तत्त्वसङ्ग्रहाधिकारे
प्रथममाह्निकम्
विमर्शिनी
अनन्तमानमेयादिवैचित्र्याभेदशालिनम् । आत्मानं यः प्रथयते भक्तानां तं स्तुमः शिवम् ॥
भास्करी
अनन्तमेयादिविचित्रतायामेवैकतां यो महतीं बिभर्ति ।
पूर्णातिपूर्णो भगवान् न किञ्चिद्रूपः स आश्चर्यमयः शिवोऽव्यात् ॥
अथैकाह्निकरूपस्य चतुर्थविमर्शस्य आगमार्थसङ्ग्रहाधिकाराख्यस्य निर्विघ्नसमाप्तये
एवं स्वसंवेदनोपपत्त्यागमसिद्धं महेश्वररूपमात्मस्वरूपं यदधिकारत्रयेण वितत्य निर्णीतं तदेव सङ्क्षेपेण शिष्यबुद्धिषु निवेशयितुमागमार्थसङ्ग्रहं श्लोकाष्टादशकेन दर्शयति स्वात्मैव सर्वजन्तूनाम इत्यादिना उत्पलेनोपपादिता इत्यन्तेनैकेनाह्निकेन । तत्र श्लोकेन पारमार्थिकं रूपमुक्ता श्लोकनवकेन बन्धस्वरूपं प्रमातृप्रमेयतत्त्वदर्शनदिशा, सप्तकेन प्रत्यभिज्ञात्मकं मोक्षतत्त्वम्, श्लोकेनोपसंहारं दर्शयति, - इति तात्पर्यम् ।
ग्रन्थार्थस्तु निरूप्यते ।
स्वात्मैव सर्वजन्तूनामेक एव महेश्वरः ।
विश्वरूपोऽहमिदमित्यखण्डामर्शबृंहितः ॥ १ ॥
प्रचयगमनाय च स्वान्तरनुष्ठितमपि बहिः शिष्यशिक्षार्थं परतत्त्वानु स्मरणरूपं मङ्गलं सकलाधिकारतात्पर्यसूचकश्लोकेनोपनिबध्नाति अनन्त इति ।
वयं तं शिवम् स्तुमः । तं कम् ? यः शिवः भक्तानाम्
- अतितीव्रशक्तिपाताघ्रातहृदयत्वेन समावेशरूपभजन- शालिनाम्, अनन्तमानमेयादिनां यद् वैचित्र्यम् - विचित्रता, नानात्वेन स्पूर्तिरिति यावत्, तदेवाभेदः - स्वान्तःकृतद्वैताद्वैतरूपातिपूर्णतास्वभावं महाद्वैतम्, तेन शालते इति तच्छीलम् । आत्मानम् - पूर्णप्रकाशरूपम् स्वरूपम् । प्रथयते - स्वप्रकाशत्वेन स्वयं प्रथनशीलं सत् तत्समर्थाचरणरूपप्रयोजकव्यापारेण तत्र प्रेरयति । राहोः शिर इतिवत् प्रयोगः । न हि स्वस्मात् कोऽपि भिन्नः, तद्द्वारेण तद्व्यतिरेको वा । अद्वैतप्राप्तप्रतिष्ठा भक्ता हि द्वैतावस्थायां महाद्वैतं पश्यन्ति । तदुक्तम् : -
भुक्त्वा भोगान् भवभ्रान्ति हित्वा लप्स्ये परं पदं । इत्याशंसेह शोभेत शम्भोर्भक्तिमतः परम् ॥
एवं मङ्गले कृते एकाह्निकरूपाधिकारतात्पर्यं समस्तव्यस्तत्वाभ्यां कथयति एवम् इति ।
अत्र टीका : -
स्वसंवेदनोपपत्त्या - स्वानुभवयुक्त्या, निवेशयितुम् - सङ्क्रामयितुम्, अथावतरणिकां विना प्रथमश्लोकमुपन्यस्य व्याचष्टे स्वात्मैव इति ।
इह जडास्तावच्चेतननिमग्ना एव भान्तिः; इदमिति हि जडपरामर्शोऽहमिति संवित्परामर्श एव विश्राम्यति । ततश्च जडा निरात्मान इति जन्तव एव जीवाः सात्मानः, तेषां च महेश्वर एव स्वात्मा स एव महेश्वरो न त्वन्यः कश्चित् । यतः संवित्स्वभावोऽसौ, संविदश्च न देशेन न कालेन न स्वरूपेण कोऽपि भेदः, कामं देहप्राणादयो भिद्यन्ताम्, ते तु जडपक्ष्याश्चेतननिमग्ना एव, - इत्येक एव चिदात्मा स्वातन्त्र्येण स्वात्मनि यतो वैश्वरूप्यं भासयति, ततो महेश्वरोऽन्तर्नीतामिदन्तां
अत्र टीका: -
जन्तूनाम् इति व्याचष्टे युक्तिपूर्वकम् इह इति । इह - भासमाने जगति, चेतननिमग्नाः - ग्रहणद्वारेण चेतने विश्रान्ताः । कुतो भीन्तीत्यपेक्षायामाह इदम् इति । इदम् इति - इदम् इत्येवम्, जडपरामर्शः - चेतनाश्रयः जडविषयः परामर्शः । अहम् इति संवित्परामर्शे - अहम् इत्येवंरूपे संविदाश्रये तद्विषये च परामर्शे । फलितमाह ततश्च इति । निरात्मानः - निरात्मकल्पाः, इति अतः कारणात्, षष्ठीयोजनां करोति तेषाम् इति । तेषाञ्च - जन्तुपदवाच्यानां जीवानाञ्च, स्वात्मैव महेश्वरः महेश्वर एव स्वात्मा इति योजनाद्वयेन अत्यन्तभेदाभावः सूचितः । एवकारद्वयव्यावर्त्यमाह नत्वन्यः इति । कुतः इत्यपेक्षायां स्वयमेव हेतुयोजनां करोति एक इति पदं व्याचष्टे च यतः इति । असौ - स्वात्मरूपो महेश्वरः । ननु संवित्स्वभावोऽसौ ततः किमित्यत आह संविदश्च इति । कामम् इति निश्चये । जडपक्षे भवाः जडपक्ष्याः, विश्वरूपः इति विशेषणं हेतुत्वेन योजयति स्वातन्त्र्येण इति । वैश्वरूप्यम् - विश्वरूपताम् । अहमिदम् इति पदं व्याख्यास्यन् फलितमाह ततः इति । अन्तर्नीताम् - स्वात्मनि लयीकृताम्,
कृत्वा परानुन्मुखस्वात्मविश्रान्तिरूपाहंविमर्शपरिपूर्णः, अत एव सर्वज्ञसर्वकर्तृत्वे [सर्वज्ञत्वसर्वकर्तृत्वे - क्। ष्। ष्।] नास्य यत्नोपपाद्ये । विचित्रबुद्धिकर्मेन्द्रियविषये हि यथा ज्ञातृत्वकर्तृत्वे एकस्यैवात्मनस्तथेन्द्रियस्थानीयरुद्रक्षेत्रज्ञ- सहस्रविषयस्य भावराशेर्यज्ज्ञानं करणं च तदेकत्र चिदात्मनि, - इति ॥ १ ॥
ननु यद्येक एवायं महेश्वररूप आत्मा कस्तर्हि बन्धो यदवमोचनायायमुद्यमः ? इत्याशङ्क्याह
तत्र स्वसृष्टेदम्भागे बुद्ध्यादि ग्राहकात्मना । अहङ्कारपरामर्शपदं नीतमनेन तत् ॥ २ ॥
तत्रैवं स्वात्मनि महेश्वरे स्थिते तस्मिन्नेव प्रकाशरूपे स्वात्मदर्पणे तेनैव परमेश्वरेण स्वातन्त्र्यात् तावत्सृष्टः सङ्कोचपुरःसर इदम्भागः,
अत एव - अहंविमर्शपरिपूर्णत्वादेव, सर्वज्ञसर्वकर्तृत्वे - सर्वज्ञत्वं सर्वकर्तृत्वञ्च, अस्य - स्वात्ममहेश्वरस्य, कुतो न यत्नोपपाद्ये इत्यत आह विचित्र इति । विचित्रबुद्धिकर्मेन्द्रियविषये - साध्यत्वेन विचित्रबुद्धिकर्मेन्द्रियविषयभूते, आत्मनः - देहावच्छिन्नात्मतत्त्वस्य । दृष्टान्तमुक्त्वा दार्ष्टान्तिकं कथयति तथा इति । रुद्राः - मायोर्ध्ववर्तिनः प्रमातारः । इति शब्दः श्लोकव्याख्यासमाप्तौ ॥ १ ॥
अथ द्वितीयश्लोकस्यावतरणिकां करोति ननु इति ।
एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे तत्र इति ।
अत्र टीका: -
तत्र इति पदं सत्सप्तमीमाश्रित्य व्याचष्टे एवम् इति । तत्र इति शब्दस्य तन्त्रेण आधारसप्तमीमाश्रित्य व्याख्यान्तरं करोति तस्मिन्नेव इति । अनेन इति व्याचष्टे तेन इति । तेन - स्वात्मरूपेण, स्वसृष्टेदम्भागे इति व्याचष्टे स्वातन्त्र्यात् इति ।
सङ्कोचपुरःसरः - सङ्कोचपूर्वकः । बुद्ध्यादि
तन्मध्ये यदेतद्बुद्धिप्राणदेहरूपमिदन्तया वेद्यन्तद्बुद्ध्यादिभिन्नस्य [तद्भिन्नस्य - क्। ष्। ष्।] वेद्यस्य ग्राहकतया समुचितम् इदम्भावाभिभवाप्रभविष्णुत्वात् कृतकेनापूर्णेनाहं भावेन परामर्शेन भासमानं चकास्ति अहं देवदत्तोऽहं चैत्र इति ॥ २ ॥
नन्वेवमप्यस्तु, तथापि कस्य बन्धः ? ईश्वरव्यतिरिक्तो हि कोऽन्योऽस्ति ? तदेतत् परिहर्तुमाह -
इति व्याचष्टे तन्मध्ये इति । तन्मध्ये - इदम्भागमध्ये, आदि शब्दगृहीतं वस्तु कथयति प्राण इति । इदन्तया वेद्यम् - चिद्रूपं स्वं प्रति वेद्यतया स्थितम् । तद्बुद्ध्यादिभिन्नस्य - तस्माद् बुद्ध्यादेः भिन्नस्य, वेद्यस्य - नीलसुखादेः, ग्राहकात्मना इति व्याचष्टे ग्राहकतया [ग्राहकत्वेन - च्। ] इति । ग्राहकतया समुचितम् - अहम्भावपरामर्शयोग्यं सत्, इदम्भावस्य यः अभिभवः तत्र अप्रभविष्णुत्वात् - असमर्थत्वेन, कृतकेन - असहजेन सता, अहम्भावेन परामर्शेन - अहन्तया परामर्शेन, भासमानं चकास्ति । कथं चकास्तीत्यपेक्षायामाह अहं देवदत्तः इति ।
एवमत्र श्लोके स्फुटा योजना । तत्र सति स्वात्मनि महेश्वरे सति अनेन - स्वात्मना महेश्वरेण, काकाक्षिन्यायेन पुनः तत्र इति योजनीयम् । तत्र - प्रकाशरूपे स्वात्मनि भित्तौ, स्वसृष्टेदम्भागे - स्वयमुत्पादिते इदम्भागमध्ये, लक्षणया स्वयंसृष्टदम्भावविषयवेद्यग्राममध्ये, तत् बुद्ध्यादि, स्वं प्रति वेद्यत्वेऽपि बाह्यं प्रति वेदकत्वेन प्रसिद्धं बुद्ध्यादिकम्, ग्राहकात्मना - नीलसुखादिकं प्रति ग्राहकतया, अहङ्कारपरामर्शपदम् - अहम्परामर्शविषयतास्थानम्, नीतम्
- स्वातन्त्र्येण प्रापितम् । अत एव एकेश्वरवादेऽपि बद्धस्य ग्राहकस्य बुद्ध्यादेः मोचनाय उद्यमो युक्त एवेति भावः ॥ २ ॥
अथ तृतीयस्य श्लोकस्यावतरणिकां करोति नन्वेवम् इति ।
स्पष्टम् । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे सस्वरूप इति ।
स [स्वस्वरूपापरिज्ञानमय - क्। ष्। ष्।] स्वरूपापरिज्ञानमयोऽनेकः पुमान् मतः ।
तत्र सृष्टौ क्रियानन्दौ भोगो दुःखसुखात्मकः ॥ ३ ॥
सत्यम्, परमार्थतो न कश्चिद् बन्धः केवलं स्वस्मादनुत्तरात् स्वातन्त्र्यात् यदा स्वात्मानं सङ्कुचितमवभासयति स एव, तदा स्वस्य पूर्णस्य रूपस्य यदपरिज्ञानं भासमानत्वेऽप्यपरामर्शरूपं तदेव कारणत्वेन प्रकृतं यस्य स पूर्णत्वाख्यातिमात्रतत्त्वः पुरुषः इत्युच्यते । अत एवानेकः तत्तद्देहप्राणबुद्धिविशेषेण सङ्कोचग्रहणात् । स च पुमान् भोक्ता सम्बन्धनं [सम्बन्धम् - क्। ष्। ष्।] भोगलक्षणमनुभवति । भोगश्च नाम तस्य यौ कल्पितौ क्रियानन्दौ, कल्पिता क्रिया दुःखम्, रजो हि प्रकाशाप्रकाश- चाञ्चल्यरूपं दुःखमुच्यते; प्रकाशरूपं च सत्त्वं सुखम्; तमस्त्वप्रकाशरूपो मध्ये विश्रमः प्रलयस्थानीयः ॥ ३ ॥
अत्र टीका : -
स्वरूपापरिज्ञान इति व्याचष्टे सत्यम् इति । अवतरणिकायां शङ्कितं वस्तु अपेक्ष्यैव अङ्गीकारवाचकं सत्यम् इति पदं प्रयुक्तम् । स एव - स्वात्मरूपः परमेश्वर एव, अपरामर्शरूपम्, न तु ज्ञानाभावरूपम्, तस्यासम्भवोपह- तत्वादिति भावः । मयटो व्याख्यां करोति तदेव इति, प्रकृतम् - प्राचुर्येण प्रस्तुतम् । विग्रहं कृत्वा अभिधेयं कथयति पूर्णत्व इति । पुमान् इति व्याचष्टे पुरुषः इति । कथमनेक इत्यपेक्षायां स्वयमेव हेतुयोजनां करोति तत्तत् इति । विशेषेण विशेषभावेन इत्यर्थः । नभसः तादृक्सङ्कोचाभावेन अग्रहणम् । पूर्वार्धं व्याख्याय उत्तरार्धं व्याख्यातुं सङ्गतिं करोति स च इति ।
सम्बन्धनम् - विषयैः सह सम्बन्धनम् । सङ्गतिं कृत्वा उत्तरार्धं व्याचष्टे भोगश्च इति । दुःखसुखात्मकः इति व्याचष्टे दुःखम् इति । ननु कथं कृतिवाचिन्याः क्रियायाः दुःखरूपत्वमित्यत आह रजः इति । रजः - क्रियारूपप्रवृत्तिवाची रजोगुणः, सत्त्वम् - सत्त्वाख्यो गुणः, एतत्प्रसङ्गेन तमोगुणस्यापि निर्णयं करोति तमः इति प्रलयस्थानीयः - प्रलयसदृशः, न तु साक्षात्प्रलयरूपः, तत्र सर्वगुणध्वंसनात् ॥ ३ ॥
ननु सृष्टावित्यनेन किं व्यवच्छेद्यं किं च सङ्ग्राह्यम् ? इत्याह -
स्वाङ्गरूपेषु भावेषु पत्युर्ज्ञानं क्रिया च या । मायातृतीये ते एव पशोः सत्त्वं रजस्तमः ॥ ४ ॥
विश्वरूपस्य भगवतः स्वरूपभूत एव विश्वत्रयः प्रकाशो यश्च विमर्शः, ते तावज्ज्ञानक्रिये स्वरूपद्वयपरमर्शापरित्यागेनैव [स्वरूपपरामर्श - क्। ष्। ष्।] तु यद्विभिन्नतयापि [यद्भिन्नतयापि - क्। ष्। ष्।] विमर्शनं स्वरूपपरामर्श एव विश्रान्तम् अहमिदमितिसदाशिवेश्वर- परमार्थ सा भगवतो मायाशक्तिः, ता एतास्तिस्रः शक्तयो भगवति नैसर्गिक्योऽसृष्टाः [दृष्टाः - क्। ष्। ष्।] ।
अत्र टीका : -
अथ चतुर्थश्लोकस्यावतरणिकां करोति ननु इति । स्पष्टम् ।
एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे स्वाङ्ग इति ।
अत्र टीका : -
पत्युः इति व्याचष्टे विश्वरूपस्य इति । स्वाङ्गरूपेषु भावेषु इति व्याचष्टे स्वरूप इति । विश्वत्र - सर्वत्र भावजाते ।
ज्ञानम् इति व्याचष्टे प्रकाशः इति । क्रिया इति व्याचष्टे विमर्शः इति । ते - प्रकाशविमर्शौ । क्रियाशब्दापेक्षं स्त्रीत्वम् । माया इति व्याचष्टे स्वरूपद्वय इति । स्वरूपद्वयस्य - प्रकाशविमर्शरूपनीजरूपद्वयस्य, यः परामर्शः तस्यापरित्यागेनैव, विभिन्नतयापि विमर्शनम् - स्वतो भेदेन परामर्शनम्, अपि शब्दात् अभिन्नतया परामर्शनञ्च ग्राह्यम् ।
कीदृशं विमर्शनम् ? स्वरूप इति, अत एवेति शेषः । अत एव अहम् इदम् इति सदाशिवेश्वरौ परमार्थः - सहजं स्वरूपं यस्य तादृशम्, भगवतः - पत्युः, न तु पशोरितिं भावः । एतासां तिसृणां सृष्ट पदव्यवच्छेद्यत्वं दर्शयति एताः इति ।
स्वरूपापरिज्ञाने तु भिन्नेषु भावेषु ज्ञानं क्रिया, शुद्धमेव भिन्नत्वं प्रकाशविमर्शशून्यम्, - इति पशोः प्रकाशः प्रकाशाप्रकाशावप्रकाशश्च इति क्रमेण सुखदुःखमोहलक्षणानि प्रकाशक्रियानियमशीलानि [नियमनशीलानि - क्। ष्। ष्।] सत्त्वरजस्तमांसि ॥ ४ ॥
ननु चैवं सति यथा परमेश्वरस्य ज्ञानक्रियामाया अव्यतिरेकिण्यः शक्तयः, - इत्युच्यन्ते, तद्वत् पशोः सत्त्वरजस्तमांसि प्रसज्यन्ते, व्यतिरिक्तानि च तानि पुंस्त्त्वाद् गण्यन्ते, तदेतत् कथम् ? इति संशयं शमयति
भेदस्थितेः शक्तिमतः शक्तित्वं नापदिश्यते । एषां गुणानां करणकार्यत्वपरिणामिनाम् ॥ ५ ॥
असृष्टाः इति, स्वरूपत्वेन स्थितत्वादिति भावः । ते एव इत्यादि श्लोकखण्डं व्याचष्टे स्वरूप इति । स्वरूपापरिज्ञाने - मायाकृते पारमार्थिकस्वरूपापरिज्ञाने सति । भिन्नत्वम् इत्यनेन लक्षणया मायाग्रहणम् । शुद्धमेव इत्यस्यार्थं स्फुटीकरोति प्रकाश इति । पत्युर्माया हि प्रकाशविमर्शमयी एव, इयन्तु तद्रहितेत्यर्थः । सत्वं रजस्तमः इति योजनापूर्वं व्याचष्टे क्रमेण इति । तत्र सत्त्वं सुखलक्षणम् प्रकाशशीलम् । रजः दुःखलक्षणं क्रियाशीलम् । तमः मोहलक्षणं नियमशीलम् इति क्रमो ज्ञेयः । नियमः मौढ्येनाप्रवृत्तिः ॥ ४ ॥
अथ पञ्चमस्य श्लोकस्यावतरणिकां करोति ननु चैवम् इति ।
अत्र टीका : -
तद्वत्प्रसज्यन्ते, शक्तित्वेन प्रसज्यन्ते इत्यर्थः । गण्यन्ते इति ।
प्रकृत्यादेः पुरुषाद् भेदेन गणनादिति भावः ।
सत्त्वरजस्तमसां हि साम्यावस्था प्रकृतिः तत्कार्याणि च महदादीनि सत्त्वादिरूपाण्येव । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे भेद इति ।
सत्यम् एवं स्यात् यदि भेदग्रहो न भवेत्, भेदस्त्वयं [भेदव्यवहारस्त्वयम् - क्। ष्। ष्।] विचार्यते । तत्र च सङ्कुचितचिन्मात्रस्वभावः [सङ्कुचितस्वभावः - क्। ष्। ष्।] पुरुषो, नास्य नैसर्गिकं भावविषयं प्रकाशनादि रूपं सर्वदा तत्प्रसङ्गात्, अपि त्वन्यसम्बन्धकृतम् । ततश्च तस्मात् पशोः शक्तिमत्त्वेन शङ्क्यमानाद् भेदेन यत एतानि सत्त्वा दीनि, ततः शक्तयो व्यतिरेकमुक्ताः - इति नोच्यन्ते किं तूपकरणत्वात्
अत्र टीका : -
अवतरणिकायां शङ्कितस्य वस्तुनः परिहारमाह यदि इति ।
भेदग्रहः - गुणानां पुरुषाद् भेदेन ग्रहणम्, श्लोकं भङ्ग्या व्याख्यास्यन् भेदविचारणमेव प्रतिजानीते भेदस्त्वयम् इति । भेदविचारणमेव करोति तत्र च इति । सङ्कुचितम् - स्वातन्त्र्यवशेन सङ्कोचमागतम्, यच्चिन्मात्रम् तत्स्वभावः - स्वरूपं यस्य तादृशः, पुरुषः - जीवाख्यः अण्डः । अस्य - पुरुषस्य, प्रकाशनादि - प्रकाशप्रकाशौ, नैसर्गिकं रूपम्, सहजं स्वरूपमित्यर्थः । कुत इत्यपेक्षायामाह सर्वदा इति ।
तत्प्रसङ्गात् - भावविषयप्रकाशनादिप्रसङ्गात्, नहि क्षणमपि स्वभावत्यागो युक्त इति भावः । पुनः कथं तस्य भावविषयं प्रकाशनादि भवतीत्यत आह अपि तु इति । अन्यसम्बन्धकृतम् - व्यतिरिक्तकरणसम्बन्धकृतम् । श्लोकयोजनां कर्तुं फलितमाह ततश्च इति । भेदेन इति, भेदेन भवन्तीत्यर्थः । ततः - ततः कारणात्, सत्त्वादीनि शक्तय इति नोच्यन्ते इति सम्बन्धः । शक्तयः कीदृश्यः ? व्यतिरेकमुक्ताः, शक्तिमतोऽव्यतिरेकिण्य इत्यर्थः ।
तदुक्तम् : -
तादात्म्यमनयोर्नित्यं बह्निदाहकयोरिव
इति एतेन एषां गुणानां शक्तिमतो भेदस्थितेः शक्तित्वं नापदिश्यते इति पदसमूहः कृतव्याख्यः । ननु गुणानाम् इत्युक्तं तद्गुणत्वं कथमेषामित्यपेक्षायामाह किन्तु इति ।
उपकरणत्वात् - परमेश्वरस्य बाह्योत्पादं प्रति उपकरणभावात्, तेन आयातादप्रधानत्वादिति भावः । तदुक्तम् : -
शक्त्यण्डमृत्पिण्डमुपाददानो मायाण्डचक्रभ्रमणक्रमेण ।
मूलाण्डदण्डेन…ब्रह्माण्डभाण्डं भगवान्कुलालः ॥
गुणा इत्युच्यन्ते । ननु पुरुषात् किमिति ते भेदेनोच्यन्ते ? उच्यते, इह सुखदुःखमोहपरिणामरूपमेतत्करणत्रयोदशकं [उच्यते, सुखदुःखमोहपरिणामरूपम् - क्। ष्। ष्।] कार्यदशकं च सुखादिस्वभावत्वेनानुभूयते, - इति सुखदुःखमोहाः करणकार्यवर्गतादात्म्यवृत्तयो यदि पुरुषव्यापि तादात्म्यं भजेरन् तर्हि पुरुषः कार्यकरणपर्यन्तसृष्टिमयः सम्पन्नः, परिणामश्च दूषितः - इति स्वातन्त्र्यशक्त्या पुरुषो विश्वरूपः, - इत्यायातम् । तथा च न कश्चित् पुरुष ईश्वर एव, तस्मात् अप्रत्यभिज्ञानमयपुरुषस्वरूपविचारे सत्त्वादयो भिन्ना एव, - इति स्थितम् ॥ ५ ॥
इति । अत्र हि मूल शब्देन सत्त्वादिसाम्यावस्थारूपायाः प्रकृतेर्ग्रहणम्, दण्डस्य चोपकरणत्वं प्रसिद्धमेवेति न विरोधः । करण इत्यवशिष्टपदं व्याख्यातुमवतरणिकां करोति ननु इति । ते - गुणाः । अत्र परिहारं वक्तुं प्रतिजानीते उच्यते इति ।
प्रतिज्ञां सफलीकर्तुमवतरणिका - विषयीकृतं पदं व्याचष्टे इह इति । एतत् - पुरः स्थितम्, कार्यदशकम्, सूक्ष्मभूतरूपं शब्दादिपञ्चकम् स्थूलभूतरूपमाकाशादिपञ्चकञ्चेत्यर्थः । सुखादि इति । आदि शब्देन दुःखमोहयोर्ग्रहणम् ।
सुखदुःखमोहाः सुखादिरूपं गुणत्रयम्, करणकार्यवर्गेण सह तादात्म्येन वृत्तिर्येषां ते तादृशाः ।
परिणामश्च - गुणत्रयस्य बुद्ध्यादिभावेन परिणामः, दूषितः इति, पुरुषस्यैव तद्भावाङ्गीकारादिति भावः । इति - अतः कारणात् । नन्वेतदायातु किं तत इत्यत आह तथा च इति, तथा च सति, कश्चित् - कोऽपि जीवः पुरुषः न स्यात् अपि तु सर्वः ईश्वर एव स्यात् विश्वरूपत्वात् इति भावः । फलितमाह तस्मात् इति ।
अप्रत्यभिज्ञानमयः - परमेश्वरेण सह सोऽहम् इति प्रत्यभिज्ञामप्राप्तः यः पुरुषः - अण्डः, तस्य यत्स्वरूपं तस्य विचारे, सत्त्वादयः भिन्नाः एव भवन्ति, अन्यथा तस्येश्वरत्वापातात् । इति - एवम्, स्थितम् - स्थितियुक्तं भवति ॥ ५ ॥
ननु ज्ञानादीनि कथं सत्त्वादिरूपाणि पशुं प्रति ? इत्याह
सत्तानन्दः क्रिया पत्युस्तदभावोऽपि सा पशोः । द्वयात्मा तद्रजो दुःखं श्लेषि सत्त्वतमोमयम् ॥ ६ ॥
इह तावत् पतिर्विश्वस्यावभासवैचित्र्यलक्षणेन [विश्वस्यावभासमानवैचित्र्य - क्। ष्। ष्।] सृष्ट्यादिना पालयिता स्वप्रकाशस्वभावः, तस्य विश्वपतेर्या सत्ता भवनकर्तृता स्फुरत्तारूपा पूर्वं व्याख्याता सा स्फुरत्ता महासत्ता (ई। प्र।
१।५।१४) इत्यत्र, सैव प्रकाशस्य विमर्शाव्यतिरेकात् विमर्शात्मकचमत्काररूपा सती क्रियाशक्तिरुच्यते, परौन्मुख्यत्यागेन स्वात्मविश्रान्तिरूपत्वाच्च सैव आनन्दः; तदेवं भगतश्चिदात्मतयैवेयद्रूपता । पशोस्तु सत्ता तदभावश्च
अत्र टीका : -
अथ षष्ठश्लोकस्यावतरणिकां करोति ननु इति । स्पष्टम् ।
एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे सत्ता इति ।
अत्र टीका: -
पत्युः इति व्याचष्टे इह इति । अवभासस्य यद्वैचित्र्यं तदेव लक्षणं यस्य तादृशेन, अवभासनमात्रसारेणेति यावत् ।
सृष्ट्यादिना - सृष्टिस्थितिध्वंसपिधानानुग्रहपञ्चकेन, पालयिता - रक्षिता
पालनात्पतिरुच्यते
इति न्यायादिति भावः । षष्ठीयोजनां करोति तस्य इति । सत्ता इति पदं व्याचष्टे भवन इति । भवनकर्तृता - भू क्रियाकर्तृत्वम्, अस्तीति सत् तस्य भावः सत्ता इति न्यायात् इति भावः । कुत्र व्याख्यातः इत्यत आह सा स्फुरत्ता इति । इति, अस्मिन् श्लोके इत्यर्थः । क्रिया इत्यस्य योजनां करोति सैव इति । सैव - सत्तैव, विमर्शात्मकः - अहंविमर्शरूपः यश्चमत्कारः - स्वरूपास्वादः, सः रूपं यस्याः सा । आनन्द इत्यस्यापि योजनां करोति परौन्मुख्य इति । सैव
- सत्तैव । उपसंहारं करोति तदेवम् इति । इयद्रूपता - सत्तानन्दरूपता । एतेन पत्युः इत्यन्तं व्याख्यातम् । तदभावः इत्यादि
आनन्दश्च तदभावश्च सङ्कुचिततद्रूपत्वात्, तेन योऽसौ सत्तानन्दभागस्तत्प्रकाशसुखवृत्ति सत्त्वम्, यस्तदभावस्तदावरणमोहरूपं तमः, एते च ते सत्त्वतमसी नीलानीलवत् परस्परपरिहारेण यद्यपि वर्तेते कार्यकारणत्ववत् [कार्यत्वकारणत्ववत् - क् । ष्। ष्।] तथापि एकपरामर्शगोचरीकार्यधर्म्यपेक्षया [धर्मापेक्षया - क्। ष्। ष्।] चित्रपतङ्गसङ्गतनीलानीलात्मकरूपन्यायेनान्योन्यमिश्रतयापि भातः, अतो योऽयं द्वयात्मा मिश्रस्वभावः तद्रजोगुणः, अत एव प्रकाशाप्रकाशस्वरूपयोः सत्त्वतमसोरत्र श्लेषेणावस्थानम् इति दुःखत्वम्; प्रियपुत्रादेरेकघन एव हि प्रकाशः सुखम्; एकघन एवाप्रकाशो मोहः । यस्तु कथञ्चित्प्रकाशो यथा सव्याधिकदेहरूपतयानभिमतया, कथञ्चिच्चाप्रकाशो यथा गतगदकल्याणधर्मयोगितयाभिमतया तदेव दुःखत्वम्; अयमेव च
व्याचष्टे पशोस्तु इति । तदभावः - सत्ताभावः । कुतः इत्यपेक्षायामाह सङ्कुचित इति । ननु ततः किमित्यत आह तेन इति ।
प्रकाशसुखवृत्ति - प्रकाशसुखरूपम्, सत्त्वम् - सत्त्वगुणः, तदभावः - सत्तानन्दभागाभावः, तमः - तमोगुणः ।
कार्यकारणत्ववत् इत्यस्योत्तरवाक्येन सम्बन्धः ।
कार्यकार्णत्वयोः एकत्र धर्मिणि युगपत्स्फुरणात् । एकपरामर्शेन गोचरीकार्यः यः धर्मी तस्यापेक्षया, चित्ररूपयुक्तः पतङ्गः चित्रपतङ्गः, तत्र सङ्गतं यन्निलानीलात्मकं रूपं तस्य न्यायेन । एतदवष्टम्भेन द्वयात्मा इति पदं व्याचष्टे तद् इति ।
रजः इति व्याचष्टे रजोगुणः इति । श्लेषि इति व्याचष्टे दुःखम् इति च योजयति अत एव इति । अत्र - रजोगुणे, श्लेषेण - सङ्गत्या, दुःखत्वम् - दुःखभावः । दुःखत्वमेव साधयति प्रिय इति, प्रकाशः - अग्रस्तत्वेन प्रकटता । सुखमोहयोः साधनं कृत्वा अभिष्टस्य दुःखस्यापि करोति यस्तु इति । कथञ्चित् - केनापि भागेन, अनभिमतया - अनिष्टया सव्याधिदेहो हि मरणमेव काङ्क्षते, देहापेक्षैव हि प्रकाशः, देहानपेक्षात्वप्रकाशः [देहापेक्षात्वप्रकाशः - च्।] गतगदस्य [आगतगदस्य - च्।] कल्याणधर्मयोगिता तया । तदेव - प्रकाशाप्रकाशस्वरूपमेव, अयमेव - दुःखमेव,
पूर्वापरीभावसारः क्रियापरमार्थः । अत्रानुभयरूपत्वं तु नास्ति, प्रतीतौ कस्याञ्चित् कल्पिताकल्पितरूपायामननुप्रवेशात् तस्य । तथा हि - नीलं तावदकल्पितरूपायां धियि भाति; नीलाभावस्तु तुच्छोऽपि कल्पनाकल्पित आभासमानत्वात् तावद्व्यवहार- परमार्थः, तदुभयव्यामिश्रणात्तु नीलानीलं भातु नाम, यत्त्वनुभयरूपं तन्निलप्रतीत्या तावदकल्पितया न विषयीकृतं चेत् तत् कल्पितामनीलधियमनुधावेत्, अथ तां कल्पितां धियं नाविशत्यकल्पितया विषयीकृतं नीलमेव स्यात्, - इति न पशोश्चतुर्थोऽस्ति गुणः । अपिशब्दश्चार्थे, [अपिश्चार्थे - क्। ष्। ष्।] पशोः सा सत्ता सत्त्वम्, तदभावस्तमः, द्वयात्मा रजश्च, - इति सम्बन्धः ॥ ६ ॥
क्रियापरमार्थः - क्रियासहजस्वभावः । रजोगुणस्य प्रवृत्तिरूपत्वात् प्रवृत्तेश्च स्फुटं क्रियात्वादिति भावः ।
नन्वनुभयरूपश्चतुर्थोऽपि गुणः अस्तु इत्यत आह अनुभय इति ।
अननुप्रवेशात् - सङ्क्रान्त्यभावात् । तस्य - अनुभयरूपस्य । अत्र समर्थनमुपक्रन्ते तथा हि इति । तावत् इत्यनेन पारमार्थिकाकल्पितत्वनिरासः । धियि - नीलबुद्धौ, तदुभयमिश्रणात् - नीलानीलव्यामिश्रणाद्धेतोः, नाम इत्यनेन अस्य भानस्य असम्भवोपहतत्वं द्योतितम् । चेत् न विषयीकृतम् इति योजना, अनुधावेत् इति, स्वग्रहणार्थमिति भावः । अथ शिष्यः प्रश्नं करोति अपि इति । अत्रापि दोषमापादयति अकल्पित इति । अपि शब्दार्थमाह अपि शब्दः इति । चार्थे समुच्चयार्थे इत्यर्थः ।
सम्बन्धं स्फुटीकृत्य दर्शयति पशोः इति । सत्त्वम् - सत्त्वगुणः, तदभावः - सत्त्वाभावः, तमः - तमोगुणः ।
एवमत्र स्फुटा योजना । पत्युः - परमेश्वरस्य, सत्ता - निजं स्फुरत्तारूपं भवनम्, आनन्दः भवति तथा क्रिया भवति, त्रयस्यापि परमार्थतः शक्तित्वेन तत्र एकत्वात् । पशोः बद्धस्य जीवस्य, तदभावोऽपि सत्तानन्दाभावोऽपि, अपि - शब्दात् तद्भावश्च, द्वयात्मा - सत्तानन्दभावाभावरूपा सा आनन्दरूपा तत् - प्रसिद्धं रजः भवति । रजः किम् ? क्रिया, प्रवृत्तिरूपत्वेन क्रियापरमार्थमित्यर्थः । पुनः किम् ? दुःखम् - दुःखरूपम्, तथा सत्त्वतमोमयम्, अत एव श्लेषि - श्लेषयुक्तम्,
एवं तावत् पतिपशुरूपं प्रमातृतत्त्वं सङ्क्षेपेण निर्णीतम्; अथ प्रमेयतत्त्वं निर्णेतुं पत्यौ तावत् इत्थमिदं प्रमेयतत्त्वम् इति निर्णेतुमाह -
येऽप्यसामयिकेदन्तापरामर्शभुवः प्रभोः । ते विमिश्रा विभिन्नाश्च तथा चित्रावभासिनः ॥ ७ ॥
इहाभासा एव तावदर्थाः, - इत्युक्तम्, ते च परामर्शैक्येन कदाचिन्मिश्रीक्रियन्ते यदा विशेषरूपता, कदाचिदमिश्रा एव परामृश्यन्ते यदा । समान्यरूपता, ते एते उभयात्मानोऽप्यर्था [उभयात्मानोऽप्यसामयिकेन - क्। ष्। ष्।] असामायिकेनाकल्पितेनेदम्भावेन
अर्थादेव सत्तानन्दभावस्य सत्त्वभावः, तदभावस्य तमोभावः, किर्यातूभयत्र समाना, किन्तु पत्यौ शक्तित्वेन स्थिता, पशोस्तु रजोगुणत्वेन इति न तस्या अभावोऽत्रोपयोगी । यद्यपि सत्ताया अभावोऽपि असम्भवोपहत एव तथाप्यपरिमितां सत्तामपेक्ष्यैवमुक्तम् ॥ ६ ॥
अथ सप्तमस्य श्लोकस्यावतरणिकां करोति एवम् इति । स्पष्टम् ।
एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे येऽपि इति ।
अत्र टीका : -
श्लोकव्याख्योपयोगित्वेन पूर्वोक्तं वस्तु स्मारयति इह इति । ते च
- आभासाश्च, कदाचित् इत्यनेन वक्तुमिष्टं वस्तु प्रकटीकरोति यदा इति । विशेषरूपता - स्वलक्षणता, तत्र हि देशाद्याभासाः मिश्राः भवन्त्येव । ते एते आभासाः, उभयत्मानः - मिश्रामिश्रस्वभावाः, अर्थाः - नीलसुखादयः । एतेन विमिश्रा विभिन्नाश्च इति पदद्वयस्य व्याख्या । असामयिक इति समस्तं पदं विग्रहपूर्वकं व्याचष्टे असामयिकेन इति । असामयिकेन इति
सहजपरामर्शरूपेणाङ्गुलिनिर्देशादिप्रख्येन [सहजभेदपरामर्शरूपेण - क्। ष्। ष्।] गोचरीकार्याः प्रभोरपि न केवलं सद्योजातबालादेर्यावदीश्वरस्यापि, तथा तेन सामान्यविशेषप्रकारेण चित्रतयावभासन्ते । चित्रत्वं हि तयोः - यन्मिश्रत्वममिश्रत्वं च युगपदेकाहन्ताविश्रान्तं भाति, - इति ईश्वरदशायां भावोल्लासनान्तरीयकत्वेन संवित्सङ्कोचरूपं निषेध्यानुपरक्तनञर्थ?मात्ररूपं शून्यं संवित्प्रकाशेनैव प्रकाशमानमहन्तानिषेध- रूपामसामायिकीभिदन्तामुल्लासयति ॥ ७ ॥
व्याचष्टे अकल्पितेन इति । इदन्ता इत्यवयवं व्याचष्टे इदम्भावेन इति । परामर्श इत्यवयवं व्याचष्टे सहज इति ।
सहजपरामर्शरूपेण, न तु सङ्केतविषयीकृतशब्दस्मृतिरूपपरामर्शरूपेण, अत एव अङ्गुल्यादिना यो निर्देशः तस्य प्रख्येन - सदृशेन । भुवः इत्यवयवं व्याचष्टे गोचरीकार्याः इति । एतेन असामयिकस्य इदन्तापरामर्शस्य भुवः - गोचराः इति विग्रहः सूचितः । अपि शब्दाभिप्रायं कथयति प्रभोरपि इति । एतेन अपि सब्दो भिन्नक्रम इति सूचितम् । तथा असामयिकेदन्तापरामर्शगोचरीकार्याः एतेन सद्योजातबालवत् सामान्येदन्तापरामर्शेन भावस्फुरणम् ईश्वरावस्थेति सूचितम् । तथा इति व्याचष्टे तेन इति ।
चित्रावभासिनः इति व्याचष्टे चित्रतया इति । कुत इत्यपेक्षायाम् समर्थनं करोति चित्रत्वं हि इति । एकाहन्ता - विश्रान्तम् - एकप्रमातरि विश्रान्तम् । एतेन फलितम् ईश्वरदशायाः स्वरूपं साक्षात्स्फुटीकृत्य कथयति इति इति । इति - अतःकारणात्, सून्यम् - प्रत्यासन्नत्वेन मायापदगतः शून्यप्रमातैव, ईश्वरदशायाम् - ईश्वरावस्थायाम्, अहन्तानिषेधरूपाम् - नाहम् इति रूपाम्, असामयिकीम् इदन्ताम् - शिरोनिर्देशप्रख्याम् इदन्ताम्, उल्लासयति - स्फारयति । शून्यम् कीड्र्शम् ? भावानाम् - स्वतो व्यतिरिक्ततया वेद्याना नीलसुखादीनाम्, यः उल्लासः - स्वतो भेदेन निर्विकल्पकं स्फुरणम्, तस्य यत् नान्तरीयकत्वम् - व्याप्तिः तेन, संवित्सङ्कोचरूपम्, अन्यथा अहम् इति ग्रहणप्रसङ्गात् ।
तथा निषेध्यानुपरक्तः - प्रतियोगिस्पर्शरहितः, नञर्थः - अभावः, तन्मात्रं रूपं यस्य तादृशम्, न तु नाहम् इत्येवं रूपम्, अत एव संवित्प्रकाशेनैव - संवित्प्रकाशभावेनैव, न तु मायापदवत् न किञ्चिद्भावेन प्रकाशमानम् - स्वप्रकाशत्वेन स्वं प्रति भासमानम् ॥ ७ ॥
एवं तावदीश्वररूपस्य पत्युरित्थं प्रमेयतत्त्वम्, परमशिवे तु भगवति प्रमेयकथैव कथमुत्तिष्ठति, प्रमेयकथोत्थापकत्वमेव भगवतः सदाशिवेश्वरत्वम्; अतोऽधुना पशुं प्रति कीदृक् प्रमेयस्य वृत्तान्तः, - इति सन्देहमपोहति श्लोकत्रयेण -
ते तु भिन्नावभासार्थाः प्रकल्प्याः प्रत्यगात्मनः । तत्तद्विभिन्नसञ्ज्ञाभिः स्मृत्युत्प्रेक्षादिगोचरे ॥ ८ ॥ तस्यासाधारणी सृष्टिरीशसृष्ट्युपजीविनी । सैषाप्यज्ञतया सत्यैवेशशक्त्या तदात्मनः ॥ ९ ॥ स्वविश्रान्त्युपरोधायाचलया प्राणरूपया । विकल्पक्रियया तत्तद्वर्णवैचित्र्यरूपया ॥ १० ॥
तुर्विशेषं द्योतयति, प्रत्यगात्मनस्तु इत्थं प्रमेयरूपा अर्थाः, न त्वीश्वरवदुक्तनयेनेति । भिन्न इति मिश्रामिश्रतया भिद्यमान आभासो येषामर्थानां ते विशेषसामान्यात्मानोऽर्थाः प्रत्यगात्मनः प्रतिपुरुषमव्यामिश्र - [अविमिश्रस्वसंवेदन - क्। ष्। ष्।]
अत्र टीका : -
अथाष्टमनवमदशमश्लोकानामवतरणिकां करोति एवम् इति । स्पष्टम् । अथ श्लोकमुपन्यस्य व्याचष्टे ते तु इति ।
अत्र टीका : -
द्योतयति इति । निपातानां द्योतकत्वादिति भावः । ननु कोऽसौ विशेष इत्याह प्रत्यगात्मनः इति । इत्थम् - वक्ष्यमाणप्रकारेण ।
इति इति विशेषकथनसमाप्तौ । भिन्न इति समस्तं पदं विग्रहपूर्वकं व्याचष्टे मिश्र इति । तत्र मिश्राः - स्वलक्षणरूपाः, अमिश्राः - सामान्यरूपाः । अवभास इत्यवयवं व्याचष्टे आभासः इति, भिन्नावभास इत्यवयवद्वयस्य बहुब्रीहिणा समासं कृत्वा व्याख्यां करोति विशेषसामान्यात्मानः इति । अर्थाः इति निगदव्याख्यातम् । एतेन भिन्नावभासाश्च ते अर्थाश्चेति विग्रहः सूचितः । प्रत्यगात्मनः इति व्याचष्टे प्रतिपुरुषम् इति । प्रति इत्यवयवं व्याचष्टे
स्वसंवेदनावगमस्वरूपस्यासङ्कीर्णाहम्प्रकाशात्मनः प्रकल्प्याः कल्पनीयाः, [विकल्पनीयाः - क्। ष्। ष्।] प्रतिप्राणिस्ववासनानुसारेण विभिन्नाभिः सञ्ज्ञाभिः प्रियोऽयं शत्रुरयम् इत्यादिकाभिर्भावनाविशेषानुसारेण तत्तद्विचित्रसुखदुःखाद्युपयुक्ताभिः स्मरणे उत्प्रेक्षणे सङ्कल्पनेऽन्यत्रान्यत्र च विकल्पयोगे । एतदुक्तं भवति - ईश्वरस्य विकल्पात्मकतामन्तरेण शुद्धविमर्शविषयीभाव्या अर्थाः, पशोस्त्वन्योन्यापोहनहेवाकिनि विकल्पे समारूढास्तेऽर्था भवन्ति, सांसारिकहानादानादिव्यवहारोपयोगात् इति ।
नन्वविकल्प्यत्वे यावानेवार्थस्तावानेव यदि विकल्प्यत्वे तत्कोविशेषः प्रमेयस्य पतिपशुरूपतायाम् ? उच्यते, तस्येति, पशुकर्तृका सृष्टि -
अव्यामिश्र इति । अव्यामिश्रम् - विषयावच्छेदेन अन्येन सह व्यामिश्रताम् अगतं यत् स्वसंवेदनम् - स्वरूपभूतं संवेदनम्, तदेव अवगमः - ज्ञानम्, सः स्वरूपं यस्य । अत्रापि पर्यायमाह असङ्कीर्ण इति । प्रतिपुरुषं नियताहम्प्रकाश - रूपस्येत्यर्थः । प्रकल्प्याः इति व्याचष्टे कल्पनीयाः इति ।
कामिरित्यपेक्षायां तत्तद्विभिन्न इति पदं व्याचष्टे प्रतिप्राणि इति । प्रतिप्राणि या स्ववासनानिजो भावनारूपः संस्कारः, तस्य अनुसारेण - अनुरोधेन । युक्तत्वेन अध्याहृत्य एतत् कथितम् ।
सञ्ज्ञाः एव स्फुटीकरोति प्रियोऽयम् इति । ननु ताभिः सञ्ज्ञाभिः क उपयोग इत्यपेक्षायां स्वयमेव किञ्चित् कथयति भावना इति ।
ननु ताः सञ्ज्ञाः कुत्र उपयुक्ता इत्यपेक्षायां स्मृत्युत्प्रेक्षादिगोचरे इति व्याचष्टे स्मरणे इति । आदि शब्दग्राह्यं वस्तु कथयति सङ्कल्पने इति । प्रिये हि स्मृते सुखमुत्पद्यते शत्रौ तु दुःखमिति स्वयं योजनीयम् । नन्वेतेन किमुक्तं भवतीत्यत आह एतदुक्तं भवति इति । उक्तमेव दर्शयति ईश्वरस्य इति । शुद्धविमर्शविषयीभाव्याः - अङ्गुलीनिर्देशप्रख्येदन्ताविमर्शविषयीभावयोग्याः ।
अन्योन्यापोहनहेवाकिनि - परस्य व्यावृत्तिकरणहठयुक्ते, व्यवहारोपयोगात् इति । अन्यथा सङ्कीर्णत्वेन व्यवहारो न युक्तः स्यादिति भावः ।
अथ द्वितीयस्य श्लोकस्य टीकां करोति ननु इति
अत्र टीका : -
पतिपशुरूपतायाम् - लक्षणया ईश्वरप्रमेयताभावे पशुप्रमेयताभावे च ।
स्तेषामर्थानामीश्वरसृष्टानामुपरिवर्तिनी, अत एव तामीश्वरसृष्टिमुपजीवन्ती असाधारणी प्रतिप्रमातृनियता ।
तद्यथा इदं हृद्यम् इति येन सृष्टं तत् तस्यिव तदा नान्यस्य । ननु यदि पशोरपि सृष्टिशक्तिरस्ति तर्हीश्वर एव ? सत्यम्, ईश्वर एवासौ ।
नन्वेवं साधारणत्वं कस्मात् सृष्टेर्न भवति ? भवेत् यदि स्वशक्तिं परिजानीयात्, यावता सा तस्यापरिज्ञाता परवशस्यैव सतो विकल्पक्रिया विकल्पनशक्तिरुदेति । ननु केन सा तस्योत्थाप्यते ? आह - ईश्वररस्य परामर्शरूपतया शब्दराशिलक्षणस्य
अवतरणिकां कृत्वा श्लोकं व्याख्यातुं परिहारकथनं प्रतिजानीते उच्यते इति । तस्य इत्यस्य कर्तरि षष्ठीत्वं दर्शयति पशुकर्तृका इति । सृष्टिः इति निगदव्याख्यातम् । उपरिवर्तिनी इति ।
ईश्वरसृष्टपुत्राद्युपरि एव हि पुरुषो हृद्यत्वादि सृजति । एतच्च युक्तत्वेन अर्थादेवानीतम् । एतदवष्टम्भेन ईशसृष्ट्युपजीविनी इति व्याचष्टे अत एव इति । उपजीवन्ती - अपेक्षमाणा, अन्यथा निर्विषयत्वादिति भावः । असाधारणी इति व्याचष्टे प्रतिप्रमातृनियता इति । नियतत्वमेव दर्शयति तद्यथा इति । अत्र शिष्यः प्रश्नयति ननु इति । गुरुः परमार्थदृष्टिमाश्रित्य अङ्गीकारं करोति सत्यम् इति । असौ - पशुः । पुनरपि शिष्यः प्रश्नयति नन्वेवम् इति । एवं सतीत्यर्थः । कस्मान्न भवति इति ।
ईश्वरसृष्टेः साधारणत्वमेव युक्तमिति भावः । गुरुः उत्तरयति भवेत् इति । भवेत्, स्यादित्यर्थः । तर्हि भवत्येव इत्यत आह यदि इति ।
पशुरिति शेषः । न तु जानातीति भावः । ननु कथं न जानातीत्यपेक्षायामवशिष्टं द्वितीयश्लोकस्योत्तरार्धं तृतीयश्लोकं च व्याचष्टे यावता इति । यावता - यस्मात्कारणात्, सा - सृष्टिरूपा । तस्य - पशोः, विकल्पक्रिया - विकल्पक्रियारूपा, विकल्पनशक्तिः - विकल्पकरणशक्तिः । उदेति - उत्पद्यते । ननु सा उदेतु, परवशशक्तेः स्वयमुत्थानासम्भवात् कस्तामुत्थापयतीत्याह ननु इति । उत्तरं कथयति आह इति ।
किमाहेत्यपेक्षायाम् ईशशक्त्या इति व्याचष्टे ईश्वरस्य इति ।
परामर्शरूपतया - आन्तरशुद्धपरामर्शभावेन, शब्दराशिलक्षणस्य - अकारादिशब्दराशिस्वभावस्य । ईश पदेन शक्ति पदस्य समासं कुर्वन् मध्ये स्वविश्रान्त्युपरोधाय
या शक्तिः स्वरूपविश्रान्तिलक्षणपारमैश्वर्योपरोधप्रयोजन- ब्राह्म्यादिदेवताचक्रमयी [स्वरूपविश्रान्तिलक्षण - पारमैश्वर्योपरोधप्रयोजना ब्राह्म्यादिदेवता - चक्रमयी - क्। ष्।
ष्।] तैस्तैः ककारादिवर्णवैचित्र्यैर्विचित्रा, तया यासौ विकल्पक्रिया तस्य पशोरेकत्र निरूढ्यभावात् चञ्चला, तेन मित्रमिदं [मित्रमयम् - क्। ष्। ष्।] शत्रुरयम् इत्यादिवर्णवैचित्र्यानुविद्धा, [अनुविद्धतया - क्। ष्। ष्।] तया विकल्पनक्रियया तदात्मन ईश्वरस्वभावस्यैव पशोरसाधारणी सृष्टिः ।
इति योजनापूर्वं व्याचष्टे स्वरूप इति । स्व इत्यवयवं व्याचष्टे स्वरूप इति । चतुर्थीविभक्ति व्याचष्टे प्रयोजन इति । शक्ति पदं व्याचष्टे ब्राह्म्यादि इति । स्वरूपविश्रान्तिलक्षणः - स्वरूपविश्रान्तिस्वरूपः यः पारमैश्वर्योपरोधः - पारमैश्वर्याख्यधर्माश्रयणम् सः प्रयोजनम् यस्य तादृशम् यत् ब्राह्म्यादिदेवताचक्रम् - अवर्गादिशवर्गान्तरूपं ब्राह्म्यादिमातृकाऽष्टकम्, तन्मयी - तत्स्वरूपा । तत्तद्वर्ण इत्यादिपदम् एतद्विशेषणत्वेन व्याचष्टे तैस्तैः इति । अवर्गे तादृग्वैचित्र्याभावमपेक्ष्य [तादृग्वैचित्र्याभावमुपेक्ष्य - च्।] ककारादि इत्युक्तम् । अकारस्य हि शक्तिपञ्चकवशेन वैचित्र्यं हि कवर्गः, इकारस्य च चवर्गः इत्यादि । तया - प्रोक्तया शक्त्या, याऽसौ विकल्पक्रिया, विकल्पो हि वर्णमय एव शब्दस्मृतिरूपत्वात् ।
चलया इति विशेषणत्वेन व्याचष्टे तस्य इति । तस्य - एतदाश्रयत्वेन स्थितस्य, पशोः - अणोः, निरूढ्यभावात् - विश्रान्त्यभावात्, चञ्चला, एतत्फलितत्वेन तत्तद् इति पदमत्र विशेषणत्वेन योजयति तेन इति । तेन - चञ्चलत्वेन, मित्रमिदम् शत्रुरयम् इत्यादि यत् वर्णवैचित्र्यम् तेन अनुविद्धा - व्याप्ता, प्रोक्तविषेषणस्य पदस्य पुनः परामर्शं करोति आशङ्कायां प्रोक्तस्य केन इत्यस्य विषयदानेन आकाङ्क्षां च पूरयति तया विकल्पनक्रियया इति ।
तदात्मनः इति समस्तं पदं विग्रहपूर्वकं व्याचष्टे ईश्वर इति । एतेन तस्य - ईश्वरस्य, आत्मनः पशोः इति तदात्मनः इति षष्ठीतत्पुरुषः सूचितः । असाधारणी सृष्टिः विकल्पसृष्टिः, भवतीति शेषः । सुगमत्वेन
पञ्चवक्त्रश्चतुर्दन्तो हस्ती नभसि धावति ।
इत्यपिविमिश्रतायां [विमिश्रतया - क्। ष्। ष्।] विकल्पसृष्टिः, तानाभासान् ईश्वरसृष्टानेवोपजीवति इति सर्वा पाशवी [पाशवी प्रत्ययसृष्टिः - क्।ष्।ष्।] सृष्टिः प्रत्ययसृष्टिरीश्वरसृष्ट्युपजीविनीत्युक्तम् ॥ १० ॥
प्राणरूपया इति न व्याख्यातम् । ईशसृष्ट्युपजीविनी इत्यस्य समर्थनं करोति पञ्च इति विमिश्रतायाम् - दन्तादिगते अपूर्वपञ्चत्वादियोजने, हस्तिनि अपूर्वनभोधावनयोजने च, तान् आभासान् - दन्तपञ्चकादिरूपान् आभासान्, उपजीवति - अपेक्षते, सर्वं हि एतत् यत्र तत्र व्यस्तत्वेन ईश्वरेणैव सृष्टमस्ति, जीवस्तु तत्र स्वेच्छया योजनामात्रमेव करोति । ईश्वरसृष्टत्वाभावे तु सः किं केन योजयेदिति भावः । इति - अतः कारणात्, सर्वा पाशवी सृष्टिः - जीवसृष्टिः, प्रत्ययसृष्टिः - विकल्पसृष्टिः, ईश्वरसृष्ट्युपजीविनीत्युक्तम्, एतत्कथितमित्यर्थः ।
एवमत्र श्लोकत्रये सङ्क्षिप्तार्थः । तु - व्यतिरेके, प्रत्यगात्मनः - प्रतिपुरुषं स्थितस्य पशुरूपस्य जीवस्य कर्तुः, ते भिन्नावभासार्याः - सामान्यविशेषरूपाः आभाससाराः परस्परतः स्वतश्च भिन्नाः नीलसुखादिरूपाः पदार्थाः, स्मृत्युत्प्रेक्षादिगोचरे - स्मृत्यादिविषयीभावे, तत्तद्विभिन्नसञ्ज्ञाभिः [तत्तद्वैचित्र्य - च्।] - ताभिः ताभिः भिन्नपशुत्वादिरूपाभिः डित्थत्वादिरूपाभिश्च सञ्ज्ञाभिः, प्रकल्प्याः - प्रकर्षेण कल्पनीयाः, भावनाविशेषेण सुखदुःखाद्युत्पादकत्वात्, तस्य प्रत्यगात्मनः सृष्टिः - भिन्नावभासार्थविषयतत्त्वसञ्ज्ञाकल्पनरूपा विकल्पसृष्टिः, असाधारणी भवति । नहि एकस्य मित्रादि अन्यस्यापि तदेव । तथा ईशसृष्ट्युपजीविनी - ईशसृष्ट्युपरिस्थितत्वेन तदपेक्षिणी भवति ।
ईशसृष्टे पुरुषे एव हि उपरि जीवः मित्रत्वं योजयति
नन्वेवं यदि पाशवी सृष्टिः संसाररूपा तर्हि पारमेश्वरी सृष्टिः पशोः किं कुर्यात् ? इति निर्णीयते -
न तु स्वरूपेणापि तद्देहं सृजति, सा एषा अपि - प्रोक्तजीवसृष्टिरपि, अज्ञतया सत्या एव - स्वशक्तित्वेन अज्ञाततया वर्तमानैव, अन्यथा अस्याऽपि ईश्वरत्वापातात्, तदात्मनः - तस्येश्वररूपस्य पशोः सम्बन्धिन्या, चलया तथा प्राणात् रूपं यस्याः तादृश्या, प्राणसिद्धया, तथा तत्तद्वर्णवैचित्र्यचित्रया विकल्पक्रियया भवति । विकल्पनेनैव हि जीवः सर्वानाभासानुत्पादयति । ननु तस्य पशोः केन हेतुना सा विकल्पक्रिया अस्तीत्यपेक्षायामाह स्वविश्रान्त्युपरोधाय इति । ईशशक्त्या इति योजनीयम् । स्वैश्वर्य - विश्रान्त्याश्रयणाय या ईशस्य शक्तिः - अवर्गादि रूपवर्गाष्टकवाच्य - ब्राह्म्यादिमात्रष्टकरूपा शक्तिः तया, स्वां शक्तिम् उद्भाव्य स्वमैश्वर्यं प्रकटीकरोति । पशुरूपं जीवञ्च तद्रूपविकल्पवशेन परवशीकरोति । तदुक्तं स्पन्दशास्त्रे -
शब्दराशिसमुत्थस्य शक्तिवर्गस्य भोग्यताम् । कलाविलुप्तविभवो गतः सन् स पशुः स्मृतः ॥
इति । अत्र च क्रियाधिकारे कृतैव विवृतिरिति न पुनरायस्तम् ।
ईश्वरशक्त्या कीदृश्या ? तत्तत् यद्वर्णरूपम् - ककारादिवर्णरूपम्, वैचित्र्यं तेन चित्रया - आश्चर्यकारिण्या, ब्राह्मीवाचकादवर्गात् वैचित्र्यरूपं माहैश्वर्यादिवाचकं कवर्गादिसप्तकं जायते । तत्र अवर्णात् कवर्गः हकारश्च [कवर्गः हकारश्च इति च - च्]
अकुहविसर्जनीयानां कण्ठः
इति वचनात् । अकार एव हि कण्ठे स्थूलत्वमासाद्य कवर्गहकारविसर्जनीयभावेन स्फुरति । इकारात् चवर्गः यकारश्च
इचुयशानां तालु
इति वचनात्, एवं सर्वत्र योजनीयम् । या तु अवर्गे अकारादिभ्य आकाराद्युत्पत्तिः सा सूक्ष्मत्वेन नेह गणनीया । तथा हि अकारः चिच्छक्तियुक्ते अनुत्तरे स्वरूपे सङ्केतितः । तस्यैव स्वान्तर्लीनाऽऽनन्दशक्तिप्रादुर्भावे आकारभावेन स्फुरणम् ।
तस्यैव चिन्मयत्वेन इच्छाशक्तिप्रादुर्भावे इकारोदयः । तस्या
साधारणोऽन्यथा चैशः सर्गः स्पष्टावभासनात् । विकल्पहानेनैकाग्र्यात् क्रमेणेश्वरतापदम् ॥ ११ ॥
ऐश्वरः सर्गोद्विधा, साधारणञ्च घटादिरसाधारणश्च अन्यथा [अन्यथा इति निर्दिष्टः - क्। ष्। ष्।] निर्दिष्टो
एषणीयाख्यविषयलामे ईकारोदयः । उन्मेषाख्यज्ञानशक्ति- प्रादुर्भावे उकारोदयः । तस्यैव स्थौल्यरूप ऊह प्रादुर्भावे ऊकारोदयः । ततः कस्यापि वर्णस्य अनुत्पादकः इच्छाशक्त्युद्दीपनरूपः ऋकारः । अग्निवाचको हि रकारः, इच्छाशक्तिः इकारः, तयो संयोगः ऋकारः । तस्य पुष्टता ॠकारः ।
तथा इच्छाशक्तेः आस्वादरूपः ऌकारः । लकारो हि दन्त्यत्वेन रसवाचकः, रस एव चास्वादः, इकारेण मिलितः स एव ऌकारः ।
तत्स्थौल्यं ॡकारः । अनुत्तरेच्छयोः संयोगः एकारः । पुनः अनुत्तरेण प्रमात्रा संयोगः ऐकारः । अनुत्तरस्य उन्मेषेण संयोगः ओकारः । पुनरपि अनुत्तरेण प्रमात्रा संयोगे औकारः ।
अनुत्तरस्य स्तोकं पुष्टतापत्तिः विसर्जनीयः । उन्मेषस्य स्तोकं पुष्टतापत्तिः अनुस्वारः । एतावत् पर्यन्तं सूक्ष्मसृष्टिः । इयमेव च
कलाविलुप्तविभवः
इत्यनेन पदेनोक्ता । अकारादिकलाभिर्हि भेदापादिकाभिः श्रीशिवस्यकत्वलक्षणो विभवो विलुप्यत एव । इतः परं तु स्थूलसृष्टिः अकार - इकार - उकार - ऋकार - ऌकारस्थूलतारूपत्वात् कवर्गादि सप्तकस्येत्यलम् प्रपञ्चेन । तत्तद्वर्ण इति पदं तन्त्रेणोभयत्र सम्बन्धनीयम् ॥ १० ॥
अथैकादशस्य श्लोकस्यावतरणिकां करोति नन्वेवम् इति ।
स्पष्टम् । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे साधारण इति ।
अत्र टीका : -
ऐशः इति पदं व्याचष्टे ऐश्वरः [ऐश - च्।] इति ।
द्विधात्वमेव स्फुटीकरोति साधारणश्च इति । अन्यथा निर्दिष्टः इत्यनेन अन्यथा इत्यस्य
द्विचन्द्रादिः; तस्य च सामान्यलक्षणं स्पष्टावभासनं नाम ।
सोऽयं सर्गो यदा विकल्पहानक्रमेण तस्मिन्निर्विकल्पकपरिगृहीत एव स्पष्टाऽभेर्थ एकाप्रत्वमवलम्ब्य अहमिदम् इत्यैश्वर्यपरामर्शपदं भवति तदा अन्तर्लक्ष्यबहिर्दृष्टिनिमेषोन्मेषपरिहारदिशा [निमेषोन्मेषपरिहारोपदेशदिशा - क्। ष्। ष्।] क्रमेण अभ्यासतारतम्येन पशोः पशुत्वं प्रतिहन्तीश्वरत्वं च दर्शयति । किं च योऽयं विकल्पसर्गः
व्याख्या । स्पष्टावभासनात् इति योजयति तस्य च इति । तस्य द्विविधस्य सर्गस्य स्पष्टावभासयुक्तत्वादिति भावः ।
पूर्वार्धं व्याख्याय उत्तरार्धं व्याचष्टे सोऽयम् इति । सोऽयम् सर्गः - द्विविधः ऐशः सर्गः । विकल्पहानेन क्रमेण इति पदद्वयं व्याचष्टे यदा इति । विकल्पहानक्रमेण - तत्त्वाभ्यासादिसाधितविकल्पत्यागक्रमेण । तस्मिन् - ऐशसर्गरूपे, एकाग्रत्वम् - एकाग्रभावम् । अवलम्ब्य - आश्रित्य । एतेन ऐकाग्र्यात् इति ल्यब्लोपे पञ्चमीति द्योतितम् । ईश्वरतापदम् इति व्याचष्टे अहम् इदम् इति ऐश्वर्यपरामर्शपदम् - ईश्वरसम्बन्धिपरामर्शपदं भवति । यदा इत्यस्याकाङ्क्षां पूरयितुं फलितरूपं किञ्चित्स्वयमेव कथयति । तदा इति । तदा अन्तर्लक्ष्य - बहिर्दृष्टिनिमेषोन्मेषपरिहारदिशा
अन्तर्लक्ष्यो बहिर्दृष्टिर्निमेषोन्मेषवर्जितः । एषा वै शाम्भवी मुद्रा सर्वशास्त्रेषु गोपिता ॥
इति महारहस्यशास्त्रोक्तक्रमेण, अभ्यासतारतम्येन - अभ्यासपराकाष्ठासादनेन, पशोः पशुत्वं प्रतिहन्ति - नाशयति, ईश्वरत्वम् - परमार्थेन स्थितम् ईश्वरत्वम्, च दर्शयति - प्रकटीकरोति । तदुक्तम् : -
सेयं क्रियात्मिका शक्तिः शिवस्य पशुवर्तिनी । बन्धयित्री स्वमार्गस्था ज्ञाता सिद्ध्युपपादिका ॥
इति । तत्र अन्तर्लक्ष्य इत्यस्यायमर्थो भवेदिति शेषः । पुरुषः अन्तः - सर्वान्तः सारत्वेन स्थितं शुद्धचिन्मात्राख्यम् आन्तरं वस्तु, लक्ष्यम् - अवधानविषयो यस्य
पाशव उक्तः सोऽपि यदि अन्यथा इति पूर्वोक्तरूपवैपरीत्येन परिज्ञातयेशशक्त्या परिज्ञाततादात्म्यस्य भवति तदा सोऽपि साधारण एवाप्यायनाभिचरणशान्त्यादिविकल्प इव न्यस्तमन्त्रस्य भावितान्तः - करणस्य ॥ ११ ॥
तादृशः । तथा बहिः - बाह्ये - कुत्रापि धारणया गृहीते बाह्यवस्तुनि, दृष्टिः - चक्षुः यस्य तादृशः । तथा निमेषोन्मेषाभ्यां तत्रैव वस्तुनि बद्धदृष्टित्वेन वर्जितः भवेत्, स्वभाववशेनैव दृष्टिक्षये निर्विकल्पत्वासादनात्, अन्यथा चिन्मात्रावधानपरस्यापि स्वभाववशेन बाह्यसङ्कल्पस्फुरणात् । मूढस्य तु उन्मेषनिमेषत्यागेन सिद्धाऽपि निर्विकल्पता जाड्यरूपैव इति अन्तर्लक्ष्य इत्युक्तम् । अथवा अन्तर्लक्ष्यत्वं सर्वत्र चिन्मयताभावनम् । बहिर्दृष्टित्वं लौकिकवत् बाह्यवस्तुषु व्यवहरणम् । उन्मेष निमेषराहित्यम् तद्विषयसङ्कल्पविकल्पराहित्यम् उक्तम् इत्यलं रहस्योद्धाटनेन ।
पण्डितैः एषा सर्वशास्त्रेषु गोपिता शाम्भवीमुद्रा - शाम्भवोपायरूपा मुद्रा - आनन्दप्रदायिनी विशिष्टावस्थितिः, प्रोक्ता इत्येतेन साधारणैशसर्गद्वारेण निर्विकल्पतासादनमुक्तम् ।
अधुना अन्यथा इत्यनेनोक्तम् असाधारणसर्गद्वारेणापि तदासादनं पक्षान्तररीत्या कथयति किञ्च इति । पाशवः - पशुनिष्ठत्वेन ईश्वरेणोत्पादितः द्विचन्द्रादिरूपः, पूर्वोक्तरूपवैपरीत्येन परिज्ञातया - मातृकाभाववैपरीत्येन ज्ञातया, शुद्धाऽहं परामर्शभावेन ज्ञातयेति यावत् । परिज्ञातं तादात्म्यम् - ईश्वरेण सह स्वस्यैकात्म्यं येन तादृशस्य, भवति । तदासोऽपि - सर्गः, साधारण एव भवति येन योगिकल्पितं वस्तु सर्व एव पुरोऽनुभवन्ति । न चेह ईश्वरोऽहम् इति वाचा कृतेन अभिमानेन भ्रमितव्यम् । अत्र हि भावनादार्ढ्यमुपयुक्तम् अन्यथा ऐन्द्रजालिकमायोत्पादकेषु मन्त्रेषु भावनादार्ढ्यं न कुर्युः ।
न च सहजज्ञानयुक्तैरत्र भ्रमितव्यम् इत्यलं बहुना । अत्र दृष्टान्तमाह आप्यायन इति । आप्यायनम् - पुष्टिः, अभिचरणम् अभिचारः, शान्तिः - शान्तिकर्म, आदि शब्देन समस्तमन्त्रादिसाध्यवस्तुग्रहणम् । न्यस्तमन्त्रस्य - प्रयुक्तमन्त्रस्य मान्त्रिकस्येत्यर्थः । मन्त्रोच्चारणमात्रेण एतदभिमानग्रस्तान् प्रति उक्तम् भावितान्तःकरणस्य इति । मन्त्रे भावनायुक्तचित्तस्येत्यर्थः ॥ ११ ॥
एवं विकल्पनिर्ह्वासेन निर्विकल्परूपसात्मीभावे विश्वात्मकसाक्षात्कारलक्षणः [विश्वात्मसाक्षात्कारलक्षणः - क्। ष्। ष्।] स्वप्रत्यय एव मोक्षो दर्शितः, अधुना विकल्पनिर्ह्वासाभावेऽपि तं दर्शयति -
सर्वो ममायं विभव इत्येवं परिजानतः । विश्वात्मनो विकल्पानां प्रसरेऽपि महेशता ॥ १२ ॥
नहि सः प्रत्यगात्मा [नहि प्रत्यगात्मा नाम - क्। ष्। ष्] नाम पशुः कश्चिदन्यो योऽहम्, अपि तु परिगृहीतग्राह्यग्राहकप्रकाशैकघनः परो यः स एवाहं स चाहमेव, न
अथ द्वादशस्य श्लोकस्यावतरणिकां करोति एवम् इति ।
अत्र टीका : -
विकल्पनिर्ह्वासेन - विकल्पहानेन, निर्विकल्परूपेण यः स्वात्मीभावः - ऐक्यम्, तस्मिन् ।
विश्वात्मकसाक्षात्कारलक्षणः - परशिवसाक्षात्कार - स्वरूपः, स्वप्रत्यय एव - आत्मज्ञानमेव, न तु व्यतिरिक्तपरमेश्वरप्रत्ययः । विकल्पनिर्ह्वासाभावेऽपि - विकल्पहानाभावेऽपि, तम् - मोक्षम् । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे सर्वो मम इति ।
अत्र टीका : -
विश्वात्मनो मम इति भागं व्याख्यातुं प्रक्रियां करोति न हि इति । हि - यस्मात्, सः प्रत्यगात्मा नाम - प्रत्यगात्माख्यः, पशुः - अणुः, अन्यः - परमेश्वराद्भिन्नः कश्चिन्न तु अस्ति । सः कः ? यः अहम् मम इति षष्ठ्यन्तपदेन स्वामित्वेन उक्तोऽस्तीति यावत् । पुनः अहम् इति कोऽस्तीत्यपेक्षायां पक्षान्तररीत्या कथयति अपि तु इति । परिग्रहीतौ - साक्षित्वेन स्थित्वा ग्रहणविषयीकृतौ, ग्राह्यग्राहकौ येन तादृशः यः प्रकाशः तेन घनः - निबिडः ।
यः परः - सर्वोत्तीर्णत्वेऽपि सर्वमयं वस्तु भवति स एवाहम् ।
ननु त्वं सः भव, स तु त्वं नास्ति, तस्य सर्वत्वात् इत्यत आह स च इति । स च - परश्च, अहमेव, सर्वत्रापि अहम् इत्येव स्थितत्वात् ।
स्थावरेष्वपि
त्वन्यः कश्चित्; अतो विकल्पसृष्टिरपि मम स्वातन्त्र्यलक्षणो विभवः, - इत्येवं विमर्शे दृढीभूते सत्यपरिक्षीणविकल्पोऽपि जीवन्नेव मुक्तः । यथोक्तम् -
शङ्कापि न विशङ्क्येत निःशङ्क्त्वमिदं स्फुटम् ।
इति ॥ १२ ॥
हि अहं प्रतीतिरस्त्येव अन्यथा वृक्षस्य स्वं प्रति रसाकर्षणायोगात् । तु व्यतिरेके, अन्यः कश्चित् अहं न भवति, इदन्ताविषयत्वेन जडत्वापातात् । एतदवष्टम्भेन श्लोकं व्याचष्टे अतः इति । तत्रापि सर्वोऽयम् इति व्याचष्टे विकल्पसृष्टिः इति । अपि शब्दात् ईशसृष्टेर्ग्रहणम् । मम - परमार्थतः प्रोक्तरूपस्य, आपाततस्तु देहादिप्रमातृत्वेन स्थितस्य अस्मच्छब्दवाच्यस्य वस्तुनः सम्बन्धि । विभवः इति व्याचष्टे स्वातन्त्र्य इति । स्वातन्त्र्यमेव हि विभवः न द्रविणादीति भावः । इत्येवं परिजानतः इति व्याचष्टे इत्येवम् इति ।
विकल्पानां प्रसरेऽपि इति व्याचष्टे अपरिक्षीण इति । अपि शब्देन तेषां बाहुल्येन विकल्पराहित्यमेव भवेत्, परन्तु देहस्वभाववशेन कदाचिदागतानां विकल्पानां प्रसरेऽपि तेषां महेशतैवेति ज्ञेयम् । न तु सर्वदा विकल्पग्रस्तेध्वयं विधिः, अस्य परामर्शस्य तत्राभावात् । अपि शब्दः काकाक्षिन्यायेन द्विर्योजनीयः । महेशता इति पदं व्याचष्टे जीवन्नेव मुक्तः इति । मुक्तिर्हि महेशभावासादनमेवेति भावः ।
जीवत्वं चात्र विकल्पप्रसरेणैवाक्षिप्तम् । अत्र पूर्वाचार्यसम्मति कथयति यथोक्तम् इति । किमुक्तमित्यत आह शङ्कापि इति ।
अत्रायमर्थः । योगवशेन प्रक्षीणीभूताभिर्वस्तुशङ्काभिरलम् ।
योगिनां शङ्कापि - कदाचिद्देहस्वभावेन आगता विकल्परूपा शङ्कापि, न विशङ्क्येत - न विशङ्कनीया, किमर्थमियमागता इति न शङ्काविषयीकार्या, क्षोभावहत्वादिति यावत् । किन्तु अनादरविषयतामेव नेयेतिभावः । तदुक्तम् :-
अनादरविरक्त्यैव न पश्यन्तौन्द्रियसंविदः ।
इति । इदं स्फुटम् - प्रकटम्, निःशङ्कत्वं भवति - शङ्काग्रस्तस्य स्फुटमेव सशङ्कत्वात् इति । न च सर्वदा विकल्पग्रस्तैरयमभिमानः कार्यः, असम्भवोपहतत्वात्,
नन्वेवं बद्धमुक्तयोः प्रमेयं प्रति को भेदः ?, उच्यते -
मेयं साधारणं मुक्तः स्वात्माभेदेन मन्यते । महेश्वरो यथा बद्धः पुनरत्यन्तभेदवत् ॥ १३ ॥
श्रीमत्सदाशिवेश्वरपदादारभ्य क्रिमिपर्यन्तप्रमातृवर्गाधिष्ठातृ यदहमितिरूपं -
ये तु विकल्पग्रस्तत्वेऽपि स्वात्मानं तथा न जानते, सन्निपातदोषग्रस्तेभ्यस्तेभ्यो दूरतो नम एव कार्यमित्यलं बहुना । सर्गः इत्यस्य स्थाने सर्गः इति प्रशस्तः पाठः । सर्व शब्दो हि सामान्येन जीवेशसृष्ट्योः आक्षेपं करोति, न तु विकल्पसृष्टेरेव । सर्गः इति पाठे तु अयम् इत्यनेन प्रकृतविकल्पपरामर्शः । सर्ग पदेन सृष्ट्यभिधानम् । अयं सर्गः, जीवसृष्टिरूपा विकल्पसृष्टिरित्यर्थः । अपि शब्दात्तु ईशसृष्टेर्ग्रहणम् । काश्मीरिकलेखकैस्तु स्तोकं सादृश्यवशेन सर्ग इत्यस्य स्थाने सर्व इति पाठो लिखितः । सहृदया एवात्र प्रमाणम् । कुत्राप्यादर्शे सोऽहम् इत्यपि पाठोऽस्ति, स तु न युक्तः ।
मम विश्वात्मनः इत्यस्य व्याख्यार्थं कृतेन प्रपञ्चेन कृतभ्रमसिद्धत्वात् [इत्यस्य व्याख्यार्थं कृतेन प्रपञ्चेन कृतभ्रमसिद्धत्वात् - च्।] । एतन्मात्रनिर्णयपरेऽत्र शास्त्रे स्थितस्यास्य श्लोकस्यानुवादकत्वापत्तेश्च । न च सूत्रेष्वनुवादोयुक्तः । टीकाकारेण तु विश्वात्मनः इत्यस्य व्याख्यानुरोधेन कृतोप्यनुवादो न दोषमावहतीत्यलं बहुना प्रतिभान्वितेषु, तद्रहितानान्तु अत्रानधिकारात् । अथवा सर्व शब्द एव सृष्टिवाचकः, अयम् शब्देन तु तस्य प्रकृतविकल्पभावेन परिच्छेदः क्रियते इति ॥ १२ ॥
अथ त्रयोदशस्य श्लोकस्यावतरणिकां करोति ननु इति । स्पष्टम् ।
एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे मेयम् इति ।
अत्र टीका : -
श्लोकं व्याख्यातुमवतरणिकां करोति श्रीमत् इति । अधिष्टातृ, प्रेरकम्,
तदेवात्मतयाभिनिविशते मुक्तः, ततश्च विश्वस्यापि प्रमेयं ममापि, मम प्रमेयं विश्वस्यापि, प्रमेयं चेदं ममैवाङ्गभूतं प्रमेयान्तरमपि तथा, - इत्यनेन क्रमेण प्रमेयं परस्परतश्च प्रमातृवर्गाच्चाव्यावृत्तम्, - इत्येकरसाभेदविश्रान्तितत्त्वमस्य सर्वं परामर्शपदमुपैति ।
बद्धस्य तु सर्वमेतद्विपरीतम्, - इत्येकरसभेदविश्रान्त एवासौ ॥ १३ ॥
ननु सदाशिवेश्वरभुवि जीवन्मुक्तिपदे बद्धरूपपशुप्रमातृविषये च प्रमेयवृत्तान्तः परीक्षितः, परमशिवे तु कथमसौ ? इत्याशङ्क्याह -
सर्वथा त्वन्तरालीनानन्ततत्त्वौघनिर्भरः । शिवः चिदानन्दघनः परमाक्षरविग्रहः ॥ १४ ॥
न खलु भगवति श्रीपरमशिवे प्रमेयकथा काचिदस्ति, तत्त्वौघस्य
अभिनिविशते - मन्यते । एतेन मन्यते इत्यस्य व्याख्या । अन्यथा मुक्तत्वायोगादिति भावः । एतदवष्टम्भेन श्लोकं व्याचष्टे ततश्च इति । विश्वस्य - सर्वस्य प्रमातृवर्गस्य । एतेन मेयं साधारणम् इत्येतयोर्व्याख्या । स्वात्माभेदेन इति व्याचष्टे ममैवाङ्गभूतम् इति । तथा - ममाङ्गभूतम् । अव्यावृत्तम् - अभिन्नम् । एकरसो यः अभेदः तत्र या विश्रान्तिः सा एव तत्त्वं यस्य तादृशम् । अस्य - मुक्तस्य, परामर्शपदम् - परामर्शविषयम्, उपैति इति, सर्वत्राऽहमिति ग्रहणादिति भावः । महेश्वरो यथा इति दृष्टान्तपदं सुगमत्वेन न व्याख्यातम् । बद्धः इत्याद्यवशिष्टं श्लोकखण्डं व्याचष्टे बद्धस्य इति । एतत् स्वकीयं परकीयञ्च प्रमेयमित्यर्थः । विपरीतम् - स्वतः अन्यतश्च व्यावृत्तम्, असौ - बद्धः ॥ १३ ॥
अथ चतुर्दशस्य श्लोकस्यावतरणिकां करोति ननु इति । स्पष्टम् ।
एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे सर्वथा इति ।
अत्र टीका : -
सर्वथा - सर्वप्रकारेण, यत् यथा अस्ति तस्य तथैव स्थित्या । न तु अन्यथाभावाऽऽसादनेनेत्यर्थः । तत्र - तस्मिन् परशिवे, अन्तः तत्त्वौघस्य - शिवादि
सर्वथा तत्र चिद्रूपतामात्रविश्रान्तत्वेन लीनत्वात्, ततश्च सावस्था संवित्स्वभावेन स्वात्मविश्रान्त्यानन्देन अकृत्रिमनैसर्गिकपरामर्शात्मकस्वात्मचमत्कारलक्षणेनैक- घना अविच्छिन्नतद्रूपा परमाक्षरेण विग्रहवती भगवतो विश्वमयस्यानवच्छिन्नानुत्तरधाम्नो [अनवच्छिन्नानुत्तरधाम्नो गलितप्रमेयकथा - क्। ष्। ष्।] नित्यशुद्धस्यगलितप्रमेयकथा सर्वोर्त्तीर्णा व्यपदिश्यते ॥ १४ ॥
धरण्यन्तस्य तत्त्वग्रामस्य । एतद्धेतुकत्वेन उत्तरार्धं व्याचष्टे सावस्था इति । सावस्था - पूर्वोक्ताऽवस्था । चित् इत्यादि समस्तं पदं विग्रहपूर्वकं व्याचष्टे संवित् इति । तत्रापि चिद्रूपता इत्यवयवं व्याचष्टे संवित्स्वभावेन इति । आनन्द इत्यवयवं व्याचष्टे स्वात्म इति । स्वात्मनि विश्रान्तिरूपः आनन्दः स्वात्मविश्रान्त्यानन्दः तेन । स्वात्मविश्रान्त्यानन्दस्य स्वरूपं दर्शयति अकृत्रिम इति । अकृत्रिमः - विषयसाधितत्त्वाभावेन अकल्पितः, अत एव नैसर्गिकः - स्वाभाविकः, तथा परामर्शात्मकः
- अहम् इति पराहन्तापरामर्शरूपः यः स्वात्मचमत्कारः - स्वात्माश्रयः स्वात्मविषयश्च आस्वादः, सः लक्षणम् - स्वरूपं यस्य तादृशः, तेन । घनः इत्यवयवं व्याचष्टे एकघना इति । अत्रापि पर्यायमाह अविच्छिन्नतद्रूपा इति ।
अविच्छिन्नं तद्रूपं यस्याः सा । परमाक्षरविग्रहः इति व्याचष्टे परमाक्षरेण विग्रहवती इति । परमाक्षरेण - सर्वोत्तीर्णाविनाशिस्वभावेन, विग्रहवती - विग्रहयुक्ता ।
परमाक्षरस्वरूपेत्यर्थः ।
सूत्रोक्तसामानाधिकरण्योपपादनाय अस्याः अवस्थायाः परमशिवसम्बिन्धित्वं कथयति भगवतः इति । विश्वमयस्य - पूर्णत्वेन विश्वनिर्भरस्य, तथा अनवच्छिन्नम् - अनुत्तरं धाम यस्य तादृशस्य । नित्यशुद्धस्य, नित्यशुद्धप्रकाश - रूपस्येत्यर्थः । आश्चर्यं च विश्वमयस्य अनवच्छिन्नानुत्तरधामत्वम् । न हि अङ्गिनः स्वाङ्गैः कोऽपि विकार इति तु परिहारः । गलिता प्रमेयकथा यस्यामवस्थायां सा गलितप्रमेयकथा, अत एव सर्वोत्तिर्णा, विश्वोत्तीर्णरूपेत्यर्थः ।
व्यपदिश्यते इति । व्यपदेशमात्रमेवेदम्, परमार्थतस्तु स एव सर्वथा सर्वं स्वयमेव भवति च न भवति च सर्वंसहत्वात् इति का सूत्रे सामानाधिकरण्यद्योतिता सम्बन्धित्वकथेति भावः ॥ १४ ॥
एवमधिकारचतुष्टयोक्तं यद्वस्तु तत्फलितमाह -
एवमात्मानमेतस्य सम्यग्ज्ञानक्रिये तथा । जानन्यथेप्सितान्पश्यञ्जानाति च करोति च ॥ १५ ॥
एवमिति, ईश्वररूपमात्मानं तस्य च स्वाव्यतिरिक्ते स्वातन्त्र्यमात्ररूपे ज्ञानक्रिये जानन् एवम्भूतोऽयमात्मा न तु काणादादिदर्शितः, इत्थं च ज्ञानक्रिये न तु तस्य व्यतिरिक्ते केचन इति परामृशन्, यद्यदिच्छति तत्तज्जानाति करोति च समावेशाभ्यासपरोऽनेनैव शरीरेण । अतत्परस्तु सति देहे जीवन्मुक्तस्तत्पाते परमेश्वर एवेति ॥ १५ ॥
अथ पञ्चदशस्य श्लोकस्यावतरणिकां करोति एवम् इति ।
स्पष्टम् । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे एवम् इति ।
अत्र टीका : -
एवम् शब्दं व्याचष्टे ईश्वररूपम् इति । आत्मानम् इति निगदव्याख्यातम् । एतस्य इति व्याचष्टे तस्य च इति । तस्यात्मनः इत्यर्थः । ज्ञानक्रिये इति व्याचष्टे स्वाव्यतिरिक्ते इति । शक्तिभावेन स्थितत्वादिति भावः । एतेन तथा शब्दस्य समुच्चयद्योतकत्वं सूचितम् । पश्यन् इत्यस्य व्याख्यां करोति जानन् इति । पश्यन् इत्यन्तं कृतां व्याख्यां सङ्ग्रहेण पुनरनुवदिति एवं भूतः इत्यादि परामृशन् इत्यन्तम् । यथेप्सितान् इत्यादि अवशिष्टं श्लोकखण्डं व्याचष्टे यत् इति । समावेशस्य - परमेश्वरैक्यरूपताभवनरूपस्य अभ्यासः तत्र परः - एकनिष्ठः तत्परः । अतत्परः - ज्ञानित्वेऽपि बाह्यव्यवहारे सक्तः । तत्पाते - देहपाते । इति शब्दः समस्तप्रक्रियासमाप्तौ । एतच्च श्री स्पन्दशासने
तदास्याकृत्रिमो धर्मो ज्ञत्वकर्तृत्वस्वलक्षणः । यतस्तदीप्सितं सर्वं जानाति च करोति च ॥
इति श्लोकेनोक्तं ॥ १५ ॥
अस्यार्थस्य स्वप्रत्ययसिद्धस्यापि गुरुपरम्परोपदेश उपोद्बलको वक्तव्यः, शास्त्रदृष्टिर्हि दर्शितागमाधिकारेण । एवं गुरुतः शास्त्रतः स्वतः एतद् दृढीकृतं भवति, इत्यभिप्रायेण गुरुपारम्पर्यं दर्शयति
इति प्रकटितो मया सुघट एष मार्गो नवो
महागुरुभिरुच्यतेस्म शिवदृष्टिशास्त्रे यथा ।
तदत्र निदधत्पदं भुवनकर्तृतामात्मनो
विभाव्य शिवतामयीमनिशमाविशन्सिद्ध्यति ॥ १६ ॥
अस्मत्परमेष्ठिभट्टारकश्रीसोमानन्दपादैः शिवदृष्टिशास्त्रेऽयमभिनवः सर्वरहस्यशास्त्रान्तर्गतः सन्निगूढत्वादप्रसिद्धो बाह्यान्तरचर्याप्राणाया -
अथ षोडशस्य श्लोकस्यावतरणिकां करोति । अस्यार्थस्य इति ।
अत्र टीका : -
अस्यार्थस्य - सः स्वतन्त्रः परमेश्वर एवाहम् इत्येवंरूपस्य रहस्यार्थस्य, स्वप्रत्ययसिद्धस्यापि - स्वानुभवसिद्धस्यापि, उपोद्बलकः - उपोद्बलनकारी । ननु शास्त्रदृष्टिरप्यत्रोपयुक्ता वर्तत एवेत्यत आह शास्त्र इति ।
फलितमाह एवम् इति । एवम् - गुरुपरम्परोपदेशस्य एतदर्थोपोद्बलकत्वे [एतदर्थोपोद्बलके सति - क्। ष्। ष्।] सति, आचार्यः इत्यभिप्रायेण - अनेनाभिप्रायेण, गुरुपारम्पर्य दर्शयति - प्रकटयति । इति कथमिति ? एतत् - अयमर्थः, गुरुतः शास्त्रतः स्वतः दृढीकृतं भवति इति । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे इति इति ।
अत्र टीका: -
महागुरुभिः इति व्याचष्टे अस्मत् इति । शिवदृष्टिशास्त्रे - शिवतत्त्वप्रकटताहेतुभूतत्वेन ज्ञिवदृष्टि पदवाच्ये । अयम् अभिनवः इति व्याचष्टे सर्व इति । निघूढत्वात् इति । तत्र अन्यैरुपायैः सहोक्तत्वेन विविच्य प्रतिभारहितैर्दुर्लभत्वादित्यर्थः । ननु तेषां रहस्यशास्त्राणां रहस्यत्वं किं रूपमस्ति । न हि तत्कारिणः पक्षपातग्रस्ता भवेयुः । सत्यम् । तत्र पक्षपातकथा नास्त्येव, परं तत्र तैः केनापि कारणेन हृद्यं वस्तुजातं सेव्यत्वेन उक्तम् । संसारादुत्थिता हि सर्वथा भोगेभ्यो निवृत्तिपराः प्रवाहागतानपि भोगान् न भुञ्जते । न च
मादिक्लेशप्रयासकलाविरहात् सुघटस्तावदुक्तः, स एवात्र प्रकटतां परवादकलङ्कशङ्कापसारणेन नीतः । यत एवं शास्त्रगुरुस्वप्रत्ययसिद्धोऽयमर्थः,
तद्युक्तम् । देहस्थिति तावद् भोगनिवृत्तेरसम्भवोपहत्वात् । भागतः करणस्य परिहार्यत्वात् ।
भुक्त्वा भोगान् भवभ्रान्तिं हित्वा लप्स्ये परं पदम् । इत्याशंसेह शोभेत शम्भोर्भक्तिमतः परम् ॥
इति शीभट्टनारायणादिभिराशंसाविषयीकृतत्वाच्च । किञ्च तदुत्थहृदयाह्लादोऽपि तान् प्रबुद्धान् प्रति परानन्दोद्दीपक एव भवेत् । अप्रबुद्धास्तु तच्छ्रवणेन विशेषेण विषयश्वभ्रपतिता एव भविष्यन्तीति तेषु दर्शनायोग्यत्वेन तेषां महारहस्यत्वमुक्तम् ।
न तु पक्षपाताभिप्रायेण । ये तु मूढाः विषयग्रस्ताः अधिकारं विनैव तानि शास्त्राण्यवगाहन्ते स्ववञ्चनपरेषु तेषु दया कार्या । अशृण्वते तु दूरत एव नमः कार्यम् । ननु यदि तत्र आनन्दमार्गः सुप्राप्योऽस्ति तर्हि सर्वान् प्रति तद्दर्शनं युक्तमेवेति चेन्न, प्रबुद्धान्प्रति तथात्वेऽपि अप्रबुद्धान्प्रति तथात्वाभावात् । यथाश्वभ्रदेशाग्रे स्थितः पुरुषः स्तोकान्तरे श्वभ्रान्तरे स्थितं रत्नं पश्यन् प्रत्यासन्नत्वेऽपि पातभयेन न प्लुत्या गृह्णाति, किन्तु ततोऽवतीर्यं पुनः श्वभ्रान्तरमारुह्यैव गृह्णाति, तथा रहस्यशास्त्रेषु सेव्यत्वेन प्रोक्तं वस्तुजातम् आनन्दोद्दीपकत्वेऽपि विषयावटभयात् असमर्थैर्न ग्राह्यम्, किन्तु शमादिद्वारेण तत्प्राप्त्यर्थं यत्नपरैरेव भाव्यम् ।
निजसमर्थत्वासमर्थत्वयोः स्वात्मैव साक्षीकार्यः, अन्यथा स्ववञ्चकत्वापत्तेः । यस्तु मूर्छाग्रस्तत्वेन स्वपातमपि नानुभवति तदवस्थायां भगवानेव शरणमित्यलं प्रपञ्चेन । ननु तर्हि कथं तेषु रहस्य - शास्त्रेषु स्फुटं तेषां द्रव्याणामविशेषेण नमस्कार्यत्वमुक्तम् । सत्यम् ।
आनन्दोद्दीपकत्वेअन तत्र नमस्कारोऽपि युक्त एव, सेवनं तु अयुक्तमेव, यथा अशुचिजनघटान्तर्गतो गङ्गोदबिन्दुर्नमस्कारयोग्यत्वेऽपि पानाऽयोग्य एवेत्यलं प्रसक्तानुप्रसक्त्या ।
सूत्रोक्तं सुघटत्वं साधयितुं हेतुमाह बाह्यान्तर इति ।
बाह्यचर्या - यज्ञादि, आन्तरचर्या - भावनादि । सुघटः - सुप्राप्यः । उच्यते स्म इति व्याचष्टे उक्तः इति । ननु तर्हि तैरेवायं मार्गः उक्तः, त्वया किमयं व्यर्थो यत्नः कृत इत्यत आह स एव इति ।
नत्वपूर्वं किञ्चित्कृतमिति भावः । पूर्वार्धं व्याख्यायोत्तरार्धे व्याचष्टे यत एवम् इति । तत्रापि तत् इति व्याचष्टे यतः इति ।
तदिति तस्मादत्र प्रमेयपदे [प्रमेये पदं परामर्शम् - क्। ष्। ष्।] परामर्शं विश्रमयन् विश्वकर्तृत्वलक्षणमैश्वर्यमात्मनो विभाव्य दार्ढ्येन यदा परामृशति तर्हि तत्परामर्शमात्रादेव तावज्जीवन्मुक्तो भगवाञ्छिव एव । यथोक्तं परमेष्ठिपादैः
ज्ञाते शिवत्वे सर्वस्थे प्रतिपत्त्या दृढात्मना । करणेन नास्ति कृत्यं क्वापि भावनयापि वा ॥ सकृज्ज्ञाते सुवर्णे किं भावनाकरणादिना ।
सर्वथा पितृमात्रादि तुल्यदार्ढ्येन सत्यता ॥ (शि । दृ।)
इत्यादि । तां विभाव्य यद्यनिशमाविशति शरीरप्राणबुद्धिशून्येभ्योऽन्यतमं द्वयं सर्वं वा तत्रैव निमज्जयति, अनवरतं तत्तां तां विभूतिं महाविभूतिपर्यन्तां [परविभूतिपर्यन्ताम् - क्। ष्। ष्।] लभते ॥ १६ ॥
इति । एवम् - उक्तप्रकारेण, अत्र इति व्याचष्टे प्रमेयपदे इति ।
प्रमेयपदे - निर्णेयवस्तुनि । पदं निदधत् इति व्याचष्टे परामर्शं विश्रमयन् इति । भवनकर्तृताम् इति पदं व्याचष्टे विश्वकर्तृत्वलक्षणमैश्वर्यम् इति । आत्मनो विभाव्य इति निगदव्याख्यातम् । अत्र मध्ये किञ्चिद् युक्तत्वेन स्वयं कथयति दार्ढ्येन इति । तत् शब्दाकाङ्क्षां पूरयितुं शिवतामयीम् इत्यवशिष्ट श्लोकखण्डं व्याचष्टे तत् इति शिव एव भवतीति शेषः ।
अत्र शिवदृष्टिवाक्यान्युदाहरति यथोक्तम् इति । इत्यादि इति । आदि शब्देन अन्येषां तत्रस्थवाक्यानां ग्रहणम् । अत्र च प्रथममेव व्याख्या कृतेति न पुनरायस्यते । अनिशम् इति पदस्याभिप्रायं प्रकटयति यदि इति । अनिशम् - सततप्रवाहेण, अन्यतमम् - एकम्, तत् - तदा, तां तां विभूतिम् - सिद्धिनिवहम् ।
तदुक्तम् : -
अतो बिन्दुरतो नादः रूपमस्मादतो रसः । प्रवर्तन्तेऽचिरेणैव क्षोभकत्वेन देहिनः ॥
इति । ननु तर्हि तस्य अवान्तरे एव स्थितिर्भवेदित्यत आह महाविभूति - पर्यन्ताम् इति । मध्ये क्षुद्रसिद्धिप्रादुर्भावेऽपि पर्यन्ते तस्य परशिवैक्यरूपमहासिद्धिप्राप्तिरेव भविष्यतीति भावः ॥ १६ ॥
ननु यद्यात्माख्यं वस्तु तदेव तर्हि तस्य प्रत्यभिज्ञानाप्रत्यभिज्ञानयोरविशेषः, न हि बीजमप्रत्यभिज्ञातं सति सहकारिसाकल्ये नाङ्कुरं जनयति, तत् क आत्मप्रत्यभिज्ञाने निर्बन्धः ? उच्यते, द्विविधार्थक्रियास्ति, बाह्य चाङ्कुरादिका, प्रमातृविश्रान्तिचमत्कारसारा च प्रीत्यादिरूपा ।
तत्राद्या सत्यं प्रत्यभिज्ञानं नापेक्षते, द्वितीया तु तदपेक्षते एव ।
अथ सप्तदशस्य श्लोकस्यावतरणिकां करोति ननु इति । तदेव - शिवरूपमेय चेत् तर्हि तस्य - शिवात्मनो वस्तुनः, प्रत्यभिज्ञानाप्रत्यभिज्ञानयोरविशेषः, बीजं प्रमात्रा अप्रत्यभिज्ञातमपि सलिलादिसहकारिसाकल्ये किमङ्कुरं न जनयति ।
प्रमात्रा अप्रत्यभिज्ञातमपि [नहि प्रत्यभिज्ञायैवोक्तं बीजम् …च्।] बीजम् अङ्कुरं जनयत्येव । तद्वदात्माख्यं वस्तु अप्रत्यभिज्ञातमपि शिवरूपमेव । आत्मा ईश्वर इति प्रत्यभिज्ञाने को निर्बन्धः । अप्रत्यभिज्ञानेऽप्यात्मा ईश्वर एव । परिहारमाह - उच्यते इति । अङ्कुरात्मकजडरूपबीजाद्यर्थक्रिया बाह्या, अहंरूपप्रमातृविश्रान्तिचमत्कारसारा च प्रीत्यादिरूपा, इति द्विविधार्थक्रिया । भवदुक्तं सत्यम्, तत्र - तयोर्मध्ये, आद्या प्रत्यभिज्ञानं नापेक्षते । द्वितीया - प्रीत्यादिरूपार्थक्रिया, प्रत्यभिज्ञानम् अपेक्षते एव ।
इह च अहं महेश्वरः इत्येवं भूतचमत्कारसारा परापरसिद्धिलक्षणा जीवन्मुक्तिविभूतियोगमय्यर्थक्रिया, इतीश्वरप्रत्यभिज्ञानमत्रावश्यापेक्षणीयम् । ननु प्रमातृविश्रान्तिसारार्थक्रिया प्रत्यभिज्ञानेन विना न दृष्टा, सति तत्र दृष्टा, इति क्वैतुदुपलब्धमित्याशङ्क्याह -
तैस्तैरप्युपयाचितैरुपनतस्तन्व्याः स्थितोऽप्यन्तिके
कान्तो लोकसमान एवमपरिज्ञातो न रन्तुं यथा ।
लोकस्यैष तथानवेक्षितगुणः स्वात्मापि विश्वेश्वरो
नैवालं निजवैभवाय तदियं तत्प्रत्यभिज्ञोदिता ॥ १७ ॥
तदेव दर्शयति इह इति । इह - ईश्वरप्रत्यभिज्ञाख्ये शास्त्रे, अहं चैत्रः अहं मैत्रः सद्गुरुकटाक्षात् अहम् ईश्वरः एव इत्येवं भूतचमत्कारसारा, परसिद्धिः - जीवन्मुक्तिः, अपरसिद्धिविभूतिः - सृष्ट्यादिना विश्ववशीकरणक्षमा विभूतिः, इत्येतदुभयलक्षणा, इति अस्थामर्थक्रियायाम् यः पुराणागमादिप्रसिद्धः ईश्वरः स एवाहम् इतीश्वरप्रत्यभिज्ञानमवश्यापेक्षणीयमेव ।
पुनश्चोदयति - प्रमातृविश्रान्तिचमत्कारसारार्थक्रिया प्रत्यभिज्ञानेन विना न दृष्टा प्रत्यभिज्ञाने सति अर्थक्रिया दृष्टा इति क्वैतदुपलब्धम् इत्याशङ्क्याह तैस्तैः इति ।
कान्तः - अभीष्टो नायकः द्वीपान्तरस्थितः, तैस्तैः - दूतीसम्प्रेषणैर्देवताप्रार्थनैः, यस्मिन् कस्मिंश्चिन्महाजनसमुदायरूपे महोत्सवे एकत्र मण्डपे समागत्य सविधे च स्थितोऽपि, चिरकालमाकाङ्क्षितः दैवयोगात् सविधे स्थितोऽपि, रूपादिगुणसम्पदा दूतीमुखात् यथापूर्वं श्रुतः, एवम् इति तथा न परिज्ञातः - स्वसमीपेतरजनसमानतया स एवायमित्यपरिज्ञातः, रन्तुं यथा न अलम्, लोकस्य - प्रमातृवर्गस्य, एषः - आत्मा, तथानवेक्षितगुणः - अन्तःस्थितत्वेऽपि अप्रत्यभिज्ञातेश्वरलक्षणः अप्रत्यभिज्ञातात्मनिजवैभवः यः विश्वकर्तृत्वज्ञत्वपूर्णत्वनित्यत्वविश्वव्यापकत्वादिगुणः अहमितिरूपः स्वात्मा विश्वेश्वरः, लोकस्य - जनस्य अहमिति प्रथमानोप्यात्मा अहम् ईश्वरः इति प्रत्यभिज्ञानात्मकनिजवैभवाय नालम् - समर्थो न भवति, तत् - तस्मात्, इयम् - सर्वदाप्रकाशमानस्वानुभवसिद्धा, स एवेश्वरोऽहम्
यदा नायकगुणसंश्रवणप्रवृद्धानुरागा कामिनी तद्दर्शनमेव परमुपादेयमाकाङ्क्षन्ती दिवानिशमवशहृदया देवतोपयाचितानि दूतीसम्प्रेषणानि मदनलेखद्वारकात्मावस्थानिवेदनानि कुर्वाणा विरहक्षामीभवद्गात्रलतिका तिष्ठति, तदा तदुपयाचितवशात् अशङ्कितमेव सविधवर्तिनि प्रियतमेऽवलोकिते तैस्तैरुत्कर्षविशेषैः परामर्शपदवीमगच्छद्भिर्जनसाधारणतामापादिते सम्पन्नमपि प्रियतमावलोकनं न हृदयं पूर्णीकरोति; तथा स्वात्मनि विश्वेश्वरे सततं निर्भासमानेऽपि तन्निर्भासनं न हृदयस्य पूर्णतामाधत्ते; यतः सोप्यात्मा विश्वज्ञत्वकर्तृत्वाद्यप्रतिहतस्वशक्तिलक्षणपारमैश्वर्योत्कर्ष- योगेन न परामृष्टः - इति भासमानघटादितुल्यवृत्तान्तो जातः ।
यदा तु दूतीवचनाद्वा तल्लक्षणाभिज्ञानाद्वोपायान्तराद्वा तानुत्कर्षान् हृदयङ्गमीकरणेनामृशति, तदा तत्क्षणमद्भुतफुल्लन्यायेनैव तावत् कामपि पूर्णतामभ्येति, परिभोगाभ्या - सरसे तु विश्रान्त्यन्तराण्यपि लभते; तद्वदात्मनि गुरुवचनाज्ज्ञानक्रिया - लक्षणशक्त्यभिज्ञानादेर्वा यदा पारमैश्वर्योत्कर्षहृदयङ्गमीभावो जायते,
इति प्रत्यभिज्ञा उदिता - कृपागृहीतमानुषविग्रहेण परमेश्वरेणोपदिष्टा ।
तदा तदुपयाचितस्य - तन्व्याः उपयाचितस्य वशात्, अविचारितमेव प्रियतमे सविधवर्तिनि अवलोकिते तस्य कान्तस्य रूपादिगुणवर्गातिशयैः स एवायम् इति हृदयपरामर्शपदवीमगच्छद्भिः स्वसमीपस्थितजनसाधारणताम् आपादिते, सम्पन्नमपि - प्राप्तमपि प्रियतमस्यावलोकनं तस्याः तन्व्याः हृदयं न पूर्णीकरोति । जनस्य स्वात्मनि विश्वेश्वरे सततं निर्भासमानेऽपि तन्निर्भासनम् - स्वात्मनो विश्वेश्वरात्मनिर्भासनम्, हृदयस्य न पूर्णतामाधत्ते, यतः, तस्मात् कान्तवत् सोऽपि जनस्य स्वात्मा - जनस्य अहम् इति प्रतीतः सोऽपि स्वात्मा, विश्वज्ञत्वाद्यप्रतिहतशक्तिलक्षणपारमेश्वरोत्- कर्षयोगेन न परामृष्टः इति भासमानघटादितुल्यवृत्तान्तो जातः, स्वयं चेतनोऽपि स्वाऽप्रत्यभिज्ञानात् चेत्यतुल्यो जात इत्यर्थः । अद्भुतफुल्लन्यायेन तेनामर्शेन कामपि वाचामगोअरां पूर्णताम् अभ्येति । कान्तायाः स्वाकान्तप्रत्यभिज्ञानवत् आदि गुरुवचनात् सम्पन्नात् ईश्वरशक्तिप्रत्यभिज्ञानादेव विश्वमयविश्वोत्तिर्णः परमेश्वरोऽहमिति उत्कर्षो जायते । तदा - तस्मिन्नवसरे महानन्दात्मिका
तदा तत्क्षणमेव पूर्णतात्मिका जीवन्मुक्तिः; समावेशाभ्यासरसे तु विभूतिलाभः - इति तस्य प्रत्यभिज्ञैव परापरसिद्धिप्रदायिनी भवति ॥ १७ ॥
सर्वोपकारकं महाफलमिदं शास्त्रं प्रसिद्धान्वययोगेन नामधेयप्रसिद्ध्या च तदुत्कर्षस्मरणद्वारजनितसम्भावनाप्रत्ययलक्षणप्रवर्तक - संवेदनया जनं प्रवर्तयितुं पितुर्नाम्ना चोपसंहारं दर्शयति
जनस्यायत्नसिद्ध्यर्थमुदयाकरसूनुना । ईश्वरप्रत्यभिज्ञेयमुत्पलेनोपपादिता ॥ १८ ॥
जीवन्मुक्तिः । प्रत्यभिज्ञातस्वात्ममहेश्वरसमावेशाभ्यासरसे तु शिवादिक्षित्यन्तविश्ववशीकरणक्षमविभूतिलाभ इति तस्य स्वात्मन ईश्वरोऽहम् इति प्रत्यभिज्ञैव जीवन्मुक्तिविभूतिरूपसिद्धिद्वयप्रदायिनी भवति । यथोक्तम्: -
अवस्थितमवस्थितं न पुनरत्र चित्रं महान्
इदं प्रथमिकारसः स खलु देशिकापाङ्गभूः ।
प्रिया न किमियं प्रियो न किमयं किमेतावता
न चेदयमुदारधीरुचितकाकुरेको जनः ।
इति ॥ १७ ॥
नात्र कश्चिन्नियम इति दर्शयति ।
प्रथमसूत्रव्याख्यानोक्तनीत्या सर्ववर्णोपकारकम् इत्यनेन वाक्येन एतत्सूत्रगतस्य जनस्य इति पदस्य अर्थगत्या प्रायेण व्याख्या दर्शिता । महाफलम् - जीवन्मुक्तिविभूत्यात्मकपरापरसिद्धिरूपमहाफलप्रदम् इत्यनेन सूत्रगतस्य अयत्नसिद्ध्यर्थम् इति पदस्य व्याख्या अर्थगत्या दर्शिता । इदम् शास्त्रम् इत्यनेन पदद्वयेन इयम् ईश्वरप्रत्यभिज्ञा इति पदद्वयस्य व्याख्या दर्शिता ।
प्रसिद्धान्वययोगेन नामधेय - प्रसिद्ध्या इत्यनेन पदद्वयेन उदयाकरसूनुना उत्पलेन इति पदद्वयस्य व्याख्या दर्शिता ।
किञ्च उदयाकरसूनुना इत्यन्वयप्रसिद्ध्या उत्पलेन इति स्वनामप्रसिद्ध्या स्वान्वयस्वनामोत्कर्षस्मरणद्वारजनितस्य इदमित्थमेव भवति नान्यथा इति सम्भावनात्मकविश्वासलक्षणस्य स्वोक्तं शास्त्रं प्रति प्रवर्तकसंवेदनस्य योजनात्, जनं प्रवर्तयितुम् - संवेदनं जने, योज्यजनं शास्त्रे प्रवर्तयितुम्, उपसंहरति जनस्य इति ।
यस्य कस्यचिज्जन्तोरिति नात्र जात्याद्यपेक्षा काचित् - इति सर्वोपकारित्वमुक्तम् । अयत्नेन सिद्धिः परापररूपा यथा स्यात् - इति महाफलत्त्वम् । उदयाकरपुत्रः श्रीमानुत्पलदेवोऽस्मत्परमगुरुरिदं शास्त्रमकार्षीत् - इति तत्प्रसिद्ध्या जनः प्रवर्तते - इति प्रवर्तनाद्वारेण सोऽनुगृहीतो भवति - इत्युभयनामनिर्देशः । इयमिति हृदयङ्गमतामुपपत्तिशतैरानीता । इति शिवम् ॥ १८ ॥ आदितः १९० ॥
एषाभिनवगुप्तेन सूत्रार्थप्रविमर्शिनी । रचिता प्रत्यभिज्ञायां लघ्वी वृत्तिरभङ्गुरा ॥
यस्य कस्यचित् जायमानस्य जन्तोः इत्यादिना ब्राह्मणादिवर्णापेक्षा आदि शब्देन तत्राप्यधिकार्यपेक्षा काचिन्नास्तीति अस्य शास्त्रस्य सर्वोपकारित्वमुक्तम् ।
एतच्छास्त्रश्रवणेन परापररूपा सिद्धिरयत्नेन स्यात् इति महाफलत्वं दर्शितम् । प्रसिद्ध्या जनः प्रवर्त्यते इति प्रवर्तनाद्वारेण च जनोऽनुगृहीतो भवतीति उभयनामनिर्देशः । इयम् इति स्वप्रत्ययविषयत्व - सूचकेन पदेन जनस्य उपपत्तिशतैः हृदयङ्गमत्वमानीता श्रीमदीश्वरप्रत्यभिज्ञेयम् । इति शिवम् । शिवात् प्रसृतत्वात् जनस्य शिवप्राप्तिहेतुत्वात् स्वयं शिवरूपत्वाच्चेति शिवम् ।
जीवन्मुक्तिविभूत्यात्मकपरापरसिद्धिद्वयप्रदं मङ्गलम् ॥ १८ ॥
एषा इति, स्वानुभवसिद्धा, किञ्च एषा इति जनस्य स्वानुभवसिद्धत्वेन दृश्यमाना, श्रीमदभिनवगुप्तनामधेयेनाचार्येण कथञ्चिदासाद्य इत्यादि उत्पले नोपपादिता इत्यन्तसूत्रार्थस्य प्रकर्षेण विमर्शिनी - सुत्रार्थं निश्शेषेण द्योतयन्ती, प्रत्यभिज्ञाख्ये शास्त्रे लघ्वी - शास्त्रार्थमशेषं सङ्क्षेपेण दर्शयन्ती, अभङ्गुरा - बौद्धादिसिद्धान्तैः भङ्क्तुमशक्त्या, वृत्तिः - विस्पष्टत्वेन प्रकाशिका पदवी,
रचिता साभिगुप्तं यत् पुराणं च प्रसिद्धिमत् । हृदयं तत्परोल्लासैः स्वयं स्फूर्जत्यनुत्तरम् ॥
इति स्वोक्तनीत्या अनुत्तरात्मकस्वहृदयस्फूर्जनेन रचिता - स्फारिता । लघ्वी इत्यनेन पदेन पुनरपि स्वमुखेन प्रत्यभिज्ञाशास्त्रं प्रति बृहती काचिद् विमर्शिनी भविष्यतीति सूचितम् ।
वाक्यप्रमाणपदतत्त्वसदागमार्थाः स्वात्मोपयोगमुपयान्त्यमुतः स्वशास्त्रात् ।
भौमान् रसाञ्जलमयांश्च न सस्यपुष्टौ मुक्त्वार्कमेकमिह योजयितुं क्षमोऽन्यः ॥
आत्मानमनभिज्ञाय विवेक्तुं योऽन्यदिच्छति ।
तेन भौतेन किं वाच्यं प्रश्नेऽस्मिन्को भवानिति ॥
इति श्रीमदाचार्योत्पलदेवविरचितायामीश्वरप्रत्यभिज्ञायां श्रीमदाचार्याभिनवगुप्तविरचितविमर्शिन्याख्यटीकोपेतायां तत्त्वसङ्ग्रहाधिकारः ।
समाप्ता श्रीमदीश्वरप्रत्यभिज्ञा ॥
वाक्यम् - मीमांसाशास्त्रम्, प्रमाणम् - न्यायशास्त्रम्, सदागमाः - शिवप्रोक्ताः आगमाः, अमुतः - प्रत्यभिज्ञाख्यात्, सुशास्त्रात् - शोभनात् सर्वोत्तरात् अमुतः स्वानुभवसिद्धात् शास्त्रात्, स्वात्मोपयोगम् - महेश्वररूपस्वात्म - परामर्शात्मकमुपयोगम् - प्रयोजनम् उपयान्ति - समीपे प्राप्नुवन्ति इति, अनेन शास्त्रेण विना वाक्यादीनि शास्त्राणि केवलं स्वयमेव स्वात्मोपयोगं नायान्ति । तत्र दृष्टान्तमाह भौमान् - भूमिगतान् रसान् जलमयांश्च ग्रीष्मादेव क्षीणान् स्वमरीचिचक्रान्तर्निवेश्य वर्षिण्यादिमरीचिभिः सस्यपुष्ट्यै योजयितुम् अर्कं विना कोऽन्यः क्षमः ।
अहम् इति प्रथमानम् आत्मानम् - ज्ञानक्रियात्मकशक्तिप्रत्यभिज्ञानेनेश्वरात्मकम्, अनभिज्ञाय, अन्यत् - वाक्यप्रमाणादिशास्त्रम्, विवेक्तुमिच्छति, तेन भूताविष्टसमानेन स्वरूपप्रच्छादनात्मकमायाभूताविष्टेन को भवान् इति प्रश्ने किं वाच्यम्, न किमपीत्यर्थः । यथा चैत्रो भूताविष्टः स्वपित्रादिना सङ्केतितं स्वनामधेयं न जानाति तद्वन्महामायाभूताविष्टः आत्मन आदिसिद्धं महेश्वरत्वं न जानातीत्यर्थः ॥
इति प्रत्यभिज्ञासूत्रविमर्शिनीव्याख्या समाप्ता ॥