आगमाधिकारे
प्रथममाह्निकम् ।
विमर्शिनी
यं प्राप्य सर्वागमसिन्धुसङ्घः पूर्णत्वमभ्येति कृतार्थतां च ।
तं नौम्यहं शाम्भवतत्त्वचिन्तारत्नौघसारं परमागमाब्धिम् ॥
भास्करी
अत्र टीका: -
शिवाच्चिन्मात्राख्यादतिमिततनोरागत- मथो शिवायास्तन्मूर्तेर्ननु वदनमामर्शवपुषः ।
गतं सद्भिः सर्वैर्मतमथ च गाङ्गेयजलवद् बहुस्रोतोयुक्तं सततमिह शस्त्रं हृदि भजे ॥ १ ॥
अथ तृतीयविमर्शरूपस्यागमाधिकारस्य निर्विघ्नपरिसमाप्तये, प्रचयगमनाय च मनसानुष्ठितमपि बहिः शिष्यशिक्षार्थं परतत्त्ववाचकागमशास्त्रनमस्कारलक्षणं मङ्गलं सकलाधिकारतात्पर्यसूचकेन श्लोकेनोपनिवध्नाति यं प्राप्य इति । अहम् - अभिनवगुप्ताचार्याख्यः, शाम्भवम् - सकलकल्याणप्रादुर्भावस्थानशिवशक्त्यैक्यरूपपरशिव- सम्बन्धि यत् तत्त्वम् - स्वान्तःकृतसदाशिवादिधरण्यन्ततत्त्व- चतुस्त्रिंशकं महाप्रकाशमयमनारोपितं स्वरूपम् तस्य याः चिन्ताः - विचारणानि ता एव रत्नानि - अत्युपादेयत्त्वेन मणयः तेषां यः ओघः - समूहः, स एव सारः यस्य, अन्यचिन्तानां जलस्थानीयत्वात् - तम् । अत एव परम् - वेदादिमहाशास्त्रेभ्यः उत्तिर्णम्, तेषां सादाख्यतत्त्वे एव तावद्विश्रान्तेः तदुपरि स्पर्शासम्भवात्, ईदृशं तम् - सर्वत्र प्रसिद्धम्, आगमाब्धिम् - श्रीशिवादागतं गिरिजामुखे गतं श्रीवासुदेवस्य मतमिति निरुक्त्या प्रसिद्धं शास्त्ररूपं समुद्रम्, नौमि - सर्वोत्कृष्टवस्तुपरत्वेन सर्वोत्कृष्टत्वयुक्तत्वात् प्रह्वीभावविषयीकरोमि, अष्टाङ्गप्रणतिविषयतां नयामि इति यावत् । तं कम् ? सर्वे ये आगमाः - वेदादिरूपाणि
श्रीमत्सदाशिवोदारप्रारम्भं वसुधान्तकम् ।
यदन्तर्भाति तत्त्वानां चक्रं तं संस्तुमः शिवम् ॥
शास्त्राणि, ते एव सिन्धवः - स्वल्पविषयत्त्वेन नद्यः, तासां सङ्घः - समूहः । यम् - प्रोक्तस्वरूपमागमाब्धिम्, प्राप्य - मध्ये यत्किञ्चिद्भेदोद्दीपकमभिधायापि पर्यन्ते उपदिष्टमद्वैतं महासंरम्भेण लेशेन अभिधाय, पूर्णत्वम्
- तेन सहैकार्थतानिष्ठताकृतं तदैक्यरूपम्, पूर्णभावेन स्फुरतीति यावत्, तथा कृतार्थतां च - साधितसाधनीयतां च, अभ्येति - अतः परं साधनीयाभावात् साधनीयावशेषेऽपि आगमाब्धिकृतसाधनेनैव साधना, सिन्धवश्च रत्नसारमब्धिमागत्य पूर्णत्वं यान्ति कृतार्थतां च, ततः परं पूर्णाब्धिभावेनैव स्फुरणात् तत्कार्येणैव च कार्यवत्त्वात् इति ध्वनिः । एतेनात्रागमाधिकारे आगमशास्त्रोक्तं वस्तु पूर्वोक्तस्य साधकत्वेन कथयिष्यति इति सूचितम् ।
आगमशास्त्रप्रामाण्ये च पूर्वं कृत एव भर इति न पुनरायस्तम् ।
श्रीशिवादिधरण्यन्तं तत्त्वचक्रं स्फुरद्वपुः ।
यदन्तर्भाति यत्सारं हृद्देशे तं स्तुमः शिवम् ॥
अथात्राधिकारे प्रथमाह्निकस्य निर्विघ्नसमाप्तये स्वेष्टदेवतारूपपरतत्त्व - परामर्शलक्षणं मङ्गलं स्वान्तरनुष्ठितमपि बहिः शिष्यशिक्षार्थं सकलाह्निकतात्पर्यसूचकेन श्लोकेनोपनिवध्नाति श्रीमत् इति ।
वयं तं शिवम् स्तुमः - सम्यक् परामर्शविषयतां नयामः । तं कम् ? श्रीमान् ईश्वराद्यपेक्षया ऐश्वर्ययुक्तः यः सदाशिवः स एव उदारं यथा भवति तथा प्रारम्भः यस्य तादृशम्, तथा वसुधा अन्ते यस्य तादृशम्, तत्त्वानाम् - वक्ष्यमाणस्वरूपाणाम्, चक्रम् - चतुस्त्रिंशत्सङ्ख्याकतत्त्वरूपः समूहः, यदन्तः - यत्स्वरूपभित्तिलग्नं सत्, भाति - स्वस्वरूपेण पृथक् पृथक् स्फुरति, अन्यथा निःसारत्वेन भानायोगात्, एतेन तत्त्वनिर्णयोऽत्र भवितेति सूचितम् । नन्वन्यत्रागमशास्त्रेषु ।
यत्परतत्त्वं तस्मिन् विभाति षट्त्रिंशदात्म जगत्
इति न्यायेन सप्तत्रिंशपरशिवान्तः शिवादिधरण्यन्ततत्त्व- षट्त्रिंशकस्य भानमुक्तम् । इह कथं सदाशिवादिधरण्यन्तस्य तत्त्वचतुस्त्रिंशकस्य शिवतत्त्वान्तर्भानम् । सत्यम्, मालिनीशास्त्रादिरूपेषु परमाद्वैतपरेषु सारशास्त्रेषु तथैवोक्तमस्ति, तत्र
एवमधिकारद्वयेन ज्ञानक्रियास्वरूपं वितत्य निर्णीतम् ।
अथेदं वक्तव्यं क्रिया नाम विश्वपदार्थावभासनलक्षणा इत्युक्तं समनन्तरमेव, के च ते विश्वे पदार्थाः, इति ।
तत्राभासरूपा एव जडचेतनलक्षणाः
ह्ययमभिप्रायः, सदाशिवतत्त्वान्तः शुद्धविमर्शरूपशक्तिस्पर्शः पुष्टो नास्ति, वेदान्ताभिमतनिर्विमर्शप्रकाशरूपशान्तब्रह्मतत्त्वरूपत्वात् तस्य, इति विमर्शरूपा शक्तिरपि पञ्चत्रिंशत्वेन कथनीयैव, तद्युक्तः शिवोपि सदाशिवादन्य एवेति तस्य षट्त्रिंशत्त्वम्, एतयोश्च स्वरूपं स्वयमेव वक्ष्यति, तत्र च यद्यपि तत्त्वतः शिवपरमशिवयोरैक्यमेव तथापि स्वरूपनिर्देशाभिप्रायेण अनाश्रितशिवत्त्वेन कथनम्, व्यापकत्वाभिप्रायेण परशिवत्त्वकथनम्, न हि व्याप्यमध्ये व्यापकस्य समकक्षतया ग्रहणं युक्तम्, यथा कृतोर्मिकासप्तकस्य मध्ये समस्तस्य सुवर्णस्य अष्टमत्त्वकथनम्, यस्तु शिष्टः तत्र सुवर्णलेशस्तस्याष्टमत्त्वकथनेऽपि न दोषः इति न कोऽपि विरोधः ।
यत्वष्टात्रिंशत्वमप्यत्र कथयन्ति तच्छिष्योपदेशकाले तस्य मेयत्त्वमापतेदित्यभिप्रायेण, परमार्थेन तु सप्तत्रिंशत्त्वकथनमप्यत्रायुक्तमेव, नहि स्वव्याप्येन व्यापकस्य परिच्छेदो युक्तः, न हि कोशान्तर्गतः कोशकारः कोशं मातुं शक्तः इति । प्रत्यभिज्ञादिरूपेषु प्रक्रियाशास्त्रेषु तु तत्त्वस्वरूपकथनमात्रमेवेष्टं न महाद्वैतकथनमिति शिवतत्त्वपर्यन्तमेव निर्णयः कृतः अतस्तेषां भेददर्शनत्वमेव । परन्तु महाद्वैतं प्रति परोपायत्वं तेषां वर्तते, भिन्ना हि शास्त्राणां प्रवृत्तिरधिकार्युपयोगार्थमिति प्राङ्निर्णीतमेवेत्यलं विस्तरेण, अथवा तस्य तत्त्वस्य प्रमेयतापातो मास्त्वित्यभिप्रायेण अकथनम् ।
एवं मङ्गलं सम्पाद्य समस्तमाह्निकाभिप्रायं कथयति अस्याधिकारस्य चाभिप्रायकथनपूर्वकं पुर्वाधिकारद्वयेन सह सङ्गतिं च दर्शयति एवम् इति ।
अत्र टीका: -
अधिकारद्वयेन, ज्ञानक्रियारूपेणेत्यर्थः । पुनस्तर्हि मौनमेव कुरु इत्यत आह, अथ इति । वक्तव्यम् इति, शेषत्वेनेति भावः ।
किमित्यपेक्षायामाह क्रिया इति । विश्वेषाम् - सर्वेषाम्, पदार्थानां यदवभासनम् - सारदत्वेन प्रकाशकत्वेन च बहिः प्रकाशनम्, तल्लक्षणं स्वरूपं यस्याः सा । अनन्तरम् - पूर्वाधिकारे, ते - अवभासविषयीभूताः । इति शब्दः वक्तव्यसमाप्तौ, आभासरूपाः - आभाससिद्धत्त्वेन तन्मात्ररूपाः । ननु प्रत्यक्षसिद्धानां पदार्थानां किं
पदार्थास्ते च कियता रूपेण सङ्गृह्यन्ते, नहि प्रत्यक्षं मायाप्रमातुः सर्वत्र क्रमते । अनुमानमप्येवम्, न हि यद्यदस्ति तत्र तत्र लिङ्गव्याप्त्यादि ग्रहणसम्भवः ।
आगमस्त्वपरिच्छिन्नप्रकाशात्मकमाहेश्वरविमर्शपरमार्थः किं न पश्येत्, इति तदनुसारेण पदार्थनिर्णयं विश्वप्रमेयीकरणप्रतिलब्धतद्विश्वोत्तिर्णप्रमातृपदहृदयङ्ग- मीकाराभिप्रायेण [हृदयङ्गमीकरणाभिप्रायेण - क्। ष्। ष्।] निरूपयितुमाचार्य आगमाधिकारं तृतीयमारभते ।
तत्र श्लोकैकादशकेन एवमन्तर्बहिर्वृत्तिः इत्यादिना स्थूलसूक्ष्मत्वभेदतः इत्यन्तेनागमसिद्धं शिवादिधरणीप्रान्तमेकैकाभासरूपतात्मकं
रूपसङ्ग्रहकरणेनेत्यत आह, न हि इति । क्रमते - प्रगल्भते, शक्तं भवतीति यावत्, ननु तर्ह्यनुमानस्यात्राभिषेकं दास्यामः इत्यत आह अनुमानम् इति । एवं न क्रमते इत्यर्थः । अत्र समर्थनं करोति न हि इति । ननु तर्हि शब्दप्रमाणरूपस्य शास्त्रस्याप्यत्र का शक्तिरित्यत आह आगमस्तु इति । आगमः - श्रीशिवादिप्रणीतं शास्त्रम्, अपरिच्छिन्नप्रकाशात्मकः - अपरिच्छिन्नप्रकाशरूपः, महाप्रकाशस्वरूप इति यावत्, यः महेश्वरविमर्शः स एव परमार्थः - महेश्वरसम्बन्धी स्वाश्रयः स्वविषयश्च अहम्परामर्शः मूलं यस्य तादृशः ।
तदुक्तम् : -
आगतं शिववक्त्रात्तु गतं तु गिरिजामुखे ।
इति । अत्र हि शिवः प्रकाशः गिरिजा परामर्शः । किं न पश्येत् - सर्वं विमृष्टं शक्त इति यावत् । इति - अतः कारणात्, तदनुसारेण - आगमानुसारेण, पदार्थनिर्णयम् - शिवादिधरण्यन्ततत्त्व- षट्त्रिंशकनिर्णयम्, विश्वस्य - तत्त्वषट्त्रिंशकरूपस्य जगतः यत् प्रमेयीकरणम् - कथनद्वारेण सिद्धं परमार्थतोऽप्रमेयत्वेपि प्रमेयतासम्पादनम्, तेन लब्धम् - अतद्व्यावृत्तिकारीत्यादिसिद्धम् ।
तस्माद् विश्वस्मात् - जगतः उत्तिर्णम् प्रमातृपदं तस्य यो हृदयङ्गमीकारः - उपादेयत्वेन ग्रहणम्, तस्याभिप्रायेण, प्रमेयदर्शनेन हि स्वयमेवाप्रमेयवस्तुस्पर्शो भवितेत्याशयेनेति यावत् ।
एवमधिकाराभिप्रायमुक्त्वा आह्निकाभिप्रायं सामस्त्येन तावत् कथयति तत्र इति । तत्र, अधिकारमध्ये इत्यर्थः ।
आगमसिद्धम् - पतिशास्त्रसिद्धम्,
दर्शनान्तरे सामान्यम् इति यद्व्यवहृतम्, यस्य सामानाधिकरण्ययोगादनन्तस्वलक्षणावभासनव्यूहविशेष- पूर्वकः समस्तोऽयं शरीरभुवनादिविभवः, तं परमेश्वरागमसिद्धं युक्त्याप्यवगतं [अनुगतम् - क् ।ष्। ष्।] प्रत्येकतस्तत्त्वग्रामं दर्शयति इत्याह्निकतात्पर्यम् ।
तत्राधिकारसङ्गतिं योजयन् पूर्वपक्षप्रतिक्षेपं चोपसंहरन् शिवतत्त्वस्वरूपमेव दर्शयितुमाह
एवमन्तर्बहिर्वृत्तिः क्रिया कालक्रमानुगा ।
मातुरेव तदन्योन्यावियुक्ते ज्ञानकर्मणी ॥ १ ॥
एकैकम् - प्रतितत्त्वं या आभासरूपता तदात्मकम् - तत्स्वरूपम्, तथा च महाऽद्वैत रूपमिति भावः । महाद्वैते हि भेदोऽपि भासनयोग्य एव, अन्यथा अपूर्णत्वापातात् । तथा दर्शनान्तरे - हतो व्यतिरिक्ते, सामान्यम् इति व्यवहृतम्, आभाससामान्यतया व्यवहारविषयीकृतम् इत्यर्थः । अत्र भेदस्पर्शायोगोऽपूर्णतापादकः असम्भवोपहतश्चेति भावः ।
यत् - यः तत्त्वग्रामः, तथा यस्य - तत्त्वग्रामस्य, सामानाधिकरण्ययोगात् - एकाधारत्ववशेन, अनन्तस्वलक्षणानाम् यत् अवभासनं तदेव व्यूहविशेषः - रचनाविशेषः, सः पूर्वं यस्य तादृशः विभवः - ऐश्वर्यम्, भवतीति शेषः - तत्त्वानाम्? सामानाधिकरण्ये एव हि शरीरादिव्यवहारो भवतीति भावः । तत्र समानमधिकरणञ्च प्राधान्यापेक्षया आधेयभूततत्वानां मध्ये किमप्येकं तत्त्वं भवति न तेभ्यः पृथक् । युक्त्यापि इत्यत्र अपिशब्दः समुच्चये । अवगतम् - अस्तित्त्वेन ज्ञातम्, प्रत्येकतः - प्रातिस्विकस्वरूपयुक्तम्, तत्त्वग्रामम् - तत्त्वसमूहम् ।
अथ प्रथमश्लोकस्यावतरणिकां करोति तत्र इति ।
अत्र टीका : -
अधिकारसङ्गतिम् - अस्याधिकारस्य पूर्वाधिकारेण सह सम्बन्धम्, पूर्वपक्षस्य कार्यकारणभावविषयस्य यः प्रतिक्षेपः - प्रतिसमाधानम्, तम् । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे, एवम् इति ।
एवमिति, यतः परदर्शनोक्तः कार्यकारणभावो जडरूपप्रतिष्ठो न कथञ्चिदुपपन्नः, किन्तु चिद्रूप एवान्तर्बहिरात्मना प्रकाशपरमार्थेनापि वपुषा तथाभासनरूपेण [तदाभासरूपेण - क्। ष्। ष्।] वर्तमानः कालक्रममाक्षिपन् क्रियाभिधीयते, तस्य प्रमातुरेव ज्ञानशक्तिवपुषो धर्मस्तत् [ज्ञानशक्तिवपुषो धर्मः; तत् इति तस्मादवियुक्तं - क्।ष्।ष्।] इति । तस्मादवियुक्तं ज्ञानं क्रिया च ।
ज्ञानं विमर्शानुप्राणितम्, विमर्श एव च क्रियेति । न च
अत्र टीका : -
एवम् शब्दं व्याचष्टे यतः इति । परदर्शनोक्तः - शैवनयव्यतिरिक्तदर्शनप्रोक्तः, अन्तर्बहिरात्मना - परमार्थतः चिद्रूपेणाभासता, इदन्तया भासनशीलेन इत्यर्थः, तथाभासनरूपेण - कार्यकारणभावेनाभासरूपेण, वपुषा - स्वरूपेण, तत् - सा क्रिया । इति शब्दः समाप्तौ, मातुरेव इत्यन्तं व्याख्या समाप्तौ ।
एवमत्र योजना । एवम् - अचेतनविषये कार्यकारणभावे अनुपपन्ने सति । कालक्रमानुगा - कालरूपक्रमानुसारिणी, तथा अन्तर्बहिर्वृत्तिः - परमार्थतश्चिद्रूपत्वेऽपि आभासतः तद्व्यतिरिक्ततया भासमाना, क्रिया मातुरेव भवति, चेतन - स्यैव भवतीत्यर्थः ।
तत् इत्यादि अवशिष्टं श्लोकखण्डं व्याचष्टे तस्मात् इति ।
अवियुक्तम् - अभिन्नम्, कर्म इति पदं व्याचष्टे क्रिया च इति ।
ज्ञानकर्मणोरवियोगमेव दर्शयति ज्ञानम् इति ।
विमर्शानुप्राणितम् - विमर्शदत्तसत्ताकम् । यदुक्तम् प्राक्
स्वभावमवभासस्य ।
इति । नन्वेतेन कर्मणः किमायातमित्यत आह विमर्श एव च इति,
ज्ञानशक्तिविहीनस्य क्रियायोगः इति ।
तदेतदवियुक्तज्ञानक्रियारूपं क्रियाद्वारेण सकलतत्त्वराशिगतसृष्टिसंहारशतप्रतिबिम्बसहिष्णु [प्रतिबिम्बनसहिष्णु - क्। ष्। ष्।] यत् तदुपदेशभावनादिषु तथाभासमानमनाभासमपि [अनाभासरूपमपि - क्। ष्। ष्।] वस्तुतः शिवतत्त्वमित्युक्तं भवति ॥ १ ॥
नन्येवम्भूतं शिवतत्त्वं चेत् तर्हि ततोऽनतिरिच्यमानमिदं विश्वमिति
बाह्यक्रियाया अपि विमर्शस्थूलतारूपत्वादिति भावः ननु तथापि क्रियायाः ज्ञानैकरूपत्वं नायातमित्यत आह न च इति । इति शब्दः ज्ञानकर्मावियोगसमाप्तौ । फलितं कथयति, तदेतत् इति । तत् - तस्मात्कारणात् । एतत् - कर्तृ, शिवतत्त्वमित्युक्तं भवति । अर्थादेव च विमर्शाख्यं वस्तु शक्तितत्त्वमित्युक्तं भवति इत्यपि मन्तव्यम्, शक्तितत्त्वस्य शुद्धाहंविमर्शरूपत्वात् । तत्किम् ? एतत् इत्यादि यत् इत्यन्तम् । तत्र यत् इत्यस्य विशेषणद्वयमाह अवियुक्त इति । तत् इत्यस्य अपि विशेषणद्वयमाह उपदेश इति । वस्तुत अनाभासम् अपि उपदेशभावनादिषु तथाभासमानम् - उपदेश्यभाव्यत्वादिना भासनशीलम्, तत्र शक्तत्त्वादिति भावः ।
प्रतिबिम्बसहिष्णु इत्यनेन प्रतिबिम्बयोग्यस्यापूर्णस्य चित्तत्त्वस्य शिवत्त्वम, प्रतिबिम्बाधारस्य पूर्णस्य चित्तत्त्वस्य परमशिवत्वमिति द्योतितम् । तथा च एतेन परमशिवाख्यं सप्तत्रिंशं तत्त्वम्, शिवाख्यं षट्त्रिंशं शक्त्याख्यं पञ्चत्रिंशं तत्त्वं चोक्तम् इति ज्ञेयम् ॥ १ ॥
अथ द्वितीयस्य श्लोकस्यावतरणिकां करोति नन्वेम् इति ।
अत्र टीका : -
एवम्भूतम् - सर्वप्रतिबिम्बसहिष्णु, सर्वभावेन स्फुरणशीलमिति यावत् ततः - तस्मात् शिवतत्त्वात्, अनतिरिच्यमानम् - अन्यूनातिरिक्तम्, तदेकरूपमिति
किमन्यत् तत्त्वं स्यात् । एकचित्तत्त्वविश्रान्तौ च तत्त्वानां कथं क्रमो भवेत्, देशकालाभेदात् ? एवमेतत् [एवमेवैतत् - क्। ष्। ष्।]
किन्त्वान्तरदशोद्रेकात्सादाख्यं तत्त्वमादितः ।
बहिर्भावपरत्वे तु, परतः पारमेश्वरम् ॥ २ ॥
यद्यप्येकमेव शिवतत्त्वं तथापि तदीयमेव स्वातन्त्र्यं स्वात्मनि स्वरूपभेदं तावत्प्रतिबिम्बकल्पतया दर्शयति ।
स्वरूपवैचित्र्यमेव देशकालक्रमः । मूर्तिक्रियावैचित्र्यमयो हि असौ । ततश्चान्तरी ज्ञानरूपा या दशा तस्या उद्रेकाभासने सादाख्यम् सदाख्यायां भवम् ।
यावत् । अन्यत् - शिवतत्त्वव्यतिरिक्तम्, किं स्यात्, भवेत् इत्यर्थः ।
अत्राङ्गीकारं करोति एवम् इति । एतत् एवमेव भवतीत्यर्थः ।
एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । किन्त्वान्तर इति ।
अत्र टीका : -
अवतरणिकायाम् एवमेतत् इत्यनेनोपसंहृतं पक्षमपेक्ष्य अन्यपक्षद्योतकं किन्तु इति पदं व्याचष्टे यद्यप्येकम् इति ।
तदीयम् - शिवतत्त्वसम्बन्धि, स्वात्मनि - शिवरूपे स्वस्मिन्, स्वरूपभेदम् - सदाशिवादिभावेन स्थितम् स्वरूपभेदम्, प्रतिबिम्बतया प्रतिबिम्बरूपत्वेन, दर्शयति - स्वरूपभूतान् प्रमातॄन् प्रति स्फुटीकरोति । कुतः इत्यपेक्षायामाह मूर्ति इति । असौ
- देशकालक्रमः, तत्र मूर्तिवैचित्र्यमयो देशक्रमः क्रियावैचित्र्यमयः कालक्रमः इति विभागः, उभयत्रापि चात्र स्वरूपवैचित्र्यमेव, न हि क्रिया स्वरूपाद् भिन्नेति भावः ।
सामान्येनोक्तं वस्तु विशेषेण वक्तुं फलितरीत्या श्लोके योजनां करोति ततश्च इति । आन्तर इत्यादि पदं व्याचष्टे ज्ञान इति ।
ज्ञानरूपा - अस्फुटपरामर्शबोधरूपा, अन्यथा शिवत्वापातात् ।
तस्याः - दशायाः, उद्रेकाभासने - क्रियां न्यक्कृत्य प्रधानतया स्फुरणे सति, सादाख्यम् इति पदं व्याचष्टे सदाख्यायाम् इति । नन्वेतेन किमुक्तं
यतः प्रभृति सदिति प्रख्या । सदाख्यायाश्च सदाशिवशब्दरूपाया इदं वाच्यं तत्त्वम् ।
सृष्टिक्रमोपदेशादौ प्रथममुचितम् । तत्सादाख्यं तत्त्वम् ।
बहिर्भावस्य क्रियाशक्तिमयस्य परत्वे उद्रेकाभासे सति पारमेश्वरं परमेश्वरशब्दवाच्यमीश्वरतत्त्वं नाम । तच्च [ततश्च - क्। ष्। ष्।] सादाख्यस्य पश्चादुचितावभासनम् ।
भवति इत्यत आह यतः इति । सदिति प्रख्या - सदिति प्रसिद्धिः, अतः पूर्वं हि शक्त्यादौ असदित्यनेन प्रतियोगिना परिमितीकृता सत्तापि न युक्तेति भावः । सादाख्यमिति प्रकारान्तरेण व्याचष्टे सदाख्यायाः इति । पूर्वं तु
तत्र भवः ।
इति अण् प्रत्ययो विहितः, इह तु तस्य वाच्यम् इति, तेन सदाख्याया वाच्यं तत्त्वं सादाख्यम् इति विग्रहः । आदितः इति व्याचष्टे सृष्टि इति । सृष्टिक्रमेण - अवरोहक्रमेण यः उपदेशादिः तस्मिन्, आदिशब्देन परामर्शादेर्ग्रहणम्, आरोहक्रमेण तु सदाशिवतत्त्वस्यान्त्यत्वमेवेति भावः । उचितम् इति, ज्ञानस्यैव सृष्टिक्रमेण प्रथमत्वादिति भावः ।
प्रथमार्धं व्याख्याय द्वितीयार्धं व्याचष्टे तत् इति ।
तदित्यस्य कर्तृत्वेनाध्याहारः, अध्याहृतस्यास्य व्याख्यां करोति सादाख्यम् इति । बहिर्भाव इत्यादि व्याचष्टे बहिर्भावस्य इति ।
यद्यपि परमेश्वरपदं शिवतत्त्वे एव युक्तं तथापि लक्षणया प्रयुक्तमिहापि, परमेश्वरपदस्य वाच्यं पारमेश्वरमिति विग्रहः । इह तु सा विमर्शशक्तिः स्वयमपि स्फुटीभवति स्वप्रतियोगिनीमिदन्तामपि स्तोकमुन्मीलयति येन अहमिदम् इति अहमः प्राधान्येन इदमस्त्वप्राधान्येन परामर्शः । अयमेव च बहिर्भावाख्यायाः क्रियाशक्तेरुद्रेकः । अहंविमर्श एव इदंविमर्शभावेनापि स्फुरति । अत्रैव च शुद्धाहम्परामर्शस्य विकल्परूपतासूत्रणं च ज्ञेयम् । परतः इति व्याचष्टे तच्च इति ।
तच्च - ईश्वरतत्त्वं च, पश्चात् - ज्ञानानन्तरम् क्रियोद्रेके युक्तम् इति भावः । अत्रापि सृष्टिक्रमोपदेशादाविति योज्यम् ।
पूर्वार्धेऽवशिष्टं तत्त्वम् इति पदं व्याख्यातुमेतस्य
एतदुक्तं भवति । इह तस्य भावस्तत्त्वम्, - इति भिन्नानां वर्गाणां वर्गीकरणनिमित्तं यदेकमविभक्तं भाति तत्तत्त्वम् ।
यथा गिरिवृक्षपुरप्रभृतीनां नदीसरःसागरादीनां च पृथिवीरूपत्वमब्रूपत्वं चेति । ततश्च शुद्धचैतन्यवर्गो यो मन्त्रमहेश्वराख्यः, तस्य प्रथमसृष्टावस्माकमन्तः- करणैकवेद्यमिव ध्यामलप्रायमुन्मीलितमात्रचित्रकल्पं यद्भावचक्रम्, तथा [भावचक्रम्, संहारे च - क्। ष्। ष्। ] संहारे च ध्वंसोन्मुखतया तथाभूतमेव
श्लोकस्य सङ्ग्रहेणाभिप्रायं वक्तुञ्चावतरणिकां करोति एतदुक्तं भवति इति । किमुक्तं भवतीत्यत आह इह इति । भिन्नानां वर्गाणाम् - भेदेन स्थितानां बहूनां वर्गाणाम्, वर्गीकरणनिमित्तम् - एकवर्गीकरणम्, येन धर्मेण भिन्ना - अपि समतया भान्तीति यावत् । समानानां समूहो हि वर्ग इति भावः, एकम् - बहुष्वङ्गेषु एकत्वेन स्थितम्, अत एव अविभक्तम् - विबागरहितम् । अत्र वाह्यसिद्ध वस्तु उदाहरणत्त्वेन कथयति यथा इति । इति शब्दः तत्त्वशब्दव्याख्यासमाप्तौ । फलितं कथयति ततश्च इति । ततश्च यतो वर्गाणां वर्गीकरणं तत्त्वम् ततः कारणाच्च, मन्त्रमहेशाख्यः - मन्त्रमहेशेति रूढः यः शुद्धचैतन्यवर्गः - अभेदग्राही चैतन्यसमूहः तस्य प्रथमसृष्टौ - सविमर्शचैतन्यरूपशिवपदात्प्रच्याव- रूपायामवरोहरूपायां नवीनायाम् सृष्टौ, ध्यामलप्रायम्
- तावदनुद्भूतत्वेन अस्फुटम्, तथा उन्मीलितमात्रचित्रकल्पम् - मश्यादिना लिखितमात्रं न तु गैरिकादिभिः पुष्टीकृतम्, यत् चित्रम् - आलेख्यम्, तेन सदृशम् । यद्भावचक्रम् - इदन्ताग्राह्यं वस्तुजातम्, प्रतिबिम्बप्रायतया - प्रतिबिम्बकल्पतया, चकास्ति - भाति । तथा पुनः संहारे च - आरोहक्रमरूपे संहारे च, ध्वंसोन्मुखतया - नाशोन्मुखतया यद् भावचक्रं तथाभूतमेव - ध्यामलप्रायं उन्मीलितमात्रचित्रकल्पं प्रतिबिम्बकल्पतया चकास्ति । केषां किमिव चकास्ति ? अस्माकम् - मायाप्रमातॄणाम्, अन्तःकरणैकवेद्यमिव - केवलान्तः
चकास्ति प्रतिबिम्बप्रायतया, तस्य चैतन्यवर्गस्य तादृशि भावराशौ तथाप्रथनं नाम यच्चिद्विशेषत्वं तत्सदाशिवतत्त्वम् । मन्त्रेश्वरादिरूपस्य तु चैतन्यराशेः स्फुटीभूतमस्मद्बहिष्करणसरणिसम्प्राप्तभाववर्गप्रतिमं विश्वं प्रतिबिम्बकल्पतया [प्रतिबिम्बतया - क्। ष्। ष्।] भाति, तस्य तु तत् तथाप्रथनमीश्वरतत्त्वम् । यस्तु सदाशिवभट्टारक ईश्वरभट्टारकश्च ध्येयोपास्यादिरूपतया स ब्रह्मविष्णुतुल्यः पृथगेव मन्तव्यो न तु नामसारूप्यात् भ्रमितव्यम् । यथाहुरेके ब्रह्मविष्णुरुद्रा अपि तत्त्वमध्ये किं न गणिताः इति ॥ २ ॥
करणग्राह्यं वस्तु इव, अन्तःकरणेन हि वस्तु अस्फुटतयैव गृह्यते, तस्य - प्रोक्तस्य चैतन्यवर्गस्य तादृशि - ध्यामलप्रायादिरूपे, भावराशौ - भावराशिविषये इति यावत्, तथा प्रथनं नाम - प्रोक्तध्यामलप्रायादिभावेन स्फुरणाख्यम्, यत् चिद्विशेषत्वम् - चिद्विशेषभावो नाम धर्मो भवति, तत् सदाशिवतत्त्वं - भवति ।
सर्वत्र भावराशौ अस्फुटप्रतिबिम्बत्वम्, नष्टप्रायत्वदर्शनमेव सदाशिवांवस्थेति भावः । तथा च अहन्तया ग्रहणस्य शिवशक्तितत्त्वरूपत्वम् स्वयमेव ज्ञेयम् ।
प्रमाता चात्र स्वयं शिव एव, तत्र पराहन्ताया एव प्राधान्यात् ।
परशिवावस्था तु सर्वदा सर्वमयी एव इति न तत्र कापि विशेषकल्पना । अत्र तु सर्वेषामेव सर्वथा प्रमातृत्वमिति श्रीगुरुभ्य एव श्रुतम् । ननु सदाशिवत्वमेवं भवतु, ईश्वरत्वं तु कीदृशमस्तीत्यत आह मन्त्रेश्वर इति । मन्त्रेश्वरादिरूपस्य, ईश्वरतत्त्वविद्यातत्त्वरूपे पदद्वये स्थितयोः मन्त्रेश्वरमन्त्ररूपयोः प्रमात्रोरित्यर्थः, प्रतिबिम्बकल्पतया इत्यनेन मायाप्रमातृनिरासः, तेषां हि विश्वं सत्यतयैव भाति न प्रतिबिम्बतया, प्रतिबिम्बतया दर्शनमेव ईश्वरतत्त्वासादनं शुद्धविद्यातत्त्वासादनं च भवतीत्यभिप्रायः । ननु यथा सदाशिवादेस्तत्त्वरूपता अस्ति तथा विष्ण्वादेरपि कथं नास्तीत्यपेक्षायामाह यस्तु इति । उपास्यादिरूपतया इति ।
आदिशब्देन पूज्यादिग्रहणम्, कल्प्यते इति शेषः । पृथक् - तत्त्वरूपाभ्यां भिन्न एव । ननु केषामयं भ्रमो जात इत्यत आह यथाहुः इति ॥ २ ॥
नामधेयान्तरमप्यत्र तत्त्वद्वये दर्शयति
ईश्वरो बहिरुन्मेषो, निमेषोऽन्तः सदाशिवः ।
सामानाधिकरण्यञ्च, सद्विद्याहमिदन्धियोः ॥ ३ ॥
यस्योन्मेषादुदयो जगतः, इत्यत्र ईश्वरतत्त्वमेवोन्मेष- शब्देनोक्तम्, विश्वस्य हि स्फुटत्वबाह्यत्वमुन्मेषणम् [स्फुटत्वं
- क्। ष्। ष्।] निमेषणं त्वस्फुटत्वापादनमहन्तारूपतोद्रेचनम् [अन्तारूपतोद्रेचनम् - क्। ष्। ष्।] इति निमेषः सदाशिवतत्त्वम् । यतो जगतः प्रलय इति । शोद्धोऽयं स्पन्दः परमेश्वरस्याचलस्याप्यप्ररूढरूपान्तरापत्तिलक्षणः
अत्र टीका : -
तृतीयस्य श्लोकस्यावतरणिकां करोति नामधेयान्तरम् इति ।
स्पष्टम् । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे ।
ईश्वरः इति ।
अत्र टीका : -
कुत उक्तम् इत्यत आह, विश्वस्य हि इति । स्फुटत्वं च बाह्यत्वं च तत् स्फुटत्वबाह्यत्वम् समाहारे द्वन्द्वः । अहन्तारूपतायाः - आन्तरत्वस्य, उद्रेचनम् - अधिकीकरणम्, अहन्तारूपतोद्रेचनम् कुतः सदाशिवतत्त्वमित्यत आह यतः इति । सदाशिव एव जगतः प्रलयः ततः परं जगत्स्पर्शा - सम्भवात्, इति शब्दः पूर्वार्धव्याख्यासमाप्तौ । सदाशिवेश्वरतत्त्वयोः शुद्धस्पन्दत्वं कथयति शुद्धोयम् इति । अचलस्यापि - परमार्थतः स्वरूपे स्थितत्वात् चलत्तारहितस्यापि, परमेश्वरस्य - शिवशक्तिसमुदायरूपस्य, अयम् - सदाशिवेश्वररूपः स्पन्दः शुद्धः भवति, कीदृशः ? अप्ररूढा - प्ररोहमगता अस्फुटा, अस्फुटप्रतिबिम्बभावेन जगत्स्फुरणात् दार्ढ्यमगता इति यावत्, या रूपान्तरापत्तिः [या भेदापत्तिः सा - च्।] भेदापत्तिः सा लक्षणम् - स्वरूपं यस्य सः । कुतः स्पन्द इत्यपेक्षायां
किञ्चिच्चलनात्मतया स्फुरद्रूपत्वात् । परमेश्वरस्य हि परमार्थत एताः शक्तयो यस्तत्त्वग्रामः, काचित्तु शक्तिरन्यबहुतरशक्तिक्रोडी कारं कुर्वती निकटत्वादुपास्या घटस्येव घटत्वात्मिका, काचिदन्यापेक्षिणी स्वरूपमात्रनिष्ठा दूरा घटस्येव सत्तात्मिका । एवं निमेषोन्मेषशक्ती एव सदाशिवेश्वरौ तयोस्त्वधिष्ठातृदेवते अपि तथानामे ॥
अथ तदधिष्ठातृद्वयगतं [तदधिष्ठातृदेवताद्वयगतम् - क्। ष्। ष्।] करणं विद्यातत्त्वमाह । प्रकाशस्य यदात्म -
हेतुमाह किञ्चित् इति । अन्यथा सदाशिवेत्याद्याभासान्तरायोगात् इति भावः ।
स्पदि किञ्चिच्चलने
इति धात्वनुसारेण अयमर्थः कृतः यद्यपि सारशास्त्रेषु शक्तेरेव स्पन्दत्वमुक्तं तथापीह प्रक्रियाशास्त्रे प्रोक्तनीत्या सदाशिवादेरुक्तम्, शक्तिशिवयोरेव हि [शक्तिशिवयोरेव बहिः इह शास्त्रे - च्।] इह शास्त्रे परमार्थस्वरूपत्वं न परशिवस्येत्यलम् ।
शुद्धत्वस्य नैकट्यकृतत्वं साधयति, अथवा तयोस्तत्त्वयोरुपास्यत्वं कथयति परमेश्वरस्य इति । हि - यस्मात्, परमेश्वरस्य एताः शक्तयो - भवन्ति, एताः काः ? यः तत्त्वग्रामः - सदाशिवादिरूपः तत्त्वसमूहः भवति । उपास्या इति, तावन्मलानासादनात् सत्वरं शक्तिमत्प्रापकत्वात् वा उपासितुं योग्या । सद्वस्त्वन्वेषणे हि घटः चिरेण प्राप्यते घटत्वयुक्तवस्त्वन्वेषणे तु सद्य एवेति भावः । उपसंहारं करोति एवम् इति । शिवस्य शक्तिमतः इति शेषः, अधिष्ठातृदेवते - प्रेरकतया स्थितं देवताद्वयम्, तथानामे - सदाशिवेश्वराख्ये इत्यर्थः । तत्र शिवशक्तितत्त्वयोरधिष्टातृभावः तत्त्वद्वयस्यैव स्वयं तद्रूपत्वात् । सदाशिवतत्त्वे सदाशिवोऽधिष्ठाता, ईश्वरतत्त्वे ईश्वरः, विद्यातत्त्वे सदाशिवेश्वरौ, ततो मायापदे रुद्रः विष्णुब्रह्माणौ च । तदुक्तम् -
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।
इति । एतत् च संहारक्रमेणोक्तं न सृष्टिक्रमेणेति नान्यथा शङ्कनीयम् ।
अथोत्तरार्धं व्याख्यातुमवतरणिकां करोति अथ इति ।
तदधिष्ठा -
मात्रविश्रमणमनन्योन्मुखस्वात्मप्रकाशताविश्रान्तिलक्षणो विमर्शः सोऽहम् इति उच्यते । यस्त्वन्योन्मुखः स इदम् इति । स च स्वप्रकाशमात्रे पुनरनन्योन्मुखरूपे विश्राम्यति परमार्थतः ।
तत्राद्ये विममर्शे [आद्ये विमर्शेऽपि - क्। ष्। ष्।] शिवतत्त्वम् द्वितीये विद्येशता मध्यमे तु रूपे अहमिदम् इति समधृततुलापुटन्यायेन यो विमर्शः स सदाशिवनाथ ईश्वरभट्टारके च, इदम्भावस्य तु ध्यामलाध्यामलताकृतो विशेषः । ये एते
तृद्वयगतम् - सदाशिवेश्वरतत्त्वगततदाख्याधिष्ठातृद्वय- गतम्, करणम् - प्रेरणोपायः, विद्यातत्त्वम् - शुद्धविद्यातत्त्वम् ।
एवमवतरणिकां कृत्वा उत्तरार्धं व्याचष्टे प्रकाशस्य इति ।
अहमिदन्धियोः इति व्याचष्टे प्रकाशस्य इति ।
आत्ममात्रविश्रमणम् स्वयं व्याचष्टे अनन्य इति ।
अनन्योन्मुखः - अबाह्योन्मुखः अत एव स्वात्मप्रकाशतायां या विश्रान्तिः । सा लक्षणम् स्वरूपं यस्य तादृशः । यत् इत्यस्याकाङ्क्षां पूरयति सः इति । सः, तद्विश्रमणमित्यर्थः, अध्याहार्यविमर्शशब्दापेक्षं पुंस्त्वम् । अहमित्ववयवं व्याख्याय इदम् इत्यवयवं व्याचष्टे यस्तु इति । अन्योन्मुखः बाह्योन्मुखः । ननु तर्हि भेदापत्तिरित्यत आह स च इति । पुनः इति, आरोहसमये इत्यर्थः । मध्ये मृषैव भातीत्यर्थः । ननु तर्हि प्रोक्ततत्त्वद्वयात्कोऽस्याः भेदः इत्यपेक्षायां विभागं करोति तत्र इति । तत्र, अहम् इदम् अहमिदम् इदमहम् इति विमर्शचतुष्टयमध्ये इत्यर्थः । आद्ये विमर्शे अहम् इत्यत्र इत्यर्थः । एतच्च शक्तिशिवयोरैक्यमारोप्योक्तम्, द्वितीये इदम् इत्यत्र विद्येशता - लक्षणया शुद्धविद्यात्त्वम्, विद्येशा हि विद्यारूपा एव भवन्ति, उपासनामात्रार्थं कल्पितत्वात्, द्वितीये इति सूत्रापेक्षया उक्तम्, अन्यथा मध्यासम्भवात् । मध्यमे - अर्थाज्ज्ञाते अहमिदम् इदमहम् इति परामर्शद्वये । ननु तर्हि सदाशिवेश्वरयोरेकत्वमेवायातमित्यत आह - इदम्भावस्य इति ।
ध्यामलता - अस्फुटत्वम्, तत्र सदाशिवतत्त्वे इदम्भावस्य ध्यामलता, ईश्वरतत्त्वे त्वध्यामलतेति विभागः । ननु तर्हि सदाशिवतत्त्वे समधृततुलापुटन्यायो न युक्तः, सत्यम्, विस्तरभिया अत्रैवमुक्तमन्यथा तु सदाशिवतत्त्वे अहम्भावस्य प्राधान्यमेव वर्तते इत्यलम् । ननु यदि शुद्धविद्या
अहम् इति इदम् इति धियौ तयोर्मायाप्रमातरि पृथगधिकरणत्वम् अहम् इति ग्राहके इदम् इति च ग्राह्ये, तन्निरासेनैकस्मिन्नेवाधिकरणे यत्सङ्गमनं सम्बन्धरूपं प्रथनं [सम्बन्धस्वरूपप्रथनम् - क्। ष्। ष्।] तत् सती शुद्धा विद्या, अशुद्धविद्यातो [शुद्धा विद्या; अतोऽशुद्धविद्यातः - क्। ष्। ष्।] मायाप्रमातृगताया अन्यैव । तत्र यदा अहम् इत्यस्य यदधिकरणं चिन्मात्ररूपं तत्रैवेदमंशमुल्लासयति तदा तस्यास्फुटत्वात् सदाशिवता अहमिदम् इति । इदमहम् इति तु इदमित्यंशे स्फुटीभूतेऽधिकरणे यदाहमंशविमर्शं निषिञ्चति तदेश्वरता, - इति विभागः ॥ ३ ॥
वामपीदन्तायाः उद्धुरीभावस्तर्हि मायाया अस्याः को भेदः इत्यपेक्षायाम् सामानाधिकरण्यञ्च इति व्याचष्टे ये एते इति ।
पृथगधिकरणत्वमेव स्फुटयति, अहम् इति । ग्राहके - प्रमातृतयाभिमते शून्यादौ, ग्राह्ये - प्रमेये, नन्वत्र शुद्धविद्यातत्त्वे किमस्तीत्यत आह तन्निरासेन इति । तस्य - पृथगधिकरणस्य निरासेन - आरोहदशायां दूरीकरणेन अवरोहदशायां तु स्वभावेनैव, एकस्मिन्नेवाधिकरणे - चिन्मात्रे एकाधारे एव, यत्सङ्गमनम् - भेदाभेदग्रस्तत्वेन सङ्गमनम् । सङ्गमनम् इति स्वयं व्याचष्टे सम्बन्धरूपं प्रथनम् इति, चिद्भागापेक्षयाऽहमिति योजनम्, चेत्यतापेक्षया तु इदम् इति योजनम् । तत् - प्रोक्तस्वरूपं वस्तु । सती इत्यवयवं व्याचष्टे शुद्धा इति । विद्या इति निगदव्याख्यातम् । कुतः शुद्धेत्यपेक्षायामाह अशुद्ध इति, अस्य शुद्धविद्यातत्त्वस्य सदाशिवेश्वररूपतां विषयभेदेन दर्शयति तत्र इति ।
अधिकरणम् - विषयाश्रयभूतम्, उल्लासयति - अत एवोत्थितमेतदिति जानाति, उल्लापयति इति वा पाठः । निषिञ्चति - अन्तर्भावयति, विभागः
- शुद्धविद्याविषये इति भावः । तत्रावरोहे अस्याः सदाशिवपदानन्तरम् ईश्वरपदाश्रयणम्, आरोहे तु, ईश्वरपदानन्तरं सदाशिवपदग्रहणम् इति, अधिष्ठातृरूपयोः सदाशिवेश्वरयोरियं करणम् क्रमेण भेदाभेदरूपाध्वद्वयप्रापकत्वात् इति ज्ञेयम् ॥ ३ ॥
ननु कस्मादियं शुद्धा विद्या इत्याह
इदम्भावोपपन्नानां वेद्यभूमिमुपेयुषाम् ।
भावानां बोधसारत्वाद्यथावस्त्ववलोकनात् ॥ ४ ॥
अवलोकनं प्रथनं वेदनं विद्या, यथावस्तुत्वं वस्त्वनुसारित्वं च; तस्याः शुद्धिरविपरीतता । वेद्यदशां चोपगतवतामङ्गीकृतवताम्, अत एवेदमित्येवम्भूतेनोचितेन परामर्शेनोपपन्नानां परामृश्यमानानां भावानां बोध एव प्रकाशात्मा साररूपं वस्तु, प्रकाशश्चानन्योन्मुख -
अत्र टीका : -
अथ चतुर्थस्य श्लोकस्यावतरणिकां करोति ननु इति । स्पष्टम् ।
एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । इदम्भाव इति ।
अत्र टीका : -
प्रथमं यथावस्त्ववलोकनात् इत्यस्य अवलोकनात् इत्यवयवं बहुभिः पर्यायैर्व्याचष्टे प्रथनम् इति । यथावस्तु इत्यास्यात्र योजनां करोति व्याचष्टे च वस्त्वनुसारित्वञ्च इति ।
तस्याः - विद्यायाः, एतेन भावप्रधानोऽयं निर्देश इति सूचितम् ।
तथाचैवमत्र योजना । यथावस्तु - वस्तु यथा भवति तथा, यत् अवलोकनम् - विद्या, तत्त्वात् इयं सद्विद्या इति पूर्वेण सम्बन्धः ।
सती पदवाच्यस्य शुद्धि पदस्य पर्यायान्तरमाह अविपरीतता इति ।
वेद्यभूमिमुपेयुषाम् इति व्याचष्टे उपगत इति । अत्रापि पर्यायमाह अङ्गीकृत इति । एतदवष्टम्भेन इदम्भावोपपन्नानाम् इति व्याचष्टे अत एव इति । इदम्भावस्य स्वरूपमाह परामर्शेन इति । उपपन्नानाम् इति व्याचष्टे परामृश्यमानानाम् इति । भावानाम् इति निगदव्याख्यातम् ।
बोधसारत्वात् इति व्याचष्टे बोध एव इति । एतेन बोधस्यात्र भङ्ग्या विमर्श एव वाच्यतयोक्तः, तेन बोधसारत्वात्, अहं -
विमर्शात्माहमिति । तदेषां यदेव पारमार्थिकं रूपं तत्रैव प्ररूढत्वात् अहमिदमित्यस्य [अहमित्यस्य - क्। ष्। ष्।] शुद्धवेदनरूपत्वम् ॥ ४ ॥
अधिष्ठातृरूपाद्देवताद्वयात् तत्त्वद्वयं विभक्तम्, - इत्येतद्भङ्ग्या प्रतिपादयत्यागमव्यवहारेण ।
विमर्शसारत्वादित्यर्थः । फलितं कथयति तत् इति । प्ररूढत्वात् अहमिदम् इत्यस्य - सदाशिवादिगतस्य परामर्शस्य शुद्धवेदनस्वरूपत्वम् - शुद्धविद्यारूपत्वम्, आपाततः भेदेपि परमार्थतः अभेदे विश्रान्तत्वात् इति भावः ।
एवं चात्र सङ्ग्रहः । नित्याव्यभिचरद्रूपयोः प्रकाशशुद्धाहंविमर्शयोः शिवशक्तितत्त्वव्यवहारः, [शिवतत्त्वव्यवहारः - च्।] वेद्यत्वाभावात्प्रमातृत्वमप्यत्र शिवस्यैव भावानाञ्चाहन्तयैव ग्रहणम् ।
अपरिमिताहन्तेदन्ताविषये सदाशिवतत्त्वव्यवहारः । अत्र तु वेद्यतोद्भवेन मन्त्रमहेश्वररूपः चेतनवर्गः प्रमाता, भावानान्तु स्तोकमिदन्तास्पर्शरूषितया अहन्तया ग्रहणम्, यत्सर्वमिदं तदहमेव नत्विदमाख्यं किमपि वस्तु भवति, एकस्य चिन्मात्रस्यैव सत्त्वात् इति । तयोरेवाहन्तेदन्तयोः समत्वे ईश्वरतत्त्वव्यवहारः । अत्र मन्त्रेश्वरः प्रमाता, भावानां तु समधृततुलान्यायेन इदन्ताऽहन्ताभ्यां ग्रहणम् ।
चिच्चेत्यभागयोः इदमिति विषये तु शुद्धविद्यातत्त्वव्यवहारः, भावानान्तु स्तोकम् अहन्तास्पृष्टया इदन्तया ग्रहणम् परं तु [परन्त्वशुद्धा - च्।] शुद्धाहस्फूर्तिरप्यस्फुटा वर्तते एव, अन्यथा मायातत्त्वापातात् तत्र हि प्रलयाकलाख्यः शून्यरूपः प्रमाता, न चात्राहन्तेदन्तयोः परस्परं प्रति स्फुटं प्रतियोगित्वं शङ्क्यम् येन विकल्परूपतापातः स्यादपि तूभयमप्यत्र पर्यायेण अपरिमितमेव, मायापदे तु तयोः परस्परं प्रति स्फुटं प्रतियोगित्वमेव । यस्तु परशिवः सर्वत्र सर्वदा सर्वमय एवेति न तस्येह प्रस्तावः इति ॥ ४ ॥
अथ पञ्चमस्य श्लोकस्यावतरणिकां करोति अधिष्ठातृ इति ।
अत्र टीका : -
तद्द्वयम् - देवताद्वयम्, सदाशिवेश्वररूपम्, आगमव्यवहारेण - सार - शास्त्रव्यवहारेण ।
एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । अत्र इति ।
अत्रापरत्वं भावानामनात्मत्वेन भासनात् ।
परताहन्तयाच्छादात्परापरदशा हि सा ॥ ५ ॥
परता [परत्वं पूर्णत्वम् - क्। ष्। ष्।] पूर्णत्वमनन्या- पेक्षाहमिति, अपरत्वम् अपूर्णत्वमन्यापेक्षितेदमिति [अपूर्णतान्यापेक्षेदमिति - क्। ष्। ष्।] । अत्र च तत्त्वद्वये भावानां ध्यामलाध्यामलरूपाणामुभयांशस्पर्शात् परापरत्वमिति ।
वेद्यभावनिष्ठा दशा तत्त्वस्वरूपा तदवभासयितृमन्त्रेश्वरादि-
अत्र टीका : -
प्रथमम् परता इति व्याचष्टे पूर्णत्वम् इति । पूर्णत्वस्यापि पर्यायमाह अनन्य इति । अहन्तयाच्छादात् इति व्याचष्टे अहम् इति अपरत्वम् अपि व्याचष्टे अपूर्णत्वम् इति । अत्रापि पर्यायमाह अन्यापेक्षिता [अन्यापेक्षता - च्।] इति । अनात्मत्वेन भासनात् इति व्याचष्टे इदम् इति । अत्र इति पदं व्याचष्टे तत्त्वद्वये इति ।
सदाशिवरूपे ईश्वररूपे चेत्यर्थः, भावानाम् इति व्याचष्टे ध्यामलाध्यामलरूपाणाम् इति । तत्र सदाशिवदशायां ध्यामलत्वम् ईश्वरदशायामध्यामलत्वमिति विभागः ।
परापरदशाहि सा इति व्याचष्टे उभयाम्श इति । विद्यायाः इति शेषः । इति शब्दः व्याख्यासमाप्तौ ।
एवमत्र पर्यवसितोऽर्थः । अत्र - सदाशिवेश्वराख्ये तत्त्वद्वये, भावानाम् - बाह्यान्तरपदार्थानाम्, अनात्मत्वेन भासनात् - इदन्तया भासनात्, अपरत्वं भवति । तथा अहन्तयाऽऽच्छादनात् - अहन्त्वेन वलनात्, अहन्तया ग्रहणादिति यावत्, परत्वं भवति । हि इति अतः शब्दार्थे, अतः कारणात् सा - सद्विद्या परापरमयी भवति, उभयतत्त्वसमुदायरूपत्वादिति भावः ।
भासनात् छादात् इति एताभ्यां शब्दाभ्याम् सूचितं तत्त्वानां वेद्यभावमवलंव्य तत्त्वाधिष्ठातृप्रमातृप्रमातृ- तद्गतविद्याविभागं करोति वेद्य इति । वेद्यभावनिष्ठा दशा तत्त्वस्वरूपा भवति, वेद्यभाव एव तत्त्वभावो भवतीति
शुद्धप्रमातृसंवेद्यवस्तुसारा । या तु तन्निष्ठसंवेदनदशा सा शुद्धा विद्या, तत्प्रमात्रधिष्ठातृत्वं [तत्प्रमातृवर्गाधिष्ठातृत्वम् - क्।ष्।ष्।] श्रीसदाशिवेश्वरभट्टारकरूपता इति सङ्क्षेपः ॥ ५ ॥
एवमेकेषां मते अहम् इत्याच्छादको यो भागः तत्प्रथाप्रधाना शुद्धविद्या । अन्ये तु मन्यन्ते, - योऽसाविदम्भाग आच्छादनीयस्तस्य यदवभासनं तत्प्रधाना शुद्धविद्या । अन्यथा हि स इदमंशः केन भास्यतां मायायास्तत्राभावात् भावे वा प्ररोहप्रसङ्गात्; अत एवेयं प्ररोहासहिष्णुं यत इदन्तां भासयति ततः शुद्धा । भासनाच्च विद्येति । तत एवाप्ररूढमायाकल्पत्वात् महामायेयं श्रीरौरवादिगुरुभिरुपदिष्टा, तदेतदाह ।
यावत् । कीदृशी ? तदवभासयितारो ये मन्त्रेश्वरादयः शुद्धप्रमातारः तेषां संवेद्यं यद्वस्तु सः सारः यस्याः सा, तद्रूपेति यावत् । अत्यासन्नत्वेन मन्त्रेशानां साक्षाद् ग्रहणम्, आदिशब्देन मन्त्रमहेश्वराणां ग्रहणम् ।
तन्निष्ठसंवेदनदशा - शुद्ध - प्रमातृगता ज्ञानदशा, तत्प्रमात्रधिष्ठातृत्वम् - मन्त्रेश्वरादिप्रेरकत्वम्, इति सङ्क्षेपः, इति सङ्क्षिप्तार्थो भवतीत्यर्थः ॥ ५ ॥
अथ षष्ठस्य श्लोकस्यावतरणिकां करोति एवम् इति ।
अत्र टीका : -
शुद्धविद्या इति, चिद्भागस्य शुद्धविद्यारूपत्वादिति भावः । तत्प्रधाना - अवभासप्रधाना, अन्यथा - अवभासनस्य प्राधान्याभावे । ननु मायापदे तस्य भासनमस्त्येवत्यत आह मायायाः इति । तत्र - शुद्धविद्यातत्त्वे, प्ररोहप्रसङ्गात् - मायाविश्रान्तिप्रसङ्गात्, तथा च भेदापत्तिः स्यादिति भावः ।
फलितमाह अत एव इति । प्ररोहासहिष्णुम् - अहन्ताच्छाद्यत्वेन विश्रान्त्थसहम्, अप्ररूढमायाकल्पत्वात् - शिथिलमायासदृशत्वात् । इयम् - शुद्धविद्या, तत् एतत् - समनन्तरोक्तं वस्तु । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । भेदधीः इति ।
भेदधीरेव भावेषु कर्तुर्बोधात्मनोऽपि या । मायाशक्त्येव सा विद्येत्यन्ये विद्येश्वरा यथा ॥ ६ ॥
मायाप्रमातरि शून्यादिरूपेऽप्यनुल्लसिते, चिन्मात्र एव प्रमातरि कर्तरि च सति चिदेकरूपेष्वपि भावेषु यदचिद्रूपतया भेदप्रकाशनलक्षणं [तदप्रकाशनलक्षणम् - क्।ष्।ष्।] स्वातन्त्र्यं सा शुद्धविद्या मायाशक्त्या तुल्या, वेद्यभागे भेदप्रकाशनात् । न च मायैव, ग्राहकस्य चिन्मात्रभागे तावदविपर्यासनात्, येन प्रकारेण विद्येश्वरा भगवन्तोऽनन्ताद्या वर्तन्ते । ते हि शुद्धचिन्मात्रगृहीताहं भावाः स्वतस्तु भिन्नं वेद्यं पश्यन्ति, यथा द्वैतवादिनामीश्वरः । एवं ग्राहकेऽशतश्चैतन्यरूपात् परमार्थरूपे ग्राह्यविपर्यासनशक्तिः शुद्धविद्या विद्येश्वराणाम् ॥ ६ ॥
अत्र टीका : -
अनुल्लसितेऽपि इति योजना । अपिशब्दस्तदुल्लासने भेदप्रकाशनस्य योग्यतां सूचयति । भावेषु - शून्यादिरूपेषु मातृमेयरूपेषु समस्तेषु पदार्थेषु भेदप्रकाशनलक्षणम् - चिद्रूपत्वेन ज्ञातात् स्वस्मात् भेदेन भासनस्वरूपम् । कुतः मायाशक्त्या तुल्या इत्यत आह वेद्य इति । तर्हि मायारूपैवेयमस्तीत्यत आह न च इति । अविपर्यासनात् - अचिद्रूपताख्यविपर्यासकरणाभावात् ।
विद्येश्वरा यथा इति व्याचष्टे येन इति । अनन्ताद्याः इति ।
आदिशब्देन शिवोत्तमादीनां ग्रहणम् । ते - विद्येश्वराः, द्वैतवादिनाम् - तार्किकादीनाम् । उपसंहारं करोति एवम् इति ।
चैतन्यरूपात् अंशतः इति योजना । ग्राह्यस्य यत् विपर्यासनम् - अचिद्रूपताकरणम्, तत्र या शक्तिः सा, विद्येश्वराणाम् - अनन्तादीनाम्, उपलक्षणं चैतत् शुद्धविद्यातत्त्वस्थप्रमातॄणाम् ।
एवमत्र श्लोके योजना । बोधात्मनोऽपि कर्तुः सकाशात् मायाशक्त्या इवमायाशक्तिकृतभेदधीवत् या भावानां भेदधीः भवति सा विद्या भवति, इति एवम्, अन्ये रौरवादिगुरवः आहुरिति शेषः ॥ ६ ॥
परे प्राहुः - भगवतः परमशिवस्याप्ररूढभेदावभासनं सदाशिवेश्वरता ।
तत्रास्फुटे [अस्फुटत्वे - क्।ष्।ष्।] भेदे इच्छाशक्तिरीश्वरस्य व्याप्रियते, स्फुटत्वे ज्ञानशक्तिः, प्ररूढे तु भेदे ग्राह्यविपर्यासेऽपि ग्राहकचिन्मात्रतायां विद्येश्वरेषु क्रियाशक्तिः ग्राह्यग्राहकविपर्यासद्वयप्ररूढौ तु मायाशक्तिः, सा च पशुप्रमातृषु, ग्राहकग्राह्योभयविपर्याससंस्कारे तु अविनिवृत्तेऽपि यदेतत् वस्तुपरमार्थप्रथनं तत्र विद्याशक्तिव्यापारो योगिज्ञानिप्रभृतिष्वपशुप्रमातृषु । तदेतद्दर्शयति ।
तस्यैश्वर्यस्वभावस्य पशुभावे प्रकाशिका ।
विद्याशक्तिः …
पशुभावे विपर्यासैकरसत्वलक्षणे पाशनीयत्वेऽस्वतन्त्र- त्वे दृश्यद्रष्ट्टदर्शनभेदे
अथ सप्तमस्य श्लोकस्यावतरणिकां करोति परे इति ।
अत्र टीका : -
अन्ये त्रिकशास्त्रपारदृश्वानः, अप्ररूढः - शिथिलत्वेन विश्रान्त्यसहः यो भेदस्तस्यावभासनम् - स्वातन्त्र्येण प्रकाशनम्, सदाशिवेश्वरयोर्भावः सदाशिवेश्वरता, अस्फुटे भेदे - ध्यामलत्वे, ईश्वरस्य - श्रीशिवभट्टारकस्य, प्ररूढे - भेदविश्रान्तौ, विद्येश्वरेषु - शुद्धविद्याप्रमातृषु । अर्थात् मन्त्रमहेश्वरेषु, इच्छाशक्तिः मन्त्रेशेषु ज्ञानशक्तिरिति ज्ञेयम् । ग्राह्यग्राहकयोः यद्विपर्यासद्वयम् अचिद्रूपतया इव भासनरूपम्, तस्य प्ररूढौ विश्रान्तौ, सा च - मायाशक्तिश्च, वस्तूनाम् - भावानाम् यत् परमार्थप्रथनम् चिन्मात्राख्यसहजस्वरूपस्फुरणम्, तत्र - तस्मिन् प्रथने सति, तदेतत् - समनन्तरोक्तं वस्तु ।
एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे ।
तस्यैश्वर्य इति ।
अत्र टीका : -
पशुभावे इति व्याचष्टे विपर्यासैक इति, विपर्यासे - चिन्मयेष्वप्यचिन्मयताज्ञानरूपे, एकः रसः यस्य तस्य भावस्तत्त्वम् लक्षणम् - स्वरूपं
सत्यपि जाते पूर्वोक्तयुक्तिबलेन यदेतदैश्वर्यमुक्तं तस्य या प्रकाशिका परमेश्वरशक्तिः - यद्वशात् केचिदेव ता युक्तीरादृत्य तदाश्वस्तहृदयाः कृतिनो भवन्ति - सा विद्याशक्तिः । अयमेव षडर्धसारादिदृष्टोऽप्यस्याचार्यस्य हृदयमावर्जयति पक्षः, अन्ये इत्यनुक्तेः ।
एतदानन्तर्यौचित्येन च मायातत्त्वनिरूपणात् तदाह
…टिरोधानकरी मायाभिधा पुनः ॥ ७ ॥
यस्य तादृशे । द्वितीयां व्याख्यां करोति पाशनीयत्वे इति ।
बन्ध्यत्वे [बध्यत्वे - च्।] इत्यर्थः, व्याख्यान्तरमप्याह अस्वतन्त्रत्वे इति । अस्यैव पुनर्व्याख्यान्तरमाह दृश्य इति ।
लक्षणया ग्राह्यग्राहकरूपभेदज्ञाने, जाते सत्यपि, जाते इत्यस्य युक्त्वेन अध्याहारः । तस्य - ऐश्वर्यस्य, केचिदेव - शक्तिपातगृहीताः केचित्पुरुषा एव । कुतः आवर्जयतीत्यत आह अन्ये इत्यनुक्तः इति । येषां मतं न रोचते तेषाम् अन्ये इत्यनेन निर्देशः क्रियते, अत्र तु न कृतः इति ज्ञायते अयमेव पक्षः आचार्यस्याभिप्रेत इति भावः । एतेन विद्याशक्तिः इत्यन्तं व्याख्या सम्पन्ना ।
एवमत्र योजना । प्रमातुः जाते इति शेषः । प्रमातुः पशुभावे पशुत्वे जातेऽपि सति, तस्य - पूर्वोक्तस्य, ऐश्वर्यस्वभावस्य - ऐश्वर्यस्वरूपस्य, विद्याशक्तिः प्रकाशिका भवति इति, न तु इदन्ताप्रकाशिनी भवतीति भावः ।
तिरोधानकरी इत्यादि व्याख्यातुमवतरणिकां करोति एतद् इति ।
एतस्याः - शुद्धविद्यायाः यद् आनन्तर्यम् अनन्तरता, तत्र यदौचित्यं तेन, मायातत्त्वनिरूपणात् हेतोः तत् - मायातत्त्वम् आह
- कथयति । औचित्य इत्यनेन शुद्धविद्यातत्त्वनिष्ठानामपि कदाचित् देहस्थितिपर्यन्तं निकटवर्तिनि मातृमेयतया स्थिते मायापदेऽपि अवस्थानं भवत्येवेति द्योतितम् ।
मायाशक्तिः पुनरचिद्रूपे शून्यादौ प्रमातृताभिमानं प्ररूढं दधती भावानपि चिन्मयान् भेदेनाभिमाअनयन्ती सर्वथैव स्वरूपं तिरोधत्ते आवृणुते विमोहिनी सा । तिरोधानमत्र न विलयनरूपं [विलयरूपम् - क्।ष्।ष्।] मन्तव्यम्, यत् कृत्यपञ्चकमध्य आगमेषु गण्यते, दीक्षितस्यापि गुरुमन्त्रादिनिन्दनप्रायमपि त्वावरणमेव ॥ ७ ॥
तिरोधानमावरणरूपं स्फुटयति
एवम् अवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे तिरोधान इति । माया इति निगदव्याख्यातम् । पुनः शब्दः शुद्धविद्यायाः व्यतिरेकद्योतकः । प्ररूढम् - विश्रान्तम्, एतेन शुद्धविद्यायाः निरासः, तत्र हि शून्यादौ प्रमातृताभिमानः अप्ररूढव्तेन स्फुरत्येव येन तत्रस्थानां मायास्पर्शो गण्यते, चिन्मयानपि भावान् इति योजना, भेदेन - चितःभिन्नतया, स्वरूपम् - आत्मनः भावानाञ्च पारमार्थिकं चिदाख्यं स्वरूपम्, तिरोधानकरी इति व्याचष्टे आवृणुते इति । आङ् पूर्वेण वृञा तिरोधानपदव्याख्या, तिङा कर्तृप्रत्ययान्तस्य कृञः ।
कुतः इत्यपेक्षायामाह विमोहिनी इति । विमोहकारी हि ऐन्द्रजालिकः स्वमपि विस्मारयति स्वकीयं वस्त्वपीति भावः । ननु तिरोधानं सृष्ट्यादि भगवत्कृत्यपञ्चकवर्त्येवास्ति उत अन्यत् इत्यत आह तिरोधानम् इति । विलयनरूपम् - संस्कारनाशस्वरूपम् । पुनः किमस्तीत्यत आह दीक्षीतस्यापि इति । गुरुमन्त्रादेर्यन्निन्दनं तत् प्रायः बाहुल्येन यत्र - आवरणे तादृशम् । मायाग्रस्तो हि दीक्षितोऽपि गुरुमन्त्रादिनिन्दनपरो भवति इत्यन्येषां का कथा इति अपि शब्दाभिप्रायः । अपि तु इति पदं दीक्षितस्य इत्यतः पूर्वं योजनीयम् ॥ ७ ॥
अथाष्टमस्य श्लोकस्यावतरणिकां करोति तिरोधानम् इति ।
अत्र टीका : -
स्पष्टम् । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे ।
भेदे इति ।
भेदे त्वेकरसे भातेऽहन्तयानात्मनीक्षिते । शून्ये बुद्धौ शरीरे वा मायाशक्तिर्विजृम्भते ॥ ८ ॥
सुषुप्ते प्रलये न इत्यभावसमाधौ च तावच्छून्यमाकाशकल्पमनात्मरूपं वेद्यभावोचितम् अहम् इत्यात्मत्वेन वीक्ष्यते; उच्छ्वसननिः - श्वसनादौ वा अहमुच्छ्वसिभि, - इति प्राणो वायुकल्पः स्थावरजङ्गमजिघत्सामन्युप्रज्वलनादौ वा प्राण एव तेजःसमुपवृंहितः, स्वच्छोदकाशयकल्पा वेद्यप्रतिबिम्बनवती वा बुद्धिरभिनिविश्यते अन्तरहं वेद्मि दुःख्यहमिति चिन्ताद्यवस्थासु, शरीरमेव [शरीरमेव - क्।ष्।ष्।] तु पृथिवीप्रायं कृशोऽहमित्यादिदशासु
अत्र टीका : -
भेदेस्वेकरसे भाते इत्येतत्सुगमत्वेन विहाय अहन्तया इत्यादि व्याचष्टे सुषुप्ते इति । भेदस्यैकरसेन भानमन्त्र भावजातस्य अचिद्रूपतया ज्ञानमेव ज्ञेयम्, प्रलये - मूर्छावस्थायाम् न इत्यभावसमाधौ - अहं नास्मि इत्येवंरूपे भावनासाधिते समाधाने शून्ये इति व्याचष्टे, आकाशकल्पम् इति । अनात्मनि इति व्याचष्टे वेद्यभाव इति । अनात्मा हि वेद्यभावमेवार्हति ।
अहन्तया ईक्षिते इति व्याचष्टे अहम् इति इति । वीक्ष्यते इति, प्रमात्रा इति शेषः, प्रमात्राऽनुभूयते इत्यर्थः, अन्यथा न किञ्चिदासम् इति स्मृत्यनुपपत्तेः इति भावः । योग्यतयाऽऽक्षिप्तं प्राणे इति योजयति, उच्छ्वसन इति । वायुकल्पः - वायुरूपः, आत्मत्वेन वीक्ष्यते इति पूर्वेण सम्बन्धः । स्थावरजङ्गमाना या जिघत्सा तत्र यः मन्युप्रज्वलनादिः तस्मिन्, तेजःसमुपवृंहितः - तेजसा पुष्टि नीतः, अत्रापि पूर्वेणैव सम्बन्धः । बुद्धौ इति योजयति स्वच्छ इति ।
स्वच्छोदकाशयकल्पा - स्वच्छजलाशयसदृशी, अभिनिविश्यते - प्रमात्रा आत्मस्थाने स्थाप्यते, कदा स्थाप्यते इत्यत आह चिन्ताद्यवस्थासु इति । इति किमिति ? अन्तः इति अन्तः प्रदेशो हि बुद्धिरेवेति भावः । शरीरे इति योजयति शरीरमेव तु इति । एव शब्देन तदवच्छिन्नचैतन्यव्यवच्छेदः ।
अहमित्यात्मतया भाति । सर्वमेव [सर्वे चैवेदम् - क्।ष्।ष्।] चेदं शून्यादि वस्तुतश्चिन्मात्रसारमेव माययैव तावदचिद्रूपतया भासितम् । तथाविधमेव तु सत् अहमिति संविद्रूपताभिनिवेशस्थानं सम्पादितमप्रशान्तजडभावमेव इति अतिदुष्करवस्तुसम्पादनाप्रतीघातरूपा [दुष्करतमवस्तुसम्पादना - क्।ष्।ष्।] परमेश्वरस्य मायाशक्तिः, -
मायाशक्तिर्विजृम्भते इति व्याचष्टे सर्वमेव च इति ।
तथाविधमेव तु सत् - अचिद्रूपतया भासितमेव तु सत्, एतेन चिद्रूपताज्ञाने तु तस्याप्यात्मत्वं युक्तमेवेति द्योतितम् ।
संविद्रूपतयाः यः अभिनिवेशः तस्य स्थानम्, अहन्ताविषयमिति यावत् । अप्रशान्तजडभावमेव इति, जडभावस्य प्रशान्तौ तु अहन्ताविषयत्वं तस्य युक्तमेवेति भावः । इति - अतः कारणात्, अतिदुष्करं वद्वस्तु - चिद्रूपाणां भावानां भेदनरूपम्, अप्रशान्तजडभावे [अप्रशान्तजडभावे तदेकभेदे नरूपे शून्यादौ च अहन्ताविषयीकरणरूपम् च - च्।] तदेकभेदे नरूपे शून्यादौ अहन्ताविषयीकरणरूपम्, तस्य यत् सम्पादनं तत्र यः अप्रतीघातः सः रूपं यस्याः तादृशी । तदुक्तम् -
अघटितघटनापटीयसी
इत्येतत् विजृम्भते इत्यनेन दर्शितम् । वाग्रहणेन वेद्यरूपाणां सुतधनदारादिनामप्यहन्ताभिनिवेशविषयत्वमसङ्ख्यातं सूचयति ॥ ८ ॥
नन्वचिद्रूपत्वादनात्मा यदि शून्यादिस्तदात्मतयासौ अभिनिविश्यमानश्चिद्रूप एव, - इति सर्वज्ञत्वसर्वकर्तृत्वादिविशुद्धैश्वर्यधर्मैव स्यात्, - इत्याशङ्क्याह
यश्च प्रमाता शून्यादिः प्रमेये व्यतिरेकिणि । माता स मेयः सन्कालादिकपञ्चकवेष्टितः ॥ ९ ॥
स्यादैश्वर्यधर्मयोगः शून्यादेः यद्यहमित्यभिनिविश्यमानोऽपि मेयतां
इति । वा शब्दाभिप्रायमाह वाग्रहणेन इति । असङ्ख्यातम् - सूत्रे साक्षादनुक्तम्, अतिजडत्वेन पुरुषो हि वाह्यवस्त्वपि स्वात्मत्वेनाभिमन्यते, अन्यथा तदर्थं क्लेशसहनायोगादिति भावः ॥ ८ ॥
अथ नवमश्लोकस्यावतरणिकां करोति नन्वचिद्रूपत्वात् इति ।
अत्र टीका : -
तदा - मायादशायाम् । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । यश्च इति ।
अत्र टीका : -
श्लोकं व्याख्यातुमवतरणिकायां शङ्कितस्य वस्तुनः व्यापकारोपप्रसञ्जनार्थं तर्करीत्या अङ्गीकारं करोति स्यात् इति ।
ऐश्वर्यधर्मयोगः, अवतरणिकायां शङ्कितः इत्यर्थः । ननु तर्हि सोऽस्य भवत्वित्यत आह यद्यहम् इति । सः शून्यादिः प्रमाता अहमित्यभिनिविश्यमानोऽपि अहमिति स्वस्य [स्वस्याग्रहणकुर्वन्नपि
- च्।] ग्रहणं कुर्वन्नपि, मेयताम् - तावत्स्वभावेन स्थितं मेयभावम्, अहम् इस्यभिनिविश्यमानो न च जहातीति सूचनया व्यापकप्रसञ्जनम्, यत्र यत्र हि ऐश्वर्ययोगः तत्र तत्र मेयताहानम् अपि शब्दः अहम् इत्यभिनिवेशस्य मेयताहानौ हेतुत्वं
जह्यात् । तथाहि सति प्रमेयमप्यस्य नीलादिव्यतिरिक्ततया नैव भासेत । यावता यः शून्यादिः प्रमाता कथितः, स यावदेव स्वरूपाद्व्यतिरेकाभिमते नीलादौ प्रमेये प्रमाता [नीलादौ प्रमेये माता - क्।ष्।ष्।] तावदेव स्वयमपि मेयभूतः एव सन् माता । मेयं हि मीयमानत्वादेव परिमितम्, - इति तादृशादेव मेयान्तरादुपपन्नव्यतिरेकम्, न त्वेवं चिद्रूपमपरिमितत्वात् ।
द्योतयति । ननु मेयतां जहातु [ननु मेयतां जहात्वेव - च्।] इत्यत आह तथा इति । हि - यस्मात्, तथा सति - मेयताहाने सति, अस्य - शून्यादेः प्रमातुः नीलादि प्रमेयं व्यतिरिक्ततया न भासेत ।
कुतो न भासेत इत्यपेक्षायामाह यावता इति । यावता - यस्माद्धतोः, यः शून्यादिः प्रमाता कथितः - शास्त्रेषूक्तः, सः यावदेव - यस्मिन् क्षणे एव, स्वरूपाद्व्यतिरेकाभिमते - इदन्ताऽहन्ताग्रहणान्यथानुपपत्या स्वतो भेदेनाभिमते, नीलादौ प्रमेये प्रमाता भवति, तावदेव - तस्मिन्नेव क्षणे नतु तदनन्तरम्, मेयभूत एव - आन्तरं चिद्रूपं प्रति मेयतया स्थितः, सन् माता भवति, ग्राहकरूपतादत्तहस्तावलम्बेन मातृत्वयुक्तो भवति, माण्डलिक इव सम्राजोऽवष्टम्भेन स्वमण्डले राजा, अन्यथा स्वमेयाद् व्यतिरेकेण न मायादिति भावः । ननु कथमसौ मेयः सन् माता भवतीत्यत आह मेयं हि इति । हि यस्मात्, मेयम्, मीयमानत्वात् परिमितं सत् तादृशात् - स्वसमानयोगक्षेमात्, मेयान्तरात् उपपन्नव्यतिरेकं भवति, नतु चिद्रूपम् अपरिमितत्त्वात् एवं भवति, तद्धि शून्यादिप्रमातृग्रहणकाले शून्यादि स्वात्मसात्करोति, अन्यथा शून्यादिः नीलादेरिव तदपि शून्यादेः व्यतिरेकेण भायात्, न च भाति, नहि तत्र नीलमिव शून्यादिप्रमातुः शून्यादिरपि चिद्रूपाद्व्यतिरेकेण भाति, द्वयस्यैव स्फुरणात् । ननु तर्हि असत्यस्वरूपं शून्यमेव किमिति भाति, न सत्यरूपं चिद्रूपम् ।
सत्यम् तस्मिन्काले अतिनिर्मलत्वेन शून्याद्युपरक्तोऽसौ जडान् प्रति तद्रूप एव भाति, ये तु मध्यधामाब्यासिनः ते तत्र शून्यादि न किञ्चित् पश्यन्ति इत्यलम् । एवं स्थितमत्र शून्यादि अहन्तया ग्रहणेऽपि आन्तरं चिद्रूपं प्रति मेयतां न जहात्येव, अन्यथा तस्मिन्नेव काले चिद्रूप इव शून्यादिभावेन
परिमितत्वं च शून्यादेरहम्भावस्य यत् तदेव कालादिपञ्चकम् ।
तथा हि कालः क्रममासूत्रयन् प्रमातरि विजृम्भमाणस्तदनुसारेण प्रमेयेऽपि प्रसरति, योऽहं कृशोऽभवं स स्थूलो वर्ते भविष्यामि स्थूलतरः इत्येवमात्मानं देहरूपं क्रमवन्तमिव परामृशंस्तत्सहचारिणि प्रमेयेऽपि भूतादिरूपं क्रमं प्रकाशयति । अस्य शून्यादेर्जडस्य विद्या किञ्चिज्ज्ञत्वोन्मीलनरूपा बुद्धिदर्पणसङ्क्रान्तं भावराशिं नीलसुखादिं विविनक्ति । कला किञ्चित्कर्तृत्वोपोद्वलनमयी कार्यमुद्भावयति, किञ्चिज्जानामि । किञ्चित्करोमि, - इति । अत्र चांशे तुल्येपि [तुल्ये किञ्चित्त्वे - क्। ष्। ष्।] किञ्चित्त्वे कस्मादिदमेव
शून्यादिः [चिद्रूप - इव शून्यादिभावेन नीलादिरूपतया - च्।] नीलादिरूपतया स्फुरेत्, नच स्फुरति ग्राह्यग्राहकयोः स्फुटं भेदेन स्फुरणात् इति न तस्य ऐश्वर्ययोगो युक्तः तद्ग्राहकस्य चिद्रूपस्येव इति ।
अस्य शून्यादिप्रमातृगस्यापरिमितभावस्यैव कालादितत्त्वपञ्चकरूपतां कथयति परिमितत्वं च इति ।
परिमितत्वं च - स्वमेयाद्व्यतिरेकेण भाननिमित्तकः परिमितत्वाख्यो गुणश्च, कालादिपञ्चकं - मायानन्तरभावि कालविद्याकलारागनियतिरूपं पञ्चकं भवतीत्यर्थः । एतदेव साधयितुमाह तथाहि इति । आसूत्रयन् प्रथमत्वेन उद्भावयन्, प्रमातरि - शून्यादिरूपे प्रमातरि, तदनुसारेण - प्रमात्रनुसारेण, प्रसरति - सञ्चारं करोति, तदनुसारं प्रसारं दर्शयति योऽहम् इति । वर्ते, भवामित्यर्थः, आत्मानम् - प्रमातारम्, तत्सहचारिणि - तद्विषयभूते, प्रमेये - नीलादौ, प्रकाशयति, अज्ञासिषम्, जानामि, ज्ञास्यामि इति प्रकटीकरोति इत्यर्थः । कालनिर्णयं कृत्वा सूत्रे आदिशब्देन गृहीतस्य विद्यातत्त्वस्य निर्णयं करोति अस्य इति । नीलसुखादिम् - नीलसुखादिरूपम्, विविनक्ति - व्यवस्थापयति । कलातत्त्वनिर्णयं करोति कला इति । तत्र विद्यास्वरूपं दर्शयति किञ्चिज्जानामि इति ।
कलायाः स्वरूपं दर्शयति किञ्चित्करोमि इति । रागस्य स्वरूपं दर्शयति अत्र चांशे इति । अत्र चांशे - ज्ञेयरूपे कार्यरूपे चांशे, तुल्येपि किञ्चित्त्वे - किञ्चिद्वस्तुभावे, इदमेव -
किञ्चित् - इत्यत्रार्थेऽभिष्वङ्गरूपः प्रमातरि देहादौ प्रमेये च गुणाद्यारोपणमय [गुणारोपणमय - क्। ष्। ष्।] इव रागो व्याप्रियते । न च तद्बुद्धिगतमवैराग्यमेव, तद्धिस्थूलं वृद्धस्य प्रमदायां न भवेदपि, रागस्तु भवत्येव । बुद्धिधर्माष्टकेऽपि च दृष्टोऽभिष्वङ्गः । अत्रैव कस्मादभिष्वङ्ग - इत्ययमर्थो नियत्या नियम्यते इति । एवं कलाविद्याकालरागनियतिभिरोतप्रोतो माययापहृतैश्वर्यसर्वस्वः सन् पुनरपि प्रतिवितीर्णतत्सर्वस्वराशिमध्यगतभागमात्र एवम्भूतोऽयं मितः प्रमाता भाति - इदानीमिदं किञ्चिज्जानानः, इदं कुर्वाणोऽत्र रक्तोऽत्रैव च यः सोऽहम् - इति । एषां च भिन्नविषयत्वमपि
इष्टत्वेन आश्रितं कार्यं वा वस्तु एव, किञ्चिद् - भवति, उपादानविषयीकृतं भवतीति यावत् । इति - एवं केनाप्याक्षेपे कृते सति इति यावत् । अत्रार्थे - अस्मिन्विषये, अभिष्वङ्गरूपः - आसक्तिरूपः, तथा गुणादीनां यत् आरोपणम् - असत्वेप्यारोपः तत्प्राचुर्येण प्रकृतमस्मिन् तादृशे इव, रागः - रागतत्त्वम्, व्याप्रियते - व्यापारं करोति । कुत्र इत्यपेक्षायामाह देहादौ प्रमेये च प्रमातरि प्रमेये चेत्यर्थः, तत्र प्रमातुराश्रयत्वेन व्यापारविषयत्वं प्रमेयस्य तु विषयत्वेनेति विभागः । ननु बुद्धिधर्मभूतावैराग्यरूपस्य रागस्य कथमणूपरि सन्निवेशः इत्यत आह तद्धि इति । तत् - बुद्धिगतमवैराग्यम्, रागः - तत्त्वान्तरवर्ती रागः अयं रागो जीवस्यान्तःस्वभावभूत एव न बाह्यवैराग्याऽभावः इति भावः । ननु तर्हि बुद्धिगतत्त्वमेव अवैराग्यस्य मा भवतु इत्यत आह बुद्धि इति । अभिष्वङ्गः - रागः तत्रापि स्थूलतयाऽऽस्तीति भावः । एतेन विद्याया अपि बुद्धिधर्मज्ञानव्यतिरेकः स्वयमेव ज्ञातव्यः । नियतेः स्वरूपं दर्शयति, अत्रैव इति । अत्रैव अस्मिन्निष्टे वस्तुन्येव, नियम्यते - नियमविषयतां नीयते । उपसंहारं करोति इत्येवम् इति ।
ओतप्रोतः - बलितः बद्ध इति यावत्, प्रतिवितीर्ण तत्सर्वस्वराशिगतात् - सर्वज्ञत्वसर्वकर्तृत्वादिरूपमाहेश्वर्यराशिगतात् भागमात्रं यस्य तादृशः, सर्वज्ञत्वभागं विद्यायाः सर्वकर्तृत्वभागं कलायाः कथं भातीत्यत आह इदानीम् इति । इदानीम् इत्यनेन कालनिर्देशः जानानः इत्यनेन विद्यानिर्देशः, कुर्वाणः इत्यनेन कलानिर्देशः रक्त इत्यनेन रागनिर्देशः, एव कारेण नियतेर्निर्देशः सोऽहम् इत्यनेन कलादिपञ्चकस्य प्रमातरि
भवति कदाचित्, यथान्यत्र रक्तोऽपि नियत्यान्यत् कार्यते इति । एते च प्रमातृलग्नतयैव भान्ति, - इति तस्यैव शक्तितरूपाः प्रतिप्रमातृभिन्ना एव, कदाचित् तु नटमल्लप्रेक्षादावीश्वरेच्छया एकीभवेयुरपि । न ह्येतेषामीश्वरेच्छातिरिक्तं [एषाम् - क्। ष्। ष्।] निजं किमपि जीवितमस्ति, - इत्यसकृदुक्तं वक्ष्यते च ॥ ९ ॥
यदुक्तमिदमित्यत्र प्रमेये व्यतिरेकिणि माता, - इति तत्र तत्प्रमेयं दर्शयति ।
त्रयोविंशतिधा मेयं यत्कार्यकरणात्मकम् । तस्याविभागरूप्येकं प्रधानं मूलकारणम् ॥ १० ॥
व्यापारदर्शनम् प्रमेयविषयत्वं तु स्फुटमेवेति न कोऽपि विरोधः । एवमेकविषयत्वेन कालादिपञ्चकं दर्शयति एषां च इति । तदेव दर्शयति यथा इति । ननु कथमेषां प्रमातुरान्तरत्वमित्यत आह एते च इति । तस्यैव - प्रमातुरेव, कदाचित्तु इत्यनेन एतेषां सर्वदा प्रतिप्रमातृभिन्नत्वमेव द्योतितम् । नटादिप्रेक्षायां हि बहूनामप्येक एव कालाद्यामासो दृश्यते । नन्वीश्वरेच्छायाः कोऽत्राधिकारोऽस्ति इत्यत आह नहि इति ।
एतेषाम् - कालादीनाम् जीवितम् - सत्ता ।
एवमत्र सङ्क्षेपः । यः - शून्यादिः, व्यतिरेकिणि स्वतो भिन्ने प्रमेये, माता भवति, स मेयः सन् - आन्तरं चित्तत्वम् प्रति मेयीभवन् एव माता भवति, अन्यथा स्वयमसिद्धः सन् कथं परत्र सिद्धि कुर्यात्, अत एवासौ परिमितत्वात् कालादिपञ्चकवेष्टितः भवति । मेयभावगमनमेव तस्य कालादिपरिच्छेद इति भावः ।
यस्तु व्यतिरेकिणि माता न भवति सः स्वयं न मेयीभवति एव यथा चित्तत्त्वम्, तद्धि शून्यादिभासनसमये तद्रूपमेव भवति इति ॥ ९ ॥
अथ दशमस्य श्लोकस्यावतरणिकां करोति यदुक्तम् इति ।
स्पष्टम्, एवम् अवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे त्रयोविंशतिधा इति ।
यत् कार्यकरणरूपं त्रयोविंशतिप्रकारम्, यच्च तस्य मूलभूतं कारणं सर्वकार्यकरणाविभागरूपं प्रधानं नाम तत्सर्व मेयम् - इति सम्बन्धः ।
योगिमन्त्रतदीश्वरप्रभृतीनां हि भूततन्मात्रकरणप्रधान- वशीकारयोगित्वात् सर्वमेव प्रमेयम् । संसारिणामप्यनुमाना- गमादिदिशा प्रमेयमेव, इतीयत् प्रमेयम् । कालादयस्तु प्रमेया अपि प्रमातर्येव लग्नाः, - इति प्रमातृशक्तिस्वभावत्वात् न प्रमेयत्वेनेहावसरे मायाप्रमातृव्यतिरिक्तप्रमेयप्रस्तावे [प्रस्तावात्मनि - क्। ष्। ष्।] गणिताः । वस्तुतो हि अत्रत्योऽयं [अत्र योऽयं प्रमाता स प्रमेय एव - क्। ष्। ष्।] प्रमातापि प्रमेय एव, स तु प्रमात्रीक्रियमाण आच्छादितप्रमेयताक इहोच्यते ॥ १० ॥
नन्वत्र त्रयोविंशतौ किं कार्यं किं करणम् ? इत्याशङ्क्याह
त्रयोदशविधा चात्र बाह्यान्तःकरणावली । कार्यवर्गश्च दशधा स्थूलसूक्ष्मत्वभेदता ॥ ११ ॥
प्रमातुः पूर्वं करणोपयोगः, - इत्यत्रादौ त्रयोदश करणानि; तत्र
अत्र टीका : -
यच्च इति, युक्तत्वेन च शब्दाध्याहारः तस्य - कार्यकरणरूपस्य मेयस्य, कार्यकरणानां यः अविभागः सः रूपं यस्य तादृशम्, अव्यक्तरूपमित्यर्थः । ननु कालादीनामपि प्रमेयत्वं स्फुटमेव इति इयत् इति किमुक्तमित्यत आह कालादयस्तु इति । आदिशब्देन विद्यादेर्ग्रहणम् । मायाप्रमातुः व्यतिरिक्तानि यानि प्रमेयाणि तेषां यः प्रस्तावः, तस्मिन् । प्रमेयत्वेन गणिताः - इति योजना । अत्रत्यः - मायापदसम्बन्धी, प्रमात्रीक्रियमाणः - परमार्थतः अप्रमातृत्वेऽपि स इव सम्पाद्यमानः, इह - अस्मिन्नवसरे ॥ १० ॥
अथैकादशस्य श्लोकस्यावतरणिकां करोति, नन्वत्र इति ।
स्पष्टम् । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे त्रयोदश इति ।
अत्र टीका : -
प्रमातुः पूर्व करणोपयोगः इति, अनेन न्यायेनेत्यर्थः, आदौ
बुद्धिरव्यवसायसामान्यमात्ररूपा, ग्राह्यग्राहकाभिमान- रूपोऽहङ्कारः, सङ्कल्पादिकारणं मनः, - इत्यन्तःकरणं त्रिधा बुद्धौ शब्दाद्यध्यवसायरूपायामुपयोगीनि बुद्धीन्द्रियाणि पञ्च - श्रोत्रम्, त्वक्, चक्षुः, जिह्वा, घ्राणम्, - इति । कर्मणि तूपयोगीनि पञ्च कर्मेन्द्रियाणि । तथा हि - त्यागो ग्रहणमिति [त्यागो ग्रहणं द्वयम्, - इति - क्। ष्। ष्।] द्वयम्, - बहिर्विषयं यत् तत्र पाणिः पायुः पादः, - इति करणानि ।
एतदेवान्तः प्राणे येन क्रियते तद्वागिन्द्रियम् ।
तत्प्रक्षोभप्रशान्त्या विश्रान्तिक्रियोपयोगी उपस्थः ।
सर्वदेहव्यापकानि च कर्मेन्द्रियाण्यहङ्कारविशेषात्मकानि । तेन च्छिन्नहस्तो बाहुभ्यामाददानः पाणिनैवादत्ते, एवमन्यत् ।
केवलं तत्तत्स्फुटपूर्णवृत्तिलाभस्थानत्वात् पञ्चाङ्गुलिरूपमधिष्ठानमस्योच्यते, - इत्येवं करणानि त्रयोदश । एषां च कार्यत्वेऽप्यसाधारणेन करणत्वेन
प्रथमम्, तत्र - त्रयोदशकमध्ये, अध्यवसायः - विषयाभिमुख्येन इदम् इति ज्ञानम् । ग्राह्यग्राहकाभिमानः इदं मम ग्राह्यम् अहमत्र ग्राहकः इत्येवंरूपः अभिमानः, न तु बुद्धौ उदिता प्रतियोगिरहिता अहन्ता । बुद्धिन्द्रियाणि - ज्ञानेन्द्रियाणि । कथमेषां कर्मण्युपयोग इत्यत आह तथाहि इति ।
इतिद्वयम्, एवंरूपं कर्मद्वयम् इत्यर्थः, बहिर्विषयम् - बाह्यवस्तुविषयम्, तत्र - तस्मिन्कर्मद्वये, करणानि - करणत्रयम् । एतदेव - प्रोक्तत्यागग्रहणरूपं द्वयमेव । अन्तःप्राणे येन क्रियते - अन्तः प्रदेशस्थस्य प्राणस्य त्यागग्रहणे येन क्रियते इति यावत्, तत् - वागिन्द्रियम्, न तु वागेव, एतेन प्राणप्रयत्नस्य वागिन्द्रियत्वमुक्तम्, तत्प्रक्षोभस्य प्राणक्षोभस्य प्रशान्त्या, विश्रान्तिक्रियोपयोगी उपस्थः - पुंस्त्रीलक्षणाख्यमिन्द्रियं भवति, संयोगकाले हि प्राणः स्वभावेन प्रशाम्यति इति तत्प्रशान्त्या इत्युक्तम् । अन्यत् - छिन्नपादादेः गमनादि । ननु यदि सर्वशरीरव्यापीनि कर्मेन्द्रियाणि तर्हि कथमेषां पाण्यादिस्थाननियम इत्यत आह केवलम् इति । ताश्च ताः स्फुटाः पूर्णाश्च वृत्तयः तासां यः लाभः तस्य स्थानत्वात्, यादृशं ग्रहणं हि पञ्चाङ्गुलियुक्तेन पाणिना भवति न तादृशम् बाह्वादिना, एवं सर्वत्र स्वयमेव योजनीयम् । उपसंहारं करोति एवम् इति । एषाम् - त्रयोदशकरणाम् ।
व्यपदेशः । स्थूलं कार्यं पृथिवी, आपः, तेजो, वायुः, नभः, - इति पञ्च भूतानि । सूक्ष्ममेषामेव रूपम्, गन्धो, रसो, रूपम्, स्पर्शः, शब्दः, - इति । तत्रैकैकगुणमाकाशादि, एकैकवृद्धगुणं वा, - इति दर्शनभेदः, - इति न विवेचितोऽनुपयोगात् । तत्र स्थूलं विभक्तमविभागस्यानुमापकम्, - इति स्थूलरूपोपक्रममुक्तम् ।
अत्र [तत्र - क्। ष्। ष्।] पृथिव्याद्याभासा एव मिश्रीभूय घटादिस्वलक्षणीभूताः कर्मेन्द्रियैरूपसर्पिताः, बुद्धीन्द्रियैरालोचिताः, अन्तःकरणेन सङ्कल्पिताभिमतनिश्चितरूपाः, विद्यया विवेचिताः, कलादिभिरनुरञ्जिताः, प्रमातरि विश्राम्यन्ति, - इति तात्पर्यम् । एतच्च विस्तरतस्तत्प्रधानेषु तन्त्रालोकसारादिषु मया निर्णीतम्, - इतीहानुपयोगान्न वितानितम्, - इति शिवम् ॥ ११ ॥
इति श्रीमदाचार्योत्पलदेवविरचितायामीश्वरप्रत्यभिज्ञायां श्रीमदाचार्याभिनवगुप्तविरचितविमर्शिन्याख्यटीकोपेताया- मागमाधिकारे तत्त्वनिरूपणाख्यं प्रथममाह्निकम् ॥ १ ॥
स्थूल इत्यादि व्याचष्टे । दर्शनभेदः - मतभेदः ।
विभक्तम् - व्यक्तम् । अविभागस्य - अव्यक्तस्य, अत्र - स्थूलमध्ये ।
नन्वत्र भरः किं न कृतः इत्यत आह एतच्च इति । न वितानितम् - न विस्तारितम् । अयं तत्त्व निश्चयश्च श्रीतन्त्रालोकस्य नवमे आह्निके मयैव सम्यक् कृतोऽस्ति । इह तु विस्तारभिया मूलकारानुसृत्या च न कृतः, इति तत एव अवधार्यमितिभावः । इति शब्दः आह्निकसमाप्तौ ।
शिव शब्दः मङ्गलवाचकः परतत्त्ववचनपरश्चेति शिवम् ॥ ११ ॥
इति श्रीमद्भास्करकण्ठविरचितायां श्रीप्रत्यभिज्ञाविमर्शिनीटीकायां भास्कर्याख्यायाम् आगमाधिकारे प्रथममाह्निकं समाप्तम् ॥