आगमाधिकारे

द्वितीयमाह्निकम् ।

विमर्शिनी ।

अखण्डितस्वभावोऽपि विचित्रां मातृकल्पनाम् । स्वहृन्मण्डलचक्रे यः पथयेत्तं स्तुमः शिवम् ॥

भास्करी

एकचित्साररूपोऽपि मितमातृमयीं स्थितिम् । स्वान्तर्धारयतीवेह यस्तं चित्ते स्तुमः शिवम् ॥

अथागमाधिकारे द्वितीयाह्निकस्य व्याख्यानिर्विघ्नपरिसमाप्तये प्रचयगमनाय च स्वान्तरनुष्ठितमपि बहिः शिष्यशिक्षार्थं स्वेष्टदेवतापरामर्शनरूपं मङ्गलं सकलाह्निकतात्पर्यसूचकेन श्लोकेनोपनिबध्नाति अखण्डित इति ।

वयं तं शिवम् स्तुमः । तं कम् ? यः शिवः अखण्डितः - यथा तथा कल्पितायां खण्डनायामपि साक्षित्वेन सारत्वेन च स्थितत्वात् परमर्थतः खण्डनारहितः, स्वभावः - विमर्शखचितं प्रकाशाख्यं स्वरूपं यस्य तादृशः अपि सन्, स्वहृन्मण्डलचक्रे - अखण्डचिद्रूपे निजहृदयमण्डलचक्रे, विचित्राम् - नानाविधाम्, मातृकल्पनां प्रथयेत् - स्फारयेत् ।

एतेन मातृविचारोऽत्राह्निके भवितेति सूचितम् ।

एवं मङ्गलं कृत्वा आह्निकाभिप्रायं समस्तत्वव्यस्तत्वाभ्यां कथयति एवम् इति ।

एवं तत्त्वराशौ निर्णीते एतदन्तर्भावेनोक्तमपि मुख्यतया निर्णेतव्यं प्रमातृतत्त्वं वितत्य निर्णेतुं तत्रैतन्मातृतामात्र इत्यादि व्यानो विश्वात्मकः परः इत्यन्तैर्विंशतिश्लोकैराह्नि- कान्तरं प्रस्तूयते । तथाहि - प्रमातुरत्र स्वरूपप्रत्यभिज्ञानमुपदिश्यते शास्त्रे । स हि हेयमुपादेयं च स्वं स्वभावं विद्वान् परमोपादेयरूपं शिवस्वभावं स्वात्मानमभेदेना - विशन् जीवन्नेव मुक्तो भवति, - इति । तत्र श्लोकेन ब्रह्मादित्रयस्वरूपम्, ततोऽपि द्वयेन हेयोपादेयप्रमातृतत्त्वम्, ततस्तदुपयोगिमलस्वरूपम्, तत्कृतं च प्रमातृभेदं श्लोकसप्तकेन, द्वयेन समावेशस्वरूपम्, श्लोकपञ्चकेन प्रमातुरेव सुषुप्ताद्यवस्थाः, त्रयेण तासां हेयोपादेयविभागं निरूपयति, - इत्याह्निकतात्पर्यम् । ग्रन्थार्थस्तु निरूप्यते ॥

तत्रैतन्मातृतामात्रस्थितौ रुद्रोऽधिदैवतम् ।

भिन्नप्रमेयप्रसरे ब्रह्मविष्णू व्यवस्थितौ ॥ १ ॥

तत्रेति, एवम्भूतेऽस्मिन्नागमसिद्धे युक्त्यनुगते च तत्त्वस्वरूपे सति यदेतत् कालादिपञ्चकवेष्टितं प्रमातृतारूपम्, तदेव यस्यां शुद्धमुपसंहृतप्रमेयजातं भवति दशायां संहाराख्यायां तस्यामधिष्ठातृदेवतात्वं तद्दशासम्पादनेन स्वोपासकलोकस्य तद्दशाध्यानावेशसमापन्नस्य स्वाभिमुख्यसम्पादनेन च भजमानो भट्टारक ईश्वर एव रुद्रो भगवान्, यो

एतदन्तर्भावेन - तत्त्वराश्यन्तर्भावेन । हेयम् - मायापर्यन्तवर्ति, उपादेयम् मायोर्ध्ववर्ति सदाशिवान्तम् । इति शब्दः समस्तत्वेनाभिप्राय - कथनसमाप्तौ । व्यस्तत्वेन कथयति तत्र इति । तदुपयोगि - हेयोपादेयप्रमातृतत्त्वोपयोगि, मलस्वरूपम्

  • आणवादिमलत्रयरूपम्, तत्कृतम् - मलत्रयकृतम् ।

अथ प्रथमश्लोकमवतरणिकां विनैवोपन्यस्य व्याचष्टे तत्र इति ।

अत्र टीका : -

तत्र इति व्याचष्टे एवं भूते इत्यादि सति इत्यन्तम् ।

एतन्मातृतामात्रस्थितौ इति व्याचष्टे यदेतत् इति । प्रमातृतारूपम् तदेव - प्रमातृतारूपमेव, यस्याम् - संहाराख्यायां दशायाम्, उपसंहृतप्रमेयजातम् अत एव शुद्धम् भवति ।

तस्यामधिष्ठातृदेवतात्वं भजमानः ईश्वरो भट्टारक एव - शुद्धविद्यायां स्थितः ईश्वरो भट्टारक एव, भगवान् रुद्रो भवति,

मायापदेऽपि प्राणापानात्मकधर्माधर्मसूर्येन्दुदिननिशादिविमुक्त- मध्यमज्योतीरूपप्रमातृस्वरूपस्पर्शाद् [दिननिशादिमुक्तमध्यमज्योति - क्। ष्। ष्।] उन्मीलिततृतीयनेत्रः ।

भिन्नस्य तु प्रमेयस्य प्रसरे सम्पादनेऽधिष्ठातृदेवतात्वं भजन् ब्रह्मा, प्रसृते भिन्ने प्रमेये तत्सन्तानप्रवहणलक्षणे प्रसरेऽधिष्ठातृदेवता विष्णुः, अत एव तयोः प्रमेयप्रसररूपस्य इदं नीलम् इत्येवं प्रकाशात्मनः प्राधान्यात् अहम् इति प्रमातृदशावेशशून्यत्वात् न तृतीयनेत्रोन्मीलनम् । देवतैव दैवतम् । प्रसर उत्पत्तिः सन्तानश्च ॥ १ ॥

रुद्रभावमागच्छतीति यावत् । केन हेतुना भजमान इत्यपेक्षायामाह तद्दशा इति । यतः तद्दशाध्यानसमावेशयुक्तस्य तद्दशादानं स्वाभिमुख्यसम्पादनञ्च करोतीत्यर्थः । भगवान् रुद्रः कः इत्यपेक्षायामाह यः इति । यः - भगवान् रुद्रः, प्राणापानात्मकौ यौ धर्माधर्मौ तथा सूर्येन्दू तथा दिननिशे, आदि शब्देन ज्ञानादिग्रहणम्, ततो विमुक्तम् - उभयस्पर्शाऽरूषितम्, यन्मध्यमज्योतिः - बाह्यान्तरकुम्भकप्राप्यः मध्यावस्थाख्यः प्रकाशः, तद्रूपं यत् प्रमातृस्वरूपम् - शून्यस्वान्निर्गतस्य तावदप्राप्तशिवभावस्य चिन्मात्ररूपस्य प्रमातुः स्वरूपम्, तस्य स्पर्शात् - उन्मीलनामात्रात्, उन्मीलिततृतीयनेत्रः - प्रादुर्भूततृतीयनेत्रः, प्रमातृरूपस्य प्राणः सूर्याख्यं दक्षिणनेत्रम्, अपानः चन्द्ररूपं वामनेत्रम्, द्वादशान्तहृद्देशगतं तन्मध्यावस्थाख्यमग्निरूपं तृतीयनेत्रं येन त्रिनेत्रत्वं तस्य कथयन्ति । एतेन श्रीविष्णोः क्रियाशक्तिद्वैगुण्यमेव बाहुचतुष्टयम् । श्रीब्रह्मणः वैखरीभावापन्नवेदचतुष्टयोद्भावनमेव चतुर्मुखत्वमित्यादि ज्ञेयम् । नत्वसम्भवोपहतेष्वतिशयेषु मन्तव्यमित्यलम् ।

द्वितीयमर्धं व्याचष्टे भिन्न इति । प्रसरस्य द्विविधं वाच्यं कथयति उत्पत्तिः सन्तानश्च । तत्र ब्रह्मपक्षे उत्पतीः, तस्य हि प्रमेयोत्पत्तौ अधिष्ठातृत्वम् । विष्णुपक्षे सन्तानः, विष्णुर्हि उत्पन्नं प्रमेयजातं प्रवाहेण प्रसारयन् अधिष्ठाता भवति पूर्वं शुद्धेऽध्वनि तु सदाशिवेश्वरभट्टारकयोरधिष्ठातृत्वमुक्तमेवेति कारणानि पञ्च कृत्यपञ्चके । तदुक्तम्: -

ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः

इति । परमार्थतस्तु सर्वमेतच्छ्रीशिवे एव विश्राम्यतीति तस्यैव पञ्चकृत्य कारित्वमुक्तम् ॥ १ ॥

यदेतन्मातृतामात्रमुक्तं तस्य विभागमागमिकं च सञ्ज्ञाभेदं निरूपयति ।

एष प्रमाता मायान्धः संसारी कर्मबन्धनः । विद्याभिज्ञापितैश्वर्यश्चिद्धनो मुक्त उच्यते ॥ २ ॥ स्वाङ्गरूपेषु भावेषु प्रमाता कथ्यते पतिः । मायातो भेदिषु क्लेशकर्मादिकलुषः पशुः ॥ ३ ॥

माययान्धो विमोहितः, अत एव कर्माणि स्वात्मनो बन्धकान्यभिमन्यमान एष इति कालादिवेष्टितः शून्यादिप्रमाता संसरति, - इत्यतः संसारी । देहोऽपि हि स्वरूपसादृश्यं बाल्ययौवनादिष्वनुवर्तयन् संसरतीव । बुद्ध्यादेस्तु जन्मान्तरेऽपि संसरणम् । विद्यया तु स्वरूप - प्रकाशनशक्त्या प्रत्यभिज्ञापदं प्रापितमैश्वर्यं यस्य, अत एव शरीराद्यपि विश्वमपि [विश्वमपि संवेदनमेव - क्। ष्। ष्।] च संवेदनमेवाभिमन्यमानोऽत एव चिदेव घना अन्याचिद्रूपव्यामिश्रणशून्या

अथ द्वितीयस्य तृतीयस्य च श्लोकस्यावतरणिकां करोति यदेतत् इति । स्पष्टम् । एवमवतरणिकां कृत्वा श्लोकद्वयमुपन्यस्य व्याचष्टे एष इति ।

अत्र टीका : -

मायान्धः इति व्याचष्टे विमोहितः इति । एतद्धेतुकत्वेन कर्मबन्धनः इति व्याचष्टे अत एव इति । एष इति व्याचष्टे कालादि इति ।

प्रमाता इति व्याचष्टे शून्यादि इति । संसारी इत्यस्य व्याख्यां करोति संसरति इति । ननु चेह जडस्य कथं संसरणमित्यत आह देहोऽपि इति । परमार्थेन संसरणाभावात् इव शब्दोपादानम्, जन्मान्तरेऽपि पुत्रादिरूपेऽन्यजन्मन्यपि, पुत्रस्य हि पितुरेव बुद्धिर्बीजभावेन आगच्छति, अन्यथा सद्योजातस्य बालादेस्तदयोगापातात्, [तदयोगात् - च्।] यत्तु अग्रे तत्प्राकट्यं तद्विस्ताराप्तिमात्रकृतमेव ज्ञेयम् इत्यलं रहस्योद्घाटनेन ।

विद्या इत्यादि समस्तं पदं व्याचष्टे विद्यया इति । ऐश्वर्यम् - ज्ञातृत्वकर्तृत्वरूपा ईश्वरता । प्रत्यभिज्ञासाध्यं वस्तु अध्याहृत्य कथयति अत एव इति । विश्वमपि - बाह्यं प्रमेयजातमपि, च शब्दः

यस्य रूपम्, स पुनर्जन्मबन्धविरहात् देहेऽपि स्थिते मुक्त इति व्यपदेशयोग्यः । पतिते तु शिव एकघनः इति कः कुतो मुक्तः ।

भूतपूर्वगत्या तु प्रमात्रन्तरापेक्षया मुक्तः शिवः, - इति व्यवहारः ।

यश्चासौ मुक्तः स भावान् स्वाङ्गवदभिमन्यमानः प्रमिमीते इति स तेषां स्वामी, स्वरूपपरमार्थसमर्पणाच्च पालकः इति पतिरुपदिष्टः शास्त्रे । मायाशक्तिकृतभेदान् व्यतिरिक्तानेव सतो यदा मिमीते तदा तैरेव मेयैः पाशरूपैः पाशितः इति पशुरुक्तः । तथाहि वेद्यराशिवशादेवास्या - विद्यास्मितारागद्वेषाभिनिवेशादयः क्लेशाः, धर्माधर्मादिरूपाणि कर्माणि, आदिपदादाशयरूपा वासना, फलभोगरूपो विपाकः, - इति कालुष्यमनन्तप्रकारम्, यतः पाशितत्वात् पशुः इत्युक्तः ॥ ३ ॥

समुच्चये, संवेदनमेव - ज्ञानस्वरूपमेव । एतद्धेतुकत्वेन चिद्घनः इति व्याचष्टे अत एव इति । चित् एव घना, अन्येन स्वव्यतिरिक्तेन अचिद्रूपेण यद् व्यामिश्रणं तेन शून्या, रूपं यस्य सः ।

मुक्तः इति व्याचष्टे स पुनः इति । उच्यते इति व्याचष्टे व्यपदेशयोगः इति । जीवन्मुक्ततामुक्त्वा तदनन्तरभाविनीं विदेहमुक्ततामर्थादेव योजयति पतिते तु इति । पतिते, देहे पतिते सतीत्यर्थः । ननु तर्हि तस्य मुक्तः शिव इति कथं व्यपदेश इत्यत आह भूत इति । भूतपूर्वा - पूर्वम्भूता या गतिः तया ।

द्वितीयं श्लोकं व्याचष्टे यश्चासौ इति । कुतोऽभिमन्यमान इत्यपेक्षायां प्रमाता इत्यस्य विग्रहं करोति प्रमिमीते इति । सः - प्रमाता, तेषाम् - भावानाम्, पतिः इति व्याचष्टे स्वामी इति । अस्य पदस्य द्वितीयां व्याख्यां करोति स्वरूप इति । स्वरूपमेव परमार्थः - सहजं वस्तु, तस्य समर्पणात् । ननु किमयमर्थः स्वबुद्ध्यैवोक्त इत्यत आह उपदिष्टः इति । पूर्वार्धं व्याख्यायोत्तरार्धं व्याचष्टे माया इति । पाशितः - बद्धः, इति - अतो हेतोः, क्लेशकर्मादिकलुषः इति व्याचष्टे तथा हि इति । अस्य - प्रमातुः, एतद्धेतुकत्वेन पशुः इति व्याचष्टे यतः इति । यतः - यस्मात्कालुष्याद्धेतोः, पाशितत्वात् - बद्धत्वात् ॥ ३ ॥

यदेवैतत्पशुरूपं तदेवागमेषु त्रिविधं मलम्, - इत्याह ।

स्वातन्त्र्यहानिर्बोधस्य स्वातन्त्र्यस्याप्यबोधता । द्विधाणवं मलामिदं स्वस्वरूपापहानितः ॥ ४ ॥ भिन्नवेद्यप्रथात्रैव मायाख्यं जन्मभोगदम् । कर्तर्यबोधे कार्म तु मायाशक्त्यैव तत्त्रयम् ॥ ५ ॥

इह ज्ञातृकर्तृरूपं तावच्चित्तत्त्वस्य स्वरूपम्, तस्यापहारो नामाणवं मलं येनासावणुः सङ्कुचितो जातः । तत्र स्वरूपस्य निमीलनं सङ्कोचः । तत्स्थिते बोधरूपे कर्तृत्वलक्षणस्य स्वातन्त्र्यात्मनः स्वरूपान्तरस्य निमीलनं विपर्ययो वा, - इत्युभयथाप्याणवं मलं स्वरूपापहानिरूपमेकमेव ।

अत्रैवेति, सत्याणवे मले द्विप्रकारे स्वरूपसङ्कोचे वृत्ते भिन्नस्य

अथ चतुर्थस्य पञ्चमस्य च श्लोकस्य व्याख्यां करोति यदेव इति । स्पष्टम् । एवमवतरणिकां कृत्वा श्लोकद्वयमुपन्यस्य व्याचष्टे स्वातन्त्र्य इति ।

अत्र टीका : -

श्लोकं व्याख्यातुं प्रक्रियां करोति इह इति । इह - अत्र शिवाद्वयशास्त्रे, तस्य - ज्ञातृकर्तृत्वरूपस्य स्वातन्त्र्यस्य, येन - मलेन, असौ अणुः - शून्यादि - प्रमाता, तत्र इति । तस्मिन् आणवे मले इत्यर्थः । निमीलनम् इत्यस्य स्वयमेव पर्यायमाह सङ्कोचः इति, स च विद्याकलाऽवच्छेदरूपो ज्ञेयः । उक्तप्रक्रियावष्टम्भेन श्लोकं व्याचष्टे तत् इति । तत् - यतः ज्ञातृकर्तृरूपस्य सङ्कोच एव न तु स्वरूपतो नाशः ततः कारणात्, बोधरूपे स्थिते सति, ज्ञातृत्वे स्थिते सतीति यावत्, कतृत्वलक्षणस्य - कर्तृत्वरूपस्य, स्वातन्त्र्यात्मनः - स्वातन्त्र्यस्वभावस्य, स्वरूपान्तरस्य - ज्ञातृत्वाद् व्यतिरिक्तस्य स्वरूपस्य, निमीलनम् - सूत्रे हानि शब्देनोक्तः सङ्कोचः, विपर्ययो वा - सूत्रे अबोधता शब्देनोक्तः बोधविपर्ययो वा, इत्युभयथापि - एवं प्रकारद्वयेनापि ।

द्वितीयं श्लोकं व्याख्यास्यन् तदन्तर्गतं अत्रैव इति पदद्वयम् व्याचष्टे सत्याणवमले इति । भिन्नवेद्यप्रथा इति व्याचष्टे भिन्नस्य इति ।

यत्प्रथनं तस्य मायीयम् इति सञ्ज्ञामात्रम् । मायाकृतत्वेन मायीयता मलत्रयस्यापि । तत्र कर्तुरबोधरूपस्य देहादेर्भिन्नवेद्यप्रथने सति धर्माधर्मरूपं कार्मं मलम्, यतो जन्म भोगश्च स च नियतावधिकः, इति जात्यायुर्भोगफलं कर्म इत्युक्तं भवति ॥ ४ ॥ ५ ॥

सञ्ज्ञामात्रम् [सञ्ज्ञामात्रमिति, तैलपायिकादिवदितिभावः ।

अन्यथा मायाशक्त्यैव तत्त्रयमिति कथनमयुक्तं स्यादिति भावः ।

कुतः सञ्ज्ञामात्रमित्यत आह माया इति । जन्मभोगदम् - च्।] इति, तैलपायिकादिवदिति भावः, कुतः सञ्ज्ञामात्रमित्यत आह माया इति, अन्यथा मायाशक्त्यैवतत्त्रयम् इति कथनमयुक्तं स्यादिति भावः । जन्मभोगदम् इत्याद्यवशिष्टं व्याचष्टे तत्र इति, स च - भोगश्च, नियतावधिकः - कार्ममलस्थिति तावत् स्थितिभाग् भवति, इति - अतः कारणात्, इति - कर्तृ, उक्तं भवति, इति किमिति ? कर्मजात्यायुर्भोगफलम् जन्मायुर्भोगफलम् भवति ।

एवमत्र सङ्क्षिप्तार्थः । इदम् आणवमलं कर्तृ अपरिमितस्य प्रमातुः अव्यु?भावापादकं मलम्, इति - एवं स्वस्वरूपापहानितः द्विधा भवति, इति किमिति ? बोधस्य चिन्मात्रस्य, स्वातन्त्र्यहानिः - ज्ञातृत्वस्य सङ्कोचः एकः प्रकारः, तथा स्वातन्त्र्यस्य - कर्तृत्वस्य अबोधता - बोधव्यतिरिक्तताभिमानः द्वितीयः प्रकारः । अत्रैव - द्विरूपे आणवे मले स्थिते सति, भिन्नवेद्यप्रथा मायाख्यं मलम् - मायीयं

अथैषां मलानां विविक्तविषयनिरूपणात् स्वरूपं स्फुटीकर्तुं स्वातन्त्र्यहानिर्बोधस्य इत्यस्य तावद्विषयमाह ।

शुद्धबोधात्मकत्वेऽपि येषां नोत्तमकर्तृता । निर्मिताः स्वात्मनो भिन्ना भर्त्रा ते कर्तृतात्ययात् ॥ ६ ॥

येषां चिन्मात्रमेव परमार्थो न तु अहम् इति स्वात्मविश्रान्त्यानन्दरूपं परमं स्वातन्त्र्यम् । ते परमेश्वरेण तथा निर्मिताः स्वात्मनः सकाशाद्व्यतिरिक्ताः । अत्र हेतुः - कर्तृताया उत्तमस्वातन्त्र्यलक्षणाया अत्ययात् अभावात्; परमेश्वरस्य तूत्तमस्वातन्त्र्यावियुक्तबोधरूपत्वम्, - इत्यभिप्रायशेषः ॥ ६ ॥

मलं भवति । कर्तरि अबोधे - बोधव्यतिरिक्ते - बोधव्यतिरिक्तस्वरूपे सति कार्ममलं भवति, कीदृशम् ? जन्मभोगदम्, तत्त्रयं मायाशक्त्यैव ॥ ५ ॥

अथ षष्ठस्य श्लोकस्यावतरणिकां करोति अथैषाम् इति ।

स्पष्टम् । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे शुद्ध इति ।

अत्र टीका : -

शुद्धबोधात्मकत्वेऽपि इति व्याचष्टे येषाम् इति । सुद्ध पदस्य मात्रचा व्याख्या, परमार्थः - परमात्मतयाऽभिमतं विश्रान्तिस्थानम् । नोत्तमकर्तृता इति व्याचष्टे न तु इति । स्वातन्त्र्यम् - विमर्शशक्तिरूपा स्वतन्त्रता ।

द्वितीयमर्धं व्याचष्टे ते इति । ते - साङ्ख्यादिरूपाः, भर्त्रा इति व्याचष्टे परमेश्वरेण इति । तथा - तेन प्रकारेण । युक्तत्वेन अस्य अध्याहारः । व्यतिरिक्ताः निर्मिताः इति योजना । कर्तृतात्ययात् इत्यस्य हेतुत्वेन योजनां करोति अत्र हेतुः इति । शुद्धबोधस्य किं परमेश्वरत्वं नास्तीत्यपेक्षायामस्याभिप्रायमाविष्करोति परमेश्वरस्य इति । अहम् इति विमर्शशक्तियुक्तस्य बोधस्यैव परमेश्वरत्वं न साङ्ख्यादिमतस्य शुद्धबोधस्येति भावः ॥ ६ ॥

नन्वस्माद्धेतोर्भवतु परमेश्वरात् तेषां भिन्नत्वमन्योन्यतस्तु कथं भेदो बोधरूपस्य व्यापित्वनित्यत्वकृतस्य च देशकालाभेदस्य समानत्वात्; अन्योन्यभेदाभावे च निर्मितास्ते इति कथं बहुवचनम् ? इत्याशङ्कां व्यपोहति ।

बोधादिलक्षणैक्येऽपि तेषामन्योन्यभिन्नता । तथेश्वरेच्छाभेदेन ते च विज्ञानकेवलाः ॥ ७ ॥

इह हि सर्वत्राप्रतिहतशक्तिः परमेश्वर एव तथाबुभूषंस्तथा [तथा वुभूषुः - क्। ष्। ष्।] तथा भवति, नत्वन्यः कश्चित् परमार्थतोऽस्ति, - इत्यसकृदुक्तम्; ततश्च व्यापकनित्यबोधस्वभावोऽपि अहं भेदेन निर्भासे इत्येवम्भूतेनेश्वरेच्छाविशेषेण तेषां शरीरादिशून्यान्तप्रमातृपदोत्तीर्णानां बोधत्वनित्यत्व - विभुत्वादिधर्मजातस्यैक्येऽप्यन्योन्यं भेदः, ते च शास्त्रे विज्ञानकेवला उक्ताः । तत्र विज्ञानकेवलो मलैकयुक्तः, - इत्यादौ विज्ञानं बोधात्मकं रूपं केवलं स्वातन्त्र्यविरहितमेषामिति ॥ ७ ॥

अथ सप्तमस्य श्लोकस्यावतरणिकां करोति नन्वस्मात् इति ।

अत्र टीका: -

अस्माद्धेतोः - कर्तृतात्ययाद्धेतोः । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे बोधादि इति ।

अत्र टीका: -

श्लोकं व्याख्यातुं पूर्वोक्तां युक्तिमनुसरति इह हि इति ।

तथाभवितुमिच्छन् तथा बुभूषन्, तथा तथा भवति - तथा तथा वस्तुस्वरूपो भवति । एतदवष्टम्भेन श्लोकं व्याचष्टे ततश्च इति । कुत्रोक्ता इत्यपेक्षायामाह तत्र इति । इत्यादौ - एवमादौ वाक्यकदम्बके । विज्ञानकेवलाः इति व्याचष्टे विज्ञानम् इति ॥ ७ ॥

एवं स्वातन्त्र्यहानिर्बोधस्य इत्यस्य भागस्य विज्ञानाकलविषयता - मुक्त्वा स्वातन्त्र्यस्याप्यबोधता इत्यमुमंशं विषयप्रदर्शनेन स्पष्टयति ।

शुन्याद्यबोधरूपास्तु कर्तारः प्रलयाकलाः । तेषां कार्मो मलोप्यस्ति मायीयस्तु विकल्पितः ॥ ८ ॥

शून्ये जडत्वादबोधरूपे एव, यदि वा प्राणे बुद्धौ वा येषाम् अहमिति चमत्कारयोगात् कर्तृत्वं ते प्रलयेन कृताः अकलाः कलातत्त्वोपलक्षितकरणकार्यरहिता अबोधरूपाः कर्तारश्च ।

प्रलयावधि हि ते तथाकृताः [तथाभूताः - क्। ष्। ष्।] उत्तरकालं तु कार्यकरणसम्बद्धा एव भवन्ति; यतस्तेषां न केवलमुक्तस्य आणव एव मलो यावत् कार्मोऽपि वासनासंस्काररूपो धर्माधर्मात्मास्त्येव । यद्येवम्, भिन्नवेद्यप्रथाप्येषां स्यात् । सत्यम्, सवेद्ये [सवेद्यरूपे - क्। ष्। ष्।] सुषुप्तपदे, ऽपवेद्ये तु न भवति; तेन मायीयो मल एषां विकल्पितो व्यवस्थितविषयत्वेन । तथा हि - केऽपि शून्यादिभागविश्रान्ता गाढनिद्राजडीकृता अपवेद्यसुषुप्तपदभाजः । अन्ये तु बुद्ध्यादिनिष्ठाः सुखदुःखवशेषसामान्यात्मकभिन्नवेद्यसंवेदनयोगिनः सवेद्यसौषुप्तपदलीनाः ।

अथाष्टमस्य श्लोकस्यावतरणिकां करोति एवम् इति । स्पष्टम् ।

एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे शून्ये इति ।

अत्र टीका : -

आदि शब्दगृहीतं वस्तु पक्षान्तररीत्या कथयति यदि वा प्राणे इति । अहमिति चमत्कारयोगात् - अहमित्यास्वादयोगात्, शून्यादावात्माभिमानपूर्वमिति यावत् । प्रलयेन - मूर्च्छारूपेण प्रलयकालेन, प्रलयावधि - प्रलयकालं तावत्, तथा कृताः - अकलाः कृताः, उत्तरकालम् - प्रलयानन्तरम्, कुतो भवन्तीत्यत आह यतः इति । अत्र शिष्यः प्रश्नयति यद्येवम् इति ।

एषाम् - प्रलयाकलानाम्, उत्तरमाह सत्यम् इति । सवेद्ये - सुखाख्यवेद्यसहिते, सुषुप्तपदे तेषां भिन्नवेद्यप्रथा सत्यमस्तीति योजना । व्यवस्थितविषयत्वेन - बीजभावस्थितनानारूपवस्तुविषयत्वेन, अत्र समर्थनं करोति तथाहि इति ।

स्थूलदेहेन्द्रियात्मककार्यकरणवियोगरूपत्वं तु परलयाकललक्षणं सर्वेषां तुल्यम् ॥ ८ ॥

एवं स्वातन्त्र्यस्याप्यबोधता इत्येवमंशः स्फुटीकृतः, प्रसङ्गाच्च कार्ममलस्य विषयो दर्शितः, मायामलस्य च पाक्षिकत्वमुक्तम् । अधुना पुनराणवकार्ममलद्वयाभावेऽपि शुद्धोऽस्तिमायाख्यस्य मलस्य विषयः, - इति दर्शयति

बोधानामपि कर्तृत्वजुषां कार्ममलक्षतौ । भिन्नवेद्यजुषां मायामलो विद्येश्वराश्च ते ॥ ९ ॥

ये चिन्मात्रमेवात्मतया पश्यन्ति अहम् इति च चमत्कारोल्लासात् कर्तारस्तत एव सर्वज्ञाः सर्वकर्तारश्च ते विद्येश्वराः । किन्तु तनुकरणभुवनादि यदेषां वेद्यतया कार्यतया च भाति, तत् कुविन्दपटदृष्ट्या भिन्नमेव सत् - इत्यस्ति विद्येश्वराणां मायाख्यमलयोगः ॥ ९ ॥

अथ मलत्रयस्यापि यौगपद्येन यो विषयस्तं दर्शयितुमाह ।

देवादीनां च सर्वेषां भविनां त्रिविधं मलम् । तत्रापि कार्ममेवैकं मुख्यं संसारकारणम् ॥ १० ॥

सर्वेषाम् - सवेद्यसुषुप्तपदस्थानाम् - अपवेद्यसुषुप्तपदस्थानाञ्च, तुल्यम् इति, सर्वेषां सुष्ठु सुप्तत्वेन स्थूलदेहाद्यभिमानाभावादिति भावः ।

एवमत्र सङ्क्षिप्तार्थः । तु - व्यतिरेके, शून्याद्यबोधरूपाः कर्तारः प्रलयाकलाः भवन्ति । तेषाम् - प्रलयाकलानाम्, कार्मो मलोऽपि - संस्काररूपः कार्माख्यो मलोऽपि, अस्ति, न केवलं संस्काराभावरूपः आणवः । तु - व्यतिरेके । तेषां मायीयो मलोऽपि कल्पितः भवति, संस्कारभावेन स्थितत्वात् ॥ ८ ॥

अथ नवमश्लोकस्यावतरणिकां करोति एवम् इति ।

अत्र टीका : -

पाक्षिकत्वम् - सवेद्यसुषुप्तपक्षनिष्ठत्वम् ।

एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे बोधानाम् इति ।

अत्र टीका : -

विद्येश्वराः - शुद्धविद्यानिष्ठाः मन्त्राख्याः प्रमातारः ॥ ९ ॥

अथ दशमस्य श्लोकस्यावतरणिकां करोति अथ इति । स्पष्टम् ।

एवमवतरणिकां

इह विद्येश्वरविज्ञानाकलास्तावन्न भविनो मायान्ताध्वातिक्रमणात्; प्रलयाकला अपि कञ्चित्कालमविद्यमानभवाः । ये त्वेते मायातत्त्वान्तरालपरिवर्तिनो देवादयः स्थावरान्ताश्चतुर्दश [चतुर्दशधा - क् ष्। ष्।] शास्त्रेषु परिगणितास्ते सर्वे भविनः संसारिणः, तेषां च त्रयोऽपि युगपन्मलाः । ननु मलत्रयमध्ये कतमो मलः संसरणमेषां सम्पादयेत् ? आह, तत्रापि तेषु त्रिष्वपि सत्सु कार्मं मलं मुख्यतया सन्निपत्य संसरणे कारणम् । यथोक्तम् ।

कृत्वा श्लोकमुपन्यस्य व्याचष्टे देवादीनाम् इति ।

अत्र टीका : -

चतुर्दश इति । तदुक्तम् : -

अष्टविकल्पो दैवः तिर्यग्योनिश्च पञ्चधा भवति । मानुष्यश्चैकविधः [मानुषश्च - च्।] समासतो भौतिकः सर्गः ॥ पैशाचो राक्षसो याक्षो गान्धर्वः शाक्र एव च ।

सौम्यस्तथान्यः [सौप्यस्तथान्यः - च्।] प्राजेशो ब्राह्मण्य इत्यष्टधा स्मृतः ॥

इति । अष्टविकल्पो दैवः । पशु मृग - पक्षि सरीसृप स्थावरभेदस्तिर्यग्योनिः पञ्चधा, विज्ञानाकलाः - विज्ञानकेवलाः, भविनः [भाविनः - च्।] - संसारिणः, पुनः के भविनः सन्तीत्यत आह ये तु इति । प्रश्नं करोति ननु इति । उत्तरं कथयति आह इति । सन्निपत्य - अन्याभ्यां मिलित्वा, अत्रागमवाक्यमुदाहरति यथोक्तम् इति ।

कर्मतस्तु शरीराणि विषयाः करणाणि च ।

इति तनुकरणविषयसम्बन्ध एव च वर्तमानो भविष्यंश्च, - इत्यनवरतं प्रबन्धतो वर्तमानः संसरणमुच्यते ।

आणवमायामलौ तु यद्यपि न कारणं संसारे, तथापि कार्मेण विना तौ देहादिविचित्रभावाभिनिर्वर्तनशक्तिशून्यौ विज्ञानाकलादिषु, - इति मुख्यं कार्ममेव मलं संसारकारणं तत्र तत्र शास्त्रे गण्यते । अत एव तदुपक्षये वृत्ते दत्तस्तावदसंसरणसोपानपदबन्धः, - इत्याशयेन कर्मबन्धाभिमानपरिहानिरेव यत्नतः साङ्ख्यपुराणभारतादिशास्त्रेषूपदिश्यते । एवं मलत्रयस्यैकैकभेदैस्त्रिभिर्द्विभेदैस्त्रिभिस्त्रिभेदेनैकेन, इति सप्त प्रमातार उत्तिष्ठन्ति । तथा च शास्त्रे

शिवादिसकलान्ताश्च शक्तिमन्तः सप्त ।

ननु संसरणाख्यो भवः किमुच्यत इत्यत आह ननु इति ।

नवीनानामुत्पत्तिमपेक्ष्य भूत इति नोक्तम् । ननु तर्हि आणवमायीयौ तत्र व्यर्थावेवेत्यत आह आणव इति । एतेन फलितं वस्त्वाह अत एव इति । तदुपक्षये - कार्ममलक्षये, वृत्ते - सम्पन्ने, पदबन्धः - पदस्पर्शः । उपसंहारं करोति एवम् इति । एवम् - उक्तप्रकारेण । इति - एवम्, मलसप्तकेनेति यावत् । सप्तप्रमातारः - शिवादयः सकलान्ताः, उत्तिष्ठन्ति - सम्पद्यन्ते । इति कथम् ? मलत्रयस्य त्रिभिः एकैकभेदैः, केवलेन प्रत्येकं मलत्रयेणेत्यर्थः । तथा त्रिभिः द्विभेदैः - आणवमायीयाभ्याम्, आणवकार्माभ्याम्, मायीयकार्माभ्याम्, इत्येवं द्वयत्रिकेणेति यावत् । तथा एकेन त्रिभेदेन, एकीभूतेन मलत्रयरूपेण एकेन त्रिकेणेत्यर्थः । तत्र केवलेन आणवमलेन शिवतत्त्वमुत्तिष्ठति, शक्तेर्भिन्नतया गणनया आपाततः तद्रहिततया स्फुरणात्, तस्यैव च स्वातन्त्र्यहानित्वात् ।

यद्यप्याणवमलद्वितीयभेदेन स्वातन्त्र्याबोधतारूपेण शक्तितत्त्वस्योत्थानम्, तथापि तदिह न गणितम्, अप्रकृतत्वात् ।

शक्तिमतां निर्णयस्यैव प्रकृतत्वात् । शिवाद्भेदेन गणिता शक्तिरबोधकल्पत्वमाश्रयत्येव, सैव स्वातन्त्र्यस्याऽबोधता, केवलेन आणवेन शिवोत्थानम्, केवलेन मायीयमलेन मन्त्र महेश्वरोत्थानम् केवलेन कार्ममलेन मन्त्रोत्थानम्, आणवमायीयाभ्यां मन्त्राख्य विद्येशोत्थानम्, आणवकार्माभ्यां विज्ञानाकलोत्थानम्, मायीयकार्माभ्यां प्रलयाकलोत्थानम्, आणवादित्रिकेण सकलोत्थानमिति क्रमः ।

अत्रागमशास्त्रमुदाहरति तथा च

इत्युक्तम् । तत्राप्यवान्तरभेदेन गुणमुख्यताभेदेन विकल्पसमुच्चयतादिभेदेन चानन्तप्रकारत्वमिति ॥ १० ॥

अस्य च मलत्रयस्योद्भवतिरोभावभेदात् संसारिणां प्रकारद्वयम्, - इति दर्शयति

कलोद्बलितमेतच्च चित्तत्त्वं कर्तृतामयम् । अचिद्रूपस्य शून्यादेर्मितं गुणतया स्थितम् ॥ ११ ॥ मुख्यत्वं कर्तृतायाश्च बोधस्य च चिदात्मनः । शून्यादौ तद्गुणे ज्ञानं तत्समावेशलक्षणम् ॥ १२ ॥

एतच्चेति, यत् त्रिदशादीनां भविनां चैतन्यं कर्तृतांशस्य प्राधान्यान्मलेन संविद्भागस्य निमज्जितत्वात् कर्तृतामयम् चिद्रूपस्य तत्त्वं स्वातन्त्र्यम्, कलाख्येन परमेश्वरशक्त्यात्मना तत्त्वेन उपोद्वलितम् अनुप्राणितम्, मलेन न्यक्कृतं सदुद्बोधितम्, शून्यादेर्देहपर्यन्तस्य

इति । सप्तकेऽपि अवान्तरभेदेन बहुत्वं कथयति तत्र इति । इति शब्दः श्लोकव्याख्यासमाप्तौ । एतेन ऊर्ध्वमपि शिवतत्त्वान्तं मायातत्त्वस्य व्याप्तिर्दर्शिता, अन्यथा एकत्र तत्त्वे कां शिवादिकल्पना । शिवस्याणवमलादुत्थानञ्च तत्परामर्शकाणवमलसंस्कारवशेन ज्ञेयम् । अन्यथा एकस्मिन् पूर्णे तत्त्वे का शिवादिकल्पना । एवं सदाशिवादौ ज्ञेयम् ॥ १० ॥

अथैकादशस्य द्वादशस्य च श्लोकस्यावतरणिकां करोति अस्य च इति । स्पष्टम् । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे कलोद्वलितम् इति ।

अत्र टीका : -

एतच्च इति व्याचष्टे यत इति । भविनाम् - संसारिणाम्, मलेन - कार्ममलेन, कर्तृतामयम् - स्थूलकर्तृतास्वरूपम्, चित्तत्त्वम् इति व्याचष्टे चिद्रूपस्य इति, कलाख्येन [चित्तत्त्वम् इति व्याचष्टे कलाख्येन इति - च्।] इति । अत्र पर्यायान्तरमाह मलेन इति ।

शून्यादेर्गुणतया स्थितम् इति व्याचष्टे शून्यादेः इति ।

षष्ठ्यर्थमाह

मायाप्रमातुः सम्बन्धि, तत् गुणत्वेन अप्रधानत्वेन स्थितम्, यतो मितम् इदन्तापन्नदेहादिशून्यान्तप्रमेयभागनिमग्नत्वात् प्रमेयम्, यो गौरो, यः सुखी, यस्तृषितो, यः सर्वरूपरहितः सोऽहम्,

  • इति हि इदन्तैवान्तर्नीताहम्भावा [इदन्तैवान्तर्लीनाहम्भावा - क्।

ष्। ष्।] संसारिणां परिस्फुरति । सेयं जाग्रत्स्वप्नसुषुप्तरूपा संसारावस्था ।

यदा तूक्तगुरुपदेशादिदिशा तेनैवाहम्भावेन स्वातन्त्र्यात्मना व्यापकत्वनित्यत्वादिधर्मपरामर्शमात्मनि विदधता ततः शून्यादेः प्रमेयादुन्मज्ज्येवास्यते तदा तुर्यातीतावस्था । यदापि परामृष्टतथाभूतवैभवादि- नित्यैश्वर्यसम्भेदेनैवाहम्भावेन [परामृष्टतथाभूतवैभवनित्यैश्वर्यादिधर्म- सम्भेदेनैवाहम्भावेन - क्। ष्। ष्।] शून्यादिदेहधात्वन्तं सिद्धरसयोगेन

सम्बन्धि इति । एतद्धेतुकत्वेन मितम् इति व्याचष्टे यतः इत्यादि प्रमेयम् इत्यन्तम् । ननु कथं प्रमातुः स्वरूपस्य प्रमेयत्वं युक्तमित्यत आह यो गौरः इति । गौरः इति पदेन देहप्रमातुः परामर्शः । यः सुखी इति बुद्धिप्रमातुः, तृषितः इति प्राणप्रमातुः परामर्शः । सर्वरूपरहितः इति शून्यप्रमातुः परामर्शः । संसारिणाम् अन्तर्नीताहम्भावा इदन्तैव परिस्फुरति इति । सोऽहम् इति हि परमार्थतः अहन्तासामानाधिकरण्येन तच्छब्दाक्षिप्तयच्छब्दानुरोधतः इदन्ताविषयस्यैव ग्रहणम् । स्मृतिनिर्णये चात्र भरः कृत एवेति न पुनरायस्तम् । सेयम् - अन्तर्नीताहम्भावा इदन्तैव, संसारावस्था, संसारदशा, तत्र प्रमेयप्रधानायां देहप्रमात्रवस्थायां जाग्रदवस्था, प्रमाणप्रधानायां धीप्रमात्रवस्थायां स्वप्नावस्था, प्रमातृप्रधानायां प्राणशून्यप्रमात्रवस्थायां सुषुप्तावस्था इति क्रमो ज्ञेयः ।

द्वितीयं श्लोकं व्याख्यातुमवतरणिकां करोति यदा तु इति ।

आत्मनि - सत्ये चिदात्मनि, प्रमेयात् - आपाततः प्रमातृत्वेऽपि परमार्थेन प्रमेयरूपात्, उन्मज्येव - उत्थायेव, तदा तुर्यातीतावस्था, परमार्थतः उन्मज्जना ऽयोग्यतामपेक्ष्य इव शब्दोपादानम् । परामृष्टं [परामृष्टं तथा भूतं वैभवादि नित्यैश्वर्यं - यत् व्यापकत्वादि - च्।] तथा भूतं यत् वैभवादिनित्यैश्वर्यम् - व्यापकत्वादिरूपमैश्वर्यम्, तस्य सम्भेदः यस्य तादृशेन, सिद्धरसस्य - ताम्रादौ

विध्यते, तदास्यां तुर्यदशायां तदपि प्रमेयतामुज्झतीव ।

सेयं द्वय्यपि जीवन्मुक्तावस्था समावेश इत्युक्ता शास्त्रे ।

सम्यगावेशनमेव हि तत्र तत्र प्रधानम्, तत्सिद्धये तूपदेशान्तराणि । यथा गीतम् ।

मय्यावेश्य मनो ये मां । (गी। १२।२)

इति ।

अथावेशयितुं चित्तं । (गी। १२।९)

इत्यादि च । समावेशपल्लवा एव च प्रसिद्धदेहादिप्रमातृभागप्रह्वीभावभावनानुप्राणिताः परमेश्वरस्तुतिप्रणामपूजाध्यानसमाधिप्रभृतयः कर्मप्रपञ्चाः । यद्गीतमपि ।

अभ्यासेऽप्यसमर्थः सन्मत्कर्मपरमो भव । (गी। १२।१०)

इति । देहपाते तु परमेश्वर एवैकरसः, - इति कः कुत्र कथं समाविशेत् । तदेतदाह - यत् पुनः कर्तृताया मुख्यत्वं तन्नान्तरीयकश्च शून्यादेर्गुणभावः,

सुवर्णताऽऽपादकस्य पारदादेः सिद्धरसस्य, यो योगः तेन, विध्यते - व्याप्यते, सर्वत्राहन्ताग्रहे हि देहादिरपि तथैव गृह्यते ।

तदपि - शून्याद्यपि, उज्झतीव, तत्रापि चिन्मात्ररूपत्वेन ग्रहणात्, अन्यथाहम्परामर्शविषयत्वायोगात् । द्वयी अपि - देहाभिमानस्पर्शरूषिता तुर्यावस्था तदभिमानस्पर्शरहिता तुर्यातीतावस्था, समावेश इति - परतत्त्वेन सहैकीभाववाचकेन समावेश - शब्देन, शास्त्रे - अध्यात्मशास्त्रे । ननु शास्त्रे बहूक्तमस्ति इत्यत आह सम्यक् इति । तत्र तत्र - तेषु तेषु शास्त्रेषु ।

अत्र श्रीभगवता स्वयं प्रोक्तश्रीगीताशास्त्रवाक्यमुदाहरति यथा गीतम् - इति । किं गीतमित्यपेक्षायाम् आह मय्यावेश्य इति ।

आवेश्य - योजयित्वा । ननु सत्स्वपि प्रसिद्धेषु स्तुत्यादिषु किमिति समावेश एवेत्थमुक्तः इत्यत आह समावेश इति । देहादिरूपा ये प्रमातृभागाः तेषां यत् प्रह्वीभावभावनम् - परप्रमातारं प्रति गुणीभावापदनम् - नामनं च तेन अनुप्राणिताः - सन्दीपिताः, अत्रापि श्रीगीतावाक्यमुदाहरति अभ्यासे इति ।

ननु जीवन्मुक्तिर्द्वयरूपिणी भवतु, विदेहमुक्तिस्तु कीदृशी भवति इत्यत आह देह इति । देहपाते - विदेहमुक्त्यवस्थायाम्, तदेतत्

  • समनन्तरोक्तं वस्तु ।

तस्मिंश्चाप्यचिद्रूपे गुणीभूते स्वातन्त्र्यस्याप्यबोधता इति मलव्यापारस्यापहस्तनात् चितो यः परोऽप्यात्मभागो [योऽपरोऽपि - क्। ष्। ष्।] बोधलक्षणो मलेन न्यक्कृतोऽभूत् तस्यापि अधुनोन्मग्नत्वेन मुख्यत्वम् । यच्च तत् कर्तृताया [यच्च कर्तृतायाः

  • क्। ष्। ष्।] मुख्यत्वम् उन्मग्नता, इदमेव ज्ञानमज्ञानात्मकमलप्रतिपक्षत्वात्; तदेतन्मुख्यत्वं समावेशस्य लक्षणं येन देहस्थितोऽपि पतिः इति मुक्तः इति शास्त्रेषूक्तः ॥ १२ ॥

एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे यत्पुनः इति । तन्नान्तरीयकः - कर्तृतामुख्यत्वाविनाभावी, गुणभावः - अप्रधानत्वम्, तस्मिन् - शून्यादौ च, अपहस्तनात् - निमीलनात्, चितः

  • चिन्मात्रस्य परोऽपि - उत्तीर्णोऽपि सन्, आत्मभागः - स्वांशः, न्यक्कृतः - तिरस्कृतः, तत्कर्तृतायाः - चित्कर्तृतायाः, तदेतत् मुख्यत्वम् - प्रोक्तं चिद्भागस्य मुख्यत्वम्, लक्षणम् - स्वरूपम्, येन - येन मुख्यत्वेन, देहस्थितोऽपि - जीवन्नपि पुरुषः ।

एवमत्र श्लोकद्वयस्य सङ्क्षिप्तार्थः । एतद् - देहादिभावमागतं सकलप्रमातृरूपम्, चित्तत्त्वम् - चितः स्वरूपम्, अचिद्रूपस्य जडस्य देहादेः शून्यादिप्रमातृचतुष्ट- यस्य, गुणतया स्थितम् - धर्मतया स्थितं भवति । कीदृशम् ? कलयाकिञ्चित्कर्तृत्वरूपेण कलातत्त्वेन, उपोद्वलितम् - अनुप्राणितम्, अत एव कर्तृतामयम् - कर्तृतास्वरूपम् । कुतो गुणत्वेन स्थितमित्यपेक्षायाम् विशेषणं हेतुत्वेननाह मितम् इति । यतः तार्किकाः हि प्रमातारं प्रति ज्ञानस्य गुणत्वमेव कथयन्ति । तु - व्यतिरेके । कर्तृताया मुख्यत्वं यद् भवति शून्यादौ तद् गुणे सति, गुणत्वेन

नन्वेवं पत्युः समावेशात्मिका तुर्यतदतीतरूपा भवतु दशा, पशोस्तु कथं सुषुप्तस्वप्नजाग्रद्दशाभेद आगमेषूक्तः,

  • इत्याशङ्क्य सुषुप्तस्वरूपमेव तावदाचष्टे श्लोकत्रयेण ।

शून्ये बुद्ध्याद्यभावात्मन्यहन्ताकर्तृतापदे । अस्फुटारूपसंस्कारमात्रिणि ज्ञेयशून्यता ॥ १३ ॥ साक्षाणामान्तरी वृत्तिः प्राणादिप्रेरिका मता । जीवनाख्याथवा प्राणेऽहन्ता पुर्यष्टकात्मिका । तावन्मात्रस्थितौ प्रोक्तं सौषुप्तं प्रलयोपमम् ॥ सवेद्यमपवेद्यं च मायामलयुतायुतम् ॥ १५ ॥

इह चित्तत्त्वं स्वस्वरूपमाच्छादयत् ज्ञेयरूपेण बुद्ध्यादिना देहान्तेन घटादिना वाभासते [भासते - क्। ष्। ष्।] एकमेव चेदं स्वातन्त्र्यविजृम्भितम्, न त्वत्र

ज्ञाते सतीति यावत्, चिदात्मनः - चिद्रूपस्य बोधस्य च मुख्यत्वं यद् भवति तत् समावेशलक्षणम् - तुर्यतुर्यातीतसमावेशस्वरूपं ज्ञानं भवति इति । तदुक्तम् : -

सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज

इति । अत्र हि धर्म शब्देन शून्यादिप्रमातृप्रमेयवर्ग- ग्रहणम् माम् इत्यनेन चिद्रूपस्य, शरणव्रजनं चात्र समावेश एवेत्यलं बहुना ॥ १२ ॥

अथ त्रयोदशस्य चतुर्दशस्य पञ्चदशस्य च श्लोकस्यावतरणिकां करोति नन्वेवम् इति । स्पष्टम् ।

एवम्वतरणिकां कृत्वा श्लोकमुपन्यस्य व्व्याचष्टे शून्ये इति ।

अत्र टीका : -

प्रथमं श्लोकं व्याख्यातुं प्रक्रियां करोति इह इति । इह - अत्र जगति, आभासते - स्फुरति । तदुक्तम् ।

चिद्घनोऽपि जगन्मूर्त्याश्यानो यः स जयत्यजः । स्वात्मप्रच्छादनक्रीडाविदग्धः परमेश्वरः ॥

वास्तवः क्रमो वा भेदो वा । तत्रापि तु स्वातन्त्र्यात् क्रमश्च भेदश्चाभासते । तदेवंस्थिते यश्चित्तत्त्वस्य स्वरूपाच्छादनभागः स एवोत्तरभागान्तरासङ्कीर्णो यदा विश्राम्यति तदनुदयाद्वा तत्प्रध्वंसाद्वा प्रलय इव तदनादरणाद्वा निद्रासमाधिमूर्च्छादाविव, तत्रैव चाहन्तारूपं कर्तृतायाः पदं परामर्शोऽस्फुटत्वादरूपात्मना संस्कारेण शुद्धेन वेद्यपदवीमप्राप्तेन युक्तो भवति, तदा सैवावस्था नेत्येवपरामर्शलेशानपेक्षित - [नेत्येव परामर्शशेषा अनपेक्षितनिषेध्यबुद्ध्यादि - क्। ष्। ष्।]

इदम् - जगद्रूपम्, अत्र - अस्मिन्स्वातन्त्र्ये । ननु तर्हि कथं तन्निर्मितेषु भावेषु क्रमो वा भेदो वा दृश्यत इत्यत आह तत्रापि तु इति । तत्रापि, एवं सत्यपीत्यर्थः । एकस्य स्वतन्त्रस्य क्रमभासनं भेदभासनमपि वा स्वातन्त्र्यमेवेति भावः ।

उक्तप्रक्रियावष्टम्भेन श्लोकं व्याचष्टे तदेवम् इति ।

स्वरूपाच्छादनभागः - स्वरूपाच्छादनांशः, उत्तरभागान्तरैः - भूतभाविपदार्थरूपैः अन्यैरंशैः, असङ्कीर्णः । तदनुदयात् - उत्तरभागानुदयात्, अनुदयात् इत्यवरोहाभिप्रायेण, प्रध्वंसात् इत्यारोहाभिप्रायेण, अत्र दृष्टान्तं दर्शयति प्रलये इव इति । तदनादरणात्, उत्तरभागोपेक्षया, तत्र दृष्टान्तमाह निद्रा इति । तत्रैव च शून्यारव्ये तस्मिन् विश्रान्तिकाले एव । पद शब्दं व्याचष्टे परामर्शः इति । अस्फुट इत्यादि समस्तं पद व्याचष्टे अस्फुटत्वात् इति । मात्रचः व्याख्यां करोति शुद्ध इति ।

तद्धितप्रत्ययव्याख्यां करोति युक्तः इति । शून्ये इति व्याचष्टे तदा इति । तदा - तस्मिन् काले, सैवावस्था शून्य इत्युच्यते पण्डितैरिति शेषः । कीदृशी ? नेत्येव - न इत्येतावन्मात्ररूपः यः परामर्शलेशः तेन अनपेक्षितः - विषयत्वेन न अपेक्षाविषयीकृतः, निषेध्यबुद्ध्यादिविषयः - उत्तरकाले निषेधनीयबुद्ध्यादिविषयः, सुस्पष्टः परामर्शः तेन सम्भेदः सम्बन्धः यस्याः ।

निषेधपरामर्शे हि निषेध्यपरामर्शोऽवश्यम्भावी एव, अन्यथा किं विषयः सः स्यात् । अस्याम् अवस्थायां तु स न युक्तः सुषुप्तत्वहानेः । किञ्च निषेध्यपरामर्शोऽप्यत्र न युक्त एव, उत्तरकाले एव न किञ्चिदवेदिषमिति परामर्शोत्पादादिति भावः ।

निषेध्यबुद्ध्यादिविषयसुस्पष्टपरामर्शसम्भेदापि अवश्यम्भाविनिषेध्ययोगात् अकिञ्चिनोऽहम् इतिवत् [इत्येवम्भूतपरामर्शवत् - क्। ष्। ष्।] स्वीकृतसामान्याकारनिषेध्या, अत एव संस्कारशेषीकृतज्ञेया [संस्कारशेषीकृतज्ञेयरूपा - क्। ष्। ष्।] शून्य इत्युच्यते ।

तथाविधे बुद्ध्यादीनां देहादिनीलान्तानामभावरूपे शून्यत्वमुच्यते, यतस्तत्र ज्ञेयानां शून्यता अभावरूपता संस्कारशेषता । इयमेव हि सर्वत्राभावो न तु सतां सर्वात्मना विनाशः ।

तादृशी अपि अवश्यम्भाविनिषेध्ययोगात् - उत्तरकाले अवश्यम्भाविनिषेधनीययोगात्, अकिञ्चिनोऽहमितिवत् - एवं रूपसामान्यतो निषेधवत्, स्वीकृतः सामान्याकारः - बुद्ध्यादिविशेषरहितः निषेध्यः यया सा, तत्परामर्शाभावेऽपि फलतः तद्युक्तेति यावत् । अत एव - अस्माद्धेतोरेव, संस्कारशेषीकृतं ज्ञेयम् बुद्ध्यादिरूपञ्ज्ञेयवस्तु यया सा, अन्यथाऽग्रे तत्प्रादुर्भावायोगादितिभावः । सप्तमीयोजनां करोति तथाविधे इति । बुद्ध्याद्यभावात्मनि [बुद्ध्यादिभावात्मनि - च्।] इति व्याचष्टे बुद्ध्यादीनाम् इति । कुतः शून्यत्वमुच्यते इत्यपेक्षायाम् ज्ञेयशून्यता इति व्याचष्टे यतः इति । तत्र - तस्मिन् शून्ये, अभावरूपतामपि प्रकटीकरोति संस्कार इति । ननु अन्यत्र अभावः कीदृशो भवति इत्यत आह इयमेव इति । इयमेव - संस्कारशेषतैव, सर्वात्मना - निःशेषेण, तदुक्तम्; -

नाभावो विद्यते सतः

इति ।

एवमत्र श्लोके योजना बुद्ध्याद्यभावात्मनि तथा अहन्ताकर्तृतापदे उत्तरकाले न किञ्चिदवेदिषम् इति स्मृतिरूपपरामर्शान्यथानुपपत्तेः अहन्ता - रूपकर्तृतापरामर्शयुक्ते, तथा अस्फुटम् अरूपं संस्कारमात्रमस्मिन्नस्तीति तादृशे, शून्ये - सुषुप्तरूपे शून्यपदे, ज्ञेयशून्यता - ज्ञेयराहित्यम्, ज्ञेयस्य संस्कारमात्रेणावस्थानमिति यावत्, भवति इति ।

तत्रैव शून्ये प्रमातरि समवेता प्राणापानसमानोदानव्यानात्मके वायुचक्रे प्रेरणात्मिका शक्तिः, सा च विद्याकलयोः पपञ्चभूतौ यौ क्रमेण बुद्धीन्द्रियकर्मेन्द्रियवर्गौ तयोरान्तरी वृत्तिः । बाह्या हि तयोः शब्दाद्यालोचनशब्दाभिव्यक्तिस्थानाभिहननादिका वृत्तिः ।

तदुक्तम्

सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च । (साम्। २९ का।)

इति । एवं शून्य एवाहन्ता अक्षचक्रोपोद्वलिता जीवनम्, इति स शून्य एव जीवः संसरति । यदि वेन्द्रियशक्तीनामेव यान्तरी साधारण - प्राणनात्मिका प्राणशब्दवाच्या प्राणादिमारुतविषेषप्रेरणामयी सैव अहम् इत्यधिशयाना जीवनम्, तदा प्राण एव जीवः संसारी, स एव शून्यः, प्राणश्च पुर्यष्टकशब्दवाच्यः, प्राणादिपञ्चकं बुद्धीन्द्रियवर्गः

अथ द्वितीयं श्लोकं व्याचष्टे तत्रैव इति । समवेता इति । सा इति व्याचष्टे शून्ये इति । प्राणादिप्रेरिका इति व्याचष्टे प्राण इति ।

अक्षाणान्मातरीवृत्तिः इति व्याचष्टे सा च इति । सा च - शक्तिश्च, प्रपञ्चभूतौ - उपप्लवभूतौ, आन्तरी वृत्तिः - आन्तरो व्यापारः, तयोः - बुद्धिन्द्रियकर्मेन्द्रियवर्गयोः, तत्र शब्दाद्यालोचनं बुद्धीन्द्रियवृत्तिः शब्दाभिव्यञ्जनस्थानहननादि कर्मेन्द्रियवृत्तिरिति क्रमो ज्ञेयः । जीवनाख्या इति व्याचष्टे एवम् इति ।

शून्ये एव अहन्ता - शून्यप्रमातृगताऽहन्ता एव, इति - अतः कारणात्, यः जीवः संसरति सः शून्य एव - शून्यप्रमातैव भवति । अथवा इत्यादि व्याचष्टे यदि वा इति । अधिशयाना - आश्रितवती । नन्वत्र कस्य जीवत्वमित्यत आह तदा इति ।

पुर्यष्टकात्मिका इति पक्षद्वयेऽपि योजयति स एव इति । स एव - प्राण एव । कुतः प्राणस्य पुर्यष्टकवाच्यत्वमित्यत आह प्राणादि इति ।

प्राणाद्यष्टकव्यञ्जकत्वादेवास्य

कर्मेन्द्रियगणो निश्चयात्मिका च यतो धीर्व्यज्यते ।

तन्मात्रपञ्चकं मनोऽहम्बुद्धय इत्यन्ये

तन्मात्रोदयरूपेण मनोऽहम्बुद्धि । । (स्प। ४।९)

इति ।

भूमिरापोऽनलम्। । (गी। ७।४)

इति च वदन्तः ।

एवं यदुभयात्मकं पुर्यष्टकं तावत्येव शुद्धे या विश्रान्तिः, तस्यां

पुर्यष्टकत्वमिति भावः । अन्येत्वन्यथा कथयन्ति इत्याह तन्मात्रपञ्चकम् [प्राणादिपञ्चकम् - च्।] इति । अन्ये इति - एवम्, आहुरिति शेषः । इति किमिति? तन्मात्रपञ्चकम् इति । एतदादि बुद्ध्यन्तं पुर्यष्टकम्, [एतदादि बुद्ध्यन्तम् पञ्चकं पुर्यष्टकम् - च्।] नत्वेतद्व्यञ्जकः प्राण इति भावः । अन्ये कीदृशाः ? इति वदन्तः । इति किमिति ? तन्मात्रोदय इति । तथा इति च वदन्तः । इति किमिति ? भूमिः इति । तदुक्तम् :-

तन्मात्रोदयरूपेण मनोऽहं बुद्धिना पुर्यष्टकेन संरुद्धः इत्यादि ।

एवमत्र श्लोकद्वये योजना पण्डितानाम् । अक्षाणाम् - सर्वेन्द्रियाणाम्, आन्तरीवृत्तिः - आन्तरव्यापाररूपा, तथा प्राणादिप्रेरिका सा अहन्ता जीवनाख्या मता । अथवा प्राणे स्थिता अहन्ता जीवनाख्या मता, अहन्ता कीदृशी ? पुर्यष्टकात्मिका, पुर्यष्टकरूपेत्यर्थः, इति ।

अथ तृतीयं श्लोकं व्याचष्टे एवम् इति । तावत् शब्दापेक्षितं वस्तु कथयति यत् इति । उभयात्मकम् - शून्यप्राणगताऽहन्तात्मकम्, मात्रचो व्याख्यां करोति शुद्धे इति । स्थिति पदं व्याचष्टे विश्रान्तिः इति ।

सत्यां यदहन्तायाः सुषुप्ताया बोधलक्षणं भावरूपं कर्म च क्रियास्वभावं तत् सौषुप्तम् । मलेन हि प्रमाता सुप्तः कलया त्वसुप्त इव, अत्र तन्निमज्जने [निमज्जनेन - क्। ष्। ष्।] सुष्ठु सुप्तस्तस्य भावः कर्म वा, - इति । तत्र शून्यसौषुप्ते न किञ्चिद्व्यतिरिक्तं वेद्यम्, - इति मायीयमलाभावादपवेद्यं तत्; प्राणसुषुप्ते तु स्पर्शकृतस्य सुखदुःखादेर्भावात् मायाख्यमस्ति मलम्, - इति सवेद्यं तत् । एवं गाढागाढसुषुप्तद्वितयवत् प्रलयोऽपि मन्तव्यः । स परं देहादिप्रध्वंसानुदयकृतश्चिरतरकालश्च । सुषुप्तं तु देहाद्यनादरकृतमचिरकालं च, - इति विशेषः । तत्रापि श्रमकृतं निद्रा, धातुदोषकृतं मूर्च्छा, द्रव्यकृतं मदोन्मादादि, स्वातन्त्र्यकृतं समाधिः, - इत्याद्यवान्तरभेदाः । केचित्तु समाधिरूपं सवेद्यमन्यदपवेद्यम्, - इति प्रपन्नाः ॥ १५ ॥

नन्वेवं स्फुटवेद्यपदविनिर्मुक्ता सुषुप्तावस्थास्तु, स्वप्नजाग्रद्दशयोस्तु स्फुटवेद्यावभासयोगिन्योः को भेदः ? इत्याशङ्क्य श्लोकद्वयेन भेदमाह

सप्तमीयोजनां करोति तस्यां सत्याम् इति । सौषुप्तम् इति भावे कर्मणि च व्याचष्टे अहन्तायाः इति । अहन्तायाः इति विशेष्याध्याहारः । सौषुप्तम् इति अन्यथा व्याचष्टे मलेन इति । अत्र

  • अस्यां सुषुप्तौ, तन्नि मज्जने - कर्तृरूपकलातत्त्वनिमज्जने सति ।

उत्तरार्धं व्याचष्टे तत्र इति । तत्र, सुसुप्तद्वयमध्ये इत्यर्थः ।

एतेन न किञ्चिदवेदिषम् इति शून्यसुषुप्तम् । सुख महमस्वाप्सम् इति प्राणसुषुप्तम् इति द्योतितम् । मध्ये त्यक्तं प्रलयोपमम् इति पदं व्याचष्टे गाढ इति । ननु तर्हि प्रलयसुषुप्तयोः एकत्वमेवायातमित्यत आह स परम् इति । अवरोहमपेक्ष्य अनुदय इत्युक्तम्, आरोहमपेक्ष्य प्रध्वम्स इति प्रोक्तम् । अनादरः - निद्रादोषादिकृता उपेक्षा । सुषुप्तेऽपि हेतुभेदेन नामभेदानाह तत्रापि इति । द्रव्यम् - मद्यादि । अन्येषां मतमाह केचित्तु इति, प्रतिपन्नाः - अङ्गीकृतवन्तः ॥ १५ ॥

अथ षोडशस्य सप्तदशस्य च श्लोकस्यावतरणिकां करोति नन्वेवम् इति । स्पष्टम् । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे मनोमात्र इति ।

मनोमात्रपथेऽप्यक्षविषयत्वेन विभ्रमात् ।

स्पष्टावभासा भावानां सृष्टिः स्वप्नपदं मतम् ॥ १६ ॥

सर्वाक्षगोचरत्वेन या तु बाह्यतया स्थिरा ।

सृष्टिः साधारणी सर्वप्रमातॄणां स जागरः ॥ १७ ॥

बाह्येन्द्रियाणि [बाह्येन्द्रियाधिष्ठानानि - क्। ष्। ष्।] चक्षुर्गोलकादीनि निमीलितानि निद्रायमाणस्य लक्ष्यन्ते न च तेषु निमीलितेषु बाह्येन्द्रियग्रहणव्यापारो दृष्टः, तेन शुद्ध एव मनोमार्गे रूपस्पर्शादयो भावा अक्षग्रहणसमुचितेन स्पष्टेन वपुषा भासनयोग्याः परमेश्वरेण सृज्यन्ते, न त्वणुना, अनिष्टस्यैव दर्शनात्, इष्टस्यापि देशकालान्तरादियोगेन । अत एव मनोमात्रस्थितत्वादेव न प्रमात्रन्तरसाधारणीयं सृष्टिः । यत्तु तत्र बाह्येन्द्रियविषयत्वं प्रमात्रन्तरसाधारण्यं चकास्ति, तद्यद्यपि यावद्भाति तावत् तथैव, तथाप्युत्तरकालं प्रबुद्धस्य न तथा, - इति परामर्शेन तद्रूपं निर्मूलत्वेनावभाति, -

अत्र टीका : -

मनोमात्र इति व्याचष्टे बाह्येन्द्रियाणि इति ।

निद्रायमाणस्य - निद्रामाचरतः, शुद्धे - बाह्येन्द्रियस्पर्शानारूषिते । भावानाम् इति व्याचष्टे रूप इति ।

स्पष्टावभासा इति व्याचष्टे अक्ष इति । सृष्टिः इति व्याचष्टे सृज्यन्ते इति । नत्वणुना - अणुना जीवेन न तु सृज्यन्ते । कुतो न सृज्यन्ते इत्यत आह अनिष्टस्यैव इति कदाचित्स्वप्ने अनिष्टमेव केवलं दृश्यते अतो ज्ञायते तज्जीवेन न सृज्यते । न हि कस्यापि स्वानिष्टसर्जनं युक्तम् ।

यत्तु केनापि कारणेन तदेव दृश्यते तत्रेश्वरकृतत्वं स्फुटमेवेति ।

द्वितीयमपि हेतुमाह इष्टस्यापि इति । दर्शनात् इति अत्रापि सम्बध्यते ।

यदि स्वप्ने जीवस्य निर्मातृत्वं स्यात् तर्हि कदाचित् कुत्रचिदेवेष्टदर्शनमयुक्तं स्यादिति भावः । एतेन फलितं प्रसिद्धं वस्तु कथयति अत एव इति । इयम् - स्वप्नरूपा, न हि अन्यमनोगतमन्यस्य गोचरीभवितुं युक्तमिति भावः । विभ्रमात् अक्षविषयत्वेन इति व्याचष्टे यत्तु इति । तत्र - तस्मिन्स्वप्ने, चकास्ति - भासते । तथैव, सत्यभूतमित्यर्थः । न तथा इति परामर्शेन - जाग्रदवस्थायां स्थितेन

इति भ्रान्तम् । यानि हि प्रमात्रन्तराणि स्वप्ने स्वेन्द्रियाणि च भान्ति, एतानि प्रबोधकालभाविभिरेव तैरभिन्नानि, - इति निश्चयः, प्रबोधकाले च न तथा, - इति निश्चयानुवृत्तिरपहृतैव । तेनोभयमपि भ्रान्तमुच्यते; भ्रान्तत्वमेव चास्थैर्यम् ।

एवमिन्द्रियाविषयत्वेनैवासाधारणत्वमाक्षिप्तम्,

विभ्रमेणैव चास्थैर्यं…

इति स्वकण्ठेन, तत् जाग्रत्प्रतियोगिधर्मनिरूपणावसरेऽपि न दर्शितम् । एवम्भूता या सृष्टिः सा पशोः स्वप्नसमये भावात् स्वप्नपदं स्वप्नकाले विषयः इति, तथाभूतविषयं प्रमातृत्त्वं पशोः स्वप्नावस्था इति यावत् । अक्षग्रहणं बाह्येन्द्रियदशकस्योपलक्षणम् ।

असत्यत्वपरामर्शेन, तद्रूपम् - स्वप्नपदार्थरूपम्, निर्मूलत्वेन - बाध्यत्वेन, इति - अतः कारणात्, भ्रान्तम् - भ्रमसिद्धम् । तदुक्तम् :-

स्वप्नो जाग्रत्यसद्रूपः

इति । यत्तु

जाग्रत्स्वप्नोऽप्यसद्वपुः

इति नीत्या जागरस्याप्यसत्यत्वमेव तदिह अप्रस्तावहतमिति न वक्तुं युक्तम् । कथं भ्रान्तमित्यपेक्षायामाह यानि इति । तैः - प्रमात्रादिभिः, प्रबोधकाले च न तथा इति, मया यत्स्वप्ने दृष्टं तत् तथा न भवति । एवं निश्चयानुवृत्तिः - स्वप्ननिश्चयानुवर्तनम्, अपहृतैव - उन्मूलितैव भवति । तेन - ततः कारणात्, उभयमपि - प्रमात्रन्तराणि इन्द्रियाणि च, स्वप्ने भ्रान्तम् - भ्रमसिद्धमुच्यते । ननु तत्र अस्थैर्यत्वं कथमस्तीत्यत आह भ्रान्तत्वमेव इति । उपसंहारं करोति एवम् इति । तत् - असाधारणत्वम् अस्थैर्यञ्च, जाग्रतः - जाग्रद्दशायाः प्रतियोगिभूताः - प्रतिपक्षत्वेन स्थिताः ये धर्माः - असाधारणत्वादिरूपाः धर्माः, तेषां यन्निरूपणं तस्य अवसरे । स्वकण्ठेन न दर्शितम् - साक्षान्नोक्तम् । न हि आक्षेपमात्रसिद्धे यत्नो युक्त इति भावः । स्वप्नपदम् इति व्याचष्टे स्वप्नकाले इति । पदम् इत्यवयवं व्याचष्टे विषयः इति । अत्र पर्यायान्तरमाह तथाभूत इति । अक्ष शब्दस्य दशेन्द्रियोपलक्षणत्वं कथयति अक्षग्रहणम् इति ।

यत्र तु बाह्याक्षविषयं सर्वप्रमातृसाधारणत्वं च निश्चयानुवृत्त्या बाधारहितया परमार्थत्वेन चकास्ति, तत एव स्थैर्य विषयस्य सा सृष्टिः पशोः जागरः; तद्विषयं प्रमातृत्वं जागरावस्था, - इति यावत् । यावच्चानुवृत्तिस्थैर्यं निश्चयस्य चकास्ति तावज्जागरः । तन्मध्ये [तन्मध्ये एव च - क्। ष्।

ष्।] च निश्चयानुवृत्तिनिर्मूलनात् स्वप्नः, - इत्यवभाससारत्वात् वस्तूनाम्, स्वप्नेऽपि दीर्घे यत्र स्वप्नान्तरं स तदपेक्षया जाग्रदेव; जाग्रदभिमतमपि वा दीर्घदीर्घं कालान्तरे निश्चयानुवृत्तिनिरोधाज्जाग्रदन्तरापेक्षया स्वप्न एवेति मन्तव्यम् ॥ १७ ॥

आसां तिसृणां हेयत्वप्रदर्शनेन तुर्यावस्थातः प्रभृत्युपादेयत्वं सूचयति

द्वितीयं श्लोकं व्याचष्टे यत्र तु इति । अनुवृत्तिरूपं स्थैर्यम् अनुवृत्तिस्थैर्यम् । जाग्रन्मध्येऽपि स्वप्नं साधयति तन्मध्ये इति ।

तन्मध्ये च - जाग्रन्मध्ये च, निश्चयानुवृत्तिनिर्मूलनात् - तत्कालजातनष्टवस्तुविषयनिश्चय - निर्मूलनेन, स्वप्नः इति भवति ।

कुतः ? वस्तूनामवभाससारत्वात्, यथावभासमेव हि वस्तूनि व्यवस्थाप्यन्ते इति भावः । स्वप्नमध्येपि जाग्रत्साधयति यत्र इति ।

स्वप्नान्तरम् - अन्यः स्वप्नः । नन्वस्य स्वप्नस्य जागरत्वं स्फुटमेवास्तीति कथं स्वप्नव्यवहारः इत्यत आह जाग्रदभिमतमपि इति । जाग्रत् इति अभिमतं जाग्रदभिमतम् ।

कालान्तरे - स्वप्नद्वयात्प्रबोधसमये । तदुक्तं श्रीवशिष्ठेन :-

जाग्रच्चेत्क्षणदृष्टं स्यात्स्वप्नः कालान्तरस्थितः । तज्जाग्रत्स्वप्नतामेति स्वप्नो जाग्रत्त्वमेव च ॥

इति ॥ १७ ॥

अथाष्टादशस्य श्लोकस्यावतरणिकां करोति आसाम् इति ।

स्पष्टम् । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे हेया इति ।

हेया त्रयीयं प्राणादेः प्राधान्यात्कर्तृतागुणे । तद्धानोपचयप्रायसुखदुःखादियोगतः ॥ १८ ॥

यत्रायं प्रमाता त्यागोपादानतदिच्छाप्रयत्नादिकं परिक्लेशं पश्यति, तदेवास्य हेयतया भाति । स चास्य सुखदुःखयोगवैचित्र्येणैव कृतः, तच्चैतदवस्थात्रये सम्भवति; यतः कर्तृतारूपं स्वात्मविश्रान्त्यनन्यौन्मुख्यलक्षण- मानन्दैकघनं [स्वात्मविश्रान्त्यानन्यौन्मुख्य - क्। ष्। ष्।] यच्चिन्मयं वपुः, तद्यदा प्राणादिमत् शून्यपूर्यष्टकदेहादिभूमिषु [प्राणादिवृत्तिशून्य - क्। ष्। ष्।] गुणतामभ्येति, तदा तस्मिन् गुणीभूते प्राणादेः प्राधान्यं स्फुरति । तथा च तस्य चिद्रूपस्य यथा यथा हानिस्तथातथा दुःखोपचयो, यथायथा किञ्चिदुन्मज्जनं तथातथा सुखोपचयः । तथाहि बुभुक्षाकाले प्राणस्यैवोद्रेकात् दुःखम्, तृप्तौ तस्य न्यग्भावादहन्तोद्रेके सुखं युक्तम् [सुखम् । एवं - क्। ष्। ष्।] एवं श्रान्तस्य मर्दनामर्दने देहप्राधान्याप्राधान्ये मन्तव्ये ।

अत्र टीका : -

श्लोकं व्याख्यातुं प्रक्रियां करोति यत्र इति । आदि शब्देन सुखादिग्रहणम्, स च - परिक्लेशश्च, अस्य - प्रमातुः । तच्चैतत् - समनन्तरोक्तं त्यागोपादानतदिच्छादिकम्, अवस्थात्रये - जाग्रत्स्वप्नसुषुप्तरूपे । कुतः सम्भवतीत्यपेक्षायामाह यतः इति । स्वात्मनि - चिद्रूपे स्वात्मतत्त्वे या विश्रान्तिः - अहम्परामर्शरूपो विश्रामः, तत्र यत् अनन्यौन्मुख्यम् - परापेक्षाराहित्यम्, तदेव लक्षणम् - स्वरूपं यस्य तादृशम् । तत्

  • चिन्मयं वपुः, प्राणादिमत् - जीवनाख्यवृत्तिमत् सत्, गुणताम् - गुणभावम् । ननु तेन किं सेत्स्यतीत्यत आह तथा च, इति । तथा च, प्राणादिप्राधान्ये सतीत्यर्थः । हानिः - गुणीभावः, प्राणादिभावे न्यग्भावनमिति यावत् । कथमित्यपेक्षाया समर्थनं करोति तथाहि इति । तस्य - प्राणस्य, प्राण प्रमातुः, युक्तम् - न्याय्यम् । देहप्रमातर्यतिदिशति एवम् इति । श्रमसमये देहस्य प्राधान्यम् मर्दनसमये अप्राधान्यमिति क्रमो -

यस्तु समावेशतत्त्वज्ञस्तस्य तत्काले [तत्तत्काले - क्। ष्। ष्।] दुःखानुदय एव । यदाह

दुर्बलोऽपि तदाक्रम्य यतः कार्ये प्रवर्तते ।

आच्छादयेद्बुभुक्षां च तथा योऽतिबुभुक्षितः ॥ (स्प। ३ ८)

इति । एवं प्राणादेः प्राधान्ये कर्तृताया गुणभावे सुखदुःखवैचित्र्यशतयोगः प्रयासभूमिः, - इति जाग्रत्स्वप्नसुषुप्ते प्राणादिप्राधान्यं कर्तृतान्यग्भावश्चास्ति, - इति तत् त्रयमेव हेयम् । कर्तृताप्राधान्योन्मेषात्तु तुर्यरूपात्प्रभृति तत्स्थैर्यात्मकतुर्यातीतदशान्तमुपादेयम्, एकरसानन्दघन -

ज्ञेयः । ननु सर्वेषां देहादिप्राधान्यं सममेवास्ति उत न इत्यपेक्षायामाह यस्तु इति । समावेशस्य - समनन्तरोक्तस्य तत्त्वं जानातीति तादृशः । तत्काले - बुभुक्षादिवशागतप्राणादि- प्राधान्यकाले । अथ श्रीस्पन्दवाक्यमुदाहरति दुर्बलोऽपि इति ।

अस्यैव श्लोकस्य तृतीयं पादमाह आच्छादयेत् इति । तत्र प्रथमे पादे सहजस्वरूपनिभालनक्ष?मस्य समावेशतत्त्वज्ञस्य क्षीणतासमये देहप्राधान्यनिवारणम् । तृतीयेन तु वभुक्षासमये प्राणप्राधान्यनिवारणम् सामान्यदृष्टान्तेन निर्वाहितम् । उक्तप्रक्रियावष्टम्भेन श्लोके योजनां करिष्यन् उपसंहारं करोति एवम् इति । एवम् - उक्तन्यायेन, प्राणादेः प्राधान्यात् इति व्याचष्टे प्राणादेः प्राधान्ये इति ।

कर्तृतायाः - अहन्तायाः, कर्तृतागुणे इति व्याचष्टे कर्तृताया गुणभावे इति ।

द्वितीयमर्धं व्याचष्टे सुख इति । इयं त्रयी हेया इति व्याचष्टे जाग्रत् इति । तत्त्रयम् - जाग्रदादिरूपं त्रयम् । एतेन फलितं तुर्यतदतीतयोरुपादेयत्वं कथयति कर्तृता इति ।

कर्तृताप्राधान्योन्मेषात् - पराहन्ता प्राधान्यप्रादुर्भावात्, तत्स्थैर्यात्मिका या तुर्यातीतदशा तदन्तम् तत्स्थैर्यात्मक - तुर्यातीतदशान्तम् । कुतः उपादेयत्वमित्यत आह एक इति । एकरसः - महाद्वैतमयः तथा आनन्दघनः यः स्वभावः - सहजं रूपम् तस्य लाभे सति, उपादित्साजिहासयोः - वस्तुविषययोः उपादानेच्छाहानेच्छयोः यत् वैवश्यम् - विवशता तस्य प्रशमात्, तुर्यतदतीतयोर्हि सहजस्वरूपलाभेन वस्तुविषयाः हानो - पादानेच्छाः न स्फुरन्त्येव ।

स्वभावलाभे उपादित्सा - जिहासा - वैवश्य - परिश्रम-प्रशमात्, - इति तात्पर्यम् ॥ १८ ॥

ननु प्राणादिप्राधान्यं हेयतायां कारणमुक्तं तच्चेज्जाग्रदादित्रय एव तर्हि तुर्यादौ तदभावात् तत्समावेशे व्युत्थानानुपपत्तिः, - इति श्लोकद्वयेन शङ्का परिहरति ।

प्राणापानमयः प्राणः प्रत्येकं सुप्तजाग्रतोः । तच्छेदात्मा समानाख्यः सौषुप्ते विषुवत्स्विव ॥ १९ ॥ मध्योर्ध्वगाम्युदानाख्यस्तुर्यगो हुतभुङ्मयः । विज्ञानाकलमन्त्रेशो व्यानो विश्वात्मकः परः ॥ २० ॥

प्राण इति प्राणापानरूपा [प्राणनरूपा - क्। ष्। ष्।] जीवनस्वभावा येयं चिद्रूपस्य स्थितिः, सा तावत्सामान्यपरिस्पन्दरूपा, देहप्राणादेरचेतनस्य चेतना

एवमत्र सङ्क्षिप्तार्थः । पुरुषेण इयं त्रयी - जाग्रदादित्रयम्, हेया, कुतः ? प्राणादेः प्राधान्यात्, तथा कर्तृतागुणे भावप्रधानो निर्देशः, पराहन्तायाः अप्रधानत्वे सति, तत् हानोपचयप्रायम् - प्राणहानोपचयरूपं यत् सुखदुःखादि तस्य योगतः - योगात् ॥ १८ ॥

अथैकोनविंशविंशयोः श्लोकयोरवतरणिकां करोति ननु इति ।

अत्र टीका : -

तदभावात् - प्राणापानादिप्राधान्याभावात्, तत्समावेशे - चित्तत्त्वलयरूपे प्राणादिसमावेशे, व्युत्थानानुपपत्तिः - व्युत्थानायोग्यता स्यात्, पुनः प्राणादि - निष्ठैव व्युत्थानमितिभावः । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे प्राण इति ।

अत्र टीका : -

प्राणापानमयः प्राणः इति व्याचष्टे प्राणापान इति ।

जीवन स्वभावा - जीवनरूपा स्थितिः भवतीति सम्बन्धः । सा - प्राणापानरूपा चिद्रूपस्य

यमानतासम्पादनात्मिका अहमितिस्वातन्त्र्यारोपसारा [अहम् इति स्वातन्त्र्यारोपसारा - क्। ष्। ष्।] सती विकल्पपरामर्शमयी [विकल्परूपपरामर्शमयी - क्। ष्। ष्।] सैव प्राणापानादिविशेषात्मना [प्राणादिविशेषात्मना - क्। ष्। ष्।] पञ्चरूपतां भजते । तत्र किञ्चिज्जहती क्वचित्पतन्ती च श्वासनिःश्वासरूपा [प्रश्वासनिःश्वासरूपा - क्। ष्। ष्।] क्रमेण प्रणात्वमपानत्वं च विशेषं दर्शयति । तदिदं विशेषद्वयं जाग्रति तावत् स्फुटमेव देहात् प्रसृत्य विषये विश्रान्तेः, ततोऽपि देहे; स्मृत्यादौ वाभ्यन्तरे वेद्ये विश्रान्तेः प्राणापानयोः सुस्पष्टत्वात् । स्वप्नेऽपि तद्द्वयमस्त्येव; स्वपतोऽपि हि प्राणापानौ निर्गमप्रवेशात्मानौ स्फुटमेव परेण [स्फुटमेवापरेण - क्। ष्।

ष्।] लक्ष्येते । स्वयमेव च वेद्यसंवेदनात् त्यागोपादानरूपा स्थितिः

स्थितिः, चेतनायमानतासम्पादनात्मिका - चेतनीभवनसम्पादनस्वरूपा, चिदावेशेनैव हि प्राणादि चेतनीभवति । अहम् इति यः स्वातन्त्र्येण आरोपः - प्राणादौ आरोपणम् सः सारः यस्याः सा तादृशी, विकल्पपरामर्शमयी - द्वयाक्षेपित्वेन विकल्परूपाहम्परामर्शरूपा भवतीति योजना ।

सैव - चिद्रूपस्य स्थितिरेव, प्राणापानादिविशेषात्मना - प्राणापानोदानसमानव्यानभावेन, तत्र - पञ्चरूपमध्ये, सा चिद्रूपस्य स्थितिः किञ्चित् - हृद्देशाख्यं परिमितं वस्तु, जहती सती अत एव श्वासनिःश्वासरूपा सती क्रमेण पाणत्वम् - प्राणभावम्, अपानत्वम् - अपानभावम् च दर्शयति, बहिर्निर्गमकारी हि प्राणः अन्तःप्रवेशकारीत्वपानः । प्रत्येकं सुप्तजाग्रतोः इति व्याचष्टे तदिदम् इति । तत् - पूर्वोक्तम्, विशेषद्वयम् - प्राणापानरूपं भेदद्वयम्, तावत् इति, नात्र कस्यापि विप्रतिपत्तिरिति भावः । प्रसृत्य - नासिकाद्वारेण, अधोद्वारेण द्वादशान्तं तावत् निर्गत्य, विषये - बाह्यवाते ।

जाग्रति प्राणापानसत्तामुक्त्वा स्वप्नेऽपि कथयति स्वप्नेऽपि इति ।

परेण - अन्येन जाग्रता, वेद्यसंवेदनात् - स्वप्न स्थवस्त्वनुभवात्, त्यागोपादानरूपा - हृद्देशत्यागोपादनस्वरूपा, स्थितिः

संवेद्यत एव, तेन प्राणना प्राणापानविशेषद्वयमयी जाग्रति, तथा स्वप्ने; सुप्तं स्वप्नः, तदेव तु यदा सुतरां पुष्टं भवति, तदा सुषुप्तः प्रमाता, तस्येदं सौषुप्तं पदम् । तत् द्विविधमपि समानाख्यरूपविशेषं [समानरूपं विशेषम् - क्। ष्। ष्।] प्राणीयं स्वीकरोति । सवेद्ये तावत्सुषुप्ते यद्यपि प्राणापानस्पन्दो लक्ष्यते, तथापि तयोर्मध्ये या विश्रान्तिर्हृदयसदने निरिन्द्रिये प्रदेशे तदेव मुख्यतः सुषुप्तमिति । तत्र प्राणापानयोर्यश्छेदो विश्रान्तिः कञ्चित्कालं तदात्मा सकलरसादिवर्गस्योर्ध्वाधर- तिर्यक्षु समानीकरणव्यापारात्मा, तत एव हृत्पद्मविकासदानाद्भुक्तपीतजरणकारी समानो दिनरात्रिरूपयोः प्राणापानयोः कञ्चित्कालं साम्याद्विच्छेदाच्च विषुवत्कालतुल्यः । विषुं व्याप्तिं समानीकरणमर्हति, - इति, तदर्हम् (पा। सू। ५।१।११७) इति वतिः ।

प्राणापानयोः सत्ता, संवेद्यते - ज्ञायते एव, प्राणचारं विना वेद्यसंवेदनायोगात् । फलितमाह तेन इति । प्राणना - प्राणनरूपा चिद्रूपस्य स्थितिः, तथा स्वप्ने इति । तथा - तद्वत्, स्वप्ने प्राणनरूपा चिद्रूपस्य स्थितिः प्राणापानविशेषद्वयमयी भवति । द्वितीयमर्धं व्याचष्टे सुप्तम् इति । तदेव - सुषुप्तमेव, तस्य - प्रमातुः, सम्बन्धि इत्यर्थः । तत् - सौषुप्तपदम् । एतेन सौषुप्ते इत्यस्य व्याख्या कृता । अपि शब्दः साकल्ये, समानाख्यो यः रूपविशेषस्तम् समानाख्यरूपविशेषम्, प्राणीयम् - प्राणसम्बन्धि, सवेद्ये - वेद्यसहिते सुखमहमस्वाप्सम् इत्यौत्तरकालिक परामर्शानुमेये, तयोः - प्राणापानयोः, छेदे इत्यवयवं व्याचष्टे विश्रान्तिः इति । कञ्चित्कालम् इति, यावत् न किञ्चिद्रूपता भवति तावत्कालमित्यर्थः, तदात्मा - छेदात्मा, रसादि इति, आदिशब्देन अन्नादिग्रहणम् । तत एव - समानीकरणव्यापाराद्धेतोरेव, भुक्तपीतयोर्यज्जरणम् - जीर्णतापादनम् तत्करोतीति तादृशः । विषुवत्स्विव इति व्याचष्टे दिन इति । दिनरात्रिरूपयोः - उष्णशीतत्ववशेन दिनरात्रिरूपयोः, साम्यात् - समत्वाद्धेतोः, विच्छेदाच्च - हृद्देशे विश्रान्तेश्च, विषुवत्कालतुल्यः - विषुपदाख्यकालसदृशः, तत्र हि दिनरात्र्योः समत्वमेव भवति । विषॢ व्याप्तौ इति घात्वाश्रयणेन विग्रहं करोति विषुम् इति । व्याप्ति पदस्यापि लक्षणामाश्रित्य पर्यायमाह समानीकरणम् इति । असमानानां

उपमाने वतेरेव चाव्ययत्वम् उद्वतो निवतः इति प्रयोगात्; तद्धि न्यायसिद्धं न वाचनिकम् । विशेषं वा दिनरात्रितदूनाधिकत्वलक्षणं सुवति प्रेरयत्यविरतम्, - इति शतरि विषुवत् । तत्र च विषुवति विच्छिद्यमानस्य प्राणापानस्य संस्काररूपतया सद्भावः, सैव हि विच्छेदो न तु सर्वात्मना नाशोऽस्ति, - इत्युक्तमसकृत् । ततश्च हानादानयोर्बीजरूपता

समानतासम्पादनं समानीकरणम्, तच्च व्यापकस्य न सम्भवति । नन्वत्र केन सूत्रेण वतिरित्यपेक्षायामाह तदर्हम् इति । अनेन सूत्रेणेत्यर्थः । नन्वत्राव्ययत्वेन सप्तमी बहुवचनं न प्राप्नोति इत्यत आह उपमाने इति । प्रयोगात्, एतद्वैदिकप्रयोगद्वयदर्शनाद्धेतोरिति भावः । अन्यथा अत्र षष्ठ्येकवचनान्तत्वं युक्तं न स्यादित्याशयः । उदः नेश्च [निरश्च - च्।]

उपसर्गाच्छन्दसि धात्वर्थे

इति वतिः, ततः षष्ठ्येकवचनम् ङस् । ननु कुतः उपमानवतेरेवाव्ययत्वम इत्यत आह तद्धि इति, तत् - अव्ययत्वम्, न्यायसिद्धम् -

तद्धितश्चासर्वविभक्तिः

इति न्यायेन सिद्धमित्यर्थः । वाचनिकम् - पारिभाषिकम्,

षु प्रसवैश्वर्ययोः

इति धात्वाश्रयणेन विग्रहं करोति विशेषम् इति - वि इत्युपसर्गं व्याख्याय तं स्फुटीकृत्य दर्शयति दिन इति । वा पक्षान्तरे ।

दिनरात्री च तदूनाधिके च, भावप्रधानो निर्देशः, दिनरात्री तदूनाधिकत्वे च लक्षणम् - स्वरूपं यस्य तादृशम्, प्रेरयति - निवारयति । विषुवत्समये हि कालः सर्वो गलत्येव, अन्यथा आगमशास्त्रेषु तत्रावधानम् अवश्यानुष्ठेयतया न ब्रूयात्, शतरि - विपूर्वात् षुवतेः शतृप्रत्यये विहिते इदं पदं सिध्यतीत्यर्थः । ननु तत्र प्राणापानविगलनेन तुर्यतैवापतेत् इत्यत आह तत्र च इति । विच्छिद्यमानस्य - हृद्देशे विश्रान्ति भजतः, प्राणापानस्य इति समाहारे द्वन्द्वः । सैव - संस्काररूपतैव, तदुक्तम् :-

नाभावो विद्यते सतः

इति । फलितमाह ततश्च इति । हानादानयोः - प्राणापाननिष्ठयोः हृद्देशत्यागादानयोः ।

सुषुप्तेः; इयति च सर्वः प्रलयाकलान्तः पशुवर्गः ।

यदा तु सा प्राणनावृत्तिर्वामदक्षिणमार्गौ खिलीभावयन्ती मध्यरूपेणोर्ध्वेन प्रवहति, तदा तत्प्रवहणं सकलस्य भेदस्याभेदसारतादानलक्षणं विलापनमाश्यानस्येव सर्पिषो विदधती उदानवृत्तिर्विज्ञानाकलादारभ्य सदाशिवान्तम्, सा च तुर्यात्मिका दशा । मायोर्ध्वे हि विज्ञानाकलाः, - इति ततःप्रभृति भेदगलनं प्रवर्तते । विलीने तु भेदे सर्ववेद्यराशिरूपतत्त्व- भूतभुवनवर्गात्मकदेहव्यापनरूपेण […वर्गात्मकदेहव्यापाररूपेण - क्। ष्। ष्।] प्राणवृत्तिर्व्यानरूपा विश्वात्मकपरमशिवोचिता तुर्यातीतरूपा ।

प्राण एव प्रमाता प्राणापानरूपः समानरूप उदानरूपो व्यानरूपश्च, - इति सामानाधिकरण्यम्,

नन्वत्र केषां स्थितिरित्यत आह इयति च इति । अन्तः इत्यनेन विज्ञानाकलानामप्यत्र लेशतः स्थितिरस्त्येवेति द्योतितम् ।

द्वितीयं श्लोकं व्याचष्टे यदा तु इति । प्राणनावृत्तिः - चिद्रूपस्य प्राणनाख्या स्थितिः, खिलीभावयन्ती - न्यग्भावयन्ती, उपेक्षाविषयतां नयन्तीति यावत् । मध्यरूपेण - सुषुम्णाख्यनाडीस्वरूपेण, ऊर्ध्वेन, अतिश्रेष्ठत्वात् ऊर्ध्वदेशरूपेणेत्यर्थः । विलापनम् - लयीकरणम्, आश्यानस्य - घनीभूतस्य, उदानवृत्तिः - उदानाख्यः प्राणव्यापारो भवति ।

ननु तस्याः प्रचारः कुत्रेत्यपेक्षायां विज्ञानाकल इति पदं व्याचष्टे लक्षणया विज्ञान इति । मध्यगानां मन्त्रादीनामुदानवृत्तिविषयत्वम् अयत्नसिद्धमेव ज्ञेयम् । साच

  • प्रोक्ता उदानवृत्तिश्च, ततः प्रभृति - विज्ञानाकलात् प्रभृति, आश्यानस्य सर्पिष इव इत्यनेन हुतभुङ्मयः इति पदं सुचनया व्याख्यातम् । हुतभुजैव आश्यानीभूतं सर्पिर्लीयते, मध्यनाड्याश्च अग्निनाडीत्वमागमेषु प्रसिद्धम्, वामदक्षिणनाड्योस्तु सोमसूर्यनाडीभावः । व्यानः इति श्लोकखण्डं व्याचष्टे विलीने तु इति । सर्ववेद्यराशिरूपः यः तत्त्वभूतभुवनवर्गात्मकः - तत्त्वादिरूपः देहः तत्र यद् व्यापनं तेन रूपेण, परमशिवोचिता - शिवशक्त्यैक्यरूपपरमशिवयोग्या, तुर्यातीतरूपा, तुर्यातीतदशारूपा भवतीत्यर्थः । इति - अतः कारणात्, सामानाधिकरण्यम् सूत्रे एकया प्रथमाविभक्त्या निर्देशः ।

विज्ञानाकलश्चासौ [सामानाधिकरण्यात् विज्ञानाकलश्चासौ मन्त्रश्चासौ - क्। ष्। ष्।] मन्त्रश्चासौ वर्गापेक्षया, ईशश्च सदाशिवेश्वररूपो योऽसौ, - इति स उदानः एतदुक्तं भवति, यद्यपि तुर्यतदतीतयोरप्यस्ति प्राणना - अन्यथा जीवत्वस्य व्युत्थानस्य चानुपपत्तेः - तथापि भेदोपसंहारेणाभेदविश्रान्ति- प्रधानत्वादनयोर्दशयोः [अभेदविश्रान्तिप्राधान्यात् - क्। ष्। ष्।] सुखदुःखादिवैचित्र्यायोगात् एकघनस्वात्म विश्रान्त्यात्मकपरमानन्दमयत्वेनोपादेयतैव । सुषुप्तादौ तु संस्काररूपत्वास्फुटवेद्योल्लासस्फुटवेद्यावभासरूपस्य भेदस्य विद्यमानत्वात् अस्ति सुखदुःखादिवैचित्र्यम्, - इति हेयतैव, - इति युक्तमुक्तं हेया त्रयीयम् इत्यादि । भगवतश्च विश्वशरीरस्य प्राणापानसमानोदानव्यानरूपतैव [प्राणापानसमानोदानव्यानरूपतयैव - क्। ष्। ष्।] सकलगतोल्लासप्रवेशप्रलयाकलविज्ञानाकलादिवर्गशिवरूपता [विज्ञानाकलादिवर्गसदाशिवरूपता - क्। ष्। ष्।] - इत्यप्यनेन दर्शितम् । यथोक्तम्

ईशः कुतः ? सदाशिवेश्वररूपतया, इति योज्यम् । इति उदानः - विज्ञानाकलमन्त्रेशः उदानो भवतीत्यर्थः । एतेन विज्ञानाकलमन्त्रेशः इत्यत्य कर्मधारयमाश्रीत्य विग्रहः ।

अभिप्रायकथनं प्रतिजानीते एतदुक्तं भवति इति ।

एतच्छब्दाकाङ्क्षां पूरयति यद्यपि इति । प्राणना - जीवनरूपः प्राणव्यापारः । अन्यथा - प्राणनाभावे, भेदोपसंहारेण - भेदगलनात्, अभेदविश्रान्तिप्रधानत्वात् इत्यनेन गौणत्वेन देहस्वभाववशेन भेदविश्रान्तिरपि भवेदिति सूचितम् ।

अनयोर्दशयोः - तुर्यतदतीतरूपयोः । ननु सुषुप्तादौ कथमनुपादेयता अस्तीत्यत आह सुषुप्तादौ [आसुषुप्तादौ - च्।] इति ।

संस्काररूपत्वेन यः अस्फुटवेद्योल्लासः स एव स्फुटं कृत्वा वेद्यवभासः सः रूपं यस्य तादृशस्य । अभिप्रायान्तरमाह भगवतश्च इति । भगवतः - परमशिवस्य, च समुच्चये, विश्वशरीरस्य - शिवादिधरण्यन्तषट्त्रिंशत्तत्त्वात्मकजगच्छरीरस्य, प्राणापानसमानोदानव्यानरूपतैव - सकलप्रलयाकलविज्ञानाकलादिवर्गशिवरूपता भवति, आदि शब्देन

षट्त्रिंशदात्मकं विश्वं शम्भोः प्राणादिशक्तयः ।

इति ॥ २० ॥ आदितः १७१ ॥

मन्त्रादिग्रहणम् । इत्यपि - एतदपि, अनेन - सूत्रेण, दर्शितम् - सूचनया प्रकटीकृतम् । न केवलमवस्थापञ्चकस्य हेयोपादेयतामात्रं अपि तु प्राणापानादेः सकलादिरूपताऽपि दर्शिता इति अपि शब्दाभिप्रायः । तत्र प्राणापानरूपतायाः सकलरूपता, समानरूपतायाः प्रलयाकलता, उदानरूपतायाः विज्ञानाकलादिवर्गरूपता, विज्ञानाकलमन्त्रमण्त्रेश्वरमन्त्रमहेश्वररूपता, व्यानरूपतायाः शिवरूपतेति विभागः । भेददर्शने तु मुखनासिकाभ्यां निष्क्रमणात् प्राणः, रसस्याधोनयनात् अपानः, तस्यैव समीकरणात् समानः, तस्यैवोर्ध्वनयनात्, उदानः, तस्यैव गर्भनाडीवितननात् व्यानः इत्येवं शरीरमात्रगतत्वेनेव प्राणादिपञ्चकनिर्णयः इति । आगमं संवादयति यथोक्तम् इति । इति शब्दः आगमावाक्यसमाप्तौ आह्निकव्याख्यासमाप्तौ च । शिव पदं मङ्गलवाचकम् परतत्त्वसूचनपरञ्च ।

एवमत्र श्लोकद्वये सङ्क्षेपः । सुप्तजाग्रतोः प्राणः जीवनम्, प्रत्येकं प्राणापानमयः, स्फुटं दर्शनात्, सः प्राणः सौषुप्ते - सुषुप्त्यवस्थायाम्, तच्छेदात्मा - प्राणापानच्छेदरूपः समानाख्यो भवति, तत्र हि किञ्चित्कालमपानो हृद्देश एव लीनो भवति, प्राणस्तु नोत्तिष्ठति, तदुक्तम् : -

यदा प्राणः पुरीतति प्रविशति तदा सुषुप्तिः

इति । सौषुप्ते केष्विव ? विषुवत्स्विव - विषुपदेष्विव, तत्रापि हि दिनरात्र्योः कञ्चित्कालं समतैव भवति इति तत् उपमानत्वेन गृहीतम् । उदानाख्यः प्राणः तुर्यगः भवति । कीदृशः ? मध्यैव - मध्यनाडी एव ऊर्ध्वम् - ऊर्ध्वदेशः तत्र गच्छतीति तादृशः, तथा हुतभुङ्मयः - अग्निरूपः, अग्निनाडीगतत्वात्, तथा सः उदानः विज्ञानाकलमन्त्रेशः भवति । व्यानः - व्यानाख्यः प्राणः, परः परशिवरूपो भवति, अत एव विश्वात्मकः - सर्वस्वरूपः, अत एव च तदतीतमत्वमस्य अर्थात् ज्ञेयम् । इति शिवम् ।

इति श्रीमदाचार्योत्पलदेवविरचितायामीश्वरप्रत्यभिज्ञायां श्रीमदाचार्याभिनवगुप्तविरचितविमर्शिन्याख्यटीको- पेतायामागमाधिकारे प्रमातृतत्त्वनिरूपणाख्यं द्वितीयमाह्निकम् ॥ २ ॥

सम्पूर्णश्चायमागमाधिकारस्तृतीयः ॥

इति श्रीमत्काश्मीरमण्डलान्तर्वर्त्याराध्यपादश्रीवैडूर्य- कण्ठात्मजश्रीमदवतारककण्ठपुत्रश्रीमद्भास्करकण्ठ- विरचितायां श्रीप्रत्यभिज्ञाविमर्शिनीटीकायां श्रीभास्कर्याख्यायामागमाधिकारे द्वितीयमाह्निकं समाप्तम् ।

समाप्तश्चायं तृतीयो विमर्शः । इति शिवम् ।

तत्त्वानां प्रविवेचनं कृतमिदं यत्रास्ति सम्यक्तया व्याख्यातो ननु भास्करेण स इहाध्यायस्तृतीयः स्फुटम् ।

सद्युक्त्यागमनामधेयसहितो बुद्ध्याधिकारो मया श्रीमत्सद्गुरुसम्प्रदायवशतः शास्त्रानुसारात्तथा ॥

नाभिमानो मनः कार्यो शिवः कर्तात्र यत्स्थितः ।

तदैक्येनाभिमानस्ते यद्यस्त्यस्तु स शोभनः ॥

शिवः कर्ता शिवो द्रष्टा शिवः पाठक एव च ।

व्याख्याता च शिवः प्रोक्तः शिवार्पणमिति स्फुटम् ॥