क्रियाधिकारे
तृतीयमाह्निकम् ।
प्रमाणानि प्रमावेशे स्वबलाक्रमणक्रमात् । यस्य वक्त्रावलोकीनि प्रमेये तं स्तुमः शिवम् ॥ १ ॥
भास्करी
स्वबलाक्रमणद्वारा यस्यावष्टम्भमीहते । प्रमाणनिचयः स्प्रष्टुं प्रमां तं संस्तुमः शिवम् ॥
अथ क्रियाधिकारे तृतीयस्याह्निकस्य निर्विघ्नव्याख्यासमाप्तये प्रचयगमनाय च स्वान्तरनुष्ठितमपि तत्त्वानुस्मरणरूपं मङ्गलं शिष्यशिक्षायै बहिरपि सकलाह्निकतात्पर्यसूचकेन श्लोकेन निबध्नाति प्रमाणानि इति ।
वयं तम् - प्रमाणानुग्राहकत्वेन प्रसिद्धम्, शिवम् - प्रमेयस्पर्शानारूपितप्रमारूपप्रकाशस्वरूपं शिवाख्यं परमवस्तु स्तुमः - उत्कर्षपरामर्शविषयतां नयामः । तं कम् ? प्रमाणानि - एतदाह्निकप्रथमश्लोके वक्ष्यमाणस्वरूपाणि बहिर्मुखवेदनरूपाणि प्रमाकरणानि, प्रमेये - प्रमेयाख्यविषयविषये, प्रमावेशे - प्रमाख्यफलविषयी - भवने, लक्षणया तत्करणे इति यावत् । यस्य - शिवस्य वक्त्रावलोकीनि - मुखप्रेक्षीणि भवन्ति, प्रमाणं हि प्रमेयविषयप्रमाजननोद्युक्तं सदान्तरं प्रमातृतत्त्वमेवावष्टम्भकत्वेनापेक्षते, अन्यथा जडस्य तस्य तत्राशक्तत्वात्, तदुक्तम् :-
प्रमाणान्यपि वस्तूनां जीवितं यानि तन्वते । तेषामपि परो जीवः स एव परमेश्वरः ॥
इति । कथम् इत्यपेक्षायामाह स्वबल इति । स्वबलस्य - आत्मबलस्य यदाक्रमणम् - अवलम्बनं तस्य क्रमात्, क्रमेणेत्यर्थः ।
तत्समये हि तानि प्रमाणानि प्रमातुर्बलमपेक्षन्ते एव प्रमाता च परमार्थतः शिव एवेति तद्बलाक्रमणमेव तेषां शिववक्त्रावलोनमिति भावः । तदुक्तम् : -
करणानिव देहिनाम्
इति । अत्र हि मन्त्राणां स्वाधिकारप्रवृत्तौ स्वभाववशेन स्थिते आत्मबला -
एवं क्रियाशक्तिविस्फारनिरूपणप्रसङ्गेन सम्बन्धपुरःसरं सामान्यादीनां तत्त्वम् उपपादितम्, अधुना तु सम्बन्धतत्त्वमेव एकघनतया व्युत्पादनीयम् । तच्च द्विविधमेव परमार्थतः ज्ञाप्यज्ञापकता कार्यकारणता च, तत्र पूर्वस्यां मानमेयभावादिचिन्तास्पदभूतायां सर्वम् उक्तचरं वक्ष्यमाणं च आयत्तं - प्रमाणाधीना वस्तुसिद्धिः इति तत्र
क्रमणे करणैः स्वाधिकारे क्रियमाणमात्मबलाक्रमणं दृष्टान्तीकृतम्, करणानीव च प्रमाणानि प्रमाकरणत्वात्, प्रसिद्धं वस्तु च दृष्टान्तीक्रियते इति स्फुटमेव प्रमाणानां प्रमेयविषयप्रमाजनने स्वबलाक्रमणक्रमेण शिवमुखावलोकित्वम् । अयमेव चाभिप्रायः
यथा ह्यर्थो स्फुटो दृष्टः सावधानेऽपि चेतसि । भूयः स्फुटतरो भाति स्वबलोद्योगभावितः ॥
इत्यत्र कारिकायामपि श्रीस्पन्दशास्त्रेऽभिप्रेतः । चेतो हि बहिर्मुखबोधरूपत्वेन प्रमाणमेव, भानं प्रमा, स्वबलोद्योगभावनं स्वबलाक्रमणमिति, एतेन प्रमाणादिनिर्णयमत्र करिष्यतीति सूचितम् ।
एवं मङ्गलं सम्पाद्य समस्ताह्निकतात्पर्यकथनं समस्तव्यस्तत्वाभ्यां करोति एवम् इति
अत्र टीका -
क्रियाशक्तेर्यः विस्फारः - सामान्यादिभावेन विशिष्टं स्फुरणं तस्य निरूपणप्रसङ्गेन, सम्बन्धपुरस्सरम् - सम्बन्धप्रधानम्, तेन दत्तसत्ताकमिति यावत् । उपपादितम् - उपपत्त्या स्थापितम्, एकघनतया - एकपिण्डतया, निःसन्धिबन्धत्वेनेति यावत् । व्युत्पादनीयम् - कथनीयम् । तच्च - सम्बन्धतत्त्वं च । परमार्थतः इत्यनेन संयोगादीनां काल्पनिकत्वं दर्शितम् । यद्यपि तार्किकादिभिः संयोगसमवाययोरेव सहजत्वमुक्तं तथापि तयोर्व्यवहारे तादृगुपयोगाभावादेवमुक्तम्, इह व्यवहारमात्रसत्यत्वसाधनात् द्वैविध्यमेव विभज्य दर्शयति ज्ञाप्य इति । तत्र - द्वयोर्मध्ये । पूर्वस्याम् - ज्ञाप्यज्ञापकभावरूपायाम्, आदिशब्दात् मात्रादिग्रहणम्, उक्तचरम् - पूर्वमुक्तम् । आयत्तम् - अधीनम् । कुत इत्यपेक्षायामाह प्रमाण इति । इतिशब्द एवंशब्दार्थे । ननु ततः
तत्र प्रसिद्धेः, एवं च प्रकृतसमर्थनीयवस्तूपयोगितया स्वयं च सम्बन्ध रूपतया अवश्यविचार्यां मानादिस्थितिं निरूपयितुम्
इदमेतादृक्…
इत्यादि,
…ईशादिव्यवहारः प्रवर्त्यते ॥
इत्यन्तं श्लोकसप्तदशकेन आह्निकान्तरमारभ्यते । तत्र श्लोकद्वयेन प्रमाणतत्फलस्वरूपम्, ततः प्रमेयस्य स्वरूपं निरूपयितुं प्रत्याभासं प्रमाणस्य व्यापारो न तु स्वलक्षणात्मकवस्त्वेकनिष्ठतानियमेन - इति दर्शयितुं प्रत्यवमर्शबलेन आभासव्यवस्था, इति दशभिः श्लोकैः उच्यते, तत्प्रसङ्गात् मिथ्याज्ञानस्वरूपं श्लोकेन, प्रमेयस्वरूपसिद्धिश्च प्रकृतमपि ईश्वरवादम् अवलम्ब्य घटते
-
इति श्लोकेन उपदर्श्यते, स च एष सर्वः प्रमाणतत्फलप्रमेयादिप्रविभागः सति प्रमातरि प्रदर्शितरूपे, ततो न तस्य प्रमेयता येन अत्रापि प्रमाणव्यापारसम्भवः, केवलं व्यवहारमात्रसिद्धिफलं प्रमाणम् अत्र, इति श्लोकत्रयेण
-
इति तात्पर्यार्थः ।
यदुक्तम् क्रियासम्बन्धादिबुद्धयो न भ्रान्तिस्वभावाः इति, तदेव निर्णेतुं प्रमाणतत्फलस्वरूपं तावत् प्रसिद्धमनुवदति ।
किमित्यत आह एवं च इति । प्रकृतम् - आरब्दं यत्समर्थनीयं वस्तु
- क्रियाशक्तिरूपं समर्थनीयं वस्तु तत्रोपयोगितया ।
मानादिस्थितिम् - मानमेयादिव्यवस्थाम् । आह्निकान्तरम् - अन्यदाह्निकम् । तत्र - श्लोकसप्तदशकमध्ये । तत्फलस्वरूपम् - प्रमास्वरूपम् । ततः - तदनन्तरम् प्रत्याभासम् - सर्वेष्वाभासेषु, स्वलक्षणात्मकम् - स्वलक्षणरूपं यद्वस्तु तत्र या एकनिष्ठता तस्या यो नियमस्तेन, श्लोकेन त्रयोदशेनेत्यर्थः । श्लोकेनोपदर्श्यते इति, चतुर्दशेनेत्यर्थः ।
प्रदर्शितरूपे - ज्ञानाधिकारे निर्णीतस्वरूपे प्रमातरि सति भवतीति सम्बन्धः । तस्य - प्रमातुः, अत्रापि - प्रमातर्यपि, अत्र - अस्मिन्प्रमातरि तात्पर्यार्थः - समस्ताह्निकस्य व्यस्तत्वेनाभिप्रायः ।
अथ प्रथमद्वितीययोः श्लोकयोरवतरणिकां करोति यदुक्तम् इति । स्पष्टम्
इदमेतादृगित्येवं यद्वशाद्व्यवतिष्ठते । वस्तु प्रमाणं तत्सोऽपि स्वभासोऽभिनवोदयः ॥ १ ॥ सोऽन्तस्तथाविमर्शात्मा देशकालाद्यभेदिनि । एकाभिधानविषये मितिर्वस्तुन्यबाधिता ॥ २ ॥
यस्य वशात् - सामर्थ्यात्, वस्तु नीलसुखादिकं व्यवतिष्ठते - नियतां प्रकाशमर्यादां न अतिवर्तते इदमिति स्वरूपेण एतादृक् इति च विशेषणभूतनित्यत्वानित्यत्वादियोगेन, तल्लोके प्रमाणम् इति स्थितम्, तच्च विवेचकेन विचार्यम् - इह वस्तुनः स्वरूपं
एवमवतरणिकां कृत्वा श्लोकद्वयमुपन्यस्य व्याचष्टे ।
इदमेतादृक् इति ।
अत्र टीका -
यद्वशात् इति व्याचष्टे यस्य इति । यस्य - वक्ष्यमाणस्वरूपस्य वशात् इत्यवययवं व्याचष्टे सामर्थ्यात् इति । नील इत्यनेन बाह्यवस्तुपरामर्शः । सुखम् इत्यनेन आन्तरवस्तुपरामर्शः । आदि शब्देन सर्वेषां बाह्यान्तरवस्तूनां ग्रहणम् । व्यवतिष्ठते इति व्याचष्टे नियताम् इति । नीलसुखादिरूपेणैव भासते इत्यर्थः । इदमेता - दृगित्येवम् इति अवयवसमुदायरूपं पदं व्याचष्टे इदम् इति ।
इदम् इत्यवयवं व्याचष्टे स्वरूपेण इति । एतादृक् इत्यवयवं व्याचष्टे विशेषण इति । विशेषणभूतानि च तानि नित्यत्वानित्यत्वादीनि [नित्यत्वानित्यत्वानिर्त्यत्वरूपा धर्मस्तेषाम् - च्।] - नित्यत्वानित्यत्वादिरूपा धर्माः तेषां तैः सह वा यो योगः - सम्बन्धस्तेन । तृतीयाविभक्त्या एवंशब्दव्याख्या । स्थितम् इति योग्यतयाव्याहृतम् । एतेन तत् इत्यन्तं व्याख्या कृता । तथा चैवमत्रयोजना ।
स्वात्मवशेनैव न तावत् व्यवतिष्ठते - जडत्वात्, मम नीलं प्रकाशते चैत्रस्य वेति च तदा कथमवभासः, तस्मात् अन्यवशेन व्यवतिष्ठते, अन्योऽपि चेत् जडः तत् अन्धेन अन्धस्य हस्तादानम्, तस्मात् अन्योऽसौ संविदात्मा, सोऽपि यदि शुद्धो निर्विशेषो न तर्हि नीलस्यैव व्यवस्थाहेतुः भवेत् - पीतादावपि तस्य तथात्वात्, तदसौ नीलोपरक्तो
यद्वशाद्वस्तु इदमेतादृगित्येवम् - इदमित्येवम् एतादृगित्येवम् च व्यवतिष्ठते लोके तत्प्रमाणमिति स्थितम् । अत्र दुर्बोधत्वेन विचारं विधेयत्वेन प्रतिजानीते, तच्च इति । तच्च प्रोक्तस्वरूपं वस्तु स्वरूपधर्मव्यवस्थापकं प्रमाणं च, विवेचकेन - विचारकेन, विचार्यम् - विचारविषयीकार्यम् । विचारमेव करोति इह इति ।
इह - भासमाने जगति । तावत् इति । नात्र कस्यापि विप्रतिपत्तिरिति भावः ।
स्वात्मवशेन - वस्तुस्वरूपसामर्थ्येन न व्यवतिष्ठते, नियतया मर्यादया न वर्तते इत्यर्थः । कुत इत्यपेक्षायामाह - जडत्वात् इति ।
जडो हि न स्वयं व्यवस्थां कर्तुं शक्तः, चेतनादेव स्वरूपलाभात् । हेत्वन्तरमाह मम इति । तदा, यदि वस्तुतः स्वात्मवशेनैव व्यवस्था भवेत्तदा इत्यर्थः । इति - एवम्, आभासः
- स्फुरणम्, कथं च - स्यात्, न स्यादित्यर्थः । इति किमिति ? मम नीलं प्रकाशते, चैत्रस्य वा प्रकाशते इति प्रमातृलग्नतयावभासो न स्यादिति भावः ।
यद्यप्यन्यभासनमन्यस्य गोचरे न, तथापि व्यवहारवशेनैवमुक्तम् । फलितमाह तस्मात् इति । तस्मात् तत्तद्वस्तु अन्यवशेन व्यवतिष्ठते । तस्यान्यस्य विचारं करोति अन्योऽपि इति । अन्योपि - अहंरूपश्चैत्ररूपो वा, चेत् - यदि, जडो भवेत् तत् - तदा इदम् अन्धेनान्धस्य हस्तादानम् - हस्तावलम्बः भवति । अत्रापि फलितमाह तस्मात् इति । तस्मात् - ततः कारणात् । असौ, अन्यः संविदात्मा - चेतनः युक्त इति शेषः । ननु स संविदात्मैव भवतु ततः किम् इत्यत आह - सोऽपि इति । सोऽपि - संविदात्मापि, यदि शुद्धः, अत एव निर्विशेषः सर्वेषु नीलादिष्वभेदेन प्रमातृतया स्थितो भवति, तर्हि - तदा, नीलस्यैव व्यवस्थाहेतुः - केवलं नीलग्राहकः, न भवेत्, अपि तु पीतादावपि तस्य - संविदात्मनः, तथात्वात् - व्यवस्थापकत्वात्, अन्यथा शुद्धत्वायोगात् । तत् - तस्मात्कारणात् असौ - आभासः, नीलोपरक्तः - विषयतया स्थितेन निल्ल -
नीलोन्मुखो नीलप्रकाशस्वभाव इत्याभासः सन् नीलस्य व्यवस्थापकः, तत्प्रकाशस्वभावतैव हि तद्व्यवस्थापकता, स च नीलस्य प्रकाशो यदि अव्यतिरिक्तस्य, तत् पीतस्यापि स्यात् - प्रकाशात्मक
- चित्तत्त्वतादात्म्याविशेषात्, तेन व्यतिरिक्तीकृतस्य नीलस्य स प्रकाशः । नीलं च इत्थम् ततो व्यतिरेकाभासयोग्यं यदि सोऽप्या - भासो महतः प्रकाशात् व्यतिरिच्यते, [व्यतिरिच्येत - क्। ष्। ष्।] महाप्रकाशाव्यतिरेके तस्य ततो नीलादेः व्यतिरेकाभावप्रसङ्गात्, महाप्रकाशाच्च न व्यतिरेकं
द्रव्येणोपरक्तः [नीलद्रव्येण स्वोपरक्तः कृतः] कृतः, तथा नीलोन्मुखः, अत एव नीलप्रकाशस्वभावः, इति - एवंरूपः सन्, नीलस्य व्यवस्थापकः, सर्वं वाक्यं सावधारणम् इति न्यायेन नीलस्यैव व्यवस्थाकारी भवति । कुत इत्यपेक्षायामाह - तत् इति । हि - यस्मात्, तत्प्रकाशस्वभावतैव तद्व्यवस्थापकता भवति ।
ननु ततोऽपि किम् इत्यत आह स च इति । अव्यतिरिक्तस्य - अस्मादभिन्नस्य नीलस्य, तत् - तदा, स्यात् इति । अनेन न्यायेन तस्य पीतादप्यभिन्नत्वात् इति भावः । कुत इत्यपेक्षायां स्वयमपि अमुमेव हेतुमाह प्रकाशात्मक इति फलितमाह तेन इति । सः - विषयतया स्थितः ।
ननु तन्तो व्यतिरिक्त एव भवतु ततः किम् इत्यत आह नीलं च इति ।
इत्थम्, एवं सतीत्यर्थः । ततः - स्वविषयप्रकाशात्, व्यतिरेकरूपो य आभासः तत्र योग्यं व्यतिरेकाभासयोग्यम् ।
इत्थमित्यस्याकाङ्क्षां पूरयति यदि इति । सोऽप्याभासः - नीलप्रकाशरूप आभासः, व्यतिरिच्यते - व्यतिरेकं भजते, अन्यथातद्द्वारेणैवानेनापि सहैकतासादनादिति भावः ।
स्वयमप्यत्र हेतुमाह महा इति । महाप्रकाशाव्यतिरेके - महाप्र्काशेन सहाभिन्नत्वे सति, तस्य - नीलप्रकाशस्य, व्यतिरेकाभावप्रसङ्गात्, व्यतिरेकप्रयोगिकाभावाख्यानिष्टा- पत्तेरित्यर्थः । ननु तर्हि
किञ्चिदपि सहते, इति नूनं तेन [नूनं महाप्रकाशेन सङ्कोच - क्। ष्। ष्।] सङ्कोच आत्मनि निर्भासनीयः, संविदो वस्तूनां च सङ्कोचनप्राणो [अन्योन्यसङ्कोचनप्राणः - क्। ष्। ष्।] नव्यर्थरूपोऽसौ शून्य इत्युच्यते, सङ्कोचावभास एव च मायीयप्रमातुः उत्थानम्, अत एकया सृष्टिशक्त्या प्रमातृप्रमाणप्रमेयोल्लासः परमार्थतः, तेन - शून्यधीप्राणदेहा -
महाप्रकाशोऽपि नीलादेर्भिन्नो भवतु येन नोक्तदोषप्रसङ्ग इत्यत आह न सहते इति, सहत्वायोग्यत्वापातात्, इति भावः । फलितमाह इति नूनम् इति । इति - अतः कारणात् । नूनम् - निश्चये, तेन - महाप्रकाशेन, आत्मनि - नीलविषयतया सञ्चार्यमाणे स्वात्मभागे, सङ्कोचः - परिमितता, स्वस्मात् नीलाच्च भेदः, निर्भासनीयः - परमार्थतः सन्नपि स्वशक्तिवशेन भासयितुं योग्यः । ननु भासयतु ततः किम् इत्यत आह संविदः इति । पण्डितैः असौ - निर्भासनीयः सङ्कोचः, शून्य इति - शून्यप्रमातेति, उच्यते ।
कुत इत्यपेक्षायां हेतुगर्भं विशेषणमाह नञर्थरूपः इति ।
यतः सर्वभरितमहाप्रकाशान्निर्गतत्वेन तावद्विषयोपश्लेषराहित्येन च न किञ्चिद्रूपत्वाद् अभावरूप इत्यर्थः । नञर्थस्य चाभावस्य शून्यत्वं स्फुटमेव, परमार्थतो नञर्थाभावत्वेन रूपपदग्रहणम् । पुनः कीदृशः ? संविदः वस्तूनां च नीलादीनां च यत्सङ्कोचनम् - अन्योन्यतोऽव्यापकतासम्पादनम् तदेव प्राणः यस्य सः, तेन लब्धसत्ताक इत्यर्थः । अस्यैव ग्राहकत्वं कथयति - सङ्कोच इति ।
मायीयप्रमातुः, परप्रमातृव्यतिरिक्तस्य ग्राहकस्येत्यर्थः ।
उत्थनम् - प्रादुर्भावः । एतेन फलितं वस्तु कथयति अत एकया इति ।
अतः कारणात्, एकया - नतु प्रत्येकं भिन्नतया स्थितया, सृष्टिशक्त्या परप्रमातृगतया कर्तृत्वज्ञातृत्वरूपया सृष्टिविषयत्वेन सृष्टिरूपया शक्त्या, परमार्थतः प्रमातृप्रमाणप्रमेयोल्लासः - शून्यादिरूपाणां प्रमातॄणां प्रमाणानां नानाविधानां प्रमेयानां च प्रादुर्भावो भवति, युगपदेव सर्वं प्रादुर्भवतीति भावः, यद्यपि नासर्गं ब्रह्म विद्यते इति न्यायेन सर्वदैवात्र सर्वमस्त्येव, तथापि शिष्यबोधनार्थं प्रकल्प्यैवमुक्तम् । अत्राषि फलितमाह तेन इति । तेन -
द्युपाध्याश्रयस्वीकारात्मकसङ्कोचपरिग्रहसङ्कुचितात् मायाप्रमातुः अनन्तकालान्तर्मुखसंवेदनरूपात् स प्रमाणाभिमत आभासो यावत् प्रमेयोन्मुखतास्वभावः तावत् प्रमेयस्य देशकालाकाराभाससम्भेदवत्त्वात् सोऽपि तथैव क्षणे क्षणे अन्यान्यरूपः, [अन्यान्याभासरूपः स्रष्टव्यः - क्।
ष्। ष्।] स्रष्टव्यः, तदुक्तम् अभिनवोदयः
यत एकया सृष्ट्या प्रमात्राद्युल्लासः ततः कारणात्, यावत् - यावति समये, शून्यधीप्राणदेहादिरूपाः, आदिशब्देन प्रमेयग्रहणम् । जडाभावावस्थायां तेषामपि प्रमातृत्वात्, ये उपाधयस्तेषामाश्रयः - आश्रयणं तस्य यः स्वीकार अङ्गीकरणं तदात्मको यः सङ्कोचस्तस्य यः परिग्रहः तेन सङ्कुचितात् - स्वातन्त्र्येण साधितसङ्कोचभावात्, मायाप्रमातुः महाप्रकाशरूपात्पर-प्रमातुर्भिन्नतया प्रादुर्भूतात् भेदप्राणत्वेन मायाश्रितात्प्रमातृतत्वात् । कीदृशात् ? अनन्तकालम्
- अपरिच्छिन्नकालम्, सर्वदेति यावत्, अन्तर्मुखम् - बाह्योन्मुखतासमयेऽप्यहं [बाह्योन्मुखसमयेऽपि - च्।] पश्यामीत्यहम्परामर्शैकनिष्ठत्वेन स्वमात्रविषयं यत् संवेदनम् - परामर्शाख्यो व्यापारः तत् रूपं यस्य तादृशात् ।
सः - प्रसिद्धः, प्रमाणाभितः - प्रमाणेति नाम्ना सम्मतः आभासः - भवति । कीदृश इत्यपेक्षायामाह प्रमेयोन्मुखता इति । एतेन सङ्कुचितस्य महाप्रकाशस्याह-मित्यन्तर्मुखतावस्थायां प्रमातृत्वम्, इदमिति वाह्योन्मुखतायां प्रमाणत्वम् ।
अस्मिन्समयेऽहम्पश्यामीत्यन्तर्मुखतायाः स्फुरणात् प्रमातृत्वस्य अपरिच्छिन्नत्वमेवेति सूचितम् ।
यावदित्यस्याकाङ्क्षां पूरयति तावत् इति तावत् - तस्मिन्समये एव, तथा - तद्वत्, सोऽपि - प्रमाणाभासोऽपि क्षणे क्षणे अन्यान्यरूपः - न त्वन्तर्मुखप्रमातृवदेकरूपः, स्रष्टव्यः - सर्जनीयः । कुत इति हेत्वपेक्षायामाह प्रमेयस्य इति । प्रमेयस्य - प्रमाणविषयस्य, यत् देशकालाकाराभासैः, सम्भेदत्त्वम् उपरक्तत्वं तत् विद्यते यस्य तस्य भावस्तत्वं तस्मात्, क्षणे क्षणे, देशादिकृतभेदेन नवीनतया स्फुरणादिति यावत्, प्रतिप्रमेयं हि प्रमाणं भिन्नमेव युक्तमिति भावः ।
नन्वेतत्केनोक्तम् इत्यपेक्षायामवशिष्टं स्वाभासः इत्यादिश्लोकखण्डं व्याख्यास्यन् तदन्तर्गतम् अभिनवोदयः इतिपदमेतद्वाचकत्वेन योजयति
इति - अभिनवः - क्षणपरिवासम्लान्यापि [क्षणवासपरिम्लान्यापि - क्। ष्। ष्।] न कलङ्कितः, तेन नवनवोदय इत्युक्तं भवति, सोऽपि यदि तथाभूतो मायाप्रमातृलग्नो न भवेत् ततो मम नीलावभासो यस्य तस्यैव पीताभासो मम इति न स्यात्, अस्ति च इदं स्वसंवेदनं
- यत् सर्वत्र अबाद्यमानम्, इत्येवं स्वत्वेन आभासमानो य आभासो
- नवनवप्रमेयौन्मुख्यात् नवनवोदयः स प्रमाणम् यतः प्रमां विधत्ते । कासौ ? प्रमाणफलस्वभावा इति चेत्, आह - स एव बोधरूप आभासो मितिः प्रमाणफलम् इति सम्बन्धः ।
तदुक्तम् इति । अनेन पदेनैवोक्तमित्यर्थः । अस्य पदस्य व्याख्यां करोति अभिनव इति । अभिनव इत्यवयवं व्याचष्टे क्षण इति । क्षणं यो परिवासः - अवस्थानम्, तत्कृता या म्लानिस्तया । एतेन फलितमर्थमाह तेन इति । एतेन अभि पदस्य वीप्सावाचकत्वं द्योतितम् । सोपि स्वाभासः इति व्याख्यातुमवतरणिकां करोति सोऽपि यदि तथाभूतः इति । सोपि - प्रोक्तस्वरूपं तत्प्रमाणमपि, इदम् - अयमाभासः, स्वसंवेदनम् - स्वानुभवसिद्धम्, यद् इत्यस्याकाङ्क्षां पूरयति इति इति । यदिदमस्ति इत्यतः कारणात् । एवं भवति । एवं किम् इत्यपेक्षायां स्वाभास इति अवयवविभागेन व्याचष्टे स्वत्वेन इति । स्वत्वेन - ग्राहकाश्रयममताविषयत्वेन, स प्रमाणम् [स एव प्रमाणमिति - च्।] इत्यन्तं योजना सूचिता ।
एवमत्र योजना - सोऽपि - प्रमाणमपि अभिनवोदयस्तथा स्वाभासो भवति, इति । कुतः प्रमाणमित्यपेक्षाया-मध्याहृत्य हेतुमाह यतः प्रमाम् इति । एतेन प्रथमश्लोकः कृतव्याख्यः ।
अथ द्वितीयं श्लोकं व्याख्यातुमवतरणिकां करोति कासौ इति । प्रमाणफलस्वभावा - करणभूतप्रमाणफलस्वरूपा, असो - प्रमा का भवति इति चेत् - एवं यदि अवोचस्तत्, आह - आचार्यः कथयति । किमाहेत्यपेक्षायामेतदुत्तररूपं द्वितीयं श्लोकं व्याचष्टे स एव इति । सः इति व्याचष्टे स एव इति । सर्वं वाक्यं सावधारणमिति न्यायमाश्रित्य एवशब्दप्रयोगः । एवशब्देन तथाशब्दस्य समुच्चयार्थत्वं द्योतितम्, स एव मितिश्चेति । मितिः इति व्याचष्टे प्रमाण इति । इति सम्बन्धः -
ननु एवं पर्यायत्वमुक्तं भवेत् न तु फलभावः, [फलस्वरूपम् - क्। ष्। ष्।] आह - वाह्योन्मुखतया प्रकाशरूपया [प्रकाशरूपतया - क्। ष्। ष्।] तत्र तत् प्रमाणम्, या तु तस्यैव अन्तर्मुखात्मा विमर्शरूपता प्राक् उपपादिता तत्स्वभावेन केवलं विषयदशासङ्कुचितेन स एव बोधः फलम्, यथाहि यः शूरोऽहं स एव विजयी इति एकनिष्ठे शूरत्वविजयत्वे विवेकवता हेतुफलभावेन व्यवस्थाप्येते, यतो हि अहं शूरः ततो विजयी इति ।
एवं यतो नीलप्रकाशः ततो नीलमिदम्
अत्र द्वितीयश्लोके एवमेव सम्बन्धः । अन्तर्विमर्शात्मा इति पदद्वयं व्याख्यातुमवतरणिकां करोति ननु एवम् इति । एवम् - अनेन प्रकारेण, पर्यायत्वम् - पर्यायभावः, न तु फलभावः इति, फलं हि करणादिभिन्नमेव युक्तम्, यथा परशोः छिदा, न चात्र तत्, द्वयोरप्येकबोधरूपत्वादिति भावः । अत्रोत्तरं कथयति - आह इति । सूत्रकार इति शेषः । किमाहेत्यपेक्षायामेतदेव पदद्वयं व्याचष्टे बाह्य इति । तत्र - प्रमाणत्वफलत्वद्वयमध्ये, तत् - वस्तुव्यवस्थापकः बोधः, प्रकाशरूपया बाह्योन्मुखतया - इदं पश्यामीत्यादिरूपया, प्रमाणं भवति । तु - व्यतिरेके, तस्यैव - बोधस्य, याऽन्तर्मुखात्मा विमर्शरूपता - अहमिति स्थिता विमर्शस्वरूपता, प्राक् - ज्ञानाधिकारे, उपपादिता - उपपत्त्या स्थापिता, तत्स्वभावेन - तेन स्वरूपेण, स बोध एव - प्रमाणरूपो बोध एव, फलं भवति । तत्स्वभावेन कीदृशेन ? केवलं विषयदशासङ्कुचितेन - विषयोपरागवशतः परिमिततां गतेन, अन्यथा प्रमातृत्वापातात्, अन्तर्मुखो बोधो हि विषयोपरागावस्थायां प्रमारूपः, तदनारूषितत्वे प्रमातृरूपः । परमार्थविचारे तु परमप्रकाशाद्विच्चिन्नीभूतः प्रकाशः स्वरूपेण प्रमाता, बाह्योन्मुखतायां प्रमाणम्, पुनः स्वरूपोन्मुखतायां प्रमा, आश्थानीभावे प्रमेयमिति ।
एकस्य करणफलभावे दृष्टान्तमाह यथाहि इति । यथाहिशब्दो दृष्टान्तत्वद्योतकः । एकनिष्ठे - एकपुरुषविषये ।
व्यवस्थापनमेव दर्शयति यतो हि इति । दार्ष्टान्तिकयोजनां करोति एवम् इति । परामर्शः - प्रमा, अत्र वृद्धसम्मतिमाह
इति परामर्श इति एकरूपत्वेऽपि हेतुफलभावः, यथोक्तं
तद्वशात्तद्व्यवस्थानात्…
इति । किं च इह व्यापाररूपमेव फलं व्यापारश्च व्याप्रियमाणात् व्यापार्यमाणात् वा अनन्याकार एव सिद्धः, इति - अभेदः प्रमाणफलयोः विमर्शबलेन च यतः प्रमाणं विमर्शश्च शब्दजीवितः शब्दश्च आभासान्तरैः देशकालादिरूपैरनामृष्ते एकत्रैवाभासमात्रे प्रवर्तते - घट इति लोहित इति, ततो देशकालाभासयोः स्वलक्षणत्वार्पण - प्रवणयोः अनामिश्रणात् सामान्यायमाने आभासे प्रमाणं प्रवर्तते
यथोक्तम् इति । किम् इत्यपेक्षयामाह तद्वशात् इति । तद्वशात् इति हेतुभावकथनम्, तद्व्यवस्थानात् इति फलभावकथनम्, इति शब्दः उक्तसमाप्तौ । पक्षान्तरमाह - किं च इति । इह - अस्मिन्संवेदनपथे, व्याप्रियमाणात् - प्रमातुः, व्यापार्यमाणात् - प्रमाणात्, अनन्याकार - एव - अभिन्न [अभिन्नव एव - च्।] एव । देशकालाद्यभेदिनि इति व्याचष्टे विमर्शबलेन इति । यतः कारणात् प्रमाणं विमर्शबलेन भवति, विमर्शाभावे हि प्रमाणगृहीतमपि वस्तु अगृहीतकल्पमेव, विमर्शश्च शब्दः जीवितमस्येति तादृशः भवति शब्दस्मृतिरूपत्वात् । शब्दश्च देशकालादिरूपैः - देशकालाकार-स्वरूपैः आभासान्तरैः - वस्तुमात्रावभासादन्यैराभासैः अनामृष्टे - अमृष्टे, एकत्रैवाभासमात्रे - सामान्यरूपे केवले आभासे, प्रवर्तते - प्रवृत्तिं भजते । कथमित्यपेक्षायामाह घट इति । घट इति - घटत्वपरामर्शः, लोहित इति तद्रूपपरामर्शः, ततः - तस्मात्, स्वलक्षणत्वस्य - स्वलक्षणभावस्य यदर्पणम् - सम्पादनम्, तत्र प्रवणयोः, तत्तद्देशकालावच्छिन्नमेव हि स्वलक्षणं स्वं ल - लक्षणं भवति, देशकालानवच्छिन्नस्य सामान्यत्वात् ।
ईदृशयोः देशकालाभासयोः अनामिश्रणात् - मिश्रीभावाभावात्, सामान्यायमाने - परमार्थतः सर्वतो व्यवच्छेदेन स्थितत्वाभावात् सामान्यत्वाभावेऽपि सामान्य इव स्थिते, आभासे - घटाभासे लोहिताभासे वा, प्रमाणं प्रवर्तते, प्रवृत्तिं भजते, न तत्स्वलक्षणत्वापादकयोर्देशकालयोः, पृथक् प्रमाणप्रवृत्तिविषयत्वात्, अन्यथा
अयम् इत्यपि हि अवभास आभासान्तरानामिश्रे पुरोऽवस्थिते भावावभासमात्रे, [पुरोऽबस्थितावभासमात्रें - क्। ष्। ष्।] इति उक्तं श्रीमदाचार्यपादैरेव -
नियतेऽप्ययमित्येवं परामर्शः पुरःस्थिते । सर्वभावगतेदन्तासामान्येनैव जायते ॥
इति । तत आभासमात्रमेव [तत एवाभासमात्रमेव - क्। ष्। ष्।] वस्तु, स्वलक्षणं तु तदाभाससामानाधि -
तयोरप्येतद्रूपत्वापातात्, प्रमाणभेदादेव हि प्रमेयभेद इति भावः । ननु घट इत्याभासेऽयं न्यायो भवतु, अयम् इति योऽङ्गुलीनिर्देशेनावभासः तत्र तु स्वलक्षणस्य स्फुटमेव ग्रहणम् इत्यत आह अयम् इत्यपि इति । आभासान्तरानामिश्रे देशकालाभासमिश्रीभावरहिते, भावाभासमात्रे, घटाभासमात्रे लोहिताभासमात्रे वा, केनोक्तम् इत्यपेक्षायामाह - आचार्य इति । केन वाक्येनोक्तम् इत्यत आह नियते इति । अयमत्रार्थः अयमित्येवं परामर्शः पुरःस्थिते नियतेऽपि - अर्ग्रे स्थिते परिमिते घटादावपि, अपि शब्देन अनियतेऽत्र सन्देह एव नास्ति इति सूचितम् । सर्वभावेषु गता या इदन्ता तस्याः सामान्येनैव साधारण्येनैव, जायते । अयं भावः - पुरुषोऽयमिति पुरोगतं नियतं घटादिग्रहणमपि तत्स्वलक्षणं न गृह्णात्येव, अन्यथा सर्वसामान्येदंशब्दोच्चारायोगात्, यदा त्वन्यैः प्रमाणैर्गृहीतयोर्देशकालयोस्तत्र योजनां करोति अयमिदानीमिह इति तदैव तत्स्वलक्षणग्रहणम् देशकालवशेनैव तस्यासाधारणस्वरूपत्वभावनादिति । इति शब्द आचार्यवाक्यसमाप्तौ । फलितमाह ततः इति । ततः - ततः कारणात्, [कारणात् - च्।] आभासमात्रमेव - केवलः सामान्याभास एव, भवति, स्वप्राधान्येन स्थितत्वेन देशादियोजनानपेक्षत्वात् ।
स्वलक्षणं वस्तु न भवति, देशादियोजनाप्राणत्वेन काल्पनिकत्वात् । एतेन सामान्यस्यावस्तुत्वं कथयतां बौद्धानां स्थूलबुद्धित्वं दर्शितम् । ननु तर्हि स्वलक्षणग्रहणं कथं सिद्ध्यति इत्यत आह स्वलक्षणं तु इति ।
स्वलक्षणम् - अन्याननुयायि स्वरूपम्, तदाभासानां - देशकालवस्तुरूपाभासानां यः सामाना -
करण्याभासरूपम् आभासान्तरम् एकम् अन्यदेव, तत्र च पृथगेव च प्रमाणम्, तत्परं मिश्रीकारेषु तेषु आभासेषु गृहीतग्राहि न प्रमाणम् इति अग्रे भविष्यति, अध्यवसायस्य अस्मदुक्तनयेन शब्दप्रणितस्य प्रयाभासविश्रान्तौ तदपेक्षमपि प्रामाण्यं वदता प्रत्याभासनिष्ठमेव प्रामाण्यमुपेत्यम्, इत्यास्ताम्, किमवान्तरेण ।
धिकरण्याभासः - मिश्रताभासस्तद्रूपं सत्, आभासान्तरं वस्त्वाभासादन्य एवाभासो भवति । तत्र चान्यदेव पृथक् प्रमाणं भवति एतेन तार्किकमतनिरासः । ते ह्येकस्यैव प्रमाणस्य सामान्यस्वलक्षणविषयत्वं कथयन्ति, तत्रापि च स्वलक्षणस्य श्रेष्ठत्वमिति । स्वलक्षणग्राहकस्य प्रमाणस्याप्रमाणत्वं साधयति तत्परम् इति । तत् - प्रमाणम्, मिश्रीकारेषु - मिश्रीकाररूपेषु, तेषु आभासेषु परम् - केवलम् गृहीतग्राहि भवति । प्रथमं हि सामान्यादित्रयं स्वस्वविषयैः प्रमाणैर्गृहीतमेव, तदनन्तरमिदं प्रमाणं विशेषणविशेष्यभावेन योजनामात्रमेव करोति, इत्यतस्तत्प्रमाणं न भवति, अगृहीतग्राहित्वात्प्रमाणस्य । तदुक्तम् :-
अनधिगतार्थाधिगन्तृ प्रमाणम् ।
इति । यद्यप्येतद्दर्शने भाते सर्वत्र प्रामाण्यमेव, तथापि बौद्धादिभङ्गार्थमेवमुक्तम् । नन्वस्मिन्वस्तुनि विस्तारो युक्त इत्यत आह अग्रे इति । अत इह न तन्यते इति भावः ।
बौद्धैर्दूषितमध्यवसायप्रामाण्यं [बौद्धैर्दूषितं मध्यप्रामाण्यम् - च्।] सिद्धतया दर्शयति अध्यवसायस्य इति ।
अस्मदुक्तनयेन - अस्मदुक्तरीत्या, शब्दप्राणितस्य स्मृतिद्वारेण विकल्पभावमागत्य शब्देन दत्तसत्ताकस्य, अध्यवसायस्य - सामान्यविषयस्य विकल्पकार्यस्याध्यवसायस्य, प्रत्याभासविश्रान्तौ - ग्रहणान्यथानुपपत्त्या प्रत्याभासं पर्यवसितत्वे सति, तदपेक्षमपि - अध्यवसायापेक्षायुक्तमपि, न तु प्रकाशमात्रापेक्षम्, प्रामाण्यं वदता - कथयता शैवेन अर्थात्तस्याध्यवसायस्य प्रत्याभासनिष्ठम् - सर्वेष्वाभासेषु न तु योजनामात्रेण निष्ठा यस्य तादृशम्, प्रामाण्यमुपेत्यम् - अङ्गीकार्यम्, इति - एतत्, आस्ताम् भवतु, यतः अवान्तरेण - अप्रकृतेन, किम्, न किञ्चिदित्यर्थः ।
ननु यदि विमर्शः प्रमाणव्यापारः स तर्हि द्विचन्द्रेऽपि अस्ति ? मैवम्, स हि संस्कारयोगात् आत्मानमभिमत्प्रसिद्धर्थक्रिया- प्राप्तिपर्य्न्तमनुबन्धयन् [अनुवर्तयन् - क्। ष्। ष्।] अनुन्मूलितवृत्तिः स्थिरः सन् तथा भवति, मध्ये पुनरुन्मूलनं चेत् सहते न तर्हि असौ तथा विमर्शः, नायं विमर्शः पूर्वमपि - एकेन अन्तर्मुखेन वपुषा पूर्वमेव - तस्य निर्मूलनात्, स्वसंवित् अत्र च साक्षिणी, तदैव न इदं रजतम् इति वृत्तपूर्वस्यैव विमर्शस्य अविमर्शीकरणं संवेद्यते ।
अबाधिता इति पदं व्याख्यातुमाह ननु इति । सः - विमर्शः, उत्तरमाह मैवम् इति । कुत इत्यपेक्षायामाह स हि इति । हि - यस्मात्, सः - विमर्शः, संस्कारयोगात् - संस्कारवशतः, अभिमता चासौ प्रसिद्धा च याऽर्थक्रिया तस्याः या प्राप्तिः सा पर्यन्ते यत्र तत्, तावत्कालमिति यावत् । आत्मानम् - परविमार्शाख्यं स्वरूपम् अनुबन्धयन् - अनुवर्तयन्, अत एव अनुन्मूलितवृत्तिः - अबाधितवृत्तिः सन्, तथा - मितिरूपम् भवति । पुनः - पक्षान्तरे, मध्ये चेत् - यदि, उन्मूलनम् - बाधाम्, सहते तर्हि असौ - विमर्शः, पूर्वमपि तथा - मितिरूपो न भवति । कुत इत्यपेक्षायां हेतुमाह एकेन इति ।
एकेन - एकतया स्थितेन, अव्यभिचारेणेति यावत्, अन्तर्मुखेन वपुषा
- स्वरूपेण, न द्विचन्द्र इति रूपेण [इति रूपाव्यभिचारिणे मित्ये - च्।] व्यभिचारिणेति यावत् । पूर्वमेव - पूर्वकाल एव, तस्य - द्विचन्द्रविमर्शस्य उन्मूलनात् - बाधनात्, द्विचन्द्रो नासीदिति द्विचन्द्रप्रत्ययस्य पूर्वमेव स्थितत्वेनोन्मूलनमपि पूर्वकालीनमेव युक्तमिति एवशब्दप्रयोगः । ननु किमत्र प्रमाणम् इत्यत आह स्वसंविद् इति । कुतः साक्षिणी इत्यत आह तदेव इति । अर्थवशेन स्वसंविदिति पदं तृतीयान्तीकार्यम्, यतस्तया स्वसंविदा वृत्तपूर्वस्य - पूर्वसम्पन्नस्यैव विमर्शस्याविमर्शीकरणम् - लक्षणया अयमितिरूपताकरणम् संवेद्यते - अनुभूयते, कथम् ? इति, किमिति ? इदम् - अद्य शुक्तितया पुरो भासमानं वस्तु, तदैव - पूर्वमेव, रजतं न आसीत्, नतु पूर्वं रजतं भूत्वाद्य शुक्तिभावं
उक्तं च एतत् बाधविचारे, वक्ष्यते च
रजतैकविमर्श…
इत्यत्र, एवं स्थिते द्विचन्द्रेऽपि यावत् परकुतूहलसम्पादनमर्थ- क्रियासम्मतम् अपूर्ववस्तुदर्शनाय चिकीर्षति तावत् अवज्ञोपहासशोकादिविवशः परजनवचनाकर्णनेन समुन्मूल्यमानं प्राच्यं द्विचन्द्रोऽयम् इति परामर्शं स्वसंवेदनादेव अभिमन्यते । नन्वेवं यत्र अर्थक्रियां न अन्विच्छति तत्र कथं बाधाबाधव्यवहारः ?
गतमिति । पूर्वमेतदुक्तमिति स्मारयति [पूर्वमेतदुक्तस्स्मारयति - च्।]
- उक्तं च इति । वक्ष्यते इति । रजतैकविमर्श इत्यत्र, वक्ष्यमाणेऽस्मिन् श्लोके इत्यर्थः । एतेन सिद्धं वस्तु कथयति एवं स्थिते इति । अर्थक्रियासम्मतम् - अर्थक्रियात्वेनाभिमतम्, अवज्ञोपहासाभ्याम् - परकृतयावज्ञया [परकृततयावज्ञया - च्।] उपहासेन च ये शोकादयस्तेषां विवशः - आयत्ततां गतः सन् समुन्मूल्यमानमभिमन्यते - बाध्यमानं जानातीति सम्बन्धः । अत्र शिष्यः प्रश्नं करोति नन्वेवम् इति । अन्विच्छति - प्राप्नोति । उत्तरमाह मा भूत् इति । त्रुटितम् - नष्टम् । कुतो न त्रुटितम् इत्यत आह प्रवृत्तिर्हि इति । ननु केनान्येनापि प्रवृत्तिरस्तीत्यत आह किं तर्हि ति । क्वचन - अतिप्रयासरहिते धनव्ययरहिते कुत्रापि वस्तुनीत्यर्थः । कुत इत्यपेक्षायामाह अर्थ इति । अर्थपक्षस्य यदाधिक्यम् - अधिकता, अतिसाधनीयता तस्मात् । अत्रापि हेतुं दृष्टान्तरीत्याह कृष्यादौ इति । पुरुषो हि तत्फलसिद्धौ अनिश्चित एव कृष्यादौ प्रवर्तते । जीवनोपायत्वेन तत्फलस्यशाल्यादेरप्युत्तमत्वात् । संशयेन प्रवृत्तौ हेत्वन्तरं पक्षान्तररीत्याह अर्थित्व इति । अर्थित्वस्य - अर्थाधिक्याभावेऽपि साकाङ्क्षत्वस्य यत् तारतम्यम् - मूढत्वादिना परा काष्ठा तस्मात् ।
अभिनवगुप्तः
मा भूत् - किं नः त्रुटितम्?
प्रवृत्तिर् हि न सर्वत्र प्रमाणत एव।
किं तर्हि?
क्वचन संशयत एव,
अर्थ-पक्षाधिक्यात्
अर्थित्व-तारतम्याद् अपि वा -
कृष्यादौ, स-विषान्न-भोजने, निश्चित-सम्भावित-दृष्ट-प्रत्यवाये च चौर्यादौ प्रवृत्ति-दर्शनात्,
तत् अर्थित्वातिशयः
लोकस्य तावत् [प्रवृतौ तावत् निबन्धनम् - क्। ष्। ष्।] प्रवृत्तौ निबन्धनम्।
स च प्रवृत्तः [लोकश्र प्रवृत्तः - क्। ष्। ष्।]
क्वचन अनुन्मूलित-प्रमितिकः प्रमाणतां प्रतिपद्यते,
क्वचित् अन्यथा - भवन् विपर्ययम् इति ।
भट्टभास्कर-टीका
अत्रापि हेतुं सदृष्टान्तमाह सविष इति ।
निश्चितसम्भावितदृष्टप्रत्यवाये, सविषान्नभोजने निश्चितदृष्टप्रत्यवायत्वम्, चौर्यादौ सम्भावितदृष्टप्रत्यवायत्वमिति क्रमेण योजनीयम् । आदि शब्देन परहिंसनादिग्रहणम् । निश्चितदृष्टप्रत्यवायां सविषान्नभोजनप्रवृत्तौ मम मरणं न भवेदेवेति तर्करूपः संशयो वर्तत एव, तर्कस्य च निश्चयसंशयान्तरालवर्तित्वेन संशयप्रत्यासन्नत्वं वर्तत एवेति न विरोधः । अर्थपक्षाधिक्यं युक्ततत्वेनावस्थाप्यार्थित्वपक्षं फलितत्वेन कथयति तत् इति । तत् - तस्मात्कारणात्, अथित्वातिशयः - लोकस्य तावत् प्रवृत्तौ निबन्धनम् - कारणं भवति । स च - लोकश्च, क्वचन, प्रमास्थले इत्यर्थः । क्वचित्, द्विचन्द्रादिरूपे अप्रमास्थले इत्यर्थः । अन्यथा भवन्, उन्मूलितप्रमितिकः सन्नित्यर्थः, विपर्ययम् - अप्रमाणताम्, प्रतिपद्यते । इति शब्दः प्रमेयसमाप्तौ । अत्रापि फलितं कथयति एवम् इति । एवं सति, ततः - तस्माद्धेतोः, पुरुषः आपातमात्र एव, न तु महाविचारानन्तरमेव, तत्स्वरूपम् - प्रमायाः स्वरूपम् विलक्षणमीक्षते - पश्यति, कथम् ?, मणिरूप्यादिवत्, स्फटिकरजतयोरिवेत्यर्थः । आदि शब्देन पद्मरागादेर्ग्रहणम् ।
अभिनवगुप्तः
एवम्
आजन्म यतोऽनेन अभ्यस्त
आजन्म-शतेभ्यो वा प्रमाणाप्रमाण-विभागः,
ततो मणि-रूप्यादिवत् तत्-स्वरूपम् आपात-मात्र एव विलक्षणम् ईक्षते।
भट्टभास्कर-टीका
एव-शब्दो विचारानन्तरं तद्-वैलक्षण्येक्षणस्यातिस्फुटत्वं द्योतयति ।
ततः कुतः ?
यतो ऽनेन - पुरुषेण,
आजन्म - जन्मन आरभ्य, आजन्मशतेभ्यो वा - पूर्वाणि जन्मशतान्यारभ्य वा,
प्रमाणाप्रमाण-विभागः अभ्यस्तः - अभ्यास-विषयतां नीतः,
सर्वत्र निश्चयेन प्रवृत्तौ
तस्य कुत्रापि अप्रामाण्यं न भवेद् इत्य् एवं-शब्दाभिप्रायः ।
आजन्मशतेभ्यो वा इत्यनेन विकल्परीत्या कथनेन
जन्मान्तरस्य पूर्वस्य [आपूर्वजन्मशतेभ्योऽपि वा - क्। ष्। ष्।] भाविनोपि शैथिल्यम् द्योतितम् ।
ननु तर्हि कथं शास्त्रेषु
जन्मान्तर-प्रसिद्धिर् अस्ति ?
सत्यम्, केषु +अस्ति - [शहित - च्।] अध्यात्मशात्रषु वा ?
अध्यात्मशास्त्रेषु तावद्
एतत् जन्मापि परमार्थतो ऽसत्यतया [परमार्थो सत्यतया - च्।] सम्भावितम्,
का कथा जन्मान्तरस्य?
या त्व् अत्रापि कदाचिज् जन्मान्तरकथा दृश्यते,
साऽवस्थापेक्षया पितृ-पुत्रादि-भावापेक्षया वा भवत्य् एव,
न तु स एव जीव एकतो निर्गत्य
इह लोकेऽन्यं देहमाश्रयतीत्य् अत्र
किम् अपि प्रमाणं दृश्यते ।+++(5)+++
ननु कथं न दृश्यते ? श्रीमद्भगवद्गीतादौ
वासांसि जीर्णानि यथा विहाय
इत्यादिवाक्य-दर्शनात् ?
सत्यम्, अत्राप्य् अवस्था-भेद एव तात्पर्यम् ।
तथा हि - श्रीभगवता तत्रैव
देहिनोऽस्मिन् यथा देहे
कौमारं यौवनं जरा
इत्य्-आदि-कथनात् ।
नन्व् अवस्थाभेदोऽत्र दृष्टान्ततया गृहीतः
न तु दार्ष्टान्तिकतया स्थितः ।
सत्यम्, तज्-ज्ञान् प्रति दृष्टान्त-रीत्या एतत्-सूचितम्,
तज्-ज्ञा हि तज्-ज्ञेषु सूचनयैवार्थान् कथयन्ति,
अवस्था-भेदस्य जन्मत्वं
श्री-मोक्षोपाय-टीकायाम् अस्माभिर् लीलोपाख्याने विस्तरेण निर्णीतम् ।
अथवा श्रीभगवतो ऽमरण-विषयं सुखम् एवात्र विवक्षितम् ।
तथा चैवम् अत्राभिप्रायः -
यथा वाससस् त्यागे कष्टं नास्ति,
तथा मरणेऽपि ।
किं च देहाभिमानिनं प्रत्य्
एवं कथनं युक्तम् एव -
स हि एतच् छुत्वा पर-लोक-भयेन
यत्र तत्र प्रवृत्तिं न कुरुते।
एतेन स्मृति-शास्त्राभिप्रायोऽपि उक्त-प्राय एव,
तत एव श्रीभगवतात्र देहिन इत्युक्तम् ।
पुत्रस्योत्तर-जन्मत्वं श्रुत्या स्फुटम् एवोक्तम् -
“आत्मा वै जायते पुत्रः” इति ।
तथा च पितुः पूर्वजन्मत्वं स्फुटम् एव
यथा वेतस-शाखादेर् आरोप्यमाणस्य
यतोऽसाव् आनीतः स वृक्षः पूर्व-जन्म
तच्छाखाया उत्पन्नो वृक्षः उत्तरजन्मेति
को दोषः ।+++(5)+++
किं चैकचित्तत्त्वापेक्षया
सर्वाणि जन्म-मरणानि एक-विषयाण्य् एव।+++(5)+++
तथा चान्य-जीव-जन्म-मरणादिनापि [अन्यजीवन जन्ममरणादिनापि]
अन्य-जीवस्य जन्म-मरणादिमत्त्वं युक्तम् एव।
तथा च कारण-भेदादि-कृतम्,
ततश् च यद्-आर्तिं परिमितां सह्याम् अभिमन्यते
तत एव अर्थिता-महाग्रहेण
यत्र तत्र न प्रेर्यते।
तदा विसंवाद-भीरुः निश्चित-प्रामाण्यात् बोधात्
अदृष्टे दृष्टेऽपि वा प्रवर्तमानो
न विसंवाद्यते, इति स प्रेक्षा-पूर्व-कारि भण्यते।
तेन लौकिकं प्रमाण-स्वरूपम् अनूदितम् -
सामान्य-सम्बन्धादि-ज्ञाने ऽपि
मोहाद् अ-प्रामाण्य-शङ्कां शमयितुम्।
अत एव विभाग-विशेष-लक्षण-परीक्षादिभिर्
इह न आयासितो -
यथा ऽब्दौ क्षिप्तो जल-कुम्भः
पुनर् नवीनम् उद्धृतो यदा भवेत्
तदैकत्वापेक्षया तद्-गतं जलम् अपि परिलीय,
नवीनम्, पुनर्-उत्थितं वक्तुं शक्यते।
एवं मृतोऽपि जीव एकत्वेनान्य-जीवापेक्षया जात
इत्य् अपि वक्तुं शक्यत एवेत्य्
अलम् उच्छृङ्खल-जन-नियमनार्थं कल्पित-शृङ्खला-रूप-वैदिक-विधि-निषेध-चोदना-त्रोटनेन [त्रोरनेन - च्।] ।+++(5)+++
महाजनास् तु स्वयम् एव स्वभावेन नियमिताः सन्तः
एतत् परमार्थं ज्ञास्यन्त एव । यद् उक्तम् :-
विषय-प्रतिषेधाश् च
स्वभावो विदितात्मनाम् । नियामकास् तु मूर्खाणां
चौराणाम् इव शृङ्खलाः ॥+++(5)+++
इति ।
अभिनवगुप्तः
अस्ति हि तस्य परमार्थतो वैलक्षण्यं कारणभेदादिकृतम्।
ननु विमर्श-द्वयस्य परमार्थतो यदि प्रमाणत्वाप्रमाणत्व-वैलक्षण्ये हेतुर् नास्ति
तर्हि कथम् अभ्यास-पाटवे ऽप्य् आपाते ऽपि भानं युज्यते,
तद्-विस्फुट-हेतुकस्यैव युक्तम्
इत्य्-अपेक्षायाम् आह “अस्ति हि” इति । तस्य - प्रमाणाप्रमाणत्वस्य, फलितं वस्तु सङ्गृह्य कथयति, ततश्च इति । सह्याम् - सोढुं शक्याम्, यत्र तत्र - संशयिते वस्तुनि, ततः - आर्तेः सह्यत्वात्, विसंवादभीरुः - विप्रलम्भभीतः [विप्रलम्भापीतः - च्।] सन्, अदृष्टेलक्षणयादृष्टविषये यागादौ, सः - पुरुषः, प्रेक्षापूर्वकारी विचारपूर्वकारी, भण्यते - कथ्यते, प्रामारायनिश्चयानन्तरं प्रवृत्तेरित्यर्थः ।
एतदवष्टम्भेन लोके प्रसिद्धस्य प्रमणकथनस्यानुवादत्वे युक्ततां साधयति तेन इति । तेन - यतः प्रमाणेन वस्तु निर्णीयानन्तरं प्रवृत्त एव पुरुषः प्रेक्षापूर्वङ्कारी भण्यते, ततः कारणात् सूत्रकृता सामान्यसम्बन्धादिज्ञानेऽपि - व्यवहारकारणत्वेनातिप्रसिद्धे सामान्यादिज्ञानेपि, मोहात् अप्रामाण्यशङ्काम् - बौद्धैर्मोहवशेनोत्पादितामप्रमाणत्वशङ्काम्, शमयितुम् - दूरीकर्तुम्, प्रमाणस्वरूपमनूदितम् - लोके
लोकः । यत् यत् अवाधितस्थैर्यम् अत एव अप्रतिहतानुवृत्तिकं विमर्शफलं विधत्ते तत्तद् बोधरूपं बोध्यनिष्ठं प्रमातृस्वरूपविश्रान्तं प्रमाणम् इति । तच्च ऐन्द्रियके वोधे सुखादिसंवेदने योगिज्ञाने च अविवादमेव, मुख्यतयैव प्रमेयरूपे आबासे साक्षात् विश्रान्तेः ।
प्रसिद्धत्वेपि अनुवादरित्या पुनः कथितम्, अतिकाङ्क्षितं वस्तु हि पुनः पुनः कथ्यते ऐवेति भावः । ननु तर्हि विभागादि कथं न कृतमृत्यत आह अत - एव इति । अत एव - अनुवादाद्धेतोरेव, सामान्यलक्षणानुवादमात्रेणाभिप्रेतसिद्धेः लोके प्रसिद्धानां विभागादीनामनुवादो न कृत एवेति भावः । ननु लोके कथं प्रमाणसामान्यलक्षणादेः प्रसिद्धत्वमस्ति येनानूदितमित्युक्तम् इत्यपेक्षायां लोकप्रसिद्धं प्रमाणसामान्यादिलक्षणादि कथयति यत् इति ।
अप्रतिहतानुवृत्तिर्यस्य तादृशम्, स्वरूपविपर्ययासहमित्यर्थः ।
विमर्शफलम् - विमर्शाख्यं फलं प्रमाणमिति यावत् ।
बोध्यनिष्ठम् इत्यनेन प्रमातुर्व्यावृत्तिकारिणो बाह्योन्मुखत्वस्य कथनम्, प्रमातृस्वरूपविश्रान्तम् इति, तदाश्रयत्वात् अन्यथा बाह्यविषयत्वायोगात् इति भावः । सा च प्रमातृविश्रान्तिरहं पश्यामिति प्रयोगे स्फुटैव, इति शव्दो लोकप्रसिद्धप्रमाणसामान्यलक्षणसमाप्तौ । अस्य सामान्यलक्षणस्य विशेषेषु विश्रान्तिं दर्शयति तच्च इति ।
तच्च - प्रोक्तं सामान्य लक्षणं च, ऐन्द्रियके बोधे - बाह्येन्द्रियकृते पश्यामिति क्रियावाच्ये ज्ञाने, सुखादिसंवेदने - अन्तरिन्द्रियमनःकृते सुखादिज्ञाने, कुत इत्यपेक्षायामाह मुख्यतयैव इति । नत्वनुमानादिवत्प्रत्यक्षसापेक्षत्वेन, प्रत्यक्षपूर्वकत्वात् अनुमानस्य । साक्षात् इति, न त्वनुमानादिवल्लिङ्गज्ञानादिव्यवधानेनेत्यर्थः । एतेन प्रत्यक्षप्रमाणस्य सामान्यलक्षणयोजनम्, विशेषलक्षणं तु ऐन्द्रियके इत्यादि - विशेषणसूचितमेव ज्ञेयम् । ननु तार्किकैर्बोधाबोधरूपायाः सामग्र्या अबोधरूपस्येन्द्रियादेर्वा प्रमाणत्वमुक्तम्, इह कथं बोधमात्रस्यैव ? सत्यम्, सामग्र्या यत् प्रमाणत्वमुक्तं तद्युक्तमेव, तदन्तर्गतं ह्यस्माभिरुक्तं प्रमाणमपि भवति एवान्यथा सामग्रीत्वायोगात् ।
यत्त्विन्द्रियादेरुक्तं तदयुक्तमेव सर्वदा ज्ञानोत्पादप्रसङ्गात्, न हीन्द्रियं जीवतः कुत्रापिं क्षनेऽसन्निहितमिति वक्तुं शक्यते, अतिशयश्च करणस्य तत्सन्निधाववश्यं फलोत्पाद एव नान्यत् किञ्चित्, यच्च गौणत्वसाधनं तत्कुशकाशावलम्बनमेव ।
बाह्योन्मुखो बोधस्तु बाह्यपरामर्शमवश्यमेव जनयति इति तस्य सातिशयत्वम् । यस्तु प्रमाणफलयोरभेदः शङ्कितः, स बाह्या -
अनुमानजा तु प्रतीतिः आभासान्तरात् कार्यरूपात् स्वभावभूतात् वा आभासान्तरे प्रतिपत्तिः, वस्त्वन्तरस्य च तेन साकं कार्यकारणभावनियमः सामानाधिकरण्यनियमश्च ईश्वरनियतिशक्त्युपजीवन एव अवधार्यो भवति न अन्यथा । तेन यावति नियतिर्ज्ञाता तावति देशे काले वा अनुमानं प्रमाणम् ।
आगमस्तु नामान्तरशब्दनरूपो [नामान्तरः शब्दनरूपः - क्।
ष्। ष्।] दृढीय स्तमविमर्शात्मा चित्स्वभावस्य ईश्वरस्य अन्तरङ्ग एव व्यापारः
न्तर्मुखत्वनिवारित एवेत्यलं प्रपञ्चेन । अनुमानेऽपि प्रमाणसामान्यलक्षणयोजनां करोति अनुमान इति । तु शब्दः प्रत्यक्षप्रमाणाद्व्यतिरेकद्योतकः । कार्यरूपात् - अग्न्यनुमाने धूमरूपात्, स्वभावभूतात् वृक्षानुमाने शिंशपारूपात्, आभासान्तरे - अग्निरूपे वृक्षरूपे वा । ननु तत्र कार्यकारणभावस्तादात्म्यं वा कथं भवति इत्यत आह वस्त्वन्तरस्य इति । वस्त्वन्तरस्य - घूमरूपस्य शिंशपारूपस्य वा, तेन साकम्, अग्निना वृक्षेण वा सहेत्यर्थः ।
सामानाधिकरण्यनियमः - तादात्म्यसम्बन्धनियमः ।
ईश्वरनियतिशक्त्युपजीवनः - ईश्वरसम्बन्धिनियतिशक्तिनियतत्वेन तत्सापेक्षः । फलितमाह तेन इति । तथा च नारिकेलद्वीपदेशवासिनां न घूमेनाग्न्यनुमानसिद्धिः [अग्न्यनुमानमितिसिद्धिः - च्।], विस्मृतव्याप्तिकानां वा विस्मृतिकाले अगृहीतव्याप्तिकानां च तस्मिन्काले इति भावः । एतेनानुमानाख्ये प्रमाणे प्रमाणसामान्यलक्षणं योजितम्, विशेषलक्षणं त्वाभासान्तरादाभासान्तरे प्रतिपत्तिरित्येवं रूपं साक्षात्कथितं ज्ञेयम् । आगमप्रमाणेऽपि सामान्यलक्षणं योजयति आगमस्तु इति । तु शब्दः पूर्वप्रमाणद्व्याद्व्यतिरेकद्योतकः, आगमो नाम - आगमाख्यं वस्तु, चित्स्वभावस्य - चित्स्वरूपस्य, प्रकाशरूपस्येति यावत् । अन्तरङ्गः - स्वभावतया स्थितः ।
व्यापारो भवति । कुत इत्यपेक्षायां हेतुगर्भं विशेषणमाह आन्तरशब्दनरूपः इति । आन्तरम् पराभावेन स्थितत्वेपि पश्यन्तीभावमागत्य मध्यमाभावेन स्थित्वा परिमितप्रमातृद्वारेण वैखरीभावेन स्थितं च यत् शब्दनम् - जल्पनम् तद्रूपं यस्य तादृशः, अत एव दृढीयस्तमः - अतिशयेन दृढः, स्वरू -
प्रत्यक्षादेरपि जीवितकल्पः तेन यत् यथामृष्टं तत [यत् यत् आमृष्टम् - क्। ष्। ष्।] तथैव यथा नैतत्
पादव्यभिचारीति यावत्, यः विमर्शः - अहमिति परामर्शः, तस्मादात्मा स्वरूपलाभः, बहिः सञ्चार इति यावत्, यस्य तादृशः । तदुक्तम् :-
आगतं शिववक्रात्तु गतं च गिरिजामुखे ।
मतं श्रीवासुदेवेन आगमस्तेन कीर्तितः ॥
इति । अत्रायमभिप्रायः । यः शिवः प्रकाशस्तस्य मुखादागतं तत्र प्रथमं पराभावेन स्थितत्वात् पश्यन्तीभावमागतमित्यर्थः, तत्र भातमिति यावत् । तथा गिरिजामुखे, गिरिजा अविचलद्रूपात् [अचिर्वलरूपात् - च्।] परमेश्वरादुत्थिता विमर्शेशक्तिस्तस्या मुखे गतम् - मध्यमाभावेन तया परामृष्टमित्यर्थः । तथा श्रीवासुदेवेन
- भेदप्रधानप्रमातृवर्गव्यापकेन देवेन, मतम्, इदं शास्त्रमागमः कीर्तितः वर्णत्रयेणैवं सूचनादिति भावः ।
सन्ध्यभावोऽत्रैश्वर इति न दोषः । एतेनागमशास्त्रेषु स्थितं श्रीदेव्युचाच, श्री भैरव उवाच इत्यादि प्रयोगजातमपि समर्थितं ज्ञेयम्, भैरवो हि सर्वभरितः प्रकाश एव, देवी तु क्रीडाशीला विमर्शशक्तिः, वचनं तु परापश्यन्तीमध्यमावैखरीभावेन चतुर्विधम् । ततः शास्त्रस्य प्रकाशे पराभावेन सततमवस्थानम्, ततो निर्गमौन्मुख्ये पश्यन्तीभावेन तत्रैव भासनन्, ततो विमर्शे मध्यमाभावेन रूढिः तदैव तद्विमृष्टमिति प्रोच्यते, ततो बाह्ये शास्त्रकारेषु बैखरीभावेन स्थितिः, तत्र च मौलिकमुत्थानमपेक्ष्य भैरवदेवीसंवादकथनम् । ननु तर्हि सर्वत्रैवदेव भवेत् ।
भवतु काहानिः, तज्ज्ञान्प्रति, अतज्ज्ञेषु त्वेतत् कथनमयुक्तमेव, अत एव कारुणिकैर्न सर्वत्रैषा घोषणा कृता, अस्माभिस्तु व्याख्यायामुद्यतत्वेनैषोऽर्थः स्फुटीकृत एव । ननु तर्हि रहस्योद्घाटनं सम्पन्नम् ? न सम्पन्नम्, अनधिकारिणामत्र विश्वासाभावात्, अधिकारिणां तु तत्सम्भवेऽपि उच्छृङ्खलत्वायोगात्, उद्घाटनं हि अयोग्ये स्थाने प्राप्तिरेवत्यलं प्रपञ्चेन । एवं चान्तरशब्दनरूपस्यागमस्य अन्तरङ्गत्वं स्फुटमेव, प्रकाशस्य विमर्शस्वभावत्वात् । पुनः कीदृशोऽसौ ? प्रत्यक्षादेरपि - प्रत्यक्षानु - मानयोरपि, जीवितकल्पः - जीवितसदृशः, तयोरपि विमर्शप्राणत्वेन साधनत्वात् । एतेन बाह्यवादनिरासः, तेषु हि प्रत्यक्षापेक्षत्वं शब्दप्रमाणस्योक्तम् । कुत इत्यपेक्षायां वाक्यं हेतुत्वेनाह तेन इति, यतः तेन - आगमेन, यत् यथामृष्टं - परामृष्टम्, उक्तमिति यावत्, तत् तथा भवति । अत्र प्रत्यक्षफलं विषापसारमन्त्रमुदाहरति यथा इति । इति शब्दो मन्त्रसमाप्सौ ।
शास्त्रान्तराणाम -
विषं मां मारयति गरुड एव अहम् इति । तत्र तु तथाविधे शब्दनात्मनि विमर्शे आनुकूल्यं यो भजते शब्दराशिः सोऽपि प्रमाणम्, यथा - वेद सिद्धान्तादिः, अन्योऽपि वा बौद्धार्हतागमादिः, तेन हि यत् शब्दनम् उत्पादितं ज्योतिष्टोमकारी अहं स्वर्गं गन्ता इति दीक्षितोऽहम् अपुनरावृत्तिभागी इति कारुणिकोऽहं बुद्धपदं गन्ता इति गाढक्लेशसहिष्णुरहम् अर्हत्पदं प्रपत्ता इति, तत्र न विपर्यय उदेति, तदा श्वस्तस्यैव तत्र अनुष्ठानयोग्यत्वात्, अन्यस्य तु दृढप्रतिपत्तिरूपत्वाभावात् अप्रमाणमेव तथाविमर्शनात्मकं शब्दनम् । नन्वेवं तदेव शास्त्रं कञ्चित्प्रति प्रमाणं कञ्चित्प्रति न इति स्यात्, न चैतद्युक्तम् - अपक्षपातित्वात्प्रमाणस्य इति, अतत्त्वज्ञोऽसि प्रतीतिवृत्तस्य, तथापि
प्येतदानुकूल्ये प्रमाणत्वं कथयति तत्र इति । तत्र, तत्र सतीत्यर्थः, तथाविधे - आगमशास्त्ररूपे, आनुकूल्यम् - अनुवर्तित्वम् । ननु कोऽसौ शब्दराशिरित्यत आह वेद इति । अन्यः - वेदविरुद्धः, कुत इत्यपेक्षायामाह तेन हि इति । तेन - वेदादिना, प्रपत्ता, प्रापीत्यर्थः कुतो नोदेतीत्यत आह तदाश्वस्तस्य इति ।
अन्यस्य - अनाश्वस्तस्य, तदिति शेषः । अप्रमाणमेव, न तु प्रमाणमपीति भावः । एतेन विषापसारणमन्त्रस्याप्याश्वासपूर्वं जपादिनैव फलसाधकत्वमुक्तम् । तथा च पठनमात्रेणैतत्फलाभिलाषिणां महाजनानामप्युपहासपात्रत्वमेव दृश्यते ।
सामान्यजनरूपाणामपि गारुडिकानामेतादृङ्मन्त्रसिद्धिरिति न काप्यनुपपत्तिः, तदुक्तम् :-
तदाक्रम्य बलं मन्त्राः सर्वज्ञबलशालिनः ।
प्रवर्तन्तेऽधिकाराय करणानीव [कारणान्येव - च्।] देहिनाम् ॥
इति । अत्र तच्छब्देनात्मबलपरामर्शः तच्चाश्वासदार्ढ्यमेव न त्वात्मग्रहः, तद्युक्तानां सर्वेषु शब्देषु मन्त्रतादर्शित्वेन मन्त्रापेक्षाराहित्यात् । अत्र शिष्यः प्रश्नयति नन्वेवम् इति । एवम्, एवं सतीत्यर्थः, कञ्चित् - कमपि प्रमेयभागम्, इति स्यात्, एतदागतमित्यर्थः । नन्वेतदेव भवतु का हानिरित्यत आह न चैतत् इति । कुतो न युक्तमित्यत आह अपक्षपातित्वात् इति, न हि प्रमाणस्य पक्षपातिता युक्ता इति भावः । इति शब्दः प्रश्नसमाप्तौ । उत्तरमाह अतत्वज्ञोऽसि इति । प्रतीतिवृत्तस्य - प्रतीतिस्वरूपस्य । ननु तर्हि
नोपेक्ष्यसे, अपक्षपाति प्रमाणम् इति कः अस्य वचनस्य अर्थः, किं यत् एकस्य नीलज्ञानं प्रत्यक्षरूपं तत् किं सर्वस्य नीलं भासयति धूमज्ञानं वा अग्निम्, त्वं प्रातर्निधिमनेन विधिना लब्धासे इति च यः सिद्धादेश [सिद्धादेशरूप आगमः - क्। ष्। ष्।] आगमः स किं सर्वान्प्रति प्रमाणम्, अथ कस्यापि कदाचित् किञ्चित्, तथा इहापि दृढविमर्शनरूपं शब्दनम् आसमन्तात् अर्थं गमयति इति आगमसञ्ज्ञकं प्रमाणं सर्वस्य तावत् भवति, तत्र यथा मिथ्याज्ञानसहायतां [मिथ्याज्ञाने सहायताम् - क्। ष्। ष्।] भजमानम् आलोकेन्द्रियादिकम् अप्रमाणतासविवम् अप्रमाणम्, न च एतावता सम्यग्ज्ञानरूपस्य [सम्यक्ज्ञानस्वरूपस्य - क्। ष्। ष्।]
मौनमेव कुरु इत्यपेक्षायामाह तथापि इति । नोपेक्ष्यसे - उपेक्षाविषयतां न नीयसे, अनुगतत्त्वादिति भावः ।
शिष्योक्तोत्तरावष्टम्भेनोतरं दातुं शिष्यं प्रत्येव प्रश्नं करोति अपक्षपाति इति । अर्थः - अभिधेयम्, धूमज्ञानं वा सर्वस्याग्निं भासयति इति सम्बन्धः । सिद्धादेशः, तप आदिना सिद्धियुक्ताः सिद्धास्तैः कृत आदेशः - आज्ञा सिद्धादेशः, अत्रायुक्ततां ज्ञात्वा पक्षान्तरं शिष्यमुखेनैव कथयति अथ इति । शिष्योत्तरानुसारेणैवोत्तरं करोति तथा इहापि इति ।
आगमशब्दस्यान्वर्थतां दर्शयितुमाह आसमन्तात् इति ।
आगमसञ्ज्ञकं शब्दनं तावत्सर्वस्य प्रमाणं भवति इति सम्बन्धः । अत्र कस्यापि विप्रतिपत्तिर्नास्तीति तावच्छब्दाभिप्रायः । ननु तर्हि एतेन शास्त्रेण सर्वेषां शूद्रादीनां कथं नादृढविमर्शनरूपा प्रमा भवति, येन पक्षपातिता न भवेत्, इत्यपेक्षायामधिकारिभेदपराणां शास्त्राणामेवायं दोषो न तत्कृतबाह्योन्मुखसम्यग्ज्ञानरूपस्य प्रमाणस्येत्यभिप्रायेण भङ्ग्या सदृष्टान्तमुत्तरमाह तत्र इति । तत्र, आगमसञ्ज्ञके शास्त्रे प्रमाणे सतीत्यर्थः, मिथ्याज्ञानसहायताम् - मिथ्याज्ञानस्यबाह्योन्मुखासम्यग्ज्ञानरूपस्य प्रमाणाभासस्योत्पादे सहायभावम् भजमानम्, ज्ञानकर्तरि इति शेषः । न ह्यालोकेन्द्रियादिकं विना मिथ्याज्ञानोत्त्पाद्ॐ युक्त इति भावः । आलोकेन्द्रियादिकम् - आदिशब्देनेन्द्रियार्थसन्निकर्षादेर्ग्रहणम् । अप्रमाणतासचिवम् - मिथ्याज्ञानाप्रमाण्ये सचिवं सत्, अप्रमाणं भवति, काचकामलादिदोषोपहतत्वात् । न चैतावता सम्यग्ज्ञानरूपस्य - प्रत्यक्षप्रमाण -
प्रत्यक्षस्य काचित् पक्षपातिता, तथा स एव ज्योतिष्टोमादिशब्दः शूद्रादेरदृढविमर्शात्मनि अत एवाप्रमाणे आगमाभासे साचिव्यं विदधदपि दृढविमर्शात्मकसत्यागमरूपशब्दनलक्षणप्रमाणोप- योगितायां प्रामाण्यं भजन् न पक्षपातापक्षपातदोषप्रतिक्षेपयोग्यः, सर्व एव हि आगमो नियताधिकारिदेशकालसहकार्यादिनियन्त्रितमेव विमर्शं विधत्ते,
रूपस्य साक्षात्कारिण्याः प्रमायाः कञ्चित्पुरुषं प्रत्येव करणे, काचित् - कापि, पक्षपातिता - पक्षपातयुक्तत्वं न भवति, रोगादिराहित्यवशेन तत्कारित्वात् । तथा स एव ज्योतिष्ठोमादिशब्दः - ब्राह्मणादेरधिकारिणः प्रति आगमे प्रमाणताकारी ज्योतिष्टोमादिविधिशब्दः, शुद्रादेः - अधिकाररहितानां शूद्रस्त्र्यादीनाम्, अदृढविमर्शात्मनि - अदृढविमर्शरूपे, अत एवाप्रमाणे - शूद्रादिकं प्रति प्रमाणतया स्थापितेऽपि परमार्थतोऽप्रमाणे, अत एव आगमाभासे - परमार्थत आगमत्वाभावेऽपि तद्वदाभासमाने, साचिव्यम् - सहायताम्, विदधदपि, वेदे एव हि शूद्रादेः वेदव्यतिरिक्ते स्मृत्यादिरूपे शास्त्राभासेऽधिकारो विहितः । दृढविमर्शात्मकं यत् सत्यागमरूपं शब्दनं तदेव लक्षणं स्वरूपं यस्य तादृशं यत् प्रमाणं तस्योपयोगितायाम् - साहाय्ये, पक्षपातापक्षपातदोषप्रतिक्षेपयोग्यः, [प्रतिक्षेपसेवयोग्यः - च्।] अधिकारभेदकथनमात्रदोषवशेन तदायातेन पारमार्थिकत्वाभावान्न भवतीत्यर्थः । कुतो न भवति इत्यत आह सर्व एव इति । हि - यस्मात्, सर्वः - विधि रूपो निषेधरूपो वा, आगमः, नियताः ये अधिकारिदेशकालसहकार्यादयः तैः नियन्त्रितम् - नियतमेव न त्वनियतम्, विमर्शम् - प्रमारूपं फलम्, विधधत्ते - करोति । तथा चानधिकारित्वेऽपि वेदान्तादिशास्त्रेष्ववगाहनं कुर्वतां स्ववञ्चकत्वमेव, यस्यैव हि तेनैव शास्त्रेणाधिकारो विहितः तस्यैव तत्र प्रवृत्तिः कार्याऽन्येषां तु प्रवृत्तानां दोषापात एवेत्यलं प्रपञ्चेन ।
तत्र अधिकारिनियमः स्वर्गकामो यजेत इति । देशनियमः समे देशे यजेत इति । कालनियमः उदिते जुहोति सायं प्रातः सन्ध्यामुपासीत इति । सहकारित्वं तु सर्वेषां योजनीयम् । आदिशब्देन द्रव्यादिग्रहणं यथा पयसा जुहोति जन्तिल यवाग्वा जुहुयात् इति ।
अथवा सहकार्यपि पृथग्नियत एव, यथा यज्ञे पत्न्याः सहकारित्वम्
विधिरूपो निषेधात्मा वा । तेन प्रसिद्धिः [अत एव
प्रसिद्धिरविगीता हि सत्या वागैश्वरी मता ।
तयेति यत्र हि यदा यत्तद्ग्राह्यमशङ्कितैः ॥ - क्। ष्। ष्।]
इति श्लोके यत्र यदा इत्युक्तम्, तेन - प्रत्यक्षागमौ बाधकौ अनुमानस्य, इति तत्रभवद्भर्तृ -
यज्ञसंयोग एव पत्नीशब्दसाधनात् । एतेन फलितं वस्तु कथयति तेन - इति । यतः अधिकार्यादिनियमः ततः कारणादित्यर्थः ।
तथाचैवमयं श्लोकः -
प्रसिद्धिरविगीता हि सत्या वागैश्वरी मता । तया यत्र यदा सिद्धं एतद्ग्राह्यमसंशयम् ॥
इति अविगीता - वेदाविरुद्धा, तथा च प्रसिद्धमपि वेदविरुद्धं चेत्त्याज्यमेव । प्रसिद्धिरित्यनेनाविदितकर्तृकं परम्परागतमुपदेशजातं गृहीतम् । ऐश्वरी वाक् - ईश्वरसम्बन्धिनी वाक्, आगमवागित्यर्थः । तया - ईश्वरीयवाचा, यत्र यस्मिन्नधिकारिणि देशे वा, यदा - यस्मिन्काले । एवं च सर्वम् आगमशास्त्रं परम्परागतमेव । तथा चात्र श्रीमत्तन्त्रालोके प्रसिद्धिनिबन्धकारिणां श्रीमठिकागुरूणां निर्णयः कृत एवेत्यलं रहस्येषु सूक्ष्मेक्षिकाभिः । ननु किमेते उपदेशाः वेदे न सन्ति येन प्रसिद्धिः शरणीकृता । सत्यम्, न भविष्यन्त्यपि, न हि श्रीपरमेश्वरस्यैश्वर्यमेतावन्मात्रे समाप्तिं गतम् । सन्तोऽपि वाऽतिरहस्यत्वेन तत्र व्याख्याकृद्भिर्न स्फुटीकृताः, इति कर्णोपकर्णिकया महागुरुभिर्महाशिष्येषु सूचिताः, दयावद्भिः मठिकागुरुभिः प्रकटीकृताः । तेषां ह्ययमभिप्रायः ।
येषामधिकारस्तेऽयत्नं ज्ञास्य -
हरि न्यायभाष्यकृत्प्रभृतयः, तस्मात् प्रमाणलक्षणे ज्ञाते सर्वं प्रमाणस्वरूपं ज्ञातं भवति किं विशेषलक्षणैः, यस्तु अविसंवादकत्वं तस्य लक्षणम् आह तेनापि प्रापकत्वं प्रवर्तकत्वं प्रवृत्तियोग्यशक्यप्राप्तिकवस्तूपदर्शकत्वं प्रमाणलक्षणं ब्रुवता न किञ्चित् प्रमाणाभिमतबोध -
न्त्येव, ये त्वन्यथा ते श्राव्यमाणा अपि जलगतनलिनीदलवन्न तत्स्पर्शं कर्तुं शक्नुवन्त्येव, किं च तैस्तत्राधिकारिनियमः स्थापित एवेति न कोऽपि विरोधः । ननु तैस्तत्र दीक्षानियमः स्थापितः, तत्र केचिद्दीक्षिता अप्यनधिकारिणो दृश्यन्ते, केचित्वकृतदीक्षा अप्यधिकारिणस्तत्र किं कार्यम् । सत्यम्, तत्र प्रथममनधिकारिदीक्षादाने न गुरुणां लोभादिदोष एव कारणम् । कदाचित्तु महागुरवोऽपि सामान्यदृशा सर्वत्र प्रवृत्ता दृश्यन्त एव, तत्र चानधिकारिणां शिष्याणां स्वकीया भाग्याल्पतैव, यथा गङ्गां प्राप्तानां कुम्भादिरहितानाम् ।
ये तु महागुरुणामनुवृत्तिपरा एव, तेषामवश्यमेव कोऽप्यतिशयो जायते । थे तु दीक्षारहिता अप्यधिकारिणस्तेषां बाह्यानधिकारेणैतच्छास्त्रं भयेनास्पृशतामुत्तरोत्तरं [भयेन्नाष्टसताम् - च्।] भक्त्यावेशे महाधिकारित्वं जायते ।
कालेन महागुरुसंयोगे दीक्षया महाफलयोगित्वं भविष्यति, तदप्राप्तौ तु तदन्तरे मृतानां परमफलालाभः । ये तु भक्त्यावेशेन बाह्याधिकारं नापेक्षन्ते, तेऽपि केचित् कालेन भक्तेश्च्यवन्ते, केचित्तु भगवत्कृपया फलभाजोऽपि भविष्यन्ति एव ।
सर्वथा बाह्याधिकारेऽपि यथा तथा यतनीयमेव, तदसम्भवे त्वन्यशास्त्रेषु रतिः । तेन इति । आहुरिति शेषः । एतेनागमप्रमाणे प्रमाणसामान्यलक्षणयोजना कृता । अत्र च विशेषलक्षणमान्तरशब्दनमूलत्वमेव ।
लोकप्रसिद्धविशेषलक्षणकथनमुपसंहरति तस्मात् इति । तस्मात् - यतस्तर्कशास्त्रेषु विशेषलक्षणानां प्रसिद्धिरस्ति ततः कारणात् इत्यर्थः । प्रमाणलक्षणे - प्रमाणसामान्यलक्षणे । अत्र बौद्धैः कृतं सामान्यलक्षणं कथयति यः इति । तस्य - प्रमाणस्य, तदुक्तम् -
प्रमाणमविसंवादि इति ।
प्रमाणाभिमतः - यो बोधस्तत्र विश्रान्तम्, स्वरूपम्, लक्षणया लक्षणम्, नोक्तम् - इति, अविसंवादकत्वादि हि प्रवृत्तेः कार्यं न प्रमाणस्य, तस्य प्रकाश -
विश्रान्तं स्वरूपम् उक्तम्, तच्च [तच्चेद् - क्। ष्। ष्।] अनेनैव [ अनेन - क्।
ष्। ष्।] लक्षणेन निर्वाह्यते तत् निर्व्यूढं भवति, अन्यथा मुखभङ्गमूर्धकम्पाङ्गुलीमोटनादिमात्रतत्त्वं तत्, इति अलं विस्तरेण ॥ २ ॥
कत्वादिति भावः । तच्च - प्रमाणस्वरूपं च, अनेनैव - तत्सूत्रोक्तेन, निर्वाह्यते - साध्यते, निर्व्यूढम् - सिद्धम्, अन्यथा, - अनेन लक्षणेनापि निर्वाहाभावे, तत्प्रमाणम्मन्यैः कृतानि प्रमाणलक्षणानि उपहासपात्रमेवेति भावः । उपहासे हि मुखभङ्गादि क्रियत एवेति तद्ग्रहणम् । विस्तारकथनं निषेधयति अलम् इति । एतेनाऽन्योपि प्रपञ्चः करणीयोऽस्त्येव परं न क्रियत इति सूचितम् । एकाभिधानविषये इत्यस्योत्तरश्लोके निर्णयो भविष्यतीति इह न व्याख्यातम् ।
एवमत्र द्वितीये श्लोके योजना सङ्क्षिप्तार्थश्च । सः - प्रमाणतयाभिमतो बोधः, तथा तद्वत्, प्रमाणतया भवनवत् इति यावत्, अन्तर्विमर्शात्मा - प्रमाणतावस्थायामागतं बहिर्मुखत्वं विहाय पुनरन्तर्मुखविमर्शरूपतां प्राप्तः सन्, अबाधिता - इति बाधासहा प्रमा भवति, मितिश्च भवतीति तथा शब्दवशेन समुच्चयेन योजना । ननु तर्हि तस्य प्रमातृत्वमेवागच्छति, अन्तर्मुखस्य बोधस्य प्रमातृत्वमेवेत्यत आह वस्तुनि इति । वस्तुनि - वस्तुविषये सा मितिः, सङ्कोचावस्थायां सा मितिर्भवतीत्यर्थः । तथा च न तस्या अन्तर्मुखेपि प्रमातृत्वम् ।
प्रमातुः सारभूतमहाप्रकाशापेक्षया परिच्छिन्नत्वे एतदपेक्षयाऽपरिच्छन्नत्वादिति भावः । बहिर्मुखतामागतं प्रमातुः स्वरूपं प्रमाणं भवति, पुनरन्तर्मुखतामागतं तावदत्यक्तविषयोपरागवत् प्रमा स्यात्, ततः क्षणेन सङ्कोचत्यागे एषा प्रमापि प्रमातृरूपैव भवति, प्रमातापि यदि तज्ज्ञत्वेन तस्मिन् समये एव कुत उत्थितेयं कुत्र लीना चेति प्रमामूलान्वेषणद्वारेण स्वं रूपं प्रकटीकरोति, तदा प्रमावत् स्वयमपि परप्रकाशे लीनीभवति, सैव च प्रत्यभिज्ञा स ईश्वरोऽहमेवेत्येवंरूपा, अस्यैव चोपायस्य मार्गो नवः इति पदद्वयेनापूर्वोपायत्वं कथयिष्यति, प्रसिद्धयमनियमाद्युपायव्यतिरिक्तत्वात्, इति रहस्यसङ्क्षेपः ।
वस्तुनि कीदृशे ? देश कालाद्यभेदिनि, तथैकाभिधानविषये इति ॥ १ ॥
२ ॥ …
ननु च एकाभिधानविषये मितिः इति यत् उक्तम्, तत्र - एकमभिधानं बाह्ये स्वलक्षण एव प्रवर्तते यदि, तत्कथम् उक्तं प्रत्याभासं प्रमाणम्, आभासमिश्रीकरणाभासस्तु स्वलक्षणं इत्याशङ्कां शमयन् प्रमाणस्य यत् प्रमेयं तत् परमार्थतो निरूपयितुम् आह -
यथारुचि यथार्थित्वं यथाव्युत्पत्ति भिद्यते । आभासोऽप्यर्थ एकस्मिन्ननुसन्धानसाधिते ॥ ३ ॥
यद्यपि घट इति बहिः परिदृष्ट एकोऽर्थः तथापि तावानेव असौ न, अपि तु पृथङ्निर्भज्यमानतामपि सहते, तथाहि - स्वतन्त्रं वा विवेचनम् अर्थित्वानुसारेण वा पूर्वप्रसिद्ध्युपजीवनेन वा, तत्र त्रिधापि
अथ तृतीयस्य श्लोकस्यावतरणिकां करोति - ननु च इति ।
अत्र टीका -
एकाभिधानविषये - एकनामविषये, तत्र - तस्मिन् उक्ते, बाह्ये
- बहिःस्थिते, स्वलक्षणे - वस्तुनः सामान्याकारव्यतिरिक्ते असाधारणे स्वरूपे एव नतु सामान्याकारे । किमुक्तम् इत्यपेक्षायामाह प्रत्याभासम् इति । प्रत्याभासम् - प्रत्येकं सर्वेषु धर्मिधर्मरूपेष्वाभासेषु, इत्याशङ्काम् - एवंरूपामाशङ्काम्, परमार्थतः इत्यनेन पूर्वोक्तस्य प्रमेयनिर्णयस्य शैथिल्यं द्योतितम् । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे, यथारुचि इति ।
अत्र टीका -
श्लोकं व्याख्यातुं प्रक्रियां करोति, यद्यपि इति । तावानेव - एक एव । तर्हि कियानसौ इत्यपेक्षायाम्पक्षान्तरमाह अपि तु इति ।
पृथङ्निर्भज्यमानताम् - पृथग्विभागविषयताम्, बहुरूपतामिति यावत् । कथम् इत्यपेक्षायां समर्थनमुपक्रमते तथाहि इति । समर्थनं कुर्वन् श्लोकं व्याचष्टे स्वतन्त्रं वा इति ।
यथारुचि इति व्याचष्टे स्वतन्त्रम् इति । यथार्थित्वम् इति व्याचष्टे अर्थित्व इति । यथाव्युत्त्पत्ति इति व्याचष्टे प्रसिद्ध्युपजीवनेन इति ।
पूर्वप्रसिद्ध्यपेक्षयेत्यर्थः । तत्र - तत्र सति, त्रिधा -
विवेचने क्रियमाणे पृथगेव भान्ति आभासाः, नन्वेवं चेत् कथम् एकं स्वलक्षणं ? उच्यते - तेषां पृथक् भासमानानामपि आभासानां यो विमर्शः अनुप्राणितभूतः स कदाचित् प्रत्याभासमेव विश्राम्यति, तदा परापरसामान्यग्रहणम् [परापरसामान्यव्यवहारः - क्। ष्। ष्।], कदाचित् पुनः गुणप्रधानतापादनेन अत्र इदम् इत्थम् इति मिश्रणाप्राणो [व्यामिश्रणाप्राणः - क्। ष्। ष्।] विमर्शः तदा तदेकं स्वलक्षणम् । अपिः भिन्नकमः, अनुसन्धानेन मिश्रताविमर्शेन साधितो य एकोऽर्थः
प्रोक्तप्रकारत्रयेण । तथा चोत्तरश्लोके प्रकारत्रयं दर्शयिष्यत्येव इति हर्षचरिते श्रीकण्ठाख्यजनपदवर्णने स्थितमप्येतत्प्रकारत्रयं विस्तरभयान्न दर्शितम् । अत्र शिष्यः प्रश्नं करोति नन्वेवम् इति । उत्तरमाह उच्यते इति । प्रतिज्ञां सफलीकरोति तेषाम् इति । तेषाम् आभासानाम् - पूर्वोक्तानां देशादिरूपाणामाभासानाम्, न त्वन्येषां रुच्यादिमेदवशेन स्थितानाम् । विमर्शः - घटोऽयं घटोऽयमिति विमर्शनम्, अनुप्राणितभूतः - ग्राहकत्वेन सत्तादायकः, प्रत्याभासम् - सर्वेष्वाभासेषु, प्रत्येकं प्रधानतया यत्र तेषां योजनारहितं यथास्वं ग्रहणम् इत्यर्थः । तदा - तस्मिन्काले, परापरसामान्यग्रहणम् - सत्तारूपगोत्वादिरूपसामान्यद्वयग्रहणम्, सदितिग्रहणेन सत्ताग्रहणम् पृथक् पृथगेव, अत्रेदं सदिति योजनाराहित्यात्, तथापरसामान्ये देशकालग्रहणं पूर्ववदेव पृथक् पृथक्, गौरिति गोजातिग्रहणम्, शुक्लेति शुक्लत्वजातिग्रहणं चलेति चलनत्वग्रहणम्, डित्थेति डित्थत्वग्रहणम् पृथक्पृथगेवायमत्र गौः शुक्लश्चलो डित्थसञ्ज्ञ इति योजनयाऽग्रहणात् । पुनः पक्षान्तरे, गुणप्रधानतापादनेन - विशेषणविशेष्यभावसम्पादनेन, अत्र - अस्मिन्देशे काले च, इदम् - एतद्वस्तु, इत्थम् - एतैर्गुणैर्युक्तम्, मिश्रणाप्राणः - योजनाप्राणः, स्वलक्षणम् - असाधारणं स्वरूपम्, तदन्यस्य तद्देशादिविशेष्यत्वासम्भवात् इति भावः । अपेर्भिन्नक्रमत्वं दर्शयन् अनुसन्धानसाधिते इति व्याचष्टे अनुसन्धानेन इति ।
अनुसन्धानेत्यवयवं व्याचष्टे मिश्रता - इति । सप्तमीयोजनं करोति तत्र इति । अति -
स्वलक्षणात्मा तत्र एकस्मिन्नपि सति रुचि - स्वातन्त्र्यम्, अर्थित्वम् - अर्थक्रियाभिलाषपरवशताम्, व्युत्पत्तिं - वृद्धव्यवहारशरणतां च अनतिक्रम्य भिद्यत एव आभासः ॥ ३ ॥
क्व यथा इति निदर्शयितुम् आह -
दीर्घवृत्तोर्ध्वपुरुषधूमचान्दनतादिभिः ।
यथाभासा विभिद्यन्ते देशकालविभेदिनः ॥ ४ ॥
दुर्बोधत्वेन पुनर्योजनां करोति एकस्मिन्नपि [तत्रैकस्मिन्नपि - च्।] इति । एवमत्र स्फुटा योजना । अनुसन्धानसाधिते एकस्मिन्नपि वस्तुनि सति देशादिधर्ममिश्रीकारेण स्वलक्षणे एकत्रापि सति, यथारुचि - रुच्यनुसारेण, तथा यथार्थिस्वार्थित्वानुसारेण, तथा यथाव्युत्पत्ति - प्रसिद्ध्यनुसारेण, अर्थात्तस्मिन्नेकत्र वस्तुनि आभासा भिद्यन्ते, अन्यथा हर्षचरिते एकस्य श्रीकण्ठाख्यजनपदस्य सङ्गीतशालादिभावेन वर्णनायोगात् ।
तथा च प्रत्याभासं भिन्नस्य स्वलक्षणस्यापि एकाभिधानविषयत्वमवतरणिकायां शङ्कितं तद्द्वारेण प्रमाणस्य प्रत्याभासविषयत्वकथनायोग्यत्वं स्वलक्षणस्यैव प्रमाणविषयत्वापादनं च युक्तमिति भावः ॥ ३ ॥
अथ चतुर्थस्य पञ्चमस्य च श्लोकस्यावतरणिकां करोति - क्व यथा इति । स्पष्टम् । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे दीर्घ इति ।
तथैव सद्घटद्रव्यकाञ्चनोज्ज्वलतादयः । आभासभेदा भिन्नार्थकारिणस्ते पदं ध्वनेः ॥ ५ ॥
इह तावत् एकस्मिन्नपि चेतनतया प्रसिद्धे पुरुषस्वलक्षणे विततदेशव्यापितां दीर्घतामेव कदाचित् विमृशति, या तरुणामपि अस्ति, निःसन्धिबन्धनरूपतां [निःसन्धिबन्धरूपताम् - क्। ष्। ष्।] वा वृत्ततां या शिलानामपि सम्भविनी, ऊर्ध्वदिगाक्रमणरूपां वा ऊर्ध्वतां या स्थाणोरपि सम्बन्धिनी, गमनागमनादिस्वतन्त्रभावयोग्यतारूपं वा पुरुषत्वं यद् अन्यपुरुषसाधारणम् । तथा हि - स्वतन्त्रया वा इच्छयां रुचिरूपया यावदेवं कुर्यात् [रुचिरूपया एवं कुर्यात् - क्। ष्। ष्।] यथोक्तम्
या त व्याक्षेपसारत्वाच्चेतसः स्वरसोद्गता
अत्र टीका -
दीर्घ इति समासावयवं व्याचष्टे इह इति । पुरुषस्वलक्षणे
- पुरुषस्यासाधारणे स्वरूपे । यद्यपि स्वलक्षणस्य चेतनत्वं न युक्तं तथापि लक्षणयैवमुक्तम् । विततदेशव्यापिताम् - विस्तीर्णदेशव्यापित्वरूपाम्, दीर्घो हि विततदेशव्यापको भवति, अन्यथा दीर्घत्वायोगात्, कदाचित् - तद्रुचित्वादियुक्तत्वावस्थायाम् [तदुचिताद्यवस्थायाम् - च्।] । ननु सा दीर्घतैव तस्य स्वरूपं भवत्वित्यत आह या इति । तथा च न तस्या एतत्स्वरूपत्वं युक्तमिति भावः । वृत्त इत्यवयवं व्याचष्टे निःसन्धि इति ।
निःसन्धिबन्धनरूपताम् - एकघनतारूपाम्, ऊर्ध्वताम् - उन्नतत्वम्, गमनागमनादिषु यः स्वतन्त्रभावः - स्वतन्त्रता तत्र या योग्यता सा रूपं यस्य तादृशम् । अत्र समर्थनमुपक्रमते तथा हि इति । स्वतन्त्रया इच्छया - प्रयोजनानुसन्धानविरहितेन इच्छा मात्रेण । रुचि इति । यावदेवं कुर्यात्, दीर्घोऽयमित्यादि व्यवहारं कुर्यात् इत्यर्थः । अत्र वृद्धवाक्यमुदाहरति यथोक्तम् इति । अत्रायमर्थः । सा रुचिर्भवति । सा का ? या चेतसः - मनसो व्याक्षेपसारत्वात् - व्याकुलतासारत्वात्, व्याकुलतावशेन, स्वरसोद्गता भवति - प्रयोजनमनपेक्ष्योद्गता
इति । विततदेशव्यापिन एव वा अर्थान् [अर्थात् - क्। ष्। ष्।] तिरोधिलक्षणाम् अर्थक्रियाम् अर्थयमानो विभजेत्, एवं व्यवहारे वृद्धैः कीदृक् दीर्घं नाम गीयते इति व्युत्पित्समानो व्युत्पादयितुमुच्छुः वा विभागं कुर्यात् । इत्येवन्तत्र आभासानां भेदः । एकस्वलक्षणं तु - एकस्मिन् देशाभासे कालाभासे च विश्रान्तेः, देशकालाभासावेव हि सामान्यरूपताप्रयोजकव्यापित्वनित्यत्वखण्डनाविधानसविधवृ त्ती विशेषरूपतां बितरतः । एवं पुरुषत्ववत् अन्येऽपि ब्राह्मणाद्याभासा अपि निरूप्याः, एवम् अत्र तावत् प्रसिद्धतर आभासभेदो - जडाजडसाधारणबहुतरधर्मास्पदत्वात्
भवतीति यावत् । कदाचिद्धि पुरुषो व्याकुलतावशेन प्रयोजनमनपेक्ष्य येन तेन शब्देन व्यवहरति, स व्यवहारश्चाभासपूर्वएव, अन्यथोच्चारासम्भवात् । इति शब्दः समाप्तौ । विततदेशव्यापिनः - दीर्घान्, अर्थान् - वस्तुनः, तिरोधिलक्षणाम् [तिरोधिलक्षणा सन्तवानरूपाम् - च्।] - अन्तर्धानरूपाम्, अर्थयमानः - काङ्क्षमाणः, एवम् - दीर्घोयमिति, इति व्युत्पित्समानः - एवं स्वयमेव स्वस्य व्युत्पत्तिं कर्तुमिच्छन् । इति किमिति ? वृद्धैः - कर्तृभिः, दीर्घ नाम - दीर्घाख्यं वस्तु, कीदृक् - कीदृशम् गीयते इति । वा पक्षान्तरे ।
अन्यं व्युत्पादयितुम् - व्युत्पत्तियुक्तं कर्तुम् इच्छुः सन्, विभागं कुर्यात् - दीर्घोऽयमिति विभजनं कुर्यात् । एतेन व्युत्पत्तिकरणसमये एव व्युत्पत्तेराभासकारणत्वमिति सूचितम् । उपसंहारं करोति इत्येवम् इति तत्र - एकस्मिन् पुरुषस्वलक्षणे । ननु तर्हि एकत्वं न युक्तमित्यपेक्षायां मध्ये देशकालविभेदिनः इति पदं व्याचष्टे एक - इति । विश्रान्तेः, इदमत्रस्थितमिति प्रतीतिविश्रामादित्यर्थः । कुत इत्यपेक्षायामाह देश इति ।
सामान्यरूपताप्रयोजके ये व्याप्यत्वनित्यत्वे तयोर्यत् खण्डनाविधानम् - परिमिततापादनद्वारेण नाशनं तस्य सविधा वृत्तिः - व्यापारः यस्य तौ । तत्र देशेन व्याप्यत्वखण्डना कालेन नित्यत्वखण्डनेति क्रमो ज्ञेयः । विशेषरूपताम् - स्वलक्षणताम्, पुरुषगतेष्वन्येषु धर्मेष्वपि अमुं न्यायमतिदिशति एवम् इति । प्रसिद्धतरः - अतिशयेन प्रसिद्धः । कुत इत्यपेक्षायां हेतुमाह जडा इति । जडाजडसाधारणः - चेतनेषु पुरुषादिषु तर्वादिषु [तरु… च्।] अचेतेनेषु च
त्वात्, अनेन निदर्शनेन धूमेऽपि धूमत्वचान्दनत्व- श्रीखण्डचन्दनोत्थितत्वादयः [चन्दनत्व - क्। ष्। ष्।] प्रसिद्धा आभासभेदा विभजनीयाः । प्रसिद्धेन दृष्टान्तेन अप्रसिद्धभागोऽपि यो घटः तत्रापि आभासभागभेदो भवति, तथाहि - किञ्चिदपि अत्र नास्ति इति हृद्भङ्गमिव आपद्यमानो घटं पश्यन्
साधारणत्वेन स्थिताः ये बहुतरधर्माः - दीर्घत्वादिरूपाः अतिबहवो धर्मास्ते एवास्पदं यस्य स तस्य भावस्तत्वं तस्मात्, तद्विषयत्वादिति यावत् । धूम इत्यादिभागं व्याख्यातुमवतरणिकां करोति अनेन इति । अनेन निदर्शनेन दृष्टान्तेन धूमत्वं च चान्दनत्वम् चन्दनादुत्थितत्वं च श्रीखण्डश्वेतचन्दनोत्थितत्वादयश्चेति विभजनीयाः - रुच्यादिविषयत्वेन विभागविषयीकार्याः, तत्र कृष्णत्वार्थी घूमत्वम्, सौगन्ध्यार्थी चान्दनत्वम् इत्यादिप्रकारेण विभागः कार्यः । प्रसिद्धत्वं चात्र भेदस्य धूमत्वचान्दनत्वादेः भिन्नेन्द्रियग्राह्यत्वेन स्फुटं भिन्नत्वेन भानात्, एकवस्तुगतत्वेन भेदस्य स्फुटतरत्वाभावात्, तरपोऽत्र प्रयोगः प्रसिद्धतरप्रसिद्धदृष्टान्तद्वयावष्टम्भेन ॥ ४ ॥
दार्ष्टान्तिकं कथयितुं द्वितीयं श्लोकं व्याचष्टें प्रसिद्ध इति । अप्रसिद्धश्चासौ भागः अप्रसिद्धभागः, अप्रसिद्धत्वं चात्र घटस्यैकत्वेनैव स्फुरणात्, तद्गताभासभेदस्य तु प्राकट्याभावात् [प्रकक्ष्याभावात् - च्।] ।
तत्रापि - तस्मिन् घटेऽपि, आभासभागानाम् - सत्वघटत्वादिरूपाणाम् भेदः । आभासभागभेदमेव दर्शयति तथाहि इति, हृद्भङ्गम् - हृदयभङ्गम्, आपद्यमानः
- प्राप्नुवन्, वस्त्वदर्शनेन
अस्ति इदम् इति सत्त्वाभासमेव पश्यति, अपरान् आभासान् नाम्नापि तु नाद्रियते, तथा उदकाहरणार्थी घटाभासम्, स्वतन्त्रनयनानयनयोग्यवस्त्वर्थी द्रव्याभासम्, मूल्याद्यर्थी काञ्चनावभासम्, हृद्यतार्थी औज्ज्वल्याभासम्, आदिग्रहणात् दृढतरभावार्थी दार्ढ्याभासम् इति द्रष्टव्यम्, एवं रुचिव्युत्पत्त्योरपि योजनीयम् । एवम् एते आभासभेदा एव वस्तु आभासमानतासारत्वात् वस्तुतायाः । योऽपि आभासस्य प्राणभूतो विमर्शः सोऽपि प्रत्याभासमेव, शब्दस्य अभिजल्पात्मनो बोधजीवितप्रख्यस्य प्रत्याभासमेव विश्रान्तेः,
हि पुरुषस्य हृदयं भज्यते एव, सत्वाभासम् - सत्वरूपमाभासम्, अपरान् - घटत्वादिरूपान्, नाद्रियते इति, तत्सत्तामात्रस्यैवात्रार्थित्व-विषयत्वात् । तथा - तद्वत्, द्रव्यस्य आनयनादियोग्यतामपेक्ष्य [द्रव्यस्यानयतनादि - च्।] स्वतन्त्र इत्युक्तम् । आद्रियते इति सर्वत्र योजनीयम् । मूल्याद्यर्थी इति ।
आदिशब्देन नानाभूषणादिनिर्माणग्रहणम् । औज्ज्वल्य इति । उज्ज्वलो हृद्यो भवति । आदिशब्दग्राह्यं वस्तु कथयति दृढ इति ।
आदिशब्देन जलमात्रेण शुद्ध्यर्थी जलाहरणयोग्यताभासमित्यादेर्ग्रहणम् ।
रुचिव्युत्पत्योरर्थित्वयोजनामतिदिशति एवम् इति । एवम् - अर्थित्ववत् । तत्र व्युत्पत्तेः शिक्षाकालमात्रे स्थितत्वात्, रुचेः चित्तव्याक्षेपसारत्वात् ।
सर्वव्यवहारेष्वर्थित्वस्यैव प्राधान्यात् साक्षाद् योजना दर्शिता ।
तत्र प्रसिद्धतराऽप्रसिद्धस्थानद्वययोजनेन मध्ये स्थिते प्रसिद्धे स्थाने योजनमप्ययत्नमेवेति ज्ञेयम् । उपसंहारं करोति एवम् इति ।
कुत इत्यपेक्षायामाह आभास इति । न ह्याभासाविषयीकृतं वस्तु वस्तु भवतीति भावः । नन्वाभासस्यैव एषा वार्ता भवतु तत्समनन्तरभाविविकल्पस्य किं भेदोऽस्ति न वा इत्यपेक्षायां पदं ध्वनेः इति व्याचष्टे योऽपि इति । प्राणभूतः - जीवितभूतः, परामर्शं विना ह्याभासोऽसत्कल्प एवेति भावः ।
प्रत्याभासमेव इति, भिन्न एव भवतीति भावः । कुत इत्यपेक्षायामाह शब्दस्य इति । अभिजल्पनात्मनः - जल्पनरूपस्य, व्यक्तवाग्रूपस्येति यावत् । एतेन समुद्रघोषादेर्निरासः । विमर्शमूलस्य शब्दस्य प्रत्याभासभेदसाधने विमर्शस्यापि तदयत्नसिद्धमेवेति न कोऽपि विरोधः ।
सत् घटो लोहितः इत्यादि । अर्थक्रियाकारित्वमपि अन्वयव्यतिरेकाभ्यां प्रत्याभासमेव नियतं - सदाभासेन हृद्भङ्गपरिहारमात्रस्य सम्पादनात्, तत्र आभासान्तरस्य या अपेक्षा सा अग्न्याभासेन अर्थक्रियायां साध्यायां पात्राभासस्य इव तदाभासनान्तरीयकत्वेन आभासान्तरस्यापि नियतस्य [अनियतस्य - क्। ष्। ष्।] अपेक्षणात् । एवं येन येन मुखेन अर्थो विचार्यते तेन तेन आभासमात्रात्मैव तथैव प्रतिभासनात् विमर्शनात् अर्थक्रिया -
अथवा ध्वनेरिति ग्रहणादेवमुक्तम् । विश्रान्तिमेवाभिनीय दर्शयति सत् इति । आदिशब्देन द्रव्यमित्यादेर्ग्रहणम्, विश्रान्तिविशेषणत्वेन योजनीयम् । अर्थक्रियाकारित्वस्यापि प्रत्याभासं भिन्नत्वं कथयन् भिन्नार्थकारिणः इति व्याचष्टे अर्थ इति । तत्र यस्यान्वयेन यस्या अर्थक्रियाया अन्वयः यस्य व्यतिरेकेण तु व्यतिरेकः तस्य तत्कारित्वं नियमेनेति सङ्क्षेपः । अत्र हेतुकथनं करोति सदाभास इति ।
मात्रचा घटाद्याभाससाध्यायाः उदकाहरणाद्यर्थक्रियाया निरासः । ननु तस्य सत्त्वं केनापि उदकाहरणादिप्रयोजनेन काङ्क्षति इति तत्सम्पादनमपि सत्वकार्यमेव, यदर्थं हि यदपेक्षते सा तस्यार्थक्रियैवेत्यत आह तत्र इति । तत्र - सत्त्वे, आभासान्तरस्य - उदकाद्याहरणरूपस्य, पात्राभासस्य - इति ।
अन्यथाऽग्न्यानयनासम्भवात् इति भावः । कुत इत्यपेक्षायामाह तदाभास इति । तदाभासेन - सत्त्वाभासेन यत् नान्तरीयकत्वम् - अविनाभावः तेन, नियतस्य - अवश्यम्भाविनः, आभासान्तरस्य - उदकाहरणादिरूपस्यान्यस्याभासस्याऽपेक्षणात् । अग्न्याभासेन पात्राभासो नियतोऽपेक्ष्यते एवेति दृष्टान्तीकृतः ।
प्रक्रियामुपसंहरति, एवम् इति । मुखेन - सत्त्वादिना द्वारेण, अर्थः - घटादिः, आभासमात्रात्मैव - आभासमात्ररूप एव, तथैव - आभास मात्रभावेनैव, प्रतिभासनात् - स्फुरणात्, विमर्शनात् - विमर्शकरणात्, इति
करणाच्च इति सिद्धम् । एवं प्रसिद्धतरप्रसिद्धाप्रसिद्धत्वातिशयेन एकोऽपि अर्थो ग्रन्थकारेण त्रैधं निरूपितो दीर्घवृत्तेति धूमेति सद्धटेति ॥ ५ ॥
सिद्धम्, एतत्सिद्धं भवतीत्यर्थः । स्थानत्रयं विभज्य दर्शयितुमुपसंहारं करोति एवम् इति । तत्र प्रसिद्धस्य प्रसिद्धतरेण हस्तादानम्, अप्रसिद्धस्थ तु प्रसिद्धेनेति ज्ञेयम् ।
रूपत्रयमेव दर्शयति दीर्घ इति ।
एवमत्र पिण्डार्थः । दीर्घवृत्तोर्ध्वम्पुरुषाश्च धूमचान्दनतादयश्च ते यथा प्रसिद्धतरत्वेन स्थिताः दीर्घादिरूपाः आभासाः, तथा प्रसिद्धत्वेन स्थिताः घूमादय आभासाः, देशकालविभेदिनः - देशकालभेदरूपस्य तद्देशत्वेन तत्कालत्वेन च स्थितस्यैकस्य वस्तुस्वलक्षणस्य सम्बन्धिनोऽपि सन्तः, भिद्यन्ते - रुच्यादिवशेन भेदेन भासन्ते, तथा - तद्वद् तद्दृष्टान्तेनेति यावत्, अप्रसिद्धाः सद्धटद्रव्यकाञ्चनोज्ज्वलतादयः आभासभेदाः भिद्यन्ते - रुच्यादित्रयवशेन भेदभासादयन्ति । तत्र दीर्घादीनां कदाचित् रुच्याऽऽभासनं कदाचिदर्थित्वेन कदाचिद्व्युत्पत्या । तत्र तेषां दीर्घादीनाम् आभासानां धूमाद्याभासानां च रुचौ अन्यथात्वम्, अर्थित्वेऽन्यथात्वम्, व्युत्पतौ चान्यथात्वम्, रुचौ हि निष्प्रयोजनं तथा स्फुरणम्, कथम् ? …ऽर्थित्वे अतिप्राप्यत्वेन, व्युत्पत्तौ शिक्षामात्रार्थमेव, यथात्र व्युत्पन्नः स्यादिति । इति सर्वत्र रुच्यादित्रययोजनं कार्यम् । तत्र रुचिः - निष्प्रयोजनं वस्तुनो ज्ञाने निर्देशे वा, अर्थित्वम् सर्वव्यवहारेषु, व्युत्पत्तिः शिक्षाग्रहणसमये शिक्षादानसमये चेति । तथा ते - आभासभेदाः, भिन्नार्थकारिणः - भिन्नार्थक्रियाकराः, तथा, ध्वनेः शब्दस्य तन्मूलस्य विमर्शस्य च पदं - विषयः भवन्ति, दीर्घस्य तिरोधानरूपार्थक्रियाकारित्वाद्दीर्घोयमिति विमर्शेन ग्रहणात् दीर्घोऽयमिति शब्दविषयत्वाच्च । एवं सर्वत्र ज्ञेयम् । ४ । ५ ।
ननु एवं प्रत्याभासमेव वस्तुत्वे एको घटात्मा न वस्तु स्यात् इत्याशङ्क्याह
आभासभेदाद्वस्तूनां नियतार्थक्रिया पुनः ।
सामानाधिकरण्येन प्रतिभासादभेदिनाम् ॥ ६ ॥
आभासानां मिश्रं यद्रूपं तत्र अवश्यं कश्चिदाभासः प्रधानत्वेन अन्याभासानां विश्रान्तिपदीकार्यः [विश्रान्तिपदीकर्तव्यः क्। ष्। ष्।] स तेषां समानमधिकरणम्, तेन
अथ षष्ठस्य श्लोकस्यावतरणिकां करोति नन्वेम् इति । स्पष्टम् । एवम् - वतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे आभास इति ।
अत्र टीका :-
प्रथमं सामाधिकरण्येन इति पदं व्याचष्टे आभासानाम् इति । मिश्रम् - मिश्रतया स्थितम्, स्वलक्षणरूपमिति यावत् । तत्र - तस्मिन्मिश्रखपे, विश्रान्तिपदीकार्यः - विश्रान्तिस्थानतया भावनीयः, हृद्भङ्गनिवृत्यर्थित्वे सत्वाभास इव घटाभासादीनाम्, अथवा उदकाहरणार्थित्वे घटाभास इव सत्वाभासादीनाम् । सः - प्रधानीकृत आभासः, तेषाम् तद्व्यतिरिक्तानामाभासानाम् । समानमधिकरणम् एकं स्थानं तत्रैव धर्मत्वेनारोपणात् । तद्धितप्रत्ययव्याख्यां करोति तेन इति । तेन - समानाधिकरणेन, सह तेषाम् - आधेयभूतानामाभासानाम्, यः सम्बन्धः - आधाराधेयभावाख्यः । तृतीयायोजनं करोति तेन
सह यस्तेषां सम्बन्धः तत् सामानाधिकरण्यम्, तेन उपलक्षितो यः प्रतिभासः - अर्थोन्मुखः प्रकाशः तदनुप्राणकश्च [तदनुप्राणकश्च कश्चन पदात्मा - क्। ष्। ष्।] नपदात्मा परामर्शः - तस्य सर्वस्य एकाभासविश्रान्ततानियमात्, तस्मात् तं सामानाधिकरण्याभासं समनुप्राणयति यो वाक्यात्मा वाक्यार्थपरामर्शरूपो विमर्शः - इह इदानीं एष घटोऽस्ति इत्येवंरूपः ततो हेतोः ये अभेदिन
इति । उपलक्षितः - विशिष्टीकृतः । एतेनोपलक्षणे इयं तृतीयेति द्योतितम् । प्रतिभासात् इति पदं व्याचष्टे अर्थोन्मुखः इति । अर्थोन्मुखः - अर्थं विषयीकर्तुं प्रवृत्तः, प्रकाशाव्यभिचारेण विमर्शस्यापि ग्रहणं करोति तदनु इति । तदनुप्राणकः - प्रकाशस्यासत्कल्पतानिवारकः, [असत्कल्पनिवारकः - च्।] यः नपदात्मा - नपदम् आत्मा रूपं यस्य सः नपदात्मा, परामर्शः - विमर्शः । कुतो नपदात्मेत्यपेक्षायामाह तस्य इति ।
तस्य सर्वस्य - पदात्मनः परामर्शस्य, एकाभासविश्रान्ततानियमात् - वाक्याभासरूपैकाभासविश्रान्तत्वनियमात्, न हि पदस्य स्वरूपे प्राधान्यं तस्य वाक्ये ब्रुडितत्वात् इति भावः । तर्हि किंरूपः स परामर्शः इत्यपेक्षायामुपसंहाररीत्या कथयति, तस्मात् इति ।
तस्मात् - ततः कारणात्, सामानाधिकरण्याभासम् - उपलक्षणत्वेन स्थितं पूर्वोक्तं सामानाधिकरण्याभासम्, समनुप्राणयति - पुष्टीकरोति, यो वाक्यात्मा - वाक्यसंस्कारत्वेन स्थितः, वाक्यार्थपरामर्शरूपो विमर्शः - परामर्शस्तदनुप्राणकः पदात्मपरामर्शव्यतिरिक्तः, वाक्यात्मा च यः परामर्श इति यावत् । वाक्यात्मानं परामर्शमेवानुकृत्याह इह इति । इह अस्मिन् देशे, इदानीम् - अस्मिन् काले, एषः - एवङ्गुणकः, घटः अस्ति । तत्र इहेति देशाभासः, इदानीमिति कालाभासः, एष इति गुणाभासः, घट इति जात्याभासः । अत्र च घटाभासस्यैव समाना
एकस्वलक्षणताम् प्राप्ता [एकस्वलक्षणतामाताः - क्। ष्। ष्।] न च स्वरूपभेदम् [न तु - क्। ष्। ष्।] उज्झन्तः तेषाम् अन्या विशिष्टा समुदिता [समुदितरूपा - क्। ष्। ष्।] अर्थक्रिया । आभासविमर्शभेदे पुनरन्या नियता एकैकमात्ररूपा । आभासप्रतिभासशब्दाभ्यां सूत्रे विमर्शोऽपि आक्षिप्तो मन्तव्यः । पुनः शब्दो विशेषद्योतकः काकाक्षिवत् उभयत्र
धिकरणत्वं । तदाश्रयत्वेनैवान्याभासस्थापनात् । यो ये इत्यस्य द्वयस्याकाङ्क्षां पूरयन् प्रतिभासात् इति पञ्चमीयोजनां करोति ततः इति । ततः - प्रतिभासाद्वाक्यात्मकपरामर्शाच्च हेतोः ।
अभेदिनाम् इति व्याचष्टे एक इति । एकस्वलक्षणतां प्राप्ताः - देशादिमिश्रतावशेनैकस्वलक्षणभावं गताः । ननु तर्ह्येकत्वमेव तेषां भवतु इत्यत आह न च इति । नचोज्झन्त इति योजना, देशादीनां पृथगेव स्फुरणादिति भावः ।
षष्ठीयोजनं करोति तेषाम् इति । वस्तूनाम् इति । प्रसिद्धत्वेन न व्याख्यातम् । अन्यशब्दार्थवाचि पुनः शब्दं व्याचष्टे अन्या इति ।
पुनः अन्या, प्रत्येककार्याय [प्रत्येककार्यायाभिन्ना - च्।] भिन्नेति यावत् । अत - एव विशिष्टा तथा समुदिता कुत्रापि न नियमिता, सर्वाम्भाससाध्यत्वेनाभिमतेति यावत् । अर्थक्रिया भवति ।
आभासभेदात्पुनर्नियतार्थक्रिया इति व्याचष्टे आभास इति ।
आभासविमर्शभेदे सति अन्या नियता एकैकमात्ररूपा - प्रत्येकं भिन्नस्वरूपार्थक्रिया भवति । इह तु विमर्शः पदसंस्काररूप एव ज्ञेयः एकाभासोत्थितत्वात् । ननु सूत्रे विमर्शस्य नामापि न गृहीतमिति कथं व्याख्यायां तस्य योजनं कृतम् इत्यत आह आभास इति । आक्षिप्तः - अनुप्राणकत्वेनाक्षेपविषयतां नीतः । नन्वेक एव पुनः शब्दो दृश्यते, व्याख्यायां कथं द्विर्योजित इत्यत आह पुनः शब्दः इति । उभयत्र - समुदितनियमितार्थक्रियारूपे
योज्यः । बहुवचनेन ऐक्येऽपि स्वरूपभेदापरित्याग उक्तः, तत्र च ऐक्यावभासे परतन्त्रं सत् पृथक्त्वं यदा आभासानां तदा समानरूपव्यक्त्युपरञ्जकत्वेन पारमार्थिकं सामान्यरूपत्वम्, घटाभासस्य तु शुद्धस्य स्वतन्त्रपरामर्शे योग्यतामात्रेण सामान्यरूपता न वस्तुतो -
स्थानद्वये । अभेदिनाम् इति बहुवचनाभिप्रायमाह बहुवचनेन इति । अन्यथैकत्वमेवात्रयुक्तं स्यादित्यर्थः ।
एवमत्र योजना - सामानाधिकरण्येनोपलक्षितात्प्रतिभासात् - प्रतिभासविमर्शैक्याद्धेतोरभेदिनां वस्तूनामर्थक्रिया पुनरन्या समुदिता भवति, तथाभासभेदात् - आभासपरामर्शभेदात् पुनः अन्या नियता भवति, इति पुनःशब्दस्य द्विर्योजना [हति पुनःशब्दस्य त्रिर्योजना - च्।] ।
प्रत्याभासं स्थितस्य आभासमिश्रीभावेन लब्धसत्ताके स्वलक्षणे स्थितस्य सामान्यद्वयस्य योग्यतामात्रेण साक्षाच्च सत्त्वं कथयति तत्र इति । तत्र - प्रत्याभासस्थितस्वलक्षणस्थितसामान्य-द्वयमध्ये, यदा ऐक्यावभासे - प्रत्येकं देशादीनामैक्यावभासे देशोऽयं देशोयम् इत्यादिरूपे, आभासानाम् - देशादिरूपाणां प्रत्येकं स्थितानामाभासानां सत् - वर्तमानम्, पृथक्त्वम् - प्रत्येकभावः, स्वे स्वे रूपे निष्ठत्वमिति यावत् । परतन्त्रं - धर्मतया भासनं भवति, तदा समानरूपा या व्यक्तयः - बहिःस्थिता - आधारभूता व्यक्तयः, तासामुपरञ्जकत्वेनस्वविशिष्टीकरणेन, पारमार्थिकम् - सहजम्, सामान्यरूपत्वं भवति सामान्यस्य द्रव्यादिनिष्ठत्वेनैव स्थितत्वात्, देशत्वं नाम सामान्यं हि देशाख्यव्यक्तिरूपद्रव्यपरतन्त्रमेव दृश्यते, न च व्यक्तेरेव स्वलक्षणत्वं वाच्यम्, तस्य प्रमातृकृतदेशकालयोजनाप्राणत्वात्, अस्यास्तु बहिःस्थितत्वात्, अन्यथा सामान्यव्यङ्जकत्वायोगात् । तु व्यतिरेके, शुद्धस्य - अन्याभाससमानाधिकरणत्वेनास्थितत्वात् [अन्याभाससमानाधिकरणत्वेन स्थितत्वात् - च्।] तद्भेदामिश्रस्य, घटाभासस्य - उदकाहरणार्थित्वादिना प्रधानतया स्थितस्य घटाकारस्याभासस्य, घटस्वलक्षणस्येति यावत् ।
स्वतन्त्रपरामर्शे - पृथग्वस्तुत्वाभासेन धर्मितया परामर्शे सति, योग्यतामात्रेण - केवलया योग्यतया, भाविनि स्वाभाविकधर्मतया भाने समुचितत्वेनेति यावत् ।
सामान्यरूपता
द्रव्यादन्यो हि सर्वः पदार्थः परतन्त्रतासारः, एवम् एकोऽपि घटात्मा च इत्यपि [एकोऽपि घटात्मा इत्यपि - क्। ष्। ष्।] सत्यमेव
- आभासविमर्शार्थक्रियाबलेन तथा व्यवस्थापनात् [तथा अवस्थापनात् - क्। ष्। ष्।] इति ॥ ६ ॥
ननु एकेनैव अर्थक्रिया न तत्र, अपि तु आभाससमुदायात् अर्थक्रियासमुदायः, आभासाश्च भिन्ना अपि यदि एकाम् अर्थक्रियां कर्तुं मिश्रीभवन्ति, तदा कस्तेषाम् इयत्तावधिः इति चोद्यम् अपवदति ।
पृथग्दीपप्रकाशानां स्रोतसां सागरे यथा ।
अविरुद्धावभासानामेककार्या तथैक्यधीः ॥ ७ ॥
भवति, वस्तुतः - परमार्थतो न भवति, योजनाप्राणधर्मितया भानरूपेऽस्मिन्काले न भवतीति यावत् । समानव्यक्तिगतस्य धर्मस्यैव पारमार्थिकसामान्यरूपत्वात् । कुत इत्यपेक्षायामाह द्रव्यात् इति । अन्यः - गुणादिरूपः, तथा च सामान्यस्यापि द्रव्यान्यत्वेन परतन्त्रत्वमेव युक्तमिति भावः ।
फलितं स्वाभीष्टमुपसंहरति एवम् इति । घटात्मा च - घटस्वरूपं च, अपिशब्देन भिन्नतया स्थितानामाभासानां पारमार्थिकं सत्यत्वं द्योतयति । अत्र हेतुमाह आभास इति ।
आभासः - घटप्रकाशः, विमर्शः - घटपरामर्शः ।
अर्थक्रिया-उदकाहरणम्, तासां बलेन, तथा व्यवस्थानात् - एकत्वव्यवस्थितेः । इति शब्दः श्लोकव्याख्यासमाप्तौ ॥ ६ ॥
अथ सप्तमस्य श्लोकस्यावतरणिकां करोति ननु इति ।
अत्र टीका -
आभाससमुदायात् - आभाससमूहात्, तेषां - आभासानाम्, इयत्तावहिः - मिश्रीभावावसानमर्यादा, केषाञ्चिदेव कुत्रचिदेव मिश्रीभाव इति यावत् । चोद्यम् - शिष्याक्षेपम्, अपवदति - प्रतिसमाधत्ते [प्रतिसमादधते - च्।] ।
एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे पृथक् इति ।
पृथक् वतिन्यो याः प्रदीपस्य प्रभाः सूक्ष्मतमावलोकनसामर्थ्या [सूक्षमतमा अवलोकनसामर्थ्या
- क्। ष्। ष्।] धानलक्षणां याम् अर्थक्रिया न कृतवत्यः तामेव एकभवनाभ्यन्तरं सम्मूर्छितात्मान्ॐ विदधते, न तत्र अर्थक्रियाणां समुदायोऽस्ति । सागरपतितानि च स्रोतांसि वहुतरतरङ्गारम्भार्थक्रियाकारीणि । तद्वत् घटः काञ्चनो लोहितः ततोऽयं शिवलिङ्गशिरोमार्जनोचितसलिलाहरणार्थक्रियोचितो [शिवलिङ्गशिरःसमावर्जनोचितसलिल - क्। ष्। ष्।] दृष्टमात्र एव तीव्रप्रीतिलक्षणार्थक्रियाकारी; इति सिद्धमेवार्थक्रियाकारित्वम् । यत् पुनराभासानां मिश्रणे का सीमा इति ? तत्र उच्यते - येषाम् अविरोधः त एव आभासा मिश्रीभवन्ति, नहि रूपाभासो मारुताभासेन मिश्रीभवति - विरोधात्, सोऽपि च नियतिशक्त्युत्थापितः ।
अत्र टीका -
श्लोकं व्याख्यातुं प्रक्रियां करोति पृथक् इति ।
सूक्ष्मतमस्य - अतिसूक्ष्मस्य यदवलोकनम् दर्शनम् तत्र यत्सामर्थ्याधानम् - समर्थतासम्पादनम् - , तत् लक्षणम् स्वरूपं यस्यास्तादृशीम्, न कृतवत्य - नाकुर्वन्, तामेव - सूक्ष्मतमावलोकनसामर्थ्याधान-लक्षणामर्थक्रियामेव, सम्मूर्छितः - समुदायस्थित्या वृद्धिं गत आत्मा यासां तादृश्यः, विदधते - कुर्वते । एकं दृष्टान्तमुक्त्वा द्वितीयमपि कथयति सागर इति । बहुतरतरङ्गाणां य आरम्भः स एव अर्थक्रिया तां कुर्वन्तीति तादृशानि भवन्ति इति सम्बन्धः ।
दृष्टान्तद्वयमुक्त्वा दार्ष्टान्तिकं कथयति तद्वत् इति । अयं घटः शिवलिङ्गशिरसो यन्मार्जनम् क्षालनं तत्रोचितं यत्सलिलं तस्य यदाहरणम् तदेवार्थक्रिया तत्रोचितो योग्यः, शिवलिङ्गे काञ्चनघटेनैव स्नानस्य विहितत्वात् । दृष्टमात्र एव - केवलं दृष्ट एव, एकार्थक्रियाकारित्वम् इति, समुदायस्येति शेषः ।
समुदायादेकामर्थक्रियां सदृष्टान्तमुक्त्वाऽऽभासानां मिश्रीभावे इयत्तावधिं कथयति यत्पुनः इति । सीमा - मर्यादा ।
इयत्तावधिरिति यावत् । येषाम् - येषामाभासानाम् । सामान्यं विशेषेण समर्थयति नहि इति । विरोधात् इति, वायो रूपराहित्यादिति भावः । ननु कथं मारुतरूपयोर्विरोधोऽस्तीत्यत आह सोऽपि च इति ।
सोऽपिच -
पृथक् ये दीपप्रकाशाः तेषां सम्बन्धि यदेकं सागरे स्रोतसां च यदेकं वस्तु तेन कार्या यथा ऐक्यघीः तथा अविरुद्धा ये अवभासा घटलोहितकाञ्चनादयः तेषां सम्बन्धि यदेकं स्वलक्षणं तत्कार्या ऐक्यधीरिति सम्बन्धः, ऐक्यधिया - प्रतिभासो विमर्शोऽर्थक्रिया च इति स्वीकृतम् ॥ ७ ॥
नन्वेवं प्रत्याभासं प्रमाणस्य विश्रान्तत्वात् अग्न्याभासे अग्निज्ञानं प्रमाणं धूमज्ञानं च धूमाभासमात्रे कार्यकारणभावावभासोऽपि तावन्मात्रे, ततश्च धूमाभासोऽपि अग्न्याभासं व्यभिचरेत् इत्यादि बहुतरोपप्लवप्रसङ्गः इति शङ्काम् अपोहितुम् [व्यपोहितुम् - ण्। ष्। ष्।] आह
विरोधोऽपि च, न च नियतेः पर्यनुयोगो युक्त इति भावः । प्रक्रियां सम्पाद्य सूत्रयोजनां करोति पृथक् इति । एकं वस्तु इति सम्बन्धः । वस्तु शब्द उभयत्र स्वलक्षणवाची । तेन - वस्तुना, कार्या - सम्पाद्या, स्वलक्षणम् - देशकालादियोजनानुप्राणितम् अन्याननुयायि स्वरूपम् । सम्बन्धः, श्लोकस्येति शेषः ।
नन्वैक्यधीः स्वलक्षणकार्या भवतु, अर्थक्रिया कथमेका ज्ञेया इत्यत आह ऐक्यधिया इति । ऐक्यधिया कर्त्र्या, इति - एतत् स्वीकृतम् स्वकारणत्वेन लक्षणया गृहीतम् । इति किमिति ? प्रतिभासः विमर्शः अर्थक्रिया इति । तेनैकप्रतिभासः एकविमर्शः, एकार्थक्रिया च एककार्या भवति इति योजनीयम् । प्रतिभासादित्रये एवैक्यधीर्भवति इत्यत्र न कोऽपि विरोधः ॥ ७ ॥
अथाष्टमस्य श्लोकस्यावतरणिकां करोति नन्वेवम् इति ।
अत्र टीका -
एवम् - उक्तप्रकारेण, प्रत्याभासम् - प्रत्येकमाभासेषु, तावन्मात्रे - अग्न्याभासधूमाभासकार्यकारणभावाभासमात्रे, ततश्च - ततो हेतोश्च, व्यभिचरेत् इति, भिन्नप्रमाणवेद्यत्वादिति भावः ।
आदिशब्देनान्येषां व्यभिचाराणां ग्रहणम् । अपोहितुम् [अपोहयितुम् - च्।] - दूरीकर्तुम् । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे तत्र इति ।
तत्राविशिष्टे वह्न्यादौ कार्यकारणतोष्णता - - तत्तच्छब्दार्थताद्यात्मा प्रमाणादेकतो मतः ॥ ८ ॥
तत्रेति - प्रत्याभासं प्रमाणं विश्राम्यति, इत्यस्मिन्नपि पक्षे न कश्चित् दोषः, तथाहि - - अविशिष्टो यद्यपि वह्न्याभासो देशकालाभासप्रमुखैः आभासैः असङ्कीर्णत्वेन सामान्यमात्ररूपत्वात् तथापि स एवाभासो यावद्भिराभासैरविनाभूतो भगवत्या नियतिशक्त्या नियमितः तावतोऽवभासान् स्वीकृत्यैव प्रमाणकृतां निश्चयपदवीम् अवतरति । ततश्च [तथा च - क्। ष्। ष्।] वह्न्याभास इन्धनकार्यत्बाभासेन धूमकारणताभासेन उष्णस्वभावताभासेन च स्वाभाविकाव्यभिचरितनियमः [स्वाभाविकाव्यभिचरितसाहचर्यः - क्। ष्। ष्।] प्रतीयमानो विश्वत्रैव सर्वदैव च तथा प्रतीतो भवति - एकत्वात् तस्य । अस्वाभा -
अत्र टीका -
तत्र इति पदं व्याचष्टे प्रत्याभासं इति । अपि न कश्चिद्दोषः इति शेषत्वेनाध्याहृतम् । कथं न दोष इत्यपेक्षायाम् अविशिष्टे इत्यादि व्याख्यास्यन् समर्थनमुपक्रमते तथा हि इति । तथाहीत्यस्याकाङ्क्षां पूरयति अविशिष्टः इति ।
अविशिष्टः - स्वलक्षणतामप्राप्तः । कुतोऽविशिष्ट इत्यपेक्षायां हेतुमाह देश इति । प्रमुख शब्देनाकारादिग्रहणम्, असङ्कीर्णत्वेन - अमिश्रत्वेन, स एवाभासः - वह्न्याभास एव, आभासैः - कार्यकारणतादिरूपैः, अविनाभूतः - व्याप्तः, तावतः - तान् समस्तान्, प्रमाणकृताम् - प्रमाणसम्पादिताम्, निश्चयपदवीम् - प्रमाविषयताम्, अवतरति - अवगाहते, तादृक्स्वभावत्वात् इति भावः, फलितमाह ततश्च इति । ततश्च - तस्माद्धेतोश्च, वह्न्याभासः - वह्निरूपाभासः, बह्नेरिन्धनकार्यत्वम् इन्धनद्योत्यत्वकृतं ज्ञेयम् । स्वाभाविकः
- स्वभावादागतः, अत एवाव्यभिचरितो नियमः यस्य सः - स्वाभाविकाव्यभिचरितनियमः, विश्वत्र - सर्वदेशेषु, सर्वदा - सर्वकालेषु, कुतः प्रतीतो भवति इत्यपेक्षायामाह एकत्वात् इति ।
विकोऽपि यः स्वभावः पुरुषकृतसमयादिमुखप्रेक्षी, तद्यथा - अग्निशब्दवाच्यत्वं घटप्रतिपत्तिकारित्वमित्येवमादिः, सोऽपि एकप्रत्यक्षादेवनिश्चीयते, तस्य हि प्रमातुः कृत्रिमेण इतरेण वा रूपेण आभासान्तरनान्तरीयकतया असौ वह्न्याभासः संविदितः सर्वदेशकालगतः तथा [तथैव संविदितः - क्। ष्। ष्।] संविदितः, इति तत्र किं प्रमाणान्तरेण । तस्य
तस्य - वह्नेः, एकत्वात् - सामान्यद्वारेण सर्वेषु देशेषु कालेषु चैकतया स्थितत्वात् । एतेन पूर्वार्धव्याख्या सम्पन्ना ।
पूर्वार्धेन सह समस्ततया स्थितं तत्तत् इत्याद्युत्तरार्धगतं व्याख्यातुमाह अस्वाभाविकः इति । अस्वाभाविकः - पुरुषकृतसङ्केतसिद्धत्वे-नागन्तुकः, स्वभावः - वह्निस्वरूपम्, कथमस्वाभाविकः इत्यत आह पुरुष इति । पुरुषेण - आदिपुरुषेण सामान्यपुरुषेण वा कृतो यः समयः अस्यायमर्थः इत्येवंरूपः सङ्केतः स आदिर्यस्य बृद्धव्यवहारादेस्तस्य मुखं प्रेक्षते इति तादृशः । कोऽसौ स्वभावः इत्यपेक्षायामाह तद्यथा इति । वह्नेः अग्निशब्दवाच्यत्वं हि पुरुषसमयसिद्धमेव, न सहजम् । आदिशब्दगृहीतं वस्तु कथयति घट इति । प्रदीपभावेन घटप्रकाशकत्वमित्यर्थः । तदपि हि वह्नौ न स्वाभाविकमपि तु नियतिशक्तिकृतत्वात् स्वरूपाद्व्यतिरिक्तमेव, कादाचित्कत्वात्, स्वरूपस्य [रूपस्य च सदा स्थितत्वात् - च्।] च सदास्थितत्वात् । इत्येवमादिः - इत्यादिरूपः, आदिशब्देन गन्धरसशून्यत्वादेर्ग्रहणम् । सोअ।पि - यच्छब्दोक्तः सर्वः अस्वाभाविकः स्वभावोऽपि, एकप्रत्यक्षादेव - एकस्मात्प्रत्यक्ष-प्रमाणादेव । कुत इत्यपेक्षायां वाक्येन हेतुमाह तस्य इति । तस्य - वह्निग्राहकतया स्थितस्य, कृत्रिमेण पुरुषसमयमुखप्रेक्षिणा, इतरेण - अकृत्रिमेण रूपेण, उपलक्षितानि यानि आभासान्तराणि - वह्न्याभासादन्ये आभासाः सदाद्याभासास्तैर्या नान्तरीयकता - साहचर्यनियमो व्याप्तिरिति यावत्, तया संविदितः - प्रथमं सम्यग्ज्ञातो भवति, अतः सर्वदेशकालगतः स तथा संविदितः - आभासान्तरनान्तरी यकतया संविदितः स्यात्, इति किं तत्र प्रमाणान्तरेण एकेन प्रमाणेनैव सिद्दत्वात् न किञ्चिदित्यर्थः । तत्तच्छब्दार्थ इत्यस्य समासावयवचतुष्कस्य सूचनीयं वस्तु विग्रहद्वारेण दर्शयति तस्य इति । तस्य तस्य इत्यस्यार्थमाह
यथेच्छं पुरुषसमयेन नियुज्यमानस्य शब्दस्य अर्थोऽयं ज्वलद्भास्वराकार आभास इत्यनेन नियतिशक्तिरेव सर्वत्र शरणम् इति पिशुनयति । एतदुक्तं भवति - यत्किञ्चित् कृत्रिमम् इतरद्वा भावाभासस्य आभासान्तरेण नान्तरीयकतया [नान्तरीयकत्वं - क्। ष्। ष्।] प्रतिभाति तत्र नियतिशक्तिमात्रमेव परं विजृम्भते । तत्तु नियतिरूपं [नियतिशक्तिरूपम् - क्। ष्। ष्।] पूर्वापरविततकालम् - इन्धनकार्यत्वे घ्हूमकारणत्वे उष्णस्वभावत्वे च आभासमाने, अनतिचिरक्वालं तु वह्न्यादिशब्दवाच्यतावभासादाविति [वह्न्यादिशब्दवाच्यत्वाभासादाविति - क्। ष्। ष्।] विशेषः । ततश्च नियतिशक्त्युपजीवनेन धूमाभासोऽपि अग्न्याभासाव्यभिचारी इति न कश्चित् विप्लवः ।
यथेच्छम् इति । इत्यनेन - एतेन, पिशुनयति - सूचयति, दण्डापूपिकान्यायेनेति भावः । यत्र हि पुरुषकृतया नियत्या शब्दानांस्वार्थे स्थितिः तत्रकः संशयः ईश्वरनियतेराभासमिश्रीभावनियमने इति । एतेनोक्तं वस्तु सङ्ग्रहेण कथयति एतत् इति । किमुक्तं भवतीत्यत आह यत्किञ्चित् इति ।
भावाभासस्य - वह्न्याभासादिरूपस्य पदार्थाभासस्य, नान्तरीयकतया - व्याप्त्या, साहचर्येणेति यावत् । परम् - केवलम् ।
नियतेर्विषयकृतं विशेषं दर्शयति तत्तु इति । नियतिरूपम् - नियतिशक्तिस्वरूपम् । तत्र इन्धनकार्यत्वे भासमाने पूर्वकालं भवति वह्नेः पूर्वस्थितत्वात्, अन्यथेन्धनकार्यतानियमायोगात्, तथा घूमकारणत्वेऽवभासमाने अपरकालम्भवति, अन्यथा घूमकारणत्वं प्रतिकं नियमयेत्, तथोष्णस्वभावत्वेऽवभासमाने विततकालं लक्षणया सर्वकालं भवति, वह्नेः सर्वदोष्णत्वनियमात्, तथा वह्न्यादिशब्दवाच्यतावभासादौ अनतिचिरकालं भवति, अस्य समयस्य मध्ये कल्पितत्वेनानादित्वाभावात् अन्यथा पुरुषकृतत्वायोगात्, इति विशेषः, एवंरूपो विशेषो भवतीत्यर्थः ।
फलितं स्वाभिप्रायं कथयति ततश्च इति । नियतिशक्त्युपजीवनेन
- नियतिशक्त्यपेक्षया, एवमेव नियतेः स्थितत्वात् इति यावत् । विप्लवः - नियमविधुरता । योजनां दर्शयन् प्रथमं
कार्यता कारणता उष्णता च तस्य तस्य शब्दस्यार्थता तत्तच्छब्दा-भिधेयता, आदिग्रहणात् - गन्धरसशून्यता ऊर्ध्वदिक्संयोगिता जल-विरोधिता च, इत्येवम्भूतो य आत्मा स्वभावो वह्न्यादौ स एकस्मादेव प्रमाणात् मतः - संविदित इति यावत् । अविच्छेदः [अधें छेदः - क्। ष्। ष्।] इति काव्ये अयं समयो, न ग्रन्थे, इति द्वितीयतृतीयपादयोः सामस्त्येऽपि अदोषः ।
पृथग्भावप्रत्ययप्रयोगो वस्त्वन्तरापेक्षानपेक्षातः कृतकत्वाकृतकत्वा-भ्यां वर्गभेदं सूचयितुम् ॥ ८ ॥
कार्यकारण इत्यादिरूपस्य दीर्घसमासस्य विग्रहं दर्शयति कार्य इति । आदिशब्दगृहीतं वस्तु दर्शयितुमाह आदि इति ।
इत्येवम्भूतः - इत्येवंरूपः । आत्म शब्दवाच्यमाह स्वभावः इति । एतन्नये सर्वेषां धर्माणां स्वरूपतानपायात् आत्मशब्दग्रहणम् । बह्न्यादौ इति । आदि शब्देन सर्वेषां पदार्थानां ग्रहणम् । प्रमाणात् इत्येकवचनस्य व्याख्यां करोति एकस्मात् इति । मतः इत्यस्य व्याख्यां करोति संविदितः इति ।
यावत् शब्दः पर्यायत्व-सूचनार्थः । पूर्वोत्तराऽवस्थितानां शब्दानां समसने दोषं निवारयति, अविच्छेदः कार्य इति शेषः ।
ग्रन्थे, सङ्ग्रहेण महारहस्यवाचके पदसन्-दर्भे इत्यर्थः ।
अदोषः, दोषाभाव इत्यर्थः । समासान्ते स्थितेनैकेन भाव प्रत्ययेनापि सिद्धौ प्रत्यवयवं स्थितस्य भावप्रत्ययस्याभिप्रायमाह पृथक् इति । भावप्रत्ययप्रयोगः
- तलः प्रयोगः, वस्त्वन्तरस्य - समयादेः, वर्गभेदं इति,
एवं भावस्वभावव्यवस्थापनं प्रत्याभासविश्रान्तेन एकेन प्रमाणेन [एकेनैव प्रमाणेन - क्। ष्। ष्।] क्रियते, तेषामपि आभासानां यथोचितं यदन्योन्यनान्तरीयकत्वं तत् एकेन संवेदनरूपेण तदनेकप्रमि- ताभासविषयपूर्वप्रवृत्तसंवेदनकलापानुप्राणकान्तर्मुखस्व् अरूपेण निश्चीयते, तच्च ऐक्याभासमात्रे अनुसन्धानरूपं प्रमाणम्, अनुसन्धीय-मानेषु तु आभासेषु गृहीतग्राहित्वात् अप्रमाणम्, तत्र तु प्रत्येकं प्राच्यमेव प्रमाणम् ।
भावस्वभावव्यवस्थापनात्मकमानसप्रवृत्त्यतिरिक्तकायप्र- वृत्त्युपयोगस्तु यथा प्रमाणविषयः तं
समानां समूहो हि वर्गः, तत्रैव चैको भावप्रत्ययो युक्तः, न विसदृश-समूहे इति भावः । तत्र कार्यकारणभावादेरकृतकत्वम् शब्दाभिधेयत्वादेः कृतकत्वमिति ॥ ८ ॥
अथ नवमस्य श्लोकस्यावतरणिकां करोति एवम् इति ।
अत्र टीका -
एवम् - पूर्वश्लोकोक्तप्रकारेण, भावस्वभावव्यवस्थापनम् - वह्न्यादिस्वरूपस्य मर्यादयावस्थापनम्, प्रत्याभासम् - भावगतेषु सर्वेष्वाभासेषु, विश्रान्तेनैकेन प्रमाणे क्रियते पृथक् पृथक् एकैकप्रमाणेन वह्नो इन्धनकार्यतादि - स्वभावव्यवस्थापनात् ।
तेषाम् आभासानाम् - इन्धनकार्यताद्याभासानाम्, यथोचितं यदन्योन्यनान्तरीयकत्वम् - परस्परं साहचर्यनियमः, तत् संवेदनरू-पेण - संवेदनस्वरूपेण, निश्चीयते, संवेदनरूपेण कीदृशेन ? ते च ते अनेके प्रमिता आभासास्ते विषयाः यस्य तादृशः पूर्ववृत्तः - पूर्वसं-पन्नः, संवेदनकलापःप्रमासमूहः, तस्यानुप्राणकं - सत्तादायि अन्तर्मुखं स्वरूपं यस्य तादृशेन, सकल - विमर्शरूपेणेत्यर्थः । अनुसन्धानरूपम् - पूर्वगृहीताभासयोजनारूपम्, तच्च - संवेदन्न-रूपं च, ऐक्याभासमात्रे प्रमाणं भवति, योजनारूपत्वात् । तु व्यतिरेके, अनुसन्धीयमानेषु तु आभासेषु गृहीतग्राहित्वात् अप्रमाणं भवति, ते हि यथास्वं स्वविषयेन प्रमाणेनैव पूर्वं गृहीताः, अनेन त्वनुसन्धी-यन्ते, अन्यथैक्येन ग्रहणासम्भवात् । कथम् इत्यपेक्षायामाह तत्र इति । तु शब्दो हिशब्दार्थे, तु - यस्मात् तत्र - तेष्वाभासेषु प्राच्यमेव - ग्रहण- कालीनमेव, प्रमाणं भवति । नन्वेवं सति कायप्रवृत्तिरयुक्तैव, किमर्श-मात्रसाध्यत्वात् अर्थक्रियायाः तस्य च मानसप्रवृत्तिमात्रसाध्यत्वात् इत्यत आह भाव इति । यथा - येन प्रकारेण ।
प्रकारं दर्शयितुम् आह -
सा तु देशादिकाध्यक्षान्तरभिन्ने स्वलक्षणे ।
तात्कालिकी प्रवृत्तिः स्यादर्थिनः …
बाह्य तावत् अर्थक्रिया स्वलक्षणतः, स्वालक्षण्ये च देशकालाभास-योजनस्यैव अन्तरङ्गत्वम् तत्रापि च विशेषरूपतापि परामर्श विना न किञ्चित्, परामर्शेद्वारेण तु प्रमातरि विश्राम्यन्ती प्रमातुः संवेदनैकरूपस्य देशकालायोगेन ऐक्यात् अभ्युज्झत्येव विशेषरूपताम्, इति सर्वत्र अद्वयं परमार्थतः, तथापि तु या विशेषरूपता भाति तस्यां [तस्याः - क्। ष्। ष्।] परमेश्वरस्वातन्त्र्यमेव निमित्तं यत्, तत् मायाशक्तिरित्युच्यते । तत्र
एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे सा तु इति ।
अत्र टीका -
श्लोकं व्याख्यातुं प्रक्रियां करोति बाह्या इति । बाह्या इति, बाह्यवस्तु-साध्यत्वादिति भावः । तावत्, नात्र कस्यापिविप्रतिपत्तिरित्यर्थः । स्वलक्षणतः - देशाद्याभासयोजनासिद्धात् [देशाद्याभासयोजनासिद्धत्वात् - च्।], वस्तुनो-ऽन्याननुयायिस्वरूपात्, स्वालक्षण्ये च - स्वलक्षणबावे च, अन्तरङ्गत्वम् - असाधारणकारणत्वम् । देशादियोजनेनैव हि सामान्यं स्वलक्षणीभवति । तत्रापि च - तस्मिन् स्वलक्षणे च, परामर्शं विना - विशेषामर्शनं विना, न किञ्चित् - न किमपि भवति, परामृष्टमेव हि वस्तु स्वरूपं लभते । ननु परामर्शोऽपि भवतु इत्यत आह परामर्श इति ।
परामर्शद्वारेण - परामर्शमुखेन, संवेदनैकरूपस्य - नित्यव्यापकसंवेदनैकस्वरू-पस्य, देशकालायोगेन - देशाद्यसम्बन्धात्, ऐक्यात् हेतोः, सा विशेषरूपता विशेषरूपतामभ्युज्झत्येव - जहात्येव, इति - अतः कारणात्, अद्वयम् - द्वैताभावः परमार्थतो भवति, तथापि तु या विशेषरूपता भाति - वाह्यवस्तुविषयत्वेन स्फुरति, तस्यां यत् परमेश्वरस्वातन्त्र्यमेव भवति निमित्तं तत् पण्डितैः मायाशक्तिरित्युच्यते असम्भवोपहतवस्तुभानहेतो-रेव मायात्वकल्पनात् । उक्तप्रक्रियावष्टम्भेन सूत्रे योजनां करोति तत्र इति ।
विशेषसाध्यार्थक्रियाविशेषेण योऽर्थी तस्य या स्वलक्षणे तस्मिन् विशेषरूपे अर्थे तत्कालभाविनी वाङ्मनः कायप्रवृत्तिः सा देशे, आदिग्रह-णात् काले स्वरूपान्तरे तदनुसन्धानादौ [स्वरूपानुसन्धानादौ - क्। ष्। ष्।] च यानि अध्यक्षान्तराणि बहूनि प्रत्यक्षाणि तेषां भिन्ने भेदे निमित्ते सति भवति, न अन्यथा ।
नैकैकतः प्रमाणात् सा प्रवृत्तिः अपि तु प्रमाणसमूहा-देव ।
समूहता च परस्य न उपपन्ना, अस्माकं तु एकस्वसंवेदनविश्रान्तिमयी सा
तत्र सति । अर्थिनः इति व्याचष्टे विशेष इति । विशेषेण - स्वलक्षणेन साध्यो योर्थक्रियाविशेषः तेनार्थी - अर्थित्वयुक्तः, तत्काङ्क्षायुक्त इति, यावत् । षष्ठीयोजनां करोति तस्य इति । स्वलक्षणे इति व्याचष्टे तस्मिन् इति । तात्कालिकी इति व्याचष्टे तत्काल इति ।
ग्रहणकालभाविनीत्यर्थः । प्रवृत्तिः इति व्याचष्टे वाक् इति ।
प्रवृत्तेस्त्रिविधत्वादेवमुक्तम् । देश इत्यादि समस्तं पदं विग्रहपूर्वं व्याचष्टे देशे इति । आदिशब्दग्राह्यं वस्तु कथयति काले इति । स्वरूपान्तरे - देशादिस्वरूपाद्भिन्ने तदवच्छिन्ने वस्तुस्वरूपे, तस्यैव वस्तुस्वरूपस्य यः अनुसन्धानादिः, आदिशब्देन देशाद्यनुसन्धानग्रहणम्, तत्र अध्यक्षान्त-राणि - ऐक्यग्राहकात् प्रत्यक्षादन्यानि, बहूनि - विषयबहुत्वेन बहुतया स्थितानि, प्रत्यक्षाणि - बाह्ममानसरूपाणि तेषाम् भिन्ने इति व्याचष्टे भेदे इति । एतेन भावे क्तोऽत्रेति विद्योतितम्, निमित्ते सप्तमीति च । सङ्ग्रहेणामुमेवार्थ पुनः कथयति नैकैकतः इति । प्रथमं हि पुरुष इह इदानीमयमिति प्रत्येकं देशादिकं प्रमाणैर्गृहीत्वा ततो विकल्पेन सर्वेषां योजनां कृत्वा वागादि-कं तत्र प्रवर्तयति । यद्यपि स्वलक्षणग्रहणमेकस्मादेव प्रमाणात्पूर्व-मुक्तं तथापि मूले स्थितां प्रत्याभासप्रमाणप्रवृत्तिमपेक्ष्येहैवमुक्त-मिति पूर्वापरविरोधो न शङ्कनीयः । अथवा स्वलक्षणस्य ग्रहणमेकस्मात्-प्रमाणादुक्तम्, प्रवृत्तिस्तु बहुभिः प्रत्यक्षैरिति पूर्वापरविरोधाशङ्कैव नास्ति, ग्रहणं ह्यापातमात्रेऽपि भवति प्रवृत्तिस्तु मूलविचारानन्तरमेवेत्-यलम् । ननु स्वाभासोऽभिनवोदयः इत्यत्र प्रमाणानाङ्क्षणिकत्वमेवोक्त- मिति कथं तेषां समूहः सम्भवतीत्यत आह समूहता च इति ।
परस्य - बौद्धस्य, अस्माकम् - श्रीशिवनये निष्ठितानाम्, सा - समूहता । ननु कुत्रोक्तमित्यपेक्षायां
११५) युज्यते, इति उक्तं प्राक्
न चेदन्तः कृता … (२।३।७) इत्यत्र । इयमेव च सा प्रमाणानां योजना, योजिका च युक्तिरित्युच्यते ।
गन्ध-द्रव्यादियुक्तिवत् । एवं प्रत्यक्षसमूहादेव प्रवृत्तिरिति तात्पर्यम् । देशादि-केष्वध्यक्षेष्वपि [देशादिकेष्वप्यध्यक्षेषु सत्सु - क्। ष्। ष्।] देशाभासादियोजनायामपि [देशाभासयोजनायामपि - क्। ष्। ष्।], अन्तह्। - प्रमातरि अभिन्नं यत् स्वलक्षणं तत्र इति वा सङ्गतिः । देशादिकैरध्यक्षान्तरैः प्रत्यक्षीभूतैराभासान्तरैर्भिन्ने स्वलक्षणे निमित्ते सति प्रबृत्तिः, इति वा योजना । अत्रापि प्रमेयवहुत्वनिरूपणदिशा तदनुयायित्वेन अभिधीयमानः प्रमाणसमूहो निमित्तत्वेन उक्तो भवति ।
पूर्व व्याख्यातं श्लोकमनुस्मारयति न चेत् इति । अस्मिन् श्लोके हि सर्वसंविन्मयपिण्डमयमेकं तत्त्वमात्मत्वेन साधितम् । तत्रैव च प्रमाणसमूहस्यापि स्थितिर्युक्तैवेति भावः । अस्याः समूहताया एव युक्तिरिति नाम कथयति इयमेव इति । सा - समूहता ।
अत्र दृष्टान्तमाह गन्ध इति । सङ्ग्रहेणास्य श्लोकस्य तात्पर्यं कथयति एवम् इति । देशादिक इति समस्तपदस्यान्यथा योजनां करोति देशादिक इति । देशादिकेष्वध्यक्षेष्वपि देशाभासादियोजनायामपि । अन्तः इत्यस्य व्याख्यां करोति प्रमातरि इति । अभिन्ने एकस्मिन् सति, एतेन कर्मणि क्तप्रयोग इति द्योतितम्, स्वलक्षणे इति निमित्तसप्तमी । सङ्गतिः - सम्बन्धः ।
अन्यथा पुनर्योजनां करोति देशादिकैः इति । नन्वनेन व्याख्याद्वयेन किं फलितमित्यत आह अत्रापि इति । अत्रापि - अस्मिन् व्याख्याद्वयेऽपि, तदनुयायित्त्वेन - प्रमेयबहुत्वानुगतत्वेन, अत्रापि प्रत्यक्षसमूहादेव प्रवृत्तिरिति भावः । एतेन अर्थिनः इत्यन्तं व्याख्या सम्पन्ना । एवमत्र स्फुटा योजना । तु शब्दः एकस्मात् प्रमाणात् कार्यताद्याभासकदम्बकात् पक्षान्तरद्योतकः । सा कर्त्री देशादिकाध्यक्षान्तरभिन्नस्वलक्षणे भवति, सा का, या अर्थिनस्तात्कालिकी प्रवृत्तिः स्यादिति ।
ननु किं प्रात्यक्ष्यामेव प्रवृत्तौ प्रमाणसमूह उपयोगी ? नेत्याह
… अप्यनुमानतः ॥ ९ ॥
न केवल प्रत्यक्षतः प्रवृत्तिः देशादिकाध्यक्षान्तरभेद- रूपप्रमाणसमूहनिमित्ता यावत् अनुमानतोऽपि तथैव ।
धूमाभासमात्रे अग्न्या - भासमात्रे धूमस्याग्न्याभासाव्यभिचारित्वे पर्वताभासे च यानि प्रत्यक्षान्तराणि यच्च तद्गृहीतातिरिक्ते अयोगव्यवच्छेदे अग्निरत्र इत्येवम्भूते पृथक् अनुमानं प्रमाणम् तत्समूहादेव अर्थिनः तात्कालिकी प्रवृत्तिः इति सम्बन्धः ॥ ९ ॥
एवं विमर्शबलादेव भेदाभेदव्यवस्था, तदेव हि परमेश्वरस्य संवेदनात्मनः शिवनाथस्य स्वातन्त्र्यशक्तिविजृम्भितम्; ततश्च परैः यत् उच्यते दूरान्तिकादौ अर्थस्य अभेदः इति तदपि उपपद्यते न तु अन्यथा कथञ्चित्, - इति निरूप्यते ।
शिष्टस्य अपि इत्यादेः श्लोकखण्डस्यावतरणिकां करोति ननु इति । प्रात्यक्ष्यामेव - प्रत्यक्षसम्बन्धिन्यां तदनन्तरभाविन्यामिति यावत् । अत्रोत्तरं कथयति नेत्याह इति ।
एवमवतरणिकां कृत्वा श्लोकखण्डमुपन्यस्यति अप्यनुमानतः इति ।
एतद्व्याचष्टे न केवलम् इति । तथैव, देशादिकाध्यक्षान्तरभेदरूप-प्रमाणसमूहनिमित्तैवेत्यर्थः ।
एतदेव विस्तरेण कथयितुमाह धूम इति । धूमाभासमात्रे - लिङ्गरूपे, अग्न्याभासमात्रे - व्याप्तिकालीने, धूमाग्न्याभासाव्यभिचारित्वे - साहचर्ये, पर्वताभासे - पक्षे, तेभ्यो गृहीतेभ्यो घूमादिभ्यः अतिरिक्ते - तद्गृहीतातिरिक्ते, अयोगव्यवच्छेदे - अग्न्यसम्बन्धव्यावृत्तौ, तद्वत्त्वे इति यावत् ।
अयोगव्यवच्छेदस्वरूपं दर्शयति अग्निः इति । पृथक् - प्रत्यक्षेभ्यो भिन्नम्, तत्समूहात् - प्रत्यक्षानुमानप्रमाणसमूहात्, इति सम्बन्धः, अस्य श्लोकखण्डस्यैवं योजना भवति इत्यर्थः ॥ ९ ॥
- अथ दशमस्यैकादशस्य च श्लोकस्यावतरणिकां करोति - एवम् इति ।
अत्र टीका -
एवम् - उक्तन्यायेन, तदेव - विमर्श एव, संवेदनात्मनः - प्रकाशरूपस्य,
दूरान्तिकतयार्थानां परोक्षाध्यक्षतात्मना ।
वाह्यान्तरतया दोषैर्व्यञ्जकस्यान्यथापि वा ॥ १० ॥
भिन्नावभासच्छायानामपि मुख्यावभासतः । एकप्रत्यवमर्शाख्यादेकत्वमनिवारितम् ॥ ११ ॥
प्रतिभासमात्रेण व्यवस्थां कुर्वन्तः कथं दूरादूरयोर्वस्तुनोरभेदः, प्रतिभासस्य सकलासकलावृतानावृतादितया यथाकथञ्चिदपि भेदात् ? ननु विमर्शेऽपि प्रत्याभासं तथैव भिन्नता, ? सत्यम्, तथापि तु परो यो विमर्शः स एवायं पदार्थः इति एकप्रत्यवमर्शरूपः, तेन प्राणितकल्पेन आ समन्तात् ख्यानं प्रथनं यस्य मुख्यावभासस्य एकरूपभावाभासस्य,
परैः - तार्किकैः । एवमवतरणिकां कृत्वा श्लोकद्वयमुपन्यस्य व्याचष्टे दूरान्तिक इति ।
अत्र टीका -
श्लोकं व्याख्यातुं प्रक्रियां करोति प्रतिभास इति ।
प्रतिभासमात्रेण - विमर्शरहितेन प्रकाशेन, व्यवस्थाम् - नीलादि-व्यवस्थाम् कुर्वतः बौद्धस्येति शेषः । कुतो नाभेद इत्यपेक्षायामत्र हेतुमाह प्रतिभासस्य इति । तत्र दूरेऽसकलः अदूरे सकलः तथा दूरे आवृतः अदूरेऽनावृतः, आदिशब्देनास्फुटत्वस्फुटत्वयोर्ग्रहणम् [आदिशब्देनास्फुटत्वयोर्ग्रहणम् - च्।] । यथाकथञ्चित्, येन केन प्रकारेणेत्यर्थः । अत्र शिष्यः प्रश्नयति ननु इति । तथैव - आभासवत्, सकलादितयेत्यर्थः । उत्तरमाह सत्यम् इति । परः - [परसामान्यरूपः - च्।] सामान्यरूपः, कीदृशः, इत्यत आह स एवायम् इति । तेन - परविमर्शेन, प्राणितकल्पेन - सत्कल्पत्वकारिणा, आ इति निपातस्य व्याख्यां करोति समन्तात् इति । ख्या इति कृत्प्रत्ययान्तधातुप्रकृतिं व्याचष्टे ख्यानम् इति । अस्यापि पर्यायमाह प्रथनम् इति । प्रत्यवमर्शेनैव हि अवभासः स्फुरतीति भावः । मुख्यावभास इति व्याचष्टे
एकप्रत्यवमर्शे तदुचितोऽपि [अतदुचितः - क्। ष्। ष्।] हि अस्त्येकावभासः, आभासविमर्शयोरन्योन्यमवियोगात् । तस्मात् मुख्यावभासादेकत्वमप्रतिहतमास्ते । यदेवानुमितं तदेव दृष्टम्, - इत्यत्र प्रत्यक्षपरोक्षतारूपेणात्मना स्वभावेन भिन्ना अवभासच्छाया अमुख्योऽवभासो येषां तेषाम् एकत्वं मुख्यावभासत एकप्रत्यवमर्शानुप्राणितात्, - इति सङ्गतिः ।
बाह्यान्तरतया भिन्नावभासानामैक्यं यथा यदेव दृष्टं तदेवान्तरहमुल्लिखामि, - इति । व्यञ्जकानां दीपालोकादीनां दोषैर्भिन्नावभासानाम् ऐक्यम्, यदेव रक्तोत्पलं दीपेन नीलं दृष्टं तदेव सूर्यांशुभिर्लोहितं पश्यामि, इति ।
एक इति । सामान्यरूपावभासस्येत्यर्थः । नन्वेकरूपोऽवभासो ऽत्र नानुभूयते, इत्यत आह एक इति । हि - यस्मात्, एकप्रत्यवमर्शे - स्फुटमेवानुभूयमाने सोऽयं पदार्थ इति सामान्यप्रत्यवमर्शे, तदुचितः - तद्योग्यः, एकावभासः - सामान्यावभासः अस्त्येव, कुतः, आभासविमर्शयोरन्योन्यमवियोगात्, विमर्शो ह्यवभासं तत्संस्कारं वा बिना नोत्तिष्ठत्येव अवभासोऽपि विमर्शं विनाऽसत्कल्प इति । तसिलो योजनां करोति तस्मात् इति । एकत्वमनिवारितम् इति व्याचष्टे एकत्वम् इति । अप्रतिहतम् - प्रतीघातरहितम्, आस्ते - तिष्ठति । दूरान्तिकतयार्थानाम् इत्यस्यैतेन योजना कृता ।
एवमत्र सम्बन्धः । भिन्नावभासच्छायानाम् इति विशेषणमुत्तरत्र व्याख्यास्यमानमपि इहापि युज्यते एव तेनैवं योजना । दूरान्तिकतया भिन्नावभासच्छायानाम् - भिन्नाऽमुख्यप्रतिभासानामपि, अर्थानाम् - नीलादीनाम्, एकप्रत्यवमर्शाख्यात्, अयमिति सामान्यप्रत्यवमर्शवशेन स्फुरितात्, मुख्यावभासतः एकत्वमनिवारितं भवति ।
एवमुत्तरत्रापि योजना कार्या । परोक्षाध्यक्षतात्मना - इत्यस्य योजनां करोति यदेव इति । सङ्गतिः, अनिवारितम् इत्यनेन सम्बन्धः इत्यर्थः । बाह्यान्तरतया इति योजयति वाह्य इति । इति शब्दो योजनासमाप्तौ । अत्रापि योजना पूर्ववदेव कार्या । व्यञ्जकस्य दोषैः इति योजयति व्यञ्जकानाम् इति । अन्यथापि वा इति योजयति
अन्येनापि [अन्येन वापि - क्। ष्। ष्।] प्रकारेण इन्द्रियापाटवादिना एकपार्श्वसम्मुखत्वादिना वा येषामवभासच्छाया भिन्ना, तेषामपि मुख्यप्रत्यवमर्शानुवर्त्यवभासस्वरूपबलात् ऐक्यमेव, - इति स्थितम् ॥ १० - ११ ॥
ननु दूरादूरादावस्तु स एवाअर्थः प्रमात्रध्यवसितार्थक्रियांशे तथैवोपयोगात्, बाह्यान्तरत्वादौ कथम्, आन्तरस्यार्थक्रियायां प्रमात्रध्यवसितायामनुपयोगात् - इति भ्रान्तिं भङ्क्तुमाह
अन्येनापि इति । अन्यं प्रकारमेव स्फुटयति इन्द्रिय इति । आदिशब्देन व्याध्यादिकृतविकारादेर्ग्रहणम् [व्याख्यादिकृत - च्।] ।
एकस्मिन्पार्श्वे यत् सम्मुखत्वादि तेन । आदिशब्देन द्वितीयपार्श्ववैमुख्यग्रहणम् । ताभ्यामपि ह्येकमपि वस्तु भिन्नमिव भाति । मुख्यं प्रत्यवमर्शमनुवर्तते इति तादृशं यत् अवभासस्वरूपम् मुख्यावभासस्वरूपम् तस्य बलात्, स्थितम्, स्थितियुक्तं भवतीत्यर्थः ॥ १० ॥ ११ ॥
अथ द्वादशस्य श्लोकस्यावतरणिकां करोति - ननु इति ।
अत्र टीका -
दूरादूरादौ इति । आदिशब्देन परोक्षाध्यक्षत्वग्रहणम् ।
स एवार्थः, एक एवार्थ इत्यर्थः । कुत इत्यत आह प्रमातृ इति ।
प्रमात्राऽध्यवसितः - निर्णीतो यः अर्थक्रियांशः तस्मिन्, तथैव - तद्वत्, उपयोगात्, - दूरे परोक्षे वा स्थितं हि अदूरेऽध्यक्षे च स्थितं वा नीलं स्वविषयज्ञानरूपायामर्थक्रियायां हि सदृशमेवोपयोगं करोति, यस्तु मन्दत्वादिभेदः सोऽकिञ्चित्कर एव । तु, विशेषे बाह्यान्तरत्वादौ स एवार्थः कथम्, न युक्तमित्यर्थः । कुत इत्यपेक्षायामाह आन्तरस्य इति ।
नह्यन्तरुल्लिखितोऽग्निः बाह्याग्निसाध्यायां शीतापहरणरूपार्थक्रियायामुपयुक्तो भवतीति भावः ।
भङ्क्तुम् - त्रोटयितुम् [तोषयितुम् - च्।] । एवमवतरिणकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे अर्थक्रिया इति ।
अर्थक्रियापि सहजा नार्थानामीश्वरेच्छया ।
नियता सा हि तेनास्या नाक्रियातोऽन्यता भवेत् ॥ १२ ॥
इह कार्यकरणता [कार्यकारणतोष्ण - क्। ष्। ष्।] (२।३।८) इत्यत्र स्वरूपमिवार्थक्रियापि या मध्ये गणिता, सा सहजार्थस्वरूपभूता न भवति, तत्कारित्वं हि यस्मात् ईश्वरेच्छया नियतं भवने चाभवने च । यतो नैषा स्वरूपम्, तेन तस्या अकरणात् हेतोर्भावस्यान्यत्वं नाशङ्कनीयं स्वरूपभेदात् हि सम्भाव्येतान्यत्वम्, न च स्वरूपम् अर्थक्रियाकारित्वम्, - इत्युक्तं वक्ष्यते च बहुशः । स्वरूपं च प्रत्यवमर्शवलादेकमेव बाह्यान्तरादावपि, इति ॥ १२ ॥
अत्र टीका -
अर्थक्रिया इति व्याचष्टे इह इति । इह - अस्मिन् शास्त्रे, कार्यकारणता इत्यत्र, तत्राविशिष्टे, इत्यादि श्लोकस्थेऽत्र पदकदम्बके, स्वरूपमिव - कार्यतादिस्वरूपवत्, सहजा इत्यस्य व्याख्यां करोति अर्थ इति । न इति व्याचष्टे न भवति इति ।
ईश्वरेच्छया इत्यादि सा हि इत्यन्तं हेतुत्वेन व्याचष्टे तत्कारित्वम् इति । हि - यस्मात्, तत्कारित्वम् - अग्नेः शीतनिवृत्तिकारित्वम्, निजार्थक्रियेति यावत् । भवने - सत्तायाम्, अभवने च - असत्तायाम् ईश्वरेच्छानियतं भवति तदुक्तम् -
दैवं चैवात्र पञ्चमम्
इति । दैवं हि क्रीडाशीलपरमेश्वरसम्बन्धी इच्छाविशेष एव देवस्येदमिति योगवलात् । ईश्वरेच्छाप्रेरिता एव हि भावाः स्वसाध्यामर्थक्रियां सम्पादयन्ति न तु स्वरूपमात्रेण ।
अन्यथा भावानां वैफल्यं कदापि न स्यात्, दृश्यते च शीतज्वरेऽग्नेरपि शीतनिवारेणे असामर्थ्यम् इत्यलम् । तेन इत्यादि श्लोकखण्डं व्याख्यातुं तेन इत्यस्याकाङ्क्षां पूरयति यत् इति ।
एषा - अर्थक्रिया, तस्याः - अर्थक्रियायाः, अपि शब्दाद् दूरान्तिकादावपि । इति शब्दः श्लोकव्याख्यासमाप्तौ ॥ १२ ॥
ननु विमर्शबलादेव यदि वस्तूनां भेदाभेदव्यवस्था तर्हि इदानीं त्रिजगति निवृत्ता भ्रान्तिसङ्कथाः, शुक्तिकायामपि सत्यरजततैव आपतति इदं रजतम् इति विमृश्यमानत्वात्, ततश्च भ्रान्त्यभावे बाधानुपपत्तेः किमर्थमुक्तं मितिर्वस्तुन्यबाधिता (२ । ३ । २) इति । व्यभिचाराभावे हि अबाधिता इत्यस्य विशेषणस्य व्यवच्छेद्यं न लभ्यते, इत्याशङ्कां निरस्यति
रजतैकविमर्शेऽपि शुक्तौ न रजतस्थितिः । उपाधिदेशासंवादाद् द्विचन्द्रेऽपि नभोऽन्यथा ॥ १३ ॥
इदं रजतं स्थिरं सर्वम्प्रमातृसाधारणम् अर्थक्रियायोग्यम् इति इदमंशे रजताद्यंशेषु तत्सम्मेलनांशे च आभासविमर्शनबलात् न तावत् किञ्चित् मिथ्यात्वम् । किन्तु उत्तरकालं यो भविष्यति
अथ त्रयोदशस्य श्लोकस्यावतरणिकां करोति - ननु इति ।
अत्र टीका -
ननु भ्रान्तिसङ्कथा निवृत्ता भवतु ततः किम् इत्यत् आह शुक्ति इति । आपतति - बलादायाति । कुत इत्यपेक्षायां हेतुमाह इदम् इति ।
ननु ततोऽपि किम् इत्यत आह ततश्च इति । उक्तम् इति, प्रागिति भावः । अत्र वाक्येन हेतुमाह व्यभिचार इति । व्यवच्छेद्यम् - व्यावर्त्यम्, निरस्यति - दूरीकरोति । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे रजतैक इति ।
अत्र टीका -
श्लोकं व्याख्यातुं प्रक्रियां करोति इदम् इति । इदमंशे - इदमित्यस्मिन् भागे, रजतादि इति । आदिशब्देन स्थिराद्यंशग्रहणम् । तेषाम् - इदमंशादीनां यः सम्मेलनांशः सामानाधिकरण्येन योजनरूपो भागः तस्मिन् । किञ्चित् - लेशेनापि, मिथ्यात्वं न भवति इति सम्बन्धः । प्रकाशविमर्शावेव हि वस्तुस्वरूपव्यवस्थापकाविति भावः । ननु तर्हि सत्यरजतज्ञानात्कोऽस्य भेदः इत्यत आह किन्तु इति । किन्तु - पक्षान्तरे, उत्तरकालम् - बाधकाले, यः भविष्यति
विमर्शो नेदं रजतं वस्तु स्थिरं प्रमात्रन्तरगम्यमभिमतकार्यकारि इति तद्विमर्शविमर्शनीयम् यत् तत्पूर्वविमर्शकालसमुचितमेव रूपं तत् तस्मिन् पूर्वविमर्शकाले नैवामृश्यते, भाव्यं च तेनामर्शनीयेन ।
विमर्शः, किंरूपोसौ विमर्श इत्यपेक्षायामाह नेदम् इति ।
अभिमतकार्यकारि - रजतकार्यकारि । इति शब्द औत्तरकालिकविमर्शस्वरूपदर्शनसमाप्तिपरः । तत् - सः विमर्शः, विमर्शविमर्शनीयम् - विमर्शेन कृत्वा विचारणीयो भवति ।
सामान्यत्वेन नपुंसकलिङ्गेन निर्देशो नायुक्तः अव्यक्तलिङ्गं लिङ्गानाम् इति । स्फुटमेव हि बाधोत्पत्तेः पूर्वे तस्य ज्ञानस्य सत्यत्वम्, तदुत्पादनानन्तरं तु तद्विमर्शो युक्तः किमयं बाधः सत्योऽन्यथा वेति । ननु कथं [किमयम् - च्।] तद्विमर्शविमर्शनीयं भवतीत्यत आह यत् इति । यत् - यतः कारणात्, अर्थात् तेन उत्तरविमर्शेन । तस्मिन् पूर्वविमर्शकाले, तत्पूर्वविमर्शकालसमुचितम् - तस्य पूर्वकालविमर्शस्य योग्यम् तत् - प्रसिद्धं रूपम्, नैवावमृश्यते - नैवावसीयते, यतः पूर्वस्माद्विमर्शात् नवीनोऽसौ विमर्शो विरुद्ध उत्पद्यते, ततोऽस्य विमर्शो युक्त एव, तदनुकुलोत्पादे तु नास्य विचारो युक्तः स्यादिति भावः । ननु यद्युत्तरकाले विमर्शो नोत्पद्यते तर्हि तस्य पूर्वस्य सत्यत्वं न व्याहन्यते एवेत्यत आह भाव्यं च इति ।
तेनामर्शनीयेन - विमर्शनीयत्वेनोक्तेनोत्तरकालविमर्शेन भाव्यं च - अवश्यमेव भाव्यम् रजतभावेन गृहीता शुक्तिर्हि न रजतकार्ये समर्थेति रजतार्थिनस्तत्र प्रवृत्तस्य अवश्यमेव नेदं रजतम् [न भेदरजतमिति विमर्शो - च्।] इति विमर्शोऽवश्यभाव्येव ।
यस्तु अनर्थो तृणादिन्यायेन तत्रोपेक्षायुक्तस्तस्य चर्चैव नेह युक्ता [वचैवो नेह युक्तः - च्।] ।
तत्रैव काले नेदं रजतं अभूत् [नेदं रजतं हि अभूत् - क्। ष्। ष्।] इति हि उत्तरः परामर्शो न तु उदितप्रत्यस्तमितायां शतह्रदायामिव इदानीमेव इदं न इति विमर्शः; ततो यावता पूर्णेन रूपेण प्रख्यातव्यं विमर्शपर्यन्तं तावत् न प्रख्याति, इत्यपूर्णख्यातिरूपा अख्यातिरेव भ्रान्तितत्त्वम् । तद्वशेन ह्यसद्विपरीतानिर्वाच्यादिख्यातयोऽपि उच्यन्ताम् ।
अपूर्णख्यातिरूपत्वमस्य शुक्तिकारजतज्ञानस्य साधयति तत्रैव इति । हि - यस्मात्, तत्र - तस्मिन् रजतपरामर्शे, काले - अग्रे नेदं रजतमभूत् इति - इदं रजतं नासीत् किन्तु मया भ्रमेणैव ज्ञातमित्येवमुत्तरः परामर्शो भवति । न तु उदितप्रत्यस्तमितायाम् - क्षणादुत्पन्नविनष्टायाम्, शतह्रदायामिव - विद्युतीव, नेदम् इति - विमर्शो भवति । ततः - ततः कारणात्, यावता पूर्णेन रूपेण - विमर्शपर्यन्तेन इदं रजतम् इति विमर्शपर्यन्तम् - सत्यविमर्शपर्यन्तम्, विश्रान्तिपर्यन्तम् इति यावत्, अग्रे स्थितं वस्तु प्रख्यातव्यम् - प्रकटीकरणीयम् आसीत् तावन्न प्रख्याति - न प्रकटीकरोति भ्रान्तिः, इति - अतः कारणात्, अपूर्णख्यातिरूपा - अपूर्णज्ञानरूपा न तु ख्यात्यभावरूपा, अख्यातिः - अज्ञानम्, भ्रान्तितत्त्वम् - भ्रान्तिस्वरूपं भवति । ख्यात्यभावरूपत्वे तु रजतभावेन ज्ञानमप्ययुक्तमेव स्यात् इति भावः । ईषदर्थेऽत्र नञ् नत्वभावे । नन्वन्ये वादिनो भ्रान्तौ असत्ख्यातित्वादिभावेन व्यवहारं कुर्वन्ति इत्यत आह तद्वशेन इति । तद्वशेन - अपूर्णख्यातिवशेन तैस्तैर्वादिभिः असद्विपरीतानिर्वाच्यादिख्यातयः उच्यन्ताम् का हानिः, अपूर्णज्ञानं त्वत्र तावदस्ति शुक्तेःरजततया ग्रहणात् इति भावः । आदिशब्देनात्मख्यातिग्रहणम् । अत्र वादिनो भ्रान्तेः
ननु सत्यरूप्यज्ञानमपि अपूर्णख्यातिः । ततस्तर्हि किम् ? इदम्, अतः सर्वं भ्रान्तिः, - इत्यागच्छेत् । दिष्ट्या दृष्टिरुन्मीलिष्यति [उन्मिमीलिषति - क्। ष्। ष्।] आयुष्मतः, मायापदं हि सर्वं भ्रान्तिः, तत्रापि तु स्वप्ने स्वप्न इव
ख्यातिपञ्चकरूपत्वं पृथक् पृथक् कथयन्ति । तत्र शून्यवादिबौद्धमते असत्ख्यातिः । ते हि असत्तत्र रजतं भातीति कथयन्ति । भाट्टादयस्तु विपरीतख्यातिं कथयन्ति, यतस्तेऽन्यदेशकालगतं रजतं तद्विपरीतान्यदेशकालगतत्वेन संस्कारवशेन पुरुषो गृह्णाति इति कथयन्ति । अनिर्वाच्यख्यातिर्वेदान्तिमते, ते तु सदसद्भ्यामनिर्वचनीयत्वमेव भ्रान्तेः कथयन्ति, भानेनाऽसत्त्वायोगात्, हस्तग्रहाभावेन सत्त्वायोगादिति ।
विज्ञानवादिबौद्धमते आत्मख्यातिः, ते हि आत्मैव भ्रान्तौ बहिर्वस्तुत्वेन भातीति कथयन्ति तदुक्तम् -
यदन्तर्ज्ञेयतत्त्वं तद्वहिर्वदवभासते
इति । सुशिक्षितमते तु अपूर्णख्यातिरूपा अख्यातिः । इयमेव च ग्रन्थ - कर्तुरिष्टा इत्यलं प्रपञ्चेन ।
अत्र मध्ये शिष्यः प्रश्नयति ननु इति । अपूर्णख्यातिः - अपूर्णख्यातिरूपमेव भवति, परप्रकाशरूपताज्ञानस्यैव पूर्णख्यातित्वादिति भावः । गुरुरपि शिष्यीभूय पृच्छति ततः इति ।
तर्हि - यद्येवं भवेत्, ततः किम्, को दोषः स्यादित्यर्थः । शिष्यो दोषमाविर्भावयति इदम् इति । अतः इति - इदम्, आगच्छेत्, इतीदं किम् ? सर्वं भ्रान्तिः - भासमानं समस्तं वस्तुजातं शुक्तिकारूप्यन्यायेन भ्रान्तिर्भवति । गुरुरिष्टापत्तिं सूचयन् शिष्यस्य प्रोत्साहनण् करोति दिष्ट्या इति । दिष्ट्या, आनन्दे, आयुष्मतः
- तव, दृष्टिः - पूर्णदृष्टिः, उन्मीलिष्यति - प्रकटीभविष्यति, सर्वपदार्थविषयायाः भ्रान्तेस्तर्कि तत्वात् । आगच्छेत् इति तर्करीत्याङ्गीकारात् उन्मीलिष्यति इत्युक्तमन्यथा उन्मीलितेति ब्रूयात् ।
कथमियं दृष्टिरित्यत आह माया इति । मायापदम् मायाविषयो भेदः । मायोर्ध्वे तु पुनरपि सर्वं सत्यभूतमेव [सर्व सर्व्यभूतम् - च्।] इत्यास्तामेतत् । ननु यदि सत्यतया भासमानं पदार्थजातं भ्रम एव तर्हि प्रसिद्धो
गण्डे स्फोट इव अपरेयं भ्रान्तिरुच्यते, अनुवृत्त्युचितस्यापि विमर्शस्यास्थैर्यात् । अतश्च पृथक् इदन्ताद्याभासेषु न काचन भ्रान्तिः, मेलनांशे तु विमर्शानुवृत्तिनिर्मूलनं विमर्शोदयकालादेव आरभ्य बाधकेन क्रियते, इति तत्रैव भ्रान्तिभावः, - इति सिद्धम् । रजतस्य शुक्तिकया सह यद्यपि एको विमर्शः तथापि शुक्तौ रजतस्य तेन ज्ञानेन
भ्रमः किमस्ति इत्यत आह तत्रापि इति । अपरा भ्रान्तित्वेन प्रसिद्धा ।
ननु प्रसिद्धाया भ्रान्तेर्भ्रान्तित्वं युक्तमेव सत्यरूप्यज्ञानस्य कथं भ्रान्तित्वं युक्तम् इत्यत आह अनुवृत्ति इति । अनुवृत्तौ उचितः अनुवृत्त्युचितः तस्य, अपि शब्देन प्रसिद्धभ्रान्तिपरामर्शस्यास्थैर्ये न काप्यसम्भावनेति द्योतितम् । अनुवृत्त्युचितस्य परामर्शस्यास्थैर्ये च पराहम्भावपरामर्शरूपताकृतमेव ज्ञेयम्, पर्यन्ते हि सर्वमहम्परामर्शविषयत्वेनव योगिनां स्फुरति, अन्यथा तेषामप्यज्ञानित्वमेव ।
तदुक्तम् -
एतदन्धकारं यद् भावेषु प्रकाशमानतया स्वात्मानतिरिक्तेष्वपि भवति अनात्माभिमानोऽयम्
इति । उक्तप्रक्रियया फलितं स्वाभिप्रायं कथयति अतश्च इति ।
पृथक् - स्वस्वविषये, न काचन, न कापीत्यर्थः । इदमिति हि सत्यतयाऽग्रस्थवस्तुविषयम्, रजतमिति तु स्मर्यमाणरजतविषयम्, अन्यथा दृष्टरजतस्यापि शुक्तौ रजतभ्रमापत्तेः । एवं स्थिरत्वादेरपि सत्यत्वं योज्यम् । ननु तर्हि मिथ्यात्वं कुत्रांशे भवति इत्यत आह मेलनांशे तु इति । मेलनांशे यदेवेदं तदेव स्थिरत्वादिगुणयुक्तं रजतमिति समानाधिकणतया स्थापनरूपे भागे तु, विमर्शस्य - पूर्वविमर्शस्य या अनुवृत्तिः तस्याः निर्मूलनम्, विमर्शोदयकालात् - पूर्वविमर्शोदयसमयात्, वाधकेन - उत्तरपरामर्शेन क्रियते इति, नेदं रजतमभूदित्येवमुत्पादादिति भावः । इति - अतो हेतोः, तत्रैव - मेलनांशे एव, भ्रान्तिभावः - भ्रमत्वम् ।
उक्तप्रक्रियावष्टम्भेन सूत्रे योजनां करोति रजतस्य इति ।
तत्रापिप्रथमं रजतैकविमर्शेपि इति समस्तं पदं व्याचष्टे रजतस्य इति । शुक्तिकया सह इति अत्रानुराधेनाध्याहृतम् । अथवा उक्तार्थानामप्रयोग इति वचनेनैतद्ग्रहणम् । अपि शब्दं व्याचष्टे तथापि इति । शुक्तौ - इति निगदव्याख्यातम् । रजतस्थितिः इति व्याचष्टे रजतस्य इति ।
या दत्ता स्थितिः इदं रजतम् इति सा न, यत उपाधिरूपो यो देशः अत्र रजतम् इति रजतच्छायाम् आत्मनोपरञ्जयन् शुक्तिदेशः, तस्यासंवादात्, सम्यग्विमर्शानुवृत्त्याभासनं संवादनम् वदिः अत्र भासनविषयः, तस्याभावात् कारणात् ।
तेन ज्ञानेन - भ्रान्तिज्ञानेन, स्थितिमनुकृत्य दर्शयति इदं रजतम् इति । या इत्यस्याकाङ्क्षां पूरयति सा इति । न इत्यपि निगदव्याख्यातम्, न भवतीत्यर्थः । कुत इत्यपेक्षायाम् उपाधिदेशासंवादात् इति हेतुत्वेन योजयितुं व्याचष्टे यतः इत्यादि । उपाधिरूपः - विशेषणरूपः यः देश इति पदं व्याचष्टे अत्र इति । अत्र रजतम् इति - अनेन प्रकारेण, आत्मना - आधारभावेन स्थितेन इदंशब्दवाच्येन निजस्वरूपेण, रजतच्छायाम् - तजतरचनाम्, उपरञ्जयन् - उपरागयुक्तां कुर्वन्, स्वस्वरूपाधेयत्वावच्छिन्नत्वेन भासयन् इतियावत्, अन्यथा उपाधित्वायोगात् इति भावः । शुक्तिदेशः - शुक्तिस्वरूपो देशः ।
यः इत्यस्याकाङ्क्षां पूरयति तस्य इति । तस्य - शुक्तिदेशस्य, असंवादात् इति व्याख्यास्यन् सम् शब्दं व्याचष्टे सम्यक् इति ।
अत्रापि पर्यायमाह विमर्श इति । विमर्शानुवृत्त्या - अत्र रजतमिति विमर्शानुवर्तनेन । वाद इति पदं व्याचष्टे भासनम् इति ।
भासनम्, उपाधिभावेन स्फुरणमित्यर्थः । संवाद इति सङ्कलय्य व्याचष्टे संवादनम् इति । भावघञन्तस्य भावल्युडन्तेनेयं व्याख्या । ननु कथमत्र भासनमर्थः इत्यत आह वदिः इति । यतः इति पदं युक्तत्वेनात्रैव योजनीयम् । यतः कारणात्, वदिः - वदिरिति धातुः । अत्र - अस्मिन्विषये, भासनविषयः
- भासनवाची भवति । अनेकार्थत्वात् धातूनामिति भावः । अथवा यतः इत्यस्य स्थाने कुतः इति पाठः । तथा च न कापि कष्टकल्पना ।
व्यस्तत्वसमस्तत्वाभ्यां व्याख्यातस्य नञः पञ्चम्याश्च योजनार्थं परामर्शं करोति तस्य इति । तस्य - उपाधिदेशसंवादस्य, अभावात् - असत्त्वात् । पञ्चम्या द्योतितं हेतुत्वं स्फुटं कथयति कारणात् इति । यत उत्तरकाले रजतार्थित्वे सति प्रवृत्त्यनन्तरं सा शुक्तिः रजतत्वाधारत्वेन न स्फुरति, ततः इदं रजतमिति पूर्वं रजतस्य शुक्त्या सह एकस्मिन्नपि विमर्शे सति शुक्तौ रजतस्थितिर्नभवतीति पिण्डार्थः । रजतस्य शुक्त्या सहैकविमर्शः रजतैकविमर्शः, रजतस्य भ्रमज्ञानेन दत्ता
नन्वेवं भवतु शुक्तिकारजते, द्विचन्द्रज्ञाने तु द्वौ चन्द्रौ इत्याभासे शुक्तिकयेव मेलनं न केनचित्साकमाभासते यत्र बाधः स्यात्, एकाभासांशे च न बाधः, - इत्युक्तं भवतैव । क एतदाह - मेलनं न केनचित्सह इति । एवं हि सति स्वालक्षण्येन नियतदेशकालतया कथमाभासः, ? तद्देशकालाभ्यां सह तत्रापि अस्ति मेलनाभासो यद्विमर्शोऽनुविवृत्सुर्निरुध्यते [निरूप्यते - क्। ष्। ष्।], द्वित्वाभासचन्द्राभासयोरपि मेलनाभासे
स्थितिः रजतस्थितिरिति विग्रहः । उपाधिपदप्रयोगः पार्यन्तिकप्रतीतिमपेक्ष्य कृतः । आपाते तस्य रजतत्वेन स्फुरणात् ।
एतेन संवादादित्यन्तं व्याख्या सम्पन्ना ।
द्विचन्द्रेऽपि इत्यादिश्लोकशेषं व्याख्यातुमवतरणिकां करोति ननु इति । एवम् अयं न्याय इत्यर्थः, द्वौ चन्द्रौ इत्याभासे, एतदाभासरूपे इत्यर्थः । शुक्तिकयेव - रजतस्य शुक्तिकया सहेवेत्यर्थः । केनचित् साकम्, द्वित्वस्य केनापि सहेत्यर्थः । यत्र - यस्मिन्मेलने, एकस्याभासः - एकाभासः, तद्रूपो यः अंशस्तस्मिन् । गुरुः श्लोकखण्डं व्याख्यातुं प्रक्रियां कुर्वन् उत्तरं कथयति क एतत् इति । एतच्छब्दाकाङ्क्षां पूरयति मेलनं इति । इति शब्दो वाक्यसमाप्तौ । मेलनाभावायोग्यतां समर्थयति एवं हि इति । हि - यस्मात्, एवम् - मेलनाभावे, सति, नियतदेशकालतया - इदानीमत्र नभसि द्वौ चन्द्रौ इति नियतदेशकालमेलनया सिद्धेन स्वालक्षण्येनाभासः कथं स्यात्, मेलनारूपाया योजनाया अभावान्न स्यादित्यर्थः । सामन्यस्य हि देशादियोजनेनैव स्वलक्षणतेति बहुवारमुक्तम् इति भावः । फलितमाह तत् इति । तत् - ततः कारणात्, तत्रापि - द्विचन्द्रज्ञानेऽपि, देशकालाभ्यां सह मेलनाभासः - मेलनम् [मेलनाभासः अस्ति मेलनं किं - च्।] अस्ति, किं बाधकेनेति शेषः । बाधकेन कर्त्रा । यत् - मेलनम् अनुवर्तितुमिच्छुः अनुविवृत्सुः सन् विमर्शः कर्म निरुध्यते नात्र नभसीदानीं द्वौ चन्द्राविति निरोधविषयतां नीयते, प्रतिहन्यते इति यावत् । नन्वेतेन द्विचन्द्राभासस्य स्वरूपे न कोऽपि निरोधः सम्पन्नः । देशकालमेलनामात्रत्वेनैव तस्य स्थितत्वादित्यत आह द्वित्व इति । वाच्यम् - अवश्यं वक्तव्यम् । नहि देशकालाभ्यां निष्कृष्टस्य परिमितवस्तुनः सत्ता दृश्यते इति भावः । एतद् -
विमर्शानुवृत्तिव्यावर्तनं वाच्यम् । तदेतदाह - द्विरूपे चन्द्रेऽपि, न केवलं रजत एव । नभः इति देशविशेषः कश्चित् । अन्यथा इति द्विचन्द्रावरुद्धो योविमृष्टः स न तथा, - इति बाधकेन उन्मूलितप्राच्यविमर्शानुवृत्तिकः क्रियते, - इति ।
एवमाभासस्तन्मेलनं च नियमानु प्राणितम् - इत्येतावदेव प्रमेयम् । एतान्येव आगमे तत्त्वानि वक्ष्यन्ते । वस्तु तत्त्वं प्रमेयम्
- इति पर्यायाः [पर्यायः - क्। ष्। ष्।] । तथा च काठिन्याभास इति पृथिवी, लोहिताभास इति रूपं तेजश्च, मेलनाभासो रजः, सन्निवेशस्तु नियतिरूपः, नियतिर्हि नियमः, स च अभावप्राणः, अभावस्फुरणमेव
वष्टम्मेन सूत्रखण्डं व्याख्यातुमाह तदेतत् इति । तदेतत् - समनन्तरोक्तं वस्तु, आह इति, सूत्रखण्डेनेति शेषः, आहेति निराकाङ्क्षीकर्तुं सूत्रखण्डमेव व्यचष्टे द्विरूपे इति । एतेन द्विरूपश्चन्द्रः - द्विचन्द्रस्तस्मिन् इति विग्रहः सूचितः । नभः इति व्याख्यातुमुपन्यस्यति नभः इति इति । देश विशेष इति, न तु न किञ्चिद्रूपः । अन्यथा पक्ष्याद्याधारत्वायोगादिति भावः ।
अन्यथा इति व्याचष्टे द्विचन्द्र इति । यः - नभोदेशः, द्विचन्द्रावरुद्धः - द्विरूपचन्द्रावरुद्धः, विमृष्टः - पूर्वविमर्शेन विमर्शविषयतां नीतः, सः तथा - द्विचन्द्रावरुद्धः न भवति, इति बाधकेन - एवरूपेण बाधकेन, उन्मूलिता प्राच्यविमर्शस्यानुवृत्तिर्यस्य तादृशः क्रियते । इति शब्दः व्याख्यासमाप्तौ । एवमत्र वाक्यखण्डे योजना । नभः अपि कर्तृ द्विचन्द्रेऽन्यथा भवति उक्तन्यावादिति भावः अत्र प्रमाणनिर्णयानन्तरं प्रमेयं निर्णेतुं फलितं सिद्धान्तमुपसंहाररीत्या कथयति एवम् इति । तन्मेलनम् - आभासमेलनम् । नियमानुप्राणितम् - नियतिकृतनियमव्यवस्थापितम् । प्रमेयस्यैव तत्त्वभाव इत्याह एतान्येव इति । आगमे - वक्ष्यमाणे आगमकाण्डे । ननु कथमागमे प्रमेयस्य तत्त्वशब्देन निर्देश इत्यत आह वस्तु इति ।
पर्यायाः - पर्यायब्दा इत्यर्थः । घटदृष्टान्तेन सर्वस्य प्रमेयजातस्य सर्वतत्त्वरूपत्वं कथयति तथा च इति ।
काठिन्याभासह्। - घटे स्फुटं स्थितः काठिन्यरूप आभासः, रजः - रागतत्वं रागस्य मेलनरूपत्वात्, सन्निवेशः - रचना, नियतिरूपः - नियतितत्त्वरूपः । ननु कथं सन्निवेशस्य नियतित्वमित्यत आह नियतिः इति । नियमः - परमेश्वरकृतो नियमः, स च - नियमश्च, अभावप्राणः - अभावदत्तसत्ताकः, तादात्म्याभावेनैव हि
च पृथिव्याभासस्य विचित्रतया चकासत् पृथुबुध्नोदराकारता, भेदाभासश्च माया, तत्पृष्ठे सत्यप्रकाशाभासश्च शिवतत्त्वम्, - इत्यास्तां तावत् । अग्रे भविष्यति एतत् । सर्वथा तावदत्र प्रमेये भगवत एव भेदने च अभेदने च स्वातन्त्र्यं घटगताभासभेदाभेददृष्टिरेव च परमार्थाद्वयदृष्टिप्रवेशे उपायः समवलम्बनीयः, न तु व्यवहारोऽपि अयं परमेश्वरस्वरूपानुप्रवेशविरोधी, इति प्रतिपादितम् ॥ १३ ॥
भावः स्वस्वरूपे नियतो भवति, पृथिव्याभासस्याभावस्फुरणमेव च विचित्रतया - वैचित्र्येण
- चकासत् - भासमानमेव सत्, पृथुबुध्नादराकारता - एतद्रूपः घटनियतः सन्निवेशः भवति, मृद्धि स्वरूपं जहती घटसन्निवेशं गृह्णाति, अन्यथा घटस्य मृदा सह सङ्कीर्णताऽऽपतेत्, भेदाभासश्च - घटगतः स्वगतभेदः, माया - मायातत्त्वं भवति, तत्पृष्ठे - भेदाभासरूपे मायापृष्ठे, सत्यप्रकाशाभासश्च - घटो भाति इति भानकर्तृत्वरूप आभासश्च, शिवतत्त्वं भवति, अत्र च सर्वेषामेव तत्त्वानां योजनं कार्यत्वेन [योजनं कार्यम् । त्वेन ज्ञात्वा - च्।] ज्ञात्वाह आस्ताम् इति । अग्रे इति, आगमकाण्डे, एतत् - प्रतिवस्तु सर्वतत्त्वयोजनम् । सिद्धान्तं कथयति सर्वथा इति । अत्र - भासमानघटादिरूपे, भेदने - भेदकरणे, भेदेन भासने इति यावत् । प्रकाशवशेनैव हि भेदाभेदव्यवस्थापनं भवति ।
एतदवष्टम्भेन मोक्षमार्गं प्रति नवीनं मार्गं दर्शयति घटगत इति । घटगतो य आभासभेदः - घटादिमायान्तसकलतत्त्वाभासरूपः भेदः, तथाऽभेदः - शिवतत्त्वान्तरूपोऽभेदः, तयोर्दृष्टिः, सा एव च [स एव च - च्।] परमार्थाद्वयरूपा या दृष्टिस्तस्यां यः प्रवेशस्तस्मिन्, उपायः समवलम्बनीयः - आश्रयणीयः । नत्वयं व्यवहारोऽपि - घटादिविषयो व्यवहारोऽपि, परमेश्वरस्वरूपे योऽनुप्रवेशस्तस्य विरोधी भवति, तद्द्वारेणापि तत्स्वरूपपर्येषणारूपेण तत्सारभूतपरमेश्वरतत्त्वलाभात् ।
अपि शब्देन समाधिकृतपरमेश्वरस्वरूपानुप्रवेशहेतुना सहास्य समुच्चयो द्योत्यते । वेदान्तादिनिर्णीताद्वयाभासस्य बाह्यव्यवहारं प्रत्युपेयत्वाभावमपेक्ष्य परमार्थपदग्रहणम् । न चैतावता पदार्थापेक्षाग्रस्तैरपि अयमभिमानो धार्यः । पदार्थेषु ममतारहितानां प्रवाहागतपदार्थव्यवहारे पदार्थानपि शिवभावेन गृह्णतामेवात्राधिकारात् । ममताराहित्ये च स्वमन एव साक्षितया ग्राह्यमन्यथा स्ववञ्चकतापत्तेरित्यलम् ॥ १३ ॥
एतदेव स्फुटयन् सकलप्रमेयसिद्धिः परमेश्वर एव आयत्ता, इति निरूपयति ।
गुणैः शब्दादिभिर्भेदो जात्यादिभिरभिन्नता । भावनामित्थमेकत्र प्रमातर्युपपद्यते ॥ १४ ॥
एह अनुवृत्तं व्यावृत्तं च चकासद्वस्तु कतरेण वपुषा न सत्यमुच्यताम् उभयत्रापि बाधकाभावात्, सत्यतो हि यदि बाधक एव एकतरस्य स्यात् तत्तदुदये स एव भागः पुनरुन्मज्जनसहिष्णुतारहितो विद्युद्विलायं विलीयेत; न चैवम्, अत- एव भेदाभेदयोर्विरोधं दुःसमर्थम -
अथ चतुर्दशस्य श्लोकस्यावतरणिकां करोति एतदेव इति ।
अत्र टीका -
श्लोकं व्याख्यातुं प्रक्रियां करोति इह इति । अनुवृत्तम् - सामान्याकारद्वारेण, व्यावृत्तम् स्वलक्षणद्वारेण, चकासत् - भासमानम्, वपुषा - स्वरूपेण उच्यताम् इति, अपि तु सर्वेण वपुषा सत्यमुच्यतामित्यर्थः । अत्र हेतुमाह उभयत्रापि इति ।
उभयत्र, अनुवृत्ते भागे व्यावृत्ते च भागे इत्यर्थः । नन्वत्र बाधकोऽपि [नवत्राबाधकोऽपि - च्।] भवतु । का हानिरित्यत आह सत्यतः इति । सत्यतः - परमार्थेन, एकतरत्र, व्यावृत्तानुवृत्तभागयोर्मध्यादेकत्रेत्यर्थः । तत् - तदा, तदुदये
- बाधकोदये, स एव भागः - बाधविषयो भागः, पौर्वकालिकमुन्मज्जनमपेक्ष्य पुनः शब्दप्रयोगः ।
विद्युद्विलायम् विलीयेत, विद्युदिव विलीयेतेत्यर्थः । उपमाने कर्मणि च इति णमुल्, न चैवम्, सत्यतो बाधक एकतरत्र न चास्तीत्यर्थः ।
भेदाभेदयोः - अनुवृत्तभागगतस्य [अनुवृत्तभागगतस्य] भेदस्याभेदस्य च, फलतः एकवस्तुगतयोर्भेदाभेदयोरित्यर्थः ।
दुःसमर्थम् - समर्थयितुमशक्यम्, एकैः -
भिमन्यमानैरेकैरविद्यात्वेन अनिर्वाच्यत्वम्, अपरैश्च आभासलग्नतया सांवृतत्वम् अभिदधद्भिः आत्मा परश्च वञ्चितः । संवेदनविश्रान्तं तु द्वयमपि भाति संवेदनस्य स्वातन्त्र्यात् । सर्वस्य हि तिरश्चोऽपि एतत् [सर्वस्य तिरश्चोऽपि - क्। ष्। ष्।] स्वसंवेदनसिद्धं - यत् संविदन्तर्विश्रान्तमेकतामापाद्यमानं जलज्वलनमपि अविरुद्धम्, तत एव उक्तम्
अत एव यथाभीष्टसमुल्लेखा… (१। ६ । ११)
वेदान्तिभिः, अविद्यात्वेन - लक्षणयाऽविद्याकार्यत्वेन, अनिर्वाच्यत्वम् - सत्तासत्ताभ्यामनिर्वचनीयभावम् । वेदान्तिमते हि अविद्या तत्कार्यं चानिर्वचनीयमेव, अपरैः - बौद्धैः, आभासलग्नतया - आभासमात्रविश्रान्ततया, वैकल्पिकत्वेन वहिरसत्त्वादिति भावः, संवृतत्त्वम्, संवृतिसिद्धत्वम्, अभिदधद्भिः - कथयद्भिः । वञ्चितः इति, मूढत्वेनेति शेषः ।
मूढ एव ह्यात्मानं परं [मूढ एव हि आत्मानं च वञ्चयति - च्] च वञ्चयति, यस्तु परमेव वञ्चयति स खलस्ततोऽप्यपरपदस्थः । ननु तर्हि कीदृशं तद्द्वयमस्ति इत्यत आह संवेदन इति । संवेदने - प्रकाशे तदव्यभिचारिणि विमर्शे च विश्रान्तम्, संवेदनविश्रान्तम् - तेन सत्यतया निर्णीतमित्यर्थः ।
ननु कथं संवेदनं स्वस्मिन् विरुद्धयोर्विश्रान्तिं दधातीत्यत आह संवेदनस्य इति । न हि स्वतन्त्रस्य कुतश्चित्प्रतीघातः स्वतन्त्रताहानेरिति भावः । अत्रापि वाक्ये हेतुं कथयति सर्वस्य इति ।
हि यस्मात्, सर्वस्य - समस्तस्य चेतनवर्गस्य, तिरश्चोपि - तन्मध्येऽतिजडस्य पशोरपि, एतत् स्वसंवेदनसिद्धं भवति । एतत् किम् ? जलज्वलनमपि - विरुद्धतया प्रसिद्धं जलाग्न्योर्युगलकमपि, संविदन्तर्विश्रान्तं सत् अविरुद्धम् यत् भवति, बहिरिव परस्परं बाध्यबाधकत्वाभावात् । पूर्वोक्तमत्र निदर्शनत्वेन स्मारयति तत एव इति । किमुक्तमित्यपेक्षायां [किमुक्तमित्यपेक्षायां श्लोकं स्तोकेन निर्दिशति अत-एव इति ।
किमुक्तमित्यपेक्षायां कारिकामेकदेशेन दर्शयति अत-एव इति । - च्।] कारिकामेकदेशेन दर्शयति अत एव
इति । अतश्च गुणैरुपाधिरूपैरुपाधितया [विशेषाधायितया - क्। ष्।
ष्।] विवक्षितैः शब्दादिभिर्वा दण्डादिभिरपि वा यो भेदः, जातिवशात् सादृश्यात् भेदाग्रहणाद्वा, यश्च अभेदो भावानाम् इत्थमित्युक्तनीत्या क्रियासम्बन्ध (२। २। १) इत्यतः प्रभृति निरूपितः, स एकत्रप्रमातरि सकलप्रमाप्रमाणसंयोजनवियोजनादिविचित्रासङ्ख्यकृत्य- प्रपञ्चोचितस्वातन्त्र्ये भगवत्यस्मदीयहृदयैकान्तशायिनि शिवशब्दव्यपदेश्ये सति उपपद्यते, नान्यथा ।
इति । उक्तप्रक्रियावष्टम्भेन श्लोकं व्याचष्टे अतश्च इति । गुणैः इति पदं व्याचष्टे उपाधिरूपैः इति । अत्रापि व्याख्यां करोति उपाधितया इति । गुणो हि विशेषक एवेति भावः । आदि शब्दगृहीतं वस्तु कथयति दण्डादिभिरपि इति । शब्दादिभिः इति, आदिशब्देनरूपादिग्रहणम् । दण्डादिभिः इत्यादिशब्देन तु कुन्तादिग्रहणम् । सूत्रस्थस्यैकस्य आदि शब्दस्य रूपादि कुन्तादि च ग्राह्यमिति न कोऽपि विरोधः । जात्यादिभिरभिन्नता इति व्याचष्टे जाति इति । अत्राप्यादिशब्दग्राह्यं वस्तु कथयति सादृश्यात् इत्यादि ।
भावानाम् इति निगदव्याख्यातम् । इत्थम् इति पदं व्याचष्टे उक्तनीत्या इति । निरूपितः इत्यस्य क्रियात्वेनाध्याहारः ।
यच्छब्दद्वयस्याकाङ्क्षां पूरयति सः इति । सः - भेदः अभेदश्च, एकत्र प्रमातरि इति व्याचष्टे सकल इति । वियोजनादि इति ।
आदिशब्देन विश्रान्तिदानादेर्ग्रहणम् । स्वतन्त्रोऽप्यशक्तः अकिञ्चित्कर एव इत्यत आह भगवति इति । तादृशस्य बहिःस्थस्य नान्तर्गतेषु संवेदनेषु प्रेरकत्वं युक्तमित्यत आह अस्मदीय इति ।
अस्मदीये हृदये एकान्तेन - निश्चयेन शेते सारतया प्रेरकतया च तिष्ठतीति तादृशे । न अन्यथा इति । तस्मिन् असति न युज्यते इत्यर्थः ।
भेदोऽपि हि तावद्धर्मिप्रतियोगिद्वयवेशेनैव सिद्धि लभते अयमस्माद् भिन्नः इति । तत्र प्रथमानिर्दिष्टस्य धर्मिणः पञ्चमीनिर्दिष्टस्य प्रतियोगिनस्तद्द्वयलब्धसिद्धेर्भेदस्य च भिन्नभिन्नस्वविषयज्ञानमात्रेण ग्राह्यस्य यद्येकः ज्ञानत्रयपिण्डात्मा तत्सारभूतो वा योजको न स्यात्, कथं भेदधर्मग्रहणं सिद्ध्येत्, अभेदेन ग्रहे तु योजकापेक्षाऽयत्नसाध्यैवेति किं तत्साधनेनेत्यलम् ।
विशेषणान्येव च भेदकानि - इति किमन्त्यैरन्यैर्विशेषैः अयं स परमाणुर्य [अयं च परमाणुः - क्। ष्। ष्।] एतद्देशादिविशिष्टघटारम्भणकालस्थितपश्चात्तनसङ्घटि- तद्व्यणुकारम्भकाले [एतद्देशादिविशिष्टघटारम्भणकाले पश्चात्तन - क्। ष्। ष्।] पूर्वं मिलितः । अयं स आत्मा, यः पुरा स्वर्गसदने सुरयोषितमिमामित्थं परिरब्धवान्, - इति इयतैव योगिसर्वज्ञादीनां
ननु तर्कशास्त्रेष्वन्त्यविशेषैरेव [अन्यविशेषैः - च्।] नित्यद्रव्याणां भेद उक्तः, त्वया कथं सामान्येन शब्दादीनामेव भेदकत्वमुक्तमित्यत आह विशेषणान्येव च इति ।
अन्यैः - शब्दादिभ्यो भिन्नैः, गुणपदार्थाद्भेदेनोक्तत्वादिति भावः । अन्त्यैः विशेषैः, अन्त्यविशेषैरित्यर्थः । ननु योगिनां कथमतिसूक्ष्मेषु परमाण्वादिषु स्थूलैः शब्दादिभिर्भेदज्ञानं सम्भवेत् इत्यत आह अयम् इति । अयं सः परमाणुः भवति । सः कः ? यः एतद्देशादिविशिष्टः - एतद्देशकालावच्छिन्नः घटः तस्य य आरम्भकालस्तस्मिन् स्थितं यत् पश्चात्तनम् - पश्चाद्भवम् सङ्घटितम् - मिलितम् द्व्यणुकं तस्य य आरम्भकालस्तस्मिन् । मिलितः - अन्येनाणुना सह संयुक्तः ।
पूर्वम् इति । द्वितीयाण्वपेक्षयेतिशेषः । इयतैव - संयोगाख्यगुणमात्रेणैव, तत्र परमाणोः परमाण्वन्तरेण संयोगः, आत्मनस्तु सुरयोषिता सह । ननु देहस्य सुरयोषिता सह संयोगः, नत्वात्मनः [नात्मना - च्।] इति चेत्, सत्यम्, स्थूलदृष्टिभिस्तार्किकैः सह संवादे नेदृशीनां सूक्ष्मेक्षिकाणामवसरः, परमार्थविचारे हि शिवमये सर्वजगति कः सर्वज्ञयोगिविभागः, कश्च नित्यानित्यद्रव्यविभागः, को वा अन्त्यविशेषविषयो निर्णयः ।
यादृशो यक्षस्तादृशो बलिः
इति नीतिमाश्रित्य शिष्यानुकम्पया यत्र तत्र प्रवृत्तेषु महाचार्येषु चोद्यचुञ्चुभावो [चोद्यचञ्चुभावः - च्।] न युक्त एव । अथवा महाद्वैते सर्वसाधनं सर्वनिराकरणं च सम्भवसहमेवान्यथाऽद्वैताभासतापातादित्यलम् । अत्र बहुवक्तव्यतामाशङ्ङ्क्याह
सिद्धः परमाण्वात्मादिषु भेदावभासः, - इत्यलमवान्तरेण ।
सिद्धं तावत् भेदाभेदरूपं प्रमेयतत्त्वम् एकप्रमातृविश्रान्त्या निःशङ्कतां श्रयति, इति ॥ १४ ॥
नन्वेवम्भूतो यद्ययं प्रमाता तत्रव तर्हि प्रमाणोपन्यासे प्रयतनीयं न प्रमेये, यदाह प्रधाने हि यत्नः फलवान् इति । तदेतदाशङ्क्य प्रथमोपक्षिप्तमेव प्रमेयं स्मारयत्याचार्यः । तथा हि ।
अजडात्मा निषेधं वा सिद्धिं वा विदधीत कः । (१। १। २) इति ।
यद्वस्तु तदेवेदानीं ज्ञाते प्रमाणस्वरूपे परमेश्वरस्वरूपे च निर्वाहणार्हम्, एवं भूतं हि प्रमाणं तदेवम्भूते हि भगवति कथं क्रमताम्, इति । तदेतत् स्फुटयितुमाह -
विश्ववैचित्र्यचित्रस्य समभित्तितलोपमे । विरुद्धाभावसंस्पर्शे परमार्थसतीश्वरे ॥ १५ ॥
अलम् इति । अवान्तरेण - अप्रकृतेन । इह यथा तथा प्रमात्रैक्यमात्रस्यैव प्रकृतत्वादिति भावः । फलितं सिद्धान्तं सिद्धतया कथयति भेदाभेदरूपम् इति । तत्र सामान्यभावेनाभेदरूपम् । स्वलक्षणभावेन भेदरूपम् इति विभागः । एतेन पूर्वाधिकारेण सहास्याधिकारस्यैकाभिधेयत्वं सूचितम् ॥ १४ ॥
अथ पञ्चदशस्य षोडशस्य च श्लोकस्यावतरणिकां करोति नन्वेवम्भूतः इति ।
अत्र टीका -
प्रपञ्चेन [नन्वेवम्भूत इति । अत्र प्रपञ्चेन कथनमुपक्रमते । च्।] कथनमुपक्रमते तथाहि इति । यद्वस्तु भवति, पूर्वप्रतिज्ञातं भवति, तदेवेदानीं प्रमाणस्वरूपे ज्ञाते सति निर्वाहणार्हम्, भवति । इति किमिति ? अजडात्मा इत्यादि योजना । वस्तु - निर्णेयं वस्तु, निर्वाहणार्हम्, निर्वाहणयोग्यम्, उपसंहारयोग्यमिति यावत् । निर्वाहणमेवानुकृत्य दर्शयति एवम्भूतम् इति । तत् - प्रोक्तरूपम्, नवनवोदयशीलमिति यावत् ।
एवम्भूते - सर्वज्ञानैक्यरूपे, क्रमताम्, ग्रहणे योग्यं भवेत् इत्यर्थः । स्फुटयितुम् - स्फुटीकर्तुम्, आह - कथयति ।
एवमवतरणिकां कृत्वा श्लोकद्वयमुपन्यस्य व्याचष्टे विश्व इति ।
प्रमातरि पुराणे तु सर्वदा भातविग्रहे ।
किं प्रमाणं नवाभासः सर्वप्रमितिभागिनि ॥ १६ ॥
परिमितप्रमातृलग्नो नवनवाभासः प्रमेयोन्मुखः प्रमाणम् इत्युक्तम् । तत्र प्रकाशवपुषि प्रकाशमात्रस्वभावे पूर्वसिद्धे कः प्रमाणस्योपयोगः सम्भावना वा । तथा च पूर्वसिद्धे प्रमातरि सति तल्लग्नप्रकाशान्तर्भूतविमर्शमयीम् अभूतपूर्वां प्रमेयस्य सिद्धिं वितरति प्रमाणम् ।
प्रमातुश्चासिद्धस्य [आदिसिद्धस्य - क्। ष्। ष्।] किं लग्ना सिद्धिरस्तु ।
विश्ववैचित्र्यं हि तत्र परमेश्वरे प्रकाशैकात्मनि सति भाति यथा चित्रं भित्तौ । यदि हि नीलपीतादिकं पृथगेव परामृश्यते तदा स्वात्मविश्रान्तेषु तेषु तथैव [तथा वा - क्। ष्। ष्।] अन्योन्यविषये
अत्र टीका -
श्लोकं व्याख्यातुं प्रक्रियां कुर्वन् उपयोगित्वन पूर्वमुक्तं प्रमाणलक्षणमनुस्मारयति परिमित इति ।
परिमितप्रमातृलग्नः - ग्राहकविश्रान्तः, आभासः - ज्ञानम्, उक्तम् इति । इदमेतादृग् इत्यत्र श्लोके, तत्र - एवं प्रमाणस्वरूपे सति ।
प्रकाशवपुषि इति स्वयमेव व्याचष्टे प्रकाशमात्र इति ।
उपयोगस्यात्यन्तमयोग्यतां ज्ञात्वाह सम्भावना वा इति ।
एतदेव समर्थयितुमाह तथाच इति । सति - सत्तां भजति, तल्लग्नः - प्रमातृविश्रान्तो यः प्रकाशस्तस्मिन् अन्तर्भूतो यो विमर्शस्तन्मयीम्, प्रमारूपामिति यावत् । वितरति - दधाति, करोतीति यावत् । प्रमाणनिष्ठाम् अनधिगतार्थाधिगन्तृतामपेक्ष्य अभूतपूर्वाम् इत्युक्तम् । असिद्धस्य इति । तत्रापि प्रमाणोपयोगाङ्गीकारे प्रमाणप्रवृत्तेः पूर्वसिद्धिरहितस्येत्यर्थः । किं लग्ना - कुत्रविश्रान्ता सकलविश्रान्तिधाम्नस्तस्य स्वविषयज्ञानविश्रान्तिस्थानत्वाङ्गीकारे आत्माश्रयादिपातात् ।
अन्यस्य विश्रान्तिस्थानस्यानुपलम्भात् इति भावः । ननुं विश्वं यत्र विश्राम्यति तत्रैव तदपि विश्राम्यत्वित्यत आह विश्व इति । तत्र - साधनीयत्वेन स्थिते, कथं भातीत्यपेक्षायामाह यथा इति, यथा चित्रं भित्तौ भाति तथेत्यर्थः । ननु स्वप्रधानमेव विश्वं भवतु, तथा चैतत्सिद्धिस्तत्रैव विश्राम्यतीत्यत आह यदि हि इति । पृथगेव - स्वप्रधानत्वेन भिन्नमेव, न तु प्रमातृविश्रान्ततया । यदीत्यस्याकाङ्क्षां पूरयति तदा इति ।
तेषु - नीलपीतादिकेषु, तथैव -
जडान्धबधिरकल्पानि ज्ञानानि स्वविषयमात्रनिष्ठितानि, विकल्पाश्च तदनुसारेण भवन्तः तथैव, इति चित्रम् इदम् इति कथङ्कारं प्रतिपत्तिः । एकत्र तु निम्नोन्नतादिरहिते भित्तितले रेखाविभक्तनिम्नोन्नतादिविभागजुषि गम्भीरनाभिरुन्नतस्तनीयम् इति चित्रावभासो युक्तः, तद्वत् एकप्रकाशभित्तिलग्नत्वेन वैचित्र्यात्मकभेदोपपत्तिः, इति भावभेदग्रहणप्रकाशभित्तेरनपायिनीं स्वप्रकाशतामाह ।
तत्र स्वप्रकाशे किं प्रमाणेन ? । अथोच्यते पूर्वमस्य प्रकाशो न भवति, तर्हि स एव नास्ति इति स्यात् प्रकाशमात्ररूपत्वात् तस्य । न च अस्य नास्ति, इत्यभावेन स्पर्श उपपन्नः, यतो हि असावेव परमार्थतः सन्, प्रकाशस्यैव सत्त्वात्, सतश्च असद्रुपत्वायोगात् ।
अथोच्यते - ईश्वरता तस्याप्र -
नीलपीतादिवदेव, जडान्धबधिरकल्पानि - जडान्धबधिरसदृशानि, स्वविषयमात्रनिष्ठितानि - स्वविषयीभूतनीलपीतादिग्रहणमात्रे समाप्तिं गतानि, विकल्पाश्च - नीलपीतादिज्ञानानन्तरभाविनो नीलपीतादिविकल्पाश्च, तदनुसारेण भवन्तः - ज्ञानानुसृत्या सत्तां लभमानाः, तथैव - जडान्धबधिरकल्पाः, इति - अतः कारणात्, इति प्रतिपत्तिः कथं कारम् - कथं कृत्वा स्यात् । इति किमिति ? इदम् - विश्वम्, चित्रम् - आलेख्यभावेन स्थितं भवति । पुनः कुत्र चित्रप्रतिपत्तिर्युक्ता इत्यत आह एकत्र इति । तु व्यतिरेके, चित्रावभासः - आलेख्यभूतायाः स्त्रियो ज्ञानम् ।
दृष्टान्तमुक्त्वा दार्ष्टान्तिकं कथयति तद्वत् इति । वैचित्र्यात्मकः - विश्ववैचित्र्यरूपः यो भेदः तस्य उपपत्तिः - चित्रभावेनावस्थानयोग्यता, भवतीति शेषः । एतेन पूर्वश्लोकपूर्वार्धे व्याख्यातम् । इति - अतः कारणात्, आचार्यः, भावानां यत् भेदेन ग्रहणम् तद्रूपो यः प्रकाशः - परिमितज्ञानम् तस्य भित्तेः भित्तिभूतस्य परप्रमातुः, स्वप्रकाशताम् - स्वप्रकाशभावम्, आह - भातविग्रहे इत्यनेन कथयति । विरुद्धे - इत्यादिपदं व्याख्यातुमवतरणिकां करोति अथोच्यते इति । अस्य - प्रमातुः, स एव - प्रमातैव, इति स्यात् - एवम्भवेत् । कुत इत्यपेक्षायामाह प्रकाशमात्र इति । तस्य - प्रमातुः न हि यो यत्स्वभावः स तदभावे सन्निति वक्तुं योग्यः इति भावः । ननु मास्तु असौ इत्यपेक्षायां परमार्थसति इति व्याचष्टे न च इति । अस्य - प्रकाशस्वभावस्य प्रमातुः । कुत इत्यपेक्षायामाह यतो हि इति । प्रकाशस्यैव सत्त्वात् इति, यतः प्रकर्षेण
मिता प्रमास्यते तदपि न, यतो हि असौ प्रमातृत्वेन चेत् न चकास्यात् [नाचकास्यत् - क्। ष्। ष्।] कस्यायमुद्यमः, चकास्ति चेत् तर्हि प्रमातृतैव ईश्वरता, तदाह ईश्वरे प्रमातरि सर्वदा भातविग्रहे इति । विशेषेण गृह्यते इति विग्रहोऽसाधारणं स्वरूपम्, अत एव स्वतन्त्रप्रकाशरूपत्वात् अभावस्पर्शायोगेनाभावानुप्रवेशनेन [अभावस्पर्शायोग्ये अभावानुप्रवेशनेन - क्। ष्। ष्।] यः कालव्यवहारः सोऽत्र नास्ति, - इति पुराणे इत्युक्तम् । तत्र किं प्रमाणम्, कुतः प्रयोजनात्प्रमाणम्,
काशनशीलत्वात्प्रकाश एवास्ति क्रियाकर्ता भवति न त्वप्रकाशः ।
बहिरप्यत्रास्तीति स्थानेऽत्र प्रकाशते इति कथयन्ति । सतोऽपि तस्यासत्त्वं भवतु, इत्यत आह असतश्च इति । विरुद्धत्वादिति भावः ।
ईश्वरे प्रमातरि सर्वदा भातविग्रहे इति विशेषणत्रयं योजयितुमवतरणिकां करोति अथोच्यते इति । प्रमास्यते - प्रमाविषयीकरिष्यते । कुत इत्यपेक्षायामाह यतो हि इति । चकास्यात् - स्वप्रकाशत्वेन स्फुरेत् । अयमुद्यमः - ईश्वरताप्रमाविषयीकरणरूपः उद्योगः, प्रमातृतैव ईश्वरता इति । तथा च नेश्वरतायाः प्रमाविषयीकरणापेक्षा, न हि प्रमाता प्रमाविषयीकरणे योग्यः । तदुक्तम् -
आत्मा यदि भवेन्मेयस्तस्य माता भवेत्परः
इति ।
एवमवतरणिकां कृत्वा विशेषणत्रयं योजयति तदाह इति ।
सूत्रकार इति शेषः । किमाहेत्यपेक्षायां विशेषणत्रयमनुकृत्याह ईश्वरे इति । विग्रहपददुर्बोधत्वेन पृथक्कृत्य व्याचष्टे विशेषेण इति । विशेषेण - विशेषभावेन, स्वलक्षणतयेति यावत् । एतदवष्टम्भेन पुराणे इति पदं व्याचष्टे अत एव इति । स्वतन्त्रप्रकाशरूपत्वात् - सर्वदा भात इति पदेनोक्तत्वात्, स्वप्रधानप्रकाशस्वरूपत्वात् ।
अभावस्पर्शायोगेन - प्रागभावस्पर्शाभावेन, कालव्यवहारः - उत्पत्तिकालव्यवहारः, अत्र - अस्मिन्प्रमातरि, पुराणो हि प्रागभावप्रतियोग्येवेति भावः । किं प्रमाणम् इति व्याख्यातुमुपन्यस्यति किं प्रमाणम् इति । किं शब्दस्याव्ययत्वेनार्थत्रये योजनां करोति कुतः
कस्तत्र प्रमाणस्योपयोगः, - इति, तत्र च किं प्रमाणम् न किञ्चित् उपपत्त्या घटते इत्यर्थः । यतः प्रमाणं नाम नवाभासरूपं [अभिनवाभासरूपम् - क्। ष्। ष्।] प्रमातरि प्रमितिलक्षणां विश्रान्तिं विदधत् प्रमाणं भवति, प्रमाता चाविच्छिनाभासः सर्वाश्च प्रमितीः स्वात्मनि अन्तर्मुखरूपे भजते । तत् तस्मिन् कथमभिनवाभासस्तत्प्रमितिश्च [अभिनवः आभासः - क्। ष्। ष्।] कुत्र विश्राम्यतु तस्मात् देहप्राणपुर्यष्टकशून्यप्राय एव प्रमातार प्रमाणमुच्यताम् । तत्रापि च वेद्यांशे यदि नाम, न तु कथञ्चित् संविदंशे, तत्रापि
इति । नवाभासः इति व्याचष्टे यतः इति । प्रमाणं नाम - प्रमाणाख्यं वस्तु, नवावभासरूपम् इति, अभिनवोदयः इत्यनेनोक्तत्वादिति भावः । प्रमितिलक्षणाम् - प्रमारूपाम्, विश्रान्तिम् - बाह्यवस्तुविश्रान्तिम्, अविच्छिन्नाभासः - अविच्छिन्नप्रकाशः, भजते - विश्रान्तिधामतया सेवत इत्यर्थः । तत्
- ततः कारणात्, तस्मिन् - प्रमातरि, अभिनवाभासः - अभिनवाभासरूपं प्रमाणम्, तत्त्वव्यवस्थापक इति शेषः ।
नह्यविच्छिन्नाभासे विच्छिनाभासस्तत्त्वव्यवस्थापक इति युक्तम् ।
अन्यमपि दोषं कथयति तत्प्रमितिश्च इति । तत्प्रमितिश्च - प्रमातृविषया प्रमाणकृता प्रमा च, कुत्र विश्राम्यतु, प्रमाणकृताः सर्वाः प्रमितयो हि प्रमातरि विश्राम्यन्ति तस्य तत्स्वभावत्वात्, अन्यथा सर्वेषु प्रयोगेषु अहं जानामित्यादिरूपेषु अहंशब्द - प्रयोगायोगात् । आत्मप्रमितिस्तु स्वयं साध्यमाने तस्मिन् विश्रान्तिं न भजते एवेति तस्या विश्रान्त्यभाव एव आपतेदिति भावः । फलितमाह तस्मात् इति ।
देहप्राणपुर्यष्टकशून्यप्राये - देहप्राणबुद्धिशून्यकल्पे, प्रायग्रहणेन पारमार्थिकप्रमातृत्वानरासः । अन्यथा प्रमाणविषयत्वकथनायोगात् । देहादिचतुष्टयं हि स्वतो वाह्यं प्रति प्रमाणभूतमान्तरं प्रति प्रमेयभूतमेव । तत्रापि च - देहादावपि च, वेद्यांशे - वेद्यभागे प्रमेये, तत् - प्रमाणं यदि नाम भवेत्, न तु कथञ्चित् - केनापि प्रकारेण, संविदंशे - प्रमातृभागे तत् प्रमाणम् भवति, यद्यपि वाह्यवस्तूनामपि प्रमेयभागे एव प्रमाणप्रवृत्तिर्न तु भानरूपे संविद्भागे तथापि तावदास्तामेतत् अप्रकृतत्वेन । तत्रापि - तस्मिन् देहादिगते संविदंशेऽपि,
विषयोन्मुखे तत एव सङ्कुचितत्वात् अभिनवाभासे सङ्कोचविहीनसत्यप्रमातृलग्नतापेक्षया कथ्यतां स्वसंवेदनं प्रमाणम् । सौगतेनापि ममेदं ज्ञानम् इति कल्पितप्रमातृलग्नमेव तदुपेत्यम् न तु परमार्थप्रमातरि प्रमाणेन किञ्चित् । उक्तं च मयैव
यत्प्रमेयीकृतोऽस्मीति सर्वोऽप्यात्मनि लज्जते । कथं प्रमेयीकरणं सहतां तन्महेश्वरः ॥
इति ॥ १६ ॥
नन्वेवं यदि भगवति प्रमाणमनुपयोग्यनुपपत्ति च किमर्थं
विषयोन्मुखे तत एव - विषयोन्मुखत्वादेव, सङ्कुचितत्त्वात् - सङ्कोचविषयत्वाद्धेतोः, अभिनवाभासे - अभिनवाभासरूपे, अत एव सङ्कोचविहीनः यः सत्यप्रमाता प्रकाशाख्यः परमार्थप्रमाता तस्मिन् लग्नतापेक्षया न तु परमार्थतः, स्वसंवेदनम् - स्वरूपभूतं संवेदनम्, प्रमाणं कथ्यताम्, अवच्छिन्नत्वेनानवच्छिनां परसंविदं प्रति प्रमेयत्वात् अन्यथाऽस्यैव पर संवित्त्वापातात् इति भावः । ननु विज्ञानवादी तं स्वविश्रान्तमेव कथयति, अन्यथा विज्ञानवादित्वायोगादिति अत आह सौगतेन इति । तत् - संविदंशरूपं ज्ञानम्, उपेत्यम् अङ्गीकार्यम्, सौगतानां परमार्थप्रमात्रनङ्गीकारमपेक्ष्य कल्पितेत्युक्तम् ।
परमार्थप्रमातरि - परशिवरूपे सत्यप्रमातरि, किञ्चित् - किमपि । तदुक्तम् प्रमाणान्यपि वस्तूनाम् इति । अत्र स्वकीयं पद्यं दृष्टान्तयितुमाह उक्तञ्च इति । किमुक्तमित्यत आह यत् इति । यत् - यतः कारणात्, सर्वोपि - समस्तोऽपि जनः, इति - एवम्, लज्जते - लज्जाकर्तृत्वं भजते । इति किमिति ? अनेन अस्मि - अहं प्रमेयीकृतः - ज्ञातः, किंसारोऽयमिति निर्णीतः, तोलित इति - यावत् । तत् - ततः कारणात्, अयं महेश्वरः प्रमेयीकरणं कथं सहताम्, अनीश्वरो हि बलादायातेन प्रमेयीकरणेनासमर्थत्वात्केवलं लज्जते एव, ईश्वरस्तु समर्थत्वात्तन्न सहते एव लेशतोपि, स्वात्मरूपस्य परमेश्वरस्य प्रमेयता न युक्तैवेति भावः ॥ १६ ॥
अथ सप्तदशस्य श्लोकस्यावतरणिकां करोति - नन्वेवम् इति
अत्र टीका -
एवम् - उक्तप्रकारेण, अनुपपत्ति च - उपपत्तिरहितं च, अयुक्तं चेति
तद्विषयं शास्त्रम्, तद्धि प्रमाणमेव, परार्थानुमानात्मकं हि शास्त्रम्, तत्र च प्रमाणादिषोडशपदार्थतत्त्वमयत्वमेव परमार्थः । यत्तु सौगतैः पञ्चावयवत्वादि दूष्यते तदाग्रहमात्रम्, षोडशसु हि पदार्थेषुनिरूप्यमाणेषु सम्यक् प्रतिपाद्यं परः प्रतिपाद्यते, [प्रतिपद्यते - क्। ष्। ष्।] हिताहितप्राप्तिपरिहारयोः इत्यादिना च ग्रन्थेन । परस्य किं प्रयोजनम्, तद्धि परस्य प्रतिपत्त्यैः, सा च परार्थानुमानात्, तत्र च प्रतिज्ञादेरुपयोगः इति । तत् परिपूर्णपरप्रतिपत्तिकारि परमार्थतः सकलमेव शास्त्रं परार्थानुमानम् आगमव्यतिरिक्तं न्यायनिर्माणवेधसाक्षपादेन निरूपितम् । इति अत्रापि पूर्वोक्तमेव किन्तु मोहवशात् (१। १। ३) इति स्मारयितुमाह ।
यावत् । तद्विषयम् - भगवदभिधायकम्, तत् - शास्त्रम्, कुतः प्रमाणमेवेत्यत आह परार्थ इति । परार्थानुमानात्मकम् - परार्थानुमानरूपम्, तत्र - तस्मिन् शास्त्रे, प्राचुर्ये मयट्प्रयोगः, सौगतैः - बौद्धैः दूष्यते - प्रत्याख्यायते, प्रतिज्ञादेस्तन्मते प्रत्याख्यानात् । तत् - दूषणम्, आग्रहमात्रमेव, हठमात्रमेवेत्यर्थः । कुत इत्यपेक्षायामाह षोडशसु इति । प्रतिपाद्यम् - अभिधेयं वस्तु, प्रतिपाद्यते - ज्ञाप्यते, परः - बोध्यमानः, ग्रन्थेन - बौद्धेरङ्गीक्रियमाणेन वाक्यसन्दर्भेण, आदि शब्देनान्येषां वाक्यानां ग्रहणम् । परस्य - सौगतस्य, यदेव प्रयोजनं तदेवास्माकमपि इत्यत आह तद्धि इति । तत् - स ग्रन्थः, परस्य बोध्यमानस्य, सा च - परप्रतिपत्तिश्च, तत्र च - परार्थानुमाने च, इति शब्दः प्रमेयसमाप्तौ । एतेन सौगतोऽपि पञ्चावयवत्वादौ युक्त्याङ्गीकारं कारितः । फलितं कथयति तत् इति । तत् - ततो हेतोः, आगमव्यतिरिक्तम् - आगमशास्त्रव्यतिरिक्तम्, तस्य महारहस्योपदेशकत्वेन प्रत्यक्षादपि श्रेष्ठत्वेनानुमानत्वकथनायोगात् । न्यायनिर्माणवेधसा - न्यायशास्त्रकरणे ब्रह्मतुल्येन, न्यायशास्त्र - कारिणेति यावत् । इति - अतः कारणात्, एवमाशङ्क्येति यावत् । अत्रापि - अस्मिन् व्याख्यास्यमाने श्लोकेऽपि, अपि शब्दः पूर्वश्लोकेन समुच्चयद्योतकः । तत्रापि पूर्वोक्तस्मारणत्वात्, स्मारयितुम् - विस्मृतिशीलान् स्मृतिं प्रति प्रेरयितुम्,
अप्रवर्तितपूर्वोऽत्र केवलं मूढतावशात् ।
शक्तिप्रकाशेनेशादिव्यवहारः प्रवर्त्यते ॥ १७ ॥
इह परमेश्वरस्येदमेव परं स्वातन्त्र्यं - यत् अस्मादृक्प्राच्यपशुदशाविशेषासम्भाव्यमानातिदुष्करवस्तु- सम्पादनं [अस्मादृशे प्राच्यपशुदशा - क्। ष्। ष्।] नाम । इतश्च किम् अतिदुष्करं भविष्यति, - यत्प्रकाशात्मनि अखण्डितताद्रूप्ये एव प्रकाशमाने प्रकाशननिषेधावभासः प्रकाशमानः । तस्मात् परमेश्वरस्य [परमेश्वरस्येदं तत् परं - क्। ष्। ष्।] तत्परं स्वातन्त्र्यं यत् तथानवभासनं [तथावभासनम् - क्। ष्। ष्।] पशुरूपतावभासनं नाम ग्राहकांशसमुत्थापनं
आह इति, अर्थतः इति भावः । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे - अप्रवर्तित इति ।
अत्र टीका -
मूढतावशात् इति पदं व्याख्यातुं प्रक्रियां करोति इह इति । परम् - निरतिशयम्, अस्मादृशानां यः प्राच्यपशुदशाविशेषः - पूर्वकालीनः पश्ववस्थाविशेषः, तत्रासम्भाव्यमानानि यानि अतिदुष्कराणि वस्तूनि - सदाशिवादिधरान्तानि तत्त्वानि, तेषां सम्पादनम् - उद्भावनम् ।
ननु कथं वस्तूनामतिदुष्करत्वम् इत्यत आह इतश्च इति । इतः इत्यस्यापेक्षां पूरयति यत् इति । प्रकाशात्मनि - प्रकाशरूपे परप्रमातरि, अखण्डितम् ताद्रूप्यम् - प्रकाशरूपत्वं यस्य तादृशे, प्रकाशनस्य यो निषेधः तस्यावभासः - न प्रकाशते इत्येवंरूपः, प्रकाशमानः - स्फुरणशीलः, अस्यैवंरूपस्य स्वातन्त्र्यस्य वेदान्तेषु प्रतिबन्धत्वेन व्यवहारः । तदुक्तम् -
प्रतिबन्धोऽस्ति भातीति व्यवहारार्हवस्तुनि । तन्निरस्य विरुद्धस्य तस्योत्पादनमुच्यते ॥
इति । फलितमाह तस्मात् इति तस्मात् - ततः कारणात्, परमेश्वरस्य तत् परं स्वातन्त्र्यं भवति, तत् किम् ? यत् तथानवभासनम् - परमेश्वर -
तद्द्वारेण च ग्राह्योल्लासनमपि । सैषा भगवतो मायाशक्तिरुच्यते । यथोक्तम् ।
माया विमोहिनी नाम…
इति । तदेवम्भूतान्मायाशक्तिरूपात् स्वातन्त्र्यात् या मूढता विनष्टपूर्णचेतनता स्वात्मवर्तिन इच्छास्पन्दोदयस्फुटस्फुरितविश्वभावनिर्भरतात्मनः [इच्छास्पन्दोदयस्फुटस्फुरितविश्वभावनिर्भरितात्मनः - क्। ष्। ष्।] पूर्णत्वस्य, स्मृत्यादिशक्त्यात्मनः स्वातन्त्र्यस्य, देशकालसङ्कोचवैकल्यात् अयत्नसिद्धबैभवनित्यताधर्मस्य च प्रकाशमानस्यापि
भावेनाप्रकाशनरूपं ग्राहकांशसमुत्थापनं भवति, तथा यत् तद्द्वारेण च - ग्राहकांशसमुत्थापनद्वारेण च, ग्राह्योल्लासनम् भवति । सैषा - प्रोक्तस्वातन्त्र्यरूपा । अत्र वृद्धसम्मतिमाह यथोक्तम् इति । विमोहिनी - विमोहकारिणी, इति शब्दः वृद्धवाक्यसमाप्तौ । उक्तप्रक्रियावष्टम्भेनामुं पदं व्याख्यास्यन् उपसंहारं करोति तदेवम् इति । एवं भूतात्
- पशुतावभासनरूपात्, स्वातन्त्र्यात् - स्वतन्त्रतायाः हेतोः ।
मूढता इत्यवयवं व्याचष्टे विनष्ट इति । अस्यापि पदस्य स्वयमेव व्याख्यां कुर्वन् पूर्ण इत्यवयवस्य व्याख्यां करोति स्वात्म इति । स्वात्मनि वर्तते इति तादृशस्य, तथा इच्छारूपो यः स्पन्दः तस्योदयेन स्फुटं यथा भवति तथा स्फुरिताः ये विश्वे भावाः पदार्थाः तैर्या निर्भरता तदात्मनः तद्रूपस्य, पूर्णत्वस्य - पूर्णभावस्य । किं रूपस्य ? स्मृत्यादिशक्त्यात्मनः स्वातन्त्र्यस्य - स्मृत्यादिशक्तित्रयरूपस्वातन्त्र्यरूपस्य, एतेन चेतनता इत्यवयवव्याख्या, पुनः कीदृशस्य ? देशकालसङ्कोचवैकल्यात् - देशकालकृतसङ्कोचराहित्यात्, अयत्नसिद्धौ वैभवनित्यताधर्मौ विभुत्वनित्यताख्यं धर्मद्वयं यस्य तादृशस्य । तत्र देशकृतसङ्कोचवैकल्यात्, वैभवधर्मस्यायत्नसिद्धता, कालकृतसङ्कोचवैकल्यात् नित्यताधर्मस्यायत्न सिद्धतेति क्रमो ज्ञेयः । विनष्ट -
यदप्रकाशमानतया अभिमननम्, तस्या वशात् सामर्थ्यात्, पूर्वं यो न प्रवर्तितः समनन्तरश्लोकद्वयोक्तस्वरूपे प्रमातरि भगवति ईश्वरत्वादिना उक्तेनैव पूर्णतादिना [पूर्णत्वादिना - क्।
ष्। ष्।] व्यवहारो यः खलु अहम् इति भाति स पूर्णः विभुः स्वतन्त्रो नित्यः, - इत्येवमादिरूपः तं प्रवर्तयन्तु व्यवहारं लोका इति ।
एतेन शक्तीनाम् इच्छाज्ञानक्रियाणां प्रकाशकेन प्रत्यभिज्ञारूपेण व्यवहारसाधनपरार्थानुमानात्मना शास्त्रेण तं व्यवहारं प्रवर्तयतां तत्समर्थाचरणं क्रियते ।
प्रवर्त्यते इति द्वौ णिचौ । केवलमिति न तु किञ्चिदपूर्वं क्रियते, नापि तत्त्वतोऽप्रकाशमानं प्रकाश्यते, प्रकाशमान एव यत् न प्रकाशते इत्यभिमननं
इत्यवयवमपि व्याचष्टे यत् इति । अभिमननम् इत्यनेनाप्रकाशमानताया अपारमार्थिकत्वं द्योतितम् ।
षष्ठीयोजनं करोति तस्या इति । तस्या - मूढताया इत्यर्थः ।
वशात् इति व्याचष्टे सामर्थ्यात् इति । अप्रवर्तितपूर्वः इति व्याचष्टे पूर्वम् इति । पूर्वम् - मूढतावस्थायाम् । ईशादिव्यवहारः इति व्याचष्टे पूर्ण इति । पूर्णतादिना - पूर्णतादिभावेन । कीदृशो व्यवहार इत्यपेक्षायामाह यः खलु इति । तम् व्यवहारमिति योजना, प्रवर्तयन्तु - प्रवृत्तिविषयतां प्रति प्रेरयन्तु । इति - एवम्, शक्तिप्रकाशेन इति व्याचष्टे एतेन इति । एतेन - क्रियमाणेन, प्रकाशकेन - ज्ञानकारिणा, एतेन प्रकाश इति पदस्य कर्तरि साधनमिति द्योतितम् । प्रत्यभिज्ञारूपेण - प्रत्यभिज्ञासाधकत्वात् प्रत्यभिज्ञास्वरूपेण ।
प्रत्यभिज्ञाख्येनेति यावत् । प्रवर्त्यते इति व्याचष्टे प्रवर्तयताम् इति । प्रवर्तयताम् - प्रवृत्तिविषयतां नयताम् लोकानाम्, तत्समर्थाचरणम् - तस्मिन् व्यवहारप्रवृत्तिविषयतानयने समर्थाचरणं क्रियते । प्रवर्त्यते इति, अस्मिन् प्रयोगे इत्यर्थः । द्वौ णिचौ इति । द्वयोरपि णेरनिटि इति लुप्तत्वादिति भावः । तत्र प्रवर्तमानं प्रेरयतीति एको णिच्, व्यवहारं प्रवर्तयतः प्रेरयतीति द्वितीयो णिच् । केवलम् इत्यस्याभिप्रायमाह न तु इति ।
तत्त्वतः - परमार्थतः, अप्रकाशमानम् - अप्रकाशकर्तृभूतम् । पुनः किं क्रियते इत्यत आह - प्रकाशमान एव इति । ननु किं व्यर्थेन तदपसारणेनेत्यत आह
तदपसार्यते । तदपसरणमेव हि परमेश्वरतालाभो मुक्तिः, तदनपसरणमेव संसारः, अभिमननमात्रसारं हि एतद्द्वयम्, उभयमपि चेदं भगवद्विजृम्भितमेव । एतदुक्तं भवति - यथा भौतस्य भासमाने एवात्मनि अपहारितोऽहम् इति मोहान्मन्यमानस्य मोहोऽपसार्यते, - कः खलु त्वं ?, यस्येदृशं वस्त्रं मुखमीदृशम् - इति चेत्, पश्य तदस्ति भवतः - इति पुनः पुनरभिदधता न च अस्य अपूर्वं किञ्चन रचितम्, तथा पशुलोकस्य भासमान एव आत्मनि नाहमीश्वरः इत्यादि मोहादभिमन्वतो मोहोऽपोह्यते । यो हि ज्ञानक्रियास्वातन्त्र्ययुक्तः स ईश्वरो यथा सिद्धान्तपुराणादिषु प्रसिद्धः, तथा च त्वम् - इति ।
यदि वा यस्मिन् यदायत्तं स तत्रेश्वरो राजेव स्वमण्डले, तथा च त्वयि
तदपसरणमेव [तदपसारणमेव - च्।] इति ।
परमेश्वरतालाभः - परमेश्वरतालाभरूपः । एतद्द्वयम् - मुक्तिः संसारश्च । इदम् - मुक्तिसंसाररूपम् । नन्वेतेन किमुक्तम् इत्यत आह एतदुक्तं भवति इति । भौतस्य - भूताविष्टस्य, इति - एवम्, पुनः पुनरभिदधता पुरुषेण मोहोऽपसार्यते । इति किमिति ? कः खलु इति । हे भूताविष्ट ! खलु - निश्चये त्वं कः असि ? त्वं चेत् इति कथयसि, इति किमिति, यस्येदृशं वस्त्रं भवति, तथा यस्येदृशं मुखं भवति स एवाहमस्मि, तर्हि त्वं पश्य तत् - तादृशं वस्त्रं मुखं च भवतः अस्ति । इति शब्दः भौतमोहापसारणसमाप्तौ वाक्यार्थाक्षेपे च । अस्य - भौतस्य न रचितम् - न कृतम्, सिद्धस्यात्मनो दर्शनात् इति भावः । दृष्टान्ते दार्ष्टान्तिकयोजनां करोति तथा इति । भासमान एव - अहन्ताविषयत्वेन नित्यं स्फुरणशीले एव, अपोह्यते - अपसार्यते, कथमपोह्यते इत्यत आह यो हि इति । नन्वीश्वरस्य सर्वविषये ज्ञानक्रिये जीवस्य तु किञ्चिन्मात्रविषये इति कथं तयोरेकत्वम् ।
सत्यम्, यथाऽतिसूक्ष्मोप्यग्निकणः दाहकत्वेन महाग्निचयादभिन्न एव, तथा जीवोऽपि ज्ञानक्रियास्वतन्त्रत्वेन ईश्वराभिन्न एव, दृष्टान्ते सम्भवत्यपि उपाधिकृतः कणचय भावरूपो भेदः दार्ष्टान्तिके तु सोऽपि न सम्भवति एव उपाधेरपि तत्त्वानपायात्, न हि स एव तस्मिन्नुपाधिरिति युक्तम् । पक्षान्तरमाह यदि वा इति । आयत्तम् - वशे स्थितम्, विश्वमायत्तमिति योजना, जीवायत्तत्वं च विश्वस्य
विश्वम्, - इति ईश्वरताव्यवहारो नान्यनिमित्तकः, - इति व्याप्तिः । यत् खलु यल्लग्नं भाति तत्तेन पूर्णं निधानमिव मणिभिः त्वल्लग्नं च विश्वम्, - इति । यस्य यदन्तर्वर्ति भाति, स तावति व्यापकः समुद्ग एव मणिषु, त्वयि च संविद्रूपे धरादिसदाशिवान्तं शास्त्र
ज्ञानक्रियायत्तताद्वारेण ज्ञेयम् । अन्यनिमित्तकः - आयत्तताव्यतिरिक्तनिमित्तकः । अन्यमपि प्रकारं कथयति यत् खलु इति ।
यः लग्नः यस्मिन् तत् यल्लग्नम्, तेन - लग्नेन, त्वल्लग्नम् इति । अहं जानामीति त्वल्लग्नज्ञानसिद्धत्वादिति भावः । चतुर्थमपि प्रकारं कथयति यस्य इति । अन्तवर्तित्वं चात्र तन्मयत्वमेव ज्ञेयम् न मध्यदेशवर्तित्वम् । स्वप्नजगतश्च स्फुटं स्वप्नद्रष्ट्रन्तर्वर्तित्वम्, इति नायस्तम् । घटादिसदाशिवान्तम्, तत्त्वपञ्चत्रिशत्करूपम् इत्यर्थः । पञ्चमं [षष्ठं प्रकारम् - च्।]
प्रक्रियोक्तं विश्वम्, - इति । यस्मिन् स्थिते यदुदेति लीयते च तत् तत्पूर्वापरभागव्यापि यथा भूमावङ्कुरः, तथा च त्वयि प्रकाशरूपे विश्वम्, - इति । एवम् अन्येऽपि धर्माः सहस्रशोऽपि आगमादिसिद्धा योज्याः । तदेवं व्यपोहिते व्यामोहे स्थितेऽपि तत्संस्कारमात्रधृते [तत्संस्कारमात्रविधृते - क्। ष्। ष्।] शरीरादौ अनात्मताभिमानपुरःसर एवात्मताभिमाने घटादौ च प्रकाशमान एवानात्मताभिमाने ज्ञातेन्द्रजालतत्त्वस्य पश्यतोऽपि इन्द्रजालं यथा न तत्त्वतो व्यामोहः तथा प्रत्यभिज्ञातात्मस्वरूपस्य । ततो निवृत्ते प्रयाणप्रापितपर्यन्ते देहे परमेश्वरतैव । अभ्यासभावना -
प्रकारं कथयति यस्मिन् इति । पूर्वापरभागव्यापि - आद्यन्तभागव्यापकं । अन्ये - प्रोक्तेश्वरतादि धर्मव्यतिरिक्ताः, आगमादि इति, आदिशब्देन वेदान्तिग्रहणम् । उपसंहारं करोति - तदेवम् इति । तदेवं सति व्यामोहे - स्वात्मनि अनीश्वरतारूपे मोहे, व्यपोहिते - अपसारिते सति, तथा तत्संस्कारमात्रधृते - पूर्वकालीनव्यामोहसंस्कारमात्रधृते, शरीरादौ आदिशब्देन प्राणादिग्रहणम् । अनात्माभिमानपुरःसर आत्मताभिमाने स्थिते सति । तत्र समाधिकाले अनात्मताभिमानः व्युत्थानकाले अवश्यकार्यव्यवहृतिवशेन आत्मताभिमान इति क्रमो ज्ञेयः । तथा घटादौ - परमार्थत आत्मभावेन स्थिते पदार्थजाते, अनात्मताभिमाने प्रकाशमान एव - व्यवहारवशेन भासमाने एव सति, प्रत्यभिज्ञातात्मस्वरूपस्य - ईश्वरतया प्रत्यभिज्ञाविषयीकृतात्मस्वरूपस्य योगिनः, तथा व्यामोहः - देहमात्रात्माभिमानसत्यतारूपः, घटाद्यनात्माभिमानसत्यतारूपश्च, विशिष्टः समन्तात्स्थितः, मोहः न भवति । तथा कथम् ? यथा - ज्ञातेन्द्रजालतत्त्वस्य - निर्णीतेन्द्रजालरहस्यस्य, इन्द्रजालं पश्यतोऽपि - मन्त्रस्वभाववशेन दर्शनविषयतां नयतोऽपि, व्यामोहः - तत्सत्यतारूपो भ्रमो न भवति तथेत्यर्थः ।
जीवन्मुक्तिमुक्त्वाविदेहमुक्ति कथयति ततः इति । प्रयाणेन मरणेन प्रापितः पर्यन्तः यस्य तादृशे परमेश्वरता इति, सर्वव्यापकतालाभादिति भावः । तदुक्तम् -
सूर्यो भूत्वा प्रतपति विष्णुः पाति जगत्रयम् । रुद्रो भूत्वा संहरति सृजत्येष पितामहः ।
बलेन तु शिव शासनोपदिष्टेन देहघटादावेव परमेश्वरतासमावेशमभिनिविश्य पश्यत इहैव शरीरे पारमेश्वर्याशधर्मोद्गमः, न तु वस्तुतः पूर्णता, देहत्वस्यैव सङ्कोचप्राणस्य गलने यथास्थितविश्वात्मकतापत्तेः । यस्य तु व्यवहारसाधने हेतुकलापेऽपि असिद्धताभिमानः,
इति । जीवन्मुक्तेः पराङ्काष्ठाङ्कथयति अभ्यास इति ।
शिवशासनोपदिष्टेन - शिवशास्त्रकथितेन, अभिनिविश्य - अभिनिवेशं कृत्वा, हठेनेति यावत् । अभिनिवेशश्च अविच्छिन्नपरामर्शमात्ररूपो ज्ञेयः । कुतो न पूर्णतेति आह देहत्वस्य इति । गलने - नाशे, विदेहमुक्तौ इति यावत् ।
यथास्थितविश्वात्मकतापत्तेः, पारमार्थिक सर्वात्मतालाभात् इत्यर्थः । एतेन जीवन्मुक्तिविदेहमुक्त्योर्महान्भेदः उक्तः ।
जीवन्मुक्तिर्हि तत्त्वदर्शित्वमेवास्वादसहितम्, विदेहमुक्तितस्तु तत्त्वे लयः । परं तु जीवन्मुक्तिं विना विदेहमुक्तिर्दुष्प्रापैव । यत्तु भगवतोक्तम् ।
प्रयाणकालेऽपि च
इति । तदपि जीवन्मुक्तिविषयमेव । प्रयाणसमयेऽपि हि जीवत्वमेव, मृतस्य प्रयाणायोगात् । यथा तथा तु सर्वदैव परतत्त्वनिष्ठेनैव भाव्यमुभयलोकहितत्वात् ।
तदुक्तम् -
भुक्त्वा भोगान् भवभ्रान्तिं हित्वा लप्स्ये परं पदम् । इत्याशंसेह शोमेत शम्भोः भक्तिमतः परम् ॥
इति । शम्भोर्भक्तिर्ह्यत्रपरतत्त्वनिष्ठैव, न तु कल्पिताकारनिष्ठत्वम् । परतत्त्वनिष्ठो हि यथाप्राप्तं कुर्वन्नेव परतत्त्वनिष्ठो भवति । तेन च तस्योभयोरपि भोगमोक्षयोः सिद्धिरेव । तत्र भोगैकरतत्वं मूढत्वमेव मोक्षैकरतत्वमसम्भवोपहतमुभयनिष्ठत्वं तु श्रेष्ठतरम् ।
तत्र भोगसाधने स्मृतिशास्त्रं प्रमाणम् । मोक्षसाधने च पतिशासनादीनि । ननु केचिद् ब्रुवन्ति मोक्षः सर्वेषां देहपाते स्वयम्भाव्येवेति भोगैकपरेणैव भाव्यम् । सत्यम्, मोक्षस्तेषामनिष्ठोऽस्तीष्टो वा इति निर्णेयम् । यद्यनिष्टस्तर्हि तैः सहेयं चर्चैव न युक्ता, यदि त्विष्टस्तर्हि तेषां वाच्यम्, इष्टं यदि सत्वरमेव सिद्ध्यति तदिष्टतरमेवेति मोक्षार्थेमुद्यमः दिनानुदिनं वृद्धिं नेयः । परमार्थविचारे तु द्वयमप्येतदीश्वरायत्तमेवेति यद्यपि स एव सर्वत्र प्रमाणं तथापि भगवतैव दत्तसामर्थ्यानि निजबाह्यान्तःकरणानि अपि व्यापारयितव्यानि । यस्तु न व्यापारयति तानि तस्य तत्र प्रवृत्तिर्भगवतैव रुद्धा इति कोऽभ्युपायः । इत्यलमनाख्येषु वस्तुषु प्रसङ्गपरम्पराभिः । यतो यद्भगवतः
तस्य तत्रापि व्यवहारसाधनैरेव व्यामोहोऽपसार्यः । यस्य तु सर्वथा नापसरति, तत्रेश्वरशक्तिवलान्मूढतैव, तस्यापि कर्णपथगमनात् संस्कारपाकेनावश्यं कदाचिद्भविष्यत्येव स्वरूपलाभः इति । तदेवं [स्वरूपलाभः । तदेवं कर्तरि …क्। ष्। ष्।]
करणीयम् तत्स्वयमेव सर्वान् कारयति । ननु यदि अभ्यासभावनाबलेनैव पारमेश्वर्यांशधर्मोद्गमः तर्हि कृतमनया व्यवहारेण परतत्त्वसाधनपरया नवमार्गप्रदर्शिन्या प्रत्यभिज्ञयेत्यत आह यस्य तु इति । तु व्यतिरेके । यस्य पुरुषस्य अर्थादभ्यासादिना साधितपरतत्त्वनिर्णयस्य, व्यवहारसाधने हेतुकलापे - हेतु समूहे असिद्धताभिमानः, लक्षणया तन्निष्ठान् महागुरून् प्रति असिद्धाः एते इत्येवंरूपः अभिमानो [इत्येवंरूपः अभिमानो न भवति - च्।] भवति, तस्य - सर्वं वाक्यं सावधारणमिति न्यायेन तस्यैव, नत्वभ्यासादिरहितस्य । तत्रापि - देहस्थितिं यावत् प्रहेये व्यवहारेऽपि, व्यवहारसाधनैरेव - [व्यवहारसारसाधनैरेव
- च्।] स्मृत्यादिरूपैर्व्यवहारकारणैर्वस्तुभिरेव, व्यामोहः अपसार्यः प्रत्यभिज्ञोक्तनयेन नाशनीयः, येन तेषां शुद्धे व्यवहारे प्रवृत्तिः तत्कारिषु महागुरुषु च भक्तिरुत्पद्यते इति भावः । एवं च ये केचिदेवं कथयन्ति - व्यवहाररतानामेव व्यवहारसाधनैरुपदेशः कार्य इति, ते तु तैः अवटपतिता अवटान्तरे पात्यन्त एवेत्यलं परचोद्याविर्भावनेन खलत्वाव्यभिचारिणा । ननु एवमुक्तोपि यदि न शृणोति तर्हि किं कार्यमित्यत आह यस्य इति । अभ्यासादिवशेन किञ्चिन्मोहापसारणमपेक्ष्य सवथा इत्युक्तम्, योग्यत्वेपि व्यवहारेपि परमार्थदृष्टियुक्तान्महागुरूनपेक्ष्यैवमुक्तम् ।
यथा सम्राडपेक्षया माण्डलिकस्यानीश्वरत्वमिति । ननु तर्हि तस्य कदापि किमेतच्चित्ते न लगिष्यतीत्यत आह तस्यापि इति । तस्यापि कालेनैतच्चित्ते लगिष्यत्येवेति भावः । ननु यस्यैतत्कर्णपथं न गतम् तस्य का वार्ता ? सत्यम्, प्रथमभगमनमेवासम्भवोपहतम् [प्रथसमगमनमेवासम्भवोपहतम् - च्।], तत्सम्भवेऽप्यभ्यास महानिष्ठतायामयमर्थः स्वयं स्फुरिष्यत्येवान्यथा स्वतः सिद्धासम्भवापत्तेः, कथिताश्च शास्त्रे स्वतः सिद्धाः ।
दृष्टाश्च शास्त्राध्ययनेन विनैव एवंविधोपदेशकर्तारो महागुरव
कर्तरि (१।१।२) इत्यादिश्लोकद्वयेन यदुक्तं तदेव विश्ववैचित्र्य इत्यादिश्लोकत्रयेणोपस्कृत्य पुनर्निरूपितम्, एवं भूतं तावत् प्रमाणम् तदेवं - भूते भगवति कथमुपपद्यताम् । ततश्च युक्तमुक्तं शास्त्रादाविति भङ्ग्यन्तरेण इदानीं तदेव निर्वाहितम्
- इति शिवम् ॥ १७ ॥ आदितः ॥ १२० ॥
इति श्रीमदभिनवगुप्ताचार्यविरचितायां प्रत्यभिज्ञासूत्रविमर्शिन्यां क्रियाधिकारे मानतत्फलमेयनिरूपणं नाम तृतीयमाह्निकम् ॥ ३ ॥
इत्यलं प्रपञ्चेन । भविष्यति इति, अत्र व्यामोहापसार इति शेषः, इति शब्दः प्रमेयसमाप्तौ । उपसंहारं करोति तदेवम् इति ।
शास्त्रादौ ज्ञानाधिकार प्रथमाह्निकप्रारम्भे इत्यर्थः ।
उपस्कृत्य - उपस्कारयुक्तं कृत्वा, सविशेषमितियावत् ।
गुणाधानं हि उपस्कारः स एव विशेष इति । सिद्धान्तं कथयति एवं इति । एवम्भूतम् - नवनवाभासरूपं प्रमेयतासहं च ।
एवम्भूते - नित्ये स्वप्रकाशे च । उक्तम् - सिद्धिं विदधीत कः इत्येवं रूपं वस्तु, शास्त्रादौ, कर्तरि इत्येवं रूपे शास्त्रप्रारम्भे इत्यर्थः । इति - अतः कारणात्, इदानीम् - क्रियाधिकारतृतीयाह्निकान्तसमये, तद् एव भग्यन्तरेण - अन्यथा रचनया, निर्वाहितम् - सिद्धीकृतम्, प्रारम्भोपन्यस्तवस्तुनिर्वाहणपरत्वात् सर्वशास्त्राणाम् इति भावः । इति शब्दः आह्निकव्याख्यासमाप्तौ । शिव - पदं मङ्गलवाचकं परतत्त्वसूचन - परञ्च इति शिवम् ॥ १७ ॥
इति श्रीमन्महामाहेश्वराचार्यवर्य श्रीभास्करकण्ठविरचितायामीश्वरप्रत्यभिज्ञासूत्रविमर्शिनी- टीकायां श्रीभास्कर्याख्यायां क्रियाधिकारे तृतीयमाह्निकं समाप्तम् ।
इति शम्