क्रियाधिकारे
द्वितीयमाह्निकम् ______
विरोधमविरोधं च स्वेच्छयैवोपपादयन् । भेदाभेदौ च यो मन्त्रतत्त्ववित्तं स्तुमः शिवम् ॥ १ ॥
आह्निकम् - २
अविरोधं विरोधं च भेदाभेदांश्च भासयन् । स्वेच्छया मन्त्रवीर्यज्ञो यस्तं हृदि शिवं स्तुमः ॥
अथ क्रियाधिकारे द्वितीयस्याह्निकस्य निर्विघ्नं व्याख्यासमाप्तये स्वेष्टदेवतारूपपरतत्त्वपरामर्शनरूपं मङ्गलं कायमनोभ्यामनुष्ठितमपि शिष्यशिक्षार्थं सकलाह्निकतात्पर्यसूचकेन श्लोकेनोपनिबध्नाति विरोधम्, इति ।
वयं तं शिवं स्तुमः, तं कम् ? यः शिवः स्वेच्छयैव - आच्छादनक्रीडा- विषयान्योन्यप्रतिघातबाधविधुरभावनिर्माणान्यथानुपपत्त्य अ शिष्यबोधनार्थं महागुरुभिर्महाशास्त्रेषु तदाधारचित्ताभावेऽपि प्रकल्प्योक्तया निजेच्छयैव, न तु प्रोक्तव्यतिरिक्तप्रयोजनविवशतया कस्यापि स्वव्यतिरिक्तस्य प्रेरणया वा, विरोधम् - परस्परनिरपेक्षधर्म्य-पेक्षया तदाभासनकाले तदनाभासरूपं विरोधम्, तथा अविरोधम् - परस्परसापेक्षधर्मितन्निष्ठधर्मापक्षया युगपदाभासरूपं विरोधाभावम्, तथा भेदाभेदौ - स्वयमुद्भावितशिवरुद्रपशुरूप-प्रमातृवर्गविषयत्वेन भेदनम्, भेदाभेदौ, अभेदं च, तत्र शिवप्रमातृविषयत्वेनाभेदम्, रुद्रप्रमातृविषयत्वेन भेदाभेदौ, पशुप्रमातृविषयत्वेन भेदम् ।
अथवाऽविरोधविषयेऽभेदं विरोधविषये भेदम् उपपादयन् - परमार्थतः अनुपपत्तावपि स्वभावभूतमहाद्वैतरूपया उपपत्त्या स्थापयन् सन्, सर्वभरितस्वरूपवशेन भासयन् सन्निति यावत् ।
यदुक्तम् अप्रतिहतसामर्थ्यात् भगवतो निर्माणशक्तिः इति,
तदेव
बाह्यवाददर्शनानुपपद्यमानक्रियासम्बन्धसामान्यादिपदा र्थ-राशिसमर्थनमुखेन निर्वाहयितुं
क्रियासम्बन्धसामान्य…
इत्यादि
…टेन न भ्रान्तिरीदृशी ।
मन्त्रतत्त्ववित् - मन्त्रस्य - गुप्तभाषणरूपस्याहम्परामर्शस्य तत्त्वम् - पारमार्थिकं स्वरूपं वेत्ति - सर्वानुस्यूतत्त्वेन सकलमन्त्रवीर्यत्वेन स्थितत्वाद्वानुभवतीति तादृशः, विरोधाविरोधभेदाहेदभासनसमयेऽपि महाद्वैतदर्शीति यावत् ।
यद्यपि वेदनकर्तृत्वमत्राद्वैतवादिनं प्रति द्वैतावहत्वेन परमार्थदृष्ट्या वक्तुमयुक्तमेव, तथाप्यतिपरमार्थदृष्ट्या- श्रयेण स्वान्तःकृतद्वैताद्वैतमहाद्वैतनिष्ठानामेतत् कथनमपि नायुक्तम्, जलधौ हि जलद्वैतरूपास्तरङ्गास्तदद्वैतरूपं जलं चान्तः स्फुरत्येव, एतेन विरोधाविरोधयोः भेदाभेदयोश्च निर्णयोऽत्राह्निके स्थित इति सूचितम् ।
अत्र चान्योऽपि मन्त्री स्वप्रभोः शत्रूणां परस्परं विरोधं भेदं [भेदं चानेन महत्तेष्टामविरोधम् - च्।] चानेन महान्तं तेषामविरोधमभेदं चोपपादयन् सन् मन्त्रवित् भवति, किन्त्वस्य राज्ञः प्रेरणया न तु स्वेच्छया उपपादयतीति व्यतिरेकालङ्कारो व्यङ्ग्यः । भेदाभेदावित्यस्यावृत्त्या पृथग्भोजनोपयोगिपात्ररूपया द्विः सम्बन्धः । अथ सकलाह्निकस्य समस्तव्यस्तत्वभ्यां तात्पर्यकथनं करोति यदुक्तम् इति ।
अत्र टीका -
उक्तम्, पूर्वाह्निके इति भावः । निर्माणशक्तिः - क्रियाशक्तिः, बाह्यवादयुक्तानि दर्शनानि - बाह्यवाददर्शनानि - सामान्याद्वैतनिष्ठत्वेऽपि महाद्वैतारतानि बौद्धादिशास्त्राणि, तेषु अनुपपद्यमानाः - अयोग्यतामासादयन्तः ये क्रियासम्बन्धसामान्यादिपदार्थराशयः - वक्ष्यमाणाः क्रियासम्बन्धादिसमूहाः, तेषां समर्थ
इत्यन्तं श्लोकसप्तकेन आह्निकं प्रस्तूयते । तत्र प्रथमश्लोकेन सूत्रकल्पेन एकानेकरूपस्य क्रियादेः बाह्यवादे विरुद्धधर्माध्यासदूषणेन अनुपपद्यमानस्याप्यवश्यसमर्थनीयं वपुः इति दर्श्यते ।
द्वितीयेन तत्र उपपत्तिः सूच्यते । तृतीयेन निर्विकल्पकसंवेदनसंवेद्यत्वेऽपि विकल्पकाले एव स्फुटमेषां रूपम् इत्युच्यते । चतुर्थपञ्चमाभ्याम् एकानेकस्वरूपताया विषयविभागः चिन्त्यते । षष्ठेन ग्रहणकसूत्रसूचितसम्बन्धस्वीकृतानां क्रियाकारकभावादीनां स्वरूपम् उच्यते । सप्तमेन अर्थक्रियोपयोग इति सङ्क्षेपः ।
नन्वेवं तथा निर्माणशक्त्या अवभासनारूपया यत् निर्मीयते तस्यावभासनैव निर्माणम्, नान्यत्, सा च द्विचन्द्रादेरपि अस्ति, नीलादेरपि, नीलादिनिष्ठस्य कर्मसामान्यसम्बन्धादेरपि, ततश्च असत्यं सत्यं संवृतिसत्यमिति य एवम्प्रायेषु व्यवहारः स कथं सङ्गच्छेत
नम् - महाद्वैतवशेन सत्यतया साधनम्, तस्य मुखेन द्वारेण ।
निर्वाहयितुम् सिद्धीकर्तुम्, प्रस्तूयते - आरभ्यते । तत्र - प्रोक्ताभिप्रायश्लोकसप्तकमध्ये, सूत्रकल्पेन - बह्वर्थसूचकत्वात्सूत्रसदृशेन, क्रियादेः - प्रोक्तस्य क्रियासम्बन्धादेः, विरुद्धधर्माणां यः अध्यासः, तेन यत् दूषणं तेन, अनुपपद्यमानस्यापि - स्वरूप - सत्तयामयोग्यस्यापि, वपुः - क्रियाद्याख्यं स्वरूपम् । तत्र - पूर्वश्लोकोक्ते वस्तुनि, उपपत्तिः - युक्तिः । एषाम् - क्रियासम्बन्धादीनाम्, ग्रहणकसूत्रेण क्रियासम्बन्ध इत्यादिप्रथमश्लोकरूपेण, सूचितः यः - सम्बन्धस्तेन स्वीकृतानाम् ।
अथ प्रथमश्लोकस्यावतरणिकां करोति नन्वेवम् इति ।
अत्र टीका -
एवम्, पूर्वाह्निकोक्ते वस्तुनि सतीत्यर्थः, निर्माणशक्त्या - क्रियाशक्त्या, निर्मीयते - सम्पाद्यते, अवभासनैव - अवभासनमात्रम्, न तु उपादानग्रहणपूर्वं करणम् ।
एवशब्दव्यावर्त्यमाह नान्यत् इति, अनुपलभ्यमानत्वादिति भावः ।
ननु ततः को दोष इत्यत आह सा च इति । सा च - अवभासना च, अप्यस्ति इत्यस्य सर्वत्र सम्बन्धः । ननु भवतु ततः किम् इत्यत आह ततश्च इति । संवृत्या सत्यं संवृतिसत्यम्, बौद्धमते क्रियासामान्यादेः विकल्परूपत्वेनाविद्यारूपया संवृत्त्या सिद्धत्वात् । एवम्प्रायेषु
- एवमादिषु व्यवहारस्थानेषु, व्यवहारः - भिन्नतया स्थितः व्यवहारः । कुतो न सङ्गच्छते इत्यपेक्षायां हेतुमाह
निर्मेयत्वाविशेषात् इत्याशङ्क्य क्रियादीनामसत्यत्वं तावत् नोपपन्नम् इति वदन् द्विचन्द्रादीनां तु इत्थमपि असत्यत्वम् इति सूचयन् आह -
क्रियासम्बन्धसामान्यद्रव्यदिक्कालबुद्धयः । सत्याः स्थैर्योपयोगाभ्यामेकानेकाश्रया मताः ॥ १ ॥
चित्तत्त्वात् अन्यत्र या क्रियाबुद्धिः कर्तृकर्मकरणादिषु चैत्रोब्रजति तण्डुला विक्लिद्यन्ते एधा ज्वलन्ति इति, तस्या एकानेकरूपश्चैत्राद्यर्थ आश्रयः आलम्बनम् । तथाहि - तत्तद्देशकालाकारभिन्नः तत्र चैत्रदेहोऽनेकस्वभावोऽपि स एवायम् इति एकरूपताम्
निर्मेय इति । वदन् - साक्षात्कथयन्, इत्थमपि - नीलादिभिः सह निर्मेयत्वाविशेषेऽपि, सूचयन् - सूचनामात्रेण वदन् । एवम् अवतरिणकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । क्रिया इति ।
अत्र टीका -
प्रथमं क्रिया इत्यादि व्याचष्टे चित्तत्वात् इति । चित्तत्वात् - परमार्थतः सर्वक्रियाधारभूताच्चित्स्वरूपात्, अन्यत्र - अननुरूपेषु, कर्तृकर्मकरणादिषु - कतृ कारके, कर्मकारके, करणकारके च, आदिशब्दात् सम्प्रदानादिषु च, या क्रियाबुद्ध्ः भवति सापि गृह्यते, कथम् ? चैत्रो व्रजति कर्तृभूतः चैत्रो गच्छति, तण्डुलाः - कर्मरूपाः तण्डुलाः, विक्लिद्यन्ते - क्लेदनक्रियाविषयी भवन्ति, एधाः - करणभूतानीन्धनानि, ज्वलन्ति, उपलक्षणञ्चैतत् विप्रो गा गृह्णातीत्यादेः । इति शब्दः कर्त्रादिविषयक्रियाबुद्धिनिदर्शनसमाप्तौ । एकानेकाश्रया इति, पदं व्याख्यास्यन् या इत्यस्याकाङ्क्षां पूरयति तस्या इति ।
चैत्रादि [चैत्र इत्यादिशब्देन - च्।] इति, आदिशब्देन तण्डुलादेर्ग्रहणम् । आश्रय - पदं व्याचष्टे आलम्बनम् इति ।
कथमित्यपेक्षायां समर्थनमुपक्रमते तथा हि इति । ते ते च ते देशकालाकाराः तैः विशेषणतां गतैः भिन्नः, - तत्र - तेषु देशकालादिषु, अनेक - स्वभावोऽपि - बहुस्वरूपोऽपि, निर्भासते - प्रतिभासते, स एव च - अनेक -
अपरित्यजन्नेव निर्भासते, स एव च एकानेकरूपा [एकानेकरूपोऽर्थः क्रिया - क्। ष्। ष्।] क्रिया तथैव प्रतिभासनाच्च पारमार्थिकी, द्विचन्द्रादि तु तथाभासमानमपि उत्तरकालं प्रमाव्यापारानुवृत्तिरूपस्य स्थैर्यस्य उन्मूलनेन द्विचन्द्रो नास्ति इत्येवं - रूपेण असत्यम्, इह पुनः चलति चैत्रः इत्येवम्भूतो विमर्शः अनुवर्तमानो न केनचित् उन्मूल्यमानः संवेद्यते, द्विचन्द्रादि च यद्यपि ह्लादोद्वेगयोः उपयुज्यते, तथापि द्विचन्द्राभिमानी न तावतीं तत्र अर्थक्रियाम् अभिमन्यते, अपि तु यादृशी एकेन शशिना कर्तव्या तिमिरापसारणादिरूपा, तादृश्येव अपरेण, इति न तद्द्विगुणाम् अर्थक्रियां
स्वभावस्य एकतात्यागनिर्भास एव च, एकानेकरूपा - एकस्य देवदत्तकायस्य देशादिविशेषणकृतानेकतास्वरूपा, क्रिया भवति, तत्र देशभेदः तत्तद्देशासादनकृतः, कालभेदः सूर्यसञ्चारादिक्रियारूपो भेदः, आकारभेदः परिणामावस्थादिरूप इति विभागः । सत्या इति व्याचष्टे तथैव इति ।
तथैव - न त्वौत्तरकालिकबाधवशेनान्यथापि, प्रतिभासनाच्च पारमार्थिकी भवति भासनमात्रस्यैव वस्तुस्वरूपप्रतिष्ठापकत्वात् । च शब्दः प्रकाशरूपताकृतपारमार्थिकत्वसमुच्चयार्थः, एतेनार्थायातमौत्तरकालिकबाधायुक्तस्य द्विचन्द्रस्यासत्यत्वं कथयति द्विचन्द्रादि इति । तथाभासमानमपि तस्मिन् समये द्विचन्द्रादित्वेन भासमानमपि सत्, प्रमाव्यापारस्य याऽनुवृत्तिः
- अनुवर्तनं सा रूपं यस्य तादृशस्य, स्थिरत्वं हि कालान्तरे पुनस्तथैव ग्रहणमेव, उन्मूलनेन - बाधनेन, कीदृशेनेत्यपेक्षायामाह द्विचन्द्रः इति । असत्यम् - अपारमार्थिकम् । ननु इहापि कथं न क्रियाया उन्मूलनमस्तीत्यत आह इह पुनः इति ।
संवेद्यते - अनुभूयते, एतेन स्थैर्य इति पदं व्याख्यातम् ।
उपयोग पदं व्याचष्टे द्विचन्द्रादि इति । आदिपदेन एकत्र सर्पे सर्पद्वय-भ्रमग्रहणम् । तस्यैवोद्वेगकारित्वात्, उपयुज्यते - उपयोगं करोति, कर्तरि लकारः, तावतीम् - द्विचन्द्रकरणीयाम्, पुनः कियतीमभिमन्यते इत्यत आह अपि तु इति । तस्याम् -
तत्र अध्यवस्यति, तस्यां च असौ न उपयुज्यते, व्रज्यायां तु यामेव ग्रामप्राप्तिम् अध्यवस्यति तस्याम् अविकलायाम् उपयोगोऽस्या इति स्थैर्यात् उपयोगाच्च एकानेकरूपक्रियातत्त्वालम्बनबुद्धिः [एकानेकरूपक्रियातत्वालम्बना बुद्धिः - क्। ष्। ष्।] सत्यैव, एवं सम्बन्धादिषु कालपर्यन्तेषु वाच्यम् उत्तरकारिकासु स्फुटीकरिष्यति [स्फुटीभविष्यति - क्। ष्। ष्।] ॥ १ ॥
नन्वेकत्वम् अनेकत्वं च परस्परं विरुद्धे, कथम् एकत्र वस्तुनि
द्विचन्द्रकर्तव्यायामर्थक्रियायाम्, असौ - द्विचन्द्रः, व्रज्यायाम् - सत्यतया साधनीयायां गमनक्रियायाम्, अस्याः - व्रज्यायाः, स्थैर्योपयोगयोः प्रत्येकं पञ्चमीयोजनां करोति, स्थैर्यात् इति ।
एकानेकरूपा या क्रिया तस्याः यत् तत्त्वं - स्वरूपं तत् आलम्बनं विषयो यस्याः तादृशी चासौ बुद्धिः सा एकानेकक्रियातत्त्वालम्बन-बुद्धिः, सत्यैव, न तु द्विचन्द्रवत् प्रथमं सत्या, उत्तरकाले तु असत्येति भावः ।
पूर्वावस्थितक्रियादिषु मध्ये क्रियामात्रस्यैव निर्णीतत्वात् ।
सम्बन्धादिष्वप्येनमेव न्यायमतिदिशति एवम् इति । बुद्धेः सर्व- सम्बन्धित्वेन कालपर्यन्तेषु [कालपर्यन्तमित्युक्तम् - च्।] इत्युक्तम् ।
ननु कथमतिदेशमात्रेणातिगहनसम्बन्धादिज्ञानं भवेदित्यत आह उत्तर इति । स्फुटीकरिष्यति, सूत्रकार इति शेषः ॥ १ ॥
ननु इति । यस्य कस्यचिद्वस्तुनः परस्परविरुद्धयोरेकत्वानेकत्वयोः सद्भावे
स्याताम्, ततश्चायं बाधकप्रमाणकृतः स्थैर्योन्मूलनप्रकार इत्याशङ्क्याह :-
तत्रैकमान्तरं तत्त्वं तदेवेन्द्रियवेद्यताम् । सम्प्राप्यानेकतां याति देशकालस्वभावतः ॥ २ ॥
अङ्गीक्रियमाणे एकस्यानेकत्वं बाधकम्, अनेकस्यैकत्वं बाधकमित्येकत्वानेकत्वयोर्बाधकप्रमाणकृतः स्थैर्योन्मूलनप्रकार इत्याशङ्क्य तत्परिहर्तुमाह तत्र इति ।
अत्र टीका -
वस्तुनि - देवदत्तकायादिरूपे… एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे तत्रैकम् इति ।
तेषु क्रियादिषु तत्प्रमाणभूतम् आन्तरम् अन्तर्मुखरूपं तत्त्वम् एकम्, तदेवेन्द्रियवेद्यतां प्राप्य इहामुत्रेति देशतः अधुना तदानीमिति कालतः, कृशः स्थुल इत्यादि स्वभावतः, अनेकतां याति । तत्रेति । तेषां सत्यत्वे स्थिते सति । तत्रेति - तयोरेकत्वानेकत्वयोर्मध्ये एकत्वमेवमनेकत्वमेवमिति वक्ष्यमाणप्रकारेण याजनम् । एकत्वं देशाद्याभासामिश्रतायामन्तःकरणैकवेद्यत्वे चिन्मात्रतायां च, अनेकत्वमाभासान्तरमिश्रतायामुभयकरणवेद्यत्वे चिदतिरिक्तताभासने चेति एकत्वानेकत्वयोः स्फुटो [एकानेकत्वयोः स्फुटो न विषयभेदः - च्।] विषयभेदः ।
इह तावत् चैत्रे चलति दृष्ते न जातुचित् न चलति अयम् इति बुद्धिः जायते - न रजतम् इतिवत्, द्विचन्द्रेऽपि नायं द्विचन्द्रः तिमिरवशात् अहम् उपप्लुतनयनः परम् एवं वेद्मि इति भवति उन्मूलना बुद्धिः ।
यत्तु उक्तम् - एकमेव कथम् अनेकं भवति इति, तत्र उच्यते - इह कारणमेव कथम् अकारणं भवति अथ उच्यते - विषयभेदात् तथा इति, तद्विषयभेदे एतत् न विरुध्यते इति केन अयं वितीर्णोऽवसरः ?
एकानेकवस्तुनिष्ठायाः क्रियाया एकानेकत्वं सत्यमिति व्यतिरेकदृष्टान्तमुखेन दर्शयति । इह - चैत्रमैत्रादेर्गमनक्रियायाम्, चैत्रे चलति दृष्टे अयं चैत्रो न चलतीति बुद्धिर्न जातुचिज्जायते, तस्मात् चलतश्चैत्रस्य तत्तद्देशकालाकारविशिष्टत्वादनेकत्वं स एवायमिति प्रतिभासादेकत्वमित्येकानेकरूपचैत्राश्रितत्वात् तत्सम्बन्धिनी [सम्बन्धिनी - च्।] क्रियाप्येकानेकरूपा । एवम्भूतरूपा क्रियाबुद्धिर्गन्तव्यप्रदेशप्राप्तेः पूर्वमेव मध्ये रजतमितिवन्न विच्छिद्यते, शुक्तिविषये भूतपूर्वा रजत बुद्धिः पश्चान्न रजतमिति निवर्त्यते तथा नैषा । पुनरपि व्यतिरेकदृष्टान्तेन दृढी करोति । रजतबुद्धिवत् द्विचन्द्रेऽपि नायं द्विचन्द्रस्तिमिरवशादहमुपप्लुत - नयनः परम् केवलमेव द्विचन्द्र इति वद्मीति द्वयबुद्ध्युन्मूलनं [द्व…ऌअनं -च्।] भवति । भवता एकमेव कथमनेकं भवतीति यत्तूक्तं तत्र प्रश्ने एकस्यानेकभवनप्रकार उच्यते, अङ्कुरादि प्रति कारणभूतं बीजाद्येव घटादि प्रति कथं कारणं न भवति ।
अथोच्यते विषयभेदात्तथेति बीजहेतुरङ्कुरोऽन्यः [मृज्जन्योः…ट्येवं - च्।] मृज्जन्यो घटोऽन्य इत्येवं स्वस्वकार्यरूपयोः विषयोर्भेदात् बीजमङ्कुरस्यैव कारणम् न घटस्येत्युच्यते चेत् तर्हि उक्तलक्षणभेदे एतद् इति, बीजस्याङ्कुरं प्रति कारणत्वं घटादि प्रत्यकारणत्वं च न विरुध्यते इति अयमवसरः समयः केन वितीर्णः बीजादेः ? कारणाकारणतापरामृष्टबीजमङ्कुरं प्रत्येव कारणं भवति न तु घट इत्येवं -
संवेदनेन इति चेत् चलति इत्यादौ संवेदनमेव अस्माभिः प्रमाणीकृतं किमिति न सह्यते, विषयभेदोऽपि च अत्र वक्तुं न न शक्यते; तथाहि आभासान्तरेण असम्भेदने तदेकाभासमात्रम्, अत एव अन्यापेक्षावियोगात् अन्तरङ्गत्वात् आन्तरम् अनुवर्तमानं तथाभूताभासमात्रग्रहणोचितान्तःकरणवेद्यतया च आन्तरं तथास्वरूपापरिच्युतेः तत्त्वम् आभासान्तरयोगेन तननसहिष्णुत्वाच्च तत्त्वम् एकम् इति प्रतीयते, तदेव देशाभासेन इह अमुत्र इति, कालाभासेन अधुना तदानीमिति, स्वभावाभासेन कृशः स्थूल इत्यादिना, मिश्रतया अनेकमिति बाह्येन्द्रियवेद्यतायां प्रतीयते । तथा
स्वामिनश्चात्मसंस्थस्य… ।
भूतेन स्वानुभवेन इति चेत् चलतीत्यादौ अपि चलतो देवदत्तस्य तत्तद्देशकालाकारभिन्नत्वादनेकत्वं स एवायमिति प्रत्यभिज्ञा- विषयत्वादेकत्वमिति वस्तुत एकत्वानेकत्वे स्वसंवेदनमेवास्माभिः प्रमाणीकृतम् इति किमिति न सह्यते ।
अत्र - एकानेकत्वे, विषयभेदोऽपि वक्तुं शक्यत एव । तथाहि देशकालादीनाम् आभासान्तरेणासम्भेदने [आभासान्तरेणासंवेदने - च्।] तत् - चैत्रादिरूपम्, एकाभासमात्रम् अत एव इति, एकाभासमात्रत्वादेवेतरापेक्षायोगात् [त्वादेवेशापेक्षायोगात् - च्।] अनुवर्तमानम् - अविच्छेदेन स्फुरत् । आन्तरम् - अन्तर्मुखम् ।
तथाभूत इति देशाद्यविशिष्टैकाभासमात्रग्रहणोचितान्तः- करणवेद्यतया चान्तरं तथाविधान्तर्मुखस्वरूपापरिच्युतेः तत्त्वम् - परमार्थभूतम् ॥ किञ्च -
गुणादिस्यन्दनिष्यन्दाः सामान्यस्पन्दसंश्रयात् ।
इत्युक्तनीत्या सामान्यस्पन्दरूपत्वेन निखिलव्यक्तिरूपा- भासान्तरय्गेन तननसहिष्णुत्वाच्च तत्त्वम् - सर्वानुस्यूतम् एकमिति च प्रतीयते तदेव इति, एषामान्तरं तत्त्वमेव, इहामुत्रेति देशाभासेन अधुना तदानीमिति कालाभसेन कृशः स्थुल इत्यादिना स्वभावाभासेन च मिश्रीभुतम् अत एव अनेकमिति बाह्येन्द्रियवेद्यतायां प्रतीयते । किं च
स्वामिनश्चात्मसंस्थस्य
इति उक्तनीत्या विश्वमेव आन्तरं सत् एकम्, तदेव
सान्तर्विपरिवर्तिनः उभयेन्द्रियवेद्यत्वम्
इति वक्ष्यमाणकार्यकारणभावतत्त्वदृष्ट्या इन्द्रियवेद्यतायामनेकम्, देशाद्याभासमिश्रणात् इति । एकत्वम् - आभासान्तरामिश्रतायामन्तः - करणैकवेद्यत्वे चिन्मात्रतायाम्, अनेकत्वं पुनर - आभासान्तरमिश्रतायाम् उभयकरणवेद्यत्वे चिदतिरिक्तताभासने च, इति स्फुटो विषयभेदः, तस्यैव च तथात्वम् इति परामर्शबलादेव कारणाकारणवत् उपादानसहकारिवत् । अथ व्यपदेशमात्रम् एतत् कारणम् अकारणं च इत्यादि, तदिहापि एकमनेकमिति व्यवहारमात्रम्, नीलं पीतम् अविकल्पकं सविकल्पकम् इत्यपि सर्वं मायापदे व्यवहारमात्रम् इति -
इत्यत्र सत् स्वामिवद् एकम् - अविभक्तम् । तादृग्विधं विश्वमेव अन्तर्विपरिवर्तिनः उभयेन्द्रियवेद्यत्वमिति वक्ष्यमाणकार्य- कारणभावतत्त्वदृष्ट्या इति वस्तुन एकानेकत्वे पुनरपि स्पष्टीकृते [स्पष्टीकृत - च्।] देशकालादिरूपाभासमिश्रितामिश्रितस्यैव ।
एकत्वमाभासान्तरामिश्रतायाम् इत्यादिना स्फुटो विषयभेदः इत्यन्तेन ग्रन्थेन वस्तुन एकत्वानेकत्वे पुनरपि विषयभेदेन स्पष्टीकृते । तथात्वम् - सहजमेकत्वं तदेवेदमिति प्रत्यभिज्ञानबलादेव, यथा बीजात्मनः ।
कारणाकारणवदुपादानसहकारिवत् इति । यथा एकस्यैव बीजात्मनो वस्तुनः अङ्कुरं प्रति कारणत्वं घटादि प्रत्यकारणत्वमिति कारणाकारणात्मकं द्विरूपं प्राप्तम् ।
किञ्च एकस्यैव मृदात्मनो वस्तुनः घटं प्रत्युपादानत्वमङ्कुरं प्रति सहकारित्वमिति द्विरूपं प्राप्तम् ।
तद्वदेकस्यैव वस्तुनः अन्तरन्तःकरणैक -
सर्वं समानम्, तस्मात् एकत्वानेकत्वविरोधो न बाधकः, तदेतत् एवकारेण उक्तम् । तत्र इति, तेषु क्रियादिषु यत् आन्तरं तत्त्वं तदेकम्, तदेव इन्द्रियवेद्यतां [इन्द्रियवेदनीयताम् - क्। ष्। ष्।] प्राप्य देशादिभेदात् अनेकतां याति इति सम्बन्धः, तत्र इति सत्यत्वे स्थिते, तयोर्वा एकत्वानेकत्वयोः मध्ये एकत्वमेवम् अनेकत्वमेवम् इति वा योजना [इति योजना - क्। ष्। ष्।] ॥ २ ॥
विषयत्वादेकत्वं बहिर्देशकालाकारकलितत्वेनानेकत्व- मित्येकत्वानेकत्वविरोधो न बाधकः ॥ अथ बीजमङ्कुरं प्रति कारणं घटादि प्रत्यकारणम्, आदिग्रहणात् [आदिग्रहणाद् घटं - च्।] मृद् घटं प्रत्युपादानकारणमङ्कुरं प्रति सहकारिकारणमित्ये-तादृग्व्यवहारमात्रम् न वस्तुस्वरूपपरामर्शनम् [वस्तुस्वरूपपरामर्श - च्।] । तत् तर्हि, इह मायापदेऽपि वस्तुनश्चिन्मयत्वेऽपि अन्तरेकं बहिरनेकं नीलं पीतमविकल्पकम् सविकल्पकमित्येकानेकनीलपीता - विकल्पकसविकल्पकज्ञातृज्ञानादिकं [सविकल्पकः ज्ञातृज्ञानम्] सर्वं व्यवहारमात्रमिति [सव्यवहारमात्रमिति
- च्।] भवदुक्तमस्मदुक्तं च सर्वं समानम् ॥ तदेत् इति, एकानेकत्वम्, तदेवेन्द्रियवेद्यताम् इत्येवकारेणोक्तम्, तदेव विवृणोति तत्र इति ॥ तेषु पूर्वोक्तेषु, क्रियादिषु यद् आन्तरं तत्त्वम् इति, तदाश्रयभूतमहन्तारूपमेकं तत्त्वं यत्तदेवेन्द्रियवेद्यतां प्राप्य देशादिभेदात् [देशाविभेदवत् - च्।] - बहिरनेकतां यातीति सम्बन्धः । तत्रेति सत्यत्वे [तत्रेति वा सत्यत्वे - च्।] स्थित इत्यादि इति वा योजना इत्येतदन्तमन्वय [अन्वय एव दर्शितम् - च्।] एव दर्शितः ॥ २ ॥
ननु एवं विषयभेदे अभ्युपगम्यमाने यदा एकं प्रतिभातं भवति तदा न अनेकम्, अनेकप्रतिभासे च न एकं प्रतिभातम्, इति कथम् एकानेकरूपं वस्तु स्यात्, तथाहि बाह्येन इन्द्रियेण चैत्रो विचित्रदेशकः परम् अनुभूयते, न तु अनेकाभाससम्मिश्रीकारे बाह्येन्द्रियजस्य अविकल्पकस्य व्यापारः - सन्निहितविषयबलोत्पत्तेः अविचारकत्वात् इत्याहुः, विकल्पेनापि मानसेन तथाभूतं वस्तु नैव स्पृश्यते इति कया धिया वस्तु एकानेकरूपं गृह्येत ? इति परव्यामोहनिबर्हणाय आह -
तद्द्वयालम्बना एता मनोऽनुव्यवसायि सत् । करोति मातृव्यापारमयीः कर्मादिकल्पनाः ॥ ३ ॥
ननु इति अन्तर्बहीरुपतया एकानेकत्वयोर्विष्यभेदे अभ्युपगम्यमाने तद्वस्तु यदैकमिति प्रतिभाति तदैव नानेकं भाति, तस्यैवानेकत्वेन प्रतिभासे यदा तदेवानेकत्वेन प्रतिभाति तदैकत्वप्रतिभासो नास्ति इति कथं वस्तु एकानेकरूपं स्यात् ।
एकस्य चिद्वस्तुनः एकानेकत्वे गृह्यमाणे सति युगपदेवैकत्वानेकत्वाभावादेकानेकत्वं न भवतीत्यर्थः ।
तदेव प्रतिपादयति तथाहि इति । गच्छंश्चैत्रः केवलं बाह्येन्द्रियेणैव तत्तद्विचित्रदेशगोऽनुभूयते ।
तस्मिन्नेकस्मिंश्चैत्रदेहे अनेकत्वहेतुभूतदेशकालाद्याभाससम्मिश्रीकारं [अनुकत्वहेतुभूत -] प्रति वस्तुमात्रप्रतिभासरूपस्य देशकालाद्यविशिष्टवस्तुमात्र-विषयस्य निर्विकल्पस्य व्यापारो नास्तीति । सहसोपनिपतितविषयवशोत्पन्नस्य निर्विकल्पस्य [निर्विकल्पः स्यात् तद्विषमविशेषणः भूतविकल्पसमय - भाविनं - च्।] तद्विषयविशेषणभूतं विकल्पसमयभाविनं देशकालादिं प्रत्यविचारकत्वात् । सर्वश्चायं विकल्पो अनुभवमूलः इत्युक्तनीत्या तत्पृष्ठपातिना [तत्पृष्ठनीया - च्।] मानसेनापि विकल्पेन तथाभूतमेकानेकं वस्तु नैव स्पृश्यते ।
किन्तु नैसर्गिको ज्ञाने बहिराभासनात्मनि । पूर्वानुभवरूपस्तु स्थितः स स्मरणादिषु ॥
इत्युक्तनीत्या निर्विकल्पकविषयवत्त्वात्तस्य, इति कया धिया इति इतिनिर्विकल्पधिया सविकल्पधिया वेति । अनात्मवादिनः ज्ञानसन्तानमेव तत्त्वमिति मन्यमानस्य परस्य व्यामोहनिबहणायाह तद्द्वया इति ॥
इह ज्ञानमालाया अन्तःसूत्रकल्पः स्वसंवेदनात्मा प्रमाता जीवितभूतः इति उपपादितं प्राक्, स च स्वतन्त्र इत्यपि निर्णीतम्, स तु विशुद्धस्वभावः शिवात्मा, मायापदे तु सङ्कुचितस्वभावः पशुः, तदस्य मनःसमुल्लासावसरे विकल्पभूमिकायां स्फुट उल्लासः, ऐन्द्रियके निर्विकल्पके सदाशिवेश्वरदशाभ्युदयात्, अविकल्पबोधाबहिर्भूतस्य
तद्द्वय इति, चैत्रघटादेर्वस्तुनः तदिति पूर्वोक्तमेवैकत्वानेकत्वद्वयमवलम्बन्त [एवमेकत्वानेकत्व - च्।] इति तद्द्वयालम्बनाः एताः इति, क्रियासम्बन्ध इत्यनेन ग्रहणकसूत्रेण सूचितास्तत्क्रियाद्याश्रयप्रमातृप्रमेयव्यापारमयीः व्यापारस्वरूपाः क्रियादिबुद्धीः [क्रियाधिबुद्धिः - च्।] ॥ मनः [नन्विति - च्।] इति, निर्विकल्पविकल्पानन्तरभाध्यव्यवसायात्मक [निर्विकल्पविकल्पानन्तरभावि अध्य …विश्चयः…षन् अनः …व्यवसायात्मकः स्वे स्वे व्यापारसाधनम् - च्] - निश्चयमन्तःकरणमेव करोति इति सङ्कल्पाभिमानाध्यवसायात्मकस्वस्वव्यापारसाधनमन्तःक रणमेव करोति ।
इह ज्ञानमालायाः इति, अनुभवादिरूपाया ज्ञानशक्त्याद्याह्निकत्रयनिरूपिताया ज्ञानमालायाः, अन्तः इति, अन्तारूपत्वेन सूत्रकल्पधारकः जीवितभूतः कश्चित् प्रमाता अस्तीति प्राग् इति एकाश्रयनिरूपणाह्निङ्के, उपपादितम्, सच प्रमाता महेश्वरनिरूपणेनाष्टमेनाह्निकेन स्वतन्त्र इत्यपि निर्णीतम् । स च सद्गुरुकटाक्षवेधेन विगलितमायाकालुष्यो यदा भवति तदा स विशुद्धस्वभावः शिवात्मा, इदन्ताप्रतिभारूपे मायापदे पुनः शिवैकरूपोऽपि तया तिरोहितत्वात् चैत्रोऽहं मैत्रोऽहमिति सङ्कुचितस्वभावः पशुः ।
अस्य - पशुरूपस्य प्रमातुः, मनस इति, प्रोक्तरूपस्यान्तः- करणस्य, समुल्लासावसर इति, सङ्कल्पाभिमानादिस्वस्वव्यापारं प्रति सम्यगुल्लासावसरे, अहमत्रत्यः अस्मिन् काले वर्तमानः एवमाकार इति विकल्पभूमिकायां स्फुट उल्लासः ।
देशकालाद्यविशिष्टाहमिदमिति ऐन्द्रियके निर्विकल्पके अप्रत्यभिज्ञा -
विमर्शव्यापारः । पश्चाद्भाविनं व्यवसायं निश्चयात्मकं विकल्पकम् अनुव्यवसायशब्दवाच्यं विदधदन्तःकरणम् एतान् क्रियासम्बन्धादिविकल्पान् सम्पादयति । ते च विकल्पाः तद्द्वयम् एकत्वानेकत्वरूपम् अवलम्बन्ते, नहि विकल्पेषु प्रतिभासमानम् अवस्तुसत् [अवस्तु तत् - क्। ष्। ष्।] इति हि उक्तम्
नतोऽपि प्रथमं देशकालाविशिष्टमेवेदमिति प्रथनकाले, [प्रथकाले - च्।] अहमिदमिदमहमित्यस्यैव सदाशिवेश्वरतयाभ्युदयात् [सदाशिवेश्वरदयाभ्युदयात् - च्।] एवम्भूतमैन्द्रियकं निर्विकल्पं विकल्पबुद्धिरूपान् क्रियासम्बन्धान् न करोतीत्यर्थः ॥
साक्षात्कारक्षणेप्यस्ति विमर्शः
इत्युक्तनीत्या एवम्भूताविकल्पकबोधाबहिर्गतस्य विमर्शव्यापारः । अनुव्यवसायि इति, अनु - पश्चाद्भावित्वात् व्यवसायशब्दवाच्यं [व्ययसायिशब्दवाच्यम् - च्।] व्यवसायं निश्चयात्मकं विकल्पं विदधत्, मनः इति, अन्तःकरणमेतान् क्रियासम्बन्धादीन् करोति सम्पादयति । तद्द्वयालम्बना इति, ते च विकल्पाः एकत्वानेकत्वरूपं तद्द्वयमवलम्बन्ते । इह स्मृतिविकल्पे तावदर्थोऽध्यवसीयते । अन्यथा सुप्तमूर्च्छितकल्पतापत्तिः, एवं च यावदध्यवसायोऽर्थस्य तावदर्थादिति सामर्थ्यादिदमभ्युपगन्-तव्यम् यत् सोऽर्थः प्रकाशते । अप्रकाशमाने अध्यवसातव्ये अध्यवसायोऽन्धप्रायः स्यादित्यत्र न हि विकल्पेषु प्रतिभासमानम् [न हि विकल्पेषु प्रतिभानमस्तु सदित्युक्तं - च्।] अवस्तुसदित्युक्तम् ।
सत्ता प्राकाश्यमेव हि
प्रकाशतैव व तुत्वम् इति । न च विकल्पस्य प्रकाशरूपतां मुक्त्वा आरोपणाव्यवसायाभिमानादिनामधेयं व्यापारान्तरं युक्तम्, ततोऽबाह्ये बाह्यम् आरोपयन्ति इत्यादि वचो वस्तुशून्यम्, तच्च एतत् उक्तम्
भ्रान्तित्वे चावसायस्य…
इत्यत्र । अथ ब्रूयात् परो यत् इन्द्रियज्ञानेन प्रकाशनीयं स्वलक्षणं तत् कथं विकल्पः स्पृशेदिति, भवेदेवं - यदि विकल्पो नाम स्वतन्त्रो भवेत्, यावता प्रमातुरसौ व्यापारः प्रमाता च पूर्वानुभवान्तः-स्वसंवेदनरूपः तदस्य च अयमेव पूर्वानुभवसंस्कारो यत् विकल्पनव्यापारकालेऽपि पूर्वानुभवात्मत्वम् अनुज्झन्नेव आस्ते, ततः पूर्वानुभवो यावत् स्वलक्ष -
इति श्रीमत्तन्त्रवटधानिकोक्तनीत्या वस्तुनः प्रकाशतैव वस्तुत्वम् - स्वरूपम्, वस्तुन्यप्रकाशिते विकल्पस्य तस्मिन् वस्तुनि इदं गुञ्जाफलं वा वह्निर्वा, गुञ्जाफलमेव वह्निरिति, ममैवेदं - गुञ्जाफलमिति क्रमेण मनोबुद्ध्य हङ्कारव्यापारसाध्यं - व्यापारान्तरं न युक्तम् ।
ततोऽबाह्ये बाह्यम् [ततो अबाह्यं बाह्यं - क्। ष्। ष्।] इत्यादि, ततः इति, वस्तुनः प्रकाशपरमार्थत्वात्, अबाह्ये ज्ञानसन्ताने, स्वतोऽसदपि बाह्यम् नीलादि, शुक्तौ रजतवद् आरोपयन्तीत्यादि वचो वस्तुशून्यम्, न परमार्थः । तच्चैतत् इति, तदेतत् - प्रमेयम् ।
भ्रान्तित्वे चावसायस्य ।
इत्यत्रोक्तम् । अनुव्यवसायि इत्युक्तमुद्दिश्याह निर्विकल्पप्रमाणादिज्ञानेन प्रकाशनीयं वस्तु - कथं विकल्पः स्पृशेद् इति । भिन्नविषयत्वादिति परो ब्रूयात् । भवेदेवम् इति, प्रमातारं विना यदि विकल्पः स्वयमेव स्वतन्त्रो भवेत्, तर्हि तदा विकल्पः निर्विकल्पविषयं स्पृष्टुं न समर्थः । यावता इति, विकल्पः प्रमात्रा विना विषयप्रवृत्तौ स्वतन्त्रो न भवति तस्मात् असौ विकल्पः, मानसं विकल्पज्ञानम्, प्रमातुः एव व्यापारः, प्रमाता च अयं घट इति पूर्वानुभवान्तर्मुखसंस्कारात्मकस्वसंवेदनरूपः । तस्य प्रमातुः अयमेव इति, अनुभवपृष्ठपातिनिर्विकल्पकव्यापारे पूर्वानुभवात्मत्वम् [पूर्वानुभवत्वम् - च्।] इति, पूर्वानुभूतं वस्तु तं देशं तं कालमित्येतत् तस्य वस्तुनः तद्विशेषणभूतयोर्देशकालयोश्च विमर्शम् अनुज्झन्ने -
णप्रकाशनात्मा तावत् पूर्वानुभवतादात्म्यापन्नप्रमातृतत्त्व-व्यापारोऽपि विकल्पस्तद्विषय एव, अत एवमुक्तम् आचार्येण
पूर्वानुभवसंस्कारः प्रमातुरयमेव सः । यदपोहनकालेऽपि स पूर्वानुभवः स्थितः ॥
इति । तस्मात् प्रमातुः यो व्यापार एकत्वानेकत्वसंयोजनात्मा स एव प्रकृतो यत्र तादृशीः क्रियादिकल्पना एकानेकवस्तुविषया एता इति ग्रहणकवाक्यसूचिता मन एव करोति इति स्थितम्, यद्यपि
वास्ते यत्तदयं विमर्श एव संस्कारः प्रमातरि संस्कारात्मना वर्तमानः पूर्वानुभवो यावत् - स्वविषयप्रकाशनात्मा तावत्तादात्म्यापन्नं स्मरणाद्यपि तथा निर्भासते इत्युक्तनीत्या तादृग्विधपूर्वानुभवतादात्म्यापन्नः प्रमातृव्यापारोऽपि विकल्पः तावत् पूर्वानुभवविषय एव । अत एव हेतोराचार्यैः श्रीमदुत्पलदेवपादैरुक्तम् :-
पूर्वानुभवसंस्कारः प्रमातुरयमेव सः ।
यदपोहनकालेऽपि स पूर्वानुभवः [यदपादन…भवस्थितः - च्।] स्थितः ॥
इत्यादि । प्रमातुरयमेव पूर्वानुभवसंस्कारः यत् प्रमाता अपोहनकालेपि पूर्वानुभवः स्थित इति । तस्माद् इति, प्रमातृव्यापाररूपात्, एकैकस्मिन् वस्तुनि एकत्वानेकत्वसंयोजनात्मा [एकात्वानेकत्व…यो - च्।] यो विकल्पात्मा व्यापारः । व्यापारमयीः इति, स व्यापार एव प्रकृतं रूपं यासां तादृशीः क्रियादिकल्पनाः, एताः इति ग्रहणकवाक्यसूचितः क्रियादिकल्पनाः मन एव करोतीति स्थितम् । तृतीयेनानिर्विकल्पकसंवेदनसंवेद्यत्वेऽपि विकल्पकाल एव स्फुटमेषां रूपमिति
अविकल्पेऽपि सामान्याद्यवभासो घटमात्रावभासादौ, तथापि न तदा सामान्यादि स्फुटम्, समानोपरञ्जकत्वे सम्बन्धिद्वयोद्भवे क्रमिकक्षणसन्तानात्यागे अवयवकदम्बकस्वीकारे अवध्यवधिमत्परिग्रहादौ सामान्यसम्बन्न्धक्रियाद्रव्यदिगादि-पदार्थस्य परमार्थतः स्फुरणात्, इति मानसविकल्पग्राह्या एकानेकरूपाः सामान्यादयः इति स्थितम् । एवं च संवृतिः विकल्पबुद्धिः, तद्वशात् उच्यतां संवृतिसत्यत्वं सत्यत्वस्यैव तु प्रकारः तत्, इति द्विचन्द्रादिवत् न असत्यता ॥ ३ ॥
तत्र च अयं संविदवतरणक्रमो यत् क्रियाशक्तेरेव अयं सर्वो
पूर्वोक्तनीत्या विशेषणविशिष्टघटमात्रावभासादौ अविकल्पेऽपि सामान्यसम्बन्धाद्याभासो यद्यपि, तदा इति निर्विकल्पावस्थायाम् तथापि सामान्यादि स्पष्टतया न प्रकाशते । तदेव प्रतिपादयति तथापि सामान्यादि [तथा हि सामान्यादि - च्।] इत्यनेन । घटगतं घटत्वं सर्वदेशगतघटानुस्यूतमिति समानोपरञ्जकत्वे अपि द्विष्ठः सम्बन्ध इत्युक्तनीत्या सम्बन्धस्य द्विष्ठत्वात् राज्ञः पुरुष इति वक्ष्यमाणनीत्या राजपुरुषात्मकसम्बन्धिद्वयोद्भवे गच्छतश्चैत्रस्य क्रियायाः पूर्वापररूपपदविक्षेपात्मक- क्रमिकक्षणसन्तनात्यागे [पूर्वापररूपपदविस्नेशात्मक क्रमकक्षणं सन्तान - च्।] घटादेर्मुखादिकदम्बकावयवस्वीकारे, अस्माद्धटादयं घटः पूर्वभागे स्थितः अयं पश्चाद्भाग इति, तस्मात् चैत्रादयं मैत्रः पुरत एव जातः अयं पश्चाज्जात इति अवध्यवधिमत्परिग्रहादौ इति क्रमेण सामान्यादेः कालान्तस्य [कालान्तरस्य - च्।] वस्तुनः स्फुरणान्मानसविकल्पग्राह्या एकानेकरूपाः सामान्यादय इति स्थितम् ॥ एवं च इति, असत्यं सत्यं संविऋतिसत्यमिति भवदुक्ता संवृतिः विकल्पज्ञानम् ।
तद्वशाद् इति, परमार्थरूपविकल्पबुद्धिमयत्वात् संवृतेरपि सत्यत्वमुच्यताम्, तत् संवृतिसत्त्वं सत्यस्यैव तु प्रकार इति भवदुक्तेः संवृतिसत्यरूपस्य [सम्प्रतिसत्यम् - च्।] क्रियादेः द्विचन्द्रादिवत् नासत्यता ॥ ३ ॥
तत्र - संवृतिसत्यकथनेऽपि, अयम् - क्रियादिकालपर्यन्तः सर्व एव
विस्फारः, तत्रापि सम्बन्ध एव मूलभूतः, तथाहि - समानानां यत् एकं भाति तत् सामान्यम्, देवदत्तस्य यत् वैतत्यं सा क्रिया, अवयवानां यदैक्यं वैतत्यं च देशतः सोऽवयवी, इमम् अवधिं कृत्वा अयम् इत्थम् ततोऽस्य अयं पुरस्तात् इत्यादिर्दिक्, अस्यायं क्रियाप्रतानः सहभावेन आस्ते विनाभावेन वा इति वर्तमानादिः कालः, यावत् हि प्रातिपदिकार्थस्य पृष्ठपाति वपुः भाति तदतिरिक्तं सर्वं सम्बन्ध एव इति कारकाणामपि सम्बन्धरूपतैव, केवलं क्वचित् असौ सम्बन्धो व्यपदेशान्तरग्रन्थिं सहते, यथा सास्नादिमतां सम्बन्धो गावः इति एकव्यप -
सम्बन्धः, क्रियाशक्तिमय्याः संविद एवावतरणक्रमः, क्रियाशक्तिमयी संवित् क्रियादिरूपेणावतीर्य स्फुरतीत्यर्थः ।
यथोक्तं :-
यतो नासौ कश्चिद्भावो [कश्चिद्भावं - च्।] य एवं विकल्प्यते संविदेव हि तथा भाति तथा भानमेव तस्या ऐश्वर्यम्
इति । तत्र - क्रियादावपि मूलभूतः क्रियादिः कालपर्यन्तः सर्वः सम्बन्धरूप एव ॥ तदेव प्रतिपादयति - तथाहि इत्यादिना ॥
समानानाम् घटादिव्यक्तीनाम्, यदेकम् - अनुस्यूतं भाति तत्
- घटत्वं सामान्यम् । गच्छतो देवदत्तस्य देशतः कालतः आकारतश्च यद्वैतत्यम् घटादेर्मुखाद्यवयवानामेकघटस्वरूपविश्रान्तत्वात् यदैक्यम् तदाधारभूतलव्याप्त्यां यत् वैतत्यं च सोऽवयवी, इमम् शैलम् अवधिं कृत्वा अयम् - शैलः, इत्थं - पुरस्तात् इति प्रागादिः दिक्, अस्य - चैत्रस्य, अयं क्रियाप्रतानः तस्य सहभावेन वर्तते इति गच्छतीतिरूपो [वर्तते गच्छतीतिरूपो - च्।] वर्तमानः कालः । गमनादिरूपक्रियाप्रताने देवदत्तेन सहाऽवर्तमाने [देवदत्तेन सह वर्तमानैः - च्।] अभूत् भविष्यतीति भूतादिः कालः । एकाश्रयरूपदेवदत्तनिष्ठत्वात् एकत्वेऽपि तत्तद्देशव्याप्त्या क्रियायामेकानेकरूपत्वम् । एवं सामान्यादीनामप्येकानेकरूपत्वम् ।
वृक्षादेर्वं?स्तुसत्तारूपप्रातिपदिकार्थपृष्ठपाति वृक्षस्तिष्ठति वृक्षेण स्थीयते इत्याद्यधिकरणपर्यन्तं यावद्वपुर्भाति तत्सर्वं सम्बन्ध एव । असौ सम्बन्धः क्वचित् सामान्यादिव्यवहारं व्यपदेशान्तरग्रन्थिं सहते तदानीं सामान्यादिसञ्ज्ञया व्यवह्रियते ।
देशसहिष्णुः तत्र सामान्यादिव्यवहारः, व्यपदेशान्तरग्रन्थिभङ्गे तु सम्बन्धवाचोयुक्तिरेव, अत एव दिष्टिप्रस्थपलादिप्रमाणपरिमाणोन्-मानरूपं [मुष्टिप्रस्थपलादि - क्। ष्। ष्।] तत्र अन्तर्गतं वा अणुमहदादि सङ्ख्यापृथक्त्वादि च यत् तत् सर्वं सम्बन्धस्यैव विजृम्भितम्, येऽपि सामान्यादि वस्त्वन्तरम् अमंसत तेऽपि तत्र समवायम् अभ्युपजग्मुः जीवितत्वेन, समवायश्च सम्बन्धात्मा तदनुग्राह्यो वा केषाञ्चित्, यत आहुः -
समवायाख्यां तां शक्तिमनुगृह्णाति [तां शक्ति समवायास्यामनुगृह्णाति सम्बन्धः - क्। ष्। ष्।] सम्बन्धः । इति
अत्र दृष्टान्तमाह यथा सास्नादिमतां कपिलादिगोपिण्डानामनुस्यूतो गोत्वरूपः सम्बन्धो गाव इति बहुवचनात्मकैकव्यपदेशसहिष्णुः, तत्र - व्यपदेशान्तरग्रन्थिसहने, सतः सामान्यादिना सबन्धस्य व्यवहारः । उक्तरूपव्यपदेशग्रन्थ्यभावे सम्बन्धवाचोयुक्तिरेव - सम्बन्धः स इत्येव व्यह्रियते । अत एव इति - कारकाणां सम्बन्धरूपत्वात्, दिष्टिहस्तादिभिः परिमेयक्षेत्रमानं तस्य पूर्वापराभ्यां मानाभ्यां सम्बन्धः [सम्बन्धं - च्।] दिष्टिमात्रस्य क्षेत्रस्य पूर्वापरदेशाभ्यां [पूर्वा?परदशाभ्याम् - च्।] सम्बन्धः, प्रस्थद्रव्ययोः सम्बन्धः प्रस्थद्रव्यगतस्य परिमाणस्य पूर्वापरपरिमाणाभ्यां सम्बन्धः पलादेरुन्मानस्य [फलादेः - च्।] उन्मेयेन स्वर्णादिना सह सम्बन्धः पूर्वापरोन्मानाभ्यां चेति प्रमाणपरिमाणोन्मानरूपम् । तत्र दिष्टिप्रमाणपरिमाणान्तर्गतं चाणुत्वमहत्त्वसङ्ख्या पृथक्त्वादि च यत् तत्सर्वम् - लोकव्यवहाररूपं तत्सर्वम्, सम्बन्धस्यैव विजृम्भितम् । ये केचित् सामान्यादिसम्बन्धं घटवत् पदार्थान्तरम् अमंसत तेऽपि समवायं तत्राभ्युपजग्मुः जीवितत्वेन समवायश्च सम्बन्धात्मा तदनु ग्राह्यः इति सम्बन्धानुग्राह्यः समवाय इति केषाञ्चिन्मतम् [इति केषाञ्चिन्मते - च्।] । तदेवाह ।
समवायाख्यां तां शक्तिमनुगृह्णाति सम्बन्धः
यदपि च कारकं तदपि क्रियामुखप्रेक्षि, सापि कालं प्राणेश्वरम् आश्रयति, सोऽपि क्रियाद्वारेण सर्वभावात्मा [सर्वभावान् सापि - क्। ष्। ष्।] सम्बन्धम् उद्धुरयति इति सम्बन्धाधीनैव इयं चित्रा लोकयात्रा । यदाह [तदाह - क्। ष्। ष्।] आचार्य एव :-
भेदाभेदात्मसम्बन्धसहसर्वार्थसाधिता ।
लोकयात्राकृतिर्यस्य स्वेच्छया नौमि तं शिवम् ॥ इति । अतः सम्बन्धमेव प्रथमं निरूपयितुम् आह :-
स्वात्मनिष्ठा विविक्ताभा भावा एकप्रमातरि । अन्योन्यान्वयरूपैक्ययुजः सम्बन्धधीपदम् ॥ ४ ॥
इति । उक्तमेवार्थं स्पष्टीकरोति यदपि च कारकम् इति ।
क्रियाविमर्शविषयः कारकाणां समन्वयः इति वक्ष्यमाणनीत्या तिष्ठतीत्यादिमुखप्रेक्षि । सापि - क्रिया, स्वात्मनः प्राणेश्वरं भूतादिं कालमाश्रयति । सोऽपि कालस्तिष्ठत्यादिक्रिया-द्वारेण तत्तिष्ठत्यादिक्रियाश्रयभूतसर्वभावात्मा सम्बन्धमुद्धुरयतीति सम्बन्धाधीनेयं विचित्रा लोकयात्रा ॥ यदाहाचार्य एव :-
भेदाभेदात्मसम्बन्धसहसर्वार्थसाधिता । लोकयात्राकृतिर्यस्य स्वेच्छया नौमि तं शिवम् ॥
इति लोकयात्रायाः क्रियारूपायाः सम्बन्धमयत्वात् सम्बन्धमेव प्रथमं निरूपयति । राजाद्याभासरूपाः पुरुषाद्याभासरूपाश्च भावाः स्वात्मनिष्ठाः - स्वस्मिन्नेव रूपे विश्रान्ताः, अत एव विविक्ताभाः अन्योन्यभिन्नप्रकाशाः,
राजा पुरुषश्च बहिस्तटस्थौ स्वात्मैकपरिसमाप्तौ प्रमातृभूमौ यदैक्यं गच्छतः, न च ऐक्यमात्रं तयोः भेदविगलनापत्तेः, अपि तु परस्पररूपश्लेषात्मकं युगपदेव निमज्जदुन्मज्जद्भेदाभेदकोटिद्वयदोलारोहणलक्षणम् अन्वयरूपम्, तदा तावेव सम्बन्धधिय आलम्बनं भवतो राज्ञः पुरुषः इति, तथाहि - राजा यदा पूर्वं धिया गृहीतोऽपि न स्वात्मविश्रान्त्या तुष्यति तदा रूपान्तरेण पुंसा श्लेषं भजन् कृतार्थी - भवति, पुरुषोऽप्येवं स च एष रूपश्लेष एक एव उभयोः चिदात्मनि
एकप्रमातरि - राजपुरुषाद्याभासग्राहके एकस्मिन् प्रमातरि, अन्योन्यान्वयरूपमैक्यं भजन्ते यदा तदा त एव सम्बन्धधियः पदम् आलम्बनं भवन्ति ॥
विविक्ताभाः इति, उभयग्राहकप्रमात्रन्तःकरणविश्रान्तेः पूर्वं बहिस्तटस्थौ - अन्योन्यासम्पृक्तौ, स्वात्मनिष्ठाः [स्वात्मनि निष्ठा इति - च्।] इति, अत एव स्वात्मैकपरिसमाप्तौ - [स्वात्मै परिसमाप्तौ - च्।] स्वस्वरूपमात्रविश्रान्तौ, तदुभयग्राहकप्रमातृभूमौ [तदुभयग्राहकप्रमातृभूतौ - च्।] यदैक्यं गच्छतः तदैक्यं तत्प्रमातृतादात्म्यरूपं न भवति । तयोः - राजपुरुषयोः, राजपुरुषत्वविगलनापत्तेः, अपि तु राजपुरुषेण परस्पररूप-श्लेषात्मकं युगपद् - एकदैव निमज्जदुन्मज्जत्पुरुषराजाभासरूप- भेदाभेदस्रोतोद्वयवेलारोहणलक्षणसमन्वयरूपं यदैक्यं गच्छतः तदा तावेव सम्बन्धधिय [सम्बन्धिय - च्।] आलम्बनं भवत्ः राज्ञः पुरुष इति ॥ तदेव प्रतिपादयति तथा हि इति । पुरुषदर्शनात् पूर्वं राजाभासग्राहकस्य प्रमातुः धिया गृहीतोऽपि पुरुषाभासविविक्तस्वात्मविश्रान्त्या यदा स राजा न तुष्यति तदा रूपान्तरेण पुंसा [पुंसः - च्।] श्लेषं भजन् कृतार्थीभवति । पुरुषोऽपि स्वात्मविश्रान्त्या न तुष्यति, रूपान्तरेण राज्ञा श्लेषं भजन् कृतार्थीभवति । स राजपुरुषयोः रूपश्लेषः स्वयम् एक एव चिदात्मनि - प्रमातरि
तथा अवस्थानरूपः पूर्वप्रतिलब्धसंवित्प्रतिष्ठः तत एव अधिकसंविन्निमज्जनात् अनाभासमानपृथग्भवनलक्षणः स्वातन्त्र्ये विश्राम्यति, इति तत्रैव निर्भासते समास्कन्दितपुरुषपरमार्थोऽपि, एवं बहिरनेकता, अन्तस्तु परस्पररूपश्लेषेणैक्यम्, इति सम्बन्धस्य रूपम् ॥ ४ ॥
जातिद्रव्यावभासानां बहिरप्येकरूपताम् । व्यक्त्येकदेशभेदं चाप्यालम्बन्ते विकल्पनाः ॥ ५ ॥
जात्यवभासस्य अवभासमानरूपायाः जातेः ग्राहिका याः
तथा इति, उक्तरूपेणैक्येन स्थितः राज्ञः पुरुष इति पूर्वप्रतिलब्ध संवित् - प्रतिष्ठः [राजसंवित्प्रतिष्ठः - च्।] अत एवाधिकपुरुषसंविन्निमज्जनात् राजपुरुषयोः अनाभासमानपृथग्भवनलक्षणः स्वातन्त्र्ये विश्राम्यति, तत्र - स्वतन्त्रे चिदात्मन्येव, निर्भासते, समास्कन्दितपुरुषपरमार्थोऽपि राजाद्याभासानन्तरम् [राजाद्याभासानन्तरगोत्वघटत्व - च्।] ॥ ४ ॥
गोत्वघटत्वाद्येकरूपतामभेदरूपतां बहिरेव तयोः कपिलादिरूपया व्यक्त्या मुखादिनावयवरूपेणैकदेशेन च भेदमनेकत्वं चावलम्बन्ते ॥ तयोर्भेदाभेदौ [भेदाभेदो - च्।] बहिरेव ।
प्रकाशमानरूपाया जातेः ग्राहिकाः - ग्रहीत्र्यः प्रमातृविकल्पबुद्धयः, ता
कल्पनाः, ता न केवलं सम्बन्धवत् अन्तर् एकरुपतां बहिश्च अनेकरूपताम् आलम्बन्ते, यावद् बहिरपि व्यक्तिभेदलक्षणम् अनैक्यं बहिरेव च तदनुस्यूततारूपाम् एकताम् आलम्बनत्वं नयन्ति । गावः इति हि प्रतिभासे पृथक्कृता [पृथक् च ताः बहिः - क्। ष्।
ष्।] बहिर् व्यक्तयो भान्ति, येन च बहुवचनम्, अनुयायि च आसां भाति वपुः, यत एकप्रातिपदिकार्थपरामर्शानुगमः, उभयं च तद् बहिरेव इमाः इति अङ्गुल्या निर्देशात्, केवलं बाह्यत्वमपि स्थिते परमार्थप्रकाशान्तर्भावे, इति न
न केवलं सम्बन्धवदन्तरेव एकरूपतामालम्बन्ते यावद् बहिरपि कपिलादिव्य्क्त्यनुस्यूतां गोत्वरूपाम् [गोत्वरूपतामेकताम् - च्।] एकताम् अपि आलम्बनत्वन्नयन्ति [आलम्बनवन्नयन्ति - च्।] तदेव सङ्क्षेपेणोपपादयति । गावः इति बहुत्वप्रतिभासे पृथक्कृताः [बहुत्वप्रतिभाषे बहिः पृथक्कृतः
- च्।] - अन्योन्यं पृथक्कृताः, बहिः कपिलादिव्यक्तयो [कपिलादिव्यत्ययो - च्।] भान्ति येन - प्रतिभासेन अनेकत्वद्योतकं बहुवचनम् । इयं गौरियं गौरिति, अनुयायि चासाम् गवां वपुः भवति । यदा तु गोत्वरूपैकप्रातिपदिकार्थपरामर्शानुगमः [गोत्वरूपकप्रातिपदिकार्थ परामर्शानिगमः एतदनुयीयि वपुः - च्।] तदानुयायि वपुः । उभयम् इति, एकत्वानेकत्वे, बहिरेव ।
उभयस्यापि बहीरूपतां प्रत्यक्षेण दर्शयति इमाः इति अङ्गुल्यानिर्देशात् इत्यनेन । केवलं बाह्यत्वमपि स्वात्मनः पूर्वसङ्गपरमार्थप्रकाशान्तर्भावे [पूर्वसङ्ग परमार्थः प्रकाशान्तभावे - च्।] सति प्रकाशत इति तत्र बाह्यत्वेन वस्तूनां भेदाभेदौ न दूषणम् । उक्तं [एकतश्चैतत् - च्।] चैतत् :-
चिन्मयत्वेऽवभासानामन्तरेव स्थितिः सदा । मायया भासमानानां बाह्यत्वात् बहिरप्यसौ ॥
तत्र भेदाभेदौ दूषणं चित्रसंवेदन इव । अनेन द्रव्यऽपि रक्तारक्तादिविरोधः कृतप्रतिविधानः, आन्तरं तु ऐक्यं सम्बन्धद्वारेण तद्वदेव सर्वत्र, एवम् अवभासमानस्य घट इति अवयविद्रव्यस्य ग्राहिका याः कल्पनाः ता न केवलं सम्बन्धवत् अन्तर्बहीरूपतया एकानेकविषया यावत् बहिरप्येकं निःसन्धिबन्धरूपत्वेन भिन्नं च अवयवलक्षणैकदेशद्वारेण स्वीकुर्वते, घट इति हि निःसन्धिबन्धनैकघनात्मा विततरूपश्च भाति इति ॥ ५ ॥
इत्यत्र । चित्रसंवेदन इव इति चित्रगतस्य पतङ्गस्य पतङ्गरूपेणैक्यम्, भेदःनिलानीलवर्णपक्षत्वमनेकत्वम् [नीलनीलवर्ण - च्।] । अनेन न्यायेन घटादिद्रव्येऽपि एको भागः काञ्चनः एको राजतः इति रक्तारक्तादिविरोधः परिहृतः, सर्वं वस्तु संविन्मयत्वात् संवित्स्वरूपत्वं [संविदतसर्वरूपत्वम् - च्।] सहत इत्यर्थः । अस्या जातेः सम्बन्धद्वारेणान्तरम् अप्येकत्वमस्ति [अप्येकमस्ति - च्।] न केवलं बहिरेव । सर्वत्र इति, सर्वेषु भावेषु, आन्तरं [अन्तरम् - च्।] चैक्यं सम्बन्धद्वारा ।
एवम् इति, जातिवद् । अवभासमानस्य घट इत्यवयविद्रव्यस्य ग्राहिकाः याः कल्पनाः - विकल्पबुद्धयः अन्तरेकविषया बहिरनेकविषया इति न भवन्ति, बहिरप्यनेकवस्तुविषयाः । तासां विकल्पबुद्धीनां बहिरप्येकानेकरूपत्वमेव प्रतिपादयति ।
निःसन्धिबन्धरूपत्वेनैकरूपं मुखाद्यवयवलक्षणैकदेशद्वारेण [मुखाद्यवयविलक्षणैकदेशं - च्।] भिन्नम् अनेकरूपं च घटादि स्वीकुर्वते । घट इति प्रतिभासमानो भावः निःसन्धिबन्धनैकसमुदायमयैकरूपस्तत्तद्देश- व्यापिभिर्मुखाद्यवयवैर्विततरूपश्च भातीति ॥ ५ ॥
क्रियाविमर्शविषयः कारकाणां समन्वयः । अवध्यवधिमद्भावान्वयालम्बा दिगादिधीः ॥ ६ ॥
कारकाणां कर्त्रादिशक्त्याधाराणा द्रव्याणां च योऽन्योन्यं समन्वयो दृश्यते, यथा मातृमेयमानानां मिथः सऽन्तर्लीनप्रमात्मकक्रियाविशेषपरामर्शैकनिमित्तकः, नहि प्रमापरामर्शम् अन्तर्वर्तिनं
कारकाणाम् - कर्त्रादिशक्त्याधाराणां वृक्षादिद्रव्याणां देवदत्तः काष्ठैः स्थाल्यामोदनमिति कर्तृकरणाधिकरणकर्मरूपाणाम् अन्वयो यः स पचतीत्यादि क्रियाविमर्शविषयः - क्रियाविमर्शैकनिमित्तः, दिक्कालग्राहिका धीः इममवधिं कृत्वा अस्मादयं पूर्वजातः अतोस्यायमग्रजः, भानोरुदयगिरिमारभ्य [भानोरुदयगिरिपर्यन्त गमनम् - च्।] चरमगिरिपर्यन्तं गमनं दिवसः, तं चरमगिरिमारब्य उदयगिरिपर्यन्तगमनं रात्रिरिति अवध्यवधिमद्भावान्वयालम्बा दिगादिधीः ।
कारकाणाम् इति प्रथमाद्यधिकरणान्तकर्त्रादिशक्त्या- धाराणां कारकाणाम्, चैत्रमैत्रादीनां वृक्षादीनां च द्रव्याणाम्, देवदत्तः काष्ठैः स्थाल्यामित्यादिरूपो योऽन्योन्यं समन्वयो दृश्यते स समन्वयः - स प्रमात्रन्तर्लीनतत्- प्रमात्मकपचत्यादिक्रियापरामर्शैकनिमित्तकः कारकाणां समन्वयः । क्रियाविमर्शविषयः इत्यत्र दृष्टान्तमाह यथा मातृमेयमानानाम् इति । मातुश्चैत्रस्य [मातुश्चैत्रस्य…डेस्तदुभय - च्।] मेयस्य घटादेस्तदुभयनिष्ठस्य बहिर्मुखस्य भानरूपस्य ज्ञानस्य च यथा पश्यत्यादिप्रमारूपायां क्रियायां मिथः समन्वयः तद्वदत्रापि प्रमातुरन्तवर्तिनं पश्यत्यादिक्रियारूपं प्रमापरामर्शं विहाय देवदत्तो वृक्षमित्यादिरूपयोः वस्तुनोः साक्षात् स्वत एव न स समन्वयो विमर्शविषय इति कारकाणां समन्वयः पचत्यादि
विहाय वस्तुनः साक्षात् अन्वयोऽत्र संवेद्यते, अनन्यत्र भावरूपतानिमित्तता अत्र विषयार्थः, कारकशक्तीनामपि यः स्वाश्रयैः सम्बन्धः सोऽपि क्रियापरामर्शनिमित्तकः, द्रव्याणां च शक्तीनां च क्रियया साकं साक्षात् सम्बन्धः इति इयं क्रियैव भगवती एतावद्विजृम्भितं सम्बन्धम् आविर्भावयति । अस्मादिदं पूर्वं परं दूरे इत्येवं बहिर्भिन्नतयापरामृश्यमानयोः भावयोरन्तर् अभेदनपूर्वकं [अभेदपूर्वकम् - क्। ष्। ष्।] भेदावमर्शमध्यम् अभेदविश्रान्तं च यत् रूपम् आमृश्यते तत् दिग् इत्युच्यते । अत्र हि तयोः मुखाद्यवयवविशेषपरामर्शादरः तत्सम्मुखत्वपराङ्मुखत्वादिनिश्चयः संयोगसंयुक्त- संयोगाल्पतादिपरिग्रहश्च उपयोगि ।
क्रियापरामर्शैकनिमित्तक इति क्रियां विना अत्रान्यत्र भवनासहिष्णुतारूपा निमित्तता विषयार्थः । कारकाणां प्रमातृपरामर्शरूपया क्रियया विना स्वत एव समन्वयो न सम्भवतीत्यर्थः । प्रथमादिकारकशक्तीनामपि स्वाश्रयैः - द्रव्यैर्वृक्षादिभिर्योऽन्योन्यं समन्वयः स तिष्ठत्यादिक्रियापरामर्शैकनिमित्तकः वृक्षस्तिष्ठति वृक्षं पश्यामि वृक्षेण स्थीयते वृक्षाय ददाति वृक्षात् पतति वृक्षस्येदं सर्वं भवति वृक्ष तिष्ठतीति इति द्रव्याणां शक्तीनां च क्रियया साकं साक्षात् सम्बन्ध इति इयती सैव [चैव - च्।] भगवती विश्वव्यववहारहेतुभूता [विश्यव्यवहारहेतुभूतः प्रथमाद्यधिकरणान्त - च्।] प्रथमाद्यधिकरणान्तकारकविजृम्भितं सम्बन्धमाविर्भावयति । बहिर्भावद्वयमालोक्यास्मात् पर्वतादयं पूर्वः अयमपर इति प्रमात्रा बहिर्भिन्नतया चक्षुरादिभिः परामृश्यमानयोः भावयोरन्तः अन्तःकरणे एकत्र विश्रान्तत्वात् अभेदनपूर्वकं पुनर्बहिर्मध्ये मध्यकोठौ अस्मादिदं पूर्वमित्याद्यन्योन्यभेदाव- भासनात्मकं पुनरपि अभेदविश्रान्तं चेत् ध्रुवमामृश्यते तत् सामान्येन दिगित्युच्यते । अत्र - दिक्सामान्ये, तयोः - भावयोर्मुखपृष्ठदक्षिणोत्तरावयवपरामर्शादरः इत्यनेन दिशां प्रागादिविभागसम्भवः ।
तदवयवसम्मुखत्वपराङ्मुखत्वादिनिश्चय इत्यनेन विदिगादिविशेषसम्भवः । अनेन गिरिणा संयुक्तः इति संयोगः, वृक्षादिभिः [संयुतेन गिरिणा वृक्षादिभिः सह सम्बन्धः - च्।] संयुक्तेन गिरिणा सह सम्बन्धः संयुक्तसंयोगः, भावयोरदूरत्वादिपरिग्रहश्च दिक्परामर्शे उपयोगी ।
वस्तुविषयत्वन
कालपरामर्शस्य पूर्वपरादिरूपत्वे जन्मस्थित्यल्पतादिविमर्शश्चिरक्षि-प्रादिरूपत्वे च, पक्ष्यति पचति अपाक्षीत् इत्यादौ तु सम्भावितस्य स्फुटस्य स्फुटभूतपूर्वस्य आत्मीयसंवेदनस्पन्दितप्राणा -
व्यवहारसाधनार्थमेव आश्रयणीयः, अन्यथा तदसम्भवात् ।
ननु शरावत्यैवयं मर्यादा कृता, सत्यम्, येन सा न दृष्टा स किं कुर्यात्, किञ्च पुरस्थैर्वस्तुभिरेव तत्सिद्धौ का तस्या अपेक्षा, अन्यच्च तद्विभाजितायां पूर्वदिश्यपि तदन्तर्गतवस्त्वपेक्षया परादिव्यवहारो दृश्यते इति न किञ्चिदेतत् । ननु तर्हि कथं शास्त्रेषु तद्विभाजकत्वेन तस्याः स्तुतुइः कृता, तदुक्तम् : -
सा नः पातु शरावती ।
इति । पूर्वादिदेशव्यवहारत्वेनेति ब्रूमः, वस्तुव्यवहारस्य च देशव्यवहारापेक्षयान्तरङ्गत्वमेव । किञ्च सूर्यस्य प्रथमोद्भूतिरपि मेरुपार्श्वापेक्षया विचित्रा भवति इति सर्वो दिग्विभागः कल्पनाप्राण एवेति दिश एकत्वकथनमपि अयुक्तमेव अपरिच्छिन्नभगवन्मूर्तिरूपस्य देशस्य परिच्छिन्नविषयिकत्वा- योगादित्यलं प्रपञ्चेन । अत्र च संयुक्तसंयोगाल्पतादिग्रहः दूरत्वादिनिर्णयार्थमुपयुज्यते । तथाहि द्रष्टुः शरीरेण संयुक्ता भूस्तया संयोगः देवदत्तस्य स एव संयुक्तसंयोगः, स च यत्राल्पः तत्रादूरता यत्र तु महान् तत्र दूरता ।
परमार्थतस्तु संयुक्तसंयोगः अन्तरमेवेत्यलम् ।
आदिशब्दगृहीतां कालधियं निर्णेतुमाह काल इति ।
कालपरामर्शस्य पूर्वपरादिरूपत्वे - पूर्वत्वरूपत्वे परत्त्वरूपत्वे आदि शब्देन मध्यरूपत्वे । जन्मन् आरभ्य स्थितिः जन्मस्थितिः, तस्या यत् अल्पतादि आदिग्रहणात् बहुतामध्यमभावयोर्ग्रहणम्, तस्य विमर्शः उपयुज्यते उपयोगी भवति । तत्राल्पतापरामर्शेन यूनि परत्त्वग्रहणम्, बहुतापरामर्शेन वृद्धे पूर्वत्वग्रहणम्, मध्यतापरामर्शेन मध्यमे मध्यमत्वग्रहणम् । इह पूर्वपरत्त्वयोस्तार्किकाभिमत- परत्त्वापरत्त्वयोश्चैकत्वमेव । पूर्वो हि परः परस्त्वपरः पूर्वेतरत्वात् । तथा चिरक्षिप्रादिरूपत्वे च जन्मस्थित्यल्पतादिविमर्श उपयुज्यते । अत्रापि आदिशब्देन मध्यमताग्रहणम् । अत्रापि अल्पतया क्षिप्रताग्रहणम् । बहुतया चिरताग्रहणम्, मध्यमतया मध्यभावग्रहणमिति क्रमः ।
यद्यपि चिरक्षिप्रतादिग्रहणमादित्यसञ्चारात्यल्पतादिवशेनापि भवति तथापि प्रपञ्चभियात्रैव नियतत्त्वेनोक्तं तथा । तु व्यतिरेके, पक्ष्यति, पचति, अपाक्षीत् इत्यादौ, भविष्यद्वर्तमानभूतग्रहणे
दित्यादिक्रियान्तरस्य फलविशेषस्य च ओदनादेः परामर्श उपयुज्यते, एवं सङ्ख्यापरिमाणपृथक्त्वसंयोगविभागप्रभृतिषु सम्बन्धरूपतैव वाच्या, सर्वथा अयं सक्षेपः, यत्र पदार्थाभासस्य आत्मविश्रान्त्या सन्तोषमपुष्यतः आभासान्तरपरामर्शविश्रान्तिसाकाङ्क्षतया स्वरूपपरिनिष्ठा [स्वरूपनिठा - क्। ष्। ष्।] तत्र सम्बन्धरूपतैव क्रियाशक्तिविजृम्भामयी, तत्रापि भावान्तरापेक्षया सम्बन्धान्तरमपि अस्तु, यथा सङ्ख्यादौ समवायं मन्यन्ते, न च अनवस्था भवन्त्यपि दोषाय, पूर्वापरकल्पसृष्ट्यनवस्थेव,
इति यावत् । आदित्यादिक्रियान्तरस्य, स्वक्रियायाः भिन्नायाः आदित्यसञ्चाररूपक्रियायाः इति यावत्, आदिशब्देन [आदिशब्देन - च्।] पुष्पादिजन्मादेः ग्रहणम् तस्य परामर्शः, तथा ओदनादेः फलविशेषस्य च परामर्श उपयुज्यते येन श्वः अद्य ह्यः इत्यादिवचनप्रयोगः [वचनसिति आदिप्रयोगः - च्।] तत्र दृश्यते इति भावः । क्रियान्तरस्य ओदनादेश्च कीदृशस्य ? सम्भावितस्य - पक्ष्यतीत्यत्र भविष्यत्त्वेन सम्भावनामात्रेण प्रोक्तस्य, तथा स्फुटस्य पचतीत्यत्र वर्तमानत्वेन स्फुटस्य, तथा स्फुटभूतपूर्वस्य अपाक्षीदित्यत्रप्रतीतत्वेन पूर्व स्फुटीभूतस्य, आत्मीयम् प्रमतुः निजं यत् संवेदनं तस्य यत् स्पन्दितम् - स्फुरणम्, ग्रहणं प्रत्युन्मुखाभावः इति यावत्, तदेव जीवितं यस्य तादृशं यत् आदित्यादिक्रियान्तरं तस्य ।
सङ्ख्यादावप्येनं न्यायमतिदिशति एवम् इति, सम्बन्धरूपतैव इति । प्रमात्रपेक्षाबुद्धिसिद्धत्वेन [प्रमात्रपेक्षया बुद्धि - च्।] योजनाप्राणत्वादिति भावः । सङ्क्षेपकथनं प्रतिजानीते सर्वथा इति । आत्मविश्रान्त्या - पदार्थाख्यनिजरूपमात्रविश्रमणेन, सन्तोषम् - प्रभातुर्निरा- काङ्क्षत्वम्, अपुष्यतः - अकुर्वत्ः, स्वरूपपरिनिष्ठा - स्वरूपव्यवस्था, तत्रापि - सम्बद्धे स्वरूपेऽपि । ननु कुत्रैतदस्ति इत्यत आह यथा इति । अत्र हि प्रमात्रपेक्षाबुद्धिसिद्धत्वेन सङ्ख्यायाः स्वरूपग्रहणेपि प्रथमं सम्बन्धापेक्षा ततः स्वाश्रयेऽवस्थानार्थं समवायापेक्षा, आदिशब्देन परिणामादिग्रहणम् । ननु तर्हि तत्रापि सम्बन्धापेक्षायामनवस्था-पातः स्यादित्यत आह न च इति ।
भवन्त्यपि - स्थितापि सती ।
नहि उत्तरसम्बन्धसृष्ट्या विना पूर्वसम्बन्धावभासे हानिः काचित् येन् मूले क्षतिः शङ्क्येत ॥६॥
एवं सकललोकयात्रानुप्राणितकल्पानल्पसम्बन्धबन्धुरी- भावं [सम्बन्धबन्धुरीभावभावम् - क्। ष्। ष्।] क्रियाशक्तिविजृम्भात्मकम् अभिधाय, तस्य स्थैर्योपयोगौ पूर्वसूचितौ निरूपयितुमाह :-
एवमेवार्थसिद्धिः स्यान्मातुरर्थक्रियार्थिनः । भेदाभेदवतार्थेन तेन न भ्रान्तिरीदृशी ॥ ७ ॥
इह भावानां न सत्तासम्बन्धः सत्त्वम्, अव्यापकत्वाद् अनवस्था -
अत्र दृष्टान्तमाह पूर्व इति । यथा सृष्ट्यनन्तरं पुनः पुनः सृष्ट्युत्पादे भवन्त्यपि अनवस्था न दोषाय तथेत्यर्थः । कुतो न दोषायेत्यतः आह नहि इति । येन, यया हान्येत्यर्थः, मूले क्षतिः उत्तरस्य सिद्धिं विना पूर्वासिद्धिरूपो मूलनाशः सङ्क्येत - शङ्काविषयो भवेत् । तदुक्तम् :-
मूलक्षतिकरीमाहुरनवस्थां हि दूषणम् । मूलसिद्धौ त्वरुच्यापि नानवस्था निवार्यते ॥ इति ॥ ६ ॥
अथ सप्तमस्य श्लोकस्यावतरणिकां करोति एवम् इति ।
अत्र टीका -
बन्धुरीभावम् - उद्भटताम् क्रियाशक्तिविजृम्भात्मकम्
- क्रियाशक्तिविलसितरूपम्, तस्य - सम्बन्धबन्धुरीभावस्य, पूर्वसूचितौ सत्याः स्थैर्योपयोगाभ्याम् इत्यत्र सूचनया कथितौ । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे एवमेव इति ।
अत्र टीका -
श्लोकं व्याख्यातुं प्रक्रियां करोति इह इति । इह - भासमानेऽत्र जगति, भावानाम् - नीलादीनां सुखादीनाञ्च, सत्तासम्बन्धः - तार्किकाभ्युपगतसत्ताख्यपरजातिसम्बन्धः, सत्त्वम् - अस्तित्वं न भवति । कुत इत्यपेक्षायामाह अव्यापकत्वात् इति, तत्र सत्तायाः सामान्यदिभ्यो व्यावृत्तेः अव्यापकत्वम्,
वैयर्थ्यादिदोषात्, न अर्थक्रिया वस्त्वन्तरत्वात्, न तत्कारित्वं सर्वदा तदावेशादशनात्, उक्तं हि
अर्थक्रियापि सहजा नार्थानाम्…
इति । तत्कारित्वस्य च प्रत्यक्षानुपलम्भात्मकान्वयव्यतिरेकगम्यस्य अप्रत्यक्षत्वे सतोऽपि अप्रत्यक्षत्वप्राप्तेः, नार्थक्रियाकरणयोग्यत्वं तस्य
तत्राप्यनुवृतौ अनवस्था, सत्तायां हि सत्ताङ्गीक्रियते, तत्राप्यन्या तत्राप्यन्या इति अनवस्था स्यात् । तथा विशेषेषु तदङ्गीकारे संशयस्य तत्रापत्तेः पुनस्तन्निवृत्त्यर्थं विशेषान्तरानुसरणे स्फुटानवस्था । तथा समवाये तदङ्गीकारे तद्वृत्त्यर्थं समवायान्तरानुसरणेऽप्यनवस्था । अथ सामान्यदीनां प्रातिस्विकेन सत्त्वेनैव सत्ताव्यवहारः इति न तेषां तदपेक्षेति नायं दोषप्रसङ्गः, तर्हि द्रव्यादित्रयेऽपि तेनैव तद्व्यवहारः इति तत्रास्या व्यर्थत्त्वम्, अथ तद्विनैव तत्र सत्ताव्यवहारः तर्हि शश विषाणेऽपि सत्ताप्रसक्तिः । आदिशबेनाभावेऽपि सत्ताभ्युपगमे यः तस्याः स्वरूपव्याघातप्रसङ्गस्तस्य ग्रहणम्, अभावो ह्यसत्तैव । तथा अर्थक्रिया - प्रतिनियतत्वेन स्थिता भावैः क्रियमाणार्थक्रिया, भावानां सत्त्वं न भवति, कुतः ? वस्त्वन्तरत्वात् - भिन्नवस्तुत्वात्, सत्तापि हि भिन्नं वस्तु अर्थक्रियापि भिन्नं वस्तु, तथा तत्कारित्वम् - अर्थक्रियाकारित्वम्, सत्त्वं न भवति, कुतः सर्वदा तदावेशादर्शनात् सत्त्वं हि भावेषु सर्वदैव स्थितं भवति, तस्य चार्थक्रियाकारिता भावेऽङ्गीक्रियमाणे भावः सर्वदैवार्थ-क्रियाविष्टः स्यात् न च तद्दृश्यते इति नार्थक्रियाकारित्वभावः सत्त्वस्येति भावः । अत्र वृद्धसम्मतिमाह उक्तं हि इति । सहजा - स्वरूपभूता, इति शब्दो ग्रन्थकारवाक्यसमाप्तौ । अत्र दोषान्तरमाह तत्कारित्वस्य च इति ।
तत्कारित्वस्य च - अर्थक्रियाकारित्वस्य च प्रत्यक्षानुपलम्भात्मकौ - प्रत्यक्षानुपलम्भरूपौ यौ अन्वयव्यतिरेकौ ताभ्यां गम्यस्य - प्राप्यस्य, सत्त्वासत्त्वाभ्यां ज्ञातुं योग्यस्येसि यावत् । अप्रत्यक्षत्वे - तत्कालमनुपलम्भे सति, सतोऽपि - सत्तां भजतोऽपि तदाधारस्य वस्तुनः अप्रत्यक्षत्वप्राप्तेः - तात्कालिकानुपलम्भप्रसङ्गात्, न च तद् युक्तमिति भावः । ननु तर्ह्यर्थक्रियाकरणयोग्यत्वमात्रमेव सत्त्वमस्तु येन नोक्तदोषप्रसङ्गः । योग्यता हि तस्य सर्वदैव स्थितेत्यत आह नार्थ इति । कुत इत्यपेक्षायामाह तस्य इति । तस्य - अर्थक्रियाकरणयोग्यत्वस्य,
सत्यासत्यके निश्चयकाले दुरवधारत्वात्, [दुरवधानत्वात् - क्। ष्। ष्।] सर्वस्य च अस्य अप्रकाशमानत्वेन नरशृङ्गप्रायत्वम्, [अप्रकाशमानत्वे नरशृङ्गप्रायत्वम् - क्। ष्। ष्।] अर्थक्रियान्तरपर्येषणे [अर्थक्रियाकारितान्तरपर्येषणे - क्। ष्। ष्।] च अनवस्था, इति प्रकाशमानतैव अनुन्मूल्यमानतथोचितविमर्शपरिस्पन्दा भावस्य सत्त्वम्, सा च भेदाभेदवपुषां सम्बन्धादीनामस्ति, इति - निराशङ्कमेव सत्यत्वमेव एषाम्, [तेषाम् - क्। ष्। ष्।] तथापि यदि परोऽनुबध्नीयात् - इह लोकः
सत्यासत्यके निश्चयकाले, भावप्रधानो निर्देशः, सत्यत्वासत्यत्वसम्बन्धिनिश्चयसमये, दुरवधारत्वात् - निर्णेतुमशक्यत्वात्, सत्त्वासत्त्ववशेनैव हि सत्यत्वासत्यत्वनिश्चयो भवति इति भावः । सामस्त्येनापि दोषप्रसङ्गमाह सर्वस्य इति ।
सर्वस्य च अस्य पक्षत्रयस्य, अप्रकाशमानत्वेन नरशृङ्गप्रायत्वम् नरशृङ्गसदृशत्वम्, अत्यन्ताभाव इति यावत् भवति, न ह्यर्थक्रियादित्रयं प्रकाशमानं सत्तायुक्तस्यैव प्रकाशमानत्वयोगात्, सत्तायाश्च बौधमतेऽर्थक्रियारूपत्वेनात्मा- श्रयापत्तेरर्थक्रियागतत्वायोगात्, सत्ताया असम्भवेनेति भावः ।
ननु एतद्दोषनिवारणार्थं अर्थक्रियान्तरमेवाङ्गीकुर्मः इत्यत आह अर्थक्रियान्तर इति । अर्थक्रियान्तरस्य - अन्यस्या अर्थक्रियायाः, पर्येषणे - अनुसरणे पूर्वस्या अर्थक्रियायाः सत्त्वभावेनाङ्गीकारे इति यावत्, अनवस्था - मूलक्षतिकरी अनवस्था स्यात् तस्या अपि अर्थक्रियान्तरसापेक्षत्वात् । इति - अतः कारणात्, प्रकाशमानतैव - कैवलं प्रकाशकर्तृत्त्वमेव, भावस्य - नीलसुखादेः वस्तुनः, सत्त्वम् - स्वरूपं भवति, व्यवस्थापकत्वद्वारेण तन्मयतासादनात् । कीदृशी ? अनुन्मूल्यमानः - अवाध्यमानः, तथोचितः - तस्मिन् प्रकारे योग्यः, विमर्शपरिस्पन्दः - विकल्पाख्यो व्यापारः यस्याः सा, अन्यथा शुक्तिकाविषयस्य रजतप्रकाशस्यापि रजतसत्त्वभावः स्यादिति भावः । सा च - प्रकाशमानता च, भेदाभेदवपुषाम् - एकानेकस्वभावत्वेन साधितानाम् सम्बन्धादीनाम् - सम्बन्धानाम् आदिशब्दात् सामान्यादीनां च, अस्ति । इति - अतः, एषां निराशङ्कम् - निःसंशयं सत्यत्वं भवति, तथापि - एवमपि सति, परः - बौद्धः, अनुबध्नीयात् - अनुबन्धं कुर्यात् ।
अनुबन्ध -
प्राचुर्येण अर्थक्रियार्थी तत्कारिणि सत्यत्वं व्यवहरति, तत् किं सम्बन्धादीनाम् अस्ति इति, तदस्य हृदयम् आश्वास्यते, यदि न कुप्यसि तत् सर्वत्रैव व्यवहारे यत्रापि स्फुटा सम्बन्धादिधीः न उदेति एवमेव तत्रापि, इति सम्बन्धादिरूपतया भेदाभेदवान् योऽर्थः तेनैव अथक्रिया, न तु स्वात्ममात्रविश्रान्तेन काचिदपि कदाचिदपि अर्थक्रिया, तथाहि सुखेन स्मर्यमाणेन अभिलाषः, इत्याइ क्रमेण सर्वो व्यवहारः सुखाभासश्च योऽनुभूतः स एव अभिलष्यते न तु अन्योऽननुभूतः, स एव च यदि प्राप्यते तदभिलषितं प्राप्तम् इति तुष्यते यदि च तत् तदेव तर्हि किम् अभिलष्यते - प्राप्तत्वात्, अथ अतदेव तथापि कथम् अर्थ्यते - अज्ञातत्वात्, तस्मात् एतत् एवं भवति - यदि तदेव च अतदेव च तदपि च अतदपि च इति । एवं सुखसाधनेषु वाच्यम् । तदुक्तम् आचार्येणैव :-
स्वरूपमाह इह इति । प्राचुर्येण - बाहुल्येन, तत्कारिणि - अर्थक्रियाकारिणि, तत् - सत्यत्वम्, किमस्ति, नास्तीत्यर्थः । इति शब्दो बौद्धानुबन्धसमाप्तौ । तत् - तर्हि, अस्य - परस्य, सम्मुख एव समाश्वासनं करोति, यदि इति तत् तदा, सर्वत्र कुत्रेत्यपेक्षायामाह यत्र इति स्फुटा - प्रकटा, तत्रापि - तस्मिन् विषयेऽपि, भेदाभेदवान् - एकानेकस्वभावत्वेन भेदाभेदयुक्तः, काचिदपि, न कापीत्यर्थः । कदाचिदपि, जात्वपीत्यर्थः । अत्र समर्थनमुपक्रमते तथाहि इति । सुखेन कपित्थादिवस्तुकृतेन अनुकूलवेदनीयेन गुणविशेषेण, अभिलाषः - कपित्थादिवस्तु प्रत्यौत्सुक्यम्, आदि शब्देन कपित्थादिविषयाहरणादिपरिग्रहः ।
ननु तर्हि सुखग्रहणम् सामान्यादिस्पर्शारूषितमेव स्यात् इत्यत आह सुख इति । तुष्यते - तृप्तेन भूयते कृतकृत्यत्वासादनात्, तथाच सुखग्रहणाख्ये व्यवहारेऽपि सम्बन्धधीरुदेत्येवेति भावः ।
ननु तत्र कथमेकानेकस्वभावत्वमित्यपेक्षायामाह यदि इति । तत् - अनुभूयमानसुखम् । तदेव - पूर्वानुभूतं सुखमेव, प्राप्तत्वात् इति । नहि प्राप्तेऽभिलाषो युक्तः इति भावः । अतदेव - अन्यदेव, तदेव च अतदपि भवति, अतदेव च तदपि भवति इति सम्बन्धः । इति शब्द एकानेकस्वभावतासाध समाप्तौ ।
कपित्थादावपि अमुं व्यायमतिदिशति एवम् इति । अत्र चाचार्यसम्मतिमाह तदुक्तम्
इष्टार्थितायामिष्टं वा विमृश्येतेष्टकारि वा । न चाप्यदृष्टमिष्टं द्यौरपीष्टाऽदृष्टभोगभूः ॥ दृष्टं च सह दृष्ट्यैव विनष्टमिति कार्थिता ।
द्रष्ट्रैक्येन [द्रष्ट्रैकेन - क्। ष्। ष्।] विमृष्टं तत्…
इति । किमुक्तमित्यपेक्षायामाह इष्ट इति । अत्रायमर्थः - धीमता इष्टार्थितायाम् - लक्षणाश्रयेण इष्टार्थितासमये इष्टसाधनार्थितासमये च इष्टं वा इष्टकारि वा इष्टसाधनं वा उभयत्रापि वाशब्दः द्वयोरपि प्राधान्यद्योतनार्थः ।
विमृश्येत - विचारविषयतां नीयेत, किं पूर्वदृष्टमेतद्युक्तमुतादृष्टमिति । विमर्शसिद्ध वस्तु स्वयमेव सिद्धत्वेन कथयति नचापि इति । तत् इष्टमदृष्टं न च अपि भवति, यतस्तत्त्वे अदृष्टभोगभूः - अननुभूतभोगस्थानम्, द्यौरपि इष्टा स्यात् । इह च प्रत्यक्षानुभूतविषयेष्टतापेक्षयैवमुक्तम्, आगमसिद्धविषयेष्टता [आगामिसिद्धविषयष्टता - च्।] त्विहापि विद्यते एव । ननु तर्हि दृष्टस्यैवेष्टत्वं भवत्वित्यत आह दृष्टं च इति । विनष्टम् इति, क्षणिकत्वादिति भावः । इति - अतः कार्थिता नहि विनष्टे अर्थिता युक्तेति भावः । ननु तर्हि किं कार्यमित्यत आह द्रष्ट्रैक्येन इति । अतः अस्माभिः तत् - इष्टम्, द्रष्ट्रैक्येन विमृष्टम् - द्रष्ट्रा सह एकत्वन विमृष्टम्, द्रष्टरि संस्कारभावेन स्थितं विमृष्टं विचारितमिति यावत् । सर्वं वस्तु पूर्वानुभूतसुखत्वतत्साधनत्वस्मृत्यैवोपादीयते इति भावः ।
ननु तर्हि प्रथमं कथमुपादानमस्तीति चेत् संशयेनेति बूमः ।
तर्हि तत्र सम्बन्धानपेक्षा, नैतत्, संशयो हि द्विकोटिनिष्ठत्वेन योजनाप्राण एव, अथवा पूर्वसाधिता काप्यान्तरी योजना सर्वव्यवहारसाधनं यया सद्योजातबालेष्वपि स्तन्यविषयो व्यवहारो दृश्यते इत्यलं पुनः पुर्वा रहस्योद्घाटनेन । इति शब्द आचार्यवाक्य - समाप्तौ । आदि शब्दः अन्येषां तत्रत्यवाक्यानां ग्रहणपरः । उक्तप्रक्रिया -
इत्यादि । एवं च आभासात्मनि अस्मिन् असंवेद्यमपि आभासान्तरं सामान्यसम्बन्धरूपतया अनुप्रविष्टम्, अन्यथा न कथञ्चिद्व्यवहारः इति सकलदेशकालदशापुरुषोपयोगी यदि अयं [एष व्यवहारः - क्। ष्। ष्।] व्यवहारो न सत्यः तर्हि न अन्यस्य सत्यत्वं विद्मः - इति न अत्र भ्रान्तिः इति भ्रमितव्यम् । इति शिवम् ॥ ७ ॥
आदितः ॥ १०४ ॥
फलितवस्त्ववष्टम्भेन श्लोकस्य योजनां करोति एवं च इति । एवं च एवं च सति, अस्मिन् आभासात्मनि, भासमाने आभासरूपे नीलसुखादिभाव जाते, असंवेद्यमपि, संवेद्यस्य तु कथैव नास्ति इति भावः । आभासान्तरम् - स्फुटतयाऽगृहीतोऽपि अन्यः आभासः, सामान्यसम्बन्धरूपतयाऽनुप्रविष्टं भवति, अन्यथा - तदभावे, व्यवहारः कथञ्चिदपि न स्यात् समनन्तरमेवोक्तत्वात् । सकलदेशकालदशापुरुषोपयोगी - समस्तेषु देशेषु कालेषु दशासु पुरुषस्य उपकारी, अयं व्यवहारः यदि सत्यो न भवति वयं तर्ह्यन्यस्य सत्यत्वं न विद्मः, इति - अतः कारणात् पुरुषेणास्मिन् विषये न भ्रमितव्यम् - भ्रमो न कार्यः, इति किमिति भ्रान्तिः - अयं व्यहारः भ्रान्तिः भ्रमसिद्धत्वेन भ्रान्तिरूपः भवति । ननु तर्हि कथं ग्रन्थकृतैवान्यत्रोक्तम् ।
रज्वां नास्ति भुजङ्गस्त्रासं कुरुते च मृत्युपर्यन्तम्, । भ्रान्तेर्महती शक्तिर्निश्चेतुं केन शक्यते नाम ॥
इति । सत्यम्, मायाधोवर्तिनः प्रत्येवमुक्तम्, तेषां हि भ्रान्तिरूपा माया तावदाश्रयणीया, ये तु तदुपरिगतं शुद्धविद्यातत्त्वं प्राप्ता अत एव मायातत्त्वान्निर्गतास्ते समस्तं जगत् भानमात्रसिद्धत्वेन परमार्थसत्यशुद्धप्रकाशरूपमेव पश्यन्ति, प्रकाशो हि भानमेव, परन्तु विषयोपरागरहितम् । ननु तर्हि विषयोपरागस्य तद् व्यतिरिक्तत्वमायातम्, न, तस्यैव तदुपरागीकरणायोगात्, सर्वं वा यथास्थितम् एव भवतु, महाद्वैतनिष्ठानां न कापि हानिः । महाद्वैते हि भेदस्य तत्त्वेनाभेदस्याभेदकत्वेनैकप्रकाशरूपत्वं न विघटतेऽन्यथाद्वैताभासत्वापातात्, यथा पर्णे भासमानं रेखावृन्दं पर्णमेव तथा प्रकाशे भासमानं भाववृन्दं प्रकाश एव, तदभावेऽप्रकाशोऽप्रकाश एव भवेत् । तदुक्तम् :-
अस्थास्यदेकरूपेण वपुषा चेन्महेश्वरः । महेश्वरत्वे संवित्त्वं तदत्यक्ष्यत् घटादिवत् ॥
इति श्रीमदाचार्योत्पलदेवपादविरचितायामीश्वरप्रत्यभिज्ञायां श्रीमदाचार्याभिनवगुप्तपादकृतविमर्शिन्याख्यटीकोपेतायां क्रियाधिकारे भेदाभेदावमशनं नाम द्वितीयमाह्निकम् ॥ २ ॥
अत्र हि महेश्वरशब्देन विमर्शाख्यमाहेश्वर्ययुक्तः प्रकाशः एव उक्तः संवित्त्वं तु भावभावेन भानम् इति ।
यत्त्वज्ञदृष्ट्या सत्यत्वं तदन्यत् किञ्चिदेव सत्याभासरूपत्वादिति तैरप्ययमभिमानो न कार्यः वयं भावेषु सत्यत्वदर्शिनः इति, तेषां भ्रान्तिपदेऽप्यनारूढत्वादित्यलम् । इति शब्दः आह्निकसमाप्तौ, शिवशब्दः मङ्गलवाचकः परतत्त्वसूचनपरश्चेति शिवम् ॥ ७ ॥
इति श्रीमन्महामाहेश्वराचार्यवर्यश्रीभास्करकण्ठ- विरचितायां श्रीप्रत्यभिज्ञासूत्रविमर्शिनीटीकायां भास्कर्याख्यायां क्रियाधिकारे द्वितीयमाह्निकम् ॥ २ ॥