पर्वतशिखरस्थस्य प्रमातुर्नगर प्रमातुर्नगरग्राम
नदीक्षेत्रादि पदार्थानुभवान्तरं
तदनुभूतपदार्थसदृशसन्दर्शनेऽनुभूतस्य पदार्थस्याशेषस्य
युगपदेव स्मरणप्रसङ्ग इति भूयात् सङ्करः । तत्साङ्कर्यादर्थः
प्रकाशात्मा प्रकाश स्वरूपो भूत्वा प्रकाशते । अर्थः प्रकाश्चेत्
अर्थ प्रकाश रहित् । न सिद्ध्यति न सम्भवति तस्य सत्तैव नास्तीत्यर्थः ।

यद्यर्थादन्य एव ज्ञानात्मा प्रकाशः । अत
एवार्थाभिन्नत्वादेव अर्थतो भिन्नस्तर्हि अर्थाद्भिनास्य ज्ञानस्य
स्वात्मन्येव प्रकाशमात्र रूपत्वादभेद एव ऐक्यमेव । अभेदमेव
प्रतिपाद्यति - तथा हीत्यादिना । नीलस्य प्रकाशः पीतस्य प्रकाश इत्यत्र
ज्ञेयरूपो नीलांशः पीतांशश्च । स तावज्ज्ञानस्य न स्वरूपं
ज्ञानात् ज्ञेयस्य भिन्नत्वात् ज्ञानस्य स्वरूपं चेत्
ज्ञानज्ञेययोर्भेद वादत्यागो भवेत् । नीलांशः पीतांशश्च नील
ज्ञानस्य पीतज्ञानस्य विषयोभवत्विति चेत् अस्माभिरपि तद्विषयत्वमेव
विचार्यते । विचारणा प्रकारमाह - इहेत्यादिना ।

प्। १२८) इदं नीलं इदं पीतमिति भेदो ज्ञानबलादभ्युपगन्तव्यः ।
येनैव प्रकाशनेति ज्ञानेन नीलो नील इत्युपगम्यते तेनैव ज्ञानेन
पीतः पीत इति कथं सङ्गच्छतां ज्ञानस्य स्वात्मनि अभिन्नत्वात्
घटपटाद्यर्थेनाभिन्नत्वान्नानात्माभावात् घट ज्ञानेन न
पटव्यवस्था भवति । तस्मान्नीलांशः नीलज्ञानस्य स्वरूपं
विषयश्च न भवति नीलेन जनितः प्रकाशो नीलस्य प्रकाशः पीतेन
जनितः प्रकाशः पीतस्येति नीलादेर्जनकत्वं प्रकाशस्य जन्यत्वं च
यदुच्यते तन्नील पीतयोर्भेदे सिद्धेस्यात् (१६२) ज्ञानस्यार्थस्पर्शितया
नीलपीत ज्ञानयो नील पीतास्पर्श एक समाग्री नाम नीले न सह
चक्षुषः सङ्गमः तस्य चक्षुषः नीलग्रहण सामर्थ्यं नीलस्य च
शुक्तिरजतवद्यथा प्रकाशः नीलात्मनैव प्रकाश इति इत्येवं रूपैक
सामग्रीको जातः । नीलज्ञानात्मा प्रकाश इत्यादि य्दुच्यते
तद्भवदीयं वाक्यं नीलपीतयोर्भेदे सिद्धे स्यात् । चक्षुः नीलरूपं
विषयं पीतरूपं विषयं वा स्पृष्ट्वा इदं नीलमिदं पीतमिति
नीलपीतयोर्भेदे सिद्धे भवति स एव भेदः विचार्यः विचार्य इति
विचारकोटौ पतिरः प्रत्यक्षतो न दृश्यते ज्ञानस्य ज्ञेयात् —————-
—————- चक्षुर्नीलादिकं न स्पृशतीत्यर्थः ।

पुनरपि पक्षान्तरमाह - असौ ज्ञानात्मा प्रकाशः
दर्पणवन्नीलप्रतिबिम्बवन्नीलाकार इत्युच्यते ज्ञानात्मनः प्रकाशस्य्
तन्नीलाकारत्वमुक्त युक्त्या प्रति बिम्बबलाद्भवति तत्प्रतिबिम्बात्म ——
————————– ब समर्पकः स द्वितीयं
नीलात्मकबिम्बानपभासादयुक्तमेव + उक्तमेतत् ज्ञानस्य
ज्ञेयादर्थाद्भिन्नत्वेन चक्षुरादीन्द्रियं स्वं स्वं रूपादिकं
विषयं न स्पृशति, नीलादिरर्थः ज्ञानात्मनः प्रकाशस्य स्वरूपं
न भवति सं ——————————– शस्य नीलादिना जन्यत्वं च न
भवति । ज्ञानात्मा प्रकाशः नीलादेरर्थस्य
चक्षुरादेश्चैकसामग्र्या परिपूर्णया सामग्र्या
अन्योन्यसम्पर्करूपया जातश्च न नीलाद्यर्थ प्रतिबिम्बग्रहणात्
दर्पणवत् ज्ञानात्मा प्र———————- इत्यर्थज्ञानयोर्भेदपक्षे
दोषपञ्चक मालक्ष्या भेदमेवशरणं प्राप्तमाह - अथ भेद इति ।
तर्ह्य स्मान् प्रतिकुठार भूतस्तव भेद वादस्त्यक्तः
तथेत्यर्थज्ञानयोरभेदाङ्गीकारेऽपि कारणकार्यता

प्। १२९) वादे शिखर स्व ———————— (१६३) नदीक्षेत्रदर्शन जातं
शिखरस्थस्य ज्ञानमेकस्मिन् शिखर समीपे पटु स्फुट ग्रहण
सामर्थ्ययुक्तमन्यत्र समीपे अपर इति भेदः कथं भवेत् ।
ज्ञानात्मनः प्रकाशस्वरूपस्य स्वात्मन्यभेदात्
पूर्वमनुभवेऽपि ——————————– षमाह - तथा
भूतेत्यादिना । तथा भूतानुभवानुभूतेऽर्थे
पश्चात्तदनुभूतार्थ सादृश्यान्यतर वस्तु
दर्शनाद्बोधितेऽनुभवसंस्कारे शिखरस्थेन यो ग्राम
नगरादिरर्थः समुदायेन दृष्टः तस्याशेषस्य बलात्
स्मरणप्रसङ्ग इति भूयात् संस्कारः एकैकार्थ
ग्रहणेनैकैकाभिलाषाद्यर्थ क्रिया भावात् अशेष वस्तु स्मरणेना
शेषार्थ क्रिया समुदायात् विषयस्य साङ्कर्यम् ॥

अर्थ प्रकाशयोरभेदवादेऽपि पराजितो भूत्वा प्रकाशोमाभूत्
अर्थ एवास्त्वित्याह -स्यादेतदित्यादिना । भेदपक्षेऽप्यभेद
पक्षेप्यर्थस्य दोषापादकेन प्रकाशकेन किं न किमपि प्रयोजनम् ।
अर्थ एवालास्माकमित्येवं वादिनं प्रत्याह अर्थोऽप्रकाशश्चेत्
स्वयमपि सिद्धो न भवति । तस्यार्थस्य प्रकाशैकरूपत्वात् । नहि
भित्त्यभावे चित्रस्य सम्बन्धः अर्थो ऽप्रकाशश्चेत् तस्य सिद्धिरेव न
कदाचिदित्येव दर्शयति - स्वात्मनि नीलामित्यादिना प्रकाशे न विना
भूतं स्वात्मनि हि स्वस्वरूपे न प्रमातारं प्रति ।

यदि अथवा स्वात्मन्येव पीतं नकिञ्चिद्वेति सत्ताया
एवाभावान्न कश्चित् स्यात् । तन्नीलं दोषापादकेन प्रकाशेनेत्युक्तं
तेन प्रकाशेनेत्युक्तम् । तेन प्रकाशेनार्थः किं दुष्येत् । स्वयमास्ति चेत्
दूष्यत्वमस्तित्वमेव नास्ति । अत एवेति । अर्थस्या प्रकाशत्वे स्वत
एवासिद्धत्वात् प्रकाशस्यैवाविश्वात्मना प्रकाशात् ग्रन्थ (१६४)
कृतैव शास्त्रकारेणान्यत्रा जड प्रमातृसिद्धावुक्तम् । एवमात्मनीति
अमीघट पटादयोः जडाः । आत्मनि स्वरूपे असत्कल्पाः स्वयमेवोत्पत्तु
मसमर्थत्वादसन्तः प्रकाशयैवेति पूर्णहन्तात्मनः प्रकाशस्यैव
सम्बन्धिनः सन्ति । तस्माद्विश्वस्य स्वात्मनः परमेश्वरस्य प्रकाश
एव स्वस्वरूपपरात्मना विश्वात्मना चास्तीति । अत्र पिण्डितार्थमाह -
तत् तस्मात् उक्त रूपाद्धेतोः यदि प्रकाशः प्रकाशोयद्यास्ति
तदाऽर्थोऽप्यस्ति । प्रकाशार्थयोः भेदो नास्ति । अथार्यः प्रकाशात्मक
एव । तदेवोपपादयति - कथमित्यादिना ॥

ननु घटस्य प्रकाशतैववपुः नान्या । सैव प्रकाशता

प्। १३०) पटस्यापि वपुरित्यादि रूपेणैक एव प्रकाशः स्वातन्त्र्येण
विश्वात्मना प्रकाशत इत्यायातम् । यथोक्तम् -

घटात्मना यः प्रथते प्रकाशः पटात्मना च प्रथते स एव ।

इत्थं स्वतन्त्रः स्वय मेक एव प्रपञ्च मूर्तिः प्रथते
प्रकाशः ॥ इति ।

एकस्य देश काला नवच्छिन्नस्य महतः पूर्णाहन्तात्मनः
स्वेच्छया स्वभित्तौ विश्वमुन्मीलयति ।

जगच्चित्रं समालिख्य स्वत्मतूलिकयात्मनि ।  
स्वयमेव तदालोक्य प्रीणाति परमेश्वरः ॥ इति ।  
निरूपादानसम्भार सभित्तावे न तन्वते ।  
जगच्चित्रं नमस्तस्मै कलाश्लाध्याय शूलिने ॥  

(१६५) इत्युक्त नीत्या शिवादि क्षित्यन्त विश्वा वकाश प्रदत्वादाकाश
कल्पे स्वात्मन्ये वैवं विधं किमप्यैश्वर्यमस्तीत्येवं रूप
निगमन माह - एवं भूतमिति । नानारूपं नानाविधं
क्रमाक्रमरूपम्, क्रमरूपा कुम्भकारादि सृष्टिः अक्रमरूपायोगि
सर्वज्ञादि सृष्टिः इत्येवं भूत क्रमा क्रम रूप कार्य कारण
भाव ज्ञाप्यज्ञापक भाव ——————————– विश्वरूपता
प्रदर्शन सामर्थ्य रूपं मैश्वर्यमस्ति । एतावति परमार्थे
पर्यवसाययितव्यम् । अयं पर्यन्तमित्तिभूतो नियमः कर्तव्यः ।
तदैश्वर्यमेवं चेत् पर्यवस्यति । एकस्यैव प्रकाशस्य विश्वात्मना
स्फुरणे स्वकीयं स्वातन्त्र ——————————– विना प्रकाशस्य
वैचित्र्यापादकं प्रकाशाद्बाह्यं विश्वमिति बाह्यार्थवादिना
प्रतिपादितम् । प्रकाशवैचित्र्ये नित्यानुमेय प्रकाश बाह्यं तस्मिन्नेव
प्रकाशनं नीलपीतादि प्रतिबिम्ब समर्पकं बिमबात्मकं ————-
——————- तं प्रतिबिम्बसमर्पकस्य बिम्बस्या प्रत्यक्षत्वात्
अकस्मात् सिद्धः बोधदर्पणलग्नः प्रतिबिम्बाभास
तत्तत्प्रकाशाद्बाह्यं बिम्बमनुमापयेत् स्वात्मन्यभिन्नस्य बोधस्य
स्वात्मनो विचित्रा भासे हेतुता ना ——————————– ॥

एवं स्वपक्षं स्थापयित्वा स्वप्रतिपक्ष विज्ञान वाद्युक्त
तत्तद्वासना प्रबोधवैचित्र्यगतं प्रकाशवैचित्र्यं
तत्तत्तीव्रयुक्तिभिर्योजयितुं आह - विचित्रः
तत्तद्घटपटादि(द्य)अनुभवस्य विचित्रत्वात्तत्तदनुभव सं—————
—————– धः विचित्रो भवतीति तादृग्विधोवासना प्रबोधः
तत्तद्बोध वैचित्र्यहेतुतां नयेत् । तस्य वासना प्रबोधस्यापि वैचित्र्ये
निबन्धनं किं कारणबोधश्चेतस

प्। १३१) एक एव भवति । तस्य वैचित्र्य ————————- श कालादेरपि
भवन्मते ज्ञानमयत्वाज्ज्ञानस्य । स्मन्मते स्वात्मन्येकत्वात्
ज्ञानसंस्कारात्मकं वा सना प्रबोधस्यापि (१६६) वैचित्र्याभावात्
वासना प्रबोधः प्रकाश वैचित्र्य हेतुर्नभवति ।

इह अस्मिन् सिद्धान्ते ———————– धस्तावदभिन्नः एकस्तस्य
बोधस्य प्रकाशमात्रमेव परमार्थः । अस्य बोधस्य
प्रकाशाद्बाह्यं नीलं स्वरूपं चेत् तर्हि तन्नीलमप्रकाशरूपमिति
बोध शरीरनीलस्याप्रकाशत्वाद्बोधोऽपि न प्रकाशेत । अथशब्दः
पक्षान्तरद्योतकः । तथेति । नीलात्मना प्रकाशत्वमेवास्यबोधस्य
स्वरूपम् । तदानीं नीलात्मनैव प्रकाशमाने बोधे सतिपीतस्य
प्रकाशः कथं भवेत् स्यात् ।

पुनरप्यथेति पक्षान्तरमाह - बोधस्य तत्तत्क्रमिकं
नीलपीतादिप्रकाशरूपमेव रूपं तर्हि सुषुप्तमूर्छाद्यवस्थासु
नीलपीतादेरप्रकाशात्तन्नील पीतादि रूपस्य प्रकाशस्या प्रकाशः
प्रसज्येत । तस्मात् प्रकाशैकरूप एव स्व प्रकाशेन
विनाबोधस्याणुमात्र मपि नीलपीतादिरूपान्तरं
नास्तीत्यभिन्नोबोधः । एवमभिन्नस्य बोधस्य स्फटिकस्तम्भस्येव
कदाचिन्नीलाभासता कदाचित्पीताभासतेति ये विचित्राः
आभासास्तत्तत्प्रतिबिम्बग्रहणेन ममनीलं प्रकाशते अहं नीलं
जानामि इति नानाविधाभासाः । तत्र नीलं जानामि पीतं जानामीति
विचित्रे ष्वाभासेषु अभिन्नस्य बोधरूपस्य कारणत्वं नोपपन्नं
तस्य बोधरूपस्य कारणस्या भेदे विचित्रस्य नीलपीतादि कार्यरूपस्या
सम्भावनाद्बीधस्या भिन्नत्वात् स एवबोधलग्नः
विचित्रनीलपीतादिरूपः प्रतिबिम्बाभासः आकस्मिकः बाह्यस्य
प्रतिबिम्बसमर्पकस्य बिम्बस्याप्रत्यक्षत्वात् अज्ञातप्रत्यक्षसिद्धः
हेतुकः सन् प्रकाशाद्बाह्यं नीलपीतादिकं बोधगतस्य
प्रतिबिम्बात्मकस्य स्वभास्वस्य सम्पादकम् । यथादर्पणगतो
घटप्रतिबिम्बसदृशः दृश्य (१६७) ——— रूपो बिम्बः तद्वैचित्यवशात्
प्रतिबिम्बोऽपि बोधलग्नः निजरूपसदृशं नीलं जानामि पीतं
जानामि नीलं प्रकाशते पीतं प्रकाशते इति
तमोपनिपद्रूपत्वाद्बहुतरभेदात्मकं स्वयं
प्रकाशैकरूपाद्बोधात् सर्वथा अप्रकाश(मान)त्वेन नानात्वेन च
पृथग्भूतं हेतु भूतं बिम्बमनुमापयतीति सम्भावयते
बाह्यार्थ वादी, अस्य बाह्यार्थवादिना इदमनुमानं सम्भावना
मात्रं न भवति । अर्पितु

प्। १३२) निश्चयपर्यवसाय्येव भवति । कुतो निश्चयपर्यवसायि ——– मिति
चेत् । तत्राह - तथाहीत्यादिना । विज्ञान वादिना वासनाप्रबोधरूपो यो
हेतुरुक्तः सहेतुर्बाह्यार्थ वादिनः नोपपद्यत इति हि यस्मात्
विज्ञानवाद्युक्तस्य वासना प्रबोधलक्षणस्य हेतो
रूपपत्त्यभावमेव ————— ति अनुभवानन्तर भावि स्मृतिजनकः
अनुभवसंस्कारो वासनेति प्रसिद्धम् । इह तु बोधस्य प्रथममेवाहं
घटं जानामि पटं जानामीत्यनुभव वैचित्र्ये हेतुः पर्येषणीयो
वर्तते ।

एवं प्रथमत एव विज्ञानं गवादिनः कुठारः —————–
वासनामनुभववैचित्र्ये अहेतुभूतामिति खण्डयित्वा पुनरपि
विज्ञानस्य वासनेति काचित् शक्तिरस्तु । इत्यङ्गीकृत्यापि बाधितमाह - अस्तु
वेत्यादिना । ज्ञानस्य विषयभूतनीलाद्याभास सम्पादन
सामर्थ्यरूपयो ——————————– वासनेति काचिच्छक्तिरस्तु ।
तस्या वासन्मया स्तत्तन्नीलपीतादिस्वकार्य सम्पादनौन्मुख्यं
प्रबोधः । तत इति । वासना प्रबोधात् नीलपीतादिबोधेषु नीलमिदं
प्रकाशते पीतमिदं प्रकाशत इति नीलाद्याभास——————————-
पक्षमुपन्यस्य दूषयितुमाह - तत्रापीत्यादिना । इह
भवदीयदर्शनेज्ञानानन्तर्वर्तिनां
नीलपीतादीनामपारमार्थिकं त्वं (१६८) नाम
सम्प्रतिसत्यत्वमुत्त्येताम् । तथा एषां नीलपीतादीनां कारणरूपा
या वासना सावासना ——————————– र्थ्यविरहिता लक्षणस्या
वस्तुनः स्वयमसतः नीलपीतादि कार्य सम्पादन प्राणित
सामर्थ्यात्मक स्वभावानुपपत्तेः वासनाया वस्तुसत्ताया ————-
——————- नाङ्गीकर्तव्यत्वेन स्थिते नीलपीताद्या
भासकारणत्वेनेष्यन्ते या एत ——————————– रूपं सम्प्रति
सत् । तर्हि तेन सम्प्रतिसत्वेन रूपेण नीलपीतादिकार्य
सम्पादनात्मकारणतानुपपत्तिः ।

अथासां वासनानां येन रूपेण पारमार्थिकता तेन रूपेण
कारणतेति चेत् तर्हितद्रूप ——————————– बोधस्येत्युक्तनीत्या
तच्चाभिन्नभिति नीलपीताद्या भास रूपस्य कार्य भेदस्यानुपपत्तिः ।
वासनानां ज्ञानमात्ररूपत्वात् । अविचित्रत्वे एकत्वे तद्वासना
प्रबोधोऽविचित्र इति का प्रत्याशा ।

भवन्तु वासना भिन्ना इत्या——- पोक्तिः । तथापि तु वासनानां
नानात्वेऽप्यङ्गी

प्। १३३) क्रियमाणेऽपि ज्ञानमात्रव्यतिरिक्तस्य
देशकालाकारादेरभावात् देशकालादि च ज्ञानान्तर्गतत्वात् ज्ञान—
——– व्यतिरिक्तं किञ्चिद्देशादि नास्तीत्यर्थः ।

भवन्मते वासना प्रबोधकत्वेनाभिमतस्य
देशकालादेर्ज्ञानैकरूपत्वाद्वासना प्रबोधा अविचित्रा इत्येक एव
वासना प्रबोध इति नीलपीतादिकारण भूतस्य वासना प्रबोधस्य
स्वात्मन्येकत्वात् तस्मिन्नुदीयमाने सति नीलपीतादि वैचित्र्यं युगपदेव
भासेतेति पूर्वोक्तविषय साङ्कर्य प्रसङ्गः ।

अथ चैत्रमैत्रादेर्निजनिजसन्तानवर्तीनि विचित्राणि प्रबोधान्तराणि
वासनाप्रबोधकारणानीति चेत् ——————————– सत् कथमिति चेत्
स्वसन्तानवर्तिनः (१६९) सुखदुःख
नीलपीतपूर्वापरादिदेशकालभेदस्य
ज्ञानरूपत्वेऽन्तःकरणविषयसुखदुःआदिबोधस्य
बहिष्करणविषयनीलपीतादिबोधस्य च
तत्सुखदुःखनीलपीतविशेषणभूतपूर्वा देशकालस्य च
विज्ञानैकरूपत्वे विज्ञानस्य प्रकाशमात्र परमार्थतया
स्वरूपभेदा सम्भवे विज्ञानस्यापि एकबोधात्मकत्वात्
स्वतन्त्रानुवर्तिन्यापि सुखदुःआदिबोधान्तराण्यापि वासना
प्रबोधकारणानीत्यापतितम् । परप्रमातृरूपेषु चत्रसन्तानाद्यन्य
प्रमातृरूपेषु अत एव मैत्रसन्तानाद्यन्यतम प्रमातृरूपेषु अथ एव
मैत्रसन्तानान्तर शब्दवाच्येष्वपि तुल्योऽयमवैलक्षणयप्रकारः ।
अवै लक्षण्य प्रकारो नामैकरूपबोधान्यत्वानुपपत्तिः । तत्रापि
प्रमातृरूपेषु बोधान्तरेष्वापि परकीयत्वेनाभिमतानां
कृशस्थूलादिदेहश्वासप्रश्वासादि
प्राणसुखदुःखादिधीगुणानां संविन्मात्ररूपाभेदे
अणुमात्राभिमतं परत्वं कस्येति न विद्मः । अणुमात्रमपि परत्वं
नास्तीत्यर्थः । तत् कायादि निष्ठस्य बोधस्य परत्वमिति चेत् । सबोधः
प्रत्यक्ष प्रमाणेन यदि न सिद्धः तर्ह्यसन्नेव प्रत्यक्ष प्रमाणेन
घटवत् प्रमेयतया सिद्धश्चेत् जड एव प्रमेयतया जडवत् सिद्धोऽपि
कार्य घटादिर्यथाज्ञान सद्भावमात्रस्वभावः तथाबोधेऽपि
ज्ञानसद्भाव मात्र स्वभाव इति तत्तज्ज्ञान प्रत्येयस्याहं प्रतीति
रूपस्य बोधस्याभावात् परत्वं कस्येति न विद्मः । तस्य
कायादिनिष्ठस्य बोधस्य प्रकाशैकरूपत्वे परं प्रत्यसिद्धिः
स्वप्रकाशे चैत्रमैत्रादि प्रमातृगतप्रमाण व्यापारा सम्भवात् ।

प्। १३४) एवं कायादिनिष्ठस्य बोधस्य परत्वं न युक्तमित्युक्तत्वात्
कायादिप्रमातृगत माया व्यवहारा व्यवहारादि
क्रिययानुमेयात्मनः समीहाया एव परत्वमित्याशङ्कते - (१७०)
नन्वित्यादिना । व्यवहरामि इच्छामीत्यादि क्रिया मैत्रस्य स्वात्मनि
व्यवहारेयमित्येवं रूपयेच्छया क्रियाया हेतुभावेन स्थितया
व्याप्तादृष्टा । अतः व्याप्तेर्दृष्टत्वात् चैत्र कायेऽपि तया व्यवहारादि
क्रियया तद्धेतु तया व्याहरेयमित्येवं रूपेच्छा हेतु ———————-
– मैत्रसन्ततिपतिता समहा नास्तीति मैत्रसन्ततेः स्वानुभवेननिश्चितम् ।
ततश्च निश्चितत्वात् चैत्र कायेऽपि व्यवहारादि क्रियाहेतु भूता परस्या
स्मद्व्यतिरिक्त चैत्रस्य समीहा सिध्यति । तदेव सन्ताना न्तरमिति
व्यवहार ——————————– सन्तानान्तरमिति चेत् । अत्रोच्यते ।
स्वव्यवहारक्रियया स्वसमीहामनुमातुश्चैत्रस्य व्यवहाराभासो
द्विधा भवति । कथमिति चेत् स्व व्याहार स्वसमीहययोरन्योन्या
विनाभावात्मक व्याप्तिग्रहणकाले अहं व्याहर —————————–
— वसर इति कारणेऽप्रत्यक्षे तत्कार्येण तदनुमान कल्पनावसरे
आभासः व्याहरत्ययं चैत्र इति विच्छेद जीवितोभातीति विच्छिन्नाभासं
व्याहरामीत्यविच्छिन्नाभासा इतिरिक्त इति व्याप्तिग्रहणकाले अहं
व्याहरामीत्येवं रूपस्य व्याहाराभासस्य हेतुभूता व्याहरेयमिति
समीहा । इदानीमिति व्याहरतीत्याभास हेतु ——————————–
परसमीहानुमाना वसरे कथं हेतुः स्यात् । चैत्रे
व्याहरतीत्याभासस्य हेतुः । अनुमात्राविदित इति । तत इति
व्याहरतीत्याभात् तस्यहेतुः समीहा कथमनुमीयेत् ।
व्याहरामीत्याभास हेतु भूतया परसमीहया
सहव्याहरतीत्याभासस्य कार्यकारणभावोऽपि नास्तीत्याह किं चे
त्यादिना । व्याहरामीत्याभासेन व्याहरेयमित्येवं
रूपासमीहानुमातरि प्रमात्रन्तरे वर्तमानः व्याहरतीत्ययमिति (१७१)
विच्छिन्ना भासः कथं परसमीहायाः कार्यं स्यात् । नतु
मैत्रनिष्ठो व्याहरतीत्याभासः चैत्रनिष्ठसमीहायाः कार्यं न
भवतीत्यर्थः । य आभासः व्याहरतीत्यविच्छेद जीवितः तस्या हि
परसमी हाया व्याहरामीत्यविच्छेदजीवित आभासः
व्याहरमीत्यविच्छेदमयस्या भासस्य व्याहरतीति । विच्छेदमय
आभासः

प्। १३५) कार्य मिति न युक्तम् । चैत्रोऽहं व्याहरामीत्यविच्छिन्नात्
कारणात् व्याहरतीति विच्छिन्ना भासं कार्यं जायत इति एवं भूत
कार्य कारण भाव ग्रहणोपायः भावात्
व्याहरतीत्याभासानन्तरं व्याहरतीत्याभासस्या दर्शनात्
हीत्यनुमातृसम्मतस्य प्रमातुः स्वात्मनि
व्याहरामीतियोऽयमविच्छिन्ना भासः अनुमेयसम्मते प्रमातरि
व्याहरतीति विच्छिन्नाभासं जनयतीति केनचित् प्रमाणेन सिद्धं न
भवति । प्रत्यक्षेणवानुमानेन वा न सिद्धम् । प्रमाणेन सिद्धं चेत्
अन्योन्याश्रयात्मकं दूषणं भव ——————————–

अत्र द्विपुट परिमितो ग्रन्थपातः ॥  

मभ्युपगम्यैकोऽर्थः । किञ्चास्माभिश्चिदात्मैवहीत्यादिना त्रय —–
————————— ष्यतेत दाप्यस्तीत्यन्योऽर्थः । भवताभ्य्पगतेषु
बोधलग्नेषु प्र्तिबिम्बाभासेषु हानादानादि व्यवहारे परिसमाप्ते सति
प्रकाशाद्बाह्ये ——————————– भासेभ्योऽन्येन प्रत्यक्ष
प्रमाण गोचरत्वा भावात् तत्पृष्ठपातिनानुमानस्यात्यगोचरेण अत
एवोपपत्तिशून्येन किं प्रयोजनं न किमप्यस्तीत्यर्थः । स्यादेतदिति ।
पूर्वोक्तसम्भावनामभ्युपगम्य व्याख्यायते चेत् तर्हि किञ्चि ———-
———————- नाशैथिल्य विषयं सम्भावनान्तरं चिदात्मैव
हीत्यादिना वक्ष्यमाण प्रकारेणदर्श्यत इति (१७२) व्याख्येयम् ।
श्लोकमध्ये किन्त्वित्याध्यारोहोन संह्येते चेत् तदास्यादेतदिति इदमपि
सम्भावनान्तरं स्यात् । यत्सम्भावनान्तर ——————————–
नकिञ्चिदात्मैव हीत्यादिना एकवाक्यतया योज्यम् । बाह्यस्यार्थस्य
स्वत एवासिद्धत्वेऽप्यस्तीति क्लिष्टकल्पनया बाह्यार्थान् प्रसाधयता
भवतातैर्बाह्यार्थैर्नकिञ्चिद्धानादानादिप्रयोजनं नास्ति ।
भवताभ्पगतैर्बोधलग्नैः प्रतिबिम्बाभासैः हानादानादि
व्यवहारसिद्धेर्नित्यानुमेयेन बिम्बरूपेणार्थेन
हानादानादिव्यवहारः कश्चिन्नास्तीति प्रकाशाद् बाह्येन तेन किं
प्रयोजनम् । यत्रेति प्रकाशाद्बाह्यार्थ अयमग्निः इत्यग्न्यादि
पदार्थसाधकं प्रत्यक्षमयमग्निमान् पर्वतः
धूमवत्वादित्यग्न्यादि साधक मनुमानं च प्रमाणं नास्तीति न
केवलं साधक प्रमाणा भाव मात्र एव । बाधकं चास्तीत्याह - तत्
किमिति चेत् भवदुक्तस्यार्थस्यप्रकाशात्

प्। १३६) बाह्यार्थेत्वङ्गी क्रियमाणे सत्यनुमेयतथापि
प्रकाशनाभाव इति एतन्मुख्यं बाधकं बाह्यस्यार्थस्य स्वत
एवासिद्धत्वादभ्युच्चय बाधका इति
प्रकाशाद्बाह्योऽर्थोऽस्तीत्यङ्गीकृत्यापि बाधकानि प्रमाणानि
दर्शयतिभ ————–र्थस्य —————— द्यवयवत्वेऽङ्गी कृते सति
तस्य करचरणाद्यवयवेष्वनु वृत्तिः जडत्वात् अवयविनः अवयवेषु
समवायासिद्धिः जडत्वादेव समवेतत्वं नास्तीत्यर्थः । देवदत्तस्य
हस्ते चलति अन्येष्ववयवेषु अचलत्सु तस्य देवदत्तस्य——- तं पद्मकपि -
———– चल ————- त्सकं प ——————– कम्परूप रूपत्वं न
टत एव देवदत्तस्य शिरसि आवृते सति अन्येष्व नावृतेषु
पूर्ववादावरणानावरणत्मक विरुद्धधर्मयोगः देवदत्तस्यै
कस्मिन्नङ्गेरक्ते अन्येष्वरक्तेषु (१७३) तस्य ————————–
रक्तारक्तात्मक विरुद्ध धर्मयोगः एकदेशेस्थितस्य देवदत्तस्यैको
हस्तो दक्षिणदिग्भागगः अपर उत्तर दिग्भाग इत्यन्यो
न्यभिन्नदक्षिणोत्तर दिग्भागगा व्यापकात्मक विरुद्धधर्मयोगः
इत्याद ————————– ————————– पः अनुमेयः
कश्चिदर्थोऽस्तीति बाह्यार्थवादिनं खणुयित्वा
नैयायिकाभिमतनिखयवमणुसञ्चयात्मकं बाह्यार्थं
इषथितुमाह - अणुसञ्चयबाह्यवादेत्यादिना । अणूनामव्यतिरेकेण
सञ्चय इत्यन्यस्य कस्यचिद्वस्तुनो भावेपरमाण व एव एव शिष्यन्ते ते
परमाणवः एकं परमाणुं मध्ये संस्थाप्य तस्मिन्निरन्तरतया
संयुज्यन्तेचेत् तस्मिन् परमाणौ तेषामणूनां संयोजनं
दिङ्नागभेदादेव भवति । दिङ्नागभेदमेवाह - प्रागदिचतुर्दिक्षु
ऊर्ध्वाधो रूपयोर्दिशोश्च सञ्चीयमाणेषु षट्स्वणौषु तेषां
मध्यगतस्य परमाणोः यस्मिन्न् प्रदेशे एकः परमानुर्लग्नो भवति
तत्रैव प्रदेशे अपरोऽपि ला लग्नश्चेत् तस्य मध्यगतस्य
परमाणोर्निखयत्वात् षण्णामणूनां ———– गतैक परमाणुता
नह्येकेनैव परमाणुना प्रपञ्चसृष्टिर्नभवति । तस्य
दूषणान्तरमाह - अन्यथेत्यादिना । एकः परमाणुर्मध्यगतस्य
परमाणोरे———————- लग्नः, अचोऽन्यत्र प्रदेशे लग्नन्तीति चेत् अस्य
मध्य गतस्य परमाणोर्निरंशत्वेऽपि अंशभेद प्राप्तिः निरंशस्य
मध्यगस्य परमाणोरम्श एव परमार्थासन् मध्यगः परमाणु
पञ्चकमेवावशिष्टम् । एवं परमाणु (पञ्च) कं चतुष्कं भवति ।

प्। १३७) चतुष्कं त्रिकं तद्द्विकं तदेकमेवेति परमाण्वा रब्ध
प्रपञ्चात्मकं (१७४) बाह्यं वस्तु तत्वतो न किञ्चिदवशिष्यते ।
मूर्तानां परमाणूनामेक संयोगे मध्यगस्य परमाणो रेक
प्रदेश लग्नत्वा योगात् । अत एव भिन्नभिन्न देश प्रदेश योग्यत्वा
दन्योन्यविश्लेषान्मध्यगपरमाणुनिष्ठं द्व्यणुकं नाम कार्य
द्रव्यं भवति । तेभ्य एव विधेभ्यस्त्रिभ्यो मध्यग निष्ठेभ्यो
द्व्यणुकेभ्यो महत् पृथिव्यादिकार्यमित्येतद्भवता न वाच्यम् ।
अपसिद्धान्त एव । पतित इत्याह - अवयविवाद इत्यादिना । स चावयविवादः
पूर्वमेवबाधितः । किञ्चमूर्तानामेकदेशत्वा योगादित्यणूनां
मध्यग परमाणुसंयोगे अव्याप्यवृत्तित्वम्, यच्चोच्यते तदव्याप्य
वृत्तित्वं निरंशे मध्यग परमाणौ कथं सं गच्छतां
निरंशत्वात् । तत्राणूनां वर्तमानमेवनयुक्तम् । मध्यगस्य
परमाणोः स्वाश्रये स्वस्वरूपे यद्यन्यः समवैति तत्तर्हि अस्य
मध्यगस्य परमाणोरवशिष्टं वपुः किमन्यत् प्रविष्टः परमाणुः
मध्यगस्य परमाणोर्यद्वपुर्न व्याप्नुयात् सर्वं ते नैव
व्याप्तमित्यर्थः । एष परमाणु स्वणुन वादोऽप्यभ्युच्चयबाधकः
अस्मिन्नभ्युच्चय वादेऽस्माभिर्भरो न कृतः । आचार्येण
शङ्करनन्दनेन स्वकृते प्रज्ञालङ्कारे एतदभ्युच्चय बाधकं
प्रमाणं विस्तरेण प्रदर्शितम् । प्रकाशाद्भेदे अनुमेयतयापि
बाह्यार्थस्य प्रकाशनाभाव इति भवदुक्तं मुख्यत्वेनभिमतं
बाधकप्रमाणम् । तथा वयविनो वृत्त्येनुपपत्तिरित्याद्यभ्युच्चय
बाधकं च तत्तदाकस्मिकाभासात्मक साधक प्रमाण सिद्धे बाह्ये
वस्तुनि न किञ्चित् कर्तुं समर्थं तेनैवाकस्मिकाभासात्मना दृढेन
प्रमाणेन बाधितस्य भवत् ————————– स्य प्रमाणस्या
प्रमाणत्वं सम्माणं दर्शितं तत्तदाकस्मिकाभास इति
कारिकयेत्याशङ्क्याह (१७५) चिदात्मा देव एवान्तः स्थित ——————–
—— रूपादानं प्रकाशयेद्धियतस्वतः किम्बाह्येनानुपपत्तिनेति
पूर्वश्लोकेन सम्बन्धः । स्वप्नस्मरणमनोराज्यसङ्कल्पादिषु
संविदोन प्रकाशबाह्येन बोधेस्वप्रतिबिम्बसमर्पकेण बिम्बे ———-
—————- सत इत्यस्त्येव सम्भवः । तथापि स्वप्नादौ
प्रतिभासमानं नीलादिवैचित्र्यं पश्चाज्जाग्रदवस्थायां
स्थैर्यभावात् स्वप्नवत् एव

प्। १३८) दृश्यत्वात् स्मरणादौ प्रकाशमानस्य
पूर्वानुभवसंस्कारजत्व सम्भावना ———————— त्वा
भावादवस्त्वित्याशङ्क्येत । सर्ववादि सम्पन्नं योगिनाम्मिच्छा
मात्रेण पुरसेनादिवैचित्र्यं दृष्टम् । तत्र योगिनिर्माणे लोक प्रसिद्ध
मृदाद्यात्मकमुपादानं न सम्भवत्येवं सर्वगत ——————–
—— परमाणवो योगीच्छया झटिति सङ्घटिताः कार्यमारप्स्यन्त
इत्येवमपि वक्तुं न शक्यम् । एतदिति । सर्वगताः परमाणवो
योगीच्छया झटिति सङ्घटिताः कार्यमारप्स्यन्त इत्येतल्लोक प्रसिद्ध
परमाण्वात्मक कारणभावानतिक्रम सिद्धये निरूप्यतो
परमाणुभ्य एव स्थूलं घटादि जायत इति एतल्लोके प्रसिद्धं न
भवति । किन्तु कपालशिबिकस्तूबक व्यवधाने न जायते । परमाणून्
व्यवधाय कपालं जायते । तद्व्यवधानेन शिबिकं जायते ।
तद्व्यवधानेन स्तूबकः तद्व्यवधानेन घटो जायत इति । तत्रापि
कपालादि व्यवधानेन घटादौ जायमानेऽपि नियत जलाग्नि सहकारि
समवलम्बनं करचरणादि व्यापारश्चोचितदेशकाल
पूर्वकर्मेन्दिर्य सामक्ष्य योगाश्चिस्काल शिक्षाभ्यास प्रकर्ष इति इयति
वस्तुनि चाश्रीयमाणे योगी कुम्भं निर्मातुं मिच्छुः कुम्भकारस्य
या प्रसिद्धा सामग्री तदा ज्ञान पुरस्सरं घटं घटयंश्चेत्
योगी कुम्भाक एव स्यात् योगिनो योगित्वं नास्तीत्यापतितम् । तस्मात्
प्रसिद्धं मृदादिकारणोल्लङ्घनो योगिनः (१७६) असं चेत्यमाना
दृश्यमान परमाण्वाद्युपादानकारणान्तरचिन्तया, किं तत्र
पुरसेनादि निर्माण योगी संविद एवोपादानादि निरपेक्षा शक्तिरस्ति ।
घट भासाद्याभास वैचित्र्यरूपमर्थजातं प्रकाशयतीति
यदेषायोगिनो निर्माणशक्तिः कस्माद्योगिनिर्माणदृष्टान्ता दङ्गीकृत
सृष्टयादि प्रपञ्च कृत्यात्मक स्वातन्न्त्र्या सतीपराभट्टारिका
अप्रतिघात लक्षणादिच्छा विश्ष वशान्निर्मीयमाणस्य
संविदात्मतामनपहायान्तः संविदात्मस्थितमेवसद्भावजातं
विकीर्ण कियन्मात्र संविद्रूपात् प्राणबुद्धिदेहादेः इदं प्रमातुः
इदमिति बाह्यत्वेनावभासयः तीति यत्तदस्थि सम्भवः तत् तस्मात्
विश्वरूपाभासवैचित्र्ये चिदात्मनो देवस्यैव स्वानुभवसिद्धं
स्वातन्त्र्यं किं नाङ्गी क्रियते । किमिति बाह्यहेत्वन्तरपर्येषण
प्रयासेन विद्यते । चिदात्मैवेत्येव कारेणेदमाह - सर्वेण वादिना
अयं घटः अयं पट इति घटपटादिव्यवस्थानमनपह्ववनीयं
तत्संविद्रूपमादिसिद्धं घटपटादिरूपाद्विषयात् पूर्वमेव
सिद्धं घट पटादि रूपात् विषयात्
पूर्वमेवसिद्धपित्यानफ्ववनीयत्वेन मुक्तं

प्। १३९) तस्य संविद्रूपस्य विश्वक्रीडादि कर्तृभूतेन देवशब्देन
चिद्रूपात्मकं स्वातन्त्र्यमेव निर्दिष्टमाचार्येण किं परस्य
बाह्यकरणान्वेषणस्यसनितया । तस्मात् चिदात्मा देव एव । एवं
विश्वं भावयतीति सम्भाव्यते यस्मात्तस्मात् किं बाह्येनानुवर्तिनेति
पूर्वेण सम्बन्धः । उभयथेति । बाह्यार्थवादिसिद्धान्त
प्रतिपादकाचिदात्मैवहीतिकारिकोक्त प्रकारेण च
सम्भावनानुमानमुन्मिषति । तत्रोभय प्रकारेण
सम्भावनामनुमान ————————– षति सति मुकुरे प्रतिबिम्बित
घटादि दृष्टान्तत्वेनावलम्ब्य बोध प्रतिबिम्बिताभास वैचित्र्यं
बोधदर्पणातिरिक्तम् । अत एव बाह्याभिमतं नीलपीतादिकं बोध
वैचित्र्याभासे हेतुं कल्पयेम । (१७७) अथ वा निरु————————–
वलम्ब्य विश्ववैचित्र्याभासे बोधस्य विश्वात्मना वैचित्र्याभासे
स्वातन्त्र्यमेव हेतुं स्तुमः । तदिदं सम्भावनानुमानं सां
शयिकं संशयास्पदं वतत इति परिहासपूर्वमाशङ्क्य प्रथमं
स ————————– मान सम्भावनां सूत्रद्वयेनापकर्तुमाह -
अनुमानमनाभातपूर्वे अदृष्टचरेकैश्चिदति वादिभिर्नेष्टमेव
नेष्यत एवेति वर्तमानार्थे पर्यवस्यति ।
अनुमानस्यानाभातपूर्ववस्तुनि अविरतमिष्य ————————–
र्वमेव तस्मिन् कथं घट इत्याशङ्क्य परिहर्तुमाह -
इन्द्रियमपीत्यादिना बीजदेर्हेतुवस्तुनः अङ्कुरादि कार्योपलब्ध्या
आभासात् प्रकाशात् नित्यानुमेयत्वादनाभातमपि रूपाद्युपलब्ध्या
आभातमेवेन्द्रियं तु भवत् ————————– ह्यम्न भवति ।
आभासात् प्रकाशात् बाह्यस्य अत एवा प्रकाशमानस्यार्थस्याभासः
प्रकाशः कथञ्चेनति प्रत्यक्षात्मना अनुमानात्मना वा नाभूत्
अदृष्टपूर्व एव । ते नैतदिति - तस्मात् प्रकाशात् बाह्यस्य ——————–
—— वात् प्रत्यक्ष पृष्ठपातिनोऽनुमानतोऽपि सिद्धिर्नास्ति । अनुमानत
स्सिद्धिश्चेत् सोऽर्थः प्रकाशान्तर्भूत एव भवतीति भवदुक्तोऽपि
बाह्यार्थः अवाह्यरूपः प्रकाश एवापतितो भवतीत्यपसिद्धान्तः ।

एतत्पूर्वमेवोक्तं प्रकाशात्मा प्रकाशोऽर्थो नाप्रकाशस्य
सिद्ध्यति इति । अनन्तर इति । चिदात्मैव
हीत्यनन्तरश्लोकनिर्दिष्टाभिर्युक्तिभिर्भवदुक्तं प्रकाशात् केवलं
प्रत्यक्षे नाभासत इति न प्रत्यक्ष स्वरूपमेवाह - नीलं भातीति

प्। १४०) यत् इदमेव हि प्रत्यक्षं तन्नीलाभावं
प्रकाशसंविन्मात्ररूपं संविदेवस्वातन्त्र्येण नीलात्मना
भासनात् नाधिकमिति तन्नीलभानं प्रकाशसंविन्मात्रादधिकं न
भवति । बाह्यार्थस्य । एवं प्रत्यक्षेणा भासनाभावात्
प्रत्यक्षपृष्ठपातिनानुमानेनापि (१७८) न सिद्धिरित्यपिशब्दस्यार्थः ।
तत्र बाह्येऽर्थेऽनुमान मात्रमिति प्रत्यक्षविनाकृतमनुमानमात्रं
नैव प्रवर्तितमुत्सहतेऽर्थेऽनुमानमात्रप्रवृत्तं चेत् अनुमानस्य
प्रकाशमानवस्तुपातित्वात् तत्प्रकाशाद्बाह्यत्वेनाभिमतं
नीलपीतादिक्रममपि अनुभूयमान (वस्तुपातित्वात्
तत्प्रकाशाद्बाह्यत्वेनाभिमतं नीलपीतादिक्रममपि अनुभूयमान)
विषयभूतत्वात् प्रकाशमानमेव भवतीति तस्य नीलपीतादेः
प्रकृतसिद्धितः बाह्यत्व सिद्धिं न सम्पादयेदित । अनेन श्लोकद्वयेन
दृश्यत इयं पिण्डितार्थः । अत्रेति बाह्ये ————————–
र्तमानत्वेनाभिमतमनुमानमनुमातृरूपस्य
प्रमातुर्विकल्पव्यापारः । अनुभाविनो विकल्पाः सर्वे अनुभवमूलाः ।
यथोक्तं पूर्वमेव -

ननु स्वलक्षणाभासं ज्ञानमेकं परं पुनः ।

साभिलापं विकल्पाख्यम् । इत्यादि । तेनेति । अनुभव —————
सिद्धत्वेन यद्वस्तु
पूर्वमनाभातपूर्वमप्रकाशमानत्वादननुभूतचरम्,
तस्मिन्ननुभूत चरे वस्तुनि । अनुमानं नामानुमातुर्विकल्प
ज्ञानात्मानुमिति व्यापारः केनचिच्चार्वाकादिना नेष्यते । अग्न्यादिवत्
प्रत्यक्षप्रमाण ————————– वस्तुनि इयं भवदुक्ता सङ्कथा
व्यवहारः भवतु घटताम् । अस्य कार्यस्यकारणभूतं किमत्यस्तीति
स्वयमदृश्यमाने तत्कार्योपलब्ध्या समान्यतो दृष्टे किं वक्ष्यसि
अर्थोपलब्ध्या सामान्यतो दृष्टेन्द्रिये रूपोपलब्ध्या यथानुमानं
प्रवर्ततेतद्वात् सामान्यतो दृष्टेवस्तुनि प्रवर्तमानमनुमानं प्रति
किं वक्ष्यसि इत्याशङ्का परिहरति उच्यत इत्यादिना ।
तथापीन्द्रियानुमानेनानुमानात्मना विकल्पेनेन्द्रियरूपोऽर्थः
यथा स्पृश्यते तं नानुमाने ————————– नात्मविकल्प
स्पर्शप्रकारेणैवानुमेय इति स्थितिः निश्चयः ।
अनुमानादिर्विकल्पश्चेन्द्रियादिमयमर्थं सन्निवेश विशेषादिना
आकारवर्णस्थूलादिना तेन चिद्विशेषरूपेण नस्पृशति अपितु
रूपादिवस्तूप ————————– किमपि कारणमस्तीत्येवं भूतेन
स्वभावेन

प्। १४१) (१७९) कारणतालक्षणेन्द्रिय स्वभावः रूपादिप्रत्यक्ष ———–
————— एव । तथा चेति । दृष्टपूर्वे बीजादिवस्तुन्यपि बीजादङ्कुरः
तन्तुभ्यः पट इत्यादौ बीजाङ्कुर तन्तुपटादि प्रवर्तमानः अङ्कुरः –
———————— प्रत्यक्षबलेन बीजादेरनुपलम्भबलेनाप्रत्यक्ष
बलेनैतावन्निश्चेतु ————————– पि कार्य कारणभावे निश्चेये
सत्यक्ष प्रमाणस्य विशेषमाह - तत्प्रत्यक्षं
स्वविषयीभूतस्याङ्कुर घटादेरुच्छून ————————–
काञ्चनत्वलोहितत्वाद्याभासं प्रामाण्यं भजते । तेन —————–
——— नोच्छूनत्वादिनाभासेन प्रमातु हर्षाद्यर्थ क्रियाकरणात्
कथमिति चेदाह - विमर्शलक्षणस्य विमृष्ष्टुर्विमर्शलक्षण ————
————– प्रमाण प्राणभूतस्य प्रमिति व्यापारस्यो च्छूनं
दीर्घं काञ्चनं लोहितमित्येकैकशब्दवाच्ये उच्छूनाद्यर्थे
विश्रान्तेः । तस्मात् प्रत्यक्षं प्रत्याभासं प्रमाण्यं भाज———-
—————- र्वणसम्बन्धः प्रमाणस्यैकैकशब्दवाच्य विश्रान्त
प्रमिति व्यापार ————————– भिधाना विषये मतिर्वस्तुनीत्यात्र
काञ्चनाद्याभासाः सामान्यमात्रमिति देशकालाविशिष्टम् । अत एव
सर्वानुभू ————————– सामान्यमात्रमिति निर्णेष्यते ।
सोऽन्तस्तथा विमर्शात्मा देशकालाद्यमेदन ————————–
पूर्वार्धेऽङ्कुराद्यवस्था परिग्रहे
तस्यबीजादेरनुपलम्भोऽप्यन्योपलम्भरूपः अङ्कुराद्युपलम्भ —–
——————— समात्रे बीजादङ्कुर इति प्रतीतौ बीजादिकारणाभासः ।
दीर्घस्थूलतादिविशेषशून्यः परिगृहीत एव । यद्वस्तुयेनाव्यतिरिक्तं
यस्य नियममेतस्मादेव भवति । एतेन विना भावतीति एवं रूपः
नियममनुविधत्त एव नियमानु (१८०) विधायितद्वस्तु तस्याः
कार्यमनुविधत्ते प्रतिघटं मृत्तिकादिरूपस्य हेतोः तद्वतः
हेतुमतोः घटस्य चाभासात् यद्यस्य नियममनुविधत्ते ततस्यैव
कार्यमिति पूर्वेण पृथुबुध्नोदरकालेवस्तुनिकारणभूतायामृदः
कार्यरूपं घटश्चाभासते । तद्वदङ्कुरादौ बीजाद्याभासोऽस्त्येव
। तस्मात् यथार्थोपलब्ध्येन्द्रियानुमान इति भवदुक्तो दृष्टान्तो न
समञ्जस एव स्य प्रकाशान्तर्भावात् भवदुक्तस्यार्थस्य प्रकाश
बाह्यत्वाच्च । नाभासात् प्रकाशात् बाह्यम् । अत एवानाभासम् ।
अप्रकाशे यः स चावभासते प्रकाशत इति विप्रतिषिद्धम् । अनाभाते (ट्प्।
१४२) अप्रकाशात् बाह्ये वस्तुनि —————— पातिनः
विकल्परूपस्यानुमानस्य व्यापारं ग्रामगृहादेर्बाह्यं यद्वस्तु
तदग्राममगृहमित्यादिरूपेण नोच्यते । अग्रामादि रूपेणोच्यते चेत्
ग्राम —————— न्तर्वर्तिनोऽपि —————— —————— —————
— ग्राम बाह्य माभासबाह्यमिति शब्द वैचित्र्यमात्रमेतत् ।
शब्दभेद एव ग्रामाद्बाह्यस्य वस्तुनोऽस्तित्वात् प्र —————— ———
——— —————— रूपत्वादन्यस्य प्रकाशरूपत्वात् केवलं
भवतामेवानुमानविकल्पो बाह्य उत्पन्नः विकल्पे वस्तु —————— –
—————- ना विकल्पा इत्युक्त नीत्यानुमानविकल्पस्यार्थास्पर्शित्वात् ।
अस्माभिस्तु शिवादिक्षित्यन्तस्य विश्वस्य प्रमा—————— —————–

  • त्वेचावसायस्येत्यत्र सूत्रे उपपादितम् । तेनेति । अनाभाते
    प्रकाशाद्बाह्ये वस्तुन्यनुमान व्यापारा —————— —————— -
    —————– (१८१) —————— कल्पेनानुमित एव स्यात् ।
    अथानुमानविकल्पेनाविष्टश्चेत् सबाह्यार्थः प्रकाशमानस्वभाव
    एवेति —————— —————— मानीयते तदेव प्रमाणं तस्यार्थस्य
    प्रत्युता बाह्यमेव प्रसाधयतीति विरुद्धमेव भवदुक्तिरेव भव ——
    ———— त —————— —————— —————— त्मनावा
    प्रकारेण भासन बाह्यस्य अत एवानाभासस्यार्थस्या भासं
    नाभूदिति । तस्मात् बाह्यस्य —————— —————— —————— —
    ————— —————— स्थितं विश्वमिच्छया माया प्रमातॄन् प्रति
    बहिः प्रकाशयेदित्युक्तम् । तस्य विश्वस्य तस्मिंश्चिदात्मनि देवेऽन्तः
    स्थित —————— —————— —————— —————— —————–
  • स्थस्य संविन्मयस्वरूपे सम्यक् तदैक्येन स्थितस्य भाबजातस्य
    भासन मस्त्येव । तस्मादात्म संस्थात् भाव —————— ————–
    —- शरूपविमर्श स्वभावः स्वभावभूः इच्छारूपो विमर्श
    एषणीयं विमृश्यमन्तः कृत्यैव वर्तते । एवं भूतविमश ————-
    —– —————— त्रपेक्षक्षेदिदमिति बहीरूपतयाऽप्या भासने
    प्रकाशनेऽपि अन्तारूपता अहन्तारूपता नत्रुट्यति विश्व स —————–
  • —————— —————— तच्चान्तर्यं सदैव बहिः
    प्रकाशनेऽस्त्येव । आत्मानमत एवायं (ट्प्। १४३) इति वक्ष्यमाणनीत्या
    तत्प्रभावजात प्रक —————— —————— तया प्रकाशते । अन्ता
    रूपेण न त्रुट्यतीति पूर्वेण सम्बन्धः । प्रमात्रात्मतया
    प्रकाशमाने तस्मिन् भावजात —————— —————— या
    प्रकाशमानस्य बाह्यस्यापरमार्थत्वात् इहेत्यस्मिन् भावजातेऽन्तः
    स्थितत्वं नाम अहमिति चित् समुचित् स —————— —————— ————
    —— दास्त्येव । तदेषणीय विषयः इच्छारूपं परामर्शः न स्यात् ।
    यदि कुम्भकारस्याहं घटं करवाणीति अन—————— —————
    — —————— —————— —————— नियन्त्रितश्चेत् तर्हितस्मात्
    घटानियन्त्रितेच्छाकस्मात् पटेच्छा न भवेदिति घट
    पटादिव्यवहाराः सङ्कीर्य्रन् । घटेच्छा घटनियन्त्रिता इत्यादि
    व्यवहाराः सङ्कीर्येरन् ।

अथ तत्रापि घटं करवाणीतीच्छायामप्येषणीयः स
घटस्तदानामेवेच्छामय एवान्तः कारणनिर्मितः सन् तथाजातः
एषणीयो जातः तेन नियन्त्रिता करवाणीति च्चेतिचेत् । तन्निर्माणमिति । तस्य
घटस्य तदनीमेव निर्माणं स्वेच्छा गृहीत कुम्भकारभूमिके
चिदात्मनि परमेश्वरे इच्छा विनानोनोपपन्नमिति तिष्ठासे रेव मिच्छैव
हेतुतेत्यत्र वर्णयिष्यते ।

एषणीयं परामृश्यं भावजातं तदिच्छा
परामर्शद्वारेण स्वामिनः सङ्क्रान्तं भवतीति । ————————-
– स्वामिनश्चात्मसंस्थस्य भावजातस्थ भासनम् । इत्युक्त मुक्तमेव
। तदानीन्तरनिर्माणोद्युक्तमिच्छान्तरमपि विषयनियन्त्रितं न वेति
विकल्पे विषयभूते घटेनानियान्न्त्रितश्चेत् । पटादीच्छान्तरमपि न
भवति । इत्यति प्रसङ्गः ।

अथ तदानीमेव निर्माण् तदिच्छान्तरं विषय नियन्त्रितं चेत्
तद्विषयभूतोघटस्तदन्येनेच्छान्तरेण निर्मितः सन् तस्य
पूर्वेच्छान्तरस्य विषयो भवति । एवं भूतं तदपीच्छान्तरं
विषयनियन्त्रितं नवेति विकल्पे अनवस्था । भावजातस्यात्म
संस्थत्वमेव निगमयति - तस्मादित्यादिना । तस्मादिति ।
इच्छारूपपरामर्शद्वारा एषणीयो विमृश्यः सर्वोऽयं भाव
राशिश्चिदात्मनि स्वामिनि अहमित्येव वपुषा सततावभास्वरवपुः ——


प्। १४४) एवमात्मसंस्थं भावजातमैश्वरोरूपात्,
जयैश्वर्यभरोद्वाह देवीमात्र सहायकः ।

इत्युक्त नीत्या पञ्चविध कृत्य कारित्वैश्वर्यरूपस्वातन्त्र्यत्व लक्षणात्
स्वामिभावाद्विश्वोत्कृष्टत्वात् प्रभुत्वात् ————————— श्च
शक्तिमद्रूपात् व्यतिरेकं न वाञ्छति इत्युक्तनीत्या तेन स्वामिनानुत्तर
भट्टारकेणापि युक्ता संवित् पराभट्टारिका एनं शिवादिक्षित्यन्तं
एवराशिं कुम्भकारादि सृष्ट्यपेक्षया क्रमरूपेण योगी सर्वज्ञादि
मृष्टयपेक्षया ————————— हमिदं ग्राह्यामिति वित्तिः
पशोरपीत्युक्तनीत्या मध्ये ग्राहकरूपान्मया प्रमात्रन्योन्यभिन्नात्
सृ।ष्त्या तेषामिदन्तया च तत्राप्यन्योन्य भिन्नया तत्तत्प्रमातृ
भिन्नतया बहिष्करोति । तत्रापीति - प्रमातरि ————————— (१८४)
राभासेऽपि नितम्बिनी नृत्तादौ क्वचिदासे प्रेक्षकान् प्रमातॄनेकी करोति ।
एतावति नृत्तमात्र एव तेषां प्रमातॄणामाभासैकां तत्प्रेक्षक
प्रमातृगतशरीरप्राणबुद्ध्यसुखाधाभास —————————
कस्य शरीरमतरूणमन्यस्य यौवनयुक्तम् । अन्यस्य जराजीर्णम् ।
एकस्य दुर्बलमन्यस्य प्रबलम् । एकस्य बुद्धिः सात्विक गुणयुक्ता
अन्यस्य तामसगुणयुक्ता । एकस्य कलत्रक्षेत्रादिना सुख मन्यस्य
तदभावादसुख मित्येवं रूपस्य ————————— काम् । एक
एवाभेददृष्ट्या भेददृष्ट्या च प्रमातॄणामैक्यरूपं
संयोजनं तत्रापि शरीर प्राणादेरन्योन्यं
भेदाविगलनाद्वियोजनमित्येवं भूतेन नानाविध
संयोजनवियोजनवैचित्र्येण ————————— सृष्टि संहारादिना
प्रपञ्चयति स्फारयति स्थापयति संहरति तिरोदधाति अनुमृह्णाति
पुनरपि सृजति तियविरतप्रपञ्चकृत्येन विश्वं प्रपञ्चयति
स्फारयतीत्यर्थः । सदा सृष्टिस्थिति संहाराणां स्रष्टृत्वात्
सदासृष्टिविनोदायते तेषां सदैवस्थापकत्वात् सदा स्थितिसुखासीने
तेषां संहर्तृत्वात् । सदा तत्सृष्टि स्थिति संहारविषय तृप्ताय अग्ना
वा वाहितमाहितमग्निमयं किं न जायते काष्ठम् । इत्युक्तनीत्या
तत्संहार्थं त्रिभुवनं संहारक्रियाद्वारेण संहर्तरिविश्रान्तम् ।
तेनाहारभूतेन त्रिभुवनेन तृप्तो भवति । सदा परमेश्वरः कल्पना
शतैः सृष्ट्यादिभिस्त्रैलोक्यं पृथिव्यादिपुरुषान्तं
नियत्यादिमायान्तं

प्। १४५) शुद्धविद्यादिशिवान्तं त्रैलोक्यं मुहुर्मुहु रविश्रान्तः
अविरतमविश्रान्तं कल्पयन् सृजन् स्यापयन् संहरन् तिरोदधत्
अनुगृह्णन् कोऽपि वाचामगोचरः हरिहर्यश्व विरिञ्चा अपि यत्र बहिः
प्रतीक्षन्ते इत्युक्त नीत्या हरिब्रह्मादेरप्यगोचरम्, एकः एवं
भूतस्यात्मसदृशान्यतमपुरुषाभावादेकः अद्वितीयः (१८५)
निर्विकल्पः अहं चैत्र एव न मैत्र इत्येवं भूत विकल्परहितत्वात्
परिपूर्णः । अजः जननादि विकाररहितः परमेश्वरो जयति सर्वोत्कर्षेण
वर्तते । एवं सर्वोत्कृष्टत्वेन वर्तमानः
सदापञ्चकृत्यकारीत्ययमंशः संवादः ।

निगमयति - तस्मादीति । भावजातमन्तः स्थितमिति । स्थितं तत्र
हेतुः तेनान्तः स्थितेन भाव जातेन विना स्वामिनो भाव जात (मन्तः
स्थितमिति ) स्याभावाभावजातस्य अभाभाभावजातविषयस्य
स्वामिनः स्वभावता भूतस्य परामर्शस्यायोगात् स्वामिनः
स्वामित्वमेवनघटते । परामर्शः शब्दजीवितत्वाद्विकल्पः । स घट
एव न पट इत्याद्यन्यापोहन विकल्पात्मा परामर्शः
स्वव्यतिरिक्तस्यापोह्यस्या भावात् स्वात्मन एव सर्वात्मकत्वादविकल्प
परिपूर्णमायी यदि कलङ्करहित शुद्धबोधवपुषि भगवति स्वामिनि
कथं स्यादित्याशङ्क्य परामर्श एव बोधरूपस्य प्रकाशस्य
स्वभाव इत्याह - अनेन विमर्शेन विना प्रकाशस्य स्वालक्षण्य
दायिनः प्रकारान्तरात् पराकरोति । अवभासस्य पूर्णबोधरूपस्य
प्रकाशस्य अहं प्रत्यवमर्शोयः इति
वक्ष्यमाणनीत्यामयूरवाहननेन क्षित्यादि
शिवान्तादीक्षान्तवाच्यवाचका ध्वस्वीकारात्मक मगमिति
प्रत्यवमर्शं वह्नेर्दाहिका शक्तिवत् प्रबोधेनापि नाभूतः
श्रीशिवसूत्रागम श्रीमल्लिनीविजयोत्तरादिषु प्रधानावगमेष्वपि
चैतन्यमात्मेति वदता शिवेन

यत्सामरस्यं जगत --------- शक्तिर्मालिनी परा ।  

इति वदता चितिशक्तिरपरिणामिनी तदृशेः कैवल्यं दृष्टा दृशिमात्रमिति
प्रकाशरूपस्यात्मनश्चैतन्य प्रधानतां वदता भगवतानन्तेन

न सोऽस्ति प्र्त्ययो लोके यः शब्दानुगमादृते ।  

(१८६) इत्यादि वदता श्रीमद्भर्तृहरिणा च चैतन्यस्य प्रधानताया
दर्शयितत्वात् विदुरिति बहुवचनोक्तम् । अन्यथेति । प्रकाशस्य
विमर्शस्वभावाभावे स प्रकाशः

प्। १४६) दर्पवत् नैर्मल्यमात्रान्नीलपीताद्यर्थोपरक्तोऽपि नीक्तापीतादि
स्वरूपधार्यपि स्फटिकमुकुर सलिलादि जडसदृशो भवति । यथा
जडस्फटिकः स्वात्मनि प्रतिबिम्बं नीलादिं तत्प्रतिबिम्बधारी ————
—————त्वाद्यथा न जानाति तद्वत् बोधोऽपि निर्विमर्शतया जडश्चेत्
स्वात्मानि प्रतिबिम्बितं प्रपञ्चं स्वञ्च न जानात्येव । यथोक्तम् -

इह खलु परमेश्वरः प्रकाशात्मा प्रकाशश्च
विमर्शस्वभावः । विमर्श्लो हि नाम विश्वाकारेण विश्वप्रकाश ——-
——————–माहमिति स्फुरणम् । निर्विमर्शस्यादनीश्वरो जडश्च
प्रसज्येतेत्यादि ।

स्वच्छोऽपि वेत्तिस्वगतं प्रपञ्चं
स्वञ्च स्वयं न स्फटिकादिरेषः ।

अहं पुनर्वेत्तुमलं प्रपञ्च
मात्मस्थ मात्मानमपि स्वतन्त्रम् ।

जडाद्विलक्षणो बोधो —————————

एवं प्रकाशस्य प्रकाशरूपाज्जडात् घटादेर्वैलक्षण्य
दायीत्येतदेव प्रतिपादयिष्यन् अनेन विमर्शेन विना प्रकाशस्य
वैलक्षण्यदायित्वेनाभिमतान् प्रकारान्तरान् पराकर्तुमाह -
इहावभासेत्यादिना । अवभासस्याहं रूपस्य प्रकाश———————
——————————— त एवा प्रकाशस्य घटादेश्च द्वयोः परस्पर
पर्हारेण स्वात्मनि चेदवस्थां अहं रूपः प्रकाशः अनहं
रूपं घटादिं परिहृत्यस्वात्मन्येवा वस्थितो (१८७) घटादिरप्यहं
रूपं प्रकाशं परिहृत्य स्वात्मन्येवा वस्थितश्चेत् तह्यु——————
———वैलक्षण्यं दुरुपपादम् । प्रकाशस्य स्वात्मन्येव
विश्वान्तत्वात् घटपटादिपदार्थानपरिज्ञानात्
स्वात्ममात्रनिष्ठघटपटादिवत् प्रकाशोऽपि जडो भवति तस्य । एवं
जडरूपस्य प्रकाशस्था प्रकाशात् घटादेः कथं
वैलक्षण्यमित्येकोदूषणप्रकारः । अवभासः ज्ञानरूपः
प्रकाशः ज्ञेयरूपस्यार्थस्य सम्बन्धी ततः सम्बन्धित्वा दव
भासो न जड इति चेत् तर्हि घटस्य सम्बन्धीति सम्बन्धमात्रेणा जडः
स्यादित्येकोदूषणप्रकारः ।

अथवा सम्बोधः घटादेरर्थस्य प्रकाश इति चेत् सम्बोधः
जडरूप घटाद्यात्मैवेति समापतितम् । अजडरूपस्य बोधस्य
जडरूपार्थात्मना

प्। १४७) प्रकाशोनोचित इत्याह - अन्यात्मना प्रकाशेनान्यस्या
प्रकाशस्य घटादेः प्रकाशोनोपपन्नः । जडपक्ष् घटपटात्मना
न प्रकाशते । तत्कथमहं रूपोबोधः इदमात्मना
प्रकाशतामित्यन्योन्यदूषणप्रकारः घटः प्रकाशादन्य
स्वभावोऽपि स्वदर्शनमात्रात् प्रकाशरूपस्य बोधस्योदयकारणं
भवति । तत्र कार्यकारणभावः कारणभूतोघटो जडः
कार्यरूपोऽपि बोधः अजड इति चेत् । तर्हि ज्ञानरूपोऽवभासो विज्ञेय
रूपस्य घटस्य कारणमिति सकार्यरूपोऽपि घटाऽप्य जड एव स्यात् ।
तथा प्रकाशस्य कार्यत्वेऽपि जाड्यमङ्गीकृतम् । तथा घटस्यापि
कार्यत्वेऽप्यजाड्यं प्रसज्येतेति अयमपि दोषः प्रकारः ॥

अथाभासोऽन्येनापि सताघटेनावभासे स्वप्रतिबिम्बरूपा
स्वच्छाया दत्ता प्रतिबिम्बरूपां तां छायां
विभ्रदयमवभासः घटस्य सम्बन्धीत्युच्यते । ततश्च छाया
धारणमात्रादजड इत्युच्यते चेत् तर्हि स्फटिक (१८८) सलिलमुकुरादिरपि
प्रतिबिम्बछाया धारणादजड एव स्यात् । इति पर्यन्तदूषणप्रकारः
। अथ स्फटिकादिः तथा भूतमिति घट पटादि
प्रतिबिम्बधारिणमात्मानं तस्मिन् प्रतिबिम्बितं घटादिञ्च
परामृष्टुमसमर्थ त्वाज्जड इति भक्तोऽभिमतं चेत् तर्हि
शिवादिक्षित्यन्त विश्व प्रतिबिम्बधारिण आत्मनः परामर्शनं
प्रतिबिम्बितस्य तस्य विश्वस्य सम्बन्धि परामर्शनञ्चाजाड्यस्य
जीवितं प्राणभूतं तादृग्विध विश्वान्तर्बहिष्करण
स्वातन्त्र्यरूपं प्रकाशस्य स्वाभाविकं स्वभावभूतमहमिति
स्वात्मनिविश्रान्तिलक्षणं परमर्शनमेवानन्यमुखप्रेक्षित्वम् ।
अनन्यमुखप्रेक्षित्वं नाम अन्यत्वेनाभिमतस्य विश्वस्य स्वात्मनि
क्रोडी कृतत्वात् स्वात्मन्येवाभिमुखी भूतत्वम् । स्वात्मन्यभिमुखी
भूतत्वमेव दर्शयति - शिवादिक्षित्यन्त वाच्यादिक्ष्मान्त
वाचकात्मना प्रकाशेन प्रकाशे इति विमर्शोदये सति प्रकाशस्य
स्वसंविदेव स्वानुभव एव प्रमातृप्रमाणप्रमेयात्मकं
प्रपञ्चं चारितार्थमित्यभिमन्यते । तस्य प्रपञ्चस्याहन्तारूपतया
प्रकाशनात् स्वसम्विदेव कृतार्थमित्याभिमन्यते । यो
विकल्पमिदमर्थमण्डलं पश्यतीशनिखिलं भवद्वपुः ।

प्। १४८) स्वात्मपक्ष परिपूरिते जगत्यस्य नित्यसुखिना कुतोभयम् ॥

इत्युक्त नीत्या विश्वस्य स्वात्मीकारात् स्वव्यतिरिक्तं किञ्चिदपि न
काङ्क्षति जडं स्फटिकादि गृहीतघटपटादि प्रतिबिम्बितमपि तथा
भावेन इदं स्फटिकादिगृहीत घटपटादि प्रतिबिम्बितमपि तथा
भावेनेदं स्पटिकादि गृहीत प्रतिबिम्बं वरत इति सिद्धौ इदं गृहीत
प्रतिबिम्बमित्येवं (१८९) वादिनं स्वव्यतिरिक्तं प्रमात्रन्तरमपेक्षत
इति निर्विमर्शत्वाज्जडं ——————————— क्षमं स्पटिकादि
तत्प्रतिबिम्बसमर्पकं घटादि तदुभय ग्राहकं प्रमात्रन्तरमपि
शिवादिक्षित्यन्तस्य विश्वस्य सृष्टेः प्रागवस्थारूपाया मादिकोटौ
संहारात् परावस्था यामन्त्यकोटौ चाहं परामर्श विश्रान्तेः —–
—————————- अजडमेव भवति । किञ्च इदन्तात्मिकायां
मध्यकोटावपि घटपटादि तत्त ज्ज्ञानोदय प्राक्
पश्चादवस्थयोरहन्ता रूपे प्रमातरि विश्रान्तत्वादजडमेव ।
यथोक्तम् - इदमित्यस्य विच्छिन्नाविमर्शस्य कृतार्थ तायाः स्वस्वरूपे -
——————————– दं नीलपीतमित्यन्योन्यं प्रमातुर्विच्छिन्नस्य
नीला पीता विमर्शस्य कृतार्थता नाम स्वस्वरूपे विश्रान्ति
रहमित्ययं विमर्शो भवति । शिवादि क्षित्यन्तस्य विश्वस्य प्रागभाव
प्रध्वंसाभावात्मनोः कोट्यो रहं रूपस्वरूपविश्रान्तिप ————
——————— ख्य संहारावस्थापर्यन्तं या मध्यमावस्था
सैवाविमृश्यमानाहन्तात्मक
पूर्वापरकोटिरिदन्तैवमूढानामप्रत्यभिज्ञातमहेश्वरात्मक
स्वस्वरूपाणां माया पदे भेदपदे संसार इति
भगवतोऽनुत्तरभट्टारकस्य पराभट्टारिका रूपेण ———————
———— एव प्रधानं रूपमिति स्थितं निश्चितम् ।

अस्माभिरीश्वर प्रत्यभिज्ञाकारैः सांविदैः सङ्क्तित्त्वस्य
बोधस्य विमर्श प्राधान्यं केवलमस्माभिरेवोक्तमिति
संविदिष्यमाणैः श्रीसूत्रादिभिरुक्तमिति दर्शयति । अत एव
विमर्शशक्ति स्वभावत्वाद्धेतोश्चित्क्रिया चिति कर्तृतातात्पर्येण
चैतन्यभित्युदितः । चित्क्रियानाम चितिकर्तृतातात्पर्येण तां चिति
कर्तृतामेव परत्वेनाभिसन्धायात्मा
धर्मिस्वभावश्चेतनश्चैतन्यमिति धर्मिशब्देनोदितः हि यस्मात् तेन
चेतन योजितत्वेन जडस्य । एवं भूत चैतन्या भावादस्य
तद्वैलक्षण्यं युक्तमेव । यथोक्तम् -

जडाद्विलक्षणोबोधो यतोऽन्येन न मीयते ।  

प्। १४९) इति चिति कर्तृतातात्पर्येणात्माजडात् चैतन्य शून्यात्
घटादेर्विलक्षणः स्वभाव्मवभासस्येति सूत्रेण विमर्श
एवात्मनश्चैतन्य प्रधानमुख्यं रूपमित्युक्तम्, यतः आत्मनः
प्रयोजनरूपं प्रमाणभूतममुमेव विमर्शं हेतूकृत्य सदा
शिवेश्वरादिगत सर्वकर्तृत्वादि धर्माणामुत्पत्तिस्थानत्वात्
धर्मास्वभावः तेषां धर्माणां विश्रान्ति स्थानत्वाद्
द्रव्यभूतोऽपि चैतन्यमिति धर्मवाचिना शब्देनायमात्माचेतनः
इदं त्वस्य चैतन्यमिति । इत्येवं रूपां भेदकक्ष्यां तिरस्कृत्य शिवः
शङ्कर इति वत् आत्मा चैतन्यमिति सामानाधिकरण्यमाश्रित्य
चैतन्यमित्युदितः कथितः आगमेष्वितिशेषः ।

तदेतद्दर्शयति - भगवता शिवेन शिवसूत्रेषु चैतन्यमेवात्मेति
हि पठितम् । चैतन्यमिति पदं धर्मवाचकानां वक्ष्यमाणानां
चिति दृश्यादि धर्मवाचकानां पदानामुपलक्षणम् ।
विश्वरूपतास्वीकारेऽपि स्वरूपहानिरहिता चिति शक्तिश्चेतन
तद्द्रष्टृस्वरूपं दृशेर्दर्शनस्य कैवल्यं केवलं दर्शनमेव
द्रष्टा दृशि स्वरूपं चितिशक्ति परिणामिनी तद्दृशेः केवलं द्रष्टा
दृशि मात्र इत्यादि सूत्रेषु धर्मशब्देनात्मनः सामानाधिकरण्यं
दर्शितम् गुरुणानन्तेन आत्माद्रव्यभूत इति यदुक्तं तस्य
द्रव्यत्वमेव निरूपयति । द्रव्यं हि तदुच्यत इत्यादिना ।
यस्मिन्नात्मरूपे द्रव्ये विश्रान्तः पदार्थः घटपटादिः
समस्तोभाति अविनाशिनिबोधे । तथा जडभूतानामित्युक्तनीत्या
यस्मिन्नात्मरूपे द्रव्ये अविनाशिनि (१९१) बोधेसमस्तः सम्यगस्तः
निक्षिप्तः । अत एव विश्रान्तः अयं घटः अयं पट इत्यादिरूपेण भाति
उदकाहरण च्छादनरूपायै अर्थक्रियायै अर्थ्यतेतदेव
द्रव्यमित्युच्यते ।

पुनरपि द्रव्यस्य परमार्थतामेव वक्तुं परं
परिहासपूवमनुसारेणानुवादयति - तद्यदित्यादिना । तदिति कोपो नास्ति
चेत् पृथिव्यादितत्त्वसकलप्रलया कलादिभूतघटपटादिभाव
काअलाग्निकोट्यादिसु वनादि सम्भारसंविदि आत्मस्वरूपे बोधे
विश्रान्तस्तथा भवतीति पृथिव्यादिस्वरूपतया भवतीति तत्तद्रूपतया
प्रकाशतं इति । गन्धादिगुणधारणादिकर्म सामान्यादि
धर्माश्रयभूतं पृथिव्यादिपदार्थान्तरस्वभावः
पृथिव्यादिद्रव्यविशेषः ।

प्। १५०) द्रव्याणामत्युत्त्पात्तिविश्रान्तिस्थानत्वान्मुख्यद्रव्यरूपां
तामेव संविदामाश्रयत इति सा संविदेव भगवतीद्रव्यं तदिति
तस्या एव द्रव्यत्वान्नित्यत्वाद्यनन्त धर्मराशि विश्रममित्ति
भूतायास्तस्या अनुत्तर भट्टारिकायाश्चेतनरूपयाः संविदः स एव
विमर्शात्मको धर्म एवचेतन इति ——————————— वप्रत्ययेन
चेतनस्य भावश्चैतन्यमिति सम्बन्धाभिधायिनापि प्राधान्येन
चेतन एव चैतन्यमिति दर्शितः ।

प्राधान्यमेव दर्शयति - तथा हीत्यादिना । सम्बन्धस्य
सम्बन्धि विश्रान्तत्वे ——————————— नः प्रकृत्योक्तत्वा चेतन
प्रतिपदिकेनोक्तत्वात् । चेतयतीत्ययाचितिः इत्युक्त नीत्या चितिक्रियारूपं
धर्मसम्बन्धिनं चैतन्यमेव सम्बन्धिनमवगमयताष्य सा
निकृष्टः सम्यगानिश्चित्यायम (१९२) ———————————
भिज्ञापितः चित्क्रियाचितौ ज्ञानवर्गेकर्तृता एकस्मिन्नेव घटे सोऽयमिति
स्मरणानुभवयोः संयोजनम् । एकस्मिन् घटे अयमिति
स्मरणानुसन्धानयोर्वियोजनम् । किञ्चैकस्मिन् घटे काञ्चनत्व ———
———————— जनं चेत्यादि बहुविधं स्वातन्त्र्यं
केवलमात्ममात्र एव स्वस्वरूपमात्र एव जडरूप घटादिवत्
विश्वदेशकालव्यापित्वा दविश्रान्तत्वं अविरतं पञ्च कृत्यकारि
अहमित्यविच्छिन्न प्रकाशस्यात्मनस्तदविच्छिन्न प्रकाशत्व —————-
—————– डी कृत्य वर्तमानस्यात्मनोऽन्यमुखप्रेक्षित्वा भावात्
तस्य तदन्यमुखप्रेक्षित्वरूपमिति तत् चिति कर्तृतारूपं
स्वातन्त्र्यमेव मुख्यत्वेनाभिसन्धाय निश्चित्यात्मा चेतन इति
वक्तव्ये तस्यात्मनो नित्यत्वाधर्माकरणाय विमृष्टरूपस्य तस्य
विमर्शरूपो धर्मोद्धुरीकरणाय चात्मा चैतन्यमित्युक्तः । चित्क्रिया
चिति कर्तृता तात्पर्येणेति समस्तपदम् । अर्धयुक् पादविश्रान्तिः समास इति
समयः काव्येशास्त्रे । तेन चित्क्रिया चिति कर्तृतातात्पर्येणेत्युक्तम् । यदि
वात्मचैतन्यमिति वत् चित्क्रियेति चोक्तः तदानीं चिति कर्तृता तात्पर्येणेति
पदं चितिक्रियासहितं न भवति । चैतन्यमात्मेति पाठवत् चित्क्रिया
आत्मेति न क्वचित् पठितम् ।

यथा प्रकाशश्चिद्रूपः अप्रकाशः अचिद्रूपः
घटादिश्चेत्युभयमपि

प्। १५१) स्वात्मनीति प्रकाशः प्रकाश एव स्वस्वरूपे विश्रान्तः
अप्रकाशः घटादिरपि स्वात्मनि जडे पृथुबुध्नोदराकारादिरूपे
विश्रान्तः । तथा हि - जडभूतानामित्युक्त नीत्या (१९३) न तु प्रकाश
एवं विश्रान्तः इति यतस्ततस्तयोर्निजनिजरूपविश्रान्तिहेतोः अहं रूप
आत्मा प्रकाश इत्युक्ते सति तस्यहं रूपस्य प्रकाशस्य जडाद्
घटादेरिहावभासस्य प्रकाशस्यानवभासस्य चाप्रकाशस्य
घटादेः परस्पर पर्हिहारेण द्वयोः स्वात्माने चेदनवस्थानं
तद्घटपटयोरिवेदमजडमिदं जडमिति दुरुपपादं वैलक्षण्यमिति
चेदनवस्थानं तद्घटपटयोरिवेदभजडमिदं जडमिति
दुरुपपादं वैलक्षण्यमिति स्वभावमवभासस्येति
सूत्रस्याशङ्कारूपाया व्याख्या या वैलक्षण्यं यथा नोदितं
स्यात् तद्वद्विमर्शेऽपि स्वात्मनि नत्वहं रूपे प्रकाशेतत्प्रतियोगी
अविमर्शोऽपि स्वात्मनीति । तेनापीति - स्वात्ममात्रविश्रान्तेन विमर्शेन
जडत्वे नाभिमतस्य प्रकाशस्य जडात् घटादेर्वैलक्षण्यं
कथमित्याशङ्क्याह - चितीति । विश्वात्मापरमेश्वरः
चेतयतीत्यत्रयाचिति क्रिया चितिशक्तिः सा अहमिति स्वात्मचमत्कारलक्षण
प्रत्यवमर्शात्मा सतु चितिशक्तेः स्वात्मभूतः प्रत्यवमर्शः
स्वरसेन चिद्रूपेण स्वात्मविश्रान्तिवपुषा उदिता सन्ततानस्तमिता
नित्यापरेति नीलमिदं चैत्रोऽयमिति प्रत्यवमर्शान्तरस्य मिति भूतत्वात्
पराविश्वोत्तीर्णा शिवादिक्षित्यन्तं विश्वं स्वात्मन्यन्तः कृत्य वक्ति
अभिलपति स्वात्मत्वेन विमृशति यावत् । एतदिति - एवं भूतचिति
शक्त्यात्मकं मुख्यं स्वातन्त्र्यमेव आत्मनः परमेश्वरस्य
परमपरा वाग्रूपं पूर्णमैश्वर्यमीशित्वमनन्यापेक्षितुं
तुर्यातीतात्मिकायां शिवदशामुच्यते परावरं त्वैश्वर्यं
पश्यन्ती रूपं तुर्यात्मिकयोः सदाशिवेश्वर दशयोः अपरं
त्वैश्वर्यं मध्यमामध्यमावैखरीरूपं जाग्रदाद्यवस्था
रूपयां मायादशायां विष्णुविरिञ्चेन्द्रादिसम्बन्धि भवति ।
तदपि पामेश्वर प्रसादजमेव । एवं भूतेन स्वातन्त्र्येणात्मा (१९४)
जडाद्विलक्षण इत्युक्तं युक्तमेव । विश्वमय विश्वोत्तीर्णः
परमेश्वरः शिवादिक्षित्यन्तं विश्वं स्वेच्छया स्वभित्तौ
विश्वमुनीलयतीत्युक्तनीत्या स्वात्मनि ——————————— त्वेन
विमृशतीति या चितिः चिति क्रियाबोधस्वतन्त्रता तस्याश्चिति क्रियायाः
प्रत्यवमर्शः शिवादिक्षित्यन्त विश्वगर्भस्वात्मचमत्कारलक्षण
आत्मा स्वाभावाचिति क्रियायाः

प्। १५२) प्रत्यवमर्शभावत्वं जड ———————————
जडसम्बन्ध्यन्वयमुखेन च दर्शयति । घटेन पृथुबुधोदराकारे
स्वात्मनि चमत्क्रियते पृथुबुध्नोदराकारे स्वात्मा तेन घटेन
परामृश्यते तेन घटेन स्वात्मनिनप्रकाश्य ते स्वयं स्वात्मा न —–
—————————- एकस्मिन् देशे काले च विश्रान्तत्वात्
सकलदेशकालव्यापित्वात्मना अपरिच्छिन्नतया नाभास्यते । अतः
परिच्छिन्नत्वेन भासनाभावात् घटेन स्वात्मा चेत्येत इत्युच्यते चैत्रेण
तु बोधरूपे स्वात्मन्यहमिति विमर्शात्मक ———————————
विकासरूपओल्लास स्फीतता रूपविभूति योगात् चमत्क्रियते आनन्द्यते
तादृग्विधोऽहं रूप स्वात्मापरामृश्यते । अन्यानपेक्षणे
स्वात्मन्येव प्रकाश्यते । इदं नीलमिति यः परिच्छेदः स एव
तावद्रूपया नीलमात्रे विश्रान्तः । इदमिति परिच्छेद विलक्षणे भूत्वा
बहिष्करण विषय नीलपीतान्तःकरण विषयसुखदुःखादि युक्ततया
तन्नीलपीत सुखद्कुःखशून्यता वभास योगेन च भास्यते । यथोक्तम् -

पीतादिषुन नीलं तेष्वत्र च चाक्षुषं ज्ञानम् ।  
न श्रौतादिषु तदपि ज्ञाता तेष्वत्रचानुगतः ॥  

इति नीलपीताद्य सङ्ख्या भासन योगेन भासनात्तत्तदसङ्ख्या
वभासनयुक्तस्वात्मा चैत्रेण चेत्यत इत्युच्यते । एवं भूतमिति
चैत्रबोधस्यैवं भूतविमर्शयोगात् विमर्शस्वात्मनि
अविमर्शस्वात्मनि इति भवदुक्तं सिद्धमेवा भोधारूढो विमर्शः
सर्वं (१९५) सहः न घटपटादिवत् स्वात्ममात्रविश्रान्तः । तत्सर्वं
सहत्वमेव दर्शयति - एषा प्रमेयरूपावधि दशाः । अभयमिति ।
अहमिदं रूपयोरात्मपरयोः स्वरूपमहमिदमिदमहमिति
सामानाधिकरण्येनाहन्तायामेकी कुरुते । एते सदाशिवेश्वर
दशेपुनः अहमिदमात्मकमुभयं न स्वात्मनिन्यग्भवति
शून्यीकरोति । एषा प्रलयाकलदश्नः
अनुक्ताविद्येश्वराविज्ञानाकलाश्च मायोर्ध्वेऽन्तर्भूतात् । यथोक्तम् -

परिकर्तुर्णिजन्तश्च स्वात्मीकर्तुं ततोभयम् ।  
एकीकर्तुं न किं कर्तुं विमर्शोजगतिक्षमः ॥ इति ।

अहमहमेवेति शिवः, अहमिदमिति सदाशिवः, इदमहमिति ईश्वरः
अहमहमेव इदमिदमेवेति विद्येश्वरः, ने दमिति विज्ञानाकलः, नेदं
न चाहमिति

प्। १५३) प्रलयकलः, अहमिदं शरीदादीनिसकला इति सप्तप्रमातारः चिति
क्रियास्वभावभूतः प्रत्यवमर्शश्चान्तरभिलापात्मक
शिवादिक्षित्यन्तस्य विश्वस्य स्वात्मतया विवेचनात्मक शब्दनरूपं
तद्वच्छब्दनमस्य पृथुबुध्नोदराकारस्यार्थस्य घट इति सङ्केतः
आतानवितानात्मकस्य वस्तुनः पट इति सङ्केत इत्यादि
तत्तत्सङ्केतशब्दनिरपेक्षम् । अत एवानवच्छिन्नचमत्कारात्मकमिति
पूर्णानन्दात्मकं । अन्तरितिपूर्णाहन्ता रूपोन्मुखं
स्वात्मन्येवस्थितत्वात् शिरोनिर्देशप्रख्यमन्तरभुपगमरूपं
तत्तत्प्रमातृमुखनिर्गताकारादिक्षकारान्तमयीयभेद प्रथात्मक
साङ्केतिकशब्दजीवभूतं नीलमिदं चैत्रोऽहमिति
ग्राह्यग्राहकात्मक प्रत्यवमर्शान्तरमित्तिभूतत्वेन पूर्णत्वात्
पराविश्वोत्तीर्णा, वक्ति उक्तरूपं विश्वे अन्तः कृत्याभिलपति
अभिमुख्येन विमृशतीति वाक् । अत एवेति । अन्तरभिलापत्वात् (१९६) स्वरसेनेति
स्वेनाविनाशिनारसेन स्वात्मविश्रान्तिवपुषा चिद्रूपतयोदिता सतता
नस्तमिता अहमित्येव नीत्या यथोक्तं प्रत्यवमर्शात्मा सौ चिति
स्वरसवाहिनी परावाग्या आद्यन्त प्रत्याहृतवर्णगणासत्यहन्ता सा
इत्येतत्परावाग्रूपा चिति शक्ति मयं मुख्यं स्वातन्त्र्यमेवात्मनः
परमेश्वरस्य परं पूर्णमैश्वर्यं
ईशितृत्वमनन्यापेक्षित्वमुच्यते । एताच्छिवभूमौ परावस्थायां
परमिति शब्दप्रसङ्गेन परापरात्म ———————————
परात्मकं चैश्वर्य माक्षिप्तम् । तदेवाह - परापरं त्वित्यादिना
परमेश्वरस्य परापरमैश्वर्यमहं प्रथनाख्याति रूपस्य अत
एवेदं भावरूपस्य प्रत्यवमर्शस्य इदमित्युद्भेदमात्रेऽपि
अहमिदमिदमहमिति झटिति ——————————— शिवादिभूमौ
पश्यन्ती दशायां वर्तत इति शेषः । परमेश्वरस्या परं
त्वैश्वर्यं मायान्तरधिकृतानां विष्णुविरिञ्चेन्द्रादीनां
तत्वानां स्वरूपाणां सबन्धिमध्यमादि दशायां तदपि
विष्णुविरिञ्च ——————————— परमेश्वर प्रसादजमेवेति
परमेश्वरस्यान्य निरपेक्षतैवपरमार्थत आनन्द इति ऐश्वर्यमिति
स्वातन्त्र्यमिति चैतन्यमिति चकथ्यते । तेन स्वभावभूतेन
चैतन्यरूपेण विमर्शेनयुक्तत्वात् ——————————— युक्तमेव ।
एतत्प्रकाशस्य प्रमाणभूतं विमर्श स्वरूपं प्रधानागमेष्विति
मालिनीविजयोत्तरत्रिकादिष्वपिदर्शितमेवेति

प्। १५४) निरूपयति - से ति । स्वामिनश्चात्मसंस्थस्येति सूत्रमारभ्य उ—-
—————————– स्फुरत्तेति शिवादिक्षित्यन्त
विश्वस्फुरणकर्तृतारूपाशिवादिक्षित्यन्त विश्वोत्तीर्णत्वात्
तद्विश्वपूर्वापरकोटि व्यापित्वाद्देशकालाविशेषिणी व्याप्त नित्य
स्वभावा चाकिञ्च तत्सकलदेशकालनिर्माणयो ——————————–

  • देशकालस्पर्शाच्च व्याप्तनित्यस्वभावा अत एव
    देशकालविशिष्टत्वान्महासत्ता सद्रूप घटपटादिवदसद्रूपं
    स्वपुष्पादिकमपि व्याप्नोतीति महती अविच्छिन्ना सत्ता (१९७)
    शिवादिक्षित्यन्त भवनकर्तृतारूपा भवति । सैवेति । धन्यैः
    सद्गुरुकटाक्षशालिभिः सेति । गुरु मुखश्रुत्यागमशास्त्रश्रवणात्
    स्मर्यमाणा ध्यायमाना । एषेति स्वप्रत्ययेनानुभूयमाना इति
    स्वरणानुभवो मयात्मक श्रीप्रत्यभिज्ञाविषयभूता श्रीपरा ।

अथास्य सूत्रस्य व्याख्यामरभते - इहेति । अस्मिन्लोके घटः
कस्माद्धेतोरस्ति खपुष्पं च कस्मान्नास्तीति पृष्टे प्रत्येकं घठि
मम स्फुरतीति वक्तारो भवन्ति । घटो हि स्फुरति ममेत्येतत् स्फुरत्वं
घटत्वमेवघटस्य स्वरूपमेव न प्रमातृ सम्बन्धि इति चेत् । स
घटः अहं घटः इति सर्वान् प्रतिस्फुरेन्न कस्यचिद्वा इति पूर्वोक्त
नीत्या जगत् सर्वज्ञ जज्ञं वा भवेत् । इति स प्रसङ्गः तस्माद् घटस्य
स्वयमेवाहं स्फुरामीति स्फुरणाभावात् मम
स्फुरतीव्यत्तस्यार्थं विचारयति घटः मदीयं स्फुरणं
स्पन्दनाविष्ट इत्ययमेव घटो मम स्फुरतीत्यस्यार्थः । तत्रापि
स्पन्दनस्यार्थं विचारयति । स्पन्दनं नाम स्पदिकिञ्चिच्छलने इति
धातु गत्याचिदानन्दधन स्वरूपापरित्यागे नैव प्रकाशस्य
विश्वात्मना स्फुरणं स्वं सलिलात्मकं रूपमपरित्यजतः
समुद्रस्य तरङ्ग भेदबुद्बुदात्मना स्फुरणमिव तत्र
स्पदिकिञ्चिच्चलन इति धात्ववयवमेव किञ्चिच्छब्दस्यार्थ प्रकाश
स्वरूप मचलमपि विश्वात्मना चलमाभासत इति विश्वात्मना स्फुरणे
ऐ प्रकाश स्वरूपं बीजादिवत् स्वरूपात्कीञ्चिदपि नातिरिच्यते ।
स्वस्वरूपं न परित्यजतीत्यर्थः । यथोक्तम् -

बीजमङ्कुरतया यदाभवेत् बीजतानखलु दृश्यते तदा ।
चेतनस्य जगदात्मना स्थितौ चेतनत्वमधिकं विजृम्भते ॥ इति ।

प्। १५५) विश्वात्मना स्फुरणस्याहन्तारूपे सत्यपि माया प्रमातॄन्
प्रति तस्य विश्वस्येदन्तया स्फुरणादतिरिच्यते इव माया प्रमात्रभिमते
दन्ताभासात्मक विश्वभेदयुक्तमिति च भाति । अस्मिन्नर्थे
संवादमाह -

आत्मैव सर्वभावेषु स्फुरन्निर्वृत चिद्वपुः ।  
अनिरुद्धे च्छा प्रसरः प्रसरद् दृक्क्रिया शिवः ॥  

इति श्रीशिवदृष्टौ ।

अतः सततमुद्युक्त स्पन्दतत्व विविक्तये ।  
जाग्रदेव निजं भावमचिरेणधिगच्छति ॥  

अतिक्रुद्धः प्रहृष्टो वा किं करोमीति वा मृशन् ।  
धावन्वायत् पदं गच्छेत् तत्र स्पन्दः प्रतिष्ठितः ॥  

गुणादिस्पन्दनिष्पन्दाः सामान्य स्पन्द संश्रयात् ।  
लब्धात्मलाभाः सततं स्युर्ज्ञस्या परिपन्थिनः ॥  

इति । श्रीस्पन्दशास्त्रे । लोकेऽपि हर्ष विषादादिवैचित्र्ययोगेऽपि
तद्धर्षविषादादि संविद्भित्तिभूतात्म स्वरूपादचलन् अविकुर्वन् जनः
अपरिच्छेद्यसत्व स्पन्दवान् शक्तिमानित्युच्यते । इयान्
स्फुरत्तापदस्यार्थः सपुनर्विमर्श शक्तिर्यथा प्रोक्तरूपस्फुरत्
जाता तथा सत्ता च भवति । तत्र सत्ता नाम शिवादिक्षित्यन्त
विश्वभुवनकर्तृता । सा च सृष्ट्यादि भवन क्रिया सुस्वातन्त्र्यं
सासता सद्रूपघटपटादिविश्ववदसद्रूपं स्वपुष्पं
द्विचन्द्रादिकमपि व्याप्नोति । लोकस्य खपुष्पं प्रतिभातीत्युक्ते खमिव
तज्जडत्वात् तद्वर्णसदृशं किमपिपुष्पमस्तीति प्रतिभाति । तथा
प्रतिभासमानं खपुष्पादिकमपि व्याप्नो———————————
तत्तुल्यकक्ष्य तया भाति तद्वस्तु । तस्य वस्तुनो विशेषणं कटक इव
चैत्रस्य देशकालौपुनर्विमर्श शक्त्या तुल्य कक्ष्यौ न भातः ।
द्वयोर्देशकालयोरयं देशः अयं कालः इती दन्तया प्रकाशे तस्यापि
विमर्शशक्तेरहन्तया प्रकाशे द्वयो रपि तुल्यकक्ष्यत्वानुपपत्तेः
तस्याविमर्श शक्ते रेवं देशास्पर्शाद्विभुत्वं
कालास्पर्शान्नित्यत्वं चेति बह्वीनित्या च जाता तस्या ————————–
——- ण योगात् क्षित्यादि देशानिर्माणयोगाच्च सकल
देशकालस्पर्शोऽपि भवतीति ततोऽपि सकलदेशकालस्पर्शाद्व्यापकत्व
नित्यत्वे भवतः ।

प्। १५६) यदुक्तं श्रीमालिनीविजयोत्तरे -

महासत्ता महादेवी विश्वजीवनमुच्यते ॥ इति ।  

सारमिति । अनुत्तरभट्टारकस्य प्राणभूत मकृच्छ्रं रूपं
यदियमेव विमर्शशक्तिः क्षित्यादिशब्दान्तानां ग्राह्याणामुपस्था
घटं कारान्त बहिरन्तः करणरूपाणां ग्रहणानां
सकलादिशिवान्तानां ग्राहकाणां च यद्यत्प्रकाशात्मकं
परमशिवभट्टारकस्य रूपं तस्यापि परमशिवभट्टारक
स्वरूपस्याप्रकाशात् जडद्वैलक्षण्य प्रदर्शनीयं
विमर्शशक्तिरेवेति श्रीपूर्वशास्त्रेनिरूपितम् ।

यत्सारमस्य जगतः सा शक्तिर्मालिनी परा । इति ।  
यथा न्यग्रोधबीजस्थः शक्तिरूपो महाद्रुमः ।  
तथा हृदयबीजस्थं जगदेतच्चराचरम् ॥  

इति श्रीत्रिशिकाशास्त्रेऽपि । सैषेति स्मरणानुभवरूपाभ्यां
पदाभ्यां ननुस एव प्रमातैव तथा भूत इत्युक्त महेश्वर
प्रत्यभिज्ञानवत् तच्छक्तिप्रत्यभिज्ञानं दर्शितम् । हृदयं च नाम
सर्वस्य प्रतिष्ठा स्थानमुच्यते । तच्च तथा हि जडभूतानां इत्युक्त
नीत्या जडानां चेतनं प्रतिष्ठास्थानं तढ्य चे तनस्याप्यहमिति
(२००) प्रकाशात्मकं रूपं प्रतिष्ठास्थानं तस्याहमिति
परमशिवात्मक प्रकाशरूपस्य विमर्शश्कतिः प्रतिष्ठा स्थानमिति
परमेष्ठिनाक्षित्यादि शिवान्तस्य विश्वस्य परमे उत्तीर्णे पदे
चिदाकाशे तिष्ठतः अविरतं विश्रान्तस्य पराशिवभट्टारकस्ये
दमेवेति पराभट्टारिकात्मकं विमर्शरूपं परमन्त्रात्मकमिति
पूर्णाहन्तारूपं तत्रतत्रेति आगमे । हृदये सा तु या शक्तिरिति
हृअदयम्, मम हृद्व्योम्न्य वस्थित इति हृदयम्, भैरवात्मन इति
हृदयम्, देवदेवस्य सद्योयोगविमोक्षदमिति तदा हृदयबीजस्थमिति
हृत्प सान्तर्गतमित्यभिधीयते परमेश्वरेणेति शेषः । सर्वस्य
प्रमातुरहंरूपो मन्त्र एव हृदयं सः अहं रूपो मन्त्रः
विमर्शनात्मा विमर्शनञ्च परावाक्छक्तिमयं परा
आदिक्षान्तमातृका हृदयभूतपराभट्टारिकामयं तत एवोक्तम् -

न तैर्विना भवेच्छब्दो नार्थो नापि चेतेर्गतिः । इति ।  

तैर्वर्णेर्विना शब्दो न भवति अर्थश्च न भवति । अर्थज्ञानस्य
स्थितिश्च न भवति इति किञ्च -

प्। १५७) ते।आं वागेव प्रथमा मूर्तिर्यस्मात्त्वया विना ।
मवर्णानामभिव्यक्तिर्स्तैर्विना न पदादिधीः ॥

तया विना विकल्पोऽपि स्वात्मलाभं लभेतनो ।  
विनापि तेन भावानां नोत्पत्तिर्नापि नि"चयः ॥  

ततश्च सर्वव्यापार व्यवहारापस्तनात् ।  
अन्धं मूकं न तु भवेज्जगदेतदपि ध्रुवम् ॥  

इति श्रीतत्वगर्भस्तोत्रे ।

तत्र तावत् समापन्ना मातृभावं विभिद्यते ।  
द्विधा च नवधा चैव पञ्चाशद्धा च मालिनी ।  

बीजयोन्यात्मकाद्भेदाद्विधा बीजं स्वरामता ।  
कायदश्च स्मृता योनिर्नवधावर्गभेदतः ॥  

बीजमात्रशिवः शक्तिर्योऽग्निरित्यभिधीयते ।  
पृथग्वर्णविभेदेन गतार्ध किरणोज्ज्वला ॥ इत्यादि ।  

इति श्रीमालिनीविजयोत्तरे । तत्र भवद्भर्तृहरिणापि -

न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते ।  
अनुविद्धमिव ज्ञानं सर्वं शब्देन गम्यते ॥  

वाग्रूपता चेदुत्क्रामे दवबोधस्य शाश्वतीम् ।  
न प्रकाशः प्रकाशेत सा हि प्रत्यवामर्शिनी ॥  

सैषा संसारिणां सञ्ज्ञा बहिरन्तश्च वर्तते ।  

यदुत्क्रान्तौ विसञ्ज्ञो ---- दृषूयते काष्ठकुड्यवत् ॥ इति ।  

तमेतेन सकलेन संवादेन विदुरित्येतद्बहुवचननिर्वाहितम् ।
निर्विकल्पात्मनोऽर्थ प्रकाशस्याध्यवसायापेक्षं प्रामाण्यं
वदद्भिर्बौद्धैरप्ययं विमर्शात्मकोऽर्थ उपग —————————
—— ङ्गी कृत एव । प्रकाशस्य प्रामाण्यहेतोरध्यवसायस्य
विमर्शस्यायं घट एवेत्यभिलापात्मकत्वात् । नन्विति चिदानन्द ———-
———————– सर्वकर्तृत्वादि उन्मन्यादि ब्राह्मचादि क्षित्यादि
तत्तदागमोक्तानन्तशक्तिश्रेणीशोमित वपुषि भगवति परमशिवे
पराभट्टारिका रूपा विमर्शशक्तिरेव प्रधान नायिकात्वेनेत्थं का
——————————— क्तनीत्या या सा शक्तिरित्यादि श्रीमालिनी
विजयोक्त नीत्यायस्योन्मेष निमेषेत्यादि श्रीस्पन्दशास्त्राद्युक्तनीत्या
चाभिषिच्यते ।

प्। १५८) विश्वैश्वर्यपात्रत्वेन प्रतिष्ठाप्यते । (२०२) कस्मादित्याशङ्क्य
तस्या एव प्राधान्यं वक्तुमा ———————————
त्रैकरूपमात्मानम् । अत एव विमर्शशक्तिरूपाहेतोः, शिवादिक्षित्यन्त
तत्वात्मना ज्ञेयी कुर्यात् । विश्वोत्तीर्णापि स्वातन्त्र्येण स्वयमेव
विश्वात्मना स्फुरेत् । पृथक् स्थितीति - एवं भूतात्
प्रकाशरूपादात्मनः पृथग्भूताय ——————————— न्तस्य
ज्ञ्यस्यस्थितिः तादृक्प्रकाश पृथग्भूतस्थिति ज्ञेयं नैव भवति । तु
खधारणे । भवति चेदस्थात्मना परमेश्वरस्य तत्स्वव्यतिरिक्त
ज्ञेयौन्मुख्यात् ज्ञात्रैकरूपात्मज्ञेयीकरणलक्षणातादृग्विधा
व्यतिरिक्त ज्ञेयोन्मुखातन्त्रताखण्ड्येत तेन व्यतिरिक्त
विषयेणैन्म्मुख्येनान्याधीनत्वरूपं पारतन्त्र्यमस्यनियते ।
पारतन्त्र्यं च स्वातन्त्र्यस्य विरुद्धं स्वातन्त्र्यमेव चानन्य
मुखप्रेक्षित्वलक्षणमात्मनः स्वरूपमिति तादृग्विध
स्वातन्त्र्याभावात् व्यतिरिक्तोन्मुख आत्मना आत्मैवस्यात् । अनात्मा
जडः व्यतिरिक्तं ज्ञेयं प्रतिघटादिवन्नोन्मुखी भवतीति
अतिप्रसङ्गः । अतः प्रसङ्ग विपर्यया दव्यतिरिक्तोन्मुखः स्वतः
सन्नात्मानमेवं ज्ञेयिकरोतीति इदमायातं न केवलं
स्वातन्त्र्यरहित नीलादिरूपे णैवात्मानं ज्ञेयी करोति । यावत्
स्वातन्त्र्यादुक्तशिवेश्वर पशुपति भैरवादिरूपेणापि आत्मानं
ज्ञेयी करोतीत्याह - स्वातन्त्र्यादुक्तमित्यादिना । अयं
प्रभुममद्वयात्मनः संविदेकरूपस्य स्वात्मनः
अतिदुर्घटकारित्वलक्षणादुक्त विमर्शशक्तिरूपात्
स्वातन्त्र्यादात्मानं विश्वसृष्ट्यादि कृत्यपञ्चकलक्षण
स्वातन्त्र्यामुक्तं शिवलिङ्ग शिवागम स्थाणुलमण्डलादौ
अयमीशः अयं पशुपतिरित्यादि सङ्कल्पः इदन्तया बाह्यं
व्यवहारयेत् । स्वयं ध्येया (२०३) पूज्यो पास्यादिरूपेण स्थित्या
व्यवहारेण ध्यानपूजादिना स्वात्मानं यो जयेत् । एवमात्मनः
स्वातन्त्र्यामुक्त नीलादिरूपतया निर्माणस्य
स्वातन्त्र्यामुक्तेश्वरादिरूपतया निर्माणस्य च विमर्शशक्तिहेतु
रित्यर्थः ।

एवं सूत्रयोजनां प्रदर्श्य एतत्सूत्र व्याख्यान्ं
प्रमृष्टमाह - सर्वाः शक्तिरित्यादिना । सर्वा
इत्युक्तरूपाश्चिदानन्दादिकाः शक्तीः ऐश्वर्यात्मना

प्। १५९) इत्यैश्वर्यं पञ्चविधकृत्य कारित्वमिति श्रीमत्स्तोत्रावली
व्याख्या नोक्तनीत्या पञ्चविधकृत्य कारिलक्षण स्वातन्त्र्यात्मा
कर्तृत्वशक्तिर्विमर्शमिति तात्पर्यात्मसङ्क्षेपेण भव्दुक्तस्य
प्रश्नस्योत्तरमुक्तम् । शब्दार्थस्तु अयमिति पूर्णाहं प्रकाशात्मा
परमेश्वरः विश्वोत्तीर्णं स्वात्मानं ज्ञात्रैक रूपत्वात्परम
प्रमातृरूपत्वेन ज्ञेयम् । अनिदं प्रथममपीदं तया ज्ञेयी करोतीति
यत् सम्भाव्यते तत्तदाकस्मिकाभास इति कारिकोक्तप्रकारेण
कारणान्तरानुपपत्तेः चिदात्मैव हि देव इति श्लोकोक्तेन दृढेन
सम्भावनानुमानेन दर्शितत्वात् तत्सम्भावनम् । अत एवेति
स्वभावमवभासस्येति सूत्रोक्तनीत्या विमर्शशक्तिलक्षणात्
कर्तृत्वाद्धेतोर्भवति । तदेव सम्भावनं युक्ति युक्तत्वेन
प्रत्पादयतियतो ह्ययमित्यादिना । प्रकाशश्च विमर्श स्वभाव
इत्युक्तनीत्या अयं परमेश्वरः प्रकाशरूपमात्मानं
परामृशतीतियतः कुतस्तस्यात्मनः शिवादिक्षित्यन्त विश्वनिर्बरत्वात् स
आत्मा नीलादिरूपेण च कास्ति । नान्विति । परमेश्वरः
ज्ञात्रैकरूपमात्मानं विश्वात्मना ज्ञेयी करोतीति एषा
सम्भावनैव कुत इत्याशङ्क्यात्मव्यतिरेकेण ज्ञेयस्य स्वरूपं
किमपि नास्तीत्याह - इहास्मिन् संविद्दर्शने आत्मरूपात् प्रकाशात्
यस्यपृथग्भूता स्थितिः तादृक् प्रकाशाव्यतिरिक्तं (२०४) ज्ञेयं नैव
भवति तुरेवार्थे । प्रकाशव्यतिरिक्तं ज्ञेयं नैव भवति ——————
——वभासनामित्यादि श्लोकैर्युक्तयः उक्ताः ।

अथाङ्गीकृत बाधकात्मिकां युक्तिमप्याह यदिप्रकाश व्यतिरिक्तं
ज्ञेयं स्यात्तत्तर्हि ज्ञातृऊपस्यात्मनः स्वसंवेदन सिद्धं
स्वव्यतिरिक्त ज्ञेयविषयं यदौन्मुखं ————————
तन्नास्यस्यात् । तेनाव्यतिरिक्त ज्ञेयौन्मुख्यभावेन हेतुना या तेन
व्यतिरिक्त विषयेणौन्मुख्येनान्याधीनत्वरूपं
पारतन्त्र्यमस्यानीयते । पारतन्त्र्यं च प्रकाश स्वभाव भूतस्य
स्वातन्त्र्यस्य विरुद्धमनु———————— लक्षणं
स्वातन्त्र्यमेवात्मनः स्वातन्त्र्यमिति तादृग्विधस्वातन्त्र्या भावात्
व्यतिरिक्त ज्ञेयोन्मुख आत्मा अनात्मैव स्यात् । अनात्मा च घटादिवत्
जडस्वव्यतिरिक्तं ज्ञेयं प्रतिनोन्मुखी भवतीति प्रसङ्गः ।

ततः प्रसङ्ग विपर्यया दव्यतिरिक्तज्ञेयोन्मुख स्वतन्त्रः सन्
आत्मानमेव ज्ञेयी करोतीत्येतदायातमित्येक श्लोकस्यार्थः । अन्यमपि
व्याहतुर्माह - न केवलामित्यादिना । यथोक्तम् -

सक ——– संवित्सर्वत्र वस्तुनितत्तया
स्फुरति भगवत्यात्मैश्वर्याद्विमर्शमयी परा ।

यदि जडमिदं भिन्नं बोधादबोध तमोमयं
तदिह भवितुं भातुं कर्तुं च किञ्चन न क्षमम् ॥

अवैश्वात्म्ये जाड्यं प्रसरतिचितः स्पन्दवपुषः
प्रकाशाद्भिन्नं चेज्जगदखिलमेवान्ध तमसम् ।

(२०५) चितो विश्वात्मत्वादपि च जगतश्चिन्मयतया
शिवः सर्वं सर्वं शिव इति शिवं यामिशरणम् ॥

आत्मानं न केवलं स्वातन्त्र्यमुक्त नीलादिरूपतया सृजति
यावदत्यक्त कर्तृभाव स्वातन्त्र्यामुक्तक्षमे सन्तमात्मानं
शिवालिङ्गादावाहनरूपेणेदं तथा निर्माया व्यवहारयेत् ।
ध्येयं पूज्यादिरूपेण स्थित्याध्यानोपासनार्च नोपदेशादिना
व्याहारेणात्मसाधकान् योजयतीति तत्सम्भाव्यते । एतदात्मनः
स्वातन्त्र्यादुक्त निर्माणमपि । अत एव विमर्शशक्तिरूपात्
स्वातन्त्र्यादिति सम्बन्धः ।

एतन्निर्माणमेव दृढीकर्तुमाह - नन्वित्यादिना ।   

आत्मस्वरूपं स्वातन्त्र्यामुक्तं च निर्मीयते चेत्येतद्विरुद्धम् । अत्रेति ।
अस्मिन् प्रश्नोत्तरमाह - अद्वयात्मनः संविदेकरूपस्य स्वात्मनः
स्वातन्त्र्याद्धेतोः इदं स्वातन्त्र्यामुक्तनिर्माणं न न युज्यते ।
युक्तमेव । यत्किल भेदात्मनि माया पदे घटपटादिविश्वं
प्रकाशमानत्वादहन्तारूपमपि अति दुर्घटं तस्येदन्ताया
प्रतिभानं तदेव पुनरुक्त स्वातन्त्र्यशब्देन । अत एवेत्यनेन
विमर्शशक्तिरूपं स्वातन्त्र्यमुक्तमित्यपुनरुक्तरूपम् ।

अथवा अत एव स्वातन्त्र्यादिति सामानाधिकरण्ये न श्लोकद्वयम् ।   

एकरूपेण स्वातन्त्र्येण सम्बन्धनीयम् । अत्र स्वातन्त्र्यामुक्तत्वेन

प्। १६१) निर्मिते अर्थे उदकाहरणं दर्शयति - किमिति चेत् इदं नीलमिदं
पीतमिति नीलादि निर्माणपदस्य स्वतन्त्ररूपं निर्माणस्या
प्रसिद्धत्वात् । तवुदाहरणमेव प्रकटीकरोति - अयमीश्वरोऽयं
भगवानयमात्मा अयं विभुरयं नित्यः अयं स्वतन्त्र (२०६)
इत्यादौप्रमातुः प्रभवन परस्य पूजयितुः पूजापरस्य ध्यातुः
ध्यानपरस्य च साधकस्य पृथग्भूतं तदीश्वरस्वरूपं क्रमेण
प्रमेयं पूज्यं ध्येयञ्च भातीति तावन्निर्मितम् ।
ईश्वरस्वरूपनिर्मित मित्येतावन्मात्रेण नीश्वररूपं नभवति । एवं
हीति । अनीश्वररूपं भवतिचेत् अयमीश्वरः अयं घटः अनीश्वर इति
सङ्कल्प ध्यानादेस्तुल्यत्वं स्यात् । न चैवमीश्वर इति सङ्कल्प
ध्यानादिं प्रतिसङ्कल्पयितुं ध्यातुश्चाभिमतफलविशेष
स्योपलब्धेः अन्यत्रानीश्वर इति सङ्कल्प ध्यानादौ
फलविशेषस्यानुपलभ्देश्चतुल्यत्वं न भवतीत्यर्थः ।

एतच्छ्लोकद्वयोक्तमर्थं निगमयति - तस्मादित्यादिना ।   

स्वातन्त्र्यशूव्यनीलाद्याभासनेन स्वातन्त्र्ययुक्तेश्वराद्याभासनेन
———– त्युभय प्रकारेणात्मानमेव परमेश्वरो ज्ञेयी करोतीति यत्
तदुभयं ज्ञेयी करणं विमर्शशक्तिबलादेव सा विमर्शशक्तिरेव
परमेश्वरस्यात्मानं प्रधानं रूपमिति स्थितम् ।

नन्वहं रूप प्रकाश ———————— अदिरूपेण
भावव्यवस्था सचाहं रूपः प्रकाशः स्वभावमवभासस्येत्युक्त
नीत्या, प्रकाशमानं न पृथक् प्रकाशात् । सच प्रकाशो न
पृथग्विमर्शात् ।

नान्यो विमर्शोऽहमिति स्वरूपा
दखण्डपूर्णः शिव एव ———————— ॥

———————— तादृग्विधविमर्शा भेदे तदिति प्रकाशात्मकमहं
रूपम्, तदेवेति अहं रूपमेवेति वक्तुं युक्तम् ।
ईश्वराअत्मेत्यादिसङ्कल्पेषु आवाहनरूपेण
निर्मितस्येश्वरस्यायमीश्वर इतीदन्तया परामर्शः स्वातन्त्र्यमह —
——————— (२०७) श्वरस्याहं परामर्शरूपस्वातन्त्र्या भावे
स्वातन्त्र्यामुक्तत्वं कथं भवेदित्याशङ्कां परिहर्तुमाह -
नाहन्तादीत्यादि ।

अहमृश्य तयैव सृष्टेः मृज्यमानस्यात्मनः
अन्योन्यभिन्नादहमिति परामरशादयमीश्वरः

प्। १६२) शङ्करः पशुपति ———————————- ति । किं च
सृज्यमानस्यात्मनः अहं परामर्शविमृश्यत्वाद्धेतोश्चान्यता न
भवति । क्रियाकारक विकल्पसमुच्चयानां तिङ्वाचक
परामर्शाद्यथान्ययान भवति तद्वदिति सूत्रयोजना । अहं ————-
——————— पे भावप्रत्ययः । आदिग्रहणादात्मेश्वरादि
परामर्शोगृह्यते । तिङ्ग्रहणं सुप्रत्ययस्याप्युपलक्षणम् ।
कर्मग्रहणं क्रियाकारकादीनाम्, पाकः कर्ता समुच्चयोविकल्प इति ।
सत्वरुपस्य शक्तिभूतस्य तिङ्तृतीयावावेत्या ———————————-
रूपस्यासत्वभूतस्य चोपलक्षणं
तत्तत्वाद्धेतोर्निर्मातृरूपस्याहं परामर्शमयस्य
निर्मेयरूपस्येश्वरादिपरामर्शास्पदस्य चात्मनः
निर्मातृरूपमहं परामर्शमयः निर्मेयरूपः इदं
परामर्शमय इति यो भेदः शङ्कितः सभेदोनमुक्तः । अत्र हेतुः
अयमीश्वर इति यः परामर्शः स ईशानशीले ज्ञातृत्वात्मनि तत्वे
विश्राम्यति । ज्ञातृत्वं कुण्डत्वं च ज्ञाने च क्रियायाञ्च
स्वातन्त्र्यम् । स्वातन्त्र्यं नामानन्यमुखप्रेक्षित्वम् ।
अनन्यमुखप्रेक्षित्वं नाम अविच्छिन्नज्ञानादिशक्तियोगः ।
ज्ञानक्रिययोरविच्छेदश्च जानामि करोमीत्यस्मदर्थविश्रान्त
इत्यस्येश्वरस्यात्मनः सृष्टेः सृज्यमानस्यापि अहं
विमर्शनीयत्वमेव । सृष्टेरिति वा हेतौ चपञ्चमी निमित्तस्यात्मनः
ईश्वरः पशुपतिरित्यादि सङ्कल्पे ष्वपीति । अहं परामर्शनयोग्यस्यैव
सृष्टिः अहम्मृश्यत इति कृत्यप्रत्ययः अहार्थे वर्तते । यथा क्रिया
कारक विकल्पसमुच्चयादिशक्तयः यथा स्वमसत्वरुपं तिङ्तृतीया
(२०८) वाचेत्यादि प्रयोगावसेय परामर्श परमार्थाः पाकः
कर्ताविकल्पः समुच्चय इत्यादि शब्दैरभिधीयमानाः
सत्वभावमापादिता अपि पचति चैत्रेषा वाचेत्येवं भूते
मूलपरामर्शे विश्राम्यति । एवं
भूतमूलपरामर्शविश्रान्त्यभावेताः क्रियाकारकादिकाः प्रतीता
एव न भवेयुः । तद्वदत्रापीश्वरः आत्मा इत्यादीदन्तया परामर्शः
अहमित्येवं रूपे मूल परामर्शे विश्राम्यति ।

अस्यश्लोकस्य पिण्डितार्थमाह - एतदुक्तमित्यादिना । इह
परामर्शो नाम परामृश्यमानानां भावानां विश्रान्तिस्थानम्
। तत्रापि पार्यन्तिकमेवविश्रान्ति स्थानं पारमार्थिकं तद्विश्रान्ति
स्थानमहमित्येवं रूपम् । यथोक्तम् -

मेयं मानेमितौमानं मितिर्मातरि कल्पिते ।  
मन्येऽवलीयते सोऽपि माता महतिमातरि ॥  

प्। १६३) देवदत्तस्य ग्रामगमने वृक्षमूलस्थानीयं
मध्यविश्रान्तिपदं यत् तदपेक्षया मध्य ईश्वरस्य सृष्टित्वमुच्यत
इति विरोधः । अनेन सृष्टस्येश्वरस्याहमिति मूलविश्रान्ति विचारेण
स्वातन्त्र्य हीनस्य नीलादेरपि इदं नीलादीति मध्यपरमर्शेऽप्यहमिति
मूल परामर्शे विश्रान्ते रात्ममयत्वमुपपादितम् ।

आत्ममयत्वमेव प्रतिपादयति - नीलमिदं अहं नील
परामर्शद्वारेण नीलमात्मनि क्रोडीकृत्य प्रकाशे इति नीलादेरप्यहं
रूपः परमार्थः । यथोक्तम् - इदमित्यस्येत्यादिना । वेद्यं
स्वक्रमसिद्धां वित्तिमनुप्रविशदङ्गविषयाद्यं वेदितरि
वित्तिमुखतोलीनं तल्लक्षणं भवतीति । मूढस्तु नीलादिविमर्शादेव
कटकाभरणाद्यर्थक्रियापरितोषभिमानीति नीलादावेव
स्वातन्त्र्यनिमुक्तत्वमुक्तम् । (२०९) आत्मा ईश्वर इत्यादौ त्वहंरूप
परामर्शविश्रान्तिमन्तरेण नीलाद्यर्थ प्रतीति परिसमाप्तिं नीलादिना
क्रियमाणामर्थक्रियाञ्च मूढोऽपि भिमन्यते इति
तस्यनिर्मितस्याप्यात्मनस्वातन्त्र्यानुज्झितत्वमुक्तम् । नन्विति ।
अयमीश्वरः अयं पशुपतिरयं महादेवः अयं गणपतिरित्यादि
परामर्शानामयं घटः अयं पटः ———————————- इदं
नीलमिदं पीतमित्यादि
परामर्शानाञ्चाहमित्यकृत्रिमैकपरामर्शं विश्रान्तिरेव
तत्वमित्युक्तम् । एवं सर्वस्या ———————————-
नस्मृत्यपोहनशक्तिमानित्ययं शक्तिमद्भेदः कथमुच्यते ।
महेश्वरः शक्तिमान् ज्ञानादिकास्तस्य शक्तयः नीलपीतादिकं
शक्त्यमिति । किञ्च विकल्पस्मृत्यादिमूलभूतस्यानुभवरूपस्य
ज्ञानस्य संशयनिर्णयादि ———————————-
दित्याशङ्कायां परिहारमाह - मायाशक्तीत्यादि । यैवेति पूर्वं
प्रस्तुतः प्रत्यवमर्शात्माचितिः शक्तिः विभोरनुत्तरभट्टारकस्य
स्वात्मनः परमं यत् स्वातन्त्र्यं दुर्घट सम्पादनं महेशस्य
दैवी माया प्रकृतिः स्वात्मावम———————————-
तिदुर्घटकारिण्या भेदोल्लासहेतु भूतया मायाशक्त्या
प्रमात्रभिन्नं तदिन्द्रियाभिन्नान्योन्यनीलपीतदिसंवेद्यगोचरा
भूत्वा ज्ञानमिति नाम्ना सङ्कल्प इति नाम्ना अध्यवसायनाम्ना
सृतिरित्यादि नाम्ना च कथिता इति ग्रथ सङ्गतिः ।

अथ व्याख्या यत् प्रकाशते तदेक प्रकाशात्मकमित्युक्तनीत्या

प्। १६४) विश्वस्यैकप्रकाशात्मकाहं रूपत्वेऽपि अनुपपन्नत्वेऽपि
अनुपपन्नत्वेनेदं तयाभासनं मायेत्युच्यते । ततश्चेति -
एवमुक्तमानत्वादहं रूपात् प्रकाशात् भिन्नमिदं तया भासनं
घटपटाद्याभास जातं मायेत्युच्यते । तदुक्तम् -

(२१०) वस्तुतोऽहं मयत्वेऽपि यद्यत्स्फुरदिदन्तया ।  
तत्तन्मायेति तत्वज्ञैरुक्तं काश्मीरदेशिकैः ॥ इति ।  

तत्र चेति । तस्मिन्नवभासजाते चित्तत्वस्य तदवभासजातभेद
प्रथासम्पादकं स्वातन्त्र्यं मायाशक्तिः । तया माया शक्त्या
प्रमातुरन्योन्यतः वेद्यच्चभिन्नं यत् संवेद्य, किञ्च मायाशक्त्या
प्रमातुर्भेदितेन वेद्याच्च भेदेति ते नान्योन्यतश्च । भेदितेन
करणवर्गेण संवेद्यं यन्नीलपीतादिकं तदेवगोचरो विश्रान्ति
पदं यस्यास्तादृशीति भिन्नसंवेद्यगोचरा सती सैव परावाग्रूपा
चितिः ज्ञानमिति सङ्कल्प इत्यवसाय इति संशय इति स्मृतिरित्यादि
सञ्ज्ञयोच्यते । ज्ञानसङ्कल्पादेः स्वरूपं तत्वतः कथयति -
तथाहि त्यादिना । स्फुटग्राहिणाचक्षुरादीन्द्रियेण स्फुटेन च
रूपादिना विषयेण च नियन्त्रितयं वित्तत्वं तच्चाक्षुषादि ज्ञानं
मनसा अस्फुटेन विषयेण च नियन्त्रितं संवित्तत्वं सङ्कल्पः । अयं
घट एवेति । विषयत्व पर्यन्तभाजा बुद्ध्या विषयेण च नियन्त्रितं
संवित्तत्वमध्यवसायः । विषयस्यान्योन्यतो भिन्नत्वं
प्रमातुर्भिन्नत्वं बहिरन्तः करणेभ्यो भिन्नत्वं यद्बहिरन्तः
करणानां च प्रमातुर्भिन्नत्वमन्योन्यतो भिन्नत्वं
वेद्यद्भिन्नत्वं च यत्तदुभयरूपं भिन्नत्वं प्रकाशा
भेदानुपपन्नमपि चित्तत्वेनेति परमेश्वरेण स्वातन्त्र्यादाभास्यते इति
माया पर्द माया प्रमातॄणामिदमिति भेदे विश्रान्तिः ईश्वर
सदाशिवयोरिवाहमिदमिदमहमिति भेदस्या भेदेन तु विश्रान्तिरिति यतः
तत इति भेदविश्रान्तेर्हेतोरन्योन्यभिन्नाः प्रमातुर्भिन्नाश्च
ज्ञानसङ्कल्पादयः तस्याः प्रध्वस्त पूर्णाहन्तात्मक
स्वस्वभावस्याखिलमहमित्यनुसन्धातुर्महेश्वरस्य शक्तय
इत्युक्तास्तत एव संशयादयश्च भिन्नाः नीलादयश्च भावा (२११)
विचित्रादय इति सर्वमखण्डितम् । यथोक्तम् -

आत्मरव्यातिमनात्मनि प्रथयते देहोन्द्रियादौ तथा
स्वात्मन्येव घटादिके स्फुरणतः स्वान्यामिदन्तामपि ।
प्। १६५) सैषा दुर्घटकारिणी परचित स्वातन्त्र्यरूपा सती
किं किम्न प्रतिभासते भगवती माया तु माहेश्वरी ॥

नान्विति । चितिः प्रत्यवमर्शात्मेति यदुक्तं तस्याश्चितिशक्तेस्तत्
प्रत्यवमर्शात्मत्वं साभिलापं विकल्पाख्य मित्युक्तनीत्याभिलाप
सहित विकल्प सङ्कल्प स्मरणादिशक्तिषु भवतु देशकालाविशिष्ट
साक्षात्करणलक्षणानिरभिलाप निर्विकल्परूपः अनुभवशक्तिर्या तत्र
चितिशक्तेः कथं प्रत्यवमर्शात्म त्वं सम्भावनैव नास्तीति प——-
————————— ति घट पटादि विषयेषु अयं घटः अत्रत्यः
इदानीन्तन इति शब्दभेदयोननामयः सा शब्दविशेष योजना ।

साक्षात् सङ्केतितं योऽर्थमभिधत्ते स वाचकः ।  

इत्युक्तनीत्या प्रमाणिक कल्पित तत्तदभिधान ———————————-
पेक्षते । तच्च स्मरणं - यतो हि पूर्वानुभव संस्कारात् स्मृति
सम्भवः ।

इत्युक्तनीत्या पूर्वानुभव संस्कार प्रबोधमपेक्षते । सोऽपि
तादृशमित्यनुभूत वस्तु सदृश वस्तु सन्दर्शनमपेक्षते । इति ।

एवं दूरतो व ———————————- शक्तेरनुभव
शक्त्यात्मनि प्रथम समये कथं परस्य विमर्शशून्य
ज्ञानमात्रपरमार्थस्य बोधादेर्व्यामोहं (२१२) विमोहितु माह -
साक्षात्कार इति । बोधस्य तत्तद्वस्तु मात्रप्रत्यक्षीक्रणात्मनि
क्षणमात्रा ———————————- स्त्येव । अन्य चेति ।
अनुसन्धानात्मक विमर्शाभावे त्वरितं धावतः गुरुमुखोक्तान्
शब्दान् त्वरितं गृहीत्वा पठतः द्रुतं च पत्रपुस्तकं वाचयतः
तद्धावनं तत्पठनं तद्वाचनं च कथं भवेत् ।
अनुसन्धानवर्जितत्व ———————————- णे प्यस्त्येवेति सूत्र
संयोजना । अथ व्याख्या इहेति । चैतन्यस्याहं प्रकाशात्मनो
बोधस्यात्मभूतः स्वभावभूतः विमर्शात्मा अभिलापयोगः
विषयेषु तत्तत्सङ्केतात्मक वचनेन विनाङ्गुलि निर्देशवि ———————
————- णैव तत्तद्विषयस्वरूपं दर्शयित्रा द्रष्ट्रा च येन
विमर्शेन ज्ञापितं ज्ञानं च भवति सः अङ्गुलिनिर्देशात्मा
विमर्शः । एवं स्वात्मनि शिरोनिर्देशात्मा तत्प्रख्या तत्सदृशः
बोधस्य

प्। १६७) विषयस्य विमर्शमयत्वाद्वस्तुतो विमर्शात्मता
अभिलापमयत्वमेव । एवं निर्विकल्पात्मिकामवस्थामपि परामर्श
मयीं साधयित्वास्तैमित्याद्यवस्थामपि परामर्शमयीं साधयितु
माह - स्तैमित्यादिना । समाधिरूढस्य प्रमातुः सर्वचिन्ता
संहाररूपास्तैमित्यावस्था परामर्शमयी न भवति चेत्तर्हि (२१४)
अस्या अवस्थाया स्तिमितोहमास इति विमर्शरूपा विकल्पात्मक
प्रमातुर्व्यापारानुल्लासात् स्तैमित्यावस्थायाः सम्भव एव
शपथमपरमार्थः अवस्था तृरूपप्रमातुर्व्यापारात्मक
विमर्शानुल्लासे तत्स्तैमित्यावस्था सम्भवः केनवक्तुं शक्यः ।
पुनरप्युत्थान समये तदनुभूतस्तैमिप्यावस्थास्मरणं च न स्यात् ।
विकल्पो न प्रमातुर्व्यापारः । अपितु रूपादिविषयाध्यवसायी
ह्युदियादिति चेत् तर्ह्यस्य समाधिरूढस्य स्वव्यापारभूत
विकल्पात्मक सर्वचिन्ता संहरणमयं किमन्यत् स्तैमित्यं स्यात् ।
तस्मात् प्रमातृधर्म एव विकल्पः न तु रूपादि विषयधर्म इति
विकल्पस्य रूपादि धर्मत्वाभावात् प्रत्युत प्रमातृधर्मत्वात्
प्रमातृधर्मात्मकः विकल्पमयः परामर्शस्तैमित्यावस्था
यामप्यस्त्येव ।

अथाभिलाप विशेष योजना च सङ्केतस्मरण—————————-
—— के तस्य स्वरूपमाह - प्रमाणिककॢप्तं
तत्तत्साङ्केतिकाभिधानात् पूर्वं सर्वैः शब्दैः सर्वाणिवस्तूनि
परामर्शनं सहन्ते । तत्रेति । तेषु वस्तुषु अस्यवस्तुनः
इदमेवाभिधानमन्यस्यान्यदभिधानमिति नियत शब्दं —————-
—————— योजनाप्रकारमेवाह - वालस्य सङ्केतग्रहणात् पूर्वं
स्वपिण्डे अहमित्यवच्छेदेन पुरः स्थिते गोपिण्डे इदमिति विच्छेदेन च
सहजोयः परामर्शस्तत्पृष्ठ इति तत्परामर्शानन्तरमिदमिति
विच्छेदपरामर्श प———————————- मान्योगार इति शब्दः
स्त्रीपुंलिङ्ग सामान्यो गौरिति शब्दश्चारोप्यते । तस्मिन् गोपिण्डे आरोपितो
द्विविधः शब्दः आभासात् (२१५) प्रकाशमान त्वात् प्रमातृमयी
भवति । अत्रारोपणं शुक्तौ रजतारोपण ———————————-
तीत्युक्तं तत्पृष्ठे इति तद्द्विविधशब्दारोपणानन्तरं तस्मिन् रक्तवर्णे
वाचकं गौरशब्दं स्त्रीलिङ्गवाचकं गोशब्दश्च
व्यवच्छेद्यशुक्लबलीवर्दः इत्यन्यः शब्द आरोप्यते । एवं
दीर्घविषाणवान् शुक्लवर्णवान् ———————————- त्यादि
शब्दोऽप्यारोप्यते इति सङ्केतस्यस्वरूपम् तस्मादिति उत्तमवृद्धेन
प्रयुज्यमानं घटमानयेत्यादि व्यवहारं श्रुत्वा मध्यम
वृद्धेन क्र्यमाण घटानयनादिकं दृष्ट्वा बालस्य घट इति
दमानयेतीदमिति नयतीदमिति योजनामयो विमर्शो जायते यस्मात् तस्मात्
चिति शक्तेः प्रत्यवमर्शः साक्षात्कार समयेऽप्यस्ति । साक्षात्कारोऽपि
परमार्थतः पश्यामीत्यादि प्रमातृविकल्पन व्यापार पर्यन्त एव
विकल्प एव पर्यवस्यतीत्यर्थः । परोऽपिबौद्धोऽपि विकल्पं
निर्विकल्पात्मनः प्रत्यक्षस्य व्यापारं मन्यते । व्यापारात्मको
विकल्पः व्यापारवतः प्रत्यक्षात् भिन्नोयुक्तः स व्यापारवतः
प्रत्यक्षस्य स्वरूपभूतः प्रत्यक्षात्मकः साक्षात्कारः
क्षणमात्रस्वभावो भवतु । तस्मिन् क्षणमात्रस्वभावे
साक्षात्कारेऽप्यस्ति विमर्शः । अवश्यं चैतत् साक्षात्कारेऽपि
विमर्शोऽस्तीत्येतन्निश्चितमेवेत्यपि शब्दस्याय माश्रयः । अन्यथेति ।
साक्षात्कारक्षणेऽपि विमर्शो नास्ति चेत्तर्हि गच्छामि पठामि
वाचयामीत्येकरूपेणानुसन्धानेन जवाद्गच्छन् त्वरितं च
परमुख प्रोक्तं वर्णसन्ततिं पठन्नुद्गृणन् द्रुतं पत्रं पुस्तकं
च वाचयन्नभिमतं देशं वर्णसन्ततिं पत्र पुस्तकञ्च
गच्छेदुच्चारयेद्वा पुनश्च साक्षात्कारक्षणेऽपि विमर्शोऽस्तीत्येतदेव
साधयति तथा हीत्यादिना । गच्छतश्चैत्रस्य गन्तव्ये देशे (२१६) तावत्
प्रथम पादविन्यासयोग्य प्रदेश ज्ञानं
तत्प्रदेशाचिक्रमिषातत्प्रदेशाक्रमणं तत् प्रदेशस्याक्रान्तता
ज्ञानं तस्मिन्नेव प्रदेशे स्थितस्य हलास्य देः स्वीकरणात्मनि
प्रयोजनान्तरानुसन्धानं नित्यक्षा आक्रान्तदेशत्यागे च्छागन्तव्य
देशान्तरानुसन्धिः । तत्र चिक्रिमिषेत्यादिना गन्तव्य देश
संयोजनगतदेशवियोजनानुसन्धानरूपेण परामर्शेन विना
गच्छतः अभिमत देशावाप्तिः कथं भवेत् । एवं
त्वरितोद्ग्रहणवाचनादावपि मन्तव्यम् । त्वरितोद्ग्रहणं नाम
गुरुमुखाच्छ्रुतस्यागमादेस्तदानीमेवपठनम्, तत्र तु
त्वरितोद्ग्रहणादौ हृदयादि स्थान स्पर्शादिप्रयत्न क्रमणयोगः । तत्र
तु ध्वावन समय सम्भव साक्षात्कारे तत्
साक्षत्कारसमनन्तरभावि स्थूलं विकल्पकल्पना धावतान
संवेद्यते । तत एव तस्य

प्। १६९) धावनस्य त्वरितत्वमिति तस्मिन् साक्षात्कारे स्वात्मनि क्रोडीकृता
भविष्यन्ति । हटोऽयं परोऽयमिति शब्दभावना शब्दविस्तरः येन तेन
सूक्ष्मेणविमर्शेन भाव्यम् । अनेन सूक्ष्मविमर्शेन क्रीडीकृता
शब्दभावना घटः पट इति प्रसारणेन विवर्त्यमाना विस्तार्यमाणा
(घटः शुक्ल इत्यादि) स्थूलविकल्पो भवति । तदेव दर्शयति - यथा
इदमिति सूक्ष्मविमर्शस्य प्रसारणा घटः शुक्ल इत्यादि । तत्र घट
इत्यस्य विमर्शस्य प्रसारणा पृथु बुध्नोदराकार शुक्ल इत्यस्य
विमर्शस्य प्रसारणा घटः सर्वः शुक्ल जाति गत शुक्लत्व गुण
समवायी इत्यादि धाविः शब्दशक्तिवशात् त्वरित गतौ वर्तते । तत एवेति
जडाद्गच्छन्नित्युक्तम् ।

भवत्वेवमिति । निर्विकल्पा वस्थायां भवदुक्त सूक्ष्मरूपो
विमर्शः धावनादि प्रवृत्त तत्तत् प्रमात्रहं रूप प्रकाशः
शरीरावेशी भवतु । विकल्पा वस्था यां पुनः यत्र नीलादि विषये
स्थूलत्वेनेदं नीलमिति विकल्पता स्फुटा । तत्र तद्विषये (२१७) —————
——————- यत्वेनेदं तया गृह्यते । इदं नीलमिति तद्वत्
तयोर्नीलेदन्तयोर्वाचक भूतो नीलमिदमिति शब्दोऽपि श्रोत्रेण विषय
तया गृह्यते । विमर्शश्च शब्द जीवित इत्यादि भवदुक्त नीला तादृग्विध
शब्द जीवित ———————————- काश स्वरूपात्
कथमपृथग्भूतः स्यात् । पृथग्भूत एव भवितुमर्हति ।
नीलमिदमित्यत्र नीलं यथा चक्षुषा गृह्यते तद्वन्नीलमिति शब्दस्य
श्रोत्रेण विषयता गृह्यमाणत्वात्तादृग्विधशब्दनात्मा सविमर्शः
अ———————————- पदेऽप्यहं रूप प्रकाशा पृथग्भूतो
भवद्भिरिष्टः । तदेतद्भवन्मतं कथं
प्रतिपत्तव्यमित्याशङ्क्याह - घटोऽयमित्यध्यवसा ————————
———- ———————————- अध्यवसातुः
परमेश्वरस्थाध्यवसायशक्तिं नाम रूपातिरेकिणीति घट इति
वर्णद्वयात्मक ———————————- पृथुबुध्नोदरा
कारात्मकं नेत्रग्राह्यं रूपं चातिक्रम्य परमेश्वरः यथाहं
तयैव भावि तद्वदि यमपि तच्छक्तित्वात् तदभिन्नत्वेनाहन्तयैव भाति
नन्विदं तयेति सूत्रसङ्गतिः । घट इति श्रोत्रग्राह्यो विषयरूपस्थूलः
शब्द ———————————- हं रूप प्रकाशं जीवित स्वभावो
विमर्शो भवति इति केनैतदुक्तं घट इति स्थूलः शब्दोऽपि
घटवत्पृथग्भूतः इदन्तयैव भाति । श्रोत्रनेत्रयोर्विमर्शभूतौ तौ
नाम रूपलक्षणौ घटोऽयमिति शब्दार्थौ सोऽयमित्यनुसन्धान
दृष्टयो

प्। १७०) भावप्येकरूपतया युगपदेवैक्येन परामृशन्ती या
अध्यवसाया अध्यवसायशक्तिः सा परमेश्वरस्य विमर्शरूपाशक्तिः
आत्मविदितपरमेश्वर व देवाहमित्यविच्छिन्नत्वेन भाति न तु
कदाचिदपीदमिति विच्छेदेन भासते । तस्या (२१८) अध्यवसाय
शक्तेरिदन्तया विच्छेदेनावयेसति परिनिष्ठत्वादिति घटादिनिष्ठत्वात्
तस्याश्चायं घट इति प्रतीयमानस्य घटस्येवायं विमर्श इति
प्रतीयमानायां घट इति यदियमध्यवसायशक्तिरिति स्वात्मानं
विषयीकुर्वता विमर्शान्तरेण भाव्यम् । तस्मिन् विमर्शेऽपि
इयमेवमर्यादेत्यनवस्थैव स्यात् । अत इति । अनवस्थात एव
विषयीभूतस्यनीलस्य प्रकाशनमेवस्यात् । अहं रूप
विमर्शप्रतिष्ठालाभा भावात् । तस्मादिति । इदन्तया
विच्छिन्नत्वेनावघासाभावात् सर्व एव नीलपीतादिविमर्शः
प्रकाशादविच्छिन्न एव । यथोक्तम् - प्रकाशमानं न पृथ प्रकाशात्
इत्यादि ।

एक संविदिविभाति भेदधीः
नीलपीतसुखदुःखरूपिणी ।

निम्ननाभिरियमुन्नतस्तनी
भाति चित्रफलके समे यथा ॥ इति ।

[अत्र पुटत्रय परिमितो ग्रन्थ पातः ]

(२१९) नन्विति । सर्वस्यैव नीलपीतादि ज्ञानस्य स एव विमर्शः
प्रकाशादविच्छिन्न इत्युक्त नीत्या अहमित्येव प्रतिष्ठा स्थाने अहमिति
स्वरूपे विश्रान्तौ इदं नीलमिदं पीतमिति नीलपीतादि
वेद्यभूमिस्पर्शो नास्ति । अत्रतमिदं नीलमिति हि देशकालयोगः
नीलपीतादि वेद्यभूमौ दृश्यते । नन्वहं रूपे वे दकांशस्य
देशकाल योगाभावे तद्विश्रान्तानां ज्ञानानां मिदमिति इदं
नीलमेवेतितन्नीलमिति तदिदं
नीलमित्यनुभूयमानविकल्पस्मर्यमाणानुसन्धीयमान
तत्तद्विषयापेक्षया च न क्रमत्वं लक्ष्यते । तत्
सर्वक्रमत्वमक्रमाहं रूपविश्रान्तानां ज्ञानानां कथं
भवेत् । क्रमाभावे परमार्थतः पूर्णाहन्तात्मकत्वमेव भवेत् ।
ततश्चेति । एकरूपत्वात् ज्ञनस्मृत्यादिशक्तिभिस्तद्वान् शक्तिमान्
परमएश्वर इति । यदुक्तं परमेश्वर शक्तिमान् ज्ञानस्मृत्यादिकाः
स्तस्य शक्तयः तासां शक्तीनां विश्वं शक्य रूपं

प्। १७१) विषय इति तत् कथं विर्वहेत्याशङ्कां शमयन् एतदाह्निकोक्तं
सर्वं प्रमेय मुपसंहरति । अक्रम स्वरूपविश्रान्तौ क्रमाभाव
इत्येतत् सत्यमेवेति प्रतिपादयितु माह - केवलं तस्यैव परमेश्वरस्य
स्वातन्त्र्यात्मना मायाशक्त्या तस्मात् परमेश्वरात् ज्ञानस्मृत्यादि
शक्तेश्चान्योन्यतश्च भिन्नानि यानि नीलपीतानि संवेद्यानि तत्
सम्बन्धिनौ । अत्रत्यामिदानीन्तनमिति तत् संवेद्य वर्गविशेषणभूतौ
देशकालौ अनुरुध्याक्रमत्वेऽपि इच्छाया मात्रेणावलम्ब्य
ज्ञानस्मृत्यवसायादिशक्तिबृन्दं
प्रथममनुभवशक्तिस्तदनन्तरं विकल्पशक्तिः ततः स्मृतिशक्तिः
अनन्तरं स्मृत्यनुभवओ भयात्मकानुसन्धानशक्तिरिति तं तं
कालं तं तं विषयं चानुरुध्य सङ्क्रमं प्रति ————————-
——— त इति सूत्र सङ्गतिः ।

(२२०) सत्यमिति ज्ञानानामहमिति प्रतिष्ठाने वेद्य भूमिस्पर्शो
नास्तीत्युक्तं परमार्थम् । एवमिति । उक्तप्रकारेण संवित्तत्व क्रममेव
। किं तु केवलेमायाशक्ति वशादुक्तप्रकारेण । यानि भिन्नत्वेन ———-
———————— नि तेषां पृथुबुध्नोदराकारादिमूर्तिभेदेन कृतः
घटस्य पटो दूरवर्ती कुड्यमदूरवर्ति पटः विततएश व्यापी घटः
अवितत देशव्यापीति दूरादूरवैतत्या वैतत्यादिरूपो देशोयह्
तिष्ठत्यादिक्रियाभेदका ———————————- रेणैव विशीर्ण इति
क्रियाभेदकृतः चिरशीघ्रक्रमादिरूपः कालश्च यः तौ तत्तत्
संवेद्यविशेषणभूतौ देश कालावनुरुध्य
तत्तत्संवेद्याहरणोन्मुख तया च्छायामात्रेणावलम्म्ब्यज्ञान
स्मृत्यध्यवसायाः सां———————————- रूपविश्रान्तत्वात्
निरंशानामक्रमणामपि तत्तद्भासमान
देशकालात्मकांशकृतः सम्रमत्वावभासः परस्परापेक्षया
तत्तद्विषयरूपस्वांशापेक्षया च भवति ।

यद्यपि विज्ञानेष्वनुभवादिषु अतीतं वर्तमानानागत ———-
———————— न देशक्रमः । तथापि विमूढस्य
पर्वतसंवेदनं तत्पर्वतस्य विततत्वाद्विततमिव भाति ।
बदरसंवेदनं तु तद्वदरस्य सूक्ष्मत्वात् सूक्ष्ममिव च भातीति
देशक्रमोऽपिदर्शितः । तेनेति । स क्रमाभासत्वेन वेद्यगतदेशकाल —-
—————————— भासात् ज्ञानादीनामपि
सक्रमत्वपारमार्थिकं न भवति । आभासमानस्य वस्तुनः
परमार्थत्वात्

प्। १७२) कृतेत्यस्य ज्ञानादयः अस्य भगवतः शक्तय इत्युक्तं
युक्तमेव ।

(२२१) मायाशक्त्याइर्भारितिश्लोकेन ज्ञानानामन्योन्यं
स्वरूप वैचित्र्यं दर्शितम् । अनेन श्लोकेन तत्तज्ज्ञानविषय नीलपीतादि
सम्बन्धिभ्यां देशकालाभ्यां वैचित्र्यमिति विशेषः ॥

इति श्रीप्रत्यभिज्ञासूत्रविमर्शिनीव्याख्यायां
पञ्चममाह्निकं समाप्तम् ॥

अथ षष्ठमाह्निकम् ॥

एवं न चेदन्तः कृतेत्यादि सूत्रोक्ते स्मृतिशक्ति ज्ञानशक्ती
एकैकेनाह्निकेन सुस्पष्टं निरूप्य
तदुभयानुग्रहकारिणीमपोहनशक्तिमेकेनाह्निकेन निरूपयितुं
तदाह्निक प्रमेयरूपं परमेश्वरं स्तुतिद्वारेण समाविशति -
स्वात्मभेदघनानित्यादिना । स्वात्माभेदघनान्
चिदानन्दघनस्वात्माभेदरूपान् शिवादिक्षित्यन्तान् भावान् ।
तदभेदन टङ्कतः तदभेदघनत्व च्छेदात्मना मायारूपया
स्वेच्छया स्वातन्त्र्य शक्त्या परमेश्वरात्
प्रमातृवर्गेभ्यश्चान्योन्यतो विच्छिन्नं अयं घट एव न पट न चैत्र
इति परिमितान् कुर्वन् चित्ररूपकृदयं घटः अयं पटः इदं घट
ज्ञानं इदं पट ज्ञानं अयं चैत्रः अयम्मैत्रः
इत्यन्योन्यभिन्नप्रमेयप्रमाणप्रमात्रात्मक नानात्वरूपकृत्
अविरतं तत्परोयः तं शिवं स्तुमः ॥

अथेति । स्मृत्यनुभवशक्तिनिरूपणानन्तरं तदुभया नु
ग्राहिणी अपोहनशक्तिरहं प्रत्यवमर्श इत्यादि श्लोकैकादशकेन
निर्णीयते तस्या अपोहनशक्ते रुभयानु ग्राहिणीत्वं
नामानुभवस्मृतिशक्त्योर्विषयभूतस्य घटपटादेर्विश्वमय्या
संविदातादात्म्यात् तत्तत्संविद्विश्वमयत्वेऽपि तत्संविन्मयत्वं
व्यपोह्य तत्तद्देशकालविशिष्टैकैकं (२२२) घटादिमात्रतापादनं
तत्रेति । तस्मिन्नाह्निके प्रथमेनाहं प्रत्यवमर्श इति
श्लोकेनानुत्तरभट्टारकात्मप्रकाश प्राणभूते अहमिति
प्रत्यवमर्शे वक्ष्यमाणरूपो विकल्पः विशेषः, तदंशः
तएकदेशः वतु स्वयं शुद्धः प्रत्यवमर्शे
स्वव्यतिरिक्तापोह्याभावात् तत्सम्बन्ध्यपोहन व्यापारासम्भव इति
तृतीयेन महेश्वरात्मक स्वात्मास्तित्ववादिनि स्वदर्शने
तदपोहनोपपत्तिः इति ततो द्वयेन देहादिषुवर्तमानस्य

प्। १७३) शुद्धस्याहं प्रत्यवमर्शस्याहं चैत्र एव नमैत्रः अघं
घटः इतीयं स्वरूपस्थापनान्यरूपापोहनात्मक विकल्प रूपतेति ।
तत एकेन योऽहं स्थूलोऽभवं सोहमिदानीं कृशः योऽहं
पूर्वं प्रबलः सोऽहमिदानीं दुर्बलः योऽहं पूर्वं सुखी
सोऽहमिदानीं दुःखी । यः पूर्वमल्पनिद्रः सोऽहमिदानीं
दीर्घनिद्रः । एवं योऽहं बालः सोऽहं युवा स एवाहं वृद्धः ।
बाल्य काले यो मे घटोऽभूत् स एवाहं घट इति देहादि प्रमातृ
घटादि प्रमेयगतस्यानुसन्धानस्याप्युक्तान्यापोहनात्मकल्पकेति ।
तत एकेनैकदेहादि प्रमातृगत
विकल्पानुसन्धानादिरूपमेवपरमेश्वरस्य स्रष्टृत्वमुच्यते ।
परमेश्वरस्य स्रष्टृत्वं नाम तत्तद्विकल्पयितृ अनुसन्धातृ
रूपचैत्रमैत्रादि प्रमातृवर्गस्य तत्तद्विकल्पानुसन्धान विषय
घटपटादि प्रमेय वर्गस्य च संयोजन वियोजनादिरूपप्रकाशमिति
तत एकेनं चिदात्मैव हि देवोऽन्तः इत्यादिश्लोकेन प्रकृते चिदात्मनि
परमेश्वरे शिवादिक्षित्यं तस्य विश्वस्य सत्ता सद्भावः
तस्मिन्नेवास्तित्वं पूर्वस्तुतमुपसंह्रियते निगमनेन (१२३) निश्चीयत इति
। तत एकेन चिदात्मनि वर्तमान ———————————- मात्रपेक्षया
बहिः प्रकाशमानस्यार्थाव मासस्यानुभवस्मरणादौ अयं
घटः स घटः घटोभविष्यतीति स्फुटस्फुटास्फुतस्फुटरूपं
वैचित्र्यमुच्यत इति । तत एकेन पूर्वानुभवानपेक्षिणी मनोराज्यादि
स्वतन्त्र विकल्पेसोऽर्थः नैसर्गिकः सहजः स्मरणविषयार्था
वभासवत् पूर्वानुभूतो न भवतीति । तत एकेन स्फुटास्फुट वैचित्र्य
प्रसङ्गा गत स्वतन्त्य्र विकल्प निर्माणोक्तिः
तत्प्रत्यभिज्ञामुपपादयामः । ———————————-
यामीश्वरस्वात्मप्रत्यभिज्ञायामुपयुज्यत इति सर्वस्य जीवित इति शेषः
इत्याह्निकस्य तात्पर्यम् ॥

अथ क्रमेण व्याख्यातुं प्रथमश्लोकस्य शङ्कामवतारयति
स्वभावमवभासस्येति । सूत्रविमर्शः अवभासस्य स्वभावभूत
इत्युक्तं सविमर्शः अयं घट एव न पट इत्यभिलापात्मना शब्देन
योजित एव । तच्छब्दयोजनाकृतं विकल्परूपत्वं शुद्धे अविकल्परूपे
परमशिवेऽपि प्राप्तं शब्दनात्माविमर्शस्तस्य स्वभावभूत
इत्युक्तत्वात् तत्परमशिवे एतद्विकल्प रूपत्वं नेष्टम् ।
अन्योन्यापोहनात्मक

प्। १७४) मयात्मनि संसारपदे तस्य विकल्परूपस्योपपत्तेरित्याशङ्क्य
परमशिवप्राणभूतः अहं प्रत्यवमर्शो विकल्परूपो भवतीत्याह -
प्रकाशस्यानुत्तरभट्टारक बोधस्यादिमान्तगृहीत
वर्णराश्यात्मिका हमिति या स्वतः प्रथ इत्युक्त नीत्या वग्वपुरपि
विकल्पो न भवति । स विकल्पः द्नयाक्षेपीति अयं घटः एव न पट इति
व्यवस्था पनीयापोहनीयात्मक भाव द्वयाक्षेपी विनिश्चयोभवति
यतः ततः अहमिति प्रत्ययविमर्शः एवं भूतविकल्पात्मको न
भवतीत्यर्थः । इति सङ्गतिः ।

(२२४) अथ व्याख्या प्रकाशस्य
मायादिकलङ्करहितत्वाद्विशुद्ध संविद्रूपस्य अत एव स्थूलोऽहं
कृशोऽहमित्यादिरूपदेहादि
संस्पर्शैरकलुषितस्यानुत्तरभट्टारकात्मन् बोधस्यात्मा
जीवितभूतः वह्नेर्दाहिकाशक्तिवत्सारस्वभावं व्याप्तत्वान्नित्यत्वात्
पूर्णत्वाच्च देशकालाकाराक्षक विच्छेदशून्या अन्तः
शिरोनिर्देशवदोमित्यभ्युपगमकल्पः स्वान्तः शिवादिक्षित्यन्त
विश्वक्रोडीकारात् । अत एव बहिः
स्वव्यतिरिक्ताभावादन्यमुखप्रेक्षित्वरूपस्वातन्त्र्यात्मक
विश्रान्तिरूपोऽहमिति प्रत्यवमर्शोयः असौ विकल्पो न भवति । अयं
घटः इत्यादि शब्द जीवितस्य विच्छिन्नविमर्शस्येवाहं
प्रत्यवमर्शस्यापि विकल्पत्वाशङ्कायां कारणं दर्शयति -
वाग्वपुरित्यनेन विशेषणेन भवता या विकल्पत्वाशङ्काहेतु भूता
वात्रिविचार्यते । एषा परावाक् तादृशीन भवतीत्याह - अत्र वागित्यनेन ।
नेत्रग्राह्य घटादि विषयवत् श्रोत्रग्राह्यात् अत एव विषय रूपात् अयं
घटः अयं पट इत्यादि शब्दादन्य एव । अन्तरिति
पूर्णाहन्तात्मतयावभासमान संविद्रूपावेशी शब्दनात्मा
अहमेवाखिलमित्यन्तः परामर्शनात्माभिलाप उक्तः । किञ्चयः
प्रपञ्चः माया प्रमातुर्बहीरूपेण भाति भासते तं । शिवादि
क्षित्यन्तं स्वस्मिन् विश्रमय्यसोऽयमिति
अनुसन्धानात्मिकाहन्तारूपत्वेन वक्तिविमृशतिति वाक् अहं
प्रत्यवमर्शः वाग्वपुरिति भवताङ्गीकृतश्चेत् कस्मान्नविकल्पः, आह

  • अस्य प्रत्यवमर्शस्य विकल्प लक्षणं नास्ति । विकल्प स्वरूपमेव
    निरूपयति - दूरस्थितं यत् किञ्चिद्वस्तु दृष्ट्वा तद्वर्णौ ज्वल्या दयं
    वह्निर्वा गुञ्जाफलं वेति विविधा कल्पना

प्। १७५) विकल्प एव विविधत्वेन शङ्कितस्य वह्न्यात्मनो वस्तुनः अयं
वह्निरेवाथन गुञ्जाफलमिति । कॢपूच्छेदन इति धातुगत्यान्यस्य
गुञ्जाफलरूपस्य च्छेदनं (१२५) विकल्पः, विकल्पे तदिति
वह्निरूपत्वं निश्चितव्यम् । अच्चेति । अवह्निरूपगुञ्जाफलं व्यपोहितं
च भवति । अयं वह्निरेव न गुञ्जाफलमित्यहं प्रत्यवमर्शः
स्वव्यतिरिक्तापोहनीयाभावाद्विकल्पो न भवति । सः विकल्पः
द्वयाक्षेपीविनिश्चय इति यदुक्तं तदेवानुवदति - तथा चेत्यनेन ।
अन्योन्य भिन्नयोर्घटपटयोरिव द्वयोरवभासः स्यात् सम्भवति
शिवादिक्षित्यन्त विश्वपूर्णस्याहं प्रकाशस्य पुनरिवेति
तत्तुल्ययोगिनः प्रतियोगिनोऽन्यस्याप्रकाशस्य । वभासनमेवस्यात् । सं
———————————- यतः प्रतियोगिनः सम्भवोऽस्तिचेत् सोऽपि
प्रकाशात्मक एव हीति यतः तस्मादहं प्रत्यवमर्शस्य विकल्प
रूपत्वं नास्ति । इति सूत्र सङ्गतिः ॥

घटे हि दूरवर्तिनि दृष्टे स्वासिकायोग्यभिमत तद् घटस———–
———————– क्रमणशीलः संवर्तितः घटः अदृश्यमानोऽपि
तस्य घटस्य दूरवर्तित्वेन स्फुटावमर्शना भावात् घटो वा
पटोवेति संशयाधिया पूर्वानुभूत पटानुभव संस्कारात्मक
विज्ञानोपनीतः सम्भाव्यते ।———————————-
भाव्यमानत्वात् तस्मिन् सः पटारोपः सावकाशी भवति । पश्चात्तस्मिन्
घटे स्फुटतया दृष्टे सति अयं घट एव न पट इति पटस्या
सत्यरूपारोपनिषेध लक्षणः अपोहन व्यापार इति तदपोहन
व्यापारानुप्राणित ———————————- स्य निश्चयस्य । अत्र
लिङ्सम्भावनायाम् ।

एवं रूपाविकल्पता प्रकाशस्य नास्तीत्याह - यस्त्वयं पर
शिवाहं रूपः प्रकाशो नाम घटस्थाने पट एव तस्य स्थाने
तदहन्ता प्रकाशात्मायः यं भाव्यते सः प्रकाशमान —————
सत्वान्नसम्भवति । तुल्य कक्ष्यवस्तुनः स एव सम्भावनं पटस्य
प्रकाशमानत्वेन प्रकाशमानघटतुल्य कक्ष्यत्वात् (२२६) घट
स्थाने सम्भावनं भवतु । अप्रकाशस्य त्वसत्वेनैव प्रकाशतुल्य
कक्ष्यत्वाभावात् प्रकाश स्थाने सम्भावनैव न भवति ।

एवं स्वरूप तस्तुल्य कक्ष्यत्वं नास्तीत्युक्त्वा अर्थक्रियातोऽपि
तुल्यकक्षयत्वान्नास्तीत्याह - प्रकाशेन यद्विश्व प्रकाशनादि
करणीयं

प्। १७६) तदप्रकाशस्य कदाचिदपि न दृष्टम् । यः स्वयमप्रकाशः सः
किमन्यत् प्रकाशयितुं समर्थः । तस्या प्रकाशस्य प्रकाशस्थाने
सम्भावनारोपणादावङ्गीक्रियमाणे त्वप्रकाशत्वमपि घटेत
सोऽपि प्रकाशैक रूप एव भवति ।

एतदेव निगमयति - अत इत्यादिना । अन्तः स्वरूपेणार्थियातत्तुल्य
कक्ष्यत्वा भावात् प्रकाशस्येव प्रकाश तुल्यस्यान्यस्येवेति
स्वयमप्रकाश स्वरूपस्य भेदिन इति स्वयमपि प्रकाश क्रियमाणार्थ
क्रिया कारित्वात्तुल्यकक्ष्यस्य । किञ्च भेदिन इति । उक्तरूपा पोहनात्मक
भेदन व्यापार सहिष्णोः कस्यचिदवभासनमेव नास्ति । तदभावे
तादृशस्य वस्तुनः असत्येकस्यापोहनम् । अवभासम्भवे नास्ति ।
तदभावे तादृशस्य वस्तुनः असत्येक स्यापोहनम् । अवभास सम्भवे
तस्या प्रकाशस्यापि प्रकाशरूपत्वमेवा एवं प्रकाशस्येव
नान्यस्येत्यर्थस्यान्यमप्यर्थं दर्शयति -प्रकाशस्येवेति
प्रकाशतुल्यस्यान्यस्य प्रकाशाद्वितीयस्य प्रकाशस्य भेदिनः
प्रथमप्रकाशतुल्यकक्ष्यस्यावभासनमपि नास्तीत्याह -
महाप्रकाशस्य विश्वपूर्णत्वाद्विश्वव्यापकत्वाद्विश्वतोदितत्वाच्च
स्वरूपतो देशतः कालातश्चैवमाकारः एतद्देशस्यः
एतत्कालवर्तीत्यादिभेदो नास्ति । येन भेदेन द्वितीयः प्रकाशः एतस्मात्
प्रथमप्रकाशादपोह्ये तर्हीति । उक्तादेवहेतोः । द्वयाभावादिति द्वितीय
वस्तुनो ऽभावात् अपोह्यवस्तु सम्भवे विकल्प रूपत्वाभावात् चिन्मात्रे
चिदेकरूपे परमात्मनिपरमशिवे स्वात्मनि अहमित्येतत्पूर्ण
प्रत्यवमर्श एव ननु विकल्पः ।

(१२७) नन्विति । घटे दृष्टे तत्स्थान एव
स्वविज्ञानजनकसंस्कारात्मककारणोपनीतः पटादि स्वभावोऽपि
सम्भाव्यते । तत एव सनिषेध्यत इति यदुक्तं तत्कथं
परिनिष्ठितरूपेऽन्यपटादिविविक्ते घटमात्र रूपे सति कथं स्यात् ।
किञ्चैतद् घटदर्शनमुपजीवता घट एवेति विकल्पेनादृश्यमानस्य
पटस्य निषेधः कर्तुमशक्यमेव न घटदर्शन समये
अघटरूपस्य पटस्यरूपं चक्षुर्विषयं तावद्दूरेतिष्ठतु
तदानीं केनचित् श्रोत्रविषयं तन्नामापिन गृहीतं घटे हि दृष्टे
पटानुभवस्य संस्कारोऽपि कथं कारं प्रबुध्यताम् । विमतमेतत् ।
सत्यम्, ज्ञानसन्तानमेव तत्त्वमिति सौगताः इत्युक्त नीत्या नैरात्म्य
वादी शाक्य एवं पर्यनुयोज्यः नतु नयम् ।

प्। १७७) अस्मत्पक्षे तदतत्प्रतिभा भाजामपट प्रतिभामघट
प्रतिभां च भजतामत्रैव तदित्य घट व्यपोहनात्तन्निश्चयमिति
घटनिश्चयनमेव घट इत्ययं विकल्प इत्युक्त इति यतः अतः शक्या एव
पर्यनुयोज्यः नत वयम् ।

इहास्मद्दर्शने प्रमाता नाम प्रमाणपथा ————— मुख
विमर्श रूपा सु प्रमासु स्वतन्त्रः घट प्रमायाः काञ्चन
प्रमायाश्चैतस्मिन्घटपिण्डे घटं काञ्चन इति संयोजनं
वियोजनं तु तस्मिन्नेव घटे नायं घटो रजत इति रजतसंविद्विश्लेषण
——————————— उभयोरपि दृश्यमानत्वात् तस्मिन् घटे रजतस्य
वियोजनं संहारः तस्य दृश्यमानत्वात् । (२२८) आदिशब्दात्
घटकाञ्चनयोः स्थितिः किञ्चसंयोजनमेकास्मिन् घटे
सोऽयमित्यनुभवस्मरणयोरैक्यरूप ——————————— मिति
पुरः स्थिते वस्तुनि वर्तमानाय निर्विकल्पकरांविदमयं घटन
पटः सोऽयं इति विकल्पस्मरणानुसन्धान संविद्भ्यो विश्लेषणम् ।
एवं विकल्प संविदोऽप्यनुभवस्मरणानुसन्धानसंविद्भ्यो
विश्लेषण ———————————
विकल्पानुसन्धानसंविद्भोविश्लेषणम् । अनुसन्धान संविदोऽप्यमिति
अनुभवसंविदः अयं घट एवेति विकल्प संविदः स इति स्मरण
संविदश्च विश्लेषणम् । एवं भूत संयोजनवियोजनाद्या—————-
—————– त् कर्ता दर्शितः । न चेदन्तः कृतेत्यादौ तस्य
प्रमातुरन्तर्वः शिवादिक्षित्यन्तोऽर्थावभासश्चिन्मात्रशरीरः
अहमित्यैक्येन प्रतिभासमानत्वात्तत्सामानाधिकरण्य वृत्तिरपि
दर्पणगतनगरन्यायेनेति । तथादर्पणान्तर्गतं नगरं
दर्पणोऽयं नगर मिदमिति भेदेन भाति दर्पणान्तर्गत्वाच्च
दर्पणादभेदेन च भाति । तद्वच्च प्रतिभातीत्युक्तं ग्राह्यग्राहकता
भिन्नावित्यत्र । एवमिति । दर्पणगतन्यायेन प्रमातुरन्तर्विश्वस्यास्तित्वात्
। प्रतिभां घट प्रतिभाम् । अतदित्यघटप्रतिभां च प्रमात । भाजते
सेवत एव । समुद्रान्तर्गतानदी पूर्वमेव यथा समुद्रान्तर्गत
सर्वनदीमयी समुद्रीभवति तद्वदविकल्पदशायां घटः
तत्प्रमात्रात्मक चित्स्वभावः सन् चिद्वदेव तच्चिदन्तर्गत विश्वशरीर
पूर्णः । तेनेति । विश्वमयेन घटेनोदकाहरणादि व्यवहारो न क्रियते ।
तत्तदिति । उदाहरणादि व्यवहाराभावाद्भेदप्रथाहेतुं माया
व्यापार उल्लास यद्विश्व पूर्णमपितं घटात्मकं भावं
खण्डयति अन्यप्रमातृपटादिव्यपोहनेन परिमिती करोति । तेन
खण्डनेन तं घटं प्रत्यात्मनः प्रमातुः पटादेश्चायं घट

प्। १७८) (२२९) एव न प्रमाता न पटादिरिति तत्तत्प्रमातृ
पटाद्यपोहननरूपं निषेधनं क्रियते । तदपोहनप्राणो हि घट एव
न पट इति निश्चयः । एवार्थस्य सम्भाव्यमाना परवस्तु
निषधरूपत्वात् । एव इति निश्चयात्मा विकल्प एव तत्क्षणं विकल्पात्
परीत इति प्रमातृवर्गादन्यप्रमेयवर्गाच्च विश्लेषरूपाद्विच्छदनात्
परिच्छेद इत्युच्यते । द्वितीयतः एवं तस्मात् द्वयाक्षेपी विनिश्चय
इत्युक्तं युक्तमेव । अहं प्रत्यवमर्शो न विकल्पः । विकल्प वस्तु
द्वयाक्षेपी विनिश्चय इति प्रथमश्लोकोक्ते वस्तु द्वये
अनन्तरश्लोकद्वयेन हेतू क्रमेणोक्तौ तत्र । प्रकाशस्यैव नान्यस्य
भेदिनस्त्ववभासनम् । इत्यर्धम्,

अहं प्रत्यवमर्शोयः प्रकाशात्मापिवाग्वपुः ।  
नासौ विकल्प इत्यास्मिन् वस्तुनिहेतुत्वेनोक्तम् ।  
भिन्नयोरवभासोहि, तदतत्प्रतिभाभाजः, इति सार्धश्लोकः ।  

स ह्युक्तो द्वयाक्षेपी विनिश्चय इत्युक्ते वस्तुनि हेतुत्वेनोक्तः, इत्यस्मिन्
श्लोकत्रयेऽहं प्रत्यवमर्शात्मक महावाक्यार्थो दर्शितः
नैरात्म्य वादिभिः । एक प्रत्यवमर्शाख्ये तान ज्ञान एकत्र । स्थितः
प्रवक्ता तद्धेतून् भावान् विसृजति स्वयम् । इत्यस्मिन् श्लोके प्रवक्तेति
स्वयमिति च वदद्भिः शाक्यैरप्ययं विकल्पः प्रमातृ
व्यापारभावोक्तः सतु प्रमाता एतैः प्रमातृशून्यकेवल विज्ञान
वादिभिः कथं समर्थ्यते इत्यास्तान्तावदेतत् ।

नन्विति । यथा घट इति विमर्शे तत्प्रतियोगिनोघटरूपस्य निषेधेन
विकल्पता जाता एवमहमित्यपि प्रत्यवमर्शे
तत्प्रतियोगिनोऽनहंरूपस्यापोहनीयस्य घटादेरपोहे विकल्परूअता
कथं न स्यादित्याशङ्य शुद्धेऽहं प्रत्यवमर्शे अपोहनीया
भावात् (२३०) या न भवति शुद्धे एव सा भवतीत्याह - चित्तत्वमिति ।
पूर्णाहन्ता त्मकं चित्तत्वं भेदप्रथारूपया मायया हित्त्वा
अन्तर्विचित्र ——————— तमप्य परामर्शेन प्रधानी कृत्यान्य
स्माद्देहादेर्घटादेश्चभिन्ने देहे बुद्धौ प्राणेनभसीवकल्पिते
शून्ये अहं स्थूल एव न कृशः न घटः, अहं सुख्येन न दुःखी—-
——– दुर्बलः नघटः अहं सर्वरूपरहितः एवं न
देहादिर्नघटादय इत्यन्य देहादि घटादि व्यपोहनात्
प्रमातृत्वेनात्मत्वेन यो विमर्शः स विकल्प एव । कस्मात् परस्या न्यस्य
देहादेर्घटादे ——————————— न्योन्यपरिहारात्

प्। १७९) विरुद्धस्य च समारोपण लक्षणोऽवभासो
यस्तदवभासनिषेधेन तस्याहं विमर्शस्य जातत्वात् इति सूत्रसङ्गतिः

अथव्याख्या । अहमित्यवमर्शः (शिवादि क्षित्यन्त) शुद्धश्च
मायीयश्चेति द्विधा, तयोः ——————————— द्धः
प्रत्यवमर्शः शिवादिक्षित्यन्त विश्वाभिन्न इति । अन्तः अन्तः क्रोडी कृत
शिवादिक्षित्यन्त विश्वेसंविन्मात्रे बोधे रूपे शिवभट्टारिकात्मनि
भवति ।

अथवा - क्षित्यादि शुद्धविद्यान्त विश्वच्छायाच्छुरिते
स्वच्छात्मनि श्रीसदाशिवभट्टारकरूपे संविन्मात्रे भवति ।
अशुद्धस्त्वहं रूपः प्रत्यवमर्शः इदमिति वेद्यरूपे शरीराभावे
भवति । तर शुद्धोऽहं प्रत्यवमर्शेऽपोहनीय व्यतिरिक्तः प्रयोगी न
सम्भवति । घटादेरपि प्रकाश सारत्वेन
प्रतियोगित्वाभावादपोह्याभावे विकल्प रूपत्वं न भवति ।
अशुद्धस्त्वहं प्रत्यवमर्शो वेद्यरूपे शरीरादौ भवन् तत्
एवान्यदेह घटादिव्यवच्छेदेन च भवन् विकल्प एवेति श्लोक द्वयस्य
वाक्यार्थः । पदार्थस्तु व्याक्रियते । पूर्णाहं प्रकाशमात्र
रूआश्चित्तत्वं हित्वा (२३१) अन्तर्देहादि घटादि भित्तिभूतत्वेन
सदप्यप्रधानी कृयापरामृश्य देवादिरूपोऽहमेव
मद्व्यतिरिक्तेनीलादौ प्रमेये प्रमातेत्यभिमानेनाहं स्थूल इत्यादि
विमर्शोऽयं सविकल्प एव न तु शुद्धम् । अविकल्पम् । अत एव पूर्णं
प्रत्यवमर्शमात्रम् । अत्रेति । तस्य विमर्शस्य विकल्पत्वे हेतु माह - तस्य
देवदत्तोऽहमिति । विमर्शस्य परस्वव्यतिरिक्तश्चैत्र मैत्रादिरूपो
देहादिर्घटादिश्चयः प्रतियोगी प्रकाशमानत्वातुल्य कक्ष्यः । किञ्च,
अन्योन्य परिहारेण विरुद्धश्च तस्यैवं भूतस्य प्रतियोगिनोयः
स्मारोपणलक्षणोऽवभासस्तत्समारोपण लक्षणविभास
विषेधानुप्राणितः अहमित्यवमर्शो जातः अहं स्थूल एव न कृशो न
घटादिरिति शुद्धाहं प्रत्यवमर्शस्याप्रधानीकरणमेव
देहादेर्घटादेश्चान्योन्यं भेद हेतुः तस्य शुद्धोऽहं
प्रत्यवमर्शस्यावहस्तेन तु परमेश्वरस्य विश्वमय
विश्वोत्तीर्णस्वात्मप्रच्छादनो रूपाभेदाप्रकाशनात्मकं
प्रतिभ्रान्तिरूपं प्रतिस्वातन्त्र्यरूपा मायाशक्तिःहेतुः । किञ्च
अत्यक्तवेद्यभावस्यान्योन्यभिन्नो देहादावुपपत्ति शून्यतयाहमिति
प्रमातृत्वभिमानो यः विमर्श स्तदेव चिद्रूपस्यापहस्तनम् ।

प्। १८०) अथ देहादौ वर्तमानमहं विमर्शं प्रत्येकं पृथक्
पृथगेव निरूपयितुमाह - देह एवात्मेति । देहाभिमान भूमिकायां
स्थिताश्चार्वाकाः चैतन्यविशिष्टः कायः पुरुष इति
कायमात्मत्वेनाहुः । स्त्रीबालमूर्खाणां काय एवात्मेत्यभिमानात्
। ततोऽपीति । चार्वाकेभ्योऽपि विवेकवन्तः, पाकजो नाम
शुक्लशोणितात्मकोधातुः तस्मादुत्पत्तिः ततः परिणामः ततो जरा
ततोमरणम् । इत्यादिमत्वात् शरीरं मन्वानाः (२३२)
प्राणशक्त्युत्क्रान्तौ शरीरस्य कीटाविष्टत्व दुर्गन्धत्वादि
विकारशतं पश्यतः बुभुक्षापि पासा सम्बन्धयोग्यं
प्राणमेवात्मानं क्वचिच्छ्रुत्यन्त विदोमन्यन्ते । तत इति । श्रुत्यन्त
विद्भ्योऽपि अधिक विवेक भाजः प्राणस्यापि क्षणिकत्वेनानित्यात् तस्य
प्राणस्य सोऽहं सोऽहं सोऽयमित्यनु सन्धान योग्यतामपश्यन्तः
ज्ञानसुखदुःखेच्छाद्वेष प्रयत्नधर्माधर्म
संस्कारात्मकनवगुणाश्रयभूतां बुद्धिमेवकाणाद
प्रभृतयः आत्म ——————————— माहुः ।

अपरे शून्यब्रह्मवादि साङ्ख्य प्रभृतयः तस्याश्च
बुद्धेर्योनिदशायामियमिति वेद्याभावात् । अपरत्वमश्रोष्ठत्वं
मन्यमानाः असंवेद्यपूर्वरूपं देहादिघटादि वेद्यराशि
विनिर्मुक्तम् । अत एव शून्यत्वान्नभः स्थलं अ———————————
भूतं महाभूताकाशस्वभावं यन्न किञ्चिद्रूपं शून्यं
तदेव प्रमातृतत्वमाहुः । तस्मिन् शून्ये इदमिति वेद्येसति अवेद्यरूपं
शूज्यान्तरं कल्पनीयम् । तस्मिञ्छून्यान्तरे वेद्ये अवेद्यं
शून्यान्तरं कल्पनीय ——————————— दो भवति ।
तावद्वेद्यरूपं शून्यं कल्पनीयमित्यर्थः । एवं
शून्यकल्पनायामनवस्था च न भवति । परमार्थ प्रकाशबलेनेति
घटदेह प्र ——————————— प्रत्यवमर्शात्मक
प्रकाशबलेन प्रकाशो यतः न तु देहादि वशात् स्थूलोऽहं
कृशोऽहमित्याद्यभिमानमात्ररूपो देहादिः प्रमाता शून्यं नाम
स्वोपरिवर्तिनः पूर्णाहं प्रकाशात्मनश्चिततत्त्वस्य च स्वाधो ———
—— काचः घटविविक्तं भूतलं यथा घटाभावः तत्सङ्कोचोपरि
वेद्यांशच्छुरितं चित्तत्वमेव बुद्धिप्राणदेहादि जायते ।
अमीदेहादिभूमिका विशेषा उत्तरोत्तरमिति देहमतिक्रम्य प्राणे
प्राणमति क्रम्य (२३३) पु ———– मतिक्रम्य शून्ये शून्यमतिक्रम्य
चित्तत्वे चारोहतां योगिनां जाग्रत्स्वप्न सुषुप्ततुर्य तया
पिण्डपदरूप रूपातीतया चागमेषु

प्। १८१) भण्यन्ते । उक्तमपहस्तनमागमाधिकारे व्याख्यास्यते ।
कलोद्बलितमेतच्चेत्यनेन । स्मादेवा शुद्धोऽहमित्यवमर्शो विकल्प एवेति
स्थितः ।

द्विविध इति । अहं प्रत्यवमर्शः प्रकाशात्मा इत्युक्तः प्रकाश
प्राणभूतोऽहं प्रत्यवमर्शः देहबुद्धावित्यादि श्लोकद्वयोक्तो
देवाद्यहं प्रत्यवमर्शश्च
प्रत्येकमनुभवरूपेणानुसन्धानात्मना च द्विधा । तत्र प्रथमः
प्रत्यवमर्शः शिवात्मनि शिव स्वरूपे अहमित्यनुभवात्मा
सदाशिवेस्वरात्मनिस्वरूपे अहमिदमिदमहमित्यनुसन्धानात्मा इति
तस्य द्वैविध्यम् । द्वितीयस्तु देहादौ अहं स्थूल इत्यनुभवात्मा योहं
स्थूलोऽभूवं सोऽहमिदानीं कृशः । योऽहं बालोऽभूवं
सोऽहं युवा स एवाहं स्थविरोभविष्यामीति स्थौल्यकार्श्यादिदशा
स्वनुसन्धानात्मा इति तस्यापि द्वैविध्यम् ।
तत्रोक्तरूपानुसन्धानात्मतयोभयात्मनिशुद्धेऽहं प्रत्यवमर्शे
विकल्प रूपत्वमप्रतिष्ठितमेवेत्युक्तं अहं प्रत्यवमर्श इत्यत्र सूत्रे
। अनुभवरूपेऽशुद्धे अहं प्रत्यवमर्शे विकल्पत्वमुपपादितं देहे
बुद्धावित्यत्रा शुद्धेत्वनुसन्धानात्मकाहं प्रत्यवमर्शेयोऽहं
बालोऽभूवं स एव स्थविरोवर्तते इत्येतावन्तं कालमभेदस्य
प्रस्फुरणत्तस्य कश्चिदविकल्पत्वं शङ्कते तस्य व्यामोहं
व्यपोहितुम् । अनुसन्धानात्मा अशुद्धाहं प्रत्यवमर्शोऽपि विकल्प
एवेति प्रतिपादयति कादाचित्कावभासो । अत्रत्यमिदानीन्तनमेवं
रूपमिति यतः देशकालाकाराभासे पूर्वोक्ते देहादौ
संस्कारात्तत्तद्बाल्याद्यवस्थानुभव कृत (२३४) संस्कार प्रयाज
स्मृतिवशात् योऽहं बालोऽभूवं सोऽहं युवा योऽहं युवा
आदिग्रहणात् स एव स्थविरोभवितास्मीति पूर्व पूर्वाभास
उत्तरोत्तराभासे अनुसन्धानात्मिका सहया योजना सा विकल्पना । विकल्प
एव कथमिति चेत् तत्रापि योजनायां तस्य देहादेः योऽहं
बालोऽभूवं सोऽहं युवा न चैत्रः न घट इति अन्या भासनात्मक
भिन्नावभासित्वात् । इति सूत्र सङ्गतिः ।

अथ व्याख्या - कादाचित्क इति । यस्यं देहादेरवभासः
कादाचित्कः नियत देश कालाकारः तस्मिन् देहादौ
पूर्वाभासादियोजनेति पूर्वरूपबालाभासेनोत्तरेण युवा ।
आदिग्रहणात् तस्य ह्युत्तरेण भाविना स्थविराभासेन

प्। १८२) च सह योजना । सा सर्वाकल्पना विकल्प एव । सा विकल्पात्मिका
योजना शुद्धोऽहं प्रत्यवमर्शो न भवति । अत्र
भिन्नावभासिनीत्येतद्देहादेर्विशेषणं तस्य विकल्पतायां
हेतुत्वाशयेन स देहादिः अन्योन्य भिन्नावभास इति यतः तदानीमपीति
तस्यां विकल्प रूपायां मनुसन्धान दशायां मत्यविच्छिन्नं क
—————तस्य देहादेर्विश्वतः पूर्णत्वम् । अत एवावच्छेदहीनत्वं
पश्यन्नहमिदं सर्वमित्यनु सन्धानं विदध्यात् ।
तदियमेवानुसन्धानात्मा सा दशा सदाशिवभुः पूर्णत्वे
नापोह्यत्वा भावात् केन विकल्पा स्पदत्वेन भण्येत यावतेति ————
त्यर्थः । देहादिष्वनुसन्धिरवच्छिन्न एवान्योन्य भिन्नेदेहादौ
कथमनुसन्धिरित्याशङ्क्याह - संस्कारादिति । प्राक्तन
बालावस्थानुभव कृत वासना प्रबोध जात स्मरण बलादेव सोऽहं
———— णे योऽहं प्रबलोऽभूवं सोऽहं दुर्बल इति
बलाबलवशादनुसन्धिः । बुद्धौ योऽहं पूर्वमल्पबोधः स
एवाहमिदानीं सम्पूर्णबोधः, शून्ये योऽहं पूर्वमल्पनिद्रः स
एवा (२३५) हमिदानीमल्प ——————————— णाद्यनु सन्धिरपि
विकल्प एव । यो घटः पूर्वं बाल्यादवस्थायां दृष्टः स
एवेदानीं स्थवि राव स्थायां अपि दृश्यत इति घटा द्यनुसन्धानेऽपि
विकल्पत्वं मन्तव्यम् । न केवलं देहाद्यनुसन्धानभूमिषु
सोऽहमित्यभेदप्रथायाः स्फुरणादभेदात्मिका विद्याशक्तिरचितद्युति
व दुदीच्यत इति तासामनुसन्धान भुवां पूर्ण स्वरूपपरिशीलनादि
कल्पनायां गुरवः उपायत्वमभ्युपगमन् । देहदीनमिति । परमार्थ
प्रकाशबलेन सर्वस्य यतः प्रकाशः नतु देहादि वशात् इत्युक्तनीत्या
देहादीनामपि प्रकाश्यत्वेन जडत्वात् पूर्व पूर्व प्रमातृ वेद्यतान
भवति । येन वेद्यत्वेन प्रमातुरप्रकाशे देहरूपे प्रमातरि
अदृश्यमाने घटादि प्रमेयं ना भाति । न देह प्रमातापि तत्पूर्व
प्राणप्रमातर्यदृश्यमाने ना भाति सोऽपि तत्पूर्वरूप
बुद्धिप्रमातर्य दृश्यमाने ना भाति । सोऽपि तत्पूर्वरूप प्रमातृ
प्रकाशे ना भाति सोऽपि कल्पनीय तत्पूर्वरूप शून्यान्तररूप
प्रमात्र भावेना भाति । अनवस्था या न किञ्चिदपि प्रकाशेत ।
तस्माद्देहादेर्घटादेश्च तत्तत्पूर्वपूर्व प्रमातृवेद्यता
नास्तीत्यर्थः । अपि तु पूर्णाहं भावात्मा प्रकाश एव घटादि
देहादि रूपस्य विश्वस्य प्रकाश इति निरूपयन् तेन तेन

प्। १८३) प्रमात्रैक्यं सृज्यते, अन्येन प्रमात्रैक्यं संह्रियते
घटादिमात्रेस्थितिः क्रियते । पूर्णा स्वरूप निमीलनात्तिरोभाव
आधीयते । तावत्या भासेन पूर्णत्व वितरणात् । अत एव प्रतिक्षणं
प्रमातृसंयोजन वियोजन वैचित्र्येण परमेश्वरो विश्वं
सृष्टिसंहारादि न प्रपञ्चयतीत्युक्त युक्त्या सदैव
सृष्टयादिशक्त्यवियोगोऽपि भगवत उक्तो भवतीति दर्शयति ।

प्रभुरेव परमेश्वर एव । व्यवहारे मायापदे
हेयत्वेनाभिमते (२३६) देहादिमय्याविशन् चिदात्मैव हीत्युक्त नीत्या
अन्तःसंविन्मये स्वरूपे भास्तमत एवाहमित्येवं रूपं देहादिं
घटादिं चार्थौ मायाशक्तिरूप येच्छया बहिरिदमिति भासयेत् । अतः
देहे बुद्धाद्वित्याद्युक्त मुपपन्नम् । अन्यथोक्तरूपानवस्थैव स्यात् ।
अपि शब्द एव शब्दश्च भिन्नक्रमौ । हेतौ लिङ् इत्येकोन्वयः ।

अन्यमप्याह - देहे बुद्धावित्यादि यदुक्तं तदिति । तस्माद्धेतोः ।   

एवं क्रयविक्रय प्रेक्षाव्याख्यानादि व्यवहारेऽपि पूर्वमेव
स्वसृष्टं चैत्रमैत्रादि देहादिं तत्तत्क्रय्यविक्रय प्रेक्ष्याव्याख्ये
याद्यर्थे तत्तत्क्रेतृविक्रेत्रादेरभ्युपगमरूपेणैक्येनाविशन् भान्तं
तमेवान्तः अनुज्झितान्तः प्रकाशमेवार्थौघं बहिरिच्छया भासयेत्
। अत्यपरोऽर्थः । अनेन भासनेन व्यवहारेऽपिभगवतः पञ्च
कृत्यकारित्वमुक्तम् । इति सूत्र सङ्गतिः ॥

अथ व्याख्या । समनन्तरमेव देहे बुद्धावित्यादिना देहं
बुद्धिप्राणशून्यत्व प्रमातृत्वं तद्घटादेः प्रमेयत्वं
तद्दर्शितं यत्तदेवमिति वक्ष्यमाणप्रकारेणोपपद्यते कथमिदमिति
प्रथमाने मायापदे विश्वोत्तीर्णः पूर्णाहं प्रकाशपरमार्थः
परमेश्वर एव स्थूल कृशादिरूपतया हेयत्वेनाभिमतं देहादिमपि
भेद प्रथा हेतु भूतमायाशक्तिरूपयेच्छया आविशन् पूर्णमपि
निजं स्वरूपं स्थूलोऽहं
प्रबलोऽहमित्यादिरुपदेहप्राणादिप्राधान्येन प्रदर्शयन् चिदात्मैव
हीत्युक्तनीत्या स्वान्तः संविन्मात्रे पूर्णाहन्तात्मनि स्वरूपे भान्तः
स्वामिनश्चात्मसंस्थस्येत्युक्त नीत्या अविरतं तत्रैव भासमानम् ।
अत एवाहमित्येवं रूपमर्थौघम्, उक्त रूपया स्वाविष्ट
तत्तच्चैत्रमैत्रादि प्रमातुर्बहिरिदमिति भासयतीति यत एतदुपपद्यते

प्। १८४) तत्प्र ————– क एवोपपद्यते । तथा चेदनवस्थैव
भवतीत्येकोऽर्थः ।

अन्यमप्यर्थमाह - देहे बुद्धावित्यादि यदुक्तं तदिति ।   

तस्माद्धेतोः वक्ष्यमाणरूपं प्रमेयमेवं जातम् । किं तदिति चेत्
उक्तरूपः प्रभुः समर्थो ———————– रानु भूयत इति
वक्ष्यमाण नीत्या समलविमलात्मक क्रयविक्रयप्रेक्षा
व्याख्यानादिरूपे परस्परं व्यवहार समये पूर्वमेव स्व सृष्टान्
चैत्रमैत्रादिसम्बन्धिनो देहादीन् तावतीति स्वसृष्टे क्रय्य —————–
—— न्योन्यमभ्युपगमरूपेणैक्ये नाविशन् अन्तः स्थित वतामेव
घटते बहिरात्मना । इत्युक्तनीत्यान्तर्भावमेव सन्ततमेवार्थौघं
क्रेतृतत्तद्विक्रेत्रादेरिदमिति बहिरन्योन्याभ्युपगमरूपैकाभास यो —-
——————- तीत्येतत् जात मिति फलितमर्थमाह - तत्र तत्र
क्रयविक्रयाद्यर्थे तेन तेन प्रमात्रा क्रेत्रा दिनाभ्युपगमरूपैक्यं
सृज्यते । अनभ्युपगमता प्रमात्रा सहैक्यं सं व्रियते तस्य तस्य
प्रमातुः परमेश्वरेणोदकाहरणादिरूपामर्थ क्रियामवलम्ब्य
घटादिमातृरूपे स्थितिः क्रियते । प्रकाशमानत्वात् । शिवात्मकत्वेऽपि
तच्छिवात्मक पूर्वस्वरूप निमीलनात्तिरोभाव आधीयते ।
तावतिघटाद्याभासे अयं घट एवेति सर्वं
सम्प्रतिपन्नैक्यावभासनात्मक पूर्णत्ववितरणादनुग्रहः क्रियते ।
आदावेव शिवादिक्षित्यन्ततत्व षट्त्रिंशत्तत्वेन
निर्माणात्मकमहासृष्टिषु क्षित्यादिशिवपर्यन्त तत्त्वसंहारात्मक
महाप्रलयेषु तादृग्विध सृष्टिसंहारमध्यभूतमहास्थितिषु
महातिरोधानमहानुग्रहौ उक्तरूप संहारान्तर्गतौ (२३८)
मन्तव्यौ । तस्य स्वनिग्रहात्मक प्रकोप सञ्जात स्वस्वरूपतिरोधाने
गुरुरूपेण भूत्वा स्वात्मनैवानुग्रह योग्यान् प्रतिक्रियमाणेषु
दीक्षाज्ञानाद्यनुग्रहे ष्वेव न केवलं भगवतः कृत्यपञ्चक
योगः मध्यकोटिरूपे व्यवहारेऽपि यदुक्तं सदा सृष्टिविनोदायेत्यादि
श्रीमत्स्तोत्रावल्याम्

नमः शिवाय सततं पञ्चकृत्यविधायिने ।  
चिदानन्द घन स्वात्म परमार्थावभासिने ॥  

इति प्रत्यभिज्ञा हृदये । प्रतिक्षणविश्रान्त इति श्रीभट्टनारायणेन ।
प्राकाम्यमात्मनि यदा प्रकटीकरोषि व्यक्तीः प्रतिक्षणमनेक विधा
दधानः ।

प्। १८५) तेनैव सोऽपि भगवान् भजतेऽर्थवत्ताः प्रायोविदग्धचरितः
क्षणभङ्गनादः ॥

इत्यवधूत विरचित प्रत्यक्ष स्तवे च ॥

इहेति । अन्तः स्थितवतामित्युक्तनीत्यान्तः संविन्मये
पूर्णाहन्तात्मनि प्रकाशे शिवादिक्षित्यन्तोऽर्थावभासः स्थित एव ।
तस्मिन्नर्थावभासे तत्तदाकस्मिकाभासो बाह्यं
चेदनुमापयेदित्युक्तस्य तदर्थावभासात्मक प्रतिसमर्पकस्य
नित्यानुमेयस्य बिम्बरूपस्य कारणान्तरस्य चिन्तया किमिति
तत्कारणान्तर बाह्येनानुपपत्तिनेत्यनेन निरस्य तत्प्रमेय मन्तः
स्थितमेवेति चिदात्मैवहीत्यत्र प्रकृतम् । तत्सिद्धयेति । प्रमेयस्यान्तः
स्थितत्वसिद्धये । स्वान्तः स्थितेनैषणीयेन विमृश्येन प्रमेयेन विना
स्वामिनः इच्छारूपः परामर्शो नस्यादित्युपपत्तिस्क्ता । तत्प्रसङ्गादिति
। (२३९) तदिच्छारूप परामर्श प्रसङ्गात् ।
स्वस्वभावमवभासस्येत्यादिना अहं प्रत्यवमर्शोयः
प्रकाशात्मैव वायुः नासौ विकल्प इत्यन्तेन
ज्ञानसङ्कल्पाध्यवसायादेः तस्य प्रत्यवमर्शस्यैव
स्वरूपमुपपादितम् । सह्युक्तो द्वयापेक्षी विनिश्चय इत्यादिना । सापि
भिन्नावभासिनी त्यन्तेन । विकल्पाविकल्परूपस्यानुसन्धास्य च
स्वरूपमुपपादितमिति शिष्याणां प्रमेयान्तर व्यवहितां धियं
समाधातुमन्तः स्थितमिति । प्रकृतं प्रमेयमुपपादयन् विश्वमन्तः
स्ह्तितमेवेतिनिश्चिनोति । देहे बुद्धावित्युक्तनीत्या परमेश्वर एव
देहादिमाविश्य तत्तत्प्रमातृरूपेण स्थित इति यतः एवमिति अतो हेतोः
स्मृतावपोहन परायणे विकल्पेऽनुभवात्मनि ज्ञानेऽपि स्मर्थमाणो
विकल्प्यमानोऽनुभूयमानश्चार्थावभासः । अतः
पूर्णाहन्तात्मनि प्रकाशे स्थितः विश्रान्त एवेति निश्चितम् ।
ननुदेहादाविति सूत्र सङ्गतिः । विश्वमय विश्वोत्तीर्ण प्रकाशात्मा
परमेश्वर एव स्थूलोऽहं कृशोऽहमित्यादिरूपदेहादि
प्रमातृताभिमान दशायामपि प्रभुर्देहादिमाविशान्नित्युक्तनीत्या
वस्तुः प्रमातेतियतः एवमित्यतो हेतोः ज्ञानस्मृत्यपोहनशक्तिमानि —-
——————- महेश्वरस्य शक्तिभूते स्मरणे अपोह जीवितेऽपिते विकल्पे
अनुभव ज्ञाने च स घटः अयं घट एव अयं पट इति
प्रतिभासमानोऽर्थावभासः तद्वदिति महेश्वरे प्रकाशे विश्रान्त
एवेति इत्येतद्वि ———————– अर्थावभासः

प्। १८६) प्रकाश विश्रान्तः इत्यस्मिन्नर्थे न कश्चिदपि संशयः ।
यद्यहं स्थूलोऽहं कृश इत्यादिरूपो देहादिरेव परमार्थ प्रमाता
स्यात् तत्तर्हिशरीर प्राणादेः घटादिरन्तः स्थित मित्येतत् (२४०) सिद्धं
भवति । ———————– दनुपपन्नमेवातस्य देहादेरपि
घटादिवज्जडत्वात् नाहं घटः अयं चैत्र एवेति घटादिपरिहारेण
देहादेः स्थितत्वात् । तस्माद् ग्राह्यग्राहकभिन्नौ इत्युक्त नीत्या
परमार्थ प्रकाशस्तु सर्वं सहः पटादिदेहाद्य ————- इति तस्मिन्
परमार्थ प्रकाशे अन्तर्विश्वं स्थितमित्यनया ससिद्धमेतत् । यथोक्तम् -

भारूपं परिपूर्णं स्वात्मनिविश्रान्तितो महानन्दम् ।   
इच्छा संवित्करणैर्निर्भरितमनन्त शक्तिपरिपूर्णम् ॥  

सर्वविकल्पविहीनं शुद्धं शान्तं व्ययोदय विहीनम् ।  
यत्परतत्वं तस्मिन्विभाति षट्त्रिंशदात्मजगत् ॥  

इति श्रीपरमार्थसारे ।

नन्विति । प्रकाशान्तः स्थितस्याभासवर्गस्य बहिराभासनं
तत्तद्विषय रूपतया सर्वत्र स्मरण विकल्पानुभवेषु अस्तीति चेत् आस्य
भास वर्गस्य स्मरणौ प्रतिभासभेदः कथं भवेत् ।
असावाभासभेद स्मरणादौ संवेद्ये दृश्यत एव
स्फुटास्फुटरूपयोः स्फुरणादित्याशङ्क्य स्वातन्त्र्यतः
तत्स्फुटास्फुटरूपा भासभेदोऽस्तीत्याह-तं त्विति शब्दः तस्यान्तः
स्थितस्यावभासस्य बहिः प्रकाशेऽनुभवादौ स्फुटास्फुतरूप
विशेषद्योतकः । तदेवाह - स इति । पूर्वप्रस्तुतः प्रकाशान्तः
स्थितोऽर्थावभासः बहिराभासनात्मनि ज्ञानेऽनुभवे नैसर्गकः
निसर्गसिद्धः स्मरणादिषु तु पूर्वानुभवसंस्कारजो भूत्वा स्थितः
स्मरण विकल्पादीनामनुभवजीवितमित्युक्तनीत्या तेषां स्वस्वविषय
प्रकाशनेऽनुभवमुखप्रेक्षित्वम् । अनुभवस्य त्वन्य (२४१)
ज्ञानमुखप्रेक्षित्वं नास्तीति सूत्र सङ्गतिः ॥

अनन्तराभासमानं वस्तु इदं नीलमिति व्यवधानेन
बहिराभासयतोऽनुभवज्ञानस्य स्वान्त स्तन्नीलादिरूप भावा
वभासः सनैसर्गिकः स्वतस्सिद्धः । निसर्गोनिसृष्टिः तस्मादायात इति
नैसर्गिकः । स्वातन्त्र्येण सिद्ध इत्यर्थः । स्मरणादेस्तु सदान्तरा
भासः अनुभव ज्ञानकृतसंस्कार बलादेव भवति तद्वत्

प्। १८७) अनुभवज्ञानस्य विषय प्रकाशनेऽन्यज्ञानमुख प्रेक्षित्वं
नास्ति । अतः स्मरणे उत्प्रेक्षणे प्रत्यक्ष पृष्ठ भाविनि विकल्पे सं
घट इति तं घट मेवं मन्ये अयं घट एवेति च तैः स्मरणादिभिः
बाह्यतया भासयितव्यो योघटाद्याभासः असौ स्मरणादेः
स्वात्मीयोन भवति । अपितु पूर्वानुभव संस्कारादेवायातः । तत्रेति ।
स्मरणादौ आभासमानस्यार्थस्य संस्कारजत्वे स्थिते तज्जनकः
संस्कारोनामानुभवस्य कालान्तरेऽप्यनुवर्तमानता रूपो नैसर्गिक
स्वभावः । एवं संसाररूपेण
कालान्तरेऽप्यनुवर्तमानोऽसावनुभवः
स्वविषयीभूतनीलाद्याभास सम्भिन्नेयतः ततोऽनुभूतार्थ
प्रकाशकत्वादनुभव तादात्म्यापन्नं स्मरणाद्यपि
विषयीभूतनीलाद्याभास सम्भिन्नं निर्भासते । तत एवेति । अनुभव
विषयीभूतनीलाद्याभास सम्भेदेन निर्भासमानत्वात् सनीलाद्या
भासः स्मरणकालासम्भवी तदनुभवात्मक पूर्वकालकलित एवेति
स्मरणादेः स्वात्मनो निर्विषयत्वम् । अनुभव गृहीत ग्राहित्वं
चोद्घोष्यते । शास्त्रेष्विति शेषः । एतदेवेति । स्वात्मनो निर्विषयत्वात् गृहीत
ग्राहित्वमेव स्मरणादौ प्रतिभासमानस्यार्थस्यास्फुटत्वमिति
अनुभवस्मरणादौ स्फुटास्फुटरूपाभासभेदः सिद्धः ।
अन्तराभासमानस्य वस्तुनः अव्यवधानत्वम् (२४२) अनुभवेनेदं
बहिराभासनं स्फुटता स्मरणादौ अनुभव व्यवधानेन
प्रतिभासमानस्यार्थस्य तत्स्मरण काल जातत्वाभावादस्फुटता ।

नन्विति । अयं घटः अयं रसः अयं गन्धः अयं स्पर्शः
अयं शब्द इत्यादि चक्षुरादि(विषय) बहिरिन्द्रियजादनुभवज्ञानात्
स्मरणादिकं विकल्प ज्ञानमनुभव व्यवधानेनानुभवद्वारेण
स्वस्वविषयस्य बहिस्वभासन रूप प्राप्तमित्याशङ्क्य स्वतन्त्य्र
विकल्पस्तथा न भवतीति प्रविभागमाह - स इति ।
पूर्वप्रस्तुतोऽर्थावभासः अनुभवानपेक्षं स्वैरचारिणीति
स्वयमेव स्वप्रेरणयोदीयमाने स्वतन्त्रविकल्पो नैसर्गिक एव । स्वतः
सिद्ध एवास्ति । अत्र हेतुमाह - चर इति । स्वच्छधीदर्पणात्मन्यन्तः
करणे अनुभूतस्य । यथा भिमतेति । यथा भिमतस्य स्वेष्टस्य
संस्थानस्य सन्निवेशस्य भासनात् प्रकाशनात् । इति सूत्रसङ्गतिः ।

यो विकल्पः प्रत्यक्ष व्यापारमिति अनुभव संस्कार —————–
तया मनोराज्यसङ्कल्पादिर्विकल्पः स स्वैरं ईरण प्रेरण इति
धातुगत्या

प्। १८८) स्वयमेव स्वात्मनः प्रेरणेना नुग्रहादि प्रेरण नैरपेक्ष्येण
स्वातन्त्र्येण च रति उदेति व्ययति चेति स्वैर चारिणीत्यु———————–
मातृभूमेरवतीर्य बुद्धिविषयत्वे इदमिति यो बहिरवभासः स
नैसर्गिक एव । नैसर्गिकत्वम्वोप पादयति - तथा हीत्यादिना ।
अदृष्टपूर्वमपिश्वेतविषाणशतकलितं करयुगलयुक्तम् ।
अन्तश्चैत्रमैत्रा ———————– स्थितं स्वसृष्टं दन्तिनं
स्वच्छधीदर्पणात्मिकायामन्तः करणभूमौ सविकल्पः बहिरिममिति
तदानीमेवावभासयति । (२४३) तस्मात् स्वतन्त्र विकल्पः
स्मरणादिवानुभव मुखप्रेक्षी न भवति । स्वान्तः स्थितं दन्तिनं
बहिराभासयतीत्यनेनापि दन्तरूपार्थावभासस्यात्राप्यन्तः स्थित
त्वमेवोक्तम् । अन्यथा तस्य बुद्धिः दर्पणे बहिरवभासमानमेव न
भवति । एवं भूतस्य वस्तुनो निर्माणावभासनाभ्यां
ज्ञानाक्रियाशक्ति सर्वस्य स्वतः सिद्धे इत्युक्तं परमेश्वर
धर्मभूतज्ञानक्रियाशक्तिमत्वात् सर्वेषामपि एकेश्वररूपता
सिद्धैवेति स्थितम् ॥ इममेवार्थमुत्तरश्लोकेनदर्शयति - अस्मादिति ॥

एवं स्मृतौ विकल्पे वाप्यपोहनपरायणे ।  
ज्ञाने वाप्यन्तराभास स्थित एवेति निश्चित(म्) ॥  

इत्यन्तराभास सम्भवसमर्थन प्रसङ्गागतान् । अस्मादिति -
तथाभिमतसंस्थादित्युक्तरूपात् । स्वतन्त्रविकल्पं विषयभूता
वभासभेद विचारादस्मिन्नीश्वर प्रत्यभिज्ञा शास्त्रे ।
चैत्रमेत्रादेः प्रमातुः अहमहमिति प्रकाशमाने स्वात्मनि ईश्वरोऽपि
जानाति करोति अहमपि जानामि करोमि ईश्वरधर्मभूतस्य
ज्ञानक्रियालक्षणस्य स्वभावस्यमय्यपि दृश्यमानत्वात् स एवाह
मितीश्वर प्रत्यभिज्ञारूपमुख्यत्वेन
तत्प्रत्यभिज्ञामुपपादयामीति शक्त्याविष्करणेनेयं प्रत्यभिज्ञो
पदर्श्यत इति प्रथमेवाभिहितं प्रयोजनं यत्
तत्प्रत्यभिज्ञानात्मकं प्रयोजनमन्यस्यार्थस्यासिद्धौ यदनुषं
गेण सिद्ध्यति । सस्यादाधार सिद्धान्तो जगत्कर्तुर्यथेशिता, इत्युक्तनीत्या
एवं भूताभासभेद विचारात्मकधिकरण सिद्धान्तनीत्या
जनस्यायाससिद्धमिति दर्शयति । यथाभिमतसंस्थानेत्यत्र स्वतन्त्र
विकल्पे ऽभीष्टस्य वस्तुनः
यन्निर्माणरूपमुल्लेखनमवभासनरूपं प्रकाशनञ्च दर्शितम्
। अतेहेतोः जीवतः सर्वस्य (२४४) ज्ञानक्रिये एव स्फुटे एव सिद्धे इति सूत्र
सङ्गतिः ।

यथा भीष्टस्य बहिश्चक्षुरादि
विषयत्वेनासत्वादिदमित्यनुभूतस्यापि

प्। १८९) वस्तुनः बुद्धिगोचरेसम्यगुल्लेखनं निर्माणभवभासनं
प्रकाशनं च स्वतन्त्रविकल्पस्य । किन्तु नैसर्गिको ज्ञान इति श्लोकोक्ते
प्रमेय प्रसङ्गाद्दर्शितम् । अत एवेति । एवं भूत समुल्लेखा
वभासनाद्धेतोः इदमपि सिद्ध्यति । तत्किमिति चेत् यत्किञ्चित्कीटोवा ब्रह्मा
वा जीवन् जीवनक्रियाविष्टः तस्य सर्वस्य
कीटब्रह्मादेर्विश्वावभासनरूपा ज्ञानशक्तिर्विश्वोल्लेखनरूपा
क्रियाशक्तिश्च नैसर्गिकी इत्येतत् सिद्धम् । ततश्चैत्रमैत्रादेस्तस्यां
स्वतन्त्रविकल्पभूमौ स्वव्यतिरिक्तेश्वरोपकल्पित पूर्वसृष्टयुपजीवन
सम्भावनापि नास्तीति । जनामिकरोमीति क्रियास्वातन्त्र्य
लक्षणमैश्वर्यं स्फुटं प्रत्यभिज्ञेनेयं जीवत इत्येकवचनेन
सकलादेः शिवान्तस्य जीवजातस्य परमार्थत एकेश्वररूपतां
सूचयतीति शिवम् ॥

इति प्रत्यभिज्ञासूत्रविमर्शिनी व्याख्यायां षष्ठमाह्निकं
समाप्तम् ॥

अथ सप्तममाह्निकम् ॥

अनन्ताः देशकालापरिच्छिन्नाः स्मृत्याद्याः शक्तय एव
तत्तत्स्वविषय भूत विश्वप्रकाशत्वाद्रत्नानि तेषां यस्य
विश्वप्रकाशस्य एकस्याद्वितीयस्या श्रयस्य असितुं योग्यस्य भाजनस्य
संश्रयात् तत्रैव सम्यगवस्थानात् स इति अय (२४५) मित्ययमेवेति
विचित्रायाश्चन्द्रिकायास्तत्तद्विषयामृतास्वाद रदत्वा
दानन्दिन्यास्तत्तत्पदार्थ सम्बन्धिन उल्लासस्य उदस्य संसिद्धिः
सम्यक् सिद्धिः लाभो भवति । एवं भूतं शिवं स्तुमः । एवं
स्मृत्यादिशक्तीनां स्वरूपमियते येकमेकैके नाह्निकेन वितत्यदर्शितम्
। अत्र स्मृत्यादिशक्तिमध्ये साहि पूर्वानुभूतार्थसिद्धि —————– । -
—————– दितैष स इति अवस्यतरि दर्शनमिति ग्राह्य ग्राहकाभिन्नाविति
। चिदात्मैव हि देव इति तदेवं व्यवहार इत्यादिना प्रमातुरपि यत्
चित्स्वरूपमुन्मीलितं तत्तासां शक्तित्वं तत् प्रतिसमर्थयितुं
शक्तिश्च शक्तिम ———————– इति शक्तिमताविनाशक्ति स्वरूपं
स्वतन्त्रं भवितुं नार्हतीति तासां शक्तित्व समर्थनार्थं
शक्तिमतः प्रमातुः स्वरूपमप्युन्मीलनीयमेव । तासां स्मृत्यादि
शक्तीनां य एके आश्रयं विभागरूपं विश्रान्तिस्थानम् । स
चैतासां च ज्ञान ————– प्रकारो वैचित्र्यविकल्प इति तत्सामर्थ्यं

प्। १९०) स्वातन्त्र्यमपराधीनं पूर्वं महदैश्वर्यं तन्निर्मित
ब्रह्मविष्णुरुद्राद्यैश्वर्यापेक्षयोच्यत इत्युक्तनीत्या तासां
तत्तद्घटपटादि विषयेषु प्रमातृष्वपि सोऽयमिति स एकः
अयमेवेत्येकं वं रूप संयोजन वियोजनस्थित्यादि स्वातन्त्र्ययोगात्
महेश्वरः नत्वहमिति परामर्शाभावाद्दाहक पाचकादि
शक्त्याश्रयमात्र जडरूपवहा(ह्न्या)दिवत् केवलं तदाश्रयमात्रम्
। अपितु तत्संयोजन वियोजनादिष्वपि स्वतन्त्र इत्येतच्छक्ति
त्रयाश्रयभूतस्य प्रमातुरेवं भूतं माहेश्वर्यमेकत्वं
चेत्युभयमुपक्षिप्तं न चेदन्तः कृतेत्यत्रसूत्रे । अधुनातद्द्वयमपि
निर्णेतव्यम् । तत्रेति -तयोर्मध्ये । प्रथममेकाश्रयं निर्णेतुं या
चैषा प्रतिभेत्यादि चतुर्दशभिः (२४६) श्लोकैराह्निकं प्रस्तूयते । तत्र
प्रथमश्लोकेन स एक आश्रय स्वरूप उपक्षिप्यते । एवमेवं भूत
एकाश्रय इति ततो द्वयेन वक्ष्यमाणः कार्यकारणभावादि हेतुः
सर्वोव्यवहार एकस्मिन्नाश्रये सति युज्यते इत्यन्वयात्मातस्मिन्न सतिन
युज्यत इति व्यतिरेकात्मा च युक्तिरुच्यते । ततः हानादानादिव्यवहार
स्वरूपं विस्तीर्णमपि कार्यकारणभावतः स्मरतः
सत्यासत्यप्रविभागतश्च भवतीति सङ्क्षिप्य प्रत्येकमेकैकेन श्लोकेन ।
पुनश्च सत्यासत्य प्रविभागमेव श्लोकसप्तकेन वितत्यप्रत्पाद्यते ।
ततः श्लोकेनाह्निकोक्तः सर्वोऽर्थो निगम्यत इति आह्निकार्य सङ्क्षेपः ।

अथास्याह्निकस्य पूर्वाह्निकेन सङ्गतिं दर्शयन्
प्रथमश्लोकं व्याख्यातुं शङ्कामवतारयति -जीवः सर्वस्य
ज्ञानक्रिये सिद्धे इति यदुक्तं तत् कथं ज्ञान विकल्पादि व्यतिरिक्तः
कोऽसावन्यो जीवनात्मायस्यते ज्ञानक्रिये सम्बन्धिन्यौ स्याताम् ।
ततोभिन्नेषु धर्मेष्वित्यादिना गुणगुणीभावेनात्मसद्भाववादिनः
कारणादीनपि प्रत्यात्मादूषितः । ज्ञानसन्तानवादिमतमाशङ्क्य
नचेदन्तः कृतेत्युक्तस्य दर्शन दिशा तमेकाश्रयं स्वरूपत
उपक्षिपति । तदाश्रयस्यैव प्रकाशं स्वरूपं प्रकाशयति सा
चैषेत्यादि । तत्तत्पदार्थक्रमरूषितेति ।
पदार्थानामत्रत्यामिदानीन्तनमिदमेव
तदनन्तरमिदमेतत्पूर्वमिदमिति । एतद्युगं युगपदेव प्रतिभातम् । इति
तेन तेन देशात्मना कालात्मना पूर्वापराद्यात्मना
यौगपद्यात्मना

प्। १९१) च क्रमेण रूषिता परमार्थतो देशकालक्रमाभावात्
परमेश्वरवदक्रमापि ।

एवं क्रमविशिष्ट तत्तद्विषयग्रहणौन्मुख्यात् रूषिता
प्रतिबिम्बकं पतया उपरक्तेति केवलं भिन्न संवेद्येत्यत्रोक्ता, एषेति
सर्वस्य स्वप्रकाश सिद्धा (२४७) अयं घट इत्यर्थं प्रति अहं
घटमनुभवामीति चानुभवितारं प्रतिस घट इत्यर्थं प्रतिचाहं
घटं स्मरामीति स्मर्तारं प्रत्ययं घट एव न पट इति विकल्प
विषयं घटं प्रत्यहं विकल्पयामीति विकल्पयितारं प्रति च
बाह्यानुवादि प्रथा सैवानन्त चिद्रूप इति देशकालापरिच्छिन्न
व्याप्तिनित्यपरिपूर्ण संविद्रूपः उक्त रूपो महेश्वरः प्रमाता
प्रमासु संयोजनवियोजनादौ स्वतन्त्र इति सूत्र सङ्गतिः ॥

प्रतिभाति घट इत्यत्र तत्प्रतिमानं घटोपश्लिष्टमेव यद्यपि
भाति तथापि तत्प्रतिभानं न घटस्य स्वकं वपुः । अपि तु प्रमातृत्व
संविदेव । तत् प्रतिभारूपेण च कास्ति मां प्रति प्रभातीति तद्घट
प्रतिमाया मातृलग्नत्वात् । तथा च वेदः - तमेवेति । विश्वोत्तीर्णं
परमेश्वरं भान्तमविरतमाभासमानं सर्वमिति
शिवादिक्षित्यन्तं वि ———————– तीत्यस्यैव व्याख्या तस्य भासा
सर्वमिदं विभातीत्ये तत् । भान्तमिति शत्रा तस्य
परमेश्वरस्यविरतस्फुरणत्वं द्योतितम् । अनुभावनात्मना
कर्मप्रवचनीयेन परमेश्वर स्वातन्त्र्योकल्पितनिर्माणक्रियाजनित ——
—————–पलक्षणात्मा सम्बन्धो द्योतितः । परमेश्वरस्य
वेद्यवेदकात्मनो विश्वस्य प्रकाशस्य प्रकाशरूपः
सम्बन्धोद्योतितः । तस्याः प्रतिभायाः
परमेश्वराभिन्नत्वादक्रमत्वेऽपि परमार्थतः केवल ——————–
—क्रमावभासः समर्थितः । ज्ञानस्मृत्यवसायादि सक्रमं
प्रतिभासते । इत्यत्र तत्तत् पदार्थक्रमरूषितेति तत्तत् पूर्वापरात्मक
क्रमयौगपद्यादि चिरशीघ्रवितत्वावितत्वादि विचित्ररूपोयः
पदार्थानां मूर्ति वैचित्र्यतया ———————–
ईश्वरस्वातन्त्र्यरूपाभ्यां देशकालवर्तिभ्यामुपकल्पितः क्रमः ।
अत्रत्यमिदानीतन्नमित्यादि (२४८) देशकालपरिपाटी तेन क्रमेण रूषिता
प्रतिबिम्बकल्पतयोपस्क्ता केवलं भिन्नं सवेद्येत्यादिना या
प्रतिभोक्ता, एषेति स ———————–अपि पुरत एव स्फुरणात् स्व
प्रकाशासिद्धा परमार्थतः अहमित्यन्तं मुख स्वरूप
विश्रान्न्तत्वेन

प्। १९२) तदहं प्रकाशमात्र परमार्थतया देशकाल कलित
भेदाभावादक्रमः सा प्रतिभेति प्रोक्त लक्षणो महेश्वरः शक्तिश्च
शक्तिमतो भेदात् अनन्तचिद्रूप इति यस्याश्चितो देशकालाकारैरन्त इति
परिच्छेदं नास्ति । इत्यनन्ता सा चित् परा भट्टारिकारूपा संविद्रूपं
यस्य सतादृग्विधः । अत एवेति । अनन्तचिद्रूपत्वाद्बहिर्भूतघटपटादि
विषयग्रहणोन्मुखत्वात् स्वयमपि बहिर्मुख प्रकाशात्मक
तत्तद्घटादि विज्ञानस्वभावस्य इदमेतादृगिति च वक्ष्यति ।

एवं यद्वशाद्व्यवतिष्ठते । वस्तु प्रमाणं तत्सोऽपि
स्वाभासोभिनवोदयः, इति वक्ष्यमाणनीत्या इदमिति सामान्येन
एतादृगिति विशेषण विशिष्टत्वेन च प्रमेयव्यवस्थापकस्य प्रमाण
वर्गस्य प्राणभूतं सोन्तस्तथा विमर्शोति वक्ष्यमणनीत्यान्तः
करणे प्रत्याभासमिति घटपटाद्याभास तद्विशेषणविशेष्य
रूपेण संयोजनम् । राजतो जट इति । रजत संविदः काञ्चन
संविदोऽपियोजनं काञ्चन संविदोलोहित संविदश्च । एकस्यां
घटसंविदिश्रमाणं इत्याघनेक प्रकार संयोजनादिस्वातन्त्र्य
पूर्णाहं प्रत्यवमर्शोय इत्युक्तनीत्या शुद्धाहं
प्रत्यवमर्शमयः स पूर्वोक्तो महेश्वरः प्रमाताभण्यते ।

एतत् पिण्डितार्थमाह - अत इत्यादिना । अत इति । एवं प्रमेय
प्रमाण प्रमाप्रमातृ स्वरूपतत्त्वकथनात् प्रथममयं घट इति
घटात्मक प्रमेयोन्मुखं बहिः प्रमाणात्मा प्रकाशोयः अन्त इति
अन्तः करणे स्वीकृतपूर्वरूपः इति स्वीकृत तद् (२४९) घटात्मक प्रमेय
तद्व्यवस्थापन प्रमाणात्मक पूर्वरूपविमर्शरूपः प्रमात्मको
यो विकल्पः अहमित्येतं स्वरूपं तदुभयविश्रान्ति स्थानमिति अहमिति
प्रकाशस्य स्वरूपभियं पूर्णमिति प्रमेयप्रमाणप्रमासऊहै
पूर्णं सर्वं तन्मयमेवेत्यर्थः । अत्रैवेति । एकाश्रय रूपे प्रमातरि
सति उक्तरूपप्रतिभाद्वारेण मृद्घटादीनां बीजाङ्कुरादीनामग्नि
धूमत्वादीनां च कार्यकारणभावात्मकान्योन्यान्वयरूपा
विश्रान्तिर्घट इत्येवरूपमन्वयं तावदाह - तत्तदिति ।
अन्योन्यभिन्नानुभवादिसंवित्तिद्वारैरनुभवितृविकल्पयितृरूपे
तदनुभवाद्याश्रयभूते एक प्रमातरि
उक्तरूपकार्यकारणात्मसुभावेषु प्रतिष्ठत्सुमां प्रतिघटादिः

प्। १९३) प्रतिभातीत्यादि मुख्यविश्रान्तिं भजत्सु । ज्ञातीनां भावो
ज्ञातेयं तत् एव भावेषु इदं कारणमिदं कार्यमिदं
विशेषणमिदं विशेष्यमिति प्रमातृ विकल्पव्यापार
कृतान्योन्यान्वयरूप सम्बन्ध उपपद्यते । प्राणे न घटते । किञ्च
ज्ञातीनामन्योन्ययोगक्षेमोद्वहनात्मकं कर्म च ज्ञातेयं तदपि
भावानामेकप्रमातृ समन्वयाभिप्रायेण दर्शितमिति सूत्रसङ्गतिः

घटपटादि विषय व्यवस्थितः तत्तद्घटपटादिज्ञाननिष्ठा इति
सर्ववादिभिरुच्यते तद्विषय व्यवस्थानं प्रमातृविश्रान्ति
व्यतिरिक्तान्योन्य भिन्नानुभवादि संविन्मात्रविश्रान्त्या न सिध्यति ।
अपितु तदिति तास्ता विभिन्ना अन्योन्यभिन्ना निश्चयरूपां
अध्यवसायात्मिका प्रमात्मानमन्तर्मुखविमर्शरूपायाः
संवित्तया ताः संविद एव । मुखानिद्वाराणि । उपायाः मार्गाः
तैस्संविद्रूपैः समुद्राभिमुखनदी स्रोतः स्थानीयैः यद्यमी
बहिरन्तः करणविषया ———- ह्यमाना एतस्मिन् देशकालानवच्छिन्ने
प्रमातृरूपे अहमिति (२५०) महासंवित्समुद्रे प्रतितिष्ठन्त
उक्तरूपेणाभिमुख्येन विश्रान्तिं भजन्ते । तत इति । तर्हि
एषुप्रमातृविश्रान्तेषु भावेषु परस्पर समन्वय ———————–
ज्ञातेयं तदुपपत्त्या घटते । तदिति तच्छब्द प्रवृत्त
ज्ञातिशाब्दप्रवृत्ति निमित्तं परस्परं जानतां ज्ञातीनां भावो
बोधरूपं ज्ञातेयम्, किञ्च ज्ञातीनां अन्योन्य
योगक्षेमोद्वहनात्मकं कर्म च ज्ञातीयम् । तच्चेति । कर्मरूप
ज्ञातेयं च———————– विश्रान्ति रूप समन्वयाभिप्रायेण
दर्शितम् । कथमिति चेत् तत् कर्मरूपं ज्ञातेयं विषयेषु बीजादेः
पूर्वमसद्रूपाङ्कुरासम्पादन इत्यङ्कुरादिं प्रतिबीजादे
योगक्षेमोद्वहम् । अङ्कुरोदेर्विना बीजादेः कारणत्वाभावात् बीजादिं
प्रत्यङ्कुरादेरपि तत्कारणत्वापादनात्मक योगक्षेमोद्वहन मस्त्येव
। एवं घटकाञ्चनोदरपि विशेषणविशेष्यरूपात्मकान्योन्य
योगक्षेमोद्वहनं द्रष्टव्यम् ।

जडानां प्रमातृविश्रान्त्या विना न कदाचित् स्वतः समन्वय इति
एव मन्योन्य भिन्नाना मित्यत्र दर्शितम् । यथोक्तम्

एवमात्मन्यसत्कल्पाः प्रकाश स्थैव सन्त्यमी ।  
जडाः प्रकाश एवास्ति स्वात्मनः स्व परात्मभिः ॥ इति ।  

प्। १९४) घटः पटं न जानाति पटेऽपि न घटं तथा ।
चैत्रायत्तं तयोर्ज्ञानं चैत्रे तद्द्वारतः स्थितिः ॥ इति ।

उक्तमेवार्थं व्यतिरेकमुखेनापि स्थापयितु माह देशकाला
क्रम जुषामिति । अत्रत्यमिदानीं तनमित्यादि रूपेण देशकालक्रम
मत्यजतामर्थानां घटपटादीनाम् । किञ्च
तत्तदर्थग्रहणोन्मुखानां बहिर्मुखानां ज्ञानानां तदर्थ
सम्बन्धिनां विकल्पानाञ्च प्रत्येकं स्वसमाहितानां
स्वस्वरूपमात्रविश्रान्तानामेक (१५१) प्रमातृ विश्रान्त्या विना
सम्मेलनरूपः कः समन्वयः निज रूपमात्र विश्रान्तत्वान्न
कश्चिदित्यर्थः । असविति । उक्तरूपः समन्वयः सकृदाभास इति
सकृदाभासेन स्वात्मनो देशकालाकाराभावादविच्छिन्न प्रकाशेन
मात्रा । किञ्च तत्र तत्र विषये अत्रत्यभिदानीं तनमेवकारमिति
देशकालमिश्रीकरणात्मना एक प्रमातृकृतेन योजनाभासे न
साध्यः । अन्यथेति । एवं भूत सकृदाभासाभावे अन्वयोन
भवतीत्यर्थः ।

अत्र दृष्टान्तमाह - समुद्रं प्राप्यमध्ये पृथक् पृथक्
प्रक्षीणेष्ष्थस्रोतस्स्सु तदुह्यमानास्तृणोलपादयः स्वतः समन्वयं
यान्तीति देशकालाकारात्मा भेदः भावानामनेककारीत्याशयेन
सकृच्छब्दः तद्देशादिभेद कृतानेकत्वनिषेध तात्पर्येण प्रयुक्त एक
प्रमातृऊपस्य सकृदाभासस्य देशादि कृतमनेकत्वं नास्तीत्यर्थः ।
तत्र प्रमातरि अग्निधूमादीनां कः समन्वय इत्याशङ्क्य
कारणत्वं न जानाति बीजस्याङ्कुरं प्रति । अङ्कुर्ऽपि न जानाति (न)बीज
कार्यत्वमात्मनः । एक प्रमात्रधीना तत्कार्यकारणता तयोः ॥

एव मेक प्रमातृस्था सर्वा सम्बन्ध सन्ततिः ॥  

इत्युक्तनीत्या समन्वय रूपं बहुतर देशकालपुरुष व्यापकं
सम्बन्धात्मकं कार्यकारणभावं दर्शयति ।

प्रत्यक्षे तस्मिंस्तस्मिन् धूमाऽन्योः स्वभावात्मनि विषय
रूपे अंशे तस्मिं स्तस्मिन् स्वात्मनो ज्ञानरूपे अंशे च, पातिनां
पतताम्, पतङ्गताविति धातु गत्यातयोः स्वसद्भावा सद्भावरूपं
स्वविषयात्मकं मंशमवगमयतां स्वस्मिन् स्वस्मिन् ज्ञानांशे
विश्राम्यतां अग्निं प्रत्यन्वयरूपं प्रत्यक्षमेकं

प्। १९५) (२५२) व्यतिरेकरूपोऽनुपलम्भ एक इति पञ्च विधानां
प्रत्यक्षनुपलम्भानां धूमाग्नी प्रति अयं धूमः कार्य मग्निः
कारणमिति कार्यकारणता रूप सम्बन्धसिद्धिं प्रति या हेतुता सा
एक प्रमातृ जा प्रथममग्निप्रत्यक्षकालो धूमोऽपि प्रत्यक्षी भवति
चेत् किं कारणं किं कार्यमिति ज्ञातुमशक्यत्वात्तदानीं
धूमस्यानुपलम्भोऽङ्गीकार्यः । तत इति । अनुपलम्भादनन्तरम् ।
अग्नेरेव धूमोत्पत्तिरिति कार्यता सिद्ध्यर्थं धूमं प्रत्यक्षेण
पश्यति इत्यन्वय क्रमे ज्ञानमग्निं तु यदिनोपलभते धूमोऽपि
नोपन्नं भत इति व्यतिरेकरूपेणानुपलाम्भद्वयमिति
प्रत्यक्षनुपलम्भपञ्चकात् धूमाग्न्योः कार्यकारणभावः
सिद्धतीति यदुक्तं लोके तदुक्तिः कथं भवेत् । न भवत्येवेत्याह - अग्नि
प्रत्यक्षेण धूमेन किञ्चिद्व्यूढं घट प्रत्यक्षेणे व पटे । तदेव
दर्शयति - तस्याग्नि प्रत्यक्षस्य धूमद्भिन्नेज्ञानरूपे अंशे
विश्रान्तत्वात् स्व स्मात् परस्य ————— मानव गाहनात् स्व व्यतिरिक्त
धूमज्ञान स्वरूपानवगाहनाच्चेति हेतु चतुष्कादग्नि प्रत्यक्षेण
धूमात्मकं विषयं प्रति तज्ज्ञानं
किञ्चिदुद्व्यूढभिन्नांशपा———————– त्तद्भिन्न रूप
विषयाम्श ज्ञान वाची पति तत्तत्स्वीय ज्ञानांशविश्रान्तवाची इति
पतिः । पतिश्च तन्त्रेण गुप्तभाषया प्रयुक्तः । एवं
धूमानुपलम्भादौ चतुष्टये वाच्यम् । तद्यथा - प्रथमं
धूमानुपलम्भः, अग्निवद्भावेन किञ्चिदुद्बूढधूमभावे
लक्षणे अग्नेर्भिन्ने अंशेतस्यावगमहेतुत्वात् स्वस्वभावरूपे
ज्ञानांशे विश्रान्तत्वात् अपरविषयेति अग्निज्ञानविषया
अग्न्यनवगाहनात् स्वव्यतिरिक्ताग्नि ज्ञास्वरूपानावेशनाच्च
धूमप्रत्यक्षेणाग्निसद्भावेन किञ्चिदुद्व्यूधं धूमलक्षणे
(२५३) अग्निसद्भावात् भिन्नेंशे तस्यावगमहेतुत्वात् स्वस्वभावरूपे
ज्ञानांशे तस्यावगमहेतुत्वात् अग्नि ज्ञानविषयाग्नि
सद्भावानवगाहनात् स्वव्यतिरिक्ताग्नि
सद्भावज्ञानानावेशाच्चाग्न्यनुपलम्भ ज्ञानेन धूमाभावेन
किञ्चिदुद्व्यूढम् । अन्यथा भावलक्षणे धूमाद्भिन्नेंशे तस्या
वगमहेतुत्वाद्धूमानुपलम्भज्ञान विषय धूमा भावा नव
गाहनात् स्वव्यतिरिक्त धूमानुपलम्भात्मक ज्ञान
स्वरूपानावेशाच्चेति धूमानुपलम्भज्ञानेनानाग्न्य भावेन
किञ्चिदुद्व्यूढं धूमानुपलम्भ लक्षणे

प्। १९६) अग्न्यभावाद्भिन्नांशे विश्रान्तत्वादग्न्यनुपलम्भ
ज्ञानविषयाग्न्यभावानवगाहनादग्न्युपलम्भात्मक ज्ञानान्तर
स्वरूपानावेशाच्चेति चतुष्टयमि व्याख्यातम् । ततश्चेति ।
तज्ज्ञानपञ्चक मात्र धूमाग्न्योः कार्यकारण भावासिद्धेः
अग्निधूमाभावौ धूमाग्न्यभावौ धूमाभाव इत्येतानि
तज्ज्ञानपञ्चकविषय भूतानि पञ्चवस्तूनि पृथक् प्रमातृवेद्यानीति
प्रथममग्निसद्भाव एकस्य वेद्य भूतः तदानीं धूम सद्भावे
एकस्य पश्चाद्धूम सद्भावोऽप्येकस्य विषय इति । एवं
तत्तत्प्रत्यक्षादि ज्ञानैः पृथक् पृथगेकैक प्रमातृसंवेद्या
नियमाभवन्ति । तदिदानीं तानि ज्ञानानि यथा तयोर्धूमाग्न्योः
कार्यकारणभावं न गमयन्ति तथा भवत्पक्षे ज्ञान सन्तानमेव
तत्त्वमेव सौगतान्युक्त नीत्या ज्ञानसन्तानमात्रैक प्रमातृ वेद्यानि
प्रमातृवेद्यान्यपि धूमाग्न्योः कार्यकारणभावं न गमयन्ति
(तया भवत्पक्षे ज्ञानसन्तानमेव) कथमिति चेत् - अग्निं
प्रत्यक्षीकुर्वतह् प्रमातुः क्षणिकत्वेन धूमानुपलम्भादि
ज्ञानकालेऽविद्यमानत्वात् प्रमातु स्तावत् क्षणिकत्वात् धूमाग्न्योः
कार्यकारणभावगमकत्वं न भवतु । विकल्प एव तयोः
कार्यकारणभावं गमयतीति चेत् । अग्नि प्रत्यक्ष पृष्ठपातीविकल्प्ऽपि
(२५४) तदग्नि प्रत्यक्षानुभूताग्न्यतिरिक्तं धूमे सद्भावादिकं
ज्ञापयंश्चेदप्रमाणमेव तस्य प्रत्यक्ष व्यापारभूतस्य
प्रत्यक्ष विषय एव विषयो यस्मात् ।

एवं परमतं निरस्य स्वमत एव कार्यकारण
भावस्योत्पत्तिरित्याह - यदा तु प्रत्यक्षानुपलम्भात्मक ज्ञान स्रोतः
पञ्चकेन तान्याग्नि सद्भावादि पञ्चवस्तूनि देशकालाकार काली
तत्वाद्व्याप्त नित्यपरिपूर्णेऽहमित्येक स्मिन् संवित्समुद्रे प्रमात्रा
विश्रान्ती कृतानि भवन्ति तदा एकीभूतान्योन्य व्यामिश्राणि । तत एव
प्रमात्रा स्वतन्त्रतया कार्यकारणभावात्मनान्योन्य सापेक्षाणि
भाव्यन्ते । नतु घटपटादिवत् अन्योन्य सापेक्षत्वाभावेन घट
पटयोरेक प्रमातृ विश्रान्तत्वेऽप्यन्योन्य सापेक्षत्वं नास्ति । तयोः
कार्यकारणताभावाभास एवैका भास इति प्रमात्रा एक
संवित्समुद्र विश्रान्तीकृतः । अत एवान्यो न्य सापेक्ष एकाभासः
तेषामग्नि सद्भावादीनामेकीकरणा भास एव कार्य कारणभावा

प्। १९७) भास इति कार्य कारणभावस्यैक प्रमातृ
जन्यत्वान्नकिञ्चिदवद्यं न काचिदपि हानिः । प्रत्यक्षानुपलां
भात्मना ज्ञानपञ्चकेन यत् स्वस्वविषय प्रकाशनं कृतं
धूमा ————— णकृतं धूमप्रकाशन
मग्निधूमानुपलम्भज्ञान कृतमग्निधूमा भाव प्रकाशनम् ।
इत्येतत् सर्वं स्मरणबलादन्योन्य सा पेक्षत्वेनैकीकरिष्यते । तेन
धूमाग्न्योः कार्यकारणभावोऽपि सिध्यति । किमेक प्रमाता इत्या——-
——– विकल्पवत् प्रत्यक्ष विकल्पयोः
पृष्ठपातित्वाद्विकल्पोऽप्यनुभवातिरिक्तं ज्ञापयन्न
प्रमाणमेवेत्यनन्तरश्लोकोक्तनीत्या सर्वस्यायं विकल्पोऽनुभवमूल
इत्युक्तनीत्या विकल्पात्मिकानुभूतातिरिक्तेऽर्थेन (२५५) व्याप्रियते ।
अहमित्येव ————— रसंविदन्तर्मुखस्वभाव इति प्रोक्त नीत्या
अनुभवादि पूर्वापरसंविदात्मक विज्ञानवादि
समन्वयरूपानुभवितृविकल्पयितृस्मर्तृरूपैक
प्रमातृसद्भावसाधकं न भवति । स्मृतौ चैव स्वसंवित्तिरिति
स्मृताविति स्मृतौ स्वात्मनि सम्भवे स्मृत्युत्पत्तौ स्मर्त्रात्मक प्रमातृ
रूपा स्व संवित्तिः स्वमविनाशिनी संवित् यैव स्मृति साधकं
प्रमाणं सैव पूर्वानुभवोत्पत्तावपि साधकं प्रमाणं ना
परिमिति मात्रात्मक संवित्तिव्यतिरेकेणान्यत् प्रत्यक्षानुमानादिकं
प्रमाणं पूर्वानुभव सद्भावे साधकं न भवति ।

इहेति । लोके स्मृतेः स्वात्मनः स्वत एव विषयाभावादनुभूत एव
विषयः प्रकाशते । तत्रानुभूत विषये प्रकाशने सा स्मृतिस्तस्य
विषयस्यायमिति नूतन प्रकाशो न भवति । अपित्वस्य स्मृतौ
प्रकाशमानस्यार्थस्य प्राच्य एवानुभवः प्रकाशकः स्मृतिद्वारेण
प्रकाशयित्रीभवति । स चार्थ प्रकाशकोऽनुभवः स्वयं
ज्ञानरूपेण ज्ञेयत्वा भावात् स्मृतिरूपेण
ज्ञानान्तरेणानुभूतविषयवत् स्वसंवेद्यो न भवति । संवेद्यश्चेत्
स्वप्रकाशो न भवति । तस्मान्नसंवेद्य एव । स च
प्रकाशोऽनुभवस्मृतिकालेऽसंश्चेत् असत्त्वादेव कथं प्रकाशताम् ।
स्मृतिकाले सत्त्वेऽपि स इति स्मृति प्रकाशोऽयमित्यनुभवप्रकाशे
इत्यन्योन्य भिन्नं ज्ञानयुगलं युगपदेव भवतीति
अयमित्यनुभवप्रकाश व्यतिरिक्ता स इति

प्। १९८) प्रकाशात्मिका न काचित् स्मृतिः सम्भवेत् । तस्मादिति । प्रमातृ
व्यतिरेकेण स्मृत्यनुभवयोः स्वत एवोत्पत्त्यभावात् । एवमिति -
वक्ष्यमाणम् । एतदिति - तयोरुत्पत्ति स्वरूपमुपपद्यते । स्मृतीति ।
स्मृत्युत्पत्तिहेतुभूतं प्रमातृरूपं यं स्वसंवेदनं
तदेवानुभवस्यात्युत्पत्तिहेतुभूतं स्वसंवेदनं तत् स्वसंवेदनं
स्मरणकाले स्मर्तृरूप मनुभवकालेऽनु भवितृरूपमिति (२५६)
तादृग्विधस्वसंवेदन व्यतिरिक्त प्रत्यक्षादिप्रमाणम् । तत्र
पूर्वानुभवेन क्रमते स्पन्दितुमपि न शक्नोति । अनुभव कालादारभ्य
स्मृतिकालावधि अविच्छिन्नमहमिति यत् स्वसंवेदनं तत् स्वमविनाशि
संवेदनमेव प्रमातृतत्त्वमिति सिद्धम् । अन्यत्र स्मर्ता
अन्यत्रेतीत्येतन्नोपपद्यत इत्यनया च्छायया स्मृत्या प्रमातृसिद्धिः
पूर्वमुक्ता अथानुभवविध्वम्स इत्यत्र । स हि पूर्वानुभूतार्थ
इत्यादौ च । इदानीं तु स्मृत्यनुभवयोरेकमेव स्वसंवेदनं
कारणमिति कारणभूत स्वसंवेदनैकी भावात्मना प्रकारान्तरेण
प्रमातृ सिद्धिरिति विशेषः ॥

नन्विति । विकल्प्ऽप्यनुभवातिरिक्तं ज्ञापयन्न
प्रमाणमेवेत्युक्तम् । तत्कथमनुभूत व्यतिरिक्तेऽप्यर्थे विकल्पाः
प्रमाणं सन्तु । तेषामप्रमाण्यं हि बाधक ज्ञानबलादेव भवति
। बाधकज्ञानाभावे तद प्रमाण्यं कथं स्यादिति सोऽप्ययं
ज्ञानानां बाध्य बाधक भाव इदं शुक्तिज्ञानं सत्यपूर्वं
रजत ज्ञानमसत्यमिति सत्यासत्यप्रभाजनया विश्वेषां
व्यवहाराणां जीवित भूतः एकेन शुक्तिरजतादिज्ञानानां
विश्रान्तिभूतेन प्रमातृत्वेन विनानघट त इत्येक श्लोकेनोक्त्वा
श्लोकसप्तकेन ज्ञानानामेक प्रमातृ विश्रान्तिं विनास्वत एव
बाध्यबाधक भावो न भवतीति तमेव वितत्यदर्शयति -
बाध्यबाधकेति । स्वात्म निष्ठाविरोधिनां स्व इति स्वीये विषये
आत्मनिस्वास्मिन् ज्ञारूपेंशे च निष्ठत्वादविरोधिनां
ज्ञानानामिदं शुक्तिज्ञानं बाधकमिदं रजत ज्ञानं
बाध्यमिति बाध्यबाधक भावोऽप्येक प्रमातृ परिनिष्ठितेः एकस्मिन्
प्रमातरिपरितः ————— निष्ठितत्वाद्विश्रान्तत्वात् उदियात् सम्भवेत् ।
इहेति - जगति (२५७) ज्ञानस्य ज्ञानान्तरेण बाधा भवेत् । तस्य
ज्ञानस्य विषयत्वेन । प्रामाण्यमित्येतद्बाधस्वभावे
सत्यविषयत्वेन प्रामाण्यम् । अवश्यसमर्थ्यो यो ————— सापि एक
प्रमातृ विश्रान्त्या विना कथं स्यादित्यपि शब्दस्यार्थः ।

प्। १९९) प्रथमं तावत् शुक्ति ज्ञानविषयभूतया शुक्त्या
रजतज्ञानविषयस्य रजतस्य न काचिद्बाधा क्रियमाणा दृश्यते ।
जडत्वे स्पन्दितुं शक्यत्वात् रजतज्ञानविषय ————— या शुक्त्या
तावाद्बाधामाभूत् । शुक्तिज्ञानेन रजतज्ञानं बाध्यत
इत्याशङ्क्य तदपि न युक्त मित्याशङ्क्य तदपि युक्तमित्याह -
स्वात्मनिष्ठाविरोधिनामिति । स्वस्मिन्निति स्वीपेविषये आत्मनि निजे
ज्ञानांशरूपे द्वयोः शुक्ति रजतज्ञानयोर्विश्रान्तयोर्घटपट
ज्ञानयोरिवान्योन्यं विरोधस्या भावात् ।

अथ स्वात्मनिष्ठाविरोधिनामिति परस्परपरिहाररूपा ————–

  • प्रकारा स्वात्मनिष्ठैव तयोर्ज्ञानयोर्विरोधः । तर्हीति ।
    स्वात्मनिष्ठैवविरोधश्चेत् सर्वेषां सत्यत्वेनाभिमतानां
    घटपटादिज्ञानानामपीयमेवान्योन्यपरिहाररूपसरणिरस्तीति
    बाध्यबाधकभावस्येदं बाधकमिदं बाध्यमिति
    परिनिष्ठैवेयत्तारूपा व्यवस्थैव न लभ्येतेति सुतरां विघटते ।
    सत्येतरप्रविभागः स्वात्मनिष्ठाविरोधिनामित्यत्र नयर्थोऽपि
    तन्त्रेणैकोक्त्या द्रष्टव्यः ।

उक्तमर्थं निगमयितुमाह - यदिरजत
ज्ञानमन्यज्ञानबाधारहितं स्वयमेव नश्यति तदानीं
ज्ञानान्तरेण शुक्ति ज्ञानेनास्य रजतज्ञानस्यका बाधा शुक्ति
ज्ञानेन तस्य विषयमप्यपहर्तुमशक्यमित्याह - रजत
ज्ञानकालेऽसम्भवता तेन (२५८) शुक्ति ज्ञाने तस्य रजतरूप
विषयापहारं कर्तुं न शक्यः तत्काले तस्योत्पत्तेरभावात् शुक्ति
ज्ञानेन रजत ज्ञानस्य तद्विषयस्य च बाधामाभूत् । रजतमिति
रजताभावे ज्ञानेन भूतपूर्वं रजतज्ञानं तद्विषयश्च
बाध्यतामित्याह नेदं रजतमिति च ज्ञानं निजं रजताभावं
विषयीकुर्वत् भूत पूर्वस्य रजतज्ञानस्य विषयं नापहरेत् । तस्यापि
तत्कालेऽसम्भवात् ।

विपक्षे बाधामाह - अथापीति । एवं बाधाभावेऽपि ज्ञानं
ज्ञानान्तरेण नाश्यत इति पक्षश्चेत तर्हि सर्वेषां
सत्यत्वेनाभिमतानां घटपटादिज्ञानानामपीयमेवेति
अन्योन्यबाधैव सरणिरिति क्रिञ्चिदेवेति - कानि चिद्बाध्यानि
कानिचिद्बाधकानीति कथंस्यात् ।

एवं परोक्षे ज्ञानानामेव बाध्यबाधक भावा भावत्वं
प्रदर्श्यस्वपक्ष

प्। २००) एव तद्बाध्यबाधक भाव मुपपन्नमित्याह - यदा तु
भूतपूर्वं रजतज्ञानं तदनन्तरं शुक्ति ज्ञानं चैकत्र
प्रमातृरूपे स्वसंवेदने विश्राम्यतः तदेतद्बाध्य
बाधकभावत्वमुपपद्यत इति प्रतिपादयति - तथा हीति । एक
प्रमातृतत्वे विस्राम्यतामपि ज्ञानानामेकप्रकारा न भवति सा
विश्रान्तिर्विचित्ररूपैवसंवेद्यते । तद्विचित्ररूपत्वमेव दर्शयति -
नीलमित्युत्पलमिति च ज्ञानद्वयं
तयोर्नीलोत्पलयोर्विशेषणपरस्परोपरागाभासेन प्रमातरिविश्राम्यति,
घट इति पट इति ज्ञानेपरस्परानाश्लेषेण
विश्राम्यतामन्योन्यसम्बन्धादियं शुक्तिकारजतमिति च रजत
ज्ञानान्तराभा विज्ञानद्वयं भूतपूर्वस्य रजतमिति
ज्ञानस्योन्मूलनं सा भित्तिचित्रन्यायेन क्षीयेति
तद्रजतज्ञानविषयरजत विमर्शात्मक प्रमातृरूप
व्यापारानुवर्तनस्य विध्वंसं कुर्वत् प्रमातरि प्रतिष्ठां भजते ।

एवं धूमाग्न्यादिरूपयोः कार्यकारणभावादौ इदं
कार्यमिदं कारणमिति तत्कार्य ————— त्मक प्रमेया सम्भवि
प्रमात्रास्वतन्त्रेण निर्मितं तत् एवास्य प्रमाणे स्वतन्त्र दायि विश्रान्ति
वैचित्र्यं वाच्यम् । एवमुक्त प्रकारेण एकत्र प्रमातरि इदं रजतमिति
पूर्वज्ञानस्य परिवर्जनेनेयं शुक्तिरिति वर्तमानस्य ज्ञानस्य यतो
निश्चितास्थित्ः तत् इतिः एक प्रमातृविश्रान्त्यास्थितेर्निश्चितत्वात्
ज्ञानानां बाध्यबाधक भाव उपपन्नः नीलादीन् यथा सृजति
तथा तत्सम्बन्धिनो बाध्यबाधक भाव व्यवहारानपि स एव
परमेश्वर स्वातन्त्र्यादाभासयतीति तेऽपि सत्या एव ।

अत्र बाध्यबाधक भावात्मनि व्यवहारे एकप्रमात्राविना
पश्चाद्भाविशुक्ति ज्ञानमेवभूतपूर्वरजत ज्ञानान्तरस्या
प्रमाणत्ववेदकमिति विविक्त भूतलमित ————— दृष्टान्तपुरस्सरं
परकीयं मतमाशङ्कते उपरितनैः श्लोकैर्दूषयिष्यामीति ।
घटविविक्त भूतलज्ञानं यथा घटाभावप्रतीति साधकं तथा
पश्चाद्बावि भूतपूर्वरूप्य ज्ञाना प्रमाणत्व वेदनमिति च ———
—— प्रमातृविश्रान्त्या इति सूत्रसङ्गतिः ।

प्। २०१) इति शुक्तिकाज्ञानमप्यनपेक्षं स्वयमेव सम्भवत् स्वात्मनः
स्वस्वरूपेणाभिन्नं प्रमाणत्वं बुध्यते तत्परिच्छिनत्तीति न्यायात्
तदिति शुक्तिकारूपं वेद्यं परिच्छिनत्तीति न्यायाद्विषय ————— तो -
————– त ज्ञानस्यव्यवच्छेद इति । तदयुक्तम् । शुक्ति ज्ञानस्य
शुक्तिसंवेदना भिन्न प्रमाणत्ववेदनं यत्तदेव भूतपूर्वस्य
रजत ज्ञानस्याप्रमाणत्ववेदनमुच्यते । घटात्मक
स्त्वनन्तरज्ञानमेव । घट रूप स्त्वनन्तराभाव ज्ञानमित्येत ——–
पूर्व —— विविक्तभूभागज्ञाननेव घटाभावज्ञानमिति
प्रसिद्धमेतत् शुक्ति ज्ञानकृतं रजत ज्ञानं प्रत्यप्रमाणता
संवेदनमेव रजत ज्ञानस्य बाधकमुच्यते
तज्ज्ञानयोर्बाध्यबाधकत्वम् । एवमुक्तप्रकारमिति चेत् अस्माभिरिति
ज्ञानसन्तानमेव सौत्रा इत्युक्त नीत्या ज्ञानमेवात्मेति वादिभिरुच्यते ।
ज्ञानानां किं प्रमात्रैक्येनेति । अत्रेति बाध्यबाधकभाव
प्रसङ्गात् अभाव व्यवहार सिद्धौ स्वरूपमुपपादयिष्यन्
विविक्तभूतलज्ञानमित्युक्तं दृष्टान्तमेव प्रथमं दूषयति
विविक्तभूतलज्ञानं घटाभावमितिर्यथा इति । नैवमिति यो दृष्टान्त
उक्तः स एवं न कथमिति चेत् - उच्यते शुद्धस्थल ज्ञानादिति ।
घटविविक्तभूभाग ज्ञानात्तस्य भूतलस्याघटात्मता पटरूपता
सिद्ध्येत् । भूतले न घट इत्येता तावदेव सिद्ध्यति । अत्र भूतले
उपलब्धियोग्यस्य चाक्षुष प्रत्यक्षेण दर्शनार्दस्य घटस्यात्मनः
घटस्वरूपस्या भावोऽपि न सिध्यत्येव । एकप्रमात्रा विना
शुक्तिकाज्ञानमेव रजत ज्ञानत्ववेदनं भवतीत्येतद् दार्ष्टान्तिकं
प्रतियोदृष्टान्त उक्तः स एव न कुत इति चेत् । उच्यते । कदाचिद् घटो न पट इति
वत् भूतलं न घट इति तादात्म्येना भावो व्यवहर्तव्यः कदाचिदिह
भूतले घटो नेति व्यतिरेकेणा भावो व्यवहर्तव्यः । अत्रेति अभाव द्वय
शुद्ध भूतल ज्ञानादाद्यः भूतलं न घट इति
तादात्म्यरूपेणाभाव व्यवहारः सिध्यति । यत्र निषेध्यस्य घटादि
वस्तुनः चक्षुर्ज्ञानविषयी कार्य पृथुबुध्नोदराकारादिनो पयोगि स
तादात्म्याभाव व्यवहारः । यस्यपिशा च

प्। २०२) भूतादेः स्वभावबलात् सृष्टिबलात् दर्शनयोग्या प्राप्तिर्नास्ति
तस्यापि स्वत एव तादात्म्येनाभावो व्यवहर्तव्यः भूतलं न
पिशाचादीति । अथवा भूतले यस्य शब्दादे स्तत्कृता घटा
भावमितिर्यथेति योदृष्टान्त उक्तः स एव न युक्तः । शब्दादि ग्राहकैक
श्रोत्रत्वगादीन्द्रियज्ञान संसर्गिशब्दादिवस्त्वन्तर (२६१)
सन्निधानाभावेनानिश्चयः । तस्यापि शब्दादेस्तादात्म्येना भावो
व्यवहार्यः, भूतलं न शब्दादिरिति यत्रभूतले निषेध्यस्य वस्तुनः
दृश्यत्वरूपं विशेषणमवश्यमुपयोगि तत्रेह भूतले न घटः न
शब्दैत्यादिना व्यतिरेकेणा भावो व्यवहर्तव्ये नैषतादात्म्य
व्यवहारोऽभ्युपायोन भवति चेत् अतिप्रसङ्गादिति ब्रूमः ।

अति प्रसङ्गो नाम पटेविद्यमानेऽपि भूतलस्य
घटविविक्तत्वमेव । भावानामन्योन्य व्यमिश्रणाभावात् । किञ्च
घटेऽविद्यमानेऽपि भूतले घटो नास्तीति वक्तुमशक्यम् । तदेतदिति । अति
प्रसङ्गत्वमेवदर्शयति - शश्वादिति । विद्यमानेऽपि घटे भूतलं
घटविविक्तमेव भावानामिति भूतल घटादीनां स्वात्मनिष्ठितेः
निजनिज स्वरूप निष्ठितत्वादन्योन्य व्यामिश्रणा भावात् तदिति
विद्यमानेऽपि घटे भूतलस्य विविक्तत्वात् ज्ञानमिति घट
विविक्तभूभागज्ञानं जात्विति कस्याञ्चिद्घटा
सन्निधानरूपायां दशायामेव । भिन्नस्येति । भूतलाद्भिन्नस्य
घटस्या भावात् । साधनमिति अभावं साधयतीति कथम् ।
पटसन्निधानेऽपि भूतल————— नहिभावामिश्रीभवन्ति ।
भूतलघटयोरन्योन्यं व्यामिश्रणा भावात् । ततश्चेति । तस्मात् ।
तदापीति । घटस्य विद्यमानत्वेऽपि विविक्तभूतल ज्ञानमस्तीति सत्यपि
घटे अत्र भूतले घटो नास्तीति व्यतिरेकेण ————— ततज्ज्ञानमिति -
घटविविक्त भूतलज्ञानम् । जात्विति कस्याञ्चिद्घटा सन्निधान
रूपायां दशायामेव भूतलाद्भिन्नस्य घटस्याभावं
साधयतीति केन प्रकारेण भवेत् । घटासन्निधान दशायामपि
अत्रभूतले ————— स्यादित्या (२६२) पतितमिति मन्तव्यम् । भूतले
घटस्य सन्निधानेऽपि भूतलघटयोरन्योन्यं व्यामिश्रणा भावात्
अत्र भूतले घटो नास्तीति वक्तुं युक्तम् । घटा सन्निधाने तु

प्। २०३) घटस्यादर्शनादिह भूतले घटो नास्तीत्येतदपिन —————
तमित्यर्थः ।

ननु व्यतिरिक्तैति भूतले घटे विद्यमाने भूतलं
विविक्तमित्युक्तम् । तथा पीहभूतले घटो नास्तीति व्यतिरिक्त
वस्त्वभावनिष्ठो व्यवहारः कस्याञ्चिद्घटा
सन्निधानरूपायामवस्थायां दृश्यते सर्वैरविनीतयेनानुभूतम् ।
तत्रकागतिरित्याशङ्क्य चिरन्तनैरक्षपादप्रभृतिभिरपि दृष्टमभाव
व्यवहार सिद्धिं प्रकारं दर्शयति - किन्त्वित्यादि । अत्रेति । घटविविक्ते
भूतले चक्षुष्मत स्तावत् चक्षुर्ग्राह्य आदित्यालोक चयोऽस्ति ।
अन्धस्यान्ध तमस स्थितस्य च त्वगिन्द्रिय विषयः घटोचित कटिन स्पर्श
विविक्तः मृदुः उष्णादिकस्पर्शोऽस्ति वा शब्द सूचित
श्रोत्रादीन्द्रियग्राह्यः शब्दादिरप्यस्ति । तस्यालोक च यस्य
स्पर्शादेश्चायमालोकः अयं स्पर्श इत्यादिना न्यघटादिविविक्ते स्वेन
रूपेण ज्ञानं यत् तज्ज्ञानमघटात्मतामिति इह भूतले घटो
नास्तीति भूतल व्यतिरिक्तघटाभावं साधयत्येव । तत्र भूतले
तत्तदिन्दिर्य विषयैकैकवस्तु सद्भावमवलम्ब्यान्यस्य
घटाभावस्याभावोग्रहीतुं शक्य इत्यर्थः ।

घटा भाव एव घटादिभावान्तरस्या भावा इति व्यवहर्तव्यः
इत्ययं प्रतीकः पन्थाः प्रतीतिसिद्धः सर्ववादिभिरपरित्याज्यः । तत्रेति
। एवं विधेपचि भावस्य घटादेर्भावान्तरेण भूतलेन सह च
आधार्याधार भावरूप सम्बन्धः स एव भाव तदभावयोरिति
भावस्य भूतलस्य तदभावघटाभावरूपस्य
शिवादेश्चोभयोरप्याधार्याधारभावः । ततश्चेति । एव
माधार्याधारभाववेदिते (२६३) घटादि व्यतिरिक्ते भूतले शिलादिकं
वा तस्य दर्शने आलोक पुञ्जादिकं वा यच्चाक्षुषे ज्ञाने भाति तदेव
शिलादिकं भूतले घटा भाव इति क्रिया परामर्शा भावेन वा
भूतले घटो नास्तीत्यभाव क्रियापरामर्श सद्भावेन वा
व्यवह्रियते । यत्र भूतले नेत्रनिमीलने सन्तमसादौ सति चक्षुर्व्यापारो
नास्ति तत्रापि चक्षुर्व्यापार गोचरे भूतले घटो चित कठिन स्पर्श
विनाभूतं मृदूष्णादिस्पर्शं गृह्णन् तं स्पर्शमेव घटाभाव
इति व्यवहरति । सर्वगस्येति । सर्वदेशकालगतस्य वायुस्पर्शस्य तत्र
भूतलेऽवश्यं भावादिति श्लोकस्य पिण्डितार्थः । पदार्थस्तु

प्। २०४) व्याक्रियते । किं त्विति शब्दः स्वमते । पक्षेपविशेषद्योतकः ।
किन्त्वित्ये तत् स्वमतो पक्षेपायेति स्वसिद्धान्त स्थापनाय स्वप्रतिभां
प्रतिवक्तीकृत्य तया सह सूत्रकरस्य किं पुनरत्र न्याय्यमिति
प्रश्नरूपः परामर्शः इत्येवविशेषद्योतकस्य किन्त्वित्यस्य
पदस्यार्थः । तत्रेति । एवं भूते प्रश्नपरामर्शे स्वयमेवाह - तत्रेति
। घटविविक्तेभूतले चक्षुष्मतः स्वचक्षुर्ग्राह्यालोकचयस्तावदस्तीति
ज्ञेयः अन्धस्यान्धतमसस्थितस्य चोष्णादि स्पर्शो नास्ति ।
तस्यालोकस्पर्शादेःस्वेन रूपेणेति तदेक ग्राहकेण अयमालोकः अयं
स्पर्श इत्यादिरूपं ज्ञानं यत्तज्ज्ञानं कर्तृभूत्वा तस्यालोकादेः
अघटरूपतां घटाभाव रूपताम् । तत्र भूतले साधयतीति शिलादि
ज्ञानमेव शिलादेर्घटाद्यभावरूपतां साधयतीत्यर्थः ।
साधयितुं शक्यो भवति ।

एवं शिलाद्यालोकाद्यभाव एव घटादिभाव इत्युक्त्वा
शब्दरसादेरभावोऽपि तदन्यशब्दरसादेर्भाव एवेति वक्तुमाह -
उच्छ्वास निश्वासात्मक बहिः स्पन्दः परिस्पन्द व्यतिरिक्तान्तर
प्राणपरिस्पन्दजनित स्वीय सूक्ष्मशब्दाकर्णनात् (२६४) श्रोत्रादि
सामग्री साकल्यमिति श्रोत्रेन्द्रियस्य शब्दग्रहणसामग्री साकल्यमस्तीति
सम्भावयमानस्तमेवान्तरं शब्दं श्रावणरूपैकज्ञान
संसर्गिणं गृह्णन् तदन्यं बाह्यं शब्दं निषेधयति । तत्रान्तर
एव शब्दोऽस्तिन बाह्य इति तदान्तरसूक्ष्मशब्दाभावमधि —————
सूक्ष्मान्तं नादोपहित श्रोत्रसूक्ष्मतमः शब्द एवास्ति सूक्ष्मः
शब्दो नास्तीत्यभवं वेदयते । एवं रसान्तरा भावात् तत्तद्बाह्य
शब्दाद्यभाव ग्रहणसमये तदानीमेव स्वकीय शब्दादेव
श्रोत्रादीन्दिर्यज्ञानं भवति ————— निजनिजरूपव्यतिरिक्त
वस्त्वन्तरा स्पर्शिनापि स्वकीयं दन्तोदकरसमनुभवन् दन्तोदकरस
एवास्ति नान्य इति वेदयते । एवं रसान्तराभावमपि स्वकीयं
त्रिज्पुटितभावं जिघ्रत् स्वकीय त्रिपुटिकागन्ध एवास्ति नान्य इति वेदयते ।
एवं स्वकीय कायीय स्पर्शं स एव दधत् स्पर्शान्तरं नास्तीति
वेदयते । एकैः श्रौतादि
ज्ञानसंसर्गयोग्यशब्दादिवस्त्वन्तरोपलम्भेन —————
शब्दाद्युपलब्धिकारणस्य

प् २०५) श्रौतादिकरणवर्गस्य तदितरशब्दाद्यभाव
निश्चयोनास्तीत्येकान्त एषः । तस्मादेकैक शब्दादिकं गृहीत्वा
शब्दादिवस्त्वन्तरस्याभावो वक्तुं शक्य इत्यर्थः ।

अनन्तर प्रवृत्तेन शब्दादिविषयानुभवेनास्तीतिकल्पितस्य
श्रोत्रादिकरण वर्गस्य तदैव ध्वंसनाशं
सनादन्यशब्दाद्यभाव ग्रहण सा कल्य निश्चयोऽस्त्येव ।
तत्तद्वाच्यशब्दाद्यभावग्रहणसमये स्वकीयेऽस्यशब्दांशे
स्वकीयश्रोत्रादीन्द्रियरूपैक भूः किमिति चेत् एतत्परिहरति -नेति ।
तत्तच्छब्दाद्यभावोपलिप्सुर्हिप्रयत्नेन तत्तच्छब्दादि ग्रहण
हेतुभूतं तत्तच्छ्रोत्रादीन्द्रियाधिष्ठानं व्यापारयन्नेव लक्ष्यते ।

(२६५) नन्विति । न केवलं श्रोत्रादीन्द्रिय विषयस्य शब्दादेरेव
व्यतिरेकेण निषेधं व्यवहारः प्राप्तः । यावददृश्यस्यापि
पिशाचादेर्व्यतिरेकेणापि निषेधव्यवहारः प्राप्नोति । कथमिति चेत् । स
भूतलगत आलोक पुञ्जो यथा घटादन्यस्तद्वत् पिशाचादेरप्यन्य इति
तमालोक पुञ्जं गृहीत्वात्र भूतले पिशाचो नास्तीति वक्तुं
युक्तमित्याशङ्क्याह - पिशाचः स्यादित्यादि । अनालोकः आलोकादन्योऽपि
पिशाचः इन्द्रियगोचरत्वाददृश्यो भूत्वा भूतलान्तरे भातीति स्यात्,
सम्भाव्यते तद्वदालोकस्यान्तरे सोऽस्तीति सम्भाव्यत एव सपिशाचः
अदृश्यो भूत्वा भूतलस्यान्तर्वर्तमानत्वादत्र पिशाचो नास्तीति यथा
अनिषेध्यः तथा लोकाभ्यन्तरे पिशाचस्यास्तित्वात् तत्राप्यनिषेध्यः ।
एवं सर्वथेति । भूतलं न घट इत्यादि तादात्म्य भाव व्यवहारः
सर्वत्र यथा स्वतः सिद्धस्तद्वत् पिशाचादेरपीति भवदुक्तनीत्या
आलोकपुञ्जो यद्यपि पिशाचाद्व्यतिरिक्तस्तथा यद्यपि अपिशाचात्मा आलोको
नास्तीतितादात्म्यरूपभावः सिध्यति । अत्र तथापि अत्रालोकमध्ये
पिशाचो नास्तीत्येतदशक्य मध्यवसितुम् । घटो ह्यालोकपूरमध्ये
पिशाच वददृश्यो न सम्भाव्यः । कथमिति चेत् घटे विद्यमाने तत्र
घटाधिष्ठिते भूतले तद्भूतल गतालोकपूरापसर्पणात् । अतश्चेति ।
आलोकपूरमध्ये घटस्यासम्भाव्यत्वात् । अत्रालोकपूरमध्ये
घटोनास्तीति

प्। २०६) सिद्ध्यतीदंयः पिशाचस्तु भूतलमध्य आलोकमध्येऽपि वा
भवन् घटवत्तामालोकपूर निबिडिता न प्रतिहन्ति
सतादृग्विधस्वभाव इति यतः ततश्चेति तन्निविडिता प्रतिहनना
भावादालोकमध्ये तस्य पिशाचस्या सम्भावनादत्र पिशाचो नास्तीति
कथं व्यतिरेकेण निषेध व्यवहारः । एवं चक्षुरिन्द्रियविषयभूत
दुग्धादिगत रूपमध्ये रसनेन्द्रिय विषयस्य रसादेः
सम्भावनाद्रूपेरसगन्धादिर्नास्तीति (२६६) व्यतिरेकेण निषेधः
कर्तुमशक्यः ।

एवं तात्पर्यमुक्त्वा पदशोव्याख्याति- यद्यपीत्यादि ।   

तद्वदालोकस्याप्यभ्यन्तरेसोऽस्तीति सम्भाव्यत इत्येतदन्तं
सूत्रयोजनामेव व्याख्यातम् । ततश्चेति । आलोकाभ्यन्तरेऽपि पिशाचस्य
सम्भावनादालोकः पिशाचादन्यः इत्यनेन तादात्म्यरूपेण यथा
निषिद्धः पिशाचः तथापि सर्वप्रकारेणेति अत्रपिशाचोनास्तीति रेकेणापि
न निषिद्ध इति पिशाचाद्यभावनिविड वासना व्यवहाराः तत्र भूतले
कथं प्रवर्तन्ताम् । इति श्लोकार्थः ।

एवं बाध्य बाधकभाव व्यवहार प्रसङ्गात् किं
त्वालोकचय इत्यादिना बाध्यबाधक इत्यादिना आलोक चय इत्यन्तेन
प्रसङ्गागता भावव्यवहारपरमार्थं प्रदर्श्य नैवं
शुद्धस्थल ज्ञानादित्यर्धेन प्रकृते प्रेमेये तादात्म्यभावं
योजयति - एवमिति । यथा आलोकादि ज्ञानं घटाभाव ज्ञानरूपं
एवं शुक्तिमति शुक्ति ज्ञानं रूप्यज्ञानाभावरूपं भवेत् । न तु
भूत पूर्वाया रजत ज्ञप्तेरप्रामाण्यवेदिका स्यात् । यथा आलोक एव
घटा भावरूप इत्यालोके गृहीते तेनालोकेन प्राग्घटस्य विद्यमान
दशायां न तेन घटज्ञानेन गृहीतस्य घटस्य किञ्चिदायातम् ।
तद्वाधायां प्रसङ्गेऽपि नायातः । एवमिति । तथा शुक्तिका ज्ञानं
रूप्य ज्ञानं न भवतीति यत् ———————- न घट ज्ञानं
स्वात्मना स्वयमेव स्वविषयभूतघटज्ञान प्रामाण्य
संवित्तदानीमेव वर्तमानः पटज्ञानाभावः पटज्ञानाभाव
प्रामाण्यं संवित् इयवेति घटज्ञानेन पटाभावज्ञानेन च
पूर्वं प्र———————- भवति । अयं घट इति अयं
घटज्ञानचिन्ता अयं पटोनास्तीति पटज्ञानाभवचिन्ता

प्। २०७) (२६७) चेत्येषा सर्वा घटज्ञान स्वरूप चिन्ता । अनया
पूर्वप्रवृत्तस्य पट ज्ञानस्य किं जातं न किमपीत्यर्थः । एवं
शुक्तिरियमिति न रजतमिति ———– क्रमेणाहं शुक्तौ प्रमाणम् । अहं
रजताभावे प्रमाणमित्येवं स्वात्मना स्वयमेव प्रकाशतां
तावतेति । तज्ज्ञान द्वयमात्रेण भूत पूर्वस्य रजत ज्ञानस्य न
किञ्चिदपि बाधनं प्रवृत्तमिति तत्प्राक्तन रजतज्ञान विषयी कृतं
रजतं कथं सत्यं स्यात् । ज्ञात्राविना ज्ञानानामेव
बाध्यबाधक व्यवहारो न भवतीत्यर्थः ।

एवं शुक्तिज्ञानेन रजत ज्ञानस्य प्रत्यक्षतोबाधनं
भवतीत्युक्त्वा द्वयोरपि ज्ञानयोरेक प्रमातृ विश्रान्त्या
विनानुमानतोऽपि पश्चाद्बाधा न भवतीत्येतत् समर्थयितुमाह -
नन्विति । इदमिति वर्तमानेदन्ताशुक्ति कमेक प्रमातृविश्रान्त्याविना
परामर्शेन तत्पूर्वानुभूतं वेद्यं परामृश्यते ।

यत्रेदं रजतमिति रजत ज्ञानमभूत् तत्रैव विषये इदानीं न
रजतमिति शुक्तिरिति च ज्ञानद्वयं प्रमाणभूतं जातम् । तदिति तयो
स्तत्रैव विषये प्रमाणभूतत्वात् । अतः ज्ञानद्वितयात् प्राच्यं रजत
ज्ञानमप्रमाणमित्यनुमीयते । रजत विषयावगाहि रजतज्ञानं
शुक्तिविषयावगाहिशुक्तिज्ञानं चैकत्रविषये भवतीत्येतन्न
सम्भवत्येव । तदिति एकस्मिन्विषये ज्ञानद्वया भावात् आनुभविको
बाध व्यवहारः शुक्ति ज्ञानेन रजत ज्ञानस्य
भविष्यतीत्याशङ्क्याह - न केवलं स्वसंवेदनात् प्रत्यक्षत एव
शुक्तिज्ञाने रजतज्ञानस्य बाधा न सिध्यति । यावदनुमानतोऽपि न
सिध्यति । शुक्तिज्ञानकाले प्राच्यस्य रूप्यबोधस्य धर्मिणो सिद्धे
तस्मिन् रूप्यज्ञाने धर्मिण्यप्रामाण्यं साध्योधर्मः शुक्ति नत्वाद्
वा (२६८) न रजतमिति ज्ञानत्वाद् वा निषयगतं
तज्ज्ञानविषयीकार्यत्वात् वा हेतू क्रियेत यत्र यत्र रजत ज्ञानं तत्र
तत्रा प्रामाण्यमित्यनुमानतोऽपि न बाधा स्वसंवेदन सिद्धेति इयं
शुक्तिर्नरजतमित्यव्यवधानेन तदानीमेव प्रत्यक्षतः सिद्धा एक
प्रमातृजा चेत्युक्ता तयोः शुक्ति रजत ज्ञानयोरेक प्रमातृविश्रान्तौ
इदं शुक्तिज्ञानं प्रमाणभूतं भूत पूर्वं रजतज्ञानं
प्रमाणमित्येवं रूपा बाधा न सिद्ध्यति ।

प्। २०८) प्राचो रूप्यबोधोधर्मी अप्रामाण्यं भवितुमर्हति । तस्य
धर्मिण इदानीं शुक्तिका ज्ञानत्वान्नरजतमिति ज्ञानत्वाद्वा
तदुभय ज्ञान विषयवत्वाद्वाहेतुत्रयं यत्र यत्र विषये
शुक्तिकाज्ञानादि तत्र तत्रा प्रामाण्यमित्यपि शब्दाद्धेतोर्वाप्तेश्चा
सिद्धेरनुमानतोऽपि बाधा स्वसंवेदनसिद्धेति इयं
शुक्तिर्नरजतमित्यव्यवधानेन तदानीमेव प्रत्यक्षतःसिद्धा सा
बाधा एक प्रमातृजा युक्तेति एक प्रमातृजा चेत्युक्त्वा तयोः शुक्ति रजत
ज्ञानयोरेक प्रमातृविश्रान्तेः इदं शुक्तिज्ञानं प्रमाणभूतं
भूतपूर्वं रजतज्ञानं प्रमाणमित्येवं रूपा बाधा सिध्यति ।
अपिरनुमाने हेतु व्याप्त्योश्च नेयः ।

इहेति । लोके धर्मिणि सति स्मर्यमाण व्याप्तिकेन सिद्धेन हेतुना
तस्मिन् धर्मिणि साध्यधर्मा सम्बन्ध व्यवच्छेदोऽनुमान
व्यापारः । इह भवदुक्ते अनुमाने तस्य धर्मिणः साध्यम
प्रामाण्यात्मकं धर्मं प्रतिधर्मं प्रतिता साधको हेतुः
शुक्तिज्ञानादि । तत्काले शुक्तिका ज्ञानकाले, प्राप्यस्य रूप्यबोधस्य
धर्मिणो भावात् तस्य रूप्यबोधस्य धर्मिण इदानीन्तनाः
शुक्तिज्ञानादयो धर्माः रुप्यबोधात्मकपक्षा धर्माद्धेतोः
साध्यसिद्धिर्न भवति । स्मर्यमाणं तद्रूपज्ञानं धर्मिस्यात्
इत्यप्यसत् । तत्रापि हेतोरपक्षत्वेन साध्या सिद्धेः । इदानीं शुक्तिः
रजतज्ञानस्य (२६९) विषयो न भवतीत्येतत् सिद्धमेव न साध्यम् । रजत
ज्ञानकाले तस्य रजतज्ञानस्य शुक्ति विषयो भवतीति साध्यते तदा
तत्पूर्वरजत स्वसंवेदने शुक्तिज्ञानेन साध्यविषयता यत्र विषये
इदानीमन्यज्ञानं तत्र पूर्वमन्यज्ञानं न भवतीतीयं व्याप्तिः
केन गृहीता । प्रमातुरनङ्गीकारात् प्रमाता माभूत्
उक्तव्याप्तिरनुमानान्तरेण गृहीतेति चेत् तस्याप्यनुमानान्तरापेक्षया
नवस्था । एतेनैक प्रमात्रा विना व्याप्तेर्गृहीतुमशक्यत्वेन हेतु ———
————- कथं ज्ञानद्वयं स्यादित्येतत् प्रत्युक्तम् । तयोः शुक्तिरजत
ज्ञानयोरेकविषयतां को जानीयात् । उभयकालानुभूतमात्रभवात् ।
तर्हि शुक्ति रजतज्ञाने ज्ञानांशुरूपे स्वात्मनि शुक्तिरजतरूपे
स्वविषयेच विश्राम्यतीत्य ———————-इति प्रमात्रा विना केवलं
शुक्तिज्ञानं न

प्। २०९) रजतज्ञानस्यानुमानतोऽपि न बाधा । तत्रेति - नेदं
रजतमियं शुक्तिरिति बाधा प्रतीतौ अनुमान योग्यं व्याप्तिग्रहणादि
व्यवधानं न सञ्चेत्यते नेदं रजतमियं शुक्तिरिति प्रत्यक्षेणैव —
——————-संवेदन सिद्धतया झटितिभासमानादेव
बाधामाभूदित्येतदप्यशक्यं वक्तुम् ।

एवं बाध्यबाधक भावस्य परपक्षे ज्ञानसन्तानमेव
तत्वमिति सौगता इत्युक्त नीत्या ज्ञानसन्तानमात्रात्मवादि सौगतपक्षे
एवमनुपपत्तिं प्रदर्श्यैक प्रमातृ ———————- व इति वाक्येन
प्रतिज्ञातं स्वपक्षं निगमयति सा बाधा एकस्मात् प्रमातुर्यदि
जायेत तदानीमेव युक्तेदं शुक्तिज्ञानं सत्यं इदं
रजतज्ञानमसत्यं इति प्रमातैव नीलादिवत्किल तानपि बाध्यबाधक
रूपान् व्यवहारान् निर्मातीति व्याख्यातम् । एवं स्थिते ———————-
क भाव एक प्रमात्रा यत्त (२७०) इत्येवं स्थिते सति
एतद्बाध्यबाधकभाव व्यवहारसिद्धये अन्यथानुपपत्तिः सत्य
ज्ञानेना सत्यज्ञानस्य बाधानङ्गीकारे बाध्यबाधक भाव
व्यवहारानुपपत्तिरित्युच्यते तच्यतां कामम् । अधुनैक
प्रमात्रङ्गीकारे सर्वं बाध्यबाधक भावसत्यत्वा सत्यत्वादि
सिध्यति ।

न केवलमिति । सकल लोकयात्रा सामान्य व्यवहारभूता एते
प्रत्यक्षानुपलम्भेत्यादिनोक्तरूपा कार्यकारणभावस्मर भाध
व्यवहारा एव न केवलमेक प्रमातृनिष्ठा यावदवान्तर
व्यवहाराः समलाः ये क्रयविक्रयादयः निर्मलाः उपदेश्योपदेशक
भावा दयश्च तेऽप्येकप्रमातृनिष्ठा एव भवन्ति, सर्वे व्यवहार
एकप्रमातृ विश्रान्ति समन्वय प्रमाणमित्याह्निक मुपसंहरति
इत्थमिति ॥

तत्तद्विभिन्नेति श्लोकद्वयेनोक्तेनान्वय
व्यतिरेकात्मनोपपत्तिप्रकारेण तथा प्रत्यक्षानुपलम्भेत्यादि
श्लोकान्तरेइरप्युक्तेन व्यवहारोदाहरण प्रकारेण तथा
प्रत्यक्षानुपलम्भेत्यादि श्लोकान्तरैरप्युक्तेन
व्यवहारोदाहरणप्रकारेण मायाशक्त्या प्रमातुरन्योन्यतश्च
भिन्नैः प्रतिबिम्बविकल्पक्षित्यादिशिवान्तैरर्थावभासैः खचिते
स्वरूपानन्यथात्वेनोपरक्ते विभौ देशकालानवच्छिन्ने विश्रान्तः
उक्तरूपः ।

समलो विमलो वापि व्यवहारोनुभूयते ।
सो पदेशैर्जनैस्तेषाम् ।

प्। २१०) अनुभव एव दृढक्षपं प्रमाणम् । इति यावत् ।

इत्थमिति । ततद्विभिन्नेत्यादि श्लोकोक्त प्रकारेणेदमपिमन्तव्यम् ।
यद्विभौदेशकालानवच्छिन्ने विश्वोत्तीर्णे महेश्वरे । अत एव
विभुत्वादेव माया वलाद्भेदैकप्राणितैरन्यथा
विश्रान्त्यभावादनतिरिक्ततया वर्तमानैः रवचिते
स्वरूपानन्यथात्वेनापरक्ते विश्रान्तः (२७१) सर्व उक्तिरूपो
व्यवहारः अहमनुभवामि अहं विकल्पयामि अहं स्मरामि
अहमनुसन्दधामीत्यादिरूपेणानुभूयते । एवं भूतोऽनुभव
एवात्तदृढतमं प्रमाणं यावत् सोपदेशैः
सद्गुरुकटाक्षप्रत्यभिज्ञातमहेश्वरात्मक स्वात्मरूपै
रवधानेन मय्येव भाति सकलं दर्पण इव निर्मले घटादित्यादि
रूपेणावधानेन येनावधानेन येषां सोपदेशानामिदमिति
संसारसम्मता व्यवहार दशा सैवतद्विश्रान्ति स्थानभूताहमिति
प्रमातृतत्व प्रख्यात्मिका शिवभूमिः । यथोक्तम् - ग्राह्यग्राहक
संवित्तिरित्यादिना । प्रतिभासपरम्परे अप्रत्यभिज्ञातस्वात्मेश्वरत्वं
परमार्थानां व्यवहारः समलः आणवादिमलसहितः अन्येषां
प्रत्यभिज्ञात स्वात्म महेश्वरत्वपरमार्थानां स एव शिव
स्वरूपतया प्रकाशमानत्वात् निर्मल इति इति शिवम् ॥

इतीश्वर प्रत्यभिज्ञा सूत्रविमर्शिनी व्याख्यायां सप्तममाह्निकं
समाप्तम् ॥

अथाष्टममाह्निकम् ॥

सिद्धानां प्रत्यभिज्ञात
महेश्वरात्मस्वस्वरूपपरामृष्टानां परिपूर्णानां अनुभवामि
विकल्पयामि स्मरामि अनुसन्दधामि इत्येवं स्वरूपसंवेदना सिद्ध
व्यवहार वशेन । किञ्च स्वेना विना संवेदनेन पूर्णाहन्तात्मना
महेश्वर प्रकाशनादित एव सम्यक् सिद्धस्य सम्पन्नस्य
स्वेच्छावभासिता शेष लोकयात्रात्मने नम इत्युक्त नीत्या लोक यात्रा
रूपस्य व्यवहारस्य वशेन सामर्थ्येनयः
कथञ्चिदासाद्येत्युक्तनीत्या तादृग्विधलोकयात्रान्यथानुपपत्त्योक्ति
लक्षणो महेश्वर (२७२) इति सिद्धः स्व स्वरूपेण प्रत्यभिज्ञातः तं
शिवं स्तुमः ।

प्। २११) (२७२) पञ्चमचतुर्थषष्ठैराह्निकैः ज्ञानस्मरणापोहनानि
व्युत्पाद्य सप्तमेन तेषां चैकमाश्रयं विना
कार्यकारणभावस्मरण बाध्य बाधकभावादिरूपो व्यवहारो न
युक्त इति निरूपितम् । एतावतेति एकाश्रय निरुपणेन न चे दन्तः कृतेत्यत्र
सूत्रे एक इति यदुक्तं तत्तदेकत्वं परिघटितम् । अन्तः स्थितवतामेव
घटते बहिरात्मना, इति । चिदात्मैव हि देव इति
स्वामिनश्चात्मसंस्यस्येति तदेवं व्यवहारेऽपीति । एवं स्मृतौ विकल्प
इत्यादि श्लोकोक्तेनान्तराभास समर्थनेनान्तः कृतानन्त विश्वरूप
इत्यपि निरूपितम् ।

अत्रैवेति । न चेदन्तः कृत इति सूत्रे महेश्वर इति यदुक्तं
तन्माहेश्वर्यरूपं स्वातन्त्र्यमिदानीउपपादयितव्यम् । महेश्वरष्य
ज्ञातृत्वकतृत्वरूपार्थत्वात् तदीयं स्वातन्त्र्यमपि ज्ञानविषयं
क्रियाविषयं चेत्युभयप्रकारं स्वभावनवभासस्येत्युक्तनीत्या
प्रकाशविमर्शात्मकसंविद्रूपं चिदेकरूपमेव पूर्णाहन्तात्मक
बोधैकरूपमेव यद्यपि तथापि तदीयपारमार्थिकस्वरूप
व्युत्पादनाय घटितः ज्ञानविषयं क्रियाविषयं —————-
विभागस्तेनैव महेश्वरेण परिघटितः घटादिग्रहकालेऽपि घटं
जानाति साक्रिया इति तत्र जानामीत्यन्तः संरम्भयोगो विभाति । येन ——
———- ति वपुश्चित्स्वभावतामभ्येति । स च संरम्भो विमर्शः
क्रियाशक्तिरुच्यत इति चोक्तनीत्या ज्ञानस्यापि क्रियामयत्वत्
ज्ञानात्मकक्रिया विषयं स्वातन्त्र्यं यद्यपि क्रियाधिकारविषय
क्रियाशक्तिरूपं तथा ज्ञानाधिकार एव निर्णेतव्यम् ।
ज्ञानाधिकारविषयत्वात् । एवं न —————- शब्दार्थः प्रकृतितः
प्रत्ययतश्च निर्णीतो भवति । (२७३) प्रकृतितः ज्ञातृस्वरूपतः
प्रत्ययतः कर्तृस्वरूपतश्च पूर्णतया सा कल्येननिर्णीतो भवति । तत्रेति
ज्ञानक्रिययोर्मध्ये । ज्ञानं नाम विश्वरूपस्य भगवतः
स्वातन्त्र्यरूपभूते विश्वत्रयः प्रकाशः यश्च विमर्शः ते तावत्
ज्ञानक्रिये इति वक्ष्यमाण नीत्या असङ्कुचितमपि स्वयमिति स्वात्मना
महेश्वरेण स्वस्वातन्त्र्य रूपया मायाशक्त्या प्रमातुरन्यतश्च
भेदित देशकालसङ्कुचित नीलपीताद्याभास भेदेऽपाश्रयति
यन्त्रणासङ्कुचित महामिति संवेदनं न तत्रेति ज्ञानस्वरूपे,

प्। २१२) एवं स्थिते सति अनुभवामिविकल्पयामि स्मरामीत्यादिषु
नीलपीतादिकं प्रतियत्संयोजनवियोजनात्मकं स्वातन्त्र्यं तदेव
भगवतो ज्ञानशक्तिविषयं स्वातन्त्र्यं सम्पद्यत इति यत्
स्वातन्त्र्यमेव तात्कालिकेत्यादि श्लोकैकादशकेन निरूप्यते । तत्राह्निक
प्रथमेनश्लोकेन नीलपीताद्याभासः कदाचिदादित्यादिप्रकाशकाले
आभासान्तरापेक्षीति तात्कालिकाक्षसामक्ष्यापेक्षितः प्रकाशकाले,
अन्यथेति । तात्कालिकाक्षसामक्ष्यानपेक्षीत्युक्त्वा सनीलपीतादि भावा
भासः एकः तात्कालिकाक्ष सामक्ष्यासा मक्ष्ययोरप्येक स्वरूपकः
अन्यूनाधिक इति द्वितीयेनोच्यते । अर्थ क्रिया भासो बहिष्करण
विषयनीलादिजनितान्तः करणविषयः सुखादिरपि तथैवेति नीलादिर्यथा
तात्कालिकाक्षसामक्ष्यापेक्षी अनपेक्षी, तथा तात्कालिकान्तः
करणसामक्ष्यापेक्ष्येव भवतीति श्लोकद्वयेन । एकस्मिन्निति ।
बाह्यान्तरत्वयोर्मध्ये नीलपीतादेर्बाह्यत्वरूपा भासे । सेति ।
उक्तरूपा अर्थक्रिया नत्वहमिति । प्रमात्रैक्येरूपे अन्तराभास इति
श्लोकद्वयेन नीलपीताद्याभासान्तरविचित्र चिन्मयत्वात् सदैव
बहिराभासेऽपिभित्ति स्थानीयमान्तरत्वमिति श्लोकेन नीलादेश्च
प्रमातुर्बाह्यत्वं स्वस्वरूपेणान्तः करणबहिष्करणात्मना
विभागे निरूप्यते श्लोकयुगलेन ।
ज्ञानस्मरणापोहनशक्त्याश्रयस्यैकप्रमातुरूपसंहारः । (२७४)

ततः श्लोकान्तरेण ज्ञानक्रियारूपं
महेश्वरत्वमुपसंहरतास्मिन्नेव ज्ञानाधिकारे भावितः
क्रियाधिकारस्याप्युपक्षेपः कृत इति सङ्क्षेपार्थ आह्निकस्य ।

अथ श्लोकार्थोनिरूप्यते - नन्विति । तत्रादि
श्लोकद्वयमवतारयितुं शङ्कारूपामवतरणिकां प्रदर्शयति -
नन्वित्यादिना । एवमत्यर्थभिन्नार्थावभास खचिते विभौ समलोविमल
इत्युक्तनीत्योक्तरूपः सर्वो व्यवहारः परमेश्वरनिष्ठश्चेत्पश्यामि
सङ्कल्पयामि उत्प्रेक्षे स्मरामि करोमि वच्मी त्यादौ स्फुटत्वा स्फुटत्व
प्रायलोक प्रसिद्ध वैचित्र्यानुपपत्तिः । येनायं व्यवहारः

प्। २१३) अनुप्राणितः । स एक एव एक रूप एव परमेश्वर व्यतिरेकेण
व्यवहारस्य स्वत एवकिमप्युत्पत्तिरूपं तत्त्वमुत्पश्यामः ।
तस्मात्तन्निष्ठस्य व्यवहारस्यापि तद्वदेकरूपत्वमेवचोचितं न तु
वैचित्र्यमित्याशङ्क्य तद्वैभित्र्यापादनमेव परमेश्वरस्य
स्वातन्त्र्यमित्याह - आभासाः नीलपीतादयः क्वचिदादित्यालोककाले
केवलं प्रमातुस्तात्कालिकाक्ष सामक्ष्य सापेक्षाः । अन्यत्र -
आदित्यालोकाप्रकाशकाले अन्धान्ध तमसादिषु । अन्यथेति ।
तात्कालिकाक्ष सामक्ष्य सापेक्षा न भवन्ति, नीलपीतादिर्भविष्यति
वर्तते । अतीत इति । भविष्यद्भवद्भूतार्थगामिषु । क्वचिदिति । केषुचिदपि
विकल्पेषु नीलपीताद्यर्थावभासस्य सत्तायां स्वरूपे पुनर्विशेषो
नास्ति । सर्वेष्वपि विकल्पेषु नीलं नीलमेव भवति । तस्यस्वरूपे
न्यूनाधिक्यं च न भवति । एतावतेति । वक्ष्यमाणप्रकारेण
केवलमनुभवाद्याभासानामेव (२७५) स्फुटत्वा स्फुटत्वादिभेदः ।
न पुनः स्तदनुभवाद्याभासविषयभूतस्यार्थावभासस्य
स्वात्मनि क्वचिदपि विकल्पे भेदः । अन्यथा त्वं न भवतीति
श्लोकद्वयस्य संइलितस्य सम्बन्धः सनीलपीताद्याभासः
यस्मिन्नादित्याद्यालोकसहिते काले आभाति तस्मिन्नेव काल एव भवति ।
प्रमातुर्यदक्ष सामक्ष्यं बाह्येन्द्रिय प्रत्यक्षत्व —————-
ज्ञं पश्यामीत्येवं भूतमाभासान्तर तत्सापेक्षाः तदक्ष
सामक्ष्यापेक्षाः तद्व्यामिश्राः क्वचिन्नीलपीताद्याभासा भवन्ति ।
यत्र विकल्पे इदं नीलमिदं पीतामिति स्फुटता व्यवहारः जात्यन्धस्य
दृष्टिवतोऽन्धी भूतस्यान्धकार स्थित —————- तामयो यः
पुनस्तदन्यो व्यवहारः । तत्र व्यवहारे आभासाः अन्यथा
तात्कालिकाक्षसामक्षयापेक्षा न भवन्ति । तदेव प्रतिपादयति - तथा
हीत्यादिना । जात्यन्धस्य बाह्येन्द्रिय प्रत्यक्षत्व लक्षण
माभासान्तरं नैवास्ति । दृष्टवतस्त्वन्धीभूत —————- कं
बाह्येन्द्रिय प्रत्यक्षत्वं नास्ति । उभावपि प्राक्तनमेव
बाह्येन्द्रियप्रत्यक्षत्वमनुसन्दधाते । तस्मादिति । न
पुनरर्थावभासस्य केषुचिदिति पश्यामीत्यादि विकल्पेषु सत्तायां

प्। २१४) नीलपीताद्यात्मनि स्वस्वरूपे ऊनताधिक्य रूपोविशेषो भवेत् —-
———— पिन कर्तव्या ते अर्थग्राहका अनुभवादिविकल्पा
भविष्यद्वस्तुगामिनो वावर्तमाननिष्ठावा अतीतवस्तु
विश्रान्तावाभवन्तु । विशेषोऽर्थोऽवभासस्य सत्तायां न पुनः
क्वचित् इत्युक्तमेवनिगमयति - एतदुक्तं भवतीत्यादिना नीलमिदं
पश्यामि सङ्कल्पयामि उत्प्रेक्षे स्मरामि करोमि वच्मीत्यादिषु
विकल्पेष्वसौनीलाभासः स्वरूपतः (२७६) अन्यूनाधिकः पीतादिभिरपि
पश्यामीत्यादिषु विकल्पेषु एतत्स्वरूपतो ज्ञानाधिकः ते
पश्यामीत्याभासाः भगवता स्वातन्त्र्येण तेषु नीलाद्याभासेषु
यदासंयोज्यन्ते वियोज्यन्ते च तदानीं नीलादेः स्फुटत्वादि व्यवहारः

तमेव प्रतिपादयति - नीलमित्यादिना । नीलमित्याभासं
प्रत्युत्प्रेक्षे इत्याभासान्तर व्यवच्छेदेन पश्यमीत्याभास
व्यामिश्रणायां स्फुटताव्यवहारः नीलं द्रक्ष्यामि
नीलमपश्यमिति भव्यतीतरूपकालद्वय भाव्य
स्फुटास्फुटरूपव्यवहार वैचित्र्योपपत्तिः पूर्णाहन्तात्मक
परमेश्वरस्वान्तर्भूतत्वे नीलाद्याभासानामपि पूर्णाहन्ता
रूपत्वान्न कुतश्चिद्विकल्पतः व्यवच्चेदः । नकेनचिद्विकल्पेन
व्यभिश्रणा तेषां पूर्णत्वेन विकल्प ज्ञानागोचरत्वात् ।

एतत्स्फुटा स्फुटतादिरूपं वैचित्र्यं नीलादिषूपपद्यताम् ।
यत्र नीलादौ चक्षुरादिबाह्येन्द्रिय व्यापारोऽस्ति । सुखादौ बाह्येन्द्रिय
व्यापाराभावात् कथं वैचित्र्यमित्याशङ्क्य तत्रापि
वैचित्र्यमस्तीत्याह - अन्तः करण विषयेषु सुखदुःखमोहेषु
तत्सुखादिहेतुभूतेषु स्रक्चन्दनादिष्वापि वस्तुषु सद्भावेऽपि सुखदेः
स्वरूपत् विनाशेऽपि अतीत्वत्वानागत्वाच्च अस्थितिः । अनुभवकाले अहं
सुखमनुभवामीति यथा स्थितिर्जाता तथा स्थितिर्नभवति । सौख्यमिति
स्वार्थेष्यम् । सुखमेव सौख्यम् । विकल्पेन न नैसर्गिक एवास्तीति
श्लोकोक्तेन प्रत्यक्षमुखाप्रेक्षिणा स्वतन्त्रविकल्पेन सुखादिके
गाढं पौनः पुन्येनान्तरुल्लिख्यमाने सति तथानुभवामीति स्थितः ।
तथैवेति । यथाभिमत
संस्थानभासनादित्युक्तप्रकारेणानुभवामीति स्थितिर्भवति ।

प्। २१५) अस्य सुखादेः स्फुटमुपलक्षणादन्तःकरण समीपे दर्शनात्
प्रेक्षणात् सुखे तत्कारणे स्रक् चन्दनादिकेदुःखे अहिकण्टकादौ च
तद्धेता वतीते वा अनागते वा यद्यपिसुखदुःखाद्याभासः
तत्कारणाभासश्च स एवेति अतीतत्वादनागतत्वरूपाभासयोगेऽपि तस्य
स्वरूप हानिर्नभवति । तथापीति । स्वरूहान्यभावेऽपि
अतीतमिदमनागतमिदमित्येवं
भूतातीतत्वानागतत्वरूपाभासान्तरेण तस्य यतो व्यामिश्रणा
अनुभवामीत्याभासाच्च व्यवच्छेदो भवति यतः तेनेति ।
अतीतानागताभास योगेन तेषु सुखादिषु विद्यमानेषु तस्य
सुखाद्यनुभव वितृरूपस्य प्रमातुस्तत्सुखाद्यनुभवकाले
अहमधुना सुखी दुःखीति सम्यगर्जित तत्सुखादिहेतुभूत स्रक्
चन्दनादिमानीति यथापूर्वं यथा स्थितिरभूत् । इदानीं तेन
प्रकारेण स्थितिर्न भवति । तस्मात् सुखादिष्वपि स्फुटा
स्फुटतादिरूपं वैचित्र्यमस्त्येव ।

अयं प्रमाता स्वतन्त्रविकल्पेषु तानि सुखदुःखतद्धेतु
रूपाणिवस्तुनि अन्तः गाढमतिशयेनोल्लिखति तत्दा पौनः पुन्य
विशिष्टेति पुनः पुनः समधिकामयमाने सुखतद्धेत्वोरुत्पत्तिभूमौ
उल्लेखाख्ये कारणाभासेऽनुप्रवेशाद्वर्तमाना
भासान्तरविमिश्रणात्मना तथैवेति - तेनैव यथाभिमतं
संस्थानाभासनादित्यस्मदुक्तेन सुख्यहमित्यादिक्न प्रकारेण
स्थितिर्भवति न पुनरन्येनेति प्रमातृ विश्रान्तिशून्येन केवलं
विकल्पमात्रे तथा स्थितिर्नभवति । उल्लिख्यमानं सुखादिं
प्रतिप्रमातुः सुख्यहमित्यादिरूपेणावस्थानमुचितमेव । असौ
प्रमातातदानीं गाढोल्लेखावसरे सुखाभासे अनुभवामीति
स्फुरत्वा वभासमिश्रमुपैति अन्तः करणे (२७८) लक्षयति प्रत्यक्षी
करोति । अतीत ग्रहणं भाविनोऽप्युपलक्षणम् । गाढमुल्लिख्यमाने
त्वित्युक्तेनैतावतार्थेन किमुक्तं भवति । इयदेवोक्तं
प्राणेन्द्रियविषयाः स्रागादयः सुखादिहेतवः । तद्वाह्यरूपाः
स्रगादि जनिताः सुखादयः प्रमातुः
सुख्यहमित्याद्यभिमानभेदहेतव इति तत्र ———–विकल्पे बाह्य
स्रगादेर्बाह्यत्वा भावे तत एव

प्। २१६) सुखादेस्तज्जित्वाभावे च, तथेति सुख्यहमित्याद्युक्तं न स्यात् ।
तत्र स्वतन्त्र विकल्पे एतदेव स्रगादयः सुखादयश्च न सन्त्येव ।
ततश्चेति । तत्र स्रगादिवस्त्वभावात् भूतवद्भाविकल्पेषु
अर्थावभासस्य विशेषो नास्तीत्युक्तं तत् कथं तत्र विकल्पे
अर्थावभासस्य सत्ता ————– भावादित्याशङ्क्यात्रापि
आभासानामन्तः स्थितत्वमेवस्फुटयति ।

नीलमस्ति सुखमस्तिममेति बहिरन्तः करणविषयाणां भावा
भासानां पीतमपि नास्ति दुःखमपि नास्ति इत्यभावा भासनं च,
बाह्यता बाह्यत्वं उपाधिः उपरञ्जकत्वेन विशेषणमात्रत्वे ———-
—- ते । घटो बाह्य————– वत् सा बाह्यता आत्मा तेषां स्वरूपं
न भवति । ततः बाह्यतायाः स्वरूपवत्वाभावादन्तः
स्थितवतामेवेत्युक्तनीत्या तेषामान्तरणामेव सतां सदा सत्ता
स्वरूपम् । ओज सिल्ज,अस्तो। दिःखं नास्ति मित्रमस्ति शत्रुर्नास्तीत्यादयो ये
भाभावासाः अभावाभासाश्च तेषामाभासनानां बाह्यत्वं
नाम आत्मस्वरूपं न भवति । सुखमित्यस्यान्तः करणवेद्य
स्वभावस्य स्वरूपं बाह्यमित्यनेन वपुषा न भाति सुखस्य
सुखमेव स्वरूपं केवलम्, बाह्यत्वं नाम सुखवदाभासान्तरम् ।
ईश्वरेण स्वातन्त्र्य बलात् सुखाभासे बाह्यत्वं विमिश्रतया भास्यते
। घटो बाह्य इत्यत्र बाह्यत्वं (२७९)घटस्य न स्वरूपम् । प्रमात्रा
तस्मिन्विशेषणत्वे नारोप्यते करः कटकवानित्यादि वद्विमिश्रतया
वभास्यमानं तद्वाह्यत्वं तदा तद्वाह्यत्वं तस्य
सुखाभासस्योपाधिरूपतामुपरञ्जकतां विशेषणत्वं गच्छति ।
दण्डीदेवदत्त इति वत् । ततश्चेति । विशेषणत्वगमनात्
नीलोत्पलमित्यत्रनीलाभासाभावे स्वरूपतः नकिञ्चिद्वृत्तम् । राज्ञः
पुरुष इत्यत्र राजाभासा भावे पुरुषा भासस्य तथा सुखाभासस्य
बाह्यत्वाभावेऽपि दुःखाभासाभावः रूपस्य सुखात्मकस्य
कान्ताभासस्य स्वरूपतो न काचनम्लानता इत्यान्तराणामेव
भावानां सदैव स्थितिः । स्वामिनश्चात्मसंस्थस्येत्यादिना
एतदान्तरत्वं पूर्वमेवोक्तम् ।

बुद्धिदर्पणात्मन्यन्तःकरणे प्रतिभासमानानां
नीलादीनां चक्षुरादिविषयसम्बन्धि

प्। २१७) बाह्यत्वापेक्षया आन्तरत्वमप्यस्ति । अन्तःकरणमध्ये
भवत्वात् । अत स्तदन्तः करण मध्य एव प्रमातुरिदमिति
विच्छेदेनावभासाद्बाह्यत्वमप्यस्ति, इत्युभयविधं बाह्यत्वं
नीलादीनां सुखादेरेकमेव बाह्यत्वम् । अत्र चान्तःकरण
बहिष्करणविषयता रूपेऽवस्थाद्वयेऽर्थ क्रियायाममीनिलादयः
कुर्वन्त्येव बहिः कटकाभरणादिरूपेणान्तः सुखादिरूपेण नील
ज्ञानं नीलविषयं सुखज्ञानं सुखविषयमिति
नीलसुखज्ञानयोस्तत्तत्करणमेवार्थक्रिया ।

यत्पुनः पूर्णाहन्तात्मक प्रमातृ तादात्म्य
लक्षणमान्तरत्वं तत्रान्तरत्वे अमीनीलादयः काञ्चिदर्थक्रियां
विदधीरन्नित्याशङ्क्यार्थक्रियापि पूर्वोक्त बाह्यत्व
वन्निलादेर्नस्वरूपमित्याह - (२८०) पूर्णाहन्तात्मक प्रमात्रैक्य
निमित्तमान्तरत्वं यत् तस्मात् पूर्ण प्रमातृमयात् आन्तरत्वाद्धेतोः ।
एषां भावानां अर्थ क्रिया न काचिद्भवति । सार्थक्रियाभेद
निबन्धना । अतो भेदनिबन्धनात् । भेदः घटस्य पटादेः प्रमातुश्च
व्यतिरिक्तत्वं तन्निबन्धनः । एवं भूतो भेदो घटस्यान्तरत्वेऽपि
नास्ति तत् सम्बन्धिन्यर्थक्रिया न भवति । इयं मम कान्तेत्यादिरूपं
बाह्यत्वेऽपि तत्कान्ता सम्बन्धिन्याह्लादरूपार्थक्रियाभास भेदतः
इति तस्या आलिङ्गनक्षमस्याभासान्तरस्य व्यपगमे दूरी
भवतीयमित्याभासान्तरस्योपगमे भिन्ना अन्याकारा अनाह्लाद
कारिणी इत्यर्थ क्रिया भावानां प्रतिनियता नभवतीत्यर्थ क्रियापि
भावानां नस्वरूपम् । स्वरूपं चेत् तदर्थक्रिया भावे
भावानामप्यभावता स्यात् । प्रमात्रैक्य इति । भावानां
पूर्णाहन्तात्मक प्रमात्रैक्य निमित्तमान्तरत्वं भावानां तत्
पूर्णाहन्तैकरसत्वं यत् तस्मात् तादृशादान्तरत्वाद्धेतोः एषां
बहिः कटकाभरणादिरूपा अन्तर्हर्षादिरूपा अर्थक्रिया न काचिदस्ति ।
साह्यर्थक्रिया भेदनिबन्धना भेदे सति भवतीत्यर्थः ।

भेदस्वरूपमुपपादयति - कटकाद्यर्थ क्रिया हेतुः
सनीलाभासः पीता भासाद्भिद्यते । ततश्चेति । तत एव भेदात्
स्वसाध्यां कटकाभरणादिकां अर्थ क्रियां तन्नीलाभासं
विषयी कुर्वतः प्रमातुः कुर्यात् । एष भेदस्तदा

प्। २१८) आन्तरत्वावस्थायां नास्ति । तत्र हेतुः तस्य नीलाभासस्य
प्रमात्रैक्यात् सा अर्थक्रिया कान्तादेः सम्बन्धिनी । अत एवा
ह्लादकारित्वेनाभिमता, तस्यां दूरीभूताया मालिङ्गनाद्याभास
व्यपगमे भिन्ना अन्या प्राक्तनाह्लाद विपरीता दृश्यते । प्रमात्रैक्य
(२८१) कृत ता आन्तरत्वे एवं भूत भावानाम् एवं भूत
आभासभेदो नास्तीति यतः तस्मान्नार्थक्रियाभासोऽपि
नीलादिवदाभासान्तरमेवेति अर्थक्रिया कारित्वमपि न भावानां
स्वरूपं भवति । स्वरूपं चेत् तदर्थ क्रियाभावे भावानां
स्वरूपत एवाभावः स्यात् । तस्माद्भावानामर्थक्रियापि स्वरूपं
भवतीत्यर्थः ॥

नन्विति - नीलादी नामिदं नीलमिदं पीतमिति बाह्यत्वाभास
व्यामिश्रणकाले प्रमातृ ————– बाह्यत्वविरोधित्वात् विच्छिन्न
इत्यान्तराणां तदस ————– यदुक्तम् । तत्कथमिति चोद्यं
बाह्यत्वाभासोऽप्यान्तराभासोऽस्तीति परिहरति अन्यथा तेषामिदन्त
यपि प्रकाशात्मा भावादित्याह - चिन्मय इति । अवभासानां
चिन्मयत्व इति च ————– प्रमातृ प्रकाश एव स्थितिः असावन्तरी स्थितिः
। बाह्यत्वादिति भावानां प्रमातु रन्योन्यतश्च
विच्छेदनाभासस्वातन्त्र्यरूपया वभासितं बाह्यत्वमवलम्ब्य
बदमिति भासमानानामप्यस्त्येव । तस्मादयं प्रकाशात्मा
मन्तराभासो बाह्यत्वात्तस्यापि भि————– न्तराणां सदैव
सत्तेत्युक्तं युक्तमेव ।

इहाव भासानां नीलपीतादीनां सदैवेति बाह्यताभास
तदभावयोरप्यन्तरेवेति प्रमातृप्रकाश एव स्थितिः चिन्मयत्व इति । यत
एते चिन्मयामन्यथा नैव प्रकाशेरन् इत्युक्तम् । यतः प्रकाशात्मा
प्रकाशोऽर्थ इत्यत्रभेदोल्लासहेतु स्वातन्त्र्य शक्ति मायेत्युक्ता नित्या
भावानां प्रमातुरन्योन्यतश्च विच्छेदावभासन
स्वातन्त्र्यरूपया मायाशक्त्या यदा माया प्रमात्रपेक्स्ऽया
बाह्यत्वमाभासन स्वतन्त्र्यरूपया मायाशक्त्या यदा माया
प्रमात्रपेक्षया बाह्यत्वमाभास्यते तदा तस्मिन्काले
तद्बाह्यत्वमवलम्ब्य मासमानानां सम्बन्धिनी असौ (२८२) स्थितिः
बहिरपि बहिर्भूतापि । अन्तरपीति । तदानीमप्यान्तरीत्यर्थः । अयमिति
प्रमातृ प्रकाशरूपान्तराभासो बाह्यत्वस्याविरोधीन भवति ।
प्रत्युत सर्वाभासस्येति नीलादेश्च तन्निष्ठस्य बाह्यत्वस्य
देशकालादेश्च विशेषणस्य भित्ति भूतोऽसौ ।

प्। २१९) तदिति । तस्माद्भित्ति भूतत्वात् । बाह्यत्वाभासं
प्रत्यान्तराभासस्य कथं विरोध इति युक्तमुक्तं सदैवान्तराणां
सत्तेति ।

नन्विति । नीलादीनामिति बाह्यत्वे सत्यर्थक्रिया । तच्च बाह्यत्वं च
क्षुरादि बाह्येन्द्रियगम्यत्वं तद्बाह्येन्द्रियगम्यत्वं
विकल्पोल्लिखितानामन्तःकरणविषयाणां पदार्थानां न सम्भवति
। तस्माद्बाह्येन्द्रियगम्यत्वा भावात् अभीषां अर्थक्रिया कथं स्यात् ।
विकल्पोल्लिखितः पिशाचादित्रासाद्यर्थक्रिया दृश्यते
इत्याशङ्क्यान्तःकरणे विकल्पोल्लिखितानामपि प्रमातुरेवमिति
पृथक्कॢप्तेना वभासाद्बाह्यत्वमप्यस्त्येव अत
एवार्थक्रियाप्यस्तीत्याह - विकल्प इति ।

प्रमातुर्विमर्शः विशेषरूप विकल्पज्ञानेयोऽयमुल्लेख
उल्लिख्यमानःकान्ताचोरादिरर्थः सोऽपि बाह्यः पृथक् पृथगिति ।
तत्राप्यन्तः करणे अयमिति प्रमातुः पृथक् प्रथनात् । अयमिति
प्रमातुःपृथक् प्रथनात् । आन्तर्यं नामपूर्णाहन्तात्मा
प्रमात्रैकात्म्यं । तत इति । तस्मात् प्रमात्रैकात्म्याद्यो भेदः
प्र्थग्भावः स एव बाह्यता ।

वमर्शेति । प्रमातुरन्तःकरणजन्यविमर्शविशेषरूपे
विकल्पज्ञाने योऽयमुल्लेख इति यथेष्टमुल्लिख्यमानः योयं कान्ता
चोरादिरर्थः सोऽप्युल्लेखः बाह्यः न केवलं बहिरालोक्यमानः
पदार्थ एव बाह्यः पृथक् पृथगिति यस्मात्सोऽप्युल्लिख्यमानः
पदार्थः अयमिति प्रमातुः (२८३) सकाशात् पृथगेव प्रथते यस्मात्
प्रमातरि भावानामहमित्येव विश्रान्तत्वं यत्तदेवान्तरत्वम् ।
अन्तरिति यत्तन्निकटत्वं किञ्चिदपेक्ष्य सर्वत्र नीलसुखादि
विषयापेक्षणीयां तराभावे प्रमातरि निकटं तत्तादात्म्यं
प्राप्तमिति तत्प्रमातृतादात्म्याद्भिन्नं पृथग्भूतं यत्
तद्बाह्यमेवेति उल्लेखस्य उल्लिख्यमानस्य पदार्थस्य सम्बन्धिनी अर्थ
क्रियायुक्तैव । नन्विति । अन्तः करणवर्तिनो घटादेः
कुम्भकरादिव्यापारेण बाह्यत्वमस्तु ।
अन्तःकरणविषयस्योल्लिख्यमानस्य पदार्थस्य तत्रान्तःकरणे
प्रमातुर्बाह्यत्वं कृतम् । केन प्रमात्रा कृतमित्याशङ्क्य
बहिष्करणविषयोघटादिरन्तःकरणविषयः उल्लिख्यमानः पदार्थः
सुखादिश्च परमेश्वरेच्छैव तत्र तत्र बहिष्क्रियते । नतु कुम्भकारादि
व्यापारेणाह - उल्लेखस्येति

प्। २२०) अन्तःकरणमध्ये स्वतन्त्रविकल्पे नोल्लिख्यमानस्य नीलादेर्बाह्य
स्रक्चन्दनादि जन्यस्य सुखादेश्च बहिरात्मनेति । इदं नीलमिदं
पीतमिदं दुःखमिदं सुखम् । इति माया प्रमातु
स्तत्रान्तःकरणमध्ये पृथक्त्वेनयः सबहीरूपः प्रकाशः । भर्तुरिति
। शिवादिक्षित्यन्तं विश्वमन्तः संविन्मये स्वरूपे धारयतः तत एव
बहिस्तस्य सृष्टिं पुष्णतश्चेश्वरस्यैवेच्छातः इच्छया यथा अक्ष्यादि
भुवामिति चक्षुरादीन्द्रिय गोचराणां नीलादीनामध्यक्षरूप इति
बहिरियमिति प्रत्यक्षरूप प्रकाशोभर्तुरिच्छातः तद्वदित्यर्थः ।

नायं बहिः प्रकाशः मायीयकुम्भकारादि प्रमातृ व्या——-
——- घटादिवत् (२८४) कुम्भकारादेरपि परमेश्वरेच्छात एव
प्रकाश्यमानत्वात् । यद्वक्ष्यति -

तथा हि मुम्भकारोऽसावैश्वर्यैव व्यवस्थया ।  
तत्तन्मृदादि संस्कारक्रमेण जनयेद्घटम् ॥ इति ।  

अन्तरिति । माया प्रमातृसञ्च्छन्न इति ————– प्रतिबिम्बितस्य
प्रतिबिम्बत्वेन स्थापि तस्य नीलादेरिदं नीलमिदं पीतमिति तत्रैव
बहिरात्मना प्रकाशोयः सभर्तुरिति अन्तराभासान् शिवादिपृथिव्यन्तान्
बिभ्रतः बहिः सृष्टिरूपेणतां पुष्णतश्चेश्वरस्य
परमशिवस्यैवेच्छायोक्तमेवार्थं दृष्टान्तप्रदर्शनेनद्रयति -
यथैव चक्षुरादि प्रियविषयभूतानां रूपादीनां
प्रत्यक्षज्ञानानीति शब्देन वाच्या इदं नीलमिदं पीतमिति
बाह्यत्मतया प्रकाशः परमेश्वरेच्छात एव भवति । माया
प्रमातुबहिरयं घटः अयं शब्दः अयं स्पर्श इत्यादि प्रकाशः
यथा परमेश्वरेच्छया भवति तद्वदन्तःकरणगोचरस्यापि बहिः
प्रका————– ————– ————– ————– ————– ————– –
———— ————– पिण्डितार्थमाह - तदवबासित इति । परमेश्वरेच्छा
वभासित अहं
स्रष्टास्मीत्यहङ्काराद्यन्तःकरणकायस्पन्दनपर्यन्तः
कुम्भकारादिव्यपारः परमार्थत ईश्वरेच्छैव सोव्यापारः । अन्य इति
। ईश्वरेच्छा व्यतिरिक्तो न ग ————– न्तिकञ्च पुनरपि हृदयं
गमीकरणायति । ततश्चेति । ततश्च यथेश्वरेच्छातः प्रकाशमानत्वेन
परमार्थतः

प्। २२१) पूर्णाहन्तात्मकात् प्रकाशात् अबहिर्भूता अपि नीलाद्या माया
प्रमातुर्बाह्यकरणगोचरीभूता विच्छिन्नत्वरूपेण बाह्यत्वेन भान्ति
। तस्य प्रमातुरन्तः करणगोचरीभूता अपि पदार्था इश्वरेच्छयैव
तत्रेवान्तःकरण बाह्यत्वेन भान्तीत्यन्तःकरणविषयाणां
बहिष्करणविषयाणां च भावानां परमेश्वरेच्छयैव
बाह्यत्वाभासको विशेषः न कोऽपीत्यर्थः । न पुनरपि
सर्वलोकसम्मतमन्तःकरणविषयाणां सुखादीनां बाह्यत्वमेव
प्रतिपादयति - सुखदुःखेति । भरताः नास्यशास्त्रोक्ताः सुख
प्रायाख्यादयः दुःखप्रकारा एव निर्वेदादयः
बहिरात्मनाभासन्ते । अतः अस्मिंश्चिदानन्देसति दुःखं
विकसतिनयनञ्च हर्षाश्रुतरलितं भवति । तेन मुखविकासादिनान्तः
स्थितस्य रतिरूपस्य सुखस्य स्वरूपं लक्षणीयम् । तद्वदन्तः स्थितो
निर्वेदश्च शुष्यतामुखेन दुःखा श्रुकलुषिते न चक्षुषोत्प्रेक्षणीयः
। यथोक्तम् -

अस्तं करण सौन्दर्यमानन प्रतिबिम्बितम् ।  
दर्शयत्यादिमुख्येन देशिक प्रणयी जनः ॥ इति ।  

सङ्कल्पेष्विति । तत्तत्कान्तादन्तावलाद्युल्लेखहेतुषु सङ्कल्पेषु
क्षेत्रज्ञस्यैव माया प्रमातुरेव स्वातन्त्र्यं यद्यपि, तथापि
परमार्थतः विश्वकर्तृहेतु भूताचित्परमार्थता
यान्यग्भावयितुमशक्यत्वाक्षेत्रज्ञ सम्बन्ध्यपि तत् स्वातन्त्र्यं
वस्तुत ईश्वरस्यैव । यथोक्तं ग्रन्थ कृतैव -

यद्यप्यर्थ स्ह्तितिः प्राण पुर्यष्टक नियान्त्रिते ।  
जीवे निरुद्धा तत्रापि परमात्मनि सास्थिता ॥  

तदामनैव तस्यस्यात् कथं प्राणनियन्त्रणा ॥ इति ।  

अर्थानां नीलसुखादीनां स्थिति देहप्राणपुर्यष्टकनियन्त्रिते
पुर्यष्टकं बुद्धिः जीवे मायीये प्रमातरि माया प्रमातॄणां
निरुद्धेव प्रतिभासमाना यद्यपि तत्रापि (२८६) इति - जीवे पीतं
जीवमतिक्रम्य संविन्मये पूर्णाहन्तात्मस्वरूपे परमात्मनि सा
स्थिता विश्रान्ता । तदात्मने तत्परमार्थ स्वरूपेण प्राणेन
भेदशरीरेण पुर्यष्टकेन च तस्य परमात्मनः कथं
नियन्त्रणानिरोध इति । यथोक्तम् -

देहादिनापि चैतन्य मावरीतुं न शक्यते ।  
स्वभित्तिभूतं चैतन्यं स्व प्रथं चावृणोति चेत् ॥  

प्। २२२) तर्हितस्यास्य देहादेः का स्थितिः का प्रकाशते ॥ इति ।

यत्र मनोराज्ये त्वनिच्छत एव ज्ञेत्रज्ञस्य स्वरसेन स्वेच्छया
वहत्कालक्षेपसारादिसाङ्कल्पिकी तस्मिन्मनो राज्ये ईश्वरस्यैव
व्यापारः स्फुटः अनिच्छत एव प्रवृत्तत्वात् । तस्मात्साङ्कल्पिकानां
स्वभित्तिः सङ्कल्पनिर्मितानां पदार्थानामन्तःकरण मध्य
भाविनि बहिर्भावे परमेश्वरेच्छैव हेतुरिति राद्धान्तः ।

अधुना तु पूर्वोक्तमनुभवस्मरणापोहनानामेकाश्रयात्म
प्रमात्रैक्यमेतदाक्ति कोक्त माहेश्वर्यञ्च निगमयति । निगमनं
नाम प्रतिज्ञातार्थस्थापनम् । तदिति । तस्मात् पूर्वानुभूतार्त्यादि
पूर्वोक्तग्रन्थप्रमेयाद्धेतोः ते नैक्यं भिन्नकालानामित्युक्तनीत्या
अनुभवाद्यानां संविदां वेदकरूपेणैक्येन विनालोकपद्धतिः
हानादानादिर्लोकव्यवहारो न भवति । सदृश्यत एव । अत एव
तदैक्यमेवं न दुर्घटं भवति । कस्मात् देशकालादिरहितस्य
तासां मूल भूतस्य प्रकाशस्य ऐक्यादेकत्वात् । तदैक्यं तदेकत्वं
तासां संविदामैक्यं स एकप्रकाश एव । एता इति । इदानीमुपपत्तितः
स्थितं प्रकाशात्मा स एक प्रमातैव विमृशत्वेनानवच्छिन्न
विमृमर्शमयत्वेन नियतेना व्यभिचारिणा सहजेन महेश्वरः
विमर्श एव भेदस्य सृष्ट्यादि क्रीडाशीलस्य महेश्वरस्य शुद्धे
मायाकालुष्य रहिते शिवादिक्षित्यन्त तत्वग्रामव्याप्ते ज्ञानक्रिये यतः
ततस्तादृश विमर्शवत्त्वेन स प्रामाता महेश्वरः ज्ञानक्रियावत्व
मेवेश्वरत्वम् । तस्मात् माया प्रमातापि ज्ञानक्रियावत्वादीश्वर एव ।
यथोक्तम् -

जानता कुर्वता भाव्यं जीवता परमेशिना ।  
दृक्क्रिया सदसद्भावौ हेतू ह्यैश्वर्य जाड्ययोः ॥  

यो यो ज्ञानक्रियाविष्टः स सर्वो ----- मेहेश्वरः ।  
यद्यद्भाति स्वयं तत्तदित्यनुत्तर दर्शनम् ॥  

यो नाम जानाति करोति चास्मिन् देवो नरो वा भुवनेस ईशः ।

उद्घोषितं यद् गुरुभिः पुराणै —————- लक्षणमीशितायाः ।
ईत्यादि स्वभावमवभासस्येत्युक्तनीत्या प्रकाशप्राणभूतो विमर्श
एव शिवरूपपरावस्थायां पूर्णाहन्ता रूपे शुद्धे ज्ञानक्रिये स
एव विमर्शः श्रीसदा शिवेश्वररूपपरापरावस्थायाम्

प्। २२३) अहमिदमिदमह ————————— हन्ताविमर्श स्वभावे
शुद्धा शुद्धे अपरावस्था रूपं मायापदे स एव विमर्शः । इदमिति
प्रथमान विषय सम्बन्धित्वादिदं भाव प्राधान्येन वर्तमाने
अशुद्धे ज्ञानक्रिये इति विशेषः । तदिति । इतः पूर्वमुक्तेन ग्रन्थेन
यत्प्रमेय मुपपादितं तदिति । तस्माद्धेतोः संविदामनुभवादि
ज्ञानानामेक्येनैकप्रमातृ विश्रान्त्या विनायं घटः अयं पट
एव नपटः सघटः सोऽयं घट इत्यादि लोकव्यवहारो न सम्भवेत् ।
अयं व्यवहारो लोके प्रत्यक्षतः सम्भवत्येव । तस्माल्लोक व्यवहार
सम्भवात् तासां (२८८) संविदानैक्यमस्त्येव । एतदैक्यं दुर्घटं
च भवति । तत्र हेतुः घट पटादि प्रकाश एव हि संविदुच्यते ।
विषयपरामर्शकः स संविदात्म प्रकाशः केवलं बहीरूप विषयो
परागमहिम्ना आया तेन बहिर्मुखत्वेन नीलप्रकाशश्चान्यः पीत
प्रकाशश्चान्य इति तस्या अन्योन्यरूपं नानात्वं प्रतिभाति ।
परमार्थतः संविदात्मनः प्रकाशस्य
व्याप्तनित्यपरिपूर्णस्वभावतया देशकालाकारसङ्कोच
वैकल्पादेकत्वमिति अन्तः पूर्णाहन्तायां विश्रान्तम् । प्रकाशः स
पक एव प्रकाशः प्रमातोच्यत इति ।

इदानीं तत्तद्विभिन्नेत्यादि श्लोकोक्तोपपत्तितः स्थितं निश्चितम् ।   

अस्य प्रमातुः प्रकाशलक्षणमहं रूपं स्वात्मा तल्लग्नः
नीलाद्युपरागं च जडात्मनः स्फटिकमणेरात्मैव
परामर्शशून्य एवास्ते । अपित्वाहमनुभवामि अहं विकल्पयामि अहं
स्मरामि अहमनुसन्दधामीति तत्तदनुभवादिशक्त्याश्रयभूतं
स्वस्वरूपं मल्लग्ना एव विभान्त्यनुभवादि संविद्विषया
घटपटादय इति स्वात्मनि प्रतिबिम्बितान् घटपटादीनपि
विमृशन्नेवास्ते इति विमर्शरूपत्वमस्ति । तद्विमर्शरूपत्वं
नामसर्वास्मिन्काले एवं भूतानवच्छिन्नविमर्शता सैवान्तः
क्रोडीकृता शेषविश्वनिर्भरत्वात् । अत एव बहिर्भूत विषयुन्मुख्या
भावादनन्यौन्मुख्यम् । अत एव स्वव्यतिरिक्तं विषयं प्रति
नैराकाङ्क्ष्यादानन्दैक धनत्वमित्येवं भूतं
विमर्शत्वामेवास्य प्रमातुर्माहेश्वर्यम् । तन्माहेश्वर्यमेवाहं
भावात्मा विमर्शः । सविमर्श एव देवस्य सृष्ट्यादि
क्रीडापरस्याहमेवेति । शुद्धे पारमार्थिक्यौ ज्ञानक्रिये ।
ज्ञानक्रिययोः

प्। २२४) पारमार्थिकं स्वरूपमाह - ज्ञानं नामाहमिति
प्रकाशरूपता तत्रैव प्रकाशरूपतया सृष्टास्मिस्थापयितास्मि
संहर्तास्मितिरोहितास्मि अनुगृहीतास्मीत्येवं भूतस्वातन्त्र्यान्माया
विमर्शः क्रिया । तदुक्तम् -

सृष्टिसंहारकर्तारं प्रलय स्थितिकारकम् ।  
अनुग्रहपरं देवं प्रणतार्तिबिनाशनम् ॥ इति ।  

विमर्शश्च सा स्फुस्ता महासत्तेत्युक्तनीत्या अन्तः कृतः प्रकाशः
प्रकाशस्यापि विश्रान्ति भूतो विमर्श एव परावस्थायां
शिवोचितायामहमित्येवं रूपे ज्ञानक्रिये विमर्श एव सदाशिवेश्वर
भट्टारको चितायां परापरावस्थायां तु अहमिदमिदमहमिति
इदन्ता सामानाधिकरण्याहन्ताविमर्श स्वभावो विमर्श एव
मायाप्रमात्रुचिताया मपरावस्थायां तु माया पदे इदमिद
मित्याभासविषयौन्मुख्यादिदं भावप्राधान्येन वर्तमाने
ज्ञानक्रिये इति विमर्श एवः सर्वथा ज्ञानात्मना स्वाशात्मना
प्रकारेण ज्ञेयाकारात्मना प्रकारेण च विमर्श एव ज्ञानम् । तेन
विमर्शेन विना जडतास्य स्यादित्युक्तम्, प्रकाशोऽर्थो परस्क्तोऽपीत्यत्र
ज्ञानप्रमाणभूतो विमर्श एव क्रियेति । अनेन क्रिया स्वरूप
प्रदर्शनेन भाविनः क्रियाधिकारस्यास्मिन्नेवाधिकारे
सङ्गतिरूपमुपक्षेपं करोतीति शिवम् ॥

इति प्रत्यभिज्ञासूत्र विमर्शिनी व्याख्यायां मष्टममाह्निकं
समाप्तम् ॥

इति ज्ञानाधिकारः