क्रियाधिकारे
चतुर्थमाह्निकम्
भावानाभासयन् कर्ता निर्मले स्वात्मदर्पणे ।
कार्यकारणभावं च यश्चित्रं तं स्तुमः शिवम् ॥
भास्करी
स्वभित्तिदर्पणे भावान्भासयेद्योऽति निर्मले ।
कार्यकारणभावञ्च तेषां तं संस्तुमः शिवम् ॥
अथ क्रियाधिकारे चतुर्थाह्निकस्य निर्विघ्नव्याख्यासमाप्तये प्रचयगमनाय च कायमनोभ्यां कृतमपि परतत्त्वरूपेष्टदेवतानमस्कारलक्षणं मङ्गलं सकलाह्निकतात्पर्यसूचकेन श्लोकेन शिष्यशिक्षार्थं वाग्विषयीकरोति भावान् इति । वयं तं शिवम् - सर्वाभासकरूपं सर्वकर्तृरूपं च शिवम् स्तुमः । तं कम् ? कर्ता - सर्वकर्तृतया स्थितो यः शिवः, निर्मले - स्वयं भासनयोग्यत्वेन परभासनरूप प्रतिबिम्बसहिष्णुतया च मलरहिते, स्वात्मदर्पणे - चिन्मात्राख्यनिजरूपमुकुरे, भावान् - सदाशिवादि धरण्यन्तं स्थितं तत्त्ववृन्दम्, आभासयन् - ज्ञातृत्वावस्थायां प्रतिबिम्बभावेन भासनशीलान् कुर्वन् भवति, ततः चित्रं कार्यकारण भावं च - नानाविधं कार्यकारणभावं च भासयन् कर्ता भवति ।
पूर्वाह्निकोक्तज्ञाप्यज्ञापकभावपूर्वं कार्यकारणभावमाभासयन् भवतीति यावत् । एतेनात्राह्निके कार्यकारणभावो भविष्यतीति सूचितम् । भासेर्णिजन्तस्य प्रथमासमानाधिकरणे शतृप्रयोगे रूपम् । तत्र च भावाः स्वयमेव भासनकर्तारः, अयन्तु तेषां तत्र
क्रियाशक्तिस्फारप्रायसम्बन्धप्रसङ्गात् [सम्बन्धाभिधानप्रसङ्गात् - क्। ष्। ष्।] ज्ञाप्यज्ञापकभावस्य तत्त्वं प्रसाध्य, कार्यकारणभावस्य तत्त्वं प्रसाधयितुं श्लोकैकविंशत्या आह्निकान्तरमारभ्यते, - एष च इत्यादि एवमिच्छैव हेतुता कर्तृता क्रिया इत्यन्तम् । तत्र श्लोकेन स्वमते कर्तृकर्मभाव एव कार्यकारणभावः, - इत्युपक्षिप्यते । ततः श्लोकत्रयेण जडस्य कारणत्वं पराक्रियते । ततः श्लोकषट्केन चेतनस्यैव कर्तृतारूपा कारणता प्रसाध्यते । ततः प्रसङ्गादनुमाने नियतिशक्तिरवश्योपजीव्या, - इति श्लोकत्रयेणोच्यते ।
ततः सौगतोक्तकार्यकारणपरमार्थोऽपि [सौगतोक्तकार्यकारणभावपरमार्थो - क्। ष्। ष्।] अस्मन्मतमेवावलम्बते, नो चेत् न किञ्चित्, - इति त्रिभिः श्लोकैः ।
साङ्ख्योपदर्शितोऽपि कार्यकारणभावो नोपपद्यते, यद्यस्मदुक्तं चेतनस्य कर्तृत्वं नाङ्गीक्रियते, - इति त्रिभिः ।
चेतनस्यापि अनीश्वरतायां नैतद्घटते, - इति द्वाभ्यामिति सङ्क्षेपार्थः । ग्रन्थस्तु [ग्रन्थार्थस्तु - क्। ष्। ष्।] व्याख्यायते ।
भासने प्रेरणां करोति, प्रेरणा एव च समर्थाचरणम् । एवं मङ्गलं सम्पाद्य सकलाह्निकतात्पर्य समस्तव्यस्तत्वाभ्यां कथयति क्रिया इति ।
अत्र टीका -
क्रियाशक्तेर्यः स्फारः - स्फुरणम्, विजृम्भणमिति यावत्, तत्प्रायः - तत्कल्पः यः सम्बन्धः तस्य प्रसङ्गात्, न तु प्रस्तुतत्वेनेति भावः । तत्त्वम् - स्वरूपम्, प्रसाध्य - पूर्वाह्निके प्रकर्षेण साधयित्वा । एवं सामस्त्येनाभिप्रायमुक्त्वा व्यस्तत्वेन कथयति तत्र इति । तत्र - श्लोकैकविंशतिमध्ये, उपक्षिप्यते, कथ्यते इत्यर्थः । एवम् शब्दः करणादेः कारणत्वव्यावर्तनसूचनपरः, ततः - तदनन्तरम्, श्लोक इति, द्वितीयतृतीयचतुर्थैरित्यर्थः ।
पराक्रियते - निवार्यते, अवश्योपजीव्या - अवश्यापेक्षणीया, श्लोकत्रयेण, एकादशद्वादशत्रयोदशश्लोकैरित्यर्थः । ततः [तत् - च्।] सौगतोक्तकार्यकारणपरमार्थः त्रिभिः, चतुर्दशपञ्चदशषोडषरूपैरित्यर्थः, कुतो नोपपद्यत इत्यत आह यदि इति । त्रिभिः इति ।
एवं क्रियाशक्तिमुखेन प्रमात्रेकरूपतां भगवति व्यवहर्तव्यां प्रसाध्य, कर्तृरूपतापि तत एवायत्नसिद्धा, - इति दर्शयितुमाह
एष चानन्तशक्तित्वादेवमाभासयत्यमून् । भावानिच्छावशादेषा क्रिया निर्मातृतास्य सा ॥ १ ॥
चोऽवधारणे । एष एव पुराणः प्रमाता अमून् भावान् आभासितपूर्वान् आभासान् [आभासमानान् आभासयति अविच्छिन्नेन प्रबन्धेन - क्। ष्। ष्।] आभासयति अविच्छिन्नेन प्रबन्धेन । कथम्, इच्छाया ईशितुरभिनाया अविकल्परूपाया अक्रमाया वशेन सामर्थ्येन । कुत्रास्य ते भावाः स्थिताः ? आह; अनन्तशक्तित्वात् इति ।
विश्वे हि भावास्तस्यैव शक्तिरूपेण स्वरूपात्मत्वेन स्थिताः;
सप्तदशाष्टदशैकोनविंशतिरूपैरित्यर्थः । द्वाभ्याम्, विंशत्येकविंशतिरूपाभ्यामित्यर्थः ।
अथ प्रथमश्लोकस्यावतरणिकां करोति एवम् इति । स्पष्टम् ।
एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे एष च इति ।
अत्र टीका -
एषः इति व्याचष्टे पुराणः इति, अमून् भावान् इति व्याचष्टे आभासित इति । पूर्वं न त्वद्यैव आभासितान् आभासितपूर्वान्, स्वरूपत्वादनादित्वेन स्थितानिति यावत् । आ समन्तात् भासन्ते इति आभासाः, तान्, अथवाऽऽभासमात्रसारत्वेनाभासरूपानित्यर्थः । आभासयति इति निगदव्याख्यातम् । वर्तमानताभिप्रायमाह अविच्छिन्नेन इति ।
वर्तमानता हि स्फुटं सातत्यद्योतनपरा, अन्यथा भासयेदिति ब्रूयात् । इच्छावशात् इति व्याख्यातुमवतरणिकां करोति कथम् इति ।
एतदुत्तरत्वेनैतत्पदं व्याचष्टे इच्छायाः इति । ईशितुः - इच्छायाः कर्तुः, शक्तितद्वतोरभेदमपेक्ष्याह अभिन्नायाः इति ।
लौकिकेच्छायाः अस्याः श्रेष्ठत्वं कथयितुमाह अविकल्प इति ।
अविकल्परूपायाः, एषणीयोपरागरहिताया इत्यर्थः ।
अनन्तशक्तित्वात् इति व्याख्यातुमवतरणिकां करोति कुत्र इति । विश्वे - सर्वे, अस्य - पुराणप्रमातुः, स्वरूपात्मत्वेन - स्वरूपभावेन, शक्तिर्हि शक्तिमतः स्वरूपमेव ।
इत्युक्तं
स्वमिनश्चात्मसंस्थस्य…१ । ५ । १० ।
इत्यत्र । यदेतदाभासनं यासाविच्छा, सा क्रिया, अस्य भगवतो निर्मातृत्वम् ॥ १ ॥
ननु बीजादङ्कुर उद्भवन् दृश्यते, न च अत्र कश्चिच्चेतनोऽनुप्रविशन् दृष्टः, तत्कथमेतदुक्तम् ?, - इत्याशङ्क्याह
जडस्य तु न सा शक्तिः सत्ता यदसतः सतः । कर्तृकर्मत्वतत्त्वैव कार्यकारणता ततः ॥ २ ॥
जडस्य बीजस्यैवम्भूतं सामर्थं नास्ति यत् असद्रूपं सद्रूपं वाङ्कुर
तदुक्तम् -
शक्तिश्च शक्तिमद्रूपाद् व्यतिरेकं न वाञ्छति । तादात्म्यमनयोर्नित्यं वह्निदाहकयोरिव ॥
इति । कुत्रोक्तमित्यत आह स्वामिनः इति । अत्र, अस्मिन् श्लोक इत्यर्थः । एषा इत्यादि श्लोकशेषं व्याचष्टे यदेतत् इति । एतच्छब्देन व्यवहिता - व्यवहितयोः परामर्शः । असौ - आभासनविषया, निर्मातृत्वम्, निर्मातृरूपेत्यर्थः । सर्वं वाक्यं सावधारणमिति नीत्या, न तु अन्या स्थूला करणरूपेत्यर्थः ॥ १ ॥
अथ द्वितीयस्य श्लोकस्यावतरणिकां करोति ननु इति । स्पष्टम् ।
एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे जडस्य इति ।
अत्र टीका -
जडस्य इति व्याचष्टे बीजस्य इति । सा इति व्याचष्टे एवं भूतं इति । शक्तिः इति व्याचष्टे सामर्थ्यम् इति । सत्ता इति व्याकुर्वन् एवम्भूतमित्यस्याकाङ्क्षां पूरयति यत् इति । सद्रूपम् इति
परिदृश्यमानसत्तावन्तं करोति । बीजादङ्कुरो जायते, - इति नाङ्कुरस्य महिमा असत्त्वात्; अङ्कुरो जायत, - इति च महिमा कथं बीजस्य, ततोऽङ्कुरादन्यत्वात् । यत एवं तस्मात् कार्यं क्रियाशक्त्या भास्यमानं [अवभास्यमानम् - क्। ष्। ष्।] कर्मैव इति कृत्येनैव आविष्कृतम्, कार्यते अनेन कर्तां तत्समर्थाचरणेन, - इति कारणमपि कर्तरि चेतने विश्राम्यति । असतः सतः इति असद्रूपस्य सत इत्यर्थः । वार्थो वात्र गर्भीकृतः, असतोऽङ्कुरस्य सतो वा बीजस्य - इति । अङ्कुरस्य सतोऽसतो वा इत्येवं वा ॥ २ ॥
ननु जडस्य कथमेषा शक्तिर्न भवति, - इत्याह
यदसत्तदसद्युक्ता नासतः सत्स्वरूपता ।
सतोऽपि न पुनः सत्तालाभेनार्थः…
सद्वा कार्यमसद्वा सम्भाव्यते । उभयात्मकम् अनुभयात्मकमनिर्वाच्यम्,
साङ्ख्यमतापेक्षया, तेषां मते हि सत्कार्यम्, असद्रूपम् इति तार्किकमतापेक्षया । अत्र समर्थनं करोति बीजात् इति । असत्त्वात् इति, न हि शशशृङ्गस्य क्तापि महिमा दृश्यते इति भावः । एतेन पूर्वार्धस्य व्याख्या सम्पन्ना । उत्तरार्धं व्याख्यातुमवतरणिकां करोति यत एवम् इति । एवम् - जडस्य सा शक्तिर्न भवति इत्येवम्, भास्यमानम् - भासनविषयीकृतम् ।
कृत्येन - ण्यता, आविष्कृतम् - सूचितम्, कर्मणि विहितत्वादिति भावः ।
एतेन कार्यस्य कर्मतत्त्वता साधिता । कर्ता - स्वतन्त्रकर्ता, तत्समर्थाचरणेन - प्रेरणरूपेण तत्समर्थाचरणेन, कर्तरि - हेतुकर्तरि, एतेन णिजन्तात्करोतेरत्र कर्तरि ल्युडिति सूचितम् । एतेन कारणस्य प्रयोजककर्तृतत्त्वता साधिता । व्याख्यातमपि असतः सतः इति पदद्वयं प्रकारत्रयेण पृथक् व्याचष्टे असद्रूपस्य इति ।
सतः, वर्तमानस्येत्यर्थः । वा अर्थः विकल्पः । अत्र तृतीयः प्रकार एव युक्तः स एव च पूर्वं गृहीतः ॥ २ ॥
अथ तृतीयस्य श्लोकस्यावतरणिकां करोति ननु इति । स्पष्टम् ।
एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे यत् इति ।
अत्र टीका -
सम्भाव्यते - सम्भावयितुं शक्यते । ननु वेदान्तिभिरुभयात्मकत्वेऽपि अनु-
इति तु स्ववाचैव विरुध्यते तत् किमनेन । यदि असन् घटः, तर्हि तस्यासद्रूपतैव परमार्थः [परमार्थतः - क्। ष्। ष्।] इति कथं स्वरूपविरुद्धं सत्त्वमभ्युपगच्छेत, न हि पादपतनशतैरपि नीलमात्मनि पीतिमानं मृष्यते । अथ सन्नेव घटस्तर्हि किमन्यत् उपयाच्यते दण्डचक्रसूत्रात् । अभिव्यक्तिविषयत्वस्फुटत्वादयोऽपि सदसद्रूपतया चिन्त्याः ॥
नन्वेवं तूष्णीमास्यताम्, नैतदपि युक्तम् इत्याह
… अथ चोच्यते ॥ ३ ॥
तदवश्यसमर्थ्योऽयमर्थ इति यावत् ॥ ३ ॥
भयात्मकतारूपमनिर्वाच्यत्वमत्र सम्भाव्यत इत्यत आह उभयात्मकम् इति । विरुध्यते इति, उभयात्मकत्वानुभयात्मकत्वयोः स्फुटं विरोधादितिभावः ।
अनेन - अनिर्वाच्यत्वपक्षेण, परमार्थः - सत्यं स्वरूपम् ।
अभ्युपगच्छेत् - अङ्गीकुर्यात् । कुत इत्यपेक्षायामाह न हि इति, पीतिमानम् - पीतताम्, मृष्यते - सहते । अन्यत् - सत्ताव्यतिरिक्तं वस्तु, दण्डचक्रसूत्रात्, एतद्रूपाद्धे तोरित्यर्थः । नन्वत्राभिव्यक्तिः स्फुटत्वादि [स्फुटत्वादण्डादिभिः - च्।] च दण्डादिभिः साध्यत इत्यत आह अभिव्यक्ति इति । चिन्त्याः - इति, यदि सद्रूपास्तर्हि तत्साधनमफलमेव [तत्साधने महलमेव - च्।], यदि त्वसद्रूपास्तर्हि तत्साधनमसम्भवोपहतमेवेतिभावः । एतेन अर्थः इत्यन्तं व्याख्या सम्पन्ना ।
अथ चोच्यते इति व्याख्यातुमवतरणिकां करोति नन्वेवम् इति ।
अत्रोत्तरं कथयति नैतत् इति । केनाह इत्यपेक्षायां व्याख्येयं श्लोकखण्डमुपन्यस्यति अथ चोच्यते इति । अत्र वाक्येन पर्यायत्वेन भावं कथयति तदवश्य इति, तत् - ततो हेतोः, अयमर्थः - कार्यकारणभावाख्योऽर्थः, अवश्यसमर्थ्यः - अवश्यसमर्थनीयो भवति । यतो लोके इयं कार्यकारणतोच्यते ततः समर्थनीयेतिभावः । एतेन उत्तरश्लोकस्थं कार्यकारणता लोके इति पदद्वयमिहैव योजनीयमिति सूचितम् ॥ ३ ॥
ततश्च इत्थमुपपद्यत [उपपाद्यते - क्। ष्। ष्।] इति दर्शयति
कार्यकारणता लोके सान्तर्विपरिवर्तिनः । उभयेन्द्रियवेद्यत्वं तस्य कस्यापि शक्तितः ॥ ४ ॥
कुम्भकारहृदये अन्तर्मनोगोचरत्वात् पूर्वमपि स्वसंविदेकात्मतया विचित्रत्वेन विश्वस्य भेदाभेदात्मना परिवर्तमानस्य स्पन्दनेन स्फुरतो
अथ चतुर्थस्य श्लोकस्यावतरणिकां करोति ततः इति ।
अत्र टीका -
अयमर्थ इति शेषः । इत्थम् - वक्ष्यमाणेन प्रकारेण, उपपद्यते - घटते । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे कार्य इति ।
अत्र टीका -
कार्यकारणता लोके इति पदद्वयं पूर्वश्लोके योजितत्वेन विहाय सान्तर्विपरिवर्तिनः इत्यादि व्याख्यातुं तावत् अन्तर्विपरिवर्तिनः इति समस्तं पदं विग्रहपूर्वं व्याचष्टे कुम्भकार इति । तत्रापि अन्तः इति अवयवं व्याचष्टे कुम्भकार इति । मनोगोचरत्वात् - इच्छाद्वारेण मनोविषयत्वात्, पूर्वमपि - निर्माणादग्रेपि । अव्ययत्वेन सर्वलिङ्गत्वात् अन्तरित्यस्य तृतीयार्थद्योतकत्वम्, अन्तः शब्दस्य संविदात्मत्वं पूर्वमेवोक्तम् । वि इत्युपसर्गं व्याचष्टे विचित्रत्वेन इति । विश्वस्य इति विशेष्यत्वेनाक्षिप्तम्, अन्यथा विशेषणस्य निर्विषयत्वापत्तेः ।
तच्चात्र [ततश्चात्र घट एव भेदाभेदात्मनो इति विचित्रत्वेनोत्पन्नेन योजनीयम् - च्।] घट एव । भेदाभेदात्मना इति विचित्रत्वेन इत्यनेन योजनीयम् । भेदाभेदरूपया विचित्रतयेत्यर्थः । परिवर्तिनः इति व्याचष्टे परिवर्तमानस्य इति, अत्रापि स्वयमेव व्याख्यां करोति स्पन्दनेन इति । स्पन्दनेन - परामर्शरूपेण, स्फुरतः - भेदाभेदभावेन भासमानस्य, पदार्थवर्गस्येति यावत् । तत्र सामान्यभावेनाभेदः स्वलक्षण -
यत् अन्तःकरणबहिष्करणद्वयवेद्यत्वमाभास्यते, एषैव सा कार्यकारणता । उभयग्रहणमुपलक्षणम्, यस्य यावति पूर्णाथक्रिया [यस्य यावति पूर्णार्थक्रियासमाप्तिरिति यावत् - क्। ष्।
ष्।] समाप्तिरिति यावत् । सुखादीनाम् अन्तःकरणैकवेद्यतापादनमेव निर्माणम् । न च कुम्भकारे प्राणपुर्यष्टकबुद्धिशून्यदेहप्राये तदेतत् स्थितम्, एतस्यापि [तस्यापि - क्। ष्। ष्।] जडत्वात् । ततः संविदेव विश्वमात्मनि भासयति शक्तिवैचित्र्यात् । तस्य कस्यापि इति पूर्वमुक्तस्य अचिन्त्यापर्यनुयोज्यमहिम्न इत्यर्थः । न च वाच्यम् उभयेन्द्रियवेद्यत्वमपि
भावेन भेद इति क्रमः । उभय इति समस्तं [उभयम् इति व्याचष्टे समस्तम् - च्।] पदं व्याचष्टे यत् इति । आभास्यते - स्वयमेव भासविषयतां याति, कर्मकर्तरि लकारः । एषा इत्यनेन वाक्यार्थपरामर्शः । उभयेन्द्रियवेद्यत्वमिति यावत् । श्लोकस्थं सा इति पदं व्याचष्टे कार्यकारणता इति ।
सामर्थ्यत्वेनोक्तेत्यर्थः । कार्ये - कार्यविषये कारणता कार्यकारणता । अर्थक्रिया इत्यस्य पर्यायमाह समाप्तिः इति ।
स्वरूपग्रहणमिति यावत् । अन्यथानुमानादिवेद्यस्य ग्रहणं न स्यादिति भावः । ननु सुखादेरुभयेन्द्रियवेद्यत्वं नास्तीति तस्य कार्यत्वं न प्राप्नोतीत्यत आह सुखादीनाम् इति । तस्य कस्यापि इत्यादि व्याख्यातुमवतरणिकां करोति न च इति । तदेतत् - साध्यमानं कारणत्वम्, एतस्यापि - कुम्भकारप्राणादेरपि ।
फलितकथनरीत्या तस्य इत्यादि व्याचष्टे ततः इति । तस्य कस्यापि इत्यस्य व्याख्या संविद् इत्यनेन । शक्तितः इत्यस्य व्याख्या शक्तिवैचित्र्यात् इत्यनेन । एतेन शक्तितः इत्यस्य शक्तिभ्य इत्यर्थ इति द्योतितम् । ननु तस्य कस्यापि इत्यनेन संविदो न ग्रहणम् इत्यत आह पूर्वम् इति । अचिन्त्यापर्यनुयोज्यमहिमत्वं च संविद एवेति भावः ।
नन्वभिव्यक्त्यादिविषये यत् सदसत्त्वाभ्यां चिन्त्यत्वमुक्तं तदुभयेन्द्रियवेद्यत्वेऽपि समानमित्यत आह न च इति ।
चिन्त्यमित्यर्थः । कुतो न वाच्यमित्यत आह
सदसद् वा इति । यतोऽयमत्र परमार्थः - यथा दर्पणान्तः कुम्भकारनिर्वर्त्यमानघटादिप्रतिबिम्बे दर्पणस्यैव तथाभासनमहिमा [तथावभासनमहिमा - क्। ष्। ष्।], तथा स्वप्नदर्शने संविदः, तथापि तन्महिम्नैव एतेन एदं बहिः स्फुटरूपं क्रियत इत्यभिमान उल्लसति । एवं संविन्महिम्ना कुम्भकृति दण्डचक्रादौ घटे स्थिते [घटेऽवस्थिते - क्। ष्। ष्।] तन्महिम्नैव अभिमानो जायते; यथा मया इदं कृतम्, अनेन इदं कृतम्, मम हृदये स्फुरितम्, अस्य हृदये स्फुरितमिति । तत्र जडस्य मृदादेर्दूरापेतोऽभिमान इति संवित्स्वभावे कर्तृत्वं व्यवस्थाप्यते ।
यतोऽयम् इति । अत्र - अस्मिन्विषये । क इत्यत आह यथा इति ।
दर्पणान्तः - मुकुरमध्ये, निर्वर्त्यमानः - अस्मिन्समय एव क्रियमाणः, न तु निर्वर्तितः, आदि शब्देन कुम्भकारनिर्वर्त्यमानतादिग्रहणम् । तथा भासनमहिमा - घटस्य कुम्भकारनिर्वर्त्त्यमानतया भासनरूपो महिमा, संविदः - स्वप्नसंविदः । अत्रापि कुम्भकारनिर्वर्त्यमानताग्रहणमेवेष्टम् । ननु तत्रापि कथं कुम्भकारेणायं घटः क्रियत इत्यभिमानो दृश्यत इत्यत आह तथापि इति । यद्यपि कुम्भकारेण निर्वर्त्यमानतयैवग्रहणमस्ति तथापीत्यर्थः । तन्महिम्ना - प्रतिबिम्बविषये दर्पणमहिम्ना स्वविषये संविदः महिम्ना, एतेन - कुम्भकारेण, क्रियते इति, नत्वहं स्वान्तर्भ्रमेणैव पश्यामीत्यर्थः । उल्लसति - स्फुरति, दर्पणाभावे हि घटोपि न भायात्, नापि कुम्भकारः, नापि तेन तस्य निर्वर्त्यमानत्वम् । अत्र हि पृष्ठे घटं कृतवतः कुम्भकारस्य पुरःस्थे दर्पणे प्रतिबिम्बतया ग्रहणमिष्टम्, न तु साक्षात्, तथा स्वप्नेऽपि घटस्य कुम्भकारक्रियमाणतयैव ग्रहणमिष्टम्, अतोऽत्रापि स्वप्नसंविद एवैतद्दर्शने सामर्थ्यमित्यलं प्रपञ्चेन । दृष्टान्तद्वयमुक्त्वा दार्ष्टान्तिकं कथयति एवम् इति । संविन्महिम्ना - घटनिर्माणप्रवृत्तकुम्भकारग्रहणप्रवृत्तायाः संविदः महिम्ना, स्थिते सति - संविन्निष्ठा वस्तुस्थितय इति न्यायेन सिद्धे सति । घट इत्यस्यानन्तरं समुच्चयवाचकशब्दाध्याहारः ।
अभिमानं दर्शयति यथा इति । तत्र - तस्मिन्घटव्यवस्थाकरणे, संवित्स्वभावे - संवित्स्वख्ये, व्यवस्थाप्यते - समर्यादीक्रियते,
ननु भावरूपमेव इत्थं भास्यतां किं द्वयेन्द्रियवेद्यत्वेनोक्तमत्र, स्फुटमर्थक्रियाक्षमं रूपमनेनोक्तम्, - इति को विरोधः ॥ ४ ॥
अनेन च विचारेण प्रकृतमपि क्रियास्वरूपं सिद्धं भवति, - इति दर्शयति
एवमेका क्रिया सैषा सक्रमान्तर्बहिः स्थितिः । एकस्यैवोभयाकारसहिष्णोरुपपादिता ॥ ५ ॥
सैषेति, यस्याः स्वरूपत आश्रयतश्च नोपपद्यते इति उपालम्भः
तत्रैव युक्तत्वादिति भावः । तदुक्तम् -
कुम्भकारस्य या संविच्चक्रदण्डादियोजने । शिव एव हि सा यस्मात्संविदः का विशिष्टता ॥ तस्मादेकैकनिर्माणे शिवो [शिवे - च्।] विश्वैकविग्रहः । कर्तेति पुंसः कर्तृत्वाभिमानोऽपि विभोः कृतिः ॥
इति । अत्र शिष्यः प्रश्नं करोति ननु इति । इत्थम्, त्वदुक्तप्रकारेणेत्यर्थः । गुरुरुत्तरं कथयति उक्तमत्र इति । अत्र, अस्मिन्विषये इत्यर्थः । किमुक्तमित्यत आह अर्थक्रियाक्षमम् इति ।
अनेन, उभयेन्द्रियवेद्यत्वेनेत्यर्थः । यत्तूभयेन्द्रियवेद्यत्वेन स्वलक्षणस्याक्षेपः ततस्तस्यैवाभिधानं युक्तमितिभावः ।
कोऽत्र विरोधः, नात्र विरोधोऽस्तीति भावः । एवमत्र योजना, तस्य कस्यापि शक्तितः सिद्धम् अन्तर्विपरिवर्तिनः उभयेन्द्रियवेद्यत्वम्, सा कार्यकारणता भवति इति । कार्यकारणता लोके इति अथ चोच्यत इत्यनेन सम्बध्यते ॥ ४ ॥
अथ पञ्चमस्य श्लोकस्यावतरणिकां करोति अनेनच इति ।
स्पष्टम् । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे एवम् इति ।
अत्र टीका -
सैषा इति व्याचष्टे यस्याः इति । उपालम्भः - मृषा प्रत्याख्यानम्,
कृतः, सा उपपत्त्या स्थापिता । यतः संविद्रूपादान्तरात् प्रभृति इन्द्रियगोचरतया बहिष्पर्यन्ततया स्थितिराभासनारूपा, तत एव वेद्यात्मककर्मालिङ्गनेन सक्रमा तावदुपपन्ना, कर्तृकर्मैकाश्रयतादात्म्याच्च एका । स चैक आश्रयः संविद्रूपत्वेन स्वच्छत्वस्वतन्त्रत्वाभ्यामुभयमप्यन्तर्बहीरूपं सहत इति ॥ ५ ॥
क्रियया सह योजनार्थं पुनः परामर्शं करोति सा इति ।
उपपादिता इति पदं व्याचष्टे उपपत्त्या इति । उपपत्त्या - युक्त्या, स्थापिता - स्वयमेव स्थितवती सती तत्समर्थाचरणविषयतां नीता । अन्तर्बहिः स्थितिः इति विशेषणं हेतुत्वेन व्याचष्टे यतः इति । स्थिति पदं व्याचष्टे आभासनारूपा इति । सत्ता यस्याः सेति शेषः ।
तत्र संविद्रूपस्याभासना अहम् इति, बाह्यस्य तु करणरूपेति क्रमो ज्ञेयः । एतद्धेतुत्वेन सक्रमा इति पदं व्याचष्टे तत एव इति ।
वेद्यात्मकम् - वद्यरूपं यत्कर्म - कार्यम्, तस्यालिङ्गनेन, बहिर्विषयीकरणेनेत्यर्थः । तावदुपपन्ना इत्थध्याहृतेन पारमार्थिकत्वनिवारणं [पारमार्थिकनिवारणम् - च्।] कृतम्, अन्यथा व्याख्यास्यमानैकत्वायोगात् । एका इति एकस्य इति च पदं व्याचष्टे कर्तृकर्म इति । ननु कोऽसौ कर्तृकर्मरूप एक आश्रयः येन तादात्म्यं भजते इत्यपेक्षायाम् उभय इति व्याचष्टे स चैक इति । संविद्व्यतिरेकेण स्वच्छत्वस्वतन्त्रतयोरयुक्ततामपेक्ष्य संविद्रूपत्वेन इत्युक्तम् । उभय इति पदं व्याचष्टे अन्त इति । तत्र स्वच्छत्वेनान्तारूपत्वम् स्वतन्त्रत्वेन बहीरूपत्वमिति क्रमः ।
आन्तरत्वं हि सारत्वं तच्च सूक्ष्मस्यैव सम्भवति, सूक्ष्मत्वस्य पराकाष्ठा च सत्त्वेऽप्यमानमेव । तच्च चिद्रूपस्यातिशुद्धस्फटिकदर्पणन्यायेन [स्फाटिकदर्पणन्यायेन - च्।] स्फुटमेव । स्वतन्त्रत्वं च स्वेच्छया सर्वकारित्वम्, तच्चात्र सर्वान्तरत्वेऽपि बहिर्भावासादनमेव ।
स्वेच्छया नीचयोग्येऽपि कर्मणि प्रवृत्तो हि सम्राट् स्वतन्त्र उच्यते इति सर्वमनवद्यम् । सहते इति, सर्वसहत्त्वादिति भावः । तदुक्तम् -
अस्य ब्रह्मण ईदृगेव महिमा यत्सर्वरूपं वपुः
इति । इति शब्दः श्लोकव्याख्यासमाप्तौ ॥ ५ ॥
ननु भवतु घटादावेवम्, यत्र तु बीजाङ्कुरादौ चेतनानुप्रवेशो न दृश्यते तत्र कथं बीजस्यैवाङ्कुरः कार्यो न भवति ? इत्याशङ्क्याह
बहिस्तस्यैव तत्कार्यं यदन्तर्यदपेक्षया । प्रमात्रपेक्षया चोक्ता द्वयी बाह्यान्तरस्थितिः ॥ ६ ॥ मातैव कारणं तेन स चाभासद्वयस्थितौ । कार्यस्य स्थित एवैकस्तदेकस्य क्रियोदिता ॥ ७ ॥
अन्तराभासमानस्य तथारूपापरित्यागेनैव बहिराभासनं निर्माणम् । ततश्च यद् वस्तु यमपेक्ष्य अन्तरित्युक्तं तद् वस्तु तस्यैव आन्तररूपविपरिवृत्तिमात्रस्य [आन्तरवस्तुरूपविपरीवृत्तिमात्रस्य वहिष्करणार्हं भवति । क्। ष्।
ष्।] वहिष्कार्यं बहिष्करणार्हं भवति । संविद्रूपं च
अथ षष्ठस्य सप्तमस्य च श्लोकस्यावतरणिकां करोति ननु इति । स्पष्टम् । एवमवतरणिकां कृत्वा श्लोकद्वयमुपन्यस्य व्याचष्टे बहिः इति ।
अत्र टीका -
श्लोकद्वयं व्याख्यातुं प्रक्रियां करोति अन्तः इति ।
अन्तराभासमानस्य - मृद्रूपत्वेन मृदन्तराभासमानस्य घटस्य, तथारूपापरित्यागेन - आन्तररूपापरित्यागेन, घटो हि घटभावेऽपि मृत्त्वं न जहात्येव, न तु त्यागेन, बहिराभासनम् - मृद्व्यतिरिक्ततयाभासनम्, घटोऽयम् इति आभासनम् इति यावत् । निर्माणम् - करणम्, भवति । नन्वेवं भवतु ततः किमित्यपेक्षायां प्रथमे श्लोके योजनां करोति ततश्च इति । ततश्च - ततो हेतोश्च, इत्युक्तम् - इति कथितम् । तद्वस्तु - घटाख्यं वस्तु, तस्यैव - मृद्रूपस्य भावस्यैव, नत्वन्यस्य कस्यापि । सूत्रे व्यवहितत्वेन स्थितमपि बहिः इति कार्यम् इति च पदद्वयं संयोज्य व्याचष्टे वहिष्कार्यम् इति । अत्र पर्यायमाह बहिष्करणार्हम् इति, अर्हे कृत्यप्रत्ययः । तस्य कीदृशस्य ? आन्तररूपेण, भावप्रधानो निर्देशः, आन्तररूपत्वेन सारत्वेन, विशेषेण परितः वृत्तिमात्रम् - केवलं वर्तनं यस्य तादृशस्य, घटस्य ह्यान्तरं रूपं मृदेव । एतेन पूर्वार्द्धे गतव्याख्यम् । नन्वेवं भवतु ततः किम् इत्यपेक्षायामुत्तरार्धं व्याचष्टे संविद्रूपञ्च इति ।
प्रमातारमपेक्ष्य अन्तराभासिनो भावास्तदपेक्षयैव बाह्याभासा इति तेनैव एतेषां [तेषाम् - क्। ष्। ष्।] बहिष्करणाभासनं [बहिष्करणावभासनम् - क्। ष्। ष्।] युक्तम् ।
ततश्च प्रमातैव कारणं भवति न जडः ह्यर्थे चः ।
यस्मात् स प्रमाता कार्यस्यान्तर्बहिराभासनद्वयनिमित्ततया स्थितस्तेन विना तदपेक्षस्याभासद्वयस्यानुपपत्तेः, तस्मादेकस्य प्रमातुरेव न तु कथञ्चित् जडस्य उदिता प्रसाधितरूपा क्रिया निर्मातृता भवतीति ॥ ७ ॥
अन्तराभासिनः - इच्छाविषयत्वान्यथानुपपत्त्या प्रागिवार्थः इत्यत्रोक्तन्यायेन वा ऐकात्म्येन भासनशीलाः, भावाः - सर्वे पदार्थाः, तदपेक्षयैव - संविद्रूपमात्रपेक्षयैव [संविद्रूपमात्रापेक्षया - च्।] । योग्यतया पूर्वार्धोक्तस्य वस्तुनोऽत्रापि योजनां करोति इति इति । इति - अतः कारणात्, तेनैव - आन्तररूपत्वेन स्थितेन प्रमात्रैव, एतेषाम् - भासमानानां सर्वेषां भावानाम्, बहिष्करणाभासनं युक्तम् भवति ।
फलितं कथयन् द्वितीयमपि श्लोकं व्याचष्टे ततश्च इत्यादि ।
तेन इति व्याचष्टे ततश्च इति । मातैव इति व्याचष्टे प्रमातैव इति ।
एवशब्दव्यावर्त्यं कथयति न जडः इति । सचाभासद्वयस्थितौ इत्यादेर्योजनां कर्तुमाह ह्यर्थे इति, चः - स च इत्यत्र स्थितः च शब्दः, ह्यर्थे हि - शब्दार्थे । योजनां करोति यस्मात् इति । सः इति व्याचष्टे प्रमाता इति । कार्यस्य इति निगदव्याख्यातम् ।
आभासद्वयस्थितौ इति व्याचष्टे अन्तः इति । सप्तमीयोजनां करोति निमित्ततया इति । एतेन निमित्तसप्तमीयम् इति द्योतितम् । तत् इति व्याचष्टे तस्मात् इति । एकस्यैव इति व्याचष्टे प्रमातुरेव ।
एवकारव्यावर्त्यमाह न तु इति । उदिता इति व्याचष्टे प्रसाधित इति, प्रसाधितरूपा - पूर्वं प्रसाधितस्वरूपा । क्रिया इति पदं व्याचष्टे निर्मातृता इति । भवति इति शेषत्वेनाक्षप्तम् । इति शब्दः श्लोक द्वयव्याख्यासमाप्तौ ।
एवमत्र श्लोकद्वये योजना । तस्यैव तद्बहिष्कार्यम् - स्वतो बहिः कार्यत्वेन भासनयोग्यं भवति । तस्य कस्य ? तत् किम् ? यदपेक्षया,
एतदेव द्रढयति
अत एवाङ्कुरेऽपीष्टो निमित्तं परमेश्वरः । तदन्यस्यापि बीजादेर्हेतुता नोपपद्यते ॥ ८ ॥
यत एवं चेतन एव निर्माता, अत एव नैयायिकादिभिरङ्कुरादौ
यस्मिन्निति यावत्, यदन्तः भवति । पण्डितैः द्वयी - द्विरूपा बाह्यान्तरस्थितिः प्रमात्रपेक्षयोक्ता - प्रमातुरेव, तद्व्यतिरिक्तस्यान्यस्याभावात् । ततश्च प्रमातृकार्यत्वमेव सर्वेषां भावनामितिभावः । तेन - ततः कारणात्, मातैव - प्रमातैव, भावानां कारणं भवति । च - यस्मात्, सः - एकः प्रमातैव, कार्यस्य आभासद्वयस्थितौ [बाह्यान्तरस्थितौ - च्] कारणम् - बाह्यान्तरस्थितिनिमित्तम् उक्तः । तत् - ततः कारणात्, उदिता - पूर्वं साधिता, क्रिया एकस्य - प्रमातुः सम्बन्धिनी भवति ।
अन्यनिमित्तताभासनस्यापि स्वप्ने घटे कुलालनिर्मीयमानताभानस्येव प्रमातृहेतुताऽनपायात् । न हि प्रमात्राऽगृहीतो हेतुर्हेतुर्भवतीति भावः इति ॥ ६ ॥ ७ ॥
अथाष्टमस्य [सप्तमस्य - च्।] श्लोकस्य अवतरणिकां विनैव व्याख्यां कर्तुमुपन्यासं करोति अत एव इति ।
अत्र टीका -
अत एव इति व्याचष्टे यत एवम् इति । एवम् - उक्तप्रकारेण, निर्माता - कर्ता, कारणमिति यावत्, नैयायिकादिभिः इत्यस्य शेषत्वेन अध्याहारः । आदि शब्देन वैशेषिकादिग्रहणम् । इष्टः इति निगद -
बुद्धिमानेव परमेश्वरो हेतुत्वेन इष्टः । ननु तैः निमित्तकारणतास्य अङ्गीकृता क्रियाविभागादिक्रमायातपरमाण्वादिद्वारकतया, समवायिकारणनिजावयवारम्भपरम्परया तु तत ईश्वरादन्यस्यापि बीजभूमिजलादेर्हेतुता कथिता । सत्यम् कथिता, सा तु नोपपद्यते, उक्तयुक्त्या जडस्य हेतुतायोगात्; ततश्चेश्वर एव बीजभूमिजलाभाससाहित्येनाङ्कुरात्मना भासते, - इतीयानत्र परमार्थः ॥ ८ ॥
ननुपरिदृष्टबीजादिव्यतिरिक्तबुद्धिमत्कारणकल्पनेन विना किमुपरु ध्यत इति परस्य भ्रान्ति भिन्दन्नाह
व्याख्यातम् । एतेन पूर्वार्धव्याख्या सम्पन्ना । अथोत्तरार्धं व्याख्यातुमवतरणिकां करोति ननु इति । तु व्यतिरेके, तैः - नैयायिकादिभिः अस्य - ईश्वरस्य, क्रियाविभागादिक्रमेण - पूर्वं क्रिया, ततो विभागः, ततः पूर्वसंयोगनिवृत्तिः, तत उत्तरसंयोगोत्पादादिरितिक्रमेण, आयाता या परमाण्वादिद्वारकता - परमाणुहेतुता, आदि शब्देन द्व्यणुकहेतुता, तया सिद्धया, समवायिकारणभूता ये निजावयवास्तैर्या आरम्भपरम्परा - द्व्यणुकाद्यारम्भपङ्क्तिः तया हेतुभूतया, तत ईश्वरात् - तस्मादीश्वरात्, अन्यस्यापि - व्यतिरिक्तस्यापि, बीजभूमिजलादेर्हेतुता कथिता, नहीश्वरस्य व्यापकस्य क्रियाविभागादि युज्यते इति भावः । एवं प्रश्नरीत्यावतरणिकां कृत्वोत्तररीत्योत्तरार्द्धं व्याचष्टे सत्यम् इति । सर्वं वाक्य सावधारणमिति न्यायेन कथितैव इति योजनीयम् ।
एव शब्द व्यावर्त्यमाह सा तु इति । सा - बीजादिनिमित्तता । एतेन हेतुता इत्यस्य व्याख्या । उपपद्यते इति निगदव्याख्यातम् ।
स्पष्टत्वेन नान्यद् व्याख्यातम् । अत्र हेतुमाह उक्त इति । एतच्च क्षित्यादेः परमार्थतः स्थितां चेतनतामनपेक्ष्योक्तम् ।
अर्थबुद्ध्याविष्टं शिष्यं प्रत्येवमुक्तम् । फलितरीत्या सिद्धान्तं कथयति ततश्च इति । साहित्येन - सहिततया, तैः सह समेत्येति यावत् । अङ्कुरात्मना - बीजादिकार्यतया प्रसिद्धाङ्कुरभावेन, इयान् - एतावन्मात्रम्, परमार्थः - सत्यवस्तु ॥ ८ ॥
अथ नवमस्य श्लोकस्य व्याख्यां करोति ननु इति ।
अत्र टीका -
उपरुध्यते - प्रतिवध्यते, कर्मकर्तरि लकारः, परस्य - बौद्धस्य, भ्रान्तिम् -
तथा हि कुम्भकारोऽसावैश्वर्यैव व्यवस्थया ।
तत्तन्मृदादिसंस्कारक्रमेण जनयेद् घटम् ॥ ९ ॥
तथा हि इति निदर्शनोपक्रमेण व्याप्तिरेवम्भूतैव दृष्टा, - इति द्रढयति । जडा हेतवश्चेतनप्रेरिताः कार्यं कुर्वन्ति, मृदादयो यदि हि सन्निधानमात्रेण [यदि सन्निधिमात्रेण - क्। ष्। ष्।] विदध्युः कुम्भकारेण किमत्र कृत्यम् । शिविकस्तूपकादिपरम्परया ते जनयन्ति; सा च कुम्भकारायत्ता इति चेत् सिद्धं नः साध्यम् - शिविकसम्पादनेऽपि ते चेतनप्रेरणामपेक्षन्ते इति ।
तज्जडकारणानां चेतनप्रेरणामन्तरेण न क्वचित् कार्यकारित्वम् । यदि हि स्यात्
भ्रमम्, भिन्दन् - नाशयन् । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे तथा हि इति ।
अत्र टीका -
तथाहि इति व्याचष्टे तथाहि इति । निदर्शनोपक्रमेण - दृष्टान्तारम्भेण, दृढयति इति, दृष्टान्तेनैव दार्ष्टान्तिकदृढत्वापादनात् इति भावः । श्लोकं व्याख्यातुं प्रक्रियां करोति जडाः इति । चेतनेन - कुम्भकारादिना प्रेरिताः ।
कार्यम् - घटादिकम् । के ते जडा इत्यपेक्षायामाह मृदादयः इति । अत्र समर्थनं करोति यदि हि इति । सन्निधानमात्रेण - चेतनप्रेरणारहितेन सन्निधानेन । विदध्युः - कुर्युः । अत्र - अस्मिन्घटे, कृत्यम् - कार्यम् । अत्र शिष्यः प्रश्नं शङ्कते शिविक इति । ते - मृदादयः, सा च, शिविकस्तूपकादिपरम्परा च, कुम्भकारायत्ता, घटापेक्षया प्रथमोत्पादादिति भावः ।
शङ्किते उत्तरमाह सिद्धम् इति, साध्यम् - साधयितुमिष्टं सर्वत्र चेतनकर्तृत्वम् । तदेव दर्शयति शिविक इति । शिविकसम्पादने - प्रथमाभाविशिविकाख्याकारकरणे, ते - मृदादयः, इति शब्दः सिद्धसाध्यदर्शनसमाप्तौ । अपि शब्देन यत्रापूर्णघटरूपशिविकसम्पादने चेतनापेक्षा तत्र घटकरणे तदपेक्षायाः का चिन्तेति दण्डापूपिकान्यायः सूचितः । फलितं कथयति तत् इति, क्वचित् - कुत्रापि देशे काले वा । व्यतिरेके व्याघातमाह यदि हि इति । स्यात् इति, समानन्या
मृदादीनामपि स्यात्, इति एकान्त एषः । ततश्च यत् अचेतनं कार्यकारि तत् चेतनापेक्षं मृदादय इव, तथा च बीजादि, - इति स्वभावः ।
अचेतनकार्यकारित्वं हि कादाचित्कत्वात् सनिमित्तम्, न चान्यदस्य निमित्तमुपपद्यते अनुपलम्भात्, इति तत् [इति चेतनप्रेरणम् - क्। ष्। ष्।] चेतनप्रेरणं यदि न निमित्तीकुर्यात् व्यापकविरुद्धमनिमित्तकत्वं [व्यापकविरुद्धमन्यनिमित्तकत्वम् - क्। ष्। ष्।] प्रसज्येत; न च युक्तं तत्, मृदादावपि तस्यैव [तस्य प्रसङ्गात् - क्। ष्। ष्।] प्रसङ्गात्, इति सिद्धा व्याप्तिः । अतश्च कुम्भकदेव
यत्वादितिभावः । सिद्धमभीप्सितं सङ्ग्रहेण कथयति इति इति । इति - अतः कारणात्, एष एकान्तः - निश्चयो भवति । जडानां चेतनापेक्षत्वे न कोऽपि सन्देहोऽस्तीतिभावः । अत्र फलितमाह ततश्च इति । तथा च - यतोऽचेतनं कार्यकारि च अतश्चेतनापेक्षम् इति स्वयमेव योजनीयम् । इति स्वभावः - अयं स्वभावो भवति । न रूपादिसिद्धम् भवतीति भावः । कथमित्यपेक्षायामत्र समर्थनं करोति अचेतन इति । कादाचित्कत्वात् - कदाचिद्भवत्वात्, अनन्यथासिद्धनियतभाव्यन्यचेतनसन्निधिकाल एव भवनशीलत्वादिति यावत् । ननु तन्निमित्तं चेतनव्यतिरिक्तमेव भवतु इत्यत आह न च इति । अन्यत् - चेतनव्यतिरिक्तं किमपि वस्तु, अस्य - अचेतनकार्यकारित्वस्य, कुतो नोपपद्यत इत्यत आह अनुपलम्भात् इति ।
नह्यनुपब्धस्योपपन्नत्वं युक्तमिति भावः । इति - अतः कारणात्, तत्
- अचेतनकार्यकारित्वम्, यदि चेतनप्रेरणां न निमित्तीकुर्यात् तदा तस्य अनिमित्तकत्वम् - निमित्तरहितत्वम् प्रसज्येत । अनिमित्तकत्वं कीदृशम् ? व्यापकविरुद्धम्, व्यापकेन - चेतनापेक्षारूपेण, विरुद्धम् - विरोधयुक्तम्, तेन बाध्यमानमिति यावत् । नह्यनिमित्तस्य सापेक्षत्वं युक्तमिति भावः । धूमेनाग्न्यनुमानेन चाग्निदेशगतं शीतं व्यापकविरुद्धम् । ननु व्यापकविरुद्धमप्यनिमित्तकत्वमत्र भवतु इत्यत आह न च इति । तत् - अनिमित्तकत्वम् । तस्यैव - अनिमित्तत्वस्यैव, प्रसङ्गात् - अनिष्टतया प्राप्तेः । नहि मृदादि चेतनानपेक्षं दृश्यत इति भावः ।
फलितमाह इति इति । इति - अतः कारणात्, अचेतनकार्यकारित्वचेतनापेक्षत्वयोः व्याप्तिः सिद्धा भवति ।
तत्रेश्वरः । तदेतदाह - ईश्वररूपया [ईश्वररूपा या व्यवस्था तया - क्। ष्। ष्।] व्यवस्थया यः स स मृद्दण्डचक्रादीनां संस्कारः, मृदो मर्दनम्, दण्डस्य प्रगुणत्वम्, चक्रस्य परिवर्तनम् इत्यादिः, तदारम्भो यः क्रमः शिविकस्तूपकादिरूपः, तेन घटं नियोगतो जनयति, नान्यथा [नान्यथा, - इति नियोगे लिङ् - क्।
ष्। ष्।], - नियोगे लिङ् । किं च यदि न क्रुध्यते वस्तुतः कुम्भकारोऽपि ऐश्वर्यैव स्वतन्त्रविश्वात्मतारूपया व्यवस्थया मृदादि -
अत्रापि फलितं कथयति अतश्च इति । तत्र - घटे, मृदादिप्रेरकत्वादिति भावः । उक्तप्रक्रियावष्टम्भेन श्लोकस्य व्याख्याकरणं प्रतिजानीते तदेतदाह इति । केनाहेत्यपेक्षायां श्लोकं व्याख्यातुमारभते ईश्वर इति । कुम्भकार इति पदं कुम्भकृदेव तत्रेश्वरः इत्यनेन कृतव्याख्यम् । ऐश्वर्यैव व्यवस्थया इति व्याचष्टे ईश्वर इति । ईश्वर इव रूपं यस्या सा ईश्वररूपा तया, व्यवस्थया - रचनया, ईश्वरसम्बन्धिन्या व्यवस्थया, ईश्वरवदिति यावत् । आदि शब्देन सूत्रादीनां ग्रहणम् । संस्कारमेव क्रमेण दर्शयति मृदः इति । मर्दनम् - पिण्डीकरणयोग्यतासम्पादनम् । प्रगुणत्वम् - चक्ररन्ध्रे ऋजुतया स्थापनम् । आदि शब्देन रज्जोर्वेष्टनादेर्ग्रहणम् । तेन - संस्कारेण आरम्भो यस्य सः तदारम्भः । क्रमस्य स्वरूपं दर्शयति शिविक इति । तृतीयायोजनां करोति तेन इति । लिङर्थमाह नियोगतः इति । नियोगतः, नियमेनेत्यर्थः । नियोगव्यावर्त्यमाह नान्यथा इति । ननु नियोगोऽत्र कस्यार्थः इत्यत आह नियोगे इति । एतेन दृष्टान्तवाक्यत्वमस्य दृढीकृतम् । दार्ष्टान्तिकयोजनं तु स्वयमेव निपुणः करिष्यत्येव । तथा चैवमत्र योजना । असौ मृदादिकं प्रति प्रेरकत्वेन तदीश्वरतया स्थितः कुम्भकारः, ऐश्वर्या व्यवस्थयैव तत्तन्मृदादिसंस्कारक्रमेण घटं जनयेत् - नियमेन जनयति इति, तथेश्वरोप्यङ्कुरादीन् जनयतीति दार्ष्टान्तिकयोजना स्वयमेव कार्या । अत्र च साध्यस्यापीश्वरस्योपमानीकरणं शास्त्रमपेक्ष्य कृतं न विरोधावहम् । ननु यद्येवं तर्हि दृष्टान्ते घटे कुम्भकारस्यैव परमार्थतः कर्तृत्वमायातमितीश्वरस्य सर्वकर्तृत्वं न युक्तमित्यपेक्षायामस्यैव श्लोकस्य द्वितीयां व्याख्यां कर्तुमवतरणिकां करोति किञ्च इति । ऐश्वर्या - ईश्वरे परमार्थतः स्थितया,
संस्कारापेक्षया प्रदर्शितनियत्यभिधाननिजशक्तिविजृम्भातो घट जनयेत्; अन्यथा अचेतना मृदादयः कथं कुम्भकारेच्छामनुरुध्येरन्, तन्तवोऽपि वा पटसम्पादनेच्छां किं नाद्रियेरन् । तदेतदपि उक्तम् अनेनैव सूत्रेण तथा हि इति ।
नन्वेवं कुम्भकृतो नास्ति कर्तृत्वम्, - इति समुत्सीदेत् धर्माधर्मव्यवस्था । यदि प्रत्येषि युक्त्यागमयोः तदेवमेव ।
तथापि समस्तेतरनिर्माणमध्य एव इदमपि परमेश्वरेणैव निर्मितं यदविचलस्तस्य कुम्भकारपशोर्मिथ्याकर्तृत्वाभिमानः प्रतिभुव इव अधमर्णताभिमानः । यदि पुनरीश्वरस्येच्छैव इयमीदृशी मा अस्य
अनुरुध्येरन् - अनुगच्छेयुः । ईश्वरकृतया नियत्यैव कुम्भकारोऽपि मृदादिक घटकरणे प्रेरयितुं शक्नोतीति भावः ।
एवमत्र योजना । असौ - ईश्वरप्रेरितः कुम्भकारः ईश्वरस्थितया व्यवस्थयैव घटं जनयेत् न स्वतन्त्रतया । व्यवस्थया कीदृश्या ? तत्तन्मृदादिसंस्कारक्रमेण, प्रदर्शितनियतिशक्तिविजृम्भारूपयेत्यर्थः । युक्तत्वेनास्य पदस्याध्याहारः । अन्यथा स कुम्भकारः घटकरणे तन्तूनपि प्रेरयेदिति भावः । नन्वियं व्याख्या कस्य श्लोकस्य कृतेत्यत आह तदेतत् इति । केन सूत्रेणेत्यपेक्षायां सूत्रं भागेन दर्शयति तथाहि इति । तृतीयामपि व्याख्यां कर्तुमवतरणिकां करोति नन्वेवम् इति । एवम् - उक्तप्रकारेण, समुत्सीदेत् - नश्येत् । इति, सर्वत्रेश्वरकर्तृत्वाभिमानमभिनीय सर्वे उत्पथगामिन एव भवेयुरिति भावः । धर्माधर्मव्यवस्था - धर्माधर्ममर्यादा । उत्तरमाह यदि इति । यदि युक्त्यागमयोः - युक्तौ आगमे च, प्रत्येषि - प्रतीति करोषि, तदेवमेव भवति । ननु तर्हि धर्माधर्मव्यवस्थानाशः कथं निवार्यते इत्यपेक्षायामवतरणिकाविषयीकृतं श्लोकं व्याचष्टे तथापि इति ।
समस्तं यत् इतरत् - स्वस्माद् व्यतिरिक्तं भावजातम्, तस्य यन्निर्माणं तस्य मध्ये । इदं किमित्ययेक्षायामाह यत् इति ।
यस्त्वधमर्णमरणादिवशेन [यत्त्वधमर्णादि - च्।] प्रतिभुवोऽधमर्णत्वाभिमानः स इह न विवक्षितः, तस्य सत्यरूपत्वात् । ननु तर्हि कदास्यासावभिमानो नश्यति इत्यत आह यदि इति । ईदृशी केत्यपेक्षायामाह मा - अस्य
अभिमानोऽयम् उद्गमत् इति, तदा नासौ कर्ता कश्चित् । तदिदमपि उक्तं सूत्रेणैव तथा हि इति । कुम्भकारस्यापि मृदादिसंस्कार क्रमेण किं घटं जनयामि, उत न जनयामि इति य एकपक्षनिश्चयाय सम्प्रश्नात्मा विचारः, स ईश्वरसम्बन्धिन एव विविधात् स्वरूपावच्छादनतत्त्वप्रकाशनरूपात् अवस्थानात्, - इति सम्प्रश्ने लिङ् । तस्मात् वस्तुत ईश्वर एव सर्वत्र कर्ता, अहं च स एव इति न परिमिते
इति । अस्य - कुम्भकारस्य, अभिमानः - घटकर्ताऽहमित्यभिमानः मा उद्गमत् - मा उदेतु । इति शब्दः ईश्वरेच्छासमाप्तौ । असौ - कुम्भकारः, ईश्वर एव प्रमातृषु कर्तृताऽभिमानमुत्पाद्य धर्माधर्मव्यवस्थां रक्षतीति भावः । ननु तर्हि गलिताभिमानानामुत्पथगमनमेव प्राप्नोति इति चेत् अहो नैपुण्यम्, गलिताभिमानानां पन्था अपि विस्मृतिमेव गच्छति इति का कथोत्पथगमनस्य । परन्तु ते पुरातनसंस्कारवशेन प्रवाहागतं देशकालाविरुद्धं कर्मैव देहस्थितिं तावत्कुर्वन्तीत्यलं प्रपञ्चेन । नन्वियं व्याख्या कुत्र कृतेत्यपेक्षायामाह तदिदम् इति । एवमत्र योजना । असौ मिथ्याभिमानेन युक्तः कुम्भकारः, ऐश्वर्या व्यवस्थया - ईश्वरसम्बन्धिन्या इच्छयैव, तत्तन्मृदादिसंस्कारक्रमेण घटं जनयेत् - घटजननाभिमानं कुर्यात्, अभिमानाभावे कर्तृत्वाभावादिति भावः । अत्र व्याख्या त्रयेऽपि नियोग एव लिङ् । अथ चतुर्थी व्याख्यां कर्तुमवतरणिकां करोति कुम्भकारस्यापि इति ।
सम्प्रश्नात्मा - सम्प्रश्नरूपः । नन्वत्र सम्प्रश्नः कस्य पदस्यार्थ इत्यत आह सम्प्रश्ने इति । एवमत्र योजना । असौ - घटकरणे उद्युक्तः कुम्भकारः विविधया नानारूपया, स्वरूपावच्छादनतत्त्वप्रकाशनरूपया [स्वरूपावच्छानन्तत्व
- च्।], अवस्थया - अवस्थानेन, तत्तन्मृदादिसंस्कारक्रमेण घटं जनयेत् - घटजननं प्रति निश्चितः, एकपक्षनिश्चित इति यावत्, भवतीति । एतेन सिद्धं वस्त्ववधान विषयीकार्यत्वेनादिशति तस्मात् इति । तस्मात् - ततः कारणात्, ईश्वर एव सर्वत्र कर्ता भवति अन्यकर्तृत्वस्यापि परमार्थतस्तत्रैव विश्रान्तेः । अहं च स एव - अस्मि तन्निष्ठकर्तृत्वादियोगात्, दाहकत्वशक्तियुक्तोऽग्निकणोऽपि हि अग्निरेवेति भावः । इति अहं परिमिते - एतद्देहविषये एव,
कर्ता, अपि तु सर्वत्र कर्ता, - इति एतावति सर्वथा हृदयेन अवधातव्यम् इति स्थितम् ॥ ९ ॥
दृश्यतेऽस्य [दृश्यते चास्य - क्। ष्। ष्।] चेतनस्य स्वातन्त्र्यमेव सर्वत्र जृम्भमाणं जडानपि यत् स्वात्मतामापादयति, न तु जडानां वस्त्वन्तराविष्करणे सामर्थ्यम्, - इति यदुक्तम्, तत् सर्ववादिप्रसिद्धनिदर्शनेन द्रढयति
योगिनामपि मृद्बीजे विनैवेच्छावशेन तत् । घटादि जायते तत्तत्स्थिरस्वार्थक्रियाकरम् ॥ १० ॥
यदिह चेतनप्रेरितं कारणम् इति प्रसिद्धं मृदादि, यच्च तदनपेक्षं
कायकर्ता नास्मि, अपि तु सर्वत्र कर्ता अस्मि ईश्वरकर्तृत्वेनैव तत्त्वात्, इति एतावन्मात्रे अवधातव्यम् - अवधानं कार्येम् ।
तदुक्तम् -
कर्मण्यकर्म यः पश्यत्यकर्मणि च कर्म यः । स बुद्धिमान् मनुष्येषु इति ॥
इति - एतत्, स्थितम् - स्थितियुक्तं भवति ॥ ९ ॥
अथ दशमस्य श्लोकस्यावतरणिकां करोति दृश्यतेऽस्य इति ।
अत्र टीका -
चेतनस्यैव इति योजना । सर्वत्र - सर्वेषु जडवस्तुषु, स्वात्मताम् - स्वातन्त्र्यरूपां चेतनताम्, आपादयति - प्रापयति ।
ननु तेषां सा चेतनता स्वकीयैवास्त्वित्यत आह न तु इति । दृढयति - दृढीकरोति । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे योगिनाम् इति ।
अत्र टीका -
व्यतिरेकभङ्ग्या श्लोकं व्याख्यातुं प्रक्रियां करोति यदिह इति । कारणमिति, कारणतयेत्यर्थः । तदनपेक्षम् - चेतनानपेक्षम् । तत् - तदा,
बीजादि घटादेरङ्कुरादेश्च जनकम्, तदेव यदि परमार्थतः कारणं स्यात् तत् तद्व्यतिरेकेण घटाङ्कुरादेः कथं योगीच्छामात्रेण जन्म स्यात्, अकारणकत्वप्रसङ्गात् [अकारणत्व प्रसङ्गात् - क्। ष्। ष्।] तेषां वा अकारणत्वप्रसङ्गात् [अकारणत्वापत्तेः - क्। ष्। ष्।] अथोच्यते - अन्ये एव ते घटाङ्कुरादयो मृद्बीजादिजन्याः, अन्ये एव च योगीच्छादिजन्याः, - इति, तत्रापि प्रबोध्यसे - विमर्शाभेदात् तावदभेद, - इति पूर्वमेव उक्तम्; तत्रापि योगी खलु अप्रतिहतेच्छः, तस्य च इच्छा तादृगेव घटो भवतु यो मृदादिकृतकुम्भसम्भवभूर्यर्थक्रियाकरणचतुर- वृत्तिरिति । तदेतदाह - तस्य तस्य स्थिरस्य अर्थक्रियान्तरानुबन्धिनः कालान्तरानुबन्धिनश्च स्वस्य आत्मीयस्थ अर्थक्रियाविशेषस्य करणे हेतुतच्छीलानुकूलरूपं घटादि जायते, - इति । ये त्वाहुः - नोपादानं विना घटाद्युत्पत्तिः, योगी तु इच्छया परमाणून् पश्यन् सङ्घट्टयतीति ।
तद्व्यतिरेकेण - मृद्वीजादिव्यतिरेकेण । कुतो न स्यादित्यपेक्षायां विकल्परीत्या हेतुद्वयमाह अकारणकत्व इति ।
अकारणकत्वप्रसङ्गात् - घटाङकुरादेः कारणरहितत्वप्रसङ्गात्, वा - पक्षान्तरे, तेषाम् - मृदादीनाम्, अकारणत्वप्रसङ्गात् - घटाङ्कुरादीन् प्रति कारणत्वाभावप्रसङ्गात् । अत्र शिष्यः प्रश्नं शङ्कते अथोच्यते इति । उत्तरमाह तत्रापि इति । अन्यत्किञ्चिदपि कथयेत्यपेक्षायामाह तत्रापि इति । तादृगेव, तादृश्येवेत्यर्थः । तादृक् का इत्यपेक्षायामाह घटो भवतु इति । तत्तत् इत्यादि समस्तं पदं व्याचष्टे तस्य तस्य इत्यादि । तत्तत् इति व्याचष्टे तस्य तस्य [तत् तत् इति व्याचष्टे तस्य इति - च्।] इति । स्थिर इति व्याचष्टे अर्थक्रियान्तर इति ।
अस्या अर्थक्रियाया अन्याः अर्थक्रिया - अर्थक्रियान्तराणि, तदनुबन्धिनः, तदनुवर्तिन इत्यर्थः । स्व इत्यवयवं व्याचष्टे आत्मीय इति । कृञो वाच्यमाह करणे इति । त प्रत्ययवाच्यमाह हेतु इति । अत्र तार्किकमतं प्रत्याख्यातुमुपन्यस्यति, ये त्वाहुः इति । इति शब्दः शङ्कितप्रश्नसमाप्तौ ।
ते वाच्याः - यदि खलु अन्वयव्यतिरेकागमादिपरिदृष्टः कार्यकारणभावो योगिषु न विपर्येति, - इति हृदयमावर्जयति वः तत् किं परमाणुग्रहेण; नो चेत् घटस्य कपालानि [कपालादि - क्। ष्। ष्।] शरीरस्य स्वावयवाः, तेषां निजं निजं प्रसिद्धं तृणशस्तिलशोऽपि अन्यथाभवनमसहमानं लौकिकमेव कारणम्, इति घटे मृद्दण्डचक्रादि, देहे स्त्रीपुरुषसंयोगादि उभयमपेक्ष्यं [सर्वमपेक्ष्यम् - क्। ष्। ष्।] परिदृष्टदीर्घतरकालपरिवासमिति । योगीच्छया तु समनन्तरोदितघटदेहादिसम्भवो दुःसमर्थ एव । चेतन एव तु तथा तथा भवति । भगवान् भूरिभर्गो महादेवो नियत्यनुवर्तनोल्लङ्घनघनतरस्वातन्त्र्यः, - इत्यत्र पक्षे नियत्यनुवर्तिनः लौकिके प्रसिद्धे कार्यकारणभावे स्वातन्त्र्यम्,
अत्र प्रत्याख्यानं करोति ते वाच्याः इति । विपर्येति - व्यभिचरति । वो हृदयमावर्जयति इति सम्बन्धः । परमाणुग्रहो ह्यन्वयव्यतिरेकादिसिद्धौ व्यभिचारार्थमेव कल्प्यत इति भावः । नो चेत्, यदि नावर्जयतीत्यर्थः । कपालानि कारणमिति शेषः । तेषाम् - कपालानामवयवानाञ्च, तृणशस्तिलशः, लेशेनापीत्यर्थः, अन्यथाभवनम् - व्यभिचारम्, अपेक्ष्यम् - अपेक्षणीयम् । उभयं कीदृशम् ? परिदृष्टो दीर्घतरकालं परिवासः - कारणेनावस्थानं यस्य तादृशम् । दुःसमर्थ एव, समर्थयितुमशक्य एवेत्यर्थः । ननु त्वन्मतेऽपि दुःसमर्थ एवाऽयमर्थ इत्यत आह चेतन इति, तु - पक्षान्तरे, अस्मत्पक्षे इति यावत् । चेतन एव तथा तथा भवति - तत्तद्भावरूपेण स्फुरति, तथा च नायमर्थो दुःसमर्थः, न हि स्वतन्त्रस्य किमप्यशक्यमिति भावः ।
स्थूलदृष्टिशैवपक्षेऽपि विरोधाऽभावं कथयति भगवान् इति ।
भगवान् - माहेश्वर्ययुक्तः, भूरिभर्गः - बहुतेजाः, महादेवः, नियतेः ये अनुवर्तनोल्लङ्घने तत्र स्वातन्त्र्यं यस्येदृशः भवति । इत्यत्र पक्षे - अस्मिन्पक्षे, नियत्यनुवर्तिनः [नियत्यनुकृतिनः - क्। ष्। ष्।], लौकिकस्येति यावत् । लौकिके प्रसिद्धे कार्यकारणभावे स्वातन्त्र्यं भवति । तु व्यतिरेके ।
तदुल्लङ्घनमाद्रियमाणस्य तु योगिप्रायप्रसिद्धे लोकोत्तरे, - इति न कश्चित् विरोधः । इयांश्च लोके एव । परमार्थतस्तु स एव क्रमाक्रमरूपविश्वसृष्ट्यादिकृत्यपञ्चकप्रपञ्चस्वभावः प्रकाशते । चेतनो हि स्वात्मदर्पणे भावान् प्रतिबिम्बवदाभासयति इति सिद्धान्तः । यदाह पूर्वगुरुः
निरुपादानसम्भारमभित्तावेव तन्वते । जगच्चित्रं नमस्तस्मै कलाश्लाध्याय शूलिने ॥ (स्तवचि। ९ श्लो।) इति ॥ १० ॥
ननु यदि प्रसिद्धकारणोल्लङ्घनेनापि तत्कार्यविशेषतुल्यवृत्तान्येव [तत्कारणजन्यकार्य - क्। ष्। ष्।] कार्याणि जायन्ते, भग्नास्तर्हि अनुमानकथाः । तथा हि कथमन्यदन्यत्र
तदुल्लङ्घनम् - नियत्युल्लङ्घनम्, आद्रियमाणस्य - आदरविषयतां नयतः, योगिन इति यावत् । योगिप्रायप्रसिद्धे - योगिषु प्रायेण प्रसिद्धे, अत एव लोकोत्तरे कार्यकारणभावे स्वातन्त्र्यं भवति । लौकिकभावेन च भगवतो महादेवस्यैव स्थितत्वादिति भावः । ननु तर्ह्यस्य पक्षस्य त्वत्पक्षात्को भेदः इत्यत आह इयांश्च इति । इयांश्च - त्वत्पक्षे प्रोक्तं वस्तु च, लोक एव भवति भेदरूपत्वात् । ननु तर्हि परमार्थतः किमस्तीत्यत आह परमार्थतः इति । स एव - भगवानेव, क्रमाक्रमरूपं यद्विश्वं तस्य यत्सृष्ट्यादिपञ्चकृत्यम् - सृष्टिस्थितिध्वंसपिधानानुग्रहरूपं कृत्यपञ्चकम्, तदेव स्वभावः - स्वरूपं यस्य तादृशः । प्रकाशते । तेषां मते भगवतः कृत्यपञ्चकव्यतिरिक्तत्वम्, अस्मन्मते तत्स्वरूपत्वमिति भावः । कथं प्रकाशते इत्यतो हेतुमाह चेतनो हि इति । न च दर्पणात्प्रतिबिम्बस्य भेदो युक्त इति भावः । इति सिद्धान्तो भवति ।
अत्र दृष्टान्तत्वेन श्री भट्टनारायणवाक्यमुदाहरति यदाह इति ॥ १० ॥
अथैका दशश्लोकस्यावतरणिकां करोति ननु इति ।
अत्र टीका -
प्रसिद्धकारणानाम् - मृदादीनाम्, यत् उल्लङ्घनं तेन ।
तेभ्यः - प्रसिद्धकारणेभ्यः ये कार्यविशेषाः - घटादिरूपाः कार्यभेदाः, तेषां तुल्यं वृत्तं स्वरूपं येषां तानि । कथं भग्नाः इत्यपेक्षायां समर्थनमुपक्रमते तथा हि इति । अन्यत् - मृदादि,
नियमवद्भवेत् इत्याशङ्क्य प्रामाणिकतरम्मन्यैस्तादात्म्यतदुत्पत्ती नियमनिदानमुपगते । न हि निःस्वभावं वस्तु भवति, नापि भिन्नस्वभावं स्वभावभेदेन भेदात् । पर्यायशस्तत्स्वभावद्वयाभावे च निःस्वभावताप्रसङ्गात् । एवं निर्हेतुके भिन्नहेतुके च कार्ये वाच्यम् ।
अन्यत्र - घटादौ, कथं भवेत्, सर्वभावानां स्वात्ममात्रपर्यवसानान्न भवेदिति भावः । इत्याशङ्क्य - एवं शिष्यकृतं प्रश्नं शङ्कित्वा, प्रामाणिकतरमात्मानं मन्यन्ते इति तादृशैः, न तु परमार्थतः प्रामाणिकतरैरित्यर्थः ।
योगिनिराकरणे तात्पर्यवत्त्वेन बौद्धैरिति यावत् । नियमनिदानम् नियमकारणम्, उपगते, अङ्गीकृते इत्यर्थः । तत्र तादात्म्यस्य नियमनिदानम् वृक्षोऽयं शिंशपात्वात् इत्यत्र । अत्र हि वृक्षप्रतियोगिकः शिंशपाधर्मिको भेदः स्फुटतर एव ।
तदुत्पत्तिनियमनिदानम् पर्वतो वह्निमान् धूमवत्त्वात् इत्यादौ ।
अत्रापि अग्निप्रकृतिका धूमधर्मिणी उत्पत्तिः स्फुटैव ।
कथमेतदित्यपेक्षायां समर्थनं करोति न हि इति । तत्र शून्यवादिनं प्रत्याह निःस्वभावम् इति । हि - यस्मात्, वस्तु निःस्वभावं न भवति, वस्तुत्वायोगात् । क्षणिकवादिनं प्रत्याह नापि इति । भेदात्, तस्यैव तस्माद् भेदापातादित्यर्थः ।
स्वभावभेदेनैव वस्तुभेद इति भावः । द्वितीयमपि प्रसङ्गं कथयति पर्यायशः इति । पर्यायशः - क्रमेण, तस्य - भिन्नस्य, स्वभावद्वयस्य अभावे, निःस्वभावता प्रसङ्गात्, क्षणे क्षणे भिन्नं वस्तु हि पूर्वस्वभावस्य त्यागे उत्तरस्वभावस्य तावदनागमे [पूर्वस्वभावस्य त्यागे उत्तरस्वभावस्य तावदनागमेन च - च्।] च क्रमेण अभावग्रस्तमेव भवेत् अथवा पूर्वस्वभावकाले उत्तरस्वभावस्याभावः उत्तरस्वभावकाले च पूर्वस्वभावस्य, ततश्च तस्य निःस्वभावत्वमेवागच्छेत्, न हि
उभयत्रापि च हेतुकतैव व्यवस्था । स्वहेतुत एव हि शिंशपा वृक्षस्वभावाव्यभिचारिणी जाता, स्वहेतुतश्च हुतभुग्धूमजननस्वभावः, तदिदानीं नियत्युल्लङ्घिनि कार्यकारणभावे सर्वमिदं विघटेत । योगीच्छया हि शिंशपापि अवृक्षस्वभावा भवेत्, धूमे तु द्विगुणं चोद्यम्; अग्न्यादिसामग्री योगीच्छोद्भूता धूमं न जनयेत्, योगीच्छा वा अनग्निकं धूमम्, - इति न स्यादनुमानम्, अस्ति च तल्लोके, इत्याशङ्क्याह
योगिनिर्माणताभावे प्रमाणान्तरनिश्चिते । कार्यं हेतुः स्वभावो वात एवोत्पत्तिमूलजः ॥ ११ ॥
योगीच्छापि सर्वथा तादृशमेव न तु वृश्चिकगोमयादिसम्भूतवृश्चिकादिन्यायेन कथञ्चित् रसवीर्यादिना भिन्नं कार्यं जनयति, - इति यत्
आगन्तुकस्य स्वभावत्वं युक्तम् इति भावः । सत्ता हि स्वभावः ।
एवञ्च यो यस्य स्वभावः स ततो न व्यभिचरति इति तादात्म्यस्य नियमनिदानत्वं समर्थितम् । तदुत्पत्तेः नियमनिदानत्वं समर्थयितुं स्वभावे प्रोक्तं न्यायं हेतावतिदिशति एवम् इति । तत्र निर्हेतुकत्वे उत्पत्त्ययोगः, भिन्नहेतुकत्वे तु भेदापात इति पर्यायशः योज्यम् । एवञ्च यो यस्य हेतुः स ततो न व्यभिचरति इति उत्पत्तेरपि नियमनिदानत्वं समर्थितम् । तार्किकाभिमतम् उत्पत्तिमात्रस्य नियमनिदानत्वं कथयितुमाह उभयत्रापि इति । व्यवस्था - नियमरूपा मर्यादा । कथमित्यपेक्षायामाह स्वहेतुतः इति ।
फलितमाह तत् इति । इदम् - पूर्वोक्तं प्रक्रियाजालम्, नियत्युल्लङ्घिनि
- पूर्वोक्तनियमव्यभिचारिणि, विघटेत् - नश्येत् । कुत इत्यपेक्षायामाह योगीच्छया इति । न हीच्छायाः कुत्राप्यभिधातो युक्त इति भावः । द्विगुणमेव चोद्यं दर्शयति अग्न्यादि इति ।
धूमं न जनयेत् इति पूर्वेण सम्बन्धः । ननु मास्तु अनुमानमित्यत आह अस्ति च इति । तत् - अनुमानम् । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे योगि इति ।
अत्र टीका -
अत एव इति व्याचष्टे योगी इति । तादृशमेव - बाह्यकारणजनितसदृशमेव, तद्वदेवार्थक्रियाकरमिति यावत् ।
वृश्चिकात् गोमयादेश्च सम्भूता ये वृश्चिकादयः तेषां यो न्यायः तेन । आदि शब्देन मलमूत्रादिजनितकीटादिग्रहणम् ।
कथितमत एवास्मादेव हेतोः कार्यं वा धूमादि अग्न्याद्यनुमाने [अग्न्यनुमाने - क्। ष्। ष्।] शिंशपात्वादिस्वभावो वा वृक्षत्वाद्यनुमाने एवं हेतुर्भवति । यदि प्रमाणान्तरेण लोकप्रसिद्ध्या योगिनिर्माणत्वस्याभावो निश्चितो भवति नान्यथा ।
अत एवानुमाने जन्मान्तराभ्यासलोकप्रसिद्ध्यादिकमवश्यो- पजीव्यम्, सा च श्रुतानुमानप्रज्ञयोर्बीजम्, - इति च ऋतम्भराविषयमुवाच पतञ्जलिः ।
तत्र रसभिन्नत्वं गोमयाज्जातस्य वृश्चिकस्य, वीर्यभिन्नत्वं तु वृश्चिकाज्जातस्य इति क्रमो ज्ञेयः । न हि वृश्चिकाद् गोमयाच्च जातौ वृश्चिकौ सदृशौ भवतः रसस्य दुर्बलत्वात् वीर्यस्य तु अतिबलत्वात् इति । अर्थक्रिया तयोर्न सदृशीति भावः । कथितम् इति, पूर्वश्लोके, कार्यम् इति व्याचष्टे धूमादि इति । तत्कार्ये कुत्र हेतुरित्यपेक्षायां सूत्रेऽनुक्तमपि वस्तु अध्याहृत्य कथयति अग्न्याद्यनुमाने इति । कदेत्यपेक्षायाम् एवम् इत्यस्याकाङ्क्षां पूरयन् प्रथमार्धं व्याचष्टे यदि इति । नान्यथा इति, तत्र हि तेन न तत् कार्यं जनितं किन्तु योगिप्रभावतः तदिच्छामात्रेण तत्सम्पन्नमिति कथं तस्य तत्र हेतुत्वमिति भावः ।
एतदवष्टम्भेन अन्यत्किञ्चिदपि पतञ्जलिशास्त्रप्रसिद्ध कथयति अत एव इति । यतो लोकप्रसिद्धेः अत्रावस्योपयोगित्वमत एव हेतोः, पतञ्जलिः - भगवान् अनन्तः, अनुमाने जन्मान्तराभ्यासलोकप्रसिद्ध्यादिकम् - बालस्य स्तन्यानुमाने पूर्वजन्माभ्यासम्, अग्न्यनुमाने प्रसिद्धिम्, आदि शब्देन अदृष्टग्रहणम्, अवश्योपजीव्यम् [अवश्योपसन्धानम् - च्], अवश्यापेक्षणीयम्, उवाच - स्वशास्त्रे कथयतिस्म ।
जन्मान्तराभ्यासप्रसिद्ध्यादिक कीदृशम् ? ऋतम्भराविषयम्, पतञ्जलिशास्त्रे ऋतम्भरासाध्यत्वेनोक्तमित्यर्थः, न च तैलपायिकादिवत् व्यर्था इयं सञ्ज्ञा । ऋतम् - सत्यम् विभर्तीति ऋतम्भरा इत्यन्वर्थत्वात्, तेनासत्याया लोकप्रसिद्धेर्न लोकप्रसिद्धित्वम् [तेनासत्या या लोकप्रसिद्धेर्न लोकप्रसिद्धिः - च्।] ।
अस्या ऐश्वरीवागिति
अन्ये च यौक्तिका योगिप्रत्यक्षकल्पप्रत्यक्षसद्भावं समस्तवस्तुग्रहणाय कल्पितवन्तः । सांव्यवहारिके च प्रमाणे नास्माकं भरः, प्रकृतं हि अस्माकमीश्वरस्वरूपम्, तच्च स्वप्रकाशमेव [तच्च स्वप्रकाशमेवान्यप्रमेयोपरोधेऽपि - क्। ष्।
ष्।], प्रमेयोपरोधेऽपि नोपरुध्यत इत्युक्तमसकृत् । ननु स्वभावहेतौ किमनया चिन्तया ?, आह - वृक्षत्वाव्यभिचारिण्याः शिंशपाया उत्पत्तेर्यन्मूलं कारणं तत
नामानुत्तरशास्त्रीयाः कथयन्ति । कुत्र सूत्रे उवाचेत्यत आह । सा च
- इति । सा च - पूर्वजन्माभ्यासप्रसिद्ध्यादिभावेन प्रोक्ता ऋतम्भरा च, श्रुतानुमानप्रज्ञयोः - प्रसिद्धिज्ञानानुमानज्ञानयोः बीजं भवति । कदाचिद्धि लोका अपि मनःशुद्धिवशेन भाविवस्तु प्रत्यक्षमेव पश्यन्ति, तच्च तार्किकाः प्रातिभं प्रत्यक्षमिति कथयन्ति यथा कन्या ब्रवीति श्वो मे भ्रातागन्ता । अन्येषां स्वयङ्कल्पितयुक्तिमात्रशरणानां वादिनां मतमाह अन्ये इति । यौक्तिकाः - युक्तिमात्रप्रमाणाः, योगिप्रत्यक्षकल्पम् - योगिप्रत्यक्षसदृशम्, प्रत्यक्षं तस्य सद्भावम्, कल्पितवन्तः - युक्त्या साधयन्ति स्म । नन्वत्र प्रतिसमाधानं कर्तव्यमित्यत आह सांव्यवहारिके इति ।
सांव्यवहारिके - सम्यग्व्यवहारादागते, भरः - अर्थित्वोद्रेकः ।
कुत इत्याह प्रकृतं हि इति । प्रकृतम् - प्रस्तुतम्, प्रमेयोपरोधेऽपि
- प्रमेयाणां विषयीकरणेऽपि, न, उपरुद्ध्यते - प्रमाणेन विषयीकर्तुं शक्यते । सुगमत्वेन स्वभावो वा इत्यस्य योजना न कृता । उत्पत्तिमूलजः इति व्याख्यातुमवतरणिकां करोति ननु इति ।
स्वभावहेतौ - स्वभावाख्ये हेतौ, अनया - कार्येऽयोग्यया [कार्ये योग्यया - च्।], नियत्यधीने स्वभावे योगिनिर्माणताऽयोगादिति भावः । अवतरणिकां कृत्वा व्याख्यानं करोति आह इति । सूत्रकार इति शेषः । किमाहेत्यपेक्षायामस्यपदस्य विग्रहपूर्वं व्याख्यां करोति । वृक्षत्व इति । उत्पत्तिक्रियाया अपेक्षां पूरयितुं कर्तारमध्याहृत्य कथयति वृक्षत्व इति । मूल इत्यवयवं व्याचष्टे कारणम् इति । बीजरूपमित्यर्थः ।
एव स तन्मात्रानुबन्धी स्वभावो जायते, - इति; ततश्च
एकसामत्र्यधीनस्य रूपादे रसतो गतिः । हेतुधर्मानुमानेन धूमेन्धनविकारवत् ॥
इति स्वभावहेतुर्न्यायः । ननु च वृश्चिकादीनां कीटगोमयाद्यनेककारणकत्वं तावत् दृष्टम्, रसवीर्यादिभेदस्तु तत्र, - इत्यन्यदेतत् । तद्योगिजन्य -
तन्मात्रानुबन्धी - शिंशपामात्रानुवर्ती, न तु तद्वत्सानुबन्धी, जायते इति कर्तृविहितस्य [पञ्चम्यामजातौ । पा। ३ - २ - ९८ ।] ड प्रत्ययान्तस्य जनेर्व्याख्या, इति शब्दो पदस्य व्याख्यासमाप्तौ, अत एव स्वभावस्यापि कार्यत्वाव्यभिचारात् अस्याश्चिन्ताया अत्राप्यवकाश इति भावः । अतः फलितमन्यत्किञ्चिदाह ततश्च इति । यतः स्वभावः तन्मात्रानुबन्धी जायते ततः कारणाच्च, रसतः - रसाख्यात् हेतोः, एकसामग्र्यधीनस्य - रसेन सहैकसामग्र्यधीनस्य, तन्मात्रानुबन्धिन इति यावत् । न तु कारणतया स्थितस्य, रूपादेः [स्वरूपादेः - च्।] - रूपस्य स्पर्शस्य च, गतिः - ज्ञानम्, हेतुधर्मानुमानेन - हेतुना यद्धर्मानुमानम् - तन्मात्रानुबन्धिनः अन्यधर्मस्यानुमानम्, तेन भवति । न तु कार्येण रसेन तत्ररूपादिकारणानुमानमिति भावः । अथवा षष्ठ्यर्थे तसिल् । रसस्येति भावः । अत्र दृष्टान्तमाह धूम इति ।
यथा अग्नौ धूमेन इन्धनविकारानुमानं हेतुधर्मानुमानेन भवति तथेत्यर्थः । इति - एवम्, स्वभावहेतुर्न्यायः भवति ।
उत्पत्तिमूलजः इत्यस्यापरां व्याख्यां कर्तुमवतरणिकां करोति ननु इति । ननु तत्र रसवीर्यादिभेद उक्त एवेत्यत आह रस इति । अन्यदेतत् इति । नहि रसवीर्यादिभेदेन वृश्चिकस्वभावभेदो वक्तुं शक्य इति भावः । फलितमाह तत्
त्वमवह्निकस्यापि धूमस्य सह्यं नाम, स्वभावस्य तु कथं विपर्याससम्भावना । न हि नीलं सदेवानीलं योगीच्छया भवति,
- इति कश्चित् प्रामाणिकः प्रतीयात् । उच्यते । इह द्विविधो हि स्वभावहेतुरन्तर्लीनकार्यकारणभावस्तद्विपरीतश्च; वह्निमानयं पर्वतो धूमवत्त्वात् इति, अनित्योऽयं कृतकत्वात् इति ।
तत्र आद्यस्य तावत् कार्यकारणभाव एव मूलम् - इति किं तत्रोच्यते ।
अपरस्तु विचार्यते, यदि तावत् कृतकत्वस्य कारणायत्तत्वं नाम स्वभावः कथम् अभवनपरिच्छिन्नभवनस्वभावता नामानित्यत्वं स्वभावः स्यात् आभासभेदात् । अभेदे तु आभासस्य हेतुसिद्धावेव साध्यस्य सिद्धत्वात्, यदि परं व्यवहारः साध्यते,
इति । सह्यं नाम इति । अनेकजत्वादिति भावः । कुतो न विपर्याससम्भावना इत्यत आह न हि इति । अत्रोत्तरं कथयितुं प्रतिजानीते उच्यते इति । प्रतिज्ञां सफलीकरोति इह इति । हेतुद्वयं क्रमेण दर्शयति वह्निमान् इति । तत्र - हेतुद्वयमध्ये, आद्यस्य - अन्तर्लीनकार्यकारणभावस्य, अपरस्तु - तद्विपरीतः । विचारमेव करोति यदि इति । कारणायत्तत्वम् - कारणाधीनस्वरूपलाभत्वम् ।
अभवनेन - असत्तया परिच्छिन्नभावत्वेन [अभवनेन - असत्तया परिच्छिन्नभावित्वेन परिच्छेदविषयीकृतः - च्।], परिच्छिन्नम् - परिच्छेदविषयतां नीतं यद्भवनम् - सत्ता, तत्स्वभावता नाम
- तद्रूपाख्यम्, अनित्यत्वं स्वभावः स्यात्, आभासभेदात् इति ।
न हि कारणायत्तत्वभवनस्वभावत्वरूपयोराभासयोरेकत्वं युक्तमिति भावः । ननु कथमाभासभेद इत्यत आह अभेदे तु इति ।
साध्यस्य सिद्धत्वात् इति ।
साध्यसिद्धत्वाख्याश्रयासिद्धिभेदप्रसङ्गात्, संशयित एव हि अनुमानस्याऽऽश्रयो युक्तः न तु सिद्धे । शिष्योक्तं पक्षान्तरं शङ्कते यदि परम् इति । परम् - केवलम्, साध्यते - अयमनित्य इति व्यवहर्तव्यः कृतकत्वादिति साधनविषयतां नीयते । कथमिति शङ्कायामाह
तरुरयं वृक्षत्वात्, - इति न्यायेन, व्यवहारश्च ज्ञानाभिधानात्मा कार्य एव, तत्र [तत्रैव - क्। ष्। ष्।] च नियतिशक्तिरङ्गीकृता भवतापि । तस्मात् सर्वेषु स्वभावहेतुष्वाभासभेदं विना व्यवहारमात्रसाधनमेव, हेत्वाभासमयत्वादेवानधिको हि तत्र साध्याभासः, व्यावृत्तीनामेषैव वार्ता, सामान्यानामियमेव सरणिः । तस्मात् नियतः [नियतिशक्त्यायत्तः - क्। ष्। ष्।] शिंशपाभासवृक्षाभासयोः पूर्वनीत्या सामानाधिकरण्याभासो हेतुबलात् । ततः स्वभावोऽयं
तरुः इति । तरुरिति व्यवहर्तव्य इत्यर्थः । इति न्यायेन - अनेन न्यायेन इत्यर्थः । शङ्किते पक्षेऽपि उत्तरमाह व्यवहारश्च इति ।
ज्ञानाभिधानात्मा - प्रख्योपाख्यारूपः, ज्ञानरूपः शब्दनरूपश्चेति यावत् । ननु स व्यवहारः कार्यो भवत्वित्यत आह तत्र च इति । तत्र - तस्मिन् कार्ये व्यवहारे च, भवताप्यङ्गीकृते इति योजना, अन्यथा व्यवहारसाङ्कर्यापत्तेरिति भावः । फलितमाह तस्मात् इति । स्वभावहेतुषु - स्वभावरूपेषु हेतुषु, आभासभेदं विना - आभासभेदं विहाय, आभासभेदे व्यतिरिक्तो विषयी इति यावत् । कुत इत्यपेक्षायामाह हेत्वाभास इति ।
अन्यथा इति शेषः । हेत्वाभासमयत्वात्, साध्याभेदरूपाश्रयासिद्धरूपत्वादित्यर्थः । कुतो हेत्वाभासमयत्वमित्यत आह अनधिकः इति । अनधिकः - हेतोरनन्यूनानतिरिक्तः, तद्रूप इति यावत् । ननु अश्वोऽयमनश्वव्यावृत्तः इत्यादौ स्वभावहेतुविषये का वार्ता इत्यत आह व्यावृत्तीनाम् इति । अत्रापि व्यवहारमात्रसाधनमिति भावः । सरणिः - वर्तनी, अयं गौः गोत्वाश्रयत्वात् इत्यत्र सामान्यस्य स्वभावहेतुत्वम् । फलितं कथयति तस्मात् इति । नियतः
- नियमविषयतां प्राप्तः, पूर्वनीत्या - पूर्वोक्तनीत्या, सामानाधिकरण्याभासः - तादात्म्याभासः, एकस्वभावत्वाभासः इति यावत् । हेतुबलात् भवति । न हि वीजादनुत्पन्ना शिंशपा वृक्षस्वभावा । ततः - तस्मात् कारणात्, अयं स्वभावश्च
हेतुहेतुमद्भावमूल एव, तत एव सामान्येनेदमुक्तं द्रष्टव्यं
- सर्वः स्वभावहेतुरुत्पत्तिमूलजः, - इति । आभासा एव च वस्तु, - इति च समर्थितं प्राक् । ततश्च शिंशपायामेकस्यामेव सृज्यमानायां शाखादिमदर्थान्तराणामसृष्टेर्वृक्षाभासस्य [शाखादिपदार्थान्तर - क्। ष्। ष्।] सामान्यात्मनः साध्यस्य नामापि नास्ति, - इति सम्भाव्यत एव । यत्तु तदेकरूपं विशिष्टं वृक्षत्वं तत् खलु शिंशपात्वमेव तच्च सिद्धम्, - इति न साध्यम् ।
कारणायत्तमिदम्, - इत्याभासेऽपि न स्यादनित्यताभासः ।
एवमर्थक्रियाकारित्वाभावेऽपि क्षणिकत्वाभासाभावः इति नियत्यपेक्षयैव सर्वे स्वभावहेतवो नान्यथा, - इत्येकान्त एषः ॥ ११ ॥
हेतुहेतुमद्भावमूल एव - कार्यकारणभावमूल एव भवति ।
तत एव - तस्माद्धेतोरेव, इदम् - पूर्वोक्तं वस्तु, सामान्येन - न तु विशेषेण, उक्तन्दृष्टव्यम् - ज्ञातव्यम् ।
केनोक्तमित्यपेक्षायामवतरणिकाविषयीकृतं सूत्रपदमुपन्यस्यति उत्पत्ति मूलजः इति । तथा च धूमादिवदत्रापि योगिजन्यत्वं युक्तमितिभावः । विशेष्यं विना विशेषणायोग्यतां ज्ञात्वा सर्वः स्वभावहेतुः इत्युक्तम् ।
उत्पत्तेः - कार्यकारणभावाख्यात्, मूलात् जातः, उत्पत्तिमूलजः इति विग्रहः । आभासपक्षमाश्रित्य व्यवहारसाधनव्यतिरेकेऽपि साध्याभेददोषं निवारयितुमाह आभासाः इति । यतः स्वभावस्योत्पत्तिमूलत्वमेव ततः कारणाच्च, एकस्यामेव शिंशपायां सृज्यमानायां सत्याम्, शाखादिमन्ति यानि अर्थान्तराणि - अन्ये वृक्षाः तेषाम्, असृष्टेः, सामान्यात्मनः - सामान्यरूपस्य, साध्यस्य - शिंशपाविषये साधनीयस्य, वृक्षाभासस्य स्थितत्वात् । तदेकरूपम् - सृज्यमानैकरूपम्, विशिष्टम् - विशेषरूपम् । तथा च नात्र साध्याभेददोषः, सिद्धेन विशेषणेन साध्यस्य सामान्यस्य साधनादितिभावः ।
अनित्यत्वकृतकत्वयोरपि एकत्वं निवारयति कारण इति । तथा च नात्रापि साध्याभेद इति भावः । प्रसङ्गेनान्यत्रामुं दोषं निवारयति एवम् इति । नन्वेवं सति कथमत्रैकस्वभावत्वम्, सत्यम्, विप्रतिपन्नं प्रति नास्ति, अधुना तु साध्यते, साधनार्थमेव च सिद्धस्यापि साध्यत्वमारोप्यते विप्रतिपन्नबोधार्थम्, अन्यथा हेत्वाभासतापत्तेरित्यलं प्रपञ्चेन । सिद्धान्तं फलितरीत्या कथयति इति इति । इति - अतः कारणात्, एषः एकान्तः - निश्चयो भवति ।
एष कः ? सर्वे स्वभावहेतवो नियत्यपेक्षयैव भवन्ति न तु योगीच्छया, अन्यथा न भवन्ति
नन्वाभासवस्तुत्ववादेऽनाभातस्य अग्नेरवस्तुत्वम्, - इत्यनाभातेन कथं धूमो जन्यते, ततश्च धूमादग्नेः कारणस्य कथमनुमानम् ? इत्याशङ्क्य समर्थयितुमाह
भूयस्तत्तत्प्रमात्रेकवह्न्याभासादितो भवेत् । परोक्षादप्यधिपतेर्धूमाभासादि नूतनम् ॥ १२ ॥
एकवारं यावत् महानसे प्रत्यक्षानुपलम्भबलेनाग्न्या- भासधूमाभासयोः
उत्पत्तिमात्रे तदनुवर्तनादिति भावः ।
एतदुक्तं भवति । प्रायो वस्तु प्रसिद्धात् स्वकारणादेव जायते, कदाचित्तु योगीच्छया [कदाचित्तु योगीच्छयापि न विपर्यासो युक्तः - च्।] विपर्यासो युक्तः, इति स्वभावहेतौ उत्पत्तिमात्रे योगीच्छाकारणत्वाऽभावो निर्णेयः, न स्वसाध्यसाधनकाले, इति न कापि अनुमानस्य क्षतिरिति । योगिविषये तु विचारः पूर्वम् चिदात्मैव हि देवोऽन्तः इत्यत्र कृत एवेति न पुनरायस्यते । अत्र श्लोके एवं योजना । अत एव - यतो योगी अपि इच्छामात्रेण कार्ये जनयति अस्मात् कारणात्, योगिनिर्माणताभावे प्रमाणान्तरनिश्चिते सति कार्ये हेतुः भवति - स्वकारणं प्रति हेतुतां भजति नान्यथा ।
तथा स्वभावो वा हेतुर्भवति । कुत इत्यपेक्षायां विशेषणद्वारेण हेतुमाह उत्पत्ति इति । एतेन उत्पत्तिमात्रे एव योगिनिर्माणत्वाऽभावो निर्णेयः न स्वसाध्यसाधने - इति द्योतितमम् ॥ ११ ॥
अथ द्वादशश्लोकस्यावतरणिकां करोति ननु इति ।
अत्र टीका -
अनाभातस्य - पर्वतस्थत्वेन आभासाविषयतां गतस्य ।
कथम् इति, अजनकत्वान्न युक्तमित्यर्थः । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे भूयः इति ।
अत्र टीका -
श्लोकं व्याख्यातुं प्रक्रियां करोति एकवारम् इति ।
प्रत्यक्षानुपलम्भयोर्यद्वलं तेन । तत्र महानसे धूमाभासाग्न्याभासयोः प्रत्यक्षत्वम्, महाहृदे तयोरनुपलम्भः ।
कार्यकारणभावो गृहीतः । तत्र विज्ञानवादिनो दर्शने प्रतिसन्तानमन्यश्चान्यश्चाभासः, - इति स्वाभासयोरेव कार्यकारणता गृहीता न तु सन्तानान्तरगतयोस्तदीयवृत्तान्तस्यासंवेदनात् ।
ततश्चेदानीमनुमानं न भवेत् स्वसन्तानगतात् धूमाभासात् क्रिमिसर्वज्ञादिप्रमातृसन्तानान्तरनिष्ठस्याग्न्याभासस्य इति निश्चयः । इह तु दर्शने व्याप्तिग्रहणावस्थायां यावन्तस्तद्देशसम्भाव्यमानसद्भावाः प्रमातारस्तावतामेकोऽसौ धूमाभासश्च वह्न्याभासश्च वाह्यनये इव, तावति तेषां परमेश्वरेणैक्यं निर्मितम्, - इति हि उक्तम् । ततः स्वपरसन्तानविशेषत्यागेन
प्रतिसन्तानम् - सर्वेषु विज्ञानसन्तानेषु, इति - अतः कारणात्, विज्ञानवादिना स्वाभासयोः - स्वज्ञानसन्तानगतयोः [सज्ञात सन्तानगतयोः - च्।] धूमाभासवह्न्याभासयोः, कार्यकारणता गृहीता । एव कार व्यावर्त्यमाह न तु इति, सन्तानान्तरगतयोः - गृहीतृव्यतिरिक्तसन्तानगतयोः । कुतो न गृहीतेत्यत आह तदीय इति । तदीयवृत्तान्तस्य - सन्तानान्तरवृत्तान्तस्य, असंवेदनात् - अननुभूतेः । न ह्यन्यस्य विज्ञानमन्यस्य विषयीभवितुं युक्तम् । ततश्च - तस्मात्कारणाच्च, इदानीम् - अनुमानकाले, स्वसन्तानगतात् - अनुमातृविज्ञानसन्तानगतात् । पर्वते हि क्रिम्यादयो दावाग्निमध्यगतास्तदनुभवयुक्ताः स्युरेवेति क्रिमिग्रहणम्, सर्वज्ञानां च सर्वविषयं ज्ञानं भवत्येवेति तद्ग्रहणम् ।
आदिशब्देन पर्वतगानामन्येषां प्राणिनां ग्रहणम् । नन्वेतत् त्वद्दर्शनेऽपि समानमित्यत आह इह तु इति । इहदर्शने - शैवनये, तद्देशे - महानसदेशे, सम्भाव्यमानः सद्भावः येषां ते ।
एकः इति, बहिःस्थत्वाङ्गीकारात्, बाह्यं वस्तु हि सर्वान् प्रति साधारणमेव, विज्ञानमात्ररूपं तु विज्ञातारं प्रत्येव ।
बाह्यनये इव - तार्किकनयवत्, तावति - महानसगते धूमाभासे अग्न्याभासे च, तेषाम् - तद्देशस्थप्रमातॄणाम्, ऐक्यम् - एकताम्, तद्ग्रहीतृरूपमेकत्वमिति यावत् । बहिःस्थं वस्तु हि सर्वो नियतिशक्त्या साधारण्येन गृह्णाति । फलितमाह ततः इति । ततः - उक्तात्कारणात्, स्वपरसन्तानयोर्यो विशेषः तस्य त्यागेन, सामान्येनेति
धूमाभासमात्रं वह्न्याभासमात्रस्य कार्यम्, - इति व्याप्तौ गृहीतायां भूयोऽपि पर्वते यो धूमाभासः सोऽपि अग्न्याभासादेव [बह्न्याभासादेव - क्। ष्। ष्।] इति व्याप्तिं स्मृत्वानुमिमीते अत्र पर्वते अग्न्याभासः इति । तावति धूमाभासविशेषे प्रमात्रन्तरैः सहैकीभूय वह्न्याभाससामान्यांशे परोक्षरूपांशसहिते विशेषाभासान्तरविविक्ते प्रमात्रन्तरैः साकमेकीभवति, इति यावत् ।
भूय इति व्याप्तिं गृहीत्वा पुनरपि यो धूमाभासः, आदिग्रहणादङ्कुराभासादिर्गृह्यते
यावत् । धूमाभासमात्रं वह्न्याभासमात्रस्य, न तु स्वसन्तानगतः स्वसन्तानगतस्यैव, कार्यं भवति, इति - अतः व्याप्तौ - यत्र धूमाभासः तत्र वह्न्याभास इत्येवं रूपायाम्, गृहीतायाम् - महानसादौ ग्रहणविषयीकृतायां सत्याम्, भूयोऽपि - पुनरपि, धूमाभासः - स्वसन्तानगः धूमाभासः, अग्न्याभासादेव - परसन्तानगात् अग्न्याभासादेव, अनुमिमीते - पुरुषः अनुमातृत्वं भजति । एतेन किमुक्तं भवतीत्यत आह तावति इति । सः अनुमाता तावति - तावन्मात्रे, न तु सर्वत्र, अन्यथा सर्वज्ञत्वापत्तेः, धूमाभासविशेषे - पर्वतस्थे धूमाभासे, प्रमात्रन्तरैः - तद्देशस्थैः तद्धूमग्राहकैः अन्यैः प्रमातृभिः, सहैकीभूय - धूमाभासग्रहणेनैकतामासाद्य, परोक्षरूपः - अतीन्द्रियत्वेन परोक्षभूतो य्ॐऽशस्तेन सहिते ।
अथवा भावप्रधानो निर्देशः, परोक्षतारूपो यः अंशस्तेन सहिते, परोक्षे इति यावत् । तथा विशेषभूतानि यानि आभासान्तराणि - सामान्याश्रयभूताः सर्वे वह्निव्यक्त्याभासाः, तेभ्यो विविक्ते - भिन्ने, वह्न्याभासस्य यः सामान्यांशः तस्मिन्, प्रमात्रन्तरैः साकम् - तद्देशस्थैः अन्यैः प्रमातृभिः सह, एकीभवति - वह्न्याभासग्रहणद्वारेण एकतामासादयति, इति यावत्, अयमेवार्थो भवतीत्यर्थः, न तु विज्ञानवादिदर्शने इव तद्गृहीतेन धूमाभासेन तस्यैवाग्न्याभासग्रहणमिति भावः ।
उक्तप्रक्रियावष्टम्भेन श्लोकस्य योजनां करोति । भूयः इति पदं व्याचष्टे व्याप्तिम् इति । पुनरपि इत्यनेन अपि शब्दस्य भिन्नक्रमत्वं द्योतितम् । धूमाभासादि इति । आदिपदग्राह्यं कथयति आदिग्रहणात् इति । नूतनम्
सोऽप्याभासो नूतनोऽपूर्वो न तु धूमजधूमवदप्रत्यग्रः । स च अधिपतेरसञ्चेत्यमानात् वह्न्याभासात् बीजाभासादेव वा भवेत् तत एव जनितुं शक्नोति नान्यतः । शकि लिङ् । स चाभासस्तेषु तेषु प्रमातृष्वेक एव, अनेकत्वे न तु युज्यते एवैतदित्याशयः ।
यतश्च स एकोऽधिपतिश्च वह्न्याभासो धूमकारणम्, ततो धूमाभासोऽस्यैवाग्न्याभासस्याव्यभिचरितं कार्यं लिङ्गं योगिकृतत्वाभावे निश्चिते सति, - - इति तस्मात् कार्यात् सोऽनुमीयते यतः परोक्षोऽसावधिपतित्वादेव ॥ १२ ॥
इति व्याचष्टे अपूर्वः इति । तत्कालमेवाग्नेरुत्थितत्वादिति भावः ।
धूमध्वजवत् - वह्निशान्त्यनन्तरमपि गोपालघटिकान्तरवर्तिधूमोत्थितधूमवत्, अप्रत्यग्रः - चिरकालीनः, स च - सः धूमाभासश्च, अधिपतेः इति कारणवाचकं सुगमत्वेन निगदव्याख्यातम् । परोक्षात् इति व्याचष्टे असञ्चेत्यमानात् इति । वह्न्याभासात् इत्यपि निगदव्याख्यातम् । अत्रापि आदिशब्दग्राह्यं वस्त्वाह बीजाभासादेव वा इति । भवेत् इति व्याचष्टे तत एव इति । तत एव - वह्न्याभासादेव । तत्तत्प्रमात्रेक इति भिन्नीकृत्य व्याचष्टे स चाभासः इति नन्वनेकेष्वनेक एव कथं न भवेदित्यपेक्षायां भावं कथयति अनेकत्वे इति । एतत् - एषः वह्न्याभासः, इत्याशयः, अयम्भाव इत्यर्थः । वहिःस्थं वस्तु सर्वप्रमातृसाधारणमेवेति तात्पर्यम् । एतेनास्य श्लोकस्य व्याख्या सम्पन्ना ।
तथा च योजना । भूयोऽपि न केवलं व्याप्तिग्रहणकाल एव अपि तु अनुमानकालेऽपि, नूतनम् - अग्न्यादेः सह उत्थितं धूमाभासादि, अधिपतेः - कारण भूतात्, परोक्षात् - अदृश्यत्वेन परोक्षतया स्थितात्, दिवा हि पर्वते धूमाभास एव प्रत्यक्षो न अग्न्याभासः । एवं विधात् तत्तत्प्रमात्रेकवह्नयाभासादितः भवेत् - भवितुं शक्नोति इति ।
कार्यमव्यभिचार्यस्य लिङ्गम् इति उत्तरश्लोकखण्डम् युक्तत्वेन इहेव योजयति । कार्यं लिङ्गम् - कार्यरूपं लिङ्गम्, कारणत्वेन गमकत्वात् । पूर्वोक्तं वस्तु शेषत्वेन अत्रापि अध्याहाररीत्या योजयति योगि इति । इति - अतः कारणात्, तस्मात् - धूमाभासरूपात्, सः अग्न्याभासः, कुतोऽनुमीयते इत्यत आह यतः इति । यतः असौ परोक्षो भवति । परोक्षस्य हि अनुमेयत्वमेव युक्तम् । कुतः परोक्षत्वादनुमीयत इत्यत आह अधिपतित्वादेव, यतोऽसौ कारणं भवतीत्यर्थः । अन्यथा सर्वेषां परोक्षवस्तूनां तेन धूमाभासेन अनुमानमापतेदिति भावः ॥ १२ ॥
नन्वेवं गोपालघटिकान्तरालचिरोषितनिर्गतादपि धूमाभासात् स्यात् वह्न्याभासानुमानम्, - इत्याशङ्क्याह
कार्यमव्यभिचार्यस्य लिङ्गमन्यप्रमातृगात् । तदाभासस्तदाभासादेव त्वधिपतेः परः ॥ १३ ॥
परो नूतनादन्यो यो धूमाभासः स धूमाभासादेव प्रमात्रन्तरवर्तिनोऽधिपतिरूपात् परोक्षात्, - इति तथाभूतात् धूमाभासात् कथमकारणभूतो
अथ त्रयोदशस्य श्लोकस्यावतरणिकां करोति ननु इति ।
अत्र टीका -
गोपलघटिकायाम् - गोपालैः शीतकाले गवां स्थापनार्थं रचिते विपुलरन्द्ररहिते कुङीरविशेषे, चिरम् - बहुकालम्, उषितः निर्गमोपयोगिविपुलरन्ध्ररहितत्वेन अग्निनिर्वाणानन्तरमपि [अग्निनिर्वाणानन्तरमपीति यावत् स्थितः - च्।] स्थित इति यावत्, ततः तत्सूक्ष्मरन्ध्रान्निर्गतश्च तस्मात् । एकत्र सञ्चीयमानधूमराशिमध्यादुत्थितात् धूमात् इति यावत् ।
एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे कार्यम् इति ।
अत्र टीका : -
लिङ्गम् इत्यन्तं पूर्वश्लोकेन योजितम् इह तु अन्य इत्यादि व्याचष्टे । परः इति । तत्रापि परः इति पदं व्याचष्टे नूतनात् इति ।
नूतनादन्यः - साक्षादग्नेरुत्थितादन्यः, अप्रत्यग्र इति यावत् ।
धूमाभासादेव - अग्निनिर्वाणानन्तरमपि गोपालघटिकान्तरालस्थितधूमाभासराशेरेव, नत्वग्न्याभासात् । प्रमात्रन्तरवर्तिनः - गोपालघटिकान्तरालवर्तिप्रमातृसन्तानगात्, तेषामेतदनुभवात्, अधिपतिरूपात् - निर्गम्यमानस्य धूमस्य कारणभूतात् धूमचयात्, इति -
वह्न्याभासोऽनुमीयताम् इत्यभिप्रायशेषः । कुशलाश्च लक्षयन्त्येव विवेकम्, अस्यार्थस्यानुमानिकबहुतरव्यवहारोपयोगिनो यत्नेन व्युत्पत्तिः कार्या, - इत्याशयेन नूतनमिति यत्सूचितं [यदेव सूचितम् - क्। ष्। ष्।] तदेव व्यवच्छेद्यद्वारेण स्फुटीकृतम् ॥ १३ ॥
ननु चैवं धूमाभासो वह्न्याभासात्, - इत्यङ्गीकृतं चेत् तर्हि चेतनस्यैव कर्तृत्वम्, - इति यदुक्तं तत् कथं ? तथाहि बीजे सत्यङ्कुरो भवति इति यदेतत् दृष्टं धूमाग्निवदेव तत् कथमनादरास्पदम् ? इत्याशङ्क्याह
अस्मिन् सतीदमस्तीति कार्यकारणतापि या ।
साप्यपेक्षाविहीनानां जडानां नोपपद्यते ॥ १४ ॥
अतः कारणात्, अभिप्रायः, न तु वाच्याऽर्थः । कुशलाश्च इति ।
इत्याशयेन - अनेनाभिप्रायेण, विवेकं लक्षयन्त्येव । इति किमिति ? अस्यार्थस्य इत्यादि । अस्यार्थस्य, अनुमानस्येत्यर्थः । अस्य वाक्ययस्य नूतनपदव्यावर्त्यप्रदर्शकत्वं कथयति नूतनम् इति
- अनेन पदेन यत्सूचितं तदेव नत्वन्यत्किञ्चित् वस्तु ।
व्यवच्छेद्यस्य यद्दर्शनं तस्य द्वारेण, न तु साक्षात्, स्फुटीकृतम् - प्रकटीकृतम् ।
एवमत्र योजना । परः - नूतनादन्यः, तदाभासः - गोपालघटिकान्तरालचिरोषितनिर्गतधूमाभासः, अन्यप्रमातृगात् - गोपालघटिकान्तर्वर्ति प्रमातृसन्तानवर्तिनः, तदनुभवगोचरात् इति यावत्, अधिपतेः, अधिपतेः - कारणभूतात्, तदाभासादेव - गोपालघटिकान्तर्वर्तिधूमराशिरूपादाभासादेव भवन् न तु वह्न्याभासात्, तस्य शान्तेः, इति न ततः वह्न्याभासानुमानम् ॥ १३ ॥
अथ चतुर्दशस्य श्लोकस्यावतरणिकां करोति ननु इति ।
अत्र टीका : -
कथम् इति न युक्तमित्यर्थः । कुत इत्यपेक्षायां समर्थनमुपक्रमते तथाहि इति । अनादरास्पदम् - अनादरविषयः ।
एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे अस्मिन् इति ।
एक एव भावस्तावत् न कार्यकारणभावः, भावद्वयमपि च न युगपद्भावि कार्यकारणरूपं घटपटवत्, क्रमभाव्यपि नानियतक्रमकं नीलपीतादिज्ञानवत्, नियतक्रमिकत्वेऽपि न पूर्वभावि कार्यमुत्तरकाल भावि च कारणम्, - इत्येवं नियतपूर्वभावं कारणं नियतपरभावं च कार्यम्, - इति परस्य तावन्मतम् । तत्र स्वरूपादनधिका चेत् पूर्वता परता च तत् भावद्वयमात्रं स च स च, - इति । चार्थोऽपि वा न कश्चित् तस्याप्यपेक्षारूपत्वात् स स इत्येव हि स्यात् । अथ पूर्वता नाम प्रयोजकसत्ताकत्वं परता च प्रयोज्यसत्ताकत्वं तर्हि बीजस्याङ्कुरप्रयोक्ती सत्ता अङ्कुरविश्रान्ता अङ्कुरान्तर्भावमात्मन्यानयति,
अत्र टीका : -
श्लोकं व्याख्यातुं प्रक्रियां करोति एक एव इति । तावत् इति, नात्र कस्यापि विप्रतिपत्तिरिति भावः । ननु तर्हि भावद्वयम् एव कार्यकारणभावो भवत्वित्यत आह भावद्वयमपि इति ।
युगपद्भावि - युगपद्भवनशीलम् । ननु तर्हि, क्रममाव्येव भवतु इत्यत आह क्रम इति । अनियतः क्रमः यस्य द्वयस्य तादृशम् ।
ननु नियतक्रमत्वमप्यत्रास्तु ततः किमित्यत आह नियत इति । इत्येवं न भवतीति योजना । तर्हि किमस्तीत्यत आह नियत इति । नियत इत्यत्र अनन्यथा सिद्धत्वमपि योजनीयम्, अन्यथा तन्तुरूपस्यापि पटं प्रतिकारणत्वं स्यात् । परस्य - बाह्यस्य तार्किकादेः । ननु भवत्वेतन्मतं तस्य ततः किमित्यत आह तत्र इति । स्वरूपात् - कार्यकारणयोः स्वभावात्, परता - पश्चाद्भाविता, भावद्वयमात्रम् - कार्यकारणरूपम्, न तु भावशब्दप्रवेशोऽत्रयुक्त इति भावः । भावद्वयमेव समुच्चयेन दर्शयति स च स च इति । चाऽर्थोऽपि - समुच्चयोऽपि, कुतः इत्यपेक्षायामाह तस्य इति । तस्य - समुच्चयस्य, समुच्चयो हि कांअचित् क्रियां गुणादिकं वा अपेक्ष्य भवति, न स्वतन्त्रः ।
पुनस्तस्य भावद्वयस्य कथं प्रयोगः स्यादित्यत आह स स इति ।
शिष्यप्रश्नमाशङ्कते अथ इति । प्रयोजिका - अन्यस्य सम्पादयित्री, सत्ता यस्य तादृशम् । प्रयोज्या - सम्पाद्या सत्ता यस्य तादृशम् ।
शङ्किते प्रश्ने उत्तरं कथयति तर्हि इति । अङ्कुरे अन्तर्भावः अङ्कुरान्तर्भावः, अङ्कुररूपत्वमिति यावत् यो हि यत्र विश्रान्तो भवति स तद्रूप एव भवति घटे विश्रान्ता मृदिव घटरूपा इति भावः । ननु अङ्कुरस्य तत्राभाव एवास्तीत्यत
अङ्कुराभावे प्रयोक्तृत्वमात्रं स्यात् तदपि न किञ्चित् अन्यापेक्षत्वात् तस्य । एवं प्रयोज्यसत्ताकेऽपि वक्तव्यम् । एवं न केवलं [वक्तव्यम्, - न केवलम् - क्। ष्। ष्।] भावमात्रमेव कार्यकारणता इत्यादयः पक्षा नोपपन्ना, यावत् अस्मिन् सति इति भूतविभक्त्या सप्तम्या प्रयोजकसत्ताकत्वम्, इदमस्ति इति भाव्यमानविभक्त्या प्रयोज्यसत्ताकत्वम्, - इत्येवंरूपापि या कार्यकारणतासापि नोपपद्यते प्रमाणेन न सम्भवति जडानाम्, अन्योन्यापेक्षा हि अत्र जीवितं सा च जडानां न सम्भवति ॥ १४ ॥
आह अङ्कुराभावे इति । प्रयोक्तृत्वमात्रम् - स्वरूपे लीनं प्रयोजकतामात्रम्, तदपि - प्रयोक्तृत्वमात्रमपि, न निर्विषयस्य सत्ता युक्तेति भावः । कुत इत्यपेक्षायां स्वयमपि हेतुं कथयति अन्य इति । अन्यापेक्षत्वात् - प्रयोज्यापेक्षत्वात् । तस्य प्रयोक्तृत्वस्य ।
प्रयोक्तरि प्रोक्तं न्यायं प्रयोज्येऽप्यतिदिशति एवम् इति । एवमति - देशयोजनम् [सति योजने - च्।] अङ्कुरस्य बीजप्रयोज्या सत्ता बीजविश्रान्ता बीजान्तर्भावमात्मन्यानयति, बीजाभावे प्रयोज्यतामात्रं स्यात्, तदपि च न किञ्चित्, अन्यापेक्षत्वात्तस्येति ।
उक्तप्रक्रियाऽवष्टम्भेन सूत्रे योजनां करोति एवम् इति । एवं सति, इत्यादयः पक्षाः न केवलं [इत्यादयः पक्षाः केवलं नोपपन्ना न भवन्ति - च्।] नोपपन्नाः भवन्ति । इत्यादयः के ? कार्यकारणता एकं भावमात्रम् - तद्वाच्यः केवलो भावो भवतीति । एतेन सापि इत्यत्र स्थितस्य अपिशब्दस्य अनुक्रमसमुच्चयद्योतकत्वं सूचितम् । पुनः किमन्यदप्यनुपपन्नं भवतीत्यत आह यावत् इति भूतविभक्त्या
- सिद्धवाचकविभक्तिरूपया सप्तम्या ङि प्रत्ययरूपया, भाव्यमानविभक्त्या - साध्यवाचिन्या तिप् विभक्त्या । नोपपद्यते इति व्याचष्टे प्रमाणेन न सम्भवति इति ।
केषामित्यपेक्षायामाह जडानाम् इति कुतो न सम्भवतीत्यपेक्षायाम् अपेक्षाविहीनानाम् इति विशेषणं हेतुत्वेन व्याचष्टे अन्योन्य इति । अत्र - अस्यां कार्यकारणतायाम्, न सम्भवति इति । न हि जडानामपेक्षा युक्तेति भावः ।
एवमत्र योजना । अत्र अस्मिन्कारणरूपे मृदाख्ये वस्तुनि सति, इदम्
कथम् ? इति चेत् उच्यते
न हि स्वात्मैकनिष्ठानामनुसन्धानवर्जिनाम् ।
सदसत्तापदेऽप्येष सप्तम्यर्थः प्रकल्प्यते ॥ १५ ॥
जडाः किलान्योन्यरूपमनुसन्धातुमप्रभविष्णवः, अन्योन्यानुसन्धानरूपत्वं जडविरुद्धेन चैतन्येन व्याप्तम्, अनुसन्धानं चापेक्षा चैतन्यस्वरूपमेव, अन्यत्र तु सोपचरिता ।
अतोऽनुसन्धानविहीनत्वाज्जडो भावः स्वात्ममात्रविश्रान्तिसन्तोषसङ्कुचितशरीरः कथं परत्र
कार्यरूप घटाख्यं वस्तु सम्भवति, इति - एवम्, या कार्यकारणता भवति सापि अपेक्षाविहीनानां जडानां नोपपद्यते इति । अपेक्षाविहीनानाम् इति हेतुगर्भं विशेषणम् । अपि शब्दादन्यैर्वादिभिर्यानि कार्यकारणलक्षणानि प्रोक्तानि तान्यपि नोपपद्यन्ते इति ज्ञेयम् ॥ १४ ॥
अथ पञ्चदशस्य श्लोकस्यावतरणिकां करोति कथम् इति ।
स्पष्टम् । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे न हि इति ।
अत्र टीका : -
अनुसन्धानवर्जिनाम् इति व्याचष्टे, जडाः इति ।
अन्योन्यरूपम् - परस्परस्य स्वरूपम्, अनुसन्धातुम् - अनुसन्धानविषयीकर्तुम्, अप्रभविष्णवः - असमर्थाः, न हि घटः पटस्वरूपमनुसन्धातुं शक्तः स वा तस्येति भावः ।
पुनः केषामनुसन्धाने प्रभविष्णुत्वमित्यत आह अन्योन्य इति ।
अन्योन्यस्मिन्ननुसन्धानम् - अन्योन्यानुसन्धानम्, तद्रूपं यस्य यस्य भावः तत्त्वम् । व्याप्तम् इति, यत्र यत्र हि अनुसन्धानं तत्र तत्र चैतन्यम्, अन्यथा घटस्यापि पटविषयानुसन्धानप्रसङ्गात् ।
कुतो व्याप्तमित्यत आह अनुसन्धानम् इति । अपेक्षा - अपेक्षारूपम्, च शब्दो हि शब्दार्थे । ननु घटो मृदमपक्षते इति व्यवहारः कथं दृश्यते इत्यत आह अन्यत्र इति, अन्यत्र - जडे, सा - अपेक्षा, उपचरिता - उपचारेण सिधा, अग्निर्माणवक इतिवदितिभावः ।
एतदवष्टम्भेन स्वात्मैकनिष्ठानाम् इति व्याचष्टे अतः इति ।
भावः - नीलादि वस्तु, स्वात्ममात्रे - भावरूपे केवले स्वस्वरूपे, या विश्रान्तिः - अवस्थानम्, तया यः सन्तोषः - अन्यत्र प्रसारचाञ्चल्यराहित्यम्, तेन सङ्कुचितं शरीरं यस्य तादृशः ।
परत्र - स्वव्यतिरिक्ते वस्तुनि, प्रसरेत् - अनुसन्धानरूपं प्रकृष्टं सञ्चारं भजेत् ।
प्रसरेत् । ततश्च यदि बीजं सदङ्कुरोऽसन् अथापि विपर्यय उभयमपि वा सत् यदि वासत्, अथापि एकं सोपाख्यमन्यत् निरुपाख्यम्, द्वयमपि वा सोपाख्यं निरुपाख्यं वा, तथापि प्रातिपदिकार्थमात्रं धर्मान्तरेण समुच्चयादिनाप्यनालिङ्गितमवतिष्ठते, तस्य समस्तस्यापेक्षारूपत्वेन चैतन्यविश्रान्तत्वात् ॥ १५ ॥
नहि सन्तुष्टस्य सञ्चारो युक्त इति भावः । फलितं कथयन्नुत्तरार्धं व्याचष्टे ततश्च इति । तत्रापि सदसत्तापदे इति व्याचष्टे यदि इति । विपर्ययः - बीजमसत् अङ्कुरः सन्नित्येवंरूपव्यत्यासः । उभयम् - बीजमङ्कुरश्च, एकम् - बीजम् अङ्कुरो वा एकं वस्तु, अन्यत् - अङ्कुरो वा बीजं वा अन्यवस्तु ।
सोपाख्यम् इति, सत् पदव्याख्या, सत एव हि उपाख्या सम्भवति ।
निरूपाख्यम् इति असत्ता पदव्याख्या । सप्तम्यर्थः इति व्याचष्टे तथापि इति । प्रातिपदिकार्थमात्रम् - भावस्वरूपमात्रम् । आदि शब्देन अन्यधर्मग्रहणम् । न प्रकल्प्यते इत्यस्य सूचनया अर्थं करोति अनालिङ्गितमवतिष्ठते इति, अपेक्षामूलत्वेन न स्पृश्यते इत्यर्थः । समुच्चयादिनापि इति, अपि शब्देन सप्तम्यर्थस्य प्रयोजकत्वाख्यस्य धर्मस्य अत्र कथापि नास्तीति सूचितम् । कुत इत्यपेक्षायामाह तस्य इति । तस्य - समुच्चयादिरूपस्य ।
एवमत्र सङ्क्षिप्तार्थः । हि - यस्मात्, अनुसन्धानवर्जितानाम् - अन्योन्यविषयानुसन्धानरहितानाम्, अत एव स्वात्ममात्रे तिष्ठन्तीति तादृशानाम्, अर्थात् जडानां बीजाङ्कुरादीनाम्, सत्तापदेऽपि, अपिशब्दोऽभिव्याप्तौ, मतभेदेन सत्ताविषयत्वे असत्ताविषयत्वेऽपि अङ्गीकृते सति, एषः - पूर्वस्मिन् श्लोके अस्मिन् इत्यनेनोक्तः, सप्तम्यर्थः - प्रयोजकत्वम्, न कल्प्यते - न युज्यते, अनुसन्धानरूपापेक्षामूलत्वात् तस्याश्च चेतनमात्रे युक्तत्वात् ।
सप्तम्यर्थः उपलक्षणम् अस्तीति तिङर्थस्यापि, प्रयोज्यत्वमपि अचेतनेषु न युज्यत एवेति । अथवा उत्तरश्लोके तिङ्वाच्यायाः क्रियायाः अचेतनेषु अयोग्यतां साक्षादेव कथयति ॥ १५ ॥
यस्मादचेतनेषु नापेक्षोपपद्यते
अत एव विभक्त्यर्थः प्रमात्रेकसमाश्रयः ।
क्रियाकारकभावाख्यो युक्तो भावसमन्वयः ॥ १६ ॥
सप्तमीरूपाया विभक्तेरन्यस्या अपि वा योऽर्थः क्रियाकारकभाव लक्षणः स एव तावद्भावानां समन्वयो नान्यः शुष्कः कश्चित् । स च यदि स्वतन्त्रे चिद्रूपे भावद्वयं विश्राम्यति तदोपपद्यते, अन्यथा तु न कथञ्चित् । तथा हि विकल्पेनापि असौ व्यवह्रियमाणो न वस्तुनिष्ठतयोपपद्यते,
अथ षोडशस्य श्लोकस्यावतरणिकां करोति यस्मात् इति ।
स्पष्टम् । श्लोकमुपन्यस्य व्याचष्टे अत एव इति ।
अत्र टीका : -
विभक्त्यर्थः इति व्याचष्टे सप्तमी इति । अन्यस्याः - तिङ्रूपायाः द्वितीयादिरूपायाश्च । क्रिया इति पदं व्याचष्टे क्रिया इति । क्रियाकारकभावलक्षणः - क्रियाकारकभावस्वरूपः । भावसमन्वयः इति विगृह्णाति भावानाम् इति, शुष्कः - निःसारः, संयोगादिरूप इति यावत् । स च
- प्रोक्तः समन्वयश्च, भावद्वयम् - समन्वयाश्रयं वस्तुद्वयम्, चिद्रूपे विश्राम्यति, चिद्रूपेण गृहीतं भवतीत्यर्थः ।
प्रमात्रेकसमाश्रयः इति व्याचष्टे स्वतन्त्रे इति । युक्तः इति व्याचष्टे उपपद्यते इति । अन्यथा - विश्रान्त्यभावे, एतेन सर्वं वाक्यं सावधारणम् इति न्यायेन प्रमात्रेकसमाश्रय एव युक्तः इति योजनीयम् इति सूचितम् । पूर्वश्लोकस्य हेतुद्योतकम् अत एव इति सुगमत्वेन न व्याख्यातम् । अत्र समर्थनमुपक्रमते तथाहि इति ।
विकल्पेन व्यवह्रियमाणोऽपि - प्रमात्रभावेऽपि यथा तथा विकल्पविषयीभूतः, असौ - क्रियादिसमन्वयः, वस्तुनिष्ठतया - वस्तुविश्रान्ततया, नोपपद्यते, वस्तुविश्रान्तो न भवतीति यावत् ।
ननु विकल्पस्य स्वयं वस्तुनिष्ठत्वं नास्ति इति कथं तेन व्यवह्रियमाणस्य
वस्त्वनुसरणप्राणो हि विकल्पोऽनुभवानुसारितयैव भवति, सा चेह नास्ति वस्त्वप्रभवत्वेन [वस्तुप्रभवत्वेन - क्। ष्। ष्।], वस्त्वनुसारी हि अनुभवो, वस्तु च स्वात्मनिष्ठम् - इत्युक्तम् । तस्मात् बीजे सति अङ्कुरो, वह्नौ सति धूमः, - इति च स्वतन्त्रचिद्रूपप्रमातृविश्रान्तत्वे सर्वमेतद्युज्यते नान्यथा, इति ॥ १६ ॥
ननु प्रयोज्यप्रयोजकसत्ताकतालक्षणापेक्षा [प्रयोज्यप्रयोजकसत्ताकत्वलक्षणा - क्। ष्। ष्।] यदि स्वात्मैकनिष्ठत्वे
समन्वयस्य तद्भवेदित्यत आह - वस्त्वनुसरण इति । हि - यस्मात्, वस्त्वनुसरणप्राणः - वस्त्वनुसरणेन लब्धसत्ताकः, वस्त्वनुसरीति यावत् । विकल्पः अनुभवानुसारितयैव - केवलमनुभवानुसारित्वेनैव । नन्वत्रापि अनुभवानुसारेण वस्तुनिष्ठा अस्तु इत्यत आह सा च इति । सा च - अनुभवानुसारिता च, इह
- क्रियासमन्वयविकल्पे । कुत इत्यपेक्षायामाह वस्त्वप्रभवत्वेन इति । वस्तुजे एव विकल्पे अनुभवानुसारित्वं भवतीति भावः । ननु कुतो हेतोः वस्त्वप्रभवत्वेन अनुभवानुसारिता इह नास्ति इत्यत आह वस्त्वनुसारी हि इति । हि - यस्मात्, अनुभवः वस्त्वनुसारी भवति ।
नन्वत्र वस्तु अस्त्येवेत्यत आह वस्तु च इति । वस्तु च - समन्वयाश्रयं वस्तु च, स्वात्मनिष्ठम् - स्वात्ममात्रनिष्ठम्, प्रमातारं विना स्वविषयानुभवोत्पादेऽसमर्थमिति यावत्, भवति, अतः सतोऽपि तस्य असत्कल्पत्वमेवेति भावः । फलितमाह तस्मात् इति ।
एवमत्र श्लोके योजना । यतो जडभावानां स्वात्ममात्रनिष्ठानां सप्तम्यर्थः नोपपद्यते अत एव हेतोः क्रियाकारकभावाख्यः - क्रियाकारकभावनामकः, [ - - क्रियानामकः - च्।] विभक्त्यर्थः - समस्तसुप्तिङादिवाच्यभूतः, भावसमन्वयः - जडभावाश्रयः सम्बन्धः, प्रमात्रेकाश्रय एव - चेतनैकविश्रान्तः सन्नेव युक्तो भवति नान्यथा ।
प्रमात्रगृहीतं हि जडवस्तु सर्वथाऽसत्कल्पमेवेति भावः । इति ॥ १६ ॥
अथ सप्तदशश्लोकस्यावतरणिकां करोति ननु इति
अत्र टीका : -
प्रयोज्या प्रयोजिका च सत्ता ययोः कार्यकारणयोः तौ प्रयोज्यप्रयोजकसत्ताकौ तयोर्भावस्तत्ता, तत् (सा ?) लक्षणम् - स्वरूपं यस्याः सा । स्वात्मैकनिष्ठत्वे -
नोपपद्यते, तर्हि कार्यकारणयोस्तादात्म्यवादिनां साङ्ख्यानां मते सा सम्भवत्येव, तत् किं चैतन्यविजृम्भात्मककर्तृवादसमर्थनेन ? इत्याशङ्क्याह
परस्परस्वभावत्वे कार्यकारणयोरपि ।
एकत्वमेव भेदे हि नैवान्योन्यस्वरूपता ॥ १७ ॥
यदि बीजस्याङ्कुरः स्वभावस्तर्हि अङ्कुर एव न बीजं स्यात् किञ्चित् विपर्ययो वा स्यात्, - इति किं कारणं किं वा कार्यम्; अथ अन्यद्विजमङ्कुरोऽन्यः, तर्हि न परस्परात्मकत्वम्, भेदाभेदौ हि एकदैकविषयौ विरुद्धावेव ॥ १७ ॥
नन्वेवमपि बीजमङ्कुरादिविचित्रमवभातं दीर्घदीर्घपरामर्शशालिभिः स्रोतोवदविच्छिन्नस्वरूपमेव निर्बाधं प्रत्यवमृश्यते । तथा च क्व गतं बीजम्, - इति प्रश्ने वक्तारो भवन्ति, न कुत्रचित् गतमङ्कुरात्मना
प्रत्येकं स्वात्मैकमात्रविश्रान्तत्वे सा - अपेक्षा, सम्भवत्येव इति, तादात्म्य निष्ठत्वेन स्वात्मैकनिष्ठत्वाभावादिति भावः । तत् ततः कारणात्, चैतन्यविजृम्भात्मकः - चैतन्यविलासरूपः यः कर्तृवादः तस्य समर्थनेन, साधनेनेत्यर्थः । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे परस्पर इति ।
अत्र टीका : -
विपर्ययः - बीजमेव नाङ्कुरः किञ्चिदित्यैवं रूपः । कुतो न परस्परात्मकत्वमित्यत आह भेदाऽभेदौ हि इति ।
एकदेशविषयौ - एकदेशगतौ ॥ १७ ॥
अथाष्टादशस्य श्लोकस्यावतरणिकां करोति नन्वेवमपि इति ।
अत्र टीका : -
दीर्घदीर्घः यः परामर्शः तेन शालते इति तादृशैः, न तु बीजपरामर्शनिष्ठैः कर्तृभिरित्यर्थः । निर्बाधम् - औत्तरकालिकबाधारहितम्, प्रत्यवमृश्यते - परामर्शविषयतां नीयते । प्रत्यवमर्शमेव दशयति तथा च इति, वक्तारः - इति विशेष्यस्य [विशेषणस्य - च्।] दीर्घदीर्घपरामर्शशालिनः इति विशेषणत्वेन [विशेष्यत्वेन - च्।] योजनीयम् । किं वक्तारो भवन्तीत्यपेक्षायामाह न कुत्र इति । तत् - बीजम् ।
वर्तते, अङ्कुरीभूतमयमङ्कुरस्तत् इति । एवं प्रधानं महदादिधरान्तीभूतं यावद्विततीभूतमनन्तसर्गप्रलय- परम्परात्मतां प्राप्तम्, - इति विततग्राहिणी प्रतीतिः ।
भागाभिनिवेशवशात् तु कारणकार्यतापरिकल्पनं [कार्यकारणतापरिकल्पनम् - क्। ष्। ष्।] तस्यैव भावस्य विशसनप्रायम्, - इत्याशङ्क्याह
एकात्मनो विभेदश्च क्रिया कालक्रमानुगा ।
तथा स्यात्कर्तृतैवैवं तथापरिणमत्तया ॥ १८ ॥
इह दीर्घदर्शिना पत्यक्षानुमानागमान्यतमप्रमाण- मूलां प्रत्यभिज्ञामाश्रित्य तदेवेदं सुखदुःखमोहसाम्य- मनन्तप्रकारवैषम्यावलम्बनेन
इति शब्दः प्रमेयपरिसमाप्तौ । दृष्टान्तमुक्त्वा दार्ष्टान्तिकं कथयति एवम् इति । एवम् - तद्वत्, प्रधानम् - प्रकृतितत्त्वम्, महदादि
-
महत्तत्त्वमारभ्य, धरान्तीभूतम् - धराभावं तावत् परिणतम् । तथा यावद्विततीभूतम् - यथोचितविस्तारभावेन परिणतम् । तथा अनन्ता - अनन्तवस्तुनिष्ठत्वेन अपरिच्छिन्ना या सर्गप्रलयपरम्परा, तदात्मताम् - तद्भावम्, प्राप्तम् भवति । इति
-
एवम्, विततग्राहिणी - एकस्य प्रधानस्य विस्तीर्णतया ग्रहणकारिणी, प्रतीतिः भवति । ननु तर्हि कथं महदादीनां कारणादिभावेन भेदेन ग्रहणं दृश्यते इत्यत आह भाग इति ।
भागेषु - महदादिरूपेषु यः अभिनिवेशः भेदेन ग्रहणरूपो हठः, तस्य वशात् - सामर्थ्यात्, कारणकार्यतापरिकल्पनम् - कार्यकारणभावपरिकल्पनं भवति, तत्र प्रधानादिषु कारणतामात्रपरिकल्पनम्, महदादिषु तु कार्यकारणतामात्रपरिकल्पनमिति विभागः ।
कारणकार्यतापरिकल्पनं किम् ? तस्यैव भावस्य - प्रधानरूपस्य वस्तुनः एव, विशसनप्रायम् - सरणकल्पम्, रूपान्तरग्रहणरूपमिति यावत् । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे एकात्मनः इति ।
अत्र टीका : -
एकात्मनः इति व्याख्यातुं प्रक्रियां करोति इह इति । इह - भासमाने जगति, दीर्घदर्शिना - नत्वापातदर्शिना कर्त्रा, प्रत्यक्षानुमानागमानां मध्ये यत् अन्यतमं प्रमाणं तदेव मूलं यस्याः तादृशीम्, प्रत्यभिज्ञामाश्रित्य इति - एवम्
विश्वीभूतम्, - इति समर्थ्यते । तत्र प्रत्यभिज्ञानबलेन यदेकात्मकमेकस्वभावं तस्य यो भेदोऽन्यान्यरूपता इयमेव सा क्रियोच्यते, यतः काललक्षणेन क्रमेणानुगता, ते हि अन्यान्यस्वभावा युगपत् न भान्ति, पूर्वापरीभूतरूपतैव च क्रियोच्यते । यत एवं क्रिया तथा इति तेन प्रकारेण प्रधानादेः क्रियाविशेषलक्षणेन कर्तृतैव स्यात्, नतु शुष्कं कारणतामात्रम्, यतो हेतोः तथा इति तेन तेन महदादिप्रकारेण सततमेव क्रमिकां तथाभासनरूपां परिणामलक्षणां क्रियामाविशतः परिणमत्ता
समर्थ्यते - समर्थनाविषयतां नीयते । इति किमिति ? इदम् - अग्रे भासमानं वस्तुजातम्, तदेव सुखदुःखमोहसाम्यम् - गुणत्रयसमानतारूपम् प्रधानमेव भवति नान्यत् किञ्चित् ? इदं कीदृशम् ? अनन्तप्रकारम् - बहुप्रकारम्, यद्वैषम्यम् - महदादिरूपा विषमता, तस्य अवलम्बनेन आश्रयणेन, विश्वीभूतम् - जगद्भावेन परिणतम्, इति । उक्तप्रक्रियावष्टम्भेन एकात्मनः इति व्याचष्टे तत्र इति । तत्र - उक्ते वस्तुनि सति, प्रत्यभिज्ञाबलेन - प्रत्यक्षाद्यन्यतममूलप्रत्यभिज्ञानबलेन, एकस्वभावम् - प्रधानाख्यमेकस्वरूपम् । षष्ठीयोजनां करोति तस्य इति, विभेदः इति पदं व्याचष्टे भेदः इति पदं व्याचष्टे भेदः इति ।
अत्रापि पर्यायमाह अन्यान्य इति । सा - पूर्वसाधिता । क्रिया इति निगदव्याख्यातम् । उच्यते इति शेषत्वेन अध्याहृतम् ।
कालक्रमाऽनुगा इति हेतुगर्भविशेषणत्वेन व्याचष्टे यतः इति ।
काललक्षणेन - कालस्वरूपेण, एतेन कालक्रमः अनुगः यस्याः सेति विग्रहो दर्शितः । कथमित्यपेक्षायां समर्थनं करोति ते हि इति ।
हि - यस्मात्, ते - महदादिरूपाः । अन्ये अन्ये - भिन्नभिन्नाः । मा भान्तु ततः किम् इत्यत आह पूर्व इति । स्फुटं हि पाकक्रिया विक्लित्त्यादिभावेन पूर्वापरीभूतरूपेत भावः । पूर्वार्धं व्याख्याय उत्तरार्धं व्याख्यातुमवतरणिकां करोति यतः इति ।
एवम् - कालक्रमाऽनुगा, तथा इति व्याचष्टे तेन इति । प्रधानादेः इति शेषत्वेन अध्याहृतम् । एवम् शब्दं व्याचष्टे क्रिया इति ।
शुष्कम् - कर्तृतारहितम्, क्रियाविष्टं हि कारकं कारकमिति भावः । तथापरिणमत्तया इति व्याख्यातुं योजनां करोति यतः इति । तत्र तथा इत्यवयवं व्याचष्टे तेन इति, आदि शब्देनाऽहङ्कारादीनां ग्रहणम् । सततमेव इति योग्यतया अध्याहृतम् । परिणामक्रियाकर्तारमध्याहरति क्रमिकाम् इति ।
तथाभासनरूपाम् - महदादिभावेन स्फुरणरूपाम्, आविशतः इत्यनेन
किञ्चिद्रूपं परिवर्ज्य त्यक्त्वा व्यावर्त्यमनुवर्तनीयं [अनुवर्तयितव्यम् - क्। ष्। ष्।] च व्यवस्थाप्य निर्वर्त्यमानतृतीयरूपप्रह्वता [निवर्त्यमान - क्। ष्। ष्।] प्रधानादेस्तया हेतुभूतया ॥ १८ ॥
ननु प्रधानं परिणामक्रियायां कर्तृरूपमियता समर्थितम्, - इति को दोषो, न हि पुरुषवदस्याकर्तृत्वमिष्यते ? इत्याशङ्क्याह
अग्रे स्थितस्य प्रधानादेः इत्यस्य योजना । परिणमत्तया इत्यस्य परि इत्यवयवं व्याचष्टे परि इति । अत्रापि पर्यायमाह त्यक्त्वा इति ।
व्यावर्त्यम् - त्याज्यम्, किञ्चिद्रूपं त्यक्त्वा इति योजना । परि इत्यस्य द्वितीयमर्थमाह अनुवर्तनीयम् इति । अनुवर्तनीयम् - सिद्धतया ग्राह्यम्, व्यवस्थाप्य - विशेषेण स्थापयित्वा । णमत्ता इत्यवयवं व्याचष्टे निर्वर्त्यमान इति । निर्वर्त्यमानम् - इतः परं सम्पाद्यमानम्, तृतीयं रूपम् - व्यावर्त्यानुवर्त्यापेक्षया तृतीयभूतम्, रूपम्, तत्र प्रह्वता - प्रह्वीभावः, न्यग्भवनम्, [न्यग्भावनम् - च्।] तद्भावेन स्फुरणमिति यावत् । तृतीयायोजनं करोति तया इति । तृतीयार्थमाह हेतु इति । हेतावियं तृतीया ।
एवमत्र श्लोके योजना । च शब्दः एवार्थे, एकात्मनः - एकप्रत्यभिज्ञानवलेनैकस्वभावस्य प्रधानादेः विभेदश्च - विभेद एव, क्रिया भवति । कुतः ? यतः सा कालक्रमाऽनुगा - पूर्वापरीभूतरूपा, एकस्य विभेदश्च कालक्रमाऽनुगत्वमेवेति भावः । एवं सति तथा - तेन तेन प्रधानादेः क्रियावेशलक्षणेन प्रकारेण, प्रधानादेः कर्तृतैव स्यात् । कया हेतुभूतया ? तथापरिणमत्तया, महदादिभावेन परिणमत्वेन हेतुभूतेनेत्यर्थः । इति ॥ १८ ॥
अथैकोनविंशतिश्लोकस्यावतरणिकां करोति ननु इति ।
अत्र टीका : -
इयता - एतेन प्रपञ्चेन, अस्य - प्रधानस्य । इष्यते इति, साख्यैरिति
न च युक्तं जडस्यैवं भेदाभेदविरोधतः ।
आभासभेदादेकत्र चिदात्मनि तु युज्यते ॥ १९ ॥
एवमित्यभिन्नरूपस्य धर्मिणः सततप्रवहद्धर्मभेद- सम्भेदस्वातन्त्र्यलक्षणं [सततप्रवहद्बहुतरभेदसम्भेद - क्। ष्। ष्।] परिणमनक्रियाकर्तृकत्वं यदुक्तं तत् प्रधानादेर्न युक्तं जडत्वात्, जडो हि नाम परिनिष्ठितस्वभावः प्रमेयपदपतितः स च रूपभेदाद्भिन्नो व्यवस्थापनीयो नीलपीतादिवत्, एकस्वभाववत्त्वाच्चाभिन्नो नीलवत्, न तु स एव स्वभावो भिन्नश्चाभिन्नश्च भवितुमर्हति विधिनिषेधयोरेकत्रैकदा
कर्तृत्वेन [कर्तृत्वेनेतियोजनीयम् - च्।] योजनीयम् । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे न च इति ।
अत्र टीका : -
एवम् इत्यस्य कर्तृवाचकत्वेन व्याख्यां करोति ।
अभिन्नरूपस्य - एकरूपस्य, धर्मिणः - बीजरूपस्य, सततम् - अविच्छिन्नं यथा भवति तथा प्रवहन्तः - सञ्चरन्तः ये धर्मभेदाः - अङ्कुरादिधर्मविशेषाः, तेषां यः सम्भेदः - समवायः तेन, तद्भावेनेति यावत्, स्वातन्त्र्यलक्षणम् - स्वातन्त्र्यरूपम्, यत् परिणमनक्रियाकर्तृत्वम्, यत् शब्दाका।क्षां पूरयति तत् इति । तत् - यच्छब्दकथितं वस्तु, प्रधानादेः इति । आदिशब्देन महदादेर्ग्रहणम् । जडस्य इति विशेषणं हेतुत्वेन व्याचष्टे जडत्वात् इति । न युक्तम् इति निगदव्याख्यातम् । च शब्दस्य पादपूरणार्थत्वात् व्याख्या न कृता । कथम् इत्यपेक्षायामत्र समर्थनं करोति जडो हि इति ।
परिनिष्ठितस्वभावः - परिच्छिन्नस्वरूपः, स च - जडश्च, भिन्नो व्यवस्थापनीयः - भेदेनव्यवस्थापयितुं योग्यः । अभिन्नः इत्यपि व्यवस्थापनीयः इत्यनेन युज्यते, स एव, एक एवेत्यर्थः ।
विरोधात् । कश्चित् स्वभावो भिन्नः कश्चित् त्वभिन्नः, - इति चेत्, द्वौ तर्हि इमौ स्वभावावेकस्य स्वभावस्य भवेताम्, न चैवं युक्तं
भेदाभेदव्यवस्थैवमुच्छिन्ना सर्ववस्तुषु ।
इति न्यायात् । एवं जडस्य इदम् इति परिनिष्ठिताभासतया सर्वतः परिच्छिन्नरूपत्वेन प्रमेयपदपतितस्य नायं स्वभावभेद एकत्वे सत्युपपद्यते । यत्तु प्रमेयदशापतितं न भवति किं तु चिद्रूपतया प्रकाशपरमार्थरूपं चिदेकस्वभावं स्वच्छम्, तत्र भेदाभेदरूपतापलभ्यते; अनुभवादेव हि स्वच्छस्यादर्शादेरखण्डितस्वस्वभावस्यैव पर्वतमतङ्गजादिरूपसहस्रसम्भिन्नं वपुरुपपद्यते । न च रजतद्विचन्द्रादि यथा शुक्तिकैकचन्द्ररूपतिरोधानेन [स्वरूपतिरोधानेन - क्। ष्। ष्।] वर्तते, तथा दर्पणे पर्वतादि ।
दर्पणस्य हि तथावभासे दर्पणतैव सुतरामुन्मीलति - निर्मलोऽयमुत्कृष्टोऽयं दर्पणः इत्यभिमानात् । न हि पर्वतो बाह्यस्तत्र सङ्क्रामति स्वदेशत्यागप्रसङ्गादस्य, न
एकत्र - एकस्मिन् देशे, एकदा - एकस्मिन् काले । ननु भवेतां को दोषः इत्यत आह न च इति । कुतो न युक्तमित्यत आह भेद इति । एवम् - एकस्य स्वभावद्वयाङ्गीकारे । उपसंहारं करोति एवम् इति । इदमिति परिनिष्ठिताभासतया - इदम् इति परिच्छिन्नाभासविषयतया, सर्वतः - स्वव्यतिरिक्तेभ्यः सर्ववस्तुभ्यः । पूर्वार्धं व्याख्याय उत्तरार्धं व्याचष्टे यत्तु इति । तत्र - तस्मिन् चिदेकस्वभावे स्वच्छे, युज्यते इति व्याचष्टे उपपद्यते इति । कथं युज्यते इत्यपेक्षायां दृष्टान्तद्वारेण समर्थनं करोति अनुभवादेव इति । हि - यस्मादर्थे, सम्भिन्नम् - मिश्रीभूतम्, वपुः - स्वरूपम्, रूपतिरोधानेन - सहजस्वरूपानभिव्यक्त्या, तथा दर्पणे पर्वतादि कर्तृ रूपतिरोधानेन, न च वर्तते इति योजनीयम् । कुतो न वर्तत इत्यत आह दर्पणस्य हि इति । तथावभासे - पर्वताद्यवभासे, उन्मीलति - स्पुटीभवति, न तु तिरोधानं भजतीत्यर्थः । कुतः उन्मीलतीत्यत आह निर्मलोऽयम् इति । ननु बाह्यः पर्वत एव तत्रागत्य तिष्ठतीत्यत आह नहि इति । अस्य - पर्वतस्य, नहि परिमितस्यैकदा स्थानद्वये
चास्य पृष्ठेऽसौ भाति दर्पणानवभासप्रसङ्गात्?, न च मध्ये निबिडकठिनसप्रतिघस्वभावस्य तत्रानुप्रवेशसम्भावना- भावात्, न पश्चात् तत्रादर्शनात् दूरतयैव च भासनात्, न च तन्निपतनोत्फलितप्रत्यावृत्ताश्चाक्षुषा मयूखाः पर्वतमेव गृह्णन्ति, बिम्बप्रतिबिम्बयोरुभयोरपि पर्वतपार्श्वगतदर्पणाभासेऽवलोकनात् ।
[पार्श्वगतदर्पणावभासे - क्। ष्। ष्।] तस्मात् निर्मलतामाहात्म्यमेतत् यदनन्तावभाससम्भेदश्चैकता च ।
गिरिशिखरोपरिवर्तिनश्चैकत्रैव बोधे नगरगतपदार्थसहस्रा- भासः, - इति चिद्रूपस्यैव कर्तृत्वमुपपन्नम्, अभिन्नस्य भेदावेशसहिष्णुत्वेन क्रियाशक्त्यावेशसम्भवात् ॥ १९ ॥
अवस्थानं युक्तमिति भावः । अस्य - दर्पणस्य, असौ - पर्वतः, पृष्ठे - पृष्ठदेशे, कुतः इत्यत आह दर्पण इति । नहि दर्पणपृष्ठे स्थितं वस्तु भासते इति भावः । मध्ये - दर्पणमध्यदेशे, न च भातीति पूर्वेण सम्बन्धः । पश्चात् - दर्पणपश्चाद्भागे, तत्र - पश्चाद्भागे, पुरत एव - दर्पण पुरोभागे एव, तत्र - तस्मिन् दर्पणे यन्निपतनम् तेन उत्फलिताः उत्थिताः - अत एव प्रत्यावृत्ताश्च - प्रतीपमागताश्च । चाक्षुषाः - नेत्रसम्बन्धिनः, मयूखाः - रश्मयः, पर्वतमेव - सहजपर्वतमेव, न तु दर्पणे प्रतिबिम्बतया स्थितम् । कुतो न गृह्णन्तीत्यत आह बिम्ब इति । बिम्ब प्रतिबिम्बयोः - सहजस्य पर्वतस्य प्रतिबिम्बितस्य [प्रतिबिम्बतया - च्।] पर्वतस्य च, तत्र पार्श्वगतदर्पणाभासे इति प्रतिबिम्बे एव योजनीयम् । नहि बिम्बं पर्वतनिकटस्थदर्पणे दृश्यते, स्वप्राधान्येन तस्य दर्शनात् ।
फलितमाह तस्मात् इति । एतत्किमित्यत आह अनन्तावभाससम्भेदः
- अनन्तावभासयोगित्वम् । एकता च - एकत्वञ्च । एतद्द्द्व्यमित्यर्थः ।
ननु दर्पणस्य निर्मलत्वेऽपि चेतनत्वं नास्ति, तथा प्रतिबिम्बाद् भेदेन स्फुरणञ्च दृश्यते इति कथमस्य दृष्टान्तत्वं युक्तमित्यत आह गिरि इति । गिरिशिखरोपरिवर्तिनः - गिरिशिखरस्थपुरुषसम्बन्धिनः, नगरगतपदार्थसहस्रा- भासः - नगरगतपदार्थसहस्रज्ञानम्, तद्भावासादनमिति यावत् ।
एवमत्र योजना । एवम् - पूर्वोक्तं परिणामक्रियाकर्तृत्वम्, [परिणमनक्रियाकर्तृत्वं तत् यच्छब्दाका।क्षाम् - च्।] जडस्य - प्रधानस्य, न युक्तम्, कुतः ? भेदाभेदविरोधतः - जडस्य भेदाभेदौ अयुक्तावेव, तु -
नन्वेतावता विज्ञानमेव ब्रह्मरूपमिमां विश्वरूपतावैचित्री परिगृह्णातु किमीश्वरताकल्पनेन [किमीश्वरतापरिकल्पनया - क्। ष्। ष्।]
वास्तवेऽपि चिदेकत्वे न स्यादाभासभिन्नयोः ।
चिकीर्षालक्षणैकत्वपरामर्श विना क्रिया ॥ २० ॥
चिद्रूपस्यैकत्वं यदि वास्तवं भेदः पुनरयमविद्योपप्लवात्, - इत्युच्यते [इत्युच्यते कस्यायम् - क्। ष्। ष्।] तदा कस्यायमविद्योपप्लवः, - इति न [कस्यायमविद्योपप्लव इति न सङ्गच्छते - क्। ष्। ष्।] सङ्गच्छते
व्यतिरेके, तत् एकत्र चिदात्मनि युज्यते, कुतः ? आभासभेदात्, अतिनिर्मलत्वेन आभासभेदसहिष्णुत्वादिति भावः । इति ॥ १९ ॥
अथ विंशस्य श्लोकस्यावतरणिकां नन्वेतावता इति ।
अत्र टीका : -
एतावता - उक्तेन प्रपञ्चेन, विज्ञानम् - निर्विमर्शः प्रकाशः, ब्रह्मरूपम्,
विज्ञानं ब्रह्म
इति श्रुतेरिति भावः । इमाम् - पुरोभासमानाम्, ईश्वरताकल्पनेन - विमर्शरूपैश्वर्यविकल्पनेन, इत्याशङ्क्य - वेदान्त्युक्तमेतदाशङ्काविषयतां नीत्वा । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे वास्तवेऽपि इति ।
अत्र टीका : -
श्लोकं व्याख्यातुं प्रक्रियां करोति चिद्रूपस्य इति ।
वास्तवम् - सहजम्, पुनः शब्दः पक्षान्तरे, अयम् - भासमानभावरूपः, अविद्यया - उपप्लवात्मया कृतादुपप्लवाद्धेतोः, उच्यते, वेदान्तिभिरिति भावः । तथा च श्रूतिः ।
एकमेवाद्वितीयं ब्रह्म इति । तथा - इन्द्रोमायाभिः पुरुरूप ईयते
इति च । यदीत्यस्याकाङ्क्षां पूरयति तदा इति । न सङ्गच्छते - न युज्यते ।
ब्रह्मणो हि विद्यैकरूपस्य कथमविद्यारूपता, न चान्यः कश्चिदस्ति वस्तुतो जीवादिर्यस्याविद्या भवेत् । अनिर्वाच्येयमविद्या, - इति चेत्, कस्य अनिर्वाच्या, - इति न विद्मः; स्वरूपेण च भाति, न चानिर्वाच्या, - इति किमेतत् ?; युक्त्या नोपपद्यते, - इति चेत् संवेदतिरस्कारिणी [संवेदनतिरस्कारिणी - क्। ष्। ष्।] का खलु युक्तिर्नाम, अनुपपत्तिश्च भासमानस्य कान्या भविष्यति ।
सद्रूपमेव ब्रह्माभिन्नं चकास्त्यविकल्पके, [चकास्त्यविकल्पेन - क्। ष्। ष्।] विकल्पबलात्तौ भेदोऽयम्, - इति चेत्, कस्यायं विकल्पनव्यापारो नाम ? ब्रह्मणश्चेत्, अविद्यायोगो न च अन्योऽस्ति; अविकल्पकं च सत्यं विकल्पकमसत्यम्, - इति कुतो विभागो भासमानत्वस्याविशेषात् । भासमानोऽपि भेदो
ब्रह्मणः - व्यापकस्य चित्तत्त्वस्य, विद्यैकरूपस्य - ज्ञानैकरूपस्य, तथा च श्रूतिः ।
सत्यं ज्ञानमनन्तं ब्रह्म
इति । न हि प्रकाशस्य तमोरूपत्वं युक्तमिति भावः । यस्य - यस्य जीवादेः, अनिर्वाच्या - एतदाश्रितेति वक्तुमशक्या, किमेतत्, न किञ्चिदेतदिति भावः । यो हि भाति स वक्तुमपि शक्यते इति भावः ।
संवेदतिरस्कारिणी - अनुभवापह्नवकारिणी । नन्वत्रानुपपत्तिरस्ति इत्यत आह अनुपपत्तिश्च इति । अन्या - भासमानस्वरूपविरुद्धा, सद्रूपम् - तन्मात्रस्वरूपम्, अभिन्नम् सजातीयविजातीयस्वगत- भेदरहितम्, अविकल्पके - निर्विकल्पावस्थायाम्, विकल्पनव्यापारः
- विकल्पाख्यो व्यापारः, अविद्यायोग इति यावत्, तदा प्राप्त इति शेषः ।
तदा अविद्यायोगः प्राप्तः, विकल्पस्य अविद्यारूपत्वात् । नन्वन्यस्य भवतु इत्यत आह न च इति । अन्यः - ब्रह्मव्यतिरिक्तः कोऽपि, कुतः - कस्माद्धेतोरागतः । नन्वविकल्पके अन्यथा भासमानत्वं विकल्पेत्वन्यथा इति तत्कृतोऽयं सत्यासत्यविभागः इत्यत आह भासमानत्वस्य इति । यदेव भासमानत्वं
बाधितः, - इति चेत्, अभेदोऽपि एवम्, भेदभासनेन तस्य बाधात् ।
विपरीतसंवेदनोदय एव हि बाधो नान्यः कश्चित् । बाधोऽपि च भासमानत्वादेव सन् नान्यतः, - इति भेदोऽपि भासमानः कथमविद्या । भासनमवधीर्य आगमप्रमाणकोऽयमभेदः - [आगमैकप्रमाणकः - क्। ष्। ष्।] इति चेत् आगमोऽपि भेदात्मक एव वस्तुभूतः [भेदात्मक एवावस्तुभूतः - क्। ।ष्। ष्।] प्रमातृप्रमाणप्रमेयविभागश्च, - इति न किञ्चिदेतत् । तस्मात् वास्तवं चिदेकत्वमभ्युपगम्यापि तस्य कर्तृत्वलक्षणा भिन्नरूपसमावेशात्मिका क्रिया नोपपद्यते; परामर्शस्वरूपं [परामर्शलक्षणम् - क्। ष्। ष्।] तु
सत्यरजतस्य तदेव शुक्तिकारजतस्येति भावः । एवम्, बाधित इत्यर्थः । कुतः इत्यपेक्षायामाह भेद इति । ननु कथमभेदबाधो युक्त इत्यत आह विपरीत इति । विपरीतसंवेदनोदयः - विपरीतवस्तुज्ञानप्रादुर्भाव एव, अन्यः - तद्व्यतिरिक्तः ।
कथमविद्या, न अविद्यारूप इत्यर्थः । भासमानम् - व्यावहारिकैः प्रत्यक्षादिभिः स्फुरणम्, अवधीर्य - उपेक्ष्य, आगमप्रमाणकः -
नेह नानास्ति किञ्चन
इत्यादिश्रुतिप्रमाणकः । भेदात्मक एव वस्तुभूतः - भेदप्रधान एव सन् परमार्थभूतो भवति, सत्तां लभते इति यावत् । तदुक्तम् -
यदभिन्नं स्वसंवित्तौ तत्परस्य यदोच्यते ।
तदा भिन्नमिवाभाति शाब्दीं भूमिमुपाश्रितम् ॥
इति । प्रमातृप्रमाणप्रमेयविभागश्च भेदात्मक एव वस्तुभूत इति योजना । न किञ्चिदेतत्, एतद् वेदाद्युक्तं वस्तु न किञ्चिद् भवतीत्यर्थः । उक्तप्रक्रियावष्टम्भेन श्लोकं व्याचष्टे तस्मात् इति । आभासभिन्नयोः इत्यतो निष्कृष्य चित्तत्वं तस्य इत्यनेनोक्तम् । तस्य, वास्तवैकत्वाधारस्य चित्तत्त्वस्येत्यर्थः ।
पूर्वोक्तं क्रियास्वरूपमनुवदति कर्तृत्व इति । कर्तृत्वलक्षणम् - कर्तृत्वस्वरूपम्, यत् अभिन्नम् - कर्तुर्भेदरहितम्, रूपम् - स्वरूपम्, तत्र यः समावेशः, अर्थात्तस्य कर्तुरेव सम्यगावेशनम्, स आत्मा यस्यास्तादृशी ।
स्वातन्त्र्यं यदि भवति तदोपपद्यते सर्वम् । परामर्शो हि चिकीर्षारूपेच्छा, तस्यां च सर्वमन्तर्भूतं निर्मातव्यमभेदकल्पेनास्ते, - इत्युक्तं
स्वामिनश्चात्मसंस्थस्य… (१।५।१०)
इत्यत्र । तेन स्वात्मरूपमेव विश्वं सत्यरूपं प्रकाशात्मतापरमार्थमत्रुटितप्रकाशाभेदमेव सत् प्रकाशपरमार्थेनैव भेदेन भासयति [भेदेन प्रकाशयति - क्।ष्।ष्।] महेश्वरः, - इति तदेवास्यातिदुर्घटकारित्वलक्षणं स्वातन्त्र्यमैश्वर्यमुच्यते । आभासभिन्नयोरिति क्रियापेक्षा सम्बन्धसामान्ये षष्ठी, पश्चाद्यथोचितं विभज्यते । आभासेन भिन्नौ जडाजडाभासौ, जडोघटादिः कर्मरूपश्चिदाभासः
न स्यात् इति व्याचष्टे नोपपद्यते इति । चिकीर्षा इत्यादि विना इत्यन्तं व्याचष्टे परामर्श इति । परामर्शस्वरूपम् - विमर्शस्वरूपम्, सर्वम् - समस्तं क्रियादि । चिकीर्षा इति व्याचष्टे परामर्शो हि इति । तस्याम् - चिकीर्षारूपायामिच्छायाम्, निर्मातव्यम् - निर्मेयवस्तु, अभेदकल्पेन - अभेदरचनया, इच्छा हि इष्यमाणमयी एवोदेति इति भावः । तदुक्तम् -
अयमेवोदयस्तस्य ध्येयस्य ध्यायिचेतसि ।
तदात्मतासमापत्तिरिच्छतः साधकस्य या ॥
इति । कुत्रोक्तमित्यत आह स्वामिनश्च इति । इत्यत्र, अस्मिन् श्लोके इत्यर्थः ।
अत्र हीच्छाद्वारेण सर्वं कर्तृगतं साधितम् । फलितमाह तेन इति ।
तेन - ततः कारणात्, महेश्वरः - परः शिवः, स्वात्मरूपमेव
- इच्छाविषयतान्यथानुपपत्त्या स्वात्मरूपमेव सत्, अत एव सत्यरूपम्, तथा प्रकाशात्मतैव परमार्थः - सहजं रूपं यस्य तादृशम् । तथा अत्रुटितः प्रकाशात् - महाप्रकाशात् अभेदः यस्य तादृशम् । न हि मृदो घटत्वासादनेऽपि मृत्त्वं त्रुट्यतीति भावः । एवंविधं विश्वम् - जगत्, प्रकाशपरमार्थेनैव - प्रकाशप्राप्तसत्ताकेनैव, भेदेन भासयति - स्वतो भिन्नतया भासयति तत्र शक्तत्वात्, न चात्र पर्यनुयोगो युक्तः अग्नेरपि दाह्यदाहे तथापातात् । तदेव - विश्वप्रकाशनमेव, अस्य - महेश्वरस्य । आभासभिन्नयोः इति । षष्ठ्यर्थमाह क्रिया इति ।
विभागमेव दर्शयति आभास इति । जडाजडौ एव विभज्य कथयति घटादिः इति । षष्ठी -
कर्तृरूपः - इति तयोः क्रिया, एकस्य क्रियमाणत्वमपरस्य कर्तृत्वं न भवेत् । चिकीर्षारूपेण निर्मातव्याभेदपरामर्शात्मना [निर्मातव्यभाववर्गाभेदपरामर्श - क्। ष्। ष्] विना एका चासौ क्रिया कथं भिन्नयोः स्वभावभूता भवत् ।
कार्यकारणताप्रस्तावात् कर्तृकर्मणी उक्ते, कारकान्तराण्यपि तु एककर्तृत्वानुप्रवेशीनि परमार्थतोऽन्यथा करणादौ भिन्ने कारकव्राते कथमभिन्ना सा । यदि वा आभासेन यौ भिन्नौ जडचेतनौ तयोर्या चिकीर्षा एकस्येष्यमाणता, परस्यैषितृता तत्स्वभावमेकत्वपरामर्शं विना, - इति । यद्वा आभासभिन्नयोः अहमिदम् इति यः परामर्श एकविश्रान्ति -
योजनां करोति तयोः इति । क्रियया सह योजनां करोति क्रिया इति । न स्यात् इत्यनेन योजनं करोति एकस्य इति । एकस्य - जडस्य, क्रियमाणत्वम् - करणरूपा क्रिया, अपरस्य - अजडस्य, कर्तृत्वम् - कर्तृत्वरूपा क्रिया । चिकीर्षालक्षणैकत्वपरामर्श विना इति योजयति चिकीर्षा इति । निर्मातव्यस्य यः अभेदेन - स्वाभेदेन परामर्शः तदात्मना, विना - ऋते, एका च - एकरूपा च, भिन्नयोः
- जडाजडयोः, तत्सान्निध्ये तु भवेदेव, परामर्शस्य सर्वेसहत्वादिति भावः । नन्वत्र कर्तृकर्मणोरेव चर्चा कृतेति कारकान्तराणां का वार्तेत्यत आह कार्य इति । कारकान्तराणि - करणादीनि, एकम् - कर्तृनिष्ठं यत् कर्तृत्वं [एकं कर्तृनिष्ठं यत् कर्तृकत्वम् - च्।] तत्र अनुप्रवेशः - उपकारकत्वेन पश्चात्प्रवेशः एषामस्तीति तादृशानि । अन्यथा - अनुप्रवेशाभावे, करणादौ - करणादिरूपे, भिन्ने - कर्तृकर्मव्यतिरिक्ते, अभिन्ना - एका । एकत्राऽनुप्रवेशे तु बहूनामेकक्रियत्वं सम्भवत्येवेति भावः । अन्यथा योजनां कर्तुं पक्षान्तरमाह यदि वा इति । चिकीर्षा पदं द्वैविध्येन व्याचष्टे एकस्य इति । एकस्य - जडस्य, इष्यमाणता - इषिकर्मत्वम्, परस्य चेतनस्य, एषितृता - इषि कर्तृत्वम्, तत्स्वभावम् - तल्लक्षणम्, इति - एवं योजना । पुनरन्यथा योजनां करोति यद्वा इति । एकत्र - चित्तत्त्वे या विश्रान्तिः सा रूपं यस्य तादृशः । एतेन आभासभिन्नयोः इत्यस्य परामर्श शब्देन सह सम्बन्धः कृतः । पुनरप्यन्यथा योजनां करोति आभास इति । एतेन आभासभिन्नयोः इत्यस्य एकत्व इत्यनेन
रूपश्चिकीर्षात्मा तं विना, - इति । आभासभिन्नयोरेकपरामर्शं विना चिकीर्षालक्षणा कथं क्रिया, - इति वा । एवं क्रियां वा चिकीर्षा वा परामर्शं वा अपेक्ष्य षष्ठी, नित्यसापेक्षत्वाच्च समासः ॥ २० ॥
एतत् उपसंहरति
इत्थं तथा घटपटाद्याभासजगदात्मना ।
तिष्ठासोरेवमिच्छैव हेतुता कर्तृता क्रिया ॥ २१ ॥
यथा [यतो - क्। ष्। ष्।] न जडस्य कारणता न कर्तृता, तथानीश्वरस्य चेतनस्यापि,
सम्बन्धः कृतः । एताः योजनाः सङ्कलय्य दर्शयति एवम् इति ।
षष्ठी, षष्ठीद्विवचनमित्यर्थः । नन्वेवं सति सापेक्षस्य चिकीर्षाशब्दस्य परामर्शशब्दस्य च समासो न प्राप्नोति सापेक्षमसमर्थं भवति इति हि उक्तम्, पदविधिस्तु समर्थ एव भवति इत्यत आह नित्य इति । केचिद्धि अनित्यसापेक्षाः यथा ऋद्धस्य राज्ञः पुरुषः इति । अत्र सापेक्षस्य राजन् शब्दस्य पुरुषशब्देन समासो न युक्त एव । केचित्तु नित्यसापेक्षाः यथा देवदत्तस्य गुरुकुलम् इत्यत्र सापेक्षस्यापि गुरुशब्दस्य कुलशब्देन सह समासः युज्यत एव इति । एकत्वेन सम्बन्धोऽपि फलतः परामर्शेनैवेति तस्य पृथक् कथनं न कृतम् ।
एवमत्रश्लोके योजना । चिदेकत्वे वास्तवेऽपि सति, आभासभिन्नयोः क्रिया न स्यात् । कं विना ? चिकीर्षालक्षणैकत्वपरामर्शं विना । तत्सत्त्वं तु स्यादेवेति भावः । अथवा आभासभिन्नयोः चिकीर्षालक्षणैकत्वपरामर्शं विना क्रिया न स्यादिति योजना । अथवा कयोः परामर्शं विना ? आभासभिन्नयोः परामर्शं विना इति योजना । अथवा आभासभिन्नयोः एकत्वपरामर्शं विनेति सम्बन्धः ।
चिकीर्षालक्षणा इति क्रिया विशेषणम् ॥ २० ॥
अथैकविंशस्य श्लोकस्यावतरणिकां करोति एतत् इति । स्पष्टम् ।
एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे इत्थम् इति ।
अत्र टीका : -
इत्थम् इति पदं व्याचष्टे यथा इति । कारणता इति सामान्याभिप्रायेणोक्तम् ।
इत्यनेनैव हेतुताप्रकारेणेदं [हेतुप्रकारेण - क्। ष्। ष्।] जातं [इदं जातम्, य एव क्। ष्। ष्।] यत् य एव तथा चिकीर्षुस्तस्यैव सा चिकीर्षा बहिष्पर्यन्ततां प्राप्ता क्रिया इत्यभिधीयते, सैव च कर्तृता तदेव च हेतुत्वं नान्यत् किञ्चित् । तेन घटस्तिष्ठति इत्ययमर्थः - घटात्मना तिष्ठासुः स्वातन्त्र्यात् स्थानमभ्युपगच्छन् न तु तद्रूपमसहमानो यो महेश्वरः प्रकाशः स तिष्ठति - इति । घटपटाद्याभासरूपं यत्किल जगत् तदात्मना यः तथा इति तेन तेन तज्जगद्रतजन्मस्थि -
कर्तृता इति तु प्राधान्यात् विशेषाभिप्रायेण । हेतुताप्रकारेण, हेतुताव्यवस्थापनप्रकारेणेत्यर्थः । जातम् - सिद्धम् । इदं किमित्यपेक्षायामाह - यत् इति । योजनां कुर्वन् यत् इत्यस्य वाक्येनाकाङ्क्षां पूरयति य एव इति । तथाचिकीर्षुः - तथा कर्तुमिच्छुः, तस्यैव - तथाचिकीर्षोरेव, सा चिकीर्षा - तथेच्छा, एतेन तथा शब्दः इच्छा शब्देन योजनीयः इति सूचितम् ।
बहिष्पर्यन्तताम् - बाह्यावयवचेष्ठारूपताम्, सैव च - प्रोक्तरूपा क्रियैव च, तदेव च, सा क्रियैव चेत्यर्थः ।
हेतुत्वापेक्षं नपुंसकत्वम् । अन्यत् - इच्छारूपचिकीर्षाव्यतिरिक्तम् । अत्र चिकीर्षा पदेन इच्छा शब्दस्य व्याख्या तथैव च चिकीर्षोराक्षेप इति न कोऽपि विरोधः । अथवा तिष्ठासोः इति विशेषणवशेन विशेष्यरूपस्य चिकीर्षोराक्षेपः ।
चिकीर्षुरेव हि परमेश्वरः कार्यभावेन तिष्ठति इति हेतुता कर्तृता पदयोः क्रियाविशेषणत्वेन सैव च इत्यादिना योजनं स्फुटमेव ।
घटपटाद्यात्मना तिष्ठासोः इति व्याख्यातुमवतरणिकां करोति तेन इति । तिष्ठासुः - स्थातुमिच्छुः, स्थानम् - स्थितिम्, स्वरूपसत्तामिति यावत्, अभ्युपगच्छन् - अङ्गीकुर्वन्, अत्र हेतुः स्वातन्त्र्यात् इति । न हि स्वतन्त्रस्य कुतोऽपि प्रतिघातः, स्वातन्त्र्यहानेरिति भावः । तद्रूपम् - भावप्रधानो निर्देशः, घटरूपताम्, न असहमानः, अपि तु किञ्चित्त्वेन सहनशीलः इत्यर्थः । इति शब्दः अर्थकथनसमाप्तौ । अवतरणिकाविषयीकृतस्य विग्रहपूर्वं व्याख्यां करोति घट इति । तदात्मना - तत्स्वरूपेण । तथा शब्दमत्रापि मध्ये तन्त्रेण योजयितुमुपन्यस्यति । तथा इति इति । अस्यैव व्याख्यां करोति तेन तेन इति । ते ते च ते जगद्गता जन्मस्थित्यादथो
त्यादिभावविकारतद्भेदक्रियासहस्ररूपेण यः स्थातुमिच्छुः स्वतन्त्रः, तस्य या एवमिति विचित्ररूपेच्छा सैव क्रिया, - इति सम्बन्धः । तेन महेश्वर एव भगवान् विश्वकर्ता, - इति शिवम् ॥ २१ ॥
इति श्रीमदाचार्योत्पलदेवविरचितायामीश्वरप्रत्यभिज्ञायां श्रीमदाचार्याभिनवगुप्तकृतविमर्शिन्याख्यटीकोपेतायां क्रियाधिकारे कार्यकारणतत्त्वनिरूपणं नाम चतुर्थमाह्निकम् ॥ ४ ॥
सम्पूर्णश्चायं क्रियाधिकारो नाम द्वितीयो विमर्शः ॥ २ ॥
भावविकाराः तद्भेदरूपं यत्क्रियासहस्रम् - जायते इत्यादिरूपम्, तद्रूपेण, यः स्थातुमिच्छु । विशेष्यं कथयति स्वतन्त्रः इति । षष्ठीयोजनां करोति तस्य इति । एवम् इति व्याचष्टे विचित्ररूपा इति । या इत्यस्याकाङ्क्षां पूरयति सैव इति । फलितं कथयन् कर्तरि ज्ञातरि इति प्रथमश्लोकस्य निर्वाहं करोति तेन इति ।
एतेन ज्ञातृत्वमप्ययत्नसिद्धमेव, ज्ञातृत्वव्यतिरेकेण कर्तृत्वायोगात् । इति शब्दः आह्निकसमाप्तौ शिव पदं मङ्गलवाचकं परतत्त्वसूचकं च ।
एवमत्र श्लोके योजना । इत्थम् - उक्तेनप्रकारेण, घटपटाद्यात्मना तिष्ठासोः स्वतन्त्रस्य चिकीर्षोः परमेश्वरस्य, एवम् - विचित्ररूपा तथेच्छैव क्रिया भवति । क्रिया का ? हेतुता तथा कर्तृता, एतद्द्वयरूपेत्यर्थः । तथा शब्दस्य तन्त्रेण द्विर्योजना । इति शिवम् ॥ २१ ॥
इति श्रीमत्काश्मीरमण्डलान्तर्वर्त्याराध्यपादस्वतःसिद्धमहा- माहेश्वरश्रीवैडूर्यकण्ठपुत्रश्रीमदवतारककण्ठात्मज- श्रीभासकरकण्ठविरचितायां भास्कर्याख्यायां श्रीप्रत्यभिज्ञासूत्रविमर्शिनीटीकायां क्रियाधिकारे चतुर्थमाह्निकम् । क्रियाधिकाराख्यो द्वितीयो विमर्शः समाप्तिं गतः । इति शिवम् ।
तृज्वाच्यस्य महेश्वरस्य कुरुते कृञ्वाच्यतासादनात् ।
स्वातन्त्र्यं परिपूरितं सह तलो वाच्येन भावेन या ॥
पुष्टीभूतविदेः स्वरूपमुदिता शक्तिः स्फुटं यत्र सा ।
व्याख्यातोऽद्य मयाऽधिकार इह सोऽयं भास्करेणार्थतः ॥
नाभिमानो मनः कार्यः शिवः कर्ताऽत्र यत्स्थितः ।
तदैक्येनाभिमानस्ते यद्यस्ति स तु शोभनः ॥
शिवः कर्ता शिवो दृष्टा शिवः पाठक एव च ।
व्याख्याता च शिवः प्रोक्तः शिवार्पणमिति स्फुटम् ॥