विमर्शिनी
विततविशदस्वात्मादर्शे स्वशक्तिरसोज्ज्वलां
प्रकटयति यो मातृस्वांशप्रमेयतटद्वये ।
बहुतरभवद्भङ्गीभूमिं क्रियासरितं परां
प्रकटयतु नः श्रीमान्गौरीपतिः स ऋतं परम् ॥ १ ॥
भास्करी
ॐ - स्वभूमौ येनास्यामहमिति निजामर्शरसतः
सुसिक्ता व्यासुप्ताद्विदिमयस्वबीजादिव सदा ।
प्रकाशव्याप्तायां भिदि कुसुमिता भेदफलिनी
क्रियावीरुद्रूढा तमिह हृदि सेवे परशिवम् ॥
एवं ज्ञानाधिकाराख्यं प्रथमं विमर्शं व्याख्याय क्रियाधिकाराख्यस्य द्वितीयस्य विमर्शस्य निर्विघ्नपरिसमाप्तये प्रचयगमनाय च मनसोऽन्तः सम्यगनुष्ठितमपि बहिः शिष्यशिक्षार्थं परतत्त्वानुस्मरणरूपं मङ्गलमाशीरीत्या समस्ताधिकारतात्पर्यसूचकेन श्लोकेनोपनिबध्नाति वितत इति । यः - सर्वेषामात्मत्वेन प्रसिद्धः, श्रीमान् - अहंविमर्शाख्यमहा
- स्वातन्त्र्यरूपमाहेश्वर्ययुक्तः, अत एव गौर्याः - अतिनिर्मलाया अस्या एव शक्तेः, पतिः - शक्तिमत्त्वेन स्थितत्वाद् भर्तृरूपः, विमर्शनिर्भरप्रकाश इति यावत् । परमृतम् - निजस्वरूपाख्यं पूर्णं सत्यं वस्तु, नः - स्वांशभूतानां परिमिताहंविषयाणां प्रमातॄणाम्, प्रकटयतु - देहादिन्यक्कारेण निजस्वरूपतया स्फुरणशीलं करोतु, येन ते स्वात्मानं तद्रूपं तदैश्वर्ययुक्तं चानुभवन्तीति भावः । स कः ? यो गौरीपतिः विततः - सर्वव्यापकश्चासौ विशदश्च - सङ्क्रान्तभाववृन्दकृतलेप - गहित्येनातिनिर्मलश्च यः
स्वात्मा - प्रकाशाख्यो निज आत्मा, स एव प्रतिबिम्बसहिष्णुत्वेना - दर्शः, तस्मिन । पराम् - सर्वविषयत्वेन पूर्णाम्, क्रियासरितम् - ज्ञानशक्तिपुष्टीभावरूपां करणसशक्तिमेव नदीम्, प्रकटयति - प्रतिबिम्बभावेन बहिः स्फुरणशिलां करोति, अन्यथा भासमानत्वा - योगात् । सरितं कीदृशीम् ? मातृरूपाः - ग्राहकरूपाः ये स्वांशाः - रुद्रक्षेत्रज्ञरूपाः, परिमितप्रमातार इति यावत्, ते च प्रमेयाणि च
- तद्विषयीभूतं ग्राह्यजातं च, तान्येव तटद्वयम् - आश्रयविषयरूपं तीरद्वयम्, तत्र, तन्मध्ये इति यावत् ।
स्वशक्तिरसेन - निजामर्शरूपजलेन, उज्ज्वलाम् - रम्याम्, दत्तसत्तामिति यावत् । विमर्शशक्तिरेव [विमर्शशक्तेरेव - च्।] ज्ञानशक्तित्वमासाद्य क्रियाशक्तिभावेन स्फुरति । अहं जानामि अहं करोमि इत्यत्र हि प्रथममहम्परामर्शः जानामीति भावेन परिणमते, ततः करणभावेन स्फुरति, अन्यथा शिलादेरपि करणप्रसङ्गात्, युक्तञ्च नद्यास्तीरद्वयमध्ये जलकृतमुज्ज्वलत्वम् । पुनः कीदृशीम् ? बहुतरम् भवन्त्यः याः भङ्ग्यः - कालादिरूपाः वीचयः, तासां भूमिम् - अनन्यसाधारणं स्थानम् । सरितश्च स्वभावेन भङ्ग्यो भवन्त्येव । इयमेव च बहिः स्फुटमनुभूयमाना परमेश्वरशक्तिपाता - स्पृष्टानां रागद्वेषादिविवशकारित्वेन संसारपदम्, तत्स्पृष्टानां [तत्सृष्टानाम् - च्।] तु तत्प्राप्तौ सोपानभूता एव, मूलान्वेषणा - द्वारेण तत्प्राप्तिकारित्वादिति सामान्यदृष्ट्या न दर्शनीया । तदुक्तम् : -
सेयं क्रियात्मिका शक्तिः शिवस्य पशुवर्तिनी । बन्धयित्री स्वमार्गस्था ज्ञाता सिद्ध्युपपादिका ॥
इति । तथा परमेश्वरस्थानुत्तरादिभावेन [अनुत्तराभिभावेन - च्।] व्यस्तत्वेनं स्फुरणादकारादिकलाविलुप्तैक्यरूपविभवस्य ततश्च तत्स्वरूपशब्दराशिप्रादुर्भूतस्वरवर्गकवर्गाद्यष्टकरूपमा त्र - कस्य [सुरवर्गः - च्।] सङ्कल्पविवशताद्वारेण परमार्थन्तो भोक्त्तृत्वेऽपि भोग्यतां गतस्य अत एव पशुतुल्यस्येयमेव स्वात्मप्रच्छादनक्रीडा पर्यन्तभूतैव [पर्यन्तभूतेव - च्।] ।
तदुक्तम् : -
शब्दराशिसमुत्थस्य शक्तिवर्गस्य भोग्यताम् । कलाविलुप्तविभवो गतः सन् [चन्द - च्।] स पशुः स्मृतः ॥
इति । अत्रायमर्थः । पण्डितैः सः - स्वान्तःकृतकुलाकुलपरतत्त्वरूप
- महाकुलाख्यपतिवाचकत्वेन प्रसिद्धः । स्वान्तर्निगीर्णसकलवर्ण
- कलापः प्रत्याहाररूपः अहं - शब्दः । पशुः - लक्षणया पशुवाचकः, अत एव च पशुबुद्धौ अनच्कहकारवाच्यजीववाच - कास्मच्छब्दरूपतया [पशुबद्धो वच्छहकार - च्।] स्थितः, मूढान् प्रतीति शेषः, मूढा हि व्याकरणमात्रे प्राप्तनिष्ठाः कृतामादेशसुप्रत्ययान्तकृताहादेशास्मच्छब्दरूपमेवाहमिति शब्दं जानते, न तु अनुत्तरात् प्रवृत्तः इत्यादिनीत्याऽकारहकारसमुदा - यरूपं पदत्वसिद्धये कृतसुप्रत्ययान्त अहं इतिप्रत्याहाररूपं स्वरूपसहितमध्यगसमस्तवर्णग्राहकम् । सः कीदृशः सन् ? शब्दराशेः - स्वान्तर्निगीर्णात् अकारादिहकारान्तशब्दरूपवर्ण- समुदायात् उत्तिष्ठतीति तादृशस्य, शक्तिवर्गस्य - वर्गाष्टकतन्मयपदवाक्यात्मकमातृकाचक्रस्य, भोग्यताम् - आयुक्तताम्, आधेयतामिति यावत्, गतः सन्, बुद्धिपाटवरहितेषु हि वर्णारब्धा अपि वर्गादयो वर्णाधेयतंया स्फुरन्ति, अत्र वर्गादावेतत्सङ्ख्याका वर्णा इत्यादिनिश्चयदर्शनात् । कुतो भोग्यतां गत इत्यपेक्षायां हेतुगर्भं विशेषणमाह कला इति ।
कलाभिः - बुद्धिपाटवरहितेषु ततो भिन्नतया स्फुरद्भिः निजैरकाराद्यवयवैः, विलुप्तः विभवः - समस्तवर्णान्तः - कृतिरूपमैश्वर्यं यस्य तादृशः, एकाशीतिमात्रामयत्वेऽपि सार्धमात्राद्वयमात्रभावेन स्फुरणात् तस्य मातृकारूपशक्तिवर्गभोग्यता सम्पन्नेति भावः ।
अथ च पण्डितैः सः - पूर्णप्रकाशरूपे स्वात्मनि अहम्परामर्शकर्तृत्वेन स्थितः विमर्शसारः प्रकाशः, पशुविकल्पाख्यैः पाशैः बद्धत्वेन पशुशब्दवाच्यो जीवः, स्मृतः । तदुक्तम् : -
शिव एव गृहीतपशुभावः इति ।
कीदृशः सन् ? शब्दराशिसमुत्थस्य - स्वरूपभूतनिजविमर्शरूपा- नुत्तरादिवाचकाकाराद्यान्तरशब्दनरूपवर्णसमूहात् प्रादुर्भू-तस्य, शक्तिवर्गस्य - ब्राह्म्यादिशक्तिरूपस्य वर्गादिमातृकाष्टकस्य तथा तदारब्धस्य पदवाक्यसमूहस्वरूपस्य
क्षुद्रशक्तिसमूहस्य च, भोग्यताम् - विकल्पद्वारेण परायत्तताम्, गतः सन् । कुतो गत इत्यत् आह कला इति । कलाभिः - निजविमर्शांशभूतैः अकारादिवर्णैः, विलुप्तः - व्यस्तत्वेन स्फुरणात् नाशितः, विभवः - मातृकोद्भावकत्वाख्यमैश्वर्यं यस्य तादृशः । अयं भावः - पूर्णचिद्रूपः परशिवाख्यः परमात्मा स्वेच्छया स्वात्मविश्रान्तनिजामर्शलेशतयाऽनुत्तरादिवाचकान् अकारादिवर्णान् प्रोद्भाव्य तत्र च योजनाद्वारेण वर्गाष्टकं नानाविधं पदवाक्यसमूहं च प्रकटीकृत्य संस्कारभावेन तेषां विकल्परूपतां सम्पाद्य ततो विकल्पाधीनतां स्वस्य कृत्वा पशुरूपजीवभावेन स्फुरति । एतदेव च ब्राह्म्यादिमातॄणां मातृत्वं यत्तस्य परिवारभावेन तिष्ठन्ति, विकल्पा हि चिद्रूपस्य जीवस्य परितो वारणात् परिवार एव, मातृशब्दो ह्यत्र परिवारवाच्येव न जननीवाचकः, वाक्प्रपञ्चं प्रति तु कारणत्वेन जननीवाचकमपि भवत्वित्यलमतिबह्वया रहस्यचर्चया ।
अथ च पण्डितैः सः - समस्ततत्त्वाधारतया प्रसिद्धः सप्तत्रिंशः परशिवः, पशुः - पञ्चविंशाण्डतत्त्वरूपः, स्मृतः । यद्यपि सर्वाणि तत्त्वानि तद्रूपाण्येव तथाप्यधिकारापेक्षयैवमुक्तम् । कीदृशः सन् ? शक्तिवर्गस्य - तत्त्वेषु यथास्वं स्थितस्य शक्तिसमूहस्य, [यथास्वं स्थितस्य शक्तिभोग्यतां समूहस्य - च्।] भोग्यताम् - नियोजकत्वेऽपि नियोज्यताम्, गतः सन् कुतः ? यतः कलाभिः - शिवादिभूम्यन्ततया स्थितैः तत्त्वरूपैः स्वांशैः, विलुप्तविभवः - नष्टपूर्णत्वः ।
शक्तिवर्गस्य कीदृशस्य ? शब्दराशिसमुत्थस्य - शब्दराशिरूपाद् भैरव कल्पात्परशिवात् प्रादुर्भूतस्य । तदुक्तम् : -
एकामर्शस्वभावत्वे शब्दराशिस्स भैरवः ।
इति । एतेन क्रियाशक्तिरत्र निर्णेतव्यत्वेन स्थितेति सूचितम् । ननु पूर्वं ज्ञानाधिकारारम्भे मङ्गलं किं न कृतम्, सत्यम्, तत्र सकलशास्त्र-निर्विघ्नपरिसमाप्तये बहु मङ्गलमेव कृतम्, तेनैव तस्यापि समङ्गलत्वं ज्ञात्वा पुनर्न कृतम्, नहि कर्षणाद्यर्थमानीत-मुदकुम्भादि मङ्गलवस्तु तदनन्तरभाविबीजावपनाद्यर्थं न भवतीति वक्तुं युक्तम् । इह तु व्यवधानाशङ्कया पुनः कृतम् । यद्यपि परतत्त्वनिर्णयपरस्यास्य शास्त्रस्य कुत्रापि व्यवधानं न सम्भवत्येव तथापि शिष्यशिक्षार्थं ग्रन्थकारशैली न त्यक्तेत्यलम् ।
यत्र विश्रान्तिमासाद्य चित्रं क्रीडाविजृम्भितम् ।
क्रियाशक्तिप्रियात्यन्तं [क्रियाशक्तिः प्रिया - क्। ष्। ष्।] दर्शयेत्तं स्तुमः शिवम् ॥ २ ॥
अथ क्रियाशक्तिस्वरूपं वितस्य निर्णेतुम् अधिकारान्तरम् आरभ्यते ।
तत्र श्लोकाष्टकेन
अत एव…,
इत्यादिना
यदवभास्यते…,
यस्यावष्टम्भयोगेन नानाक्रीडामयीं स्थितिम् । नारीव भर्तुर्भजते सा क्रिया तं स्तुमः शिवम् ॥
एवमधिकारनिमित्तं मङ्गलं विधाय प्रथमाह्निकनिर्विघ्न-समाप्तिहेतुभूतमपि मङ्गलं तदभिप्रायसूचनपरेण श्लोकेनोपनिबध्नाति यत्र इति ।
वयं तं शिवम् - बहुधा प्रोक्तस्वरूपविभवं परमेश्वराख्यं तत्त्वम्, स्तुमः । तं कम् ? क्रियाशक्तिप्रिया - क्रियाशक्तिरूपा कान्ता, यत्र - यस्मिन् शिवे, विश्रान्तिम्, - विश्रामम्, आसाद्य, यदभिन्नत्वेन [यद्भिन्नत्वेन - च्।] स्थित्वेति यावत् । चित्रम् - असम्भवोपहतत्वेनाश्चर्यकारि नानाविधं च, क्रिडाविजृम्भितम् - कालादिनिर्मातृतारूपं क्रीडाविलसितम्, अत्यन्तं दर्शयेत् दर्शयितुं शक्ता भवति, शक्यत्र लिङ्, अन्यथा जडत्वेनाकिञ्चित्करत्वादिति भावः । युक्तञ्च प्रियाया भर्तरि विश्रान्तिमासाद्य क्रीडादर्शनं न तु चित्रमिति व्यतिरेकालङ्कारो व्यङ्ग्यः । अप्रिया तु तत्राशक्तैवेति प्रियेत्युक्तम् । क्रियाशक्तेश्चाहं जानामीत्यत्र ज्ञानशक्तेरिवाहं - करोमीत्यत्राहंशब्दवाच्ये परमात्मस्वरूपे शिवे विश्रान्तिः स्फुटैव, स्फुटं प्रमातृलग्नत्वेनैव स्फुरणात् । एतेन क्रियाशक्तेरत्राह्निके निरूपणं स्थितमिति सूचितम् । एवं मङ्गलद्वयं सम्पाद्य क्रियाधिकारकथनं प्रतिजानीते, अथ इति ।
अत्र टीकाः : -
अथ - ज्ञानाधिकारानन्तरम्, वितत्य इत्यनेन ज्ञानाधिकारे सङ्क्षेपेण क्रियास्वरूपनिर्णयः कृत इति सूचितम् । आरभ्यते इति, सूत्रकारेणेति भावः ।
इत्यन्तेन परमेश्वरे परमार्थतोऽक्रमा क्रिया, परिमितसांसारिकप्रमातृक्रमावभासनयोगात् [परिमितसांसारिकप्रमातृगतक्रम - क्। ष्। ष्।] सक्रमापि च, इत्युपपाद्यते । तथाहि श्लोकेन उक्तपूर्वपक्षप्रतिक्षेपः ।
ततः श्लोकेन सक्रमत्वाक्रमत्वविवेकः । ततः श्लोकत्रयेण क्रमस्वरूपनिरूपणम् । ततः श्लोकद्वयेन सक्रमत्वा - क्रमत्वयोर्विषयविभागः, विषयविभागे च सति वस्तुतः एकत्रैव तयोः विश्रान्तिः, इति श्लोकेन निरूप्यते, इति तात्पर्यम् आह्निकस्य ।
आह्निकाभिप्रायं सामस्त्येन कथयति तत्र इति । तत्र - प्रतिज्ञातक्रियाधिकारमध्ये, प्रथममिति शेषः । श्लोकाष्टकेन, प्रथमाह्निकारम्भकेणेत्यर्थः ।
श्लोकाष्टकमाद्यन्ताभ्यामुपलक्षयति अत एव इति । इति उपपाद्यते - एवमुपपत्त्या स्थाप्यते । इति किमिति ? परमेश्वरे - श्रीशिवभट्टारके, परमार्थतः - सत्यदृष्ट्या, क्रिया अक्रमा भवति भासमानस्य समस्तस्य देशकालकृतस्य क्रमस्य युगपत्तदन्तःस्थितत्वात्, दृश्यते च सक्रमत्वेन भासमानेषु मुद्रिकया सङ्क्रान्तेष्वक्षरेषु परमार्थतोऽक्रमत्वम्; युगपदेव पत्रादौ सङ्क्रान्तेः । अत्रापि च सर्वः क्रमहेतुर्देशादिः प्रागिवार्थः इति न्यायेन प्रकाशशरीरान्तर्गत एव भाति, इति तदन्तर्गतभावजातसक्रमत्वसम्पादनशक्तावपि न तं सक्रमीकर्तुं शक्तः, यथातथा कल्पितस्य तत्क्रमस्यापि तदन्तर्गतत्वानपायात्, अन्यथा महाद्वैतासिद्धेः, तदसिद्धौ च तद्विषयत्वेन प्रवृत्तस्य शास्त्रजातस्य निर्विषयत्वापातात्, तत्र निर्विषयत्वे च तेन प्रसङ्गालोचितस्य तदितरव्यवहार- जातस्यासम्यक्प्रतिष्ठानालब्धेः, तन्मतभरितमेव जगत् स्यादिति भावः । तथा सा क्रिया परिमिताः - परप्रमात्रंशरूपाः ये सांसारिकाः - विश्रान्तिपदात् प्रच्यावेन संसृतौ स्थिताः प्रमातारः, तेषु यत् क्रमावभासनं तस्य योगात्, सक्रमाऽपि भवति । कथमुपपाद्यते इत्यपेक्षायां व्यस्तत्वेन श्लोकाष्टकाभिप्रायं कथयितुमुपक्रमते तथाहि इति । उक्तः - ज्ञानाधिकार प्रारम्भे प्रोक्तः, अर्थात् तत्रानुपयोगित्वेन अप्रातसमाहितः, यः पूर्वपक्षः तस्य प्रतिक्षेपः - प्रतिसमाधानम् । ततः - तदनन्तरम्, विषयविभागः - विषयविभजनम्, भिन्नविषयतया कथनमिति यावत् । तयोः - सक्रमत्वाक्रमत्वयोः, आह्निकस्य, प्रथमाह्निकस्येत्यर्थः ।
अथ श्लोकार्थो [श्लोकार्थस्तु निरूप्यते - च्।] विभज्यते । तत्र पूर्वोक्ते ज्ञानशक्तिसमर्थनोपयोगिनिमेये सिद्धे प्रमेयान्तरमपि अयत्नतः सिद्धम्, इति अधिकरणसिद्धन्तदिशा दर्शयति : -
कारिका :
अत एव यदप्युक्तं क्रिया नैकस्य सक्रमा । एकेत्यादि प्रतिक्षिप्तं तदेकस्य समर्थनात् ॥ १ ॥
यत् तावत् उक्तम् ज्ञानान्येव अनुभवविकल्परूपादिभिन्नानि न तेषाम् आश्रयोऽस्ति कश्चित्, संस्काराच्च स्मृतिः सिद्धा ज्ञानं च जडं चेत् न अर्थस्य प्रकाशः, अजडं चेत् देशकालसङ्कोचवैकल्यात् आत्म-तत्त्वात् अभिन्नम् इति, तत् तावत् प्रतिक्षिप्तं भिन्नानामनुभवादी-नामनुपपत्तेः वितत्य दर्शितत्वात् । न च संस्कारमात्रात् स्मृतिः
अथ श्लोकार्थकथनं प्रतिजानीते अथं इति । विभज्यते, विभागेन कथ्यते इत्यर्थः ।
अथ प्रथमस्य श्लोकस्यावतरणिकां करोति तत्र इति ।
अत्र टीकाः :-
प्रमेयान्तरम् - ज्ञानशक्तिसमर्थनसमयेऽनुपयोगित्वेन तत्रासमर्थितं क्रियाशक्तिसमर्थनोपयोगि अन्यत् निर्णेयं वस्तु, अधिकरणसिद्धान्तदिशा - अधिकरणसिद्धान्तरीत्या ।
एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । अत एव इति ।
अत्र टीका -
तत्र प्रथमम् अपि शब्दाभिप्रायं कथयति यत् इति । उक्तम् इति, ज्ञानाधिकारे पूर्वपक्षनिर्णये, तेषाम् - अनुभवादीनाम्, आश्रयः - आत्मस्वरूप एकाधारः, प्रतिक्षिप्तम् - प्रतिसमाहितम्, कुत इत्यपेक्षायामाह - भिन्नानाम् इति । अनुपपत्तेः - अनुपपद्यमानतायाः । उक्तम् - सम्यङ् निर्णीतम् । तस्य - परप्रमातुः, यत् स्वातन्त्र्यं तेनावभासितानि यानि ज्ञयानि तैः य उपरागः - स्वावच्छिन्निकरणम्, तस्य वशात् - सामर्थ्येन । तस्य -
इत्येतदप्युक्तम्, अजडमेव च असङ्कुचितरूपं ज्ञानम्, तत्स्वातन्त्र्याव-भासितज्ञेयोपरागवशात् तु तस्य [अस्य - क्। ष्। ष्।] सङ्कोचावभास इत्यपि दर्शितं यतः, न केवलम् अतो हेतुकलापात् ज्ञानशक्तिचोद्यानि निवारितानि, यावत् क्रियाशक्तिविषयाण्यपि दूषणानि अत एव हेतुकलापात् [हेतुजातात् - क्। ष्। ष्।] अपसारितानि इति अपिशब्दः [अपसारितानि, इति अपिशब्दार्थः - क्। ष्। ष्।] । एका क्रिया क्रमिका कथम् आश्रयस्य एकस्वभावत्वे सति घटते ? इति यदुक्तम्, तथा
तत्र तत्र स्थिते…,
इति,
द्विष्ठस्यानेकरूपत्वात्…,
इति च यदुक्तं तदपि प्रतिक्षिप्तमेव, यतः इयति पूर्वपक्षे इयदेव जीवितम्
ज्ञानस्य, यतः इति, तत्तावत् प्रतिक्षिप्तम् इत्यपि दर्शितम् [इत्येतदप्युक्तम् - इत्यपि दर्शितम् -च्।] - इत्येतदप्युक्तम् । अतो हेतुकलापात् [ततः कारणात् - अतो हेतुकलापात् - च्।] - ततः कारणात्, न केवलं ज्ञानशक्तिचोद्यानि निवारितानि - अपसारितानि, यावत् - यावता, क्रियाशक्तिविषयाण्यपि दूषणानि - चोद्यान्यपि, अत एव हेतुकलापात् अपसारितानि - अधिकरणसिद्धन्तावष्टम्भेन निवारितानि । इति - एतदर्थम् । एतदेव द्योतयितुमिति यावत् । अपिशब्दः भवति । एवं समुच्चयवाचि अपि शब्दाभिप्रायमुक्त्वा श्लोकं व्याचष्टे - एका इति । एकस्वभावत्वे, एकरूपत्वे सतीत्यर्थः । उक्तम्, ज्ञानाधिकारोक्ते पूर्वपक्षे इति भावः । तथा शब्दः समुच्चये, तद्वदित्यर्थः । तत्र तत्र स्थिते इति, अस्मिन् श्लोके इत्यर्थः । इति च, अस्मिन् श्लोके चेत्यर्थः । प्रतिक्षिप्तमेव - प्रतिसमाहितमेव, अत एव हेतुकलापात् इति भावः । अपिशब्दाभि-प्रायकथने स्थितं सूत्रस्थस्यात एवेत्यस्य वाच्यभूतमिहापि योजनीयम् । एकस्यापि समर्थनात् इति सूत्रस्थं हेतुं व्याख्यातुमाह
एकमनेकस्वभावं कथं स्यात् इति । अत्र [तत्र - क्। ष्। ष्।] च उक्तं चित्स्वभावस्य दर्पणस्येव एकतानपबाधनेन आभासभेदसम्भवे क इव विरोध इति, तस्मात् प्रत्यभिज्ञानबलात् एकोऽपि असौ पदार्थात्मा स्वभावभेदान् विरुद्धान् यावत् अङ्गीकुरुते तावत् ते विरोधादेव क्रमरूपतया निर्भासमानाः तमेकं क्रियाश्रयं सम्पादयन्ति इति, ततश्च सम्बन्धादीनामपि उपपत्तिरिति ॥ १ ॥
ननु च क्रमिकत्वमेव क्रियायाः स्वरूपम्, क्रमश्च कालकलनाहीने
यतः इति । इयति पूर्वपक्षे - ज्ञानाधिकारे प्रोक्ते सर्वस्मिन् पूर्वपक्षे । इयत् किमित्यत आह एकम् इति । नन्वेतदेव परमार्थतोऽस्ति [परमात्मतः - च्।] इत्यत्राह अत्र इति । अत्र च - अस्मिन् विषये च ।
किमुक्तमित्यत आह चित्स्वभावस्य इति । एकतायाः अनपबाधनम् - बाधाऽविषयीकरणम्, एकतानपबाधनम्, तेन, आभासभेदसम्भवे - नीलपीताद्याभास-सम्भवे सति, विरोधः
- एकस्यानेकस्वभावत्वविरोधः, इति शब्दः एकत्वस्य समर्थनात् इति हेतोः व्याख्यासमाप्तौ । एतेन फलितं वस्त्वाह तस्मात् इति, प्रत्यभिज्ञानबलात् - योऽहं घटमद्राक्षम् सोऽहं स्पृशामीत्यादिप्रत्यभिज्ञावशतः, एकोऽपि सन् असौ - प्रकाशरूपः परप्रमाता, पदार्थात्मा - नीलपीतादिसारभूतः, स्वभावभेदान् - नीलपीतादिरूपान् स्वरूपभेदान्, विरुद्धन् - परस्परपरिहारेण स्थितत्वात् विरोधयुक्तान्, इति सब्दः फलितसमाप्तौ । अत्रापि फलितमाह ततश्च इति । आदि शब्देन स्मृत्यादेर्ग्रहणम् ।
एवमत्र योजना । पूर्पक्षे यदपि इत्यादि यदुक्तम्, तदपि - अर्थात् तत्रानुपयोगित्वेनाप्रतिसमाहितं तदपि, अत एव - पूर्वोक्ताद्धेतु- कलापाद्धेतोः प्रतिक्षिप्तम्, कुतः ? एकस्य परमात्मतत्त्वस्य समर्थनात्, इत्यादि किम् ? एका सक्रमा क्रिया एकस्य न भवति ॥ १ ॥
अथ द्वितीयस्य श्लोकस्यावतरणिकां करोति ननु च इति ।
अत्र टीका :-
क्रमिकत्वम् - क्रमभावित्वम्, पूर्वापरीभूतावयवयुक्तत्वमिति यावत् ।
चिन्मये भगवति नास्ति, इति कथम् अस्य सा भवेदित्याशङ्क्याह :-
सक्रमत्वं च लौकिक्याः क्रियायाः कालशक्तितः । घटते न तु शाश्वत्याः प्राभव्याः स्यात्प्रभोरिव ॥ २ ॥
उत्क्षिपति अपक्षिपति हस्तम् इति ये पूर्वोत्तरे क्षणाः ते क्रमवन्तः, तत्र येषां त एव क्रिया काणादादीनामिव [क्रिया काणादानामिव - क्। ष्। ष्।] तेषां सा सक्रमा प्रत्यक्षेणैव भाति ।
ये तु मन्यन्ते तथाभूतप्रत्यक्षपरिदृश्यमानरूपभेदसम्पादिका [तथाभूतपरिदृश्यमानभेदसम्पादिका - च्।] या असौ काचित् अतीन्द्रिया हस्तगता शक्तिर्व्यापारोद्बोधरूपा नित्यानुमेया तस्याः केवलं पूर्वापरीभूतत्वम् अनुमीयते, इति लौकिक्याः क्रियायाः सक्रमत्वं कालशक्तेः आभासविच्छेदनप्रदर्शनसामर्थ्यरूपात्
चिन्मये - चित्स्वरूपे। भगवति - माहेश्वर्ययुक्ते परप्रमातरि, अस्य - भगवतः, सा - क्रिया । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । सक्रमत्वम् इति ।
अत्र टीका -
तत्र प्रथमं सक्रमत्वं साधयति उत्क्षिपति इति । पूर्वोत्तरे - उत्क्षेपणापक्षेपणरूपाः, क्षणाः - क्रियाक्षणाः, क्रमवन्तः - पूर्वापरीभूतत्वेन क्रमविशिष्टाः, तत्र - क्रमवत्त्वे सति, येषां काणादादीनाम् इति सबन्धः, आदि शब्देन नैयायिकादिग्रहणम् । सा - क्रिया, भाति इति, उत्क्षेपणादीनां प्रत्यक्षगम्यत्वादिति भावः । ये तु, मीमासकादयस्तु इत्यर्थः ।
किं मन्यन्ते इत्यपेक्षायां वाक्यं कर्मत्वेनाह तथाभूत इति ।
प्रत्यक्ष [परिमृश्यमानः - च्।] परिदृश्यमानः यः रूपभेदः चैत्रादिहस्ततत्तद्देशसंयोगविशिष्टताकृतः स्वरूपभेदः तस्य सम्पादिका - सम्पादयित्री, व्यापारस्य - उत्क्षेपणादेः कर्मणः यः उद्बोधः तद्रूपा । पूर्वापरीभूतत्वम् - सक्रमत्वम्, लौकिक्याः - लोकसम्बन्धिन्याः, सक्रमत्वम् - क्रमसहितत्वम् ।
कालशक्तितः इति व्याचष्टे काल इति । अस्यापि व्याख्यां करोति आभास इति । आभासानाम् - नीलपीताद्याभासानां यद्विच्छेदनम् -
पारमेश्वरात् शक्तिविशेषात् घटते उपपद्यते, या तु प्रभोः सम्बन्धिनी तदव्यतिरिक्ता क्रियाशक्तिः शाश्वती कालेन अस्पृष्टा तस्याः सक्रमत्वम् अस्ति इति सम्भावनाऽपि नास्ति, यथा प्रभोः सक्रमत्वमसम्भाव्यं तथा अस्या [तस्या अपि - क्। ष्। ष्।] अपि । उक्तं हि :-
हस्तस्य सक्रमत्वे तद्गताऽपि क्रिया तथा स्यात् इति ॥ २ ॥
ननु कालो विशेष भावम् उपगच्छन् भावं स्वेन रूपेण अवच्छिनत्ति तत्र कोऽसौ कालो नाम इत्याशङ्क्याह :-
स्वविशिष्टताकरणेनान्योन्यतो भेदनम्, तस्य यत् प्रदर्शनम् - बाह्यभूमौ प्रमातृविषयीकरणम्, तत्र यत् सामर्थ्यम् - समर्थता, तद्रूपात्, पारमेश्वरात् - परमेश्वरसम्बन्धिनः ।
घटते इति व्याचष्टे उपपद्यते इति । एतेन घटते इत्यन्तश्लोकखण्डव्याख्या । न तु इत्यादि खण्डं व्याचष्टे या तु इति । प्राभव्याः इति व्याचष्टे प्रभोः इति । अत्रापि पर्यायमाह तत् इति । साश्वत्याः इति व्याचष्टे कालेन इति । कालेन अस्पृष्टा, कालकृतपरिच्छेदरहिता इत्यर्थः । सम्भावनापि नास्ति इति सम्भावनायां लिङ् इति सूचितम् । प्रभोरिव इति व्याचष्टे यथा इति ।
अस्या अपि - क्रियाया अपि । अत्र वृद्धसम्मतिमाह उक्तं हि इति ।
तद्गता - हस्तगता, तथा स्यात्, सक्रमा स्यात् इत्यर्थः । इति शब्दो व्याख्यासमाप्तौ । एतदेव च ।
उच्छलन्त्यपि संवित्तिः कालक्रमविवर्जनात् । तत्रैव च सती पूर्णा मानमेयादिरूपिणी ॥ १ ॥ पाकादिस्तु क्रिया कालपरिच्छेदात् क्रमाश्रिता । मतान्त्यक्षणबन्ध्यापि न पाकत्वं प्रपद्यते ॥ २ ॥
इति श्लोकद्वयेन श्रीतन्त्रालोके निर्णीतम् ॥ २ ॥
अथ तृतीयस्य श्लोकस्यावतरणिकां करोति ननु इति ।
अत्र टीका -
अवच्छिनत्ति - अवच्छेदविषयीकरोति, तत्र, तत्र सति इत्यर्थः । कालो -
कालः सूर्यादिसञ्चारस्तत्तत्पुष्पादिजन्म वा । शीतोष्णे वाथ तल्लक्ष्यः क्रम एव स तत्त्वतः ॥ ३ ॥
ये इयत्तया परिनिष्ठिता आभासाः सिद्धाः, तद्यथा चन्द्रसूर्यादीनां सहकारमल्लिकाकुटजादीनां शीतोष्णादेः परभृतमदविलासादेः त एव कालः यतोऽपरिनिष्ठितं गमनपठनादि तैरियत्तया परिनिष्ठीयते परिवर्तकैरिव कनकम् । स एव च सूर्यादीनां स्वभावविशेषस्तत्त्वतः पर -
नाम - कालाख्यं वस्तु । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । कालः इति ।
अत्र टीका :-
सूर्यादिसञ्चारः इति व्याचष्टे, ये इति । इयत्तया - परिच्छिन्नत्वेन, परिनिष्ठिताः - परिनिष्ठां गताः, एतन्मात्रस्वरूपा इति स्थितिं गता इत्यर्थः । सिद्धाः - प्रसिद्धाः, आभासान्विशेषतो दर्शयितुं प्रतिजानीते तद्यथा इति ।
यथाशब्दाकाङ्क्षां पूरयति, चन्द्र इति । सूत्रेऽकृतमपि चन्द्रग्रहणमिहादिशब्देनयोग्यतया कृतम् । तत्तत् इत्यादि समस्तपदं व्याचष्टे सहकार इति । शीतोष्णे वा इति व्याचष्टे शीतोष्णादेः इति तल्लक्ष्यः इति व्याचष्टे परभृत इति ।
परभृतमदविलासादिर्हि शीतोष्णादिनैव लक्ष्यो भवति । आभासाः [आभासाः आभासा इति सवः - च्।] इति सर्वैः षठ्यन्तैः सह युज्यते ।
ये इत्यस्यापेक्षां पूरयति ते इति । ते एव - आभासा एव, कालो भवति ।
कुत इत्यपेक्षायां सूत्रेऽनुक्तमपि हेतुं वक्तुमाह यतः इति ।
अपरिनिष्ठितम् - स्वभावन परिनिष्ठामगतम्, निर्मर्यादमिति यावत् । तैः - सुर्यसञ्चारादिभिः, इयत्तया परिनिष्ठीयते - इयत्तया स्थाप्यते, सूर्योदयादनन्तरं गच्छामि, तदुदयादारभ्य तदस्तमयं यावत्पठामि, इत्येवमादि समर्यादीक्रियते इत्यर्थः ।
किमिव कैः ? कनकमिव - हेमेव, परिवर्त्तकैः, गुञ्जादिरूपैः प्रतिमानखण्डैः इत्यर्थः । क्रम एव इत्यादिश्लोकशेषं व्याचष्टे स एव इति । स एव इति व्याचष्टे शूर्य इति । स्वभावविशेषः
- सञ्चारादिरूपः स्वभावभेदः । तत्त्वतः
मार्थतः क्रमो नान्यः कश्चित् क्रमो नाम, क्रम एव च कालो नान्योऽसौ कश्चित्, इति एवकारो भिन्नाभिन्नक्रमो योज्यः, यौगपद्यमपि द्वयोराभासयोः [यौगपद्यमपि आभासयोः - क्। ष्।
ष्।] अपराभासापेक्षया क्रम एव, चिरक्षिप्रादिधीरपि विततान्यत्ववशात् आभासभेदे क्रम [आभासभेदे क्रमरुप एव - क्। ष्। ष्।] एव, परत्वापरत्वबुद्धिरपि स्फुटत्वादिना तत्रैव, इति तेन तेन प्रतिमानवर्तकतुल्येन सूर्यसञ्चारादिना सह मीयमानो
इति व्याचष्टे परमार्थतः इति । क्रमः - भावगतः क्रमाभासः । एव - कारव्यावर्त्यमाह नान्यः इति । क्रमो नाम - क्रमाख्यं वस्तु । नन्वस्तु सूर्यादिसञ्चारस्य क्रमत्वं ततः किम् इत्यपेक्षायामत्रैव तन्त्राश्रयणेन द्वितीयमर्थं हेतुत्वेन योजयति क्रम एव च इति । इह स इति शब्देन कालपरामर्शः । इहापि एवकारव्यावर्त्यमाह नान्यः इति । अन्यः - क्रमव्यतिरिक्तः असौ - कालः, इति - एवम्, तत्र प्रथमेऽर्थे भिन्नक्रमत्वं द्वितीये त्वभिन्नक्रमत्वम् । ननु यौगपद्यस्य कालविशेषस्य कथं क्रमत्वं युक्तं तद्विरोधित्वादित्यत आह यौगपद्यम् इति ।
द्वयोराभासयोः - युगपद्भाविनः आभासद्वयस्य, अपराभासापेक्षया - पूर्वं भूतान्याभासापेक्षया [पूर्वं भूतान्याभासापेक्षया - च्।] भाव्यन्याभासापेक्षया वा । चिरक्षिप्रादौ कालविशेषेऽपि क्रमत्वं कथयति चिर इति ।
चिरक्षिप्रादिधीरपि क्रम एव, क्रमविषयैव भवतीत्यर्थः, तत्र विततत्वे चिरबुद्धिः अविततत्वे क्षिप्रबुद्धिरिति विभागः । तत्रव - क्रमे एव, क्रमविषये एवेत्यर्थः । तत्र स्फुटत्वे अपरव्यवहारः प्रत्यक्षदृष्टजन्मनि अपरोऽयमिति व्यवहारदर्शनात् ।
आदिशब्दगृहीतेनास्फुटत्वेन तु परव्यवहारः । अत्र फलितं वस्त्वाह इति इति । इति - अतः कारणात्, प्रतिमानवर्तकतुल्येन -
हेमस्थानीयो देवदत्ताभासस्य वैचित्र्यभेद इत्थम् उच्यते दिवसं गच्छति इति ॥ ३ ॥
ननु एवं कालो नाम भावस्वभाव [भावस्वभावभूत - क्। ष्। ष्।] एव अस्तु, का असौ कालशक्तिः इत्याशङ्क्याह :-
क्रमो भेदाश्रयो भेदोऽप्याभाससदसत्त्वतः । आभाससदसत्त्वे तु चित्राभासकृतः प्रभोः ॥ ४ ॥
इह स्वभावभेदमात्रं यदि क्रमात्मा कालः तदाङ्गुली- चतुष्टयं [तदङ्गुलीचतुष्टयम् - क्। ष्। ष्।] भिन्नस्वभावम् इति भिन्नकालं भवेत्, तस्मात् अरुणाभासस्य
प्रतिमानखण्डतुल्येन, तेन तेन सूर्यसञ्चारादिना सह मीयमानः - तुलनाविषयीकृतः । हेमस्थानीयः - कनकसदृशः, इत्थम् इत्यस्याकाङ्क्षां पूरयति, दिवसम् इति । दिवसम् - सूर्योदया- दारभ्य तदस्तमयपर्यन्तस्थितिम्, तत्सञ्चाररूपं कालविशेषम् ।
उपलक्षणञ्चैतत् समस्तानां क्षणादिरूपाणां कालभेदानाम् । इति शब्दो व्याख्यासमाप्तौ ॥ ३ ॥
अथ चतुर्थश्लोकस्यावतरणिकां करोति ननु एवम् इति ।
अत्र टीका -
एवम्, सूर्यसञ्चारादेः कालत्वे सतीत्यर्थः, भावानाम् - सूर्यादीनाम्, यः स्वभावः - सञ्चाररूपः सः ।
एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । क्रमः इति ।
अत्र टीका -
प्रक्रियापूर्वं पूर्वार्धं व्याचष्टे इह इति । इह भासमाने जगति, स्वभावभेदमात्रम् - सूर्यादीनां नित्यसञ्चारादिरूपः केवलः स्वभावभेदः । यदि क्रमात्मा - क्रमरूपतया साधितः, कालः स्यात्, न तु तद्द्योतितः काप्यन्योऽतीन्द्रियः भवेत्, तदाङ्गुलीचतुष्टयम् - पाणौ युगपत् सन्धिबन्धेन स्थितं तर्जन्यादिचतुष्टय्म्, भिन्नकालम् परस्परापेक्षयाकालभेदयुक्तम् । भवेत्, कुत इत्यपेक्षायामाह भिन्नस्वभावम् इति । इति - अतः, भिन्नस्वभावम् -
सद्भावः स्फुटप्रभापुञ्जसय च असद्भावः इत्येवम्भूतो यो भेद आभाससद्भावासद्भावाभ्यामनुप्राणितः तत्कृतः क्रमः कालात्मा, तौ च आभासानां भावाभावौ न बाह्यहेतुकृतौ इति विस्तार्य उपपादितम्, इति य एव संवित्स्वभाव आत्मा स्व्प्नसङ्कल्पादौ आभासवचित्र्य -
भिन्नस्वरूपं भवति, न हि अङ्गुलीचतुष्टयं सन्धिबन्धैक्येपि [सन्धिबन्धैक्येऽपि च एकस्वभावम् - च्।] एकस्वभावम् ह्रस्वदीर्घत्वादिकृतस्य भेदस्य स्फुटत्वात्, अङ्गुष्ठस्य तु ताभिः सह सन्धिबन्धैक्यं नास्तीति तस्याग्रहणम् ।
उक्तप्रक्रियावष्टम्भेन फलितरीत्या व्याख्यां करोति तस्मात् इति ।
भेदः इति व्याचष्टे अरुण इति । आभास सदस्त्त्वतः इति व्याचष्टे आभास इति । आभासयोः अरुणाभासस्य स्फुटप्रभापुञ्जाभासस्य च यौ सदसद्भावौ - क्रमेण सद्भावः असद्भावश्च ताभ्याम्, अनुप्राणितः - दत्तसत्तकः, अनुप्राणितपदेन तसिला द्योतित्तं हेतुत्वमुक्तम् । भेदाश्रयः इति व्याचष्टे तत्कृतः इति । तत्कृतः आभाससदसद्भावानुप्राणितभेद-कृतः । क्रमः इति व्याचष्टे कालात्मा इति । शृङ्खलाबन्धेन व्याख्याकरणम् अपि शब्दद्योत्यम् ।
तथा चैवमत्र योजना । क्रमः - क्रमतया साधितः कालः, भेदः - सूर्यादिसञ्चाररूपस्वभावभेदः, आश्रयः हेतुर्यस्य तादृशो भवति, न तु तद्रूपो भवति, अङ्गुलीचतुष्टस्यापि भिन्नकालत्वापातात्, भेदोऽपि - क्रमहेतुः भेदश्चाभाससदसत्त्वतो भवति, सूर्यसञ्चारविशेषभूतारुणाभाससद्भावस्फुटप्रभापुञ्ज अ-सद्भावकृतो भवतीत्यर्थः, अन्यथा सूर्यसञ्चारस्य समानत्वात् तदपेक्षया साधितः कालः सर्वत्रैकतामाश्रयेदिति भावः । एवं तत्तत्पुष्पादिजन्मादिष्वपि ज्ञेयम्, एतदपेक्षयापि कालसाधनात् ।
ननु तर्हि कालस्य भगवच्छक्तित्वं नास्ति, बाह्यवस्तुजन्यत्वादित्य-पेक्षायामेत तदुत्तरद्योतकमुत्तरार्धं व्याचष्टे तौ च इति । आभासानाम् - अरुणाभासस्फुटप्रभापुञ्जाभासादीनाम्, एतेन आभाससदसत्वे इत्यस्य व्याख्यानम् । उपपादितम्, पूर्वं ज्ञानाधिकारे इत्यर्थः । चित्राभासकृतः इति व्याचष्टे य एव, इति ।
प्रसिद्धत्वेन स्वप्नादेर्ग्रहणम्, स्वसंविदितः इति
निर्माणे प्रभुः प्रभविष्णुः इति स्वसंविदितस्तत एव तौ भवतः स हि आत्मनि नीलादीन् आभासान् आभासयन् चित्रतया अपरिमेयया भासयति, तथाहि - लोहिताभासं घटाभासम् उन्नताभासं दृढाभासं च सामानाधिकरण्येन घटाभासं पटाभासं च पृथक्त्वावभासेन अन्योन्यत्र आभासाभावेन, स्वात्मनि तु एकरसेनाभासेन, इयति च न क्रमस्य उदयः, यदा तु शरदाभासं हेमन्ताभासेन च सर्वथैव शून्यमाभासयति हेमन्ताभासं च शारदाभासेन तदा कालात्मा क्रम उत्तिष्ठति, इति सेयम् इत्थम्भूता भाववैचिन्त्र्यप्रथनशक्तिः [इत्थम्भूताभासवैचित्र्यप्रथनशक्तिः - क्। ष्। ष्।] भगवतः कालशक्तिः इत्युच्यते ॥ ४ ॥
चित्राभासकृत्त्वमेव स्फुटयति : -
मूर्तिवैचित्र्यतो देशक्रममाभासयत्यसौ । क्रियावैचित्र्यनिर्भासात्कालक्रममपीश्वरः ॥ ५ ॥
प्रसिद्धः । प्रभोः इति व्याचष्टे प्रभविष्णुः इति । प्रथमान्ततया व्याख्या - तस्य प्रभोः इत्यस्यापादानपञ्चम्यन्ततां योजयति ततः इति । तौ - आभासभावाभावौ, एतेन जनिकर्तुः प्रकृतिः इत्यनेनात्रापदा-नत्वे पञ्चमीति द्योतितम्, सदसत्त्वाख्ययोर्जनिकर्त्रोः प्रभोरेव प्रकृतित्वात् । अथवा भुवः प्रभवः इत्यपादानत्वे पञ्चमी । अत्र समर्थनं करोति स हि इति ।
अपरिमेयया - अपरिच्छिन्नया, अत्रापि समर्थनं कर्तुमारभते तथाहि इति । सामानाधिकरण्येन - एकाधिकरणत्वेन, आभासयति इति पूर्वेण सम्बन्धः । पृथक्त्वावभासेन कीदृशेन ? अन्योन्यत्र - अन्योन्यस्मिन्, आभासाभावेन - आभासाभावरूपेण, घटे पटाभासाभावात् पटे च घटाभासाभावात्, अत्रापि आभासयति इति पूर्वेण सम्बन्धः । स्वात्मनि - चिद्रूपे स्वस्मिन्, तु एकरसेनाभासेन आभासयति, परमार्थतः सर्वस्य चिन्मयत्वात् ।
इयति च क्रमस्योदयो न भवति, युगपदेवैकज्ञानेन स्फुरणात् ।
सर्वथैव - निःशेषमेव, भावानां अद्वैचित्र्यं तस्य यत् प्रथनम् - विस्तरणम्, तत्र शक्तिः, उच्यते, पण्डितैः कथ्यते इत्यर्थः । एतेन भगवच्छक्तेरेव कालशक्तित्वं साधितम् ॥४॥
अथ पञ्चमस्य श्लोकस्यावतरणिकां करोति चित्र इति । स्पष्टम् ।
एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । मूर्ति इति ।
पदार्थस्य स्वं रूपं मूर्तिः, तस्या यत् वैचित्र्यं विभेदः, तद्यथा गृहमिति अन्यत् स्वरूपम्, प्राङ्गणमिति अन्यत्, विपणिरिति अन्यत्, देवकुलमिति अपरम्, उद्यानमिति अन्यत्, अरण्यमिति तदन्यतरत्, [तदितरत
- क्। ष्। ष्।] तस्मात् वैचित्र्यात् आभास्यमानात् देशरूपो दूरादूरविततत्वावित-तत्वादिः क्रमो भगवता अवभास्यते । यदा तु गाढप्रत्यभिज्ञा-प्रकाशबलात् तदेव इदं हस्तस्वरूपम् इति प्रतिपत्तौ मूर्तेर्न भेदः, अथ च अन्यान्यरूपत्वं भाति तदैकस्मिन् स्वरूपे यदन्यत् अन्यत् रूपं तद्विरोधवशात् असहभवत्क्रिया उच्यते, [क्रिया इति उच्यते - क्। ष्। ष्।] तस्या यत् वैचित्र्यं परिमितापरिमितात्मकं [परिमितापरिमितरूपतात्मकम् - क्। ष्। ष्।] तदेकानुसन्धानेन फलसिद्ध्यादिनिबन्धनवशात् यथारुचि चर्चितेन निर्भासयन् कालरूपं क्रममेवावभासयति [क्रममेव भासयति - क्। ष्। ष्।] । न चैतत् वाच्यम् - एकस्वरूपस्य कथम्
अत्र टीका -
मूर्ति पदं व्याचष्टे पदार्थस्य इति । तस्याः - मूर्तेः, वैचित्र्य पदं व्याचष्टे विभेदः इति । वैचित्र्यं दर्शयितुं प्रतिजानीते तद्यथा इति । विपणिः - प्राङ्गणादपि बहिर्वर्तिनी पण्यवीथिका । तस्मात् उद्यानात् अन्यतरत्, तदन्यतरत्, आभास्यमानात् - आभासविषयीभूतात्, भगवता - भासने शक्ति युक्तन परमात्रा, अवभास्यते - अवभासविषयीक्रियते, अन्यथा गृहस्थोऽयम् इत्यादिव्यवहारायोगात् इति भावः ।
पूर्वार्धं व्याख्यायोत्तरर्धमपि व्याख्यातुमाह यदा तु इति ।
प्रत्यभिज्ञाप्रकाशबलात् - प्रत्यभिज्ञाख्यज्ञानवशात्, मूर्तेः हस्तादिस्वरूपस्य, न केवलं भेदः अपि तु भेदोऽपि इत्याह अथ च इति । अन्यान्यरूपत्वम् - उत्क्षेपणावक्षेपणादिविशिष्टतया भिन्नभिन्नरूपत्वम्, भाति प्रमातारं प्रति स्फुरति । तदैकस्मिन् - अभिन्ने, स्वरूपे - हस्ताख्यायां मूर्तौ, तत् - अन्यदन्यद्रूपम्, क्रिया उच्यते - क्रिया कथ्यते । तत्र सः प्रमातृरूपो भगवान्, तस्याः - क्रियायाः, यत् परिमितापरिमितात्मकम् - परिमितरूपमपरिमितरूपं च, वैचित्र्यं भवति, तत्र सूर्यसञ्चारादेरपरिमितत्वं देवदत्त-गमनादेः परिमितत्वम्, तत् निर्भासयन् - प्रकटयन् । कालक्रमम् इति व्याचष्टे काल
अन्यत् अन्यद्रूपमिति ? यतो न असौ कश्चित् भावो य एवं कल्प्यते; [विकल्प्यते - क्। ष्। ष्।] संविदेव हि तथा भाति, तथा भानमेव च तस्या [तथाभासनमेव चास्याः - क्। ष्। ष्।] ऐश्वर्यम्, न हि भासने विरोधः कश्चित् प्रभवति, स हि सुखदुःखादेर्भासनकृत एव, तथा
इति । अवभासयति - भासयति, पूर्वार्धस्थक्रियया एवोत्तरार्धेऽपि सम्बन्धयोजना कृता । केन कृत्वा निर्भासयन् ? फलसिद्ध्यादेः - ग्रामप्राप्त्यादेः फलस्य निष्पत्त्यादेः, यन्निबन्धनम् - परिच्छिन्नीकरणम्, तस्य वशात् - सामर्थ्यात्, यथारुचि - रुच्यनुसारेण, चर्चितेन - कल्पितेन, तदेकानुसन्धानेन, वैचित्र्यमध्ये सूर्यसञ्चारादिरूपस्य एकस्य अनुसन्धानेन - योजनेन कृत्वा येनैवं प्रयोगः दिवसं ग्रामं गच्छति इति भावः । अन्यथा तु गमनमपि पृथक्क्रिया, दिवसोऽपि पृथक् सूर्यक्रियेति का तस्य तेन तुलनेति भावान्तरम् । तत शब्दस्य काकाक्षिन्यायेन द्विर्योजना । अत्र शिष्यप्रश्नमाशङ्क्य परिहरति न च इति । किमित्य पेक्षायामाह एक इति । इति शब्दः शिष्य- शङ्कासमाप्तौ । कुतो न वाच्यमित्यत आह यतः इति । भावः - नीलसुखादिरूपः पदार्थः । एवं कल्प्यते - एवंरूपकल्पनाविषय-तां नीयते । पुनः कथं भावभानं भवति इत्यत् आह संविदेव इति । तथा भाति - अन्यान्यरूपतया भाति । कुतो भातीत्यत आह तथा इति । हि - यस्मात् कारणात् । तथा भानमेव तस्याः - संविदः, ऐश्वर्यं भवति । तदुक्तम् : -
अस्थास्यदेकरूपेण वपुषा चेन्महेश्वरः ।
महेश्वरत्वं संवित्त्वं [सर्वत्वं - च्।] तदत्यक्ष्यद् घटादिवत् ॥
इति । ननु संविदो विरुद्धतया भानं कथं युक्तं इत्यत आह न हि इति । प्रभवति - समर्थो भवति । आभासने एव तद्योगादिति भावः ।
कुतो न प्रभवति इत्यत आह स हि इति । हि - यस्मात्, सुखदुःखादेः सः विरोधः भासनकृत एव भवति, तथा च भासनलब्धसत्ताकस्य तस्य भासनं प्रति बाधकत्वं न युक्तमिति भावः । ननु कुतो भासनकृत एवेत्यत आह तथा इति ।
भासनाभाव [तथा भासनाभाव - क्। ष्। ष्।] एव हि विरोधतत्त्वम्, एतत् अपिशब्देन ईश्वरशब्देन च दर्शितम् ॥ ५ ॥
ननु एवम् आभासविषयाब्यामेव देशकालक्रमाभ्यां भवितव्यम्, अनाभासश्च प्रमाता, स हि न कस्यचित् आभासते, तस्य सर्वम् आभाति यतः, ततश्च तौ प्रमातरि कथम्, दृश्येते च अभवम् अहं भवामि भवितास्मि इति, गृहे तिष्ठामि अरण्ये देवगृहे इति च, किं च स्वयं देशकालक्रमशून्यस्य किं दूरं किम् अन्तिकं किं वर्तमानं किम् अतीतं किं भावि, इति प्रमात्राश्रयो भावेष्वपि क्रमो न युक्तः, न च प्रमातृनिरपेक्षेष्वपि तेषु स्वात्मनि दूरत्वादि भूतत्वादि वा, तदेतत् समर्थयितुम् आह : -
हि - यस्मात्, तथाभासनस्य - नीलादौ पीतताद्याभासनस्य, अभावः, एव विरोधतत्त्वम् - विरोधस्वरूपं भवति । यत् यत्र भाति न तत् तत्र विरुद्धम्, यत्तु न भाति तद्विरुद्धमिति भासनाभावदत्तविषयो विरोधो भासनेऽकिञ्चित्कर एव इति भावः ।
ननु सूत्रेऽनुक्तमेतत् कुतो व्याख्यातमित्यत आह एतत् इति । एतत् एकस्वरूपस्य इत्यादिग्रन्थोक्तं प्रक्रियाजालम्, तत्र ईश्वर पदेनैश्वर्यसूचनम् । अपि शब्देन उक्तानुक्तसमुच्चयद्वारेण सर्वभावेन भासनसूचनमिति विभागो ज्ञेयः ॥ ५ ॥
अथ षष्ठसप्तमयोः श्लोकयोरवतरणिकां करोति ननु एवम् इति ।
अत्र टीका -
एवम्, पूर्वश्लोकोक्ते वस्तुनि सतीत्यर्थः । अनाभासश्च - आभासरहितश्च, कुतोऽनाभास इत्यत आह स हि इति । तौ - देशकालौ, दर्शनमेवानुकृत्याह - अभवम् इति । कालत्रयमनुकृत्य दर्शयित्वा देशक्रममपि दर्शयति गृहे इति । प्रमातारं प्रति भावानामपि देशकालक्रमयुक्तत्वं न घटते इत्याह किञ्च इति । भावानां स्वभावतोऽपि देशकालक्रमयुकत्वं नाशयति न च इति । प्रमातैव हि भावानां देशकालविशिष्टतां कल्पयति इति भावः । तदेतत् - समनन्त
सर्वत्राभासभेदोऽपि भवेत्कालक्रमाकरः । विच्छिन्नभासः शून्यादेर्मातुर्भातस्य नो सकृत् ॥ ६ ॥ देशक्रमोऽपि भावेषु भाति मातुर्मितात्मनः । स्वात्मेव स्वात्मना पूर्णा भावा भान्त्यमितस्य तु ॥ ७ ॥
सर्वेषु वस्तुषु एकानेकरूपेषु यः कालात्मा क्रमः तस्य य आकरः - उत्पत्तिनिबन्धनम् इति व्याख्यातः, आभासस्य भावाभावकृतो भेदः स शून्यप्राणबुद्धिदेहादेः भवति, इति सम्भाव्यते, यतः स शून्यादिः विच्छिन्नभाः, न हि तस्य भासनं स्वरूपं नीलादिवत् जडत्वात्, अपि तु संवित्स्फुरणमस्य भासनम्, तत् यदा अस्य नास्ति, यथा सुप्ते देहस्य
रोक्तं वस्तु । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे ।
सर्वत्र इति ।
अत्र टीका -
सर्वत्र इति पदं व्यचष्टे, सर्वेषु इति । तत्र प्रत्यभिज्ञाबलेनैक-रूपत्वं देशादिविशिष्टतयानेकत्वम् ।
कालक्रमाकरः इति पदं विग्रहपूर्वकं व्याचष्टे, काल इति ।
आकरः इति पदं व्याचष्टे, उतपत्ति इति । उत्पत्तिनिबन्धनम् इति - उत्पत्तिस्थनमिति, व्याख्यातः - व्याख्याविषय-तां नीतः, उत्पत्तिनिबन्धनमिति व्याख्यातः । आभासभेदः इति व्याचष्टे, आभासस्य इति । भावाभावकृतः - अरुणसद्भावस्फुट-तेजः - पुञ्जासद्भावादिकृतः, एतेन मध्यमपदलोप्ययं समास इति द्योतितम् । विगृहीतं पदं पुनः समस्ततया परामृशति स इति ।
लिङोऽर्थ-माह सम्भाव्यते इति । सम्भावनायामत्र लिङ् ।
विच्छिन्नभासः इति विशेषणं हेतुगर्भत्वेन व्याचष्टे । यतः इति, यतःशब्दो हेतुत्वद्योतनार्थः । शून्यादिः - शून्यादिरूपः प्रमाता, विछिन्ना भाः - ग्रहीतृस्वरूपः प्रकाशः यस्य, तादृशविच्छिन्नत्वं च समनन्तरमेव वक्ष्यति । कुत इत्यपेक्षायामाह न हि इति । तस्य - शून्यादेः । अत्रापि हेतुमाह जडत्वात् इति । तर्हि कथमस्य शून्यादेर्भासनम् अस्ति इत्यत आह संवित् इति । संविदः - आन्तरस्य संवित्तत्त्वस्य, स्फुरणम् - स्वातन्त्र्येणोद्भावितविषयावेशनिमित्तिका स्फूर्त्तिः । अस्य - शून्यादेः, भासनम् -
संसारयात्रापतितत्वे शून्यस्य प्राणादेः, तदा अस्य भासनं विच्छिद्यते, इति आभाससद्भावासद्भावकृतः कालक्रमोऽस्ति, अतीतोऽहं बालदेहाभासरूपः, भवामि युवदेहाभासरूपः इति । स च यतः प्रमाता अहम्भावसमावेशनात् अपरिपूर्णात् अत एव उद्रिक्तकालक्रमवत्त्वात् [उद्रिक्तकालक्रमत्वात् - क्। ष्। ष्।] भावेष्वपि कालक्रमम् आभासयति, योऽहं बालोऽभवं तत्सहभावी
स्वतो बाह्यं प्रति ग्रहीतृतया स्फुरणं भवति । तत् - प्रोक्तरूपं भासनम्, अस्य - शून्यादेः । ननु कदास्य तन्नास्ति इत्यपेक्षायां तदसम्भवस्थानानि दर्शयितुमाह यथा इति । सुप्ते - सुषुप्ते, देहस्य - देहमातुः, तत्र हि देहः प्रमेयतयापि न स्फुरति का कथा प्रमातृतया स्फुरणस्य, संसारयात्रापतितत्वे - क्रयविक्रयादिरूपसंसार-यात्रान्तर्गतत्वे, [क्रयविक्रयादिरूपं - च्।] आदिशब्देन बुद्धिप्रमातृग्रहणम् । अस्य - शून्यादेः ।
फलितमाह इति आभास इति । इति - अतः कारणात् । कालक्रमः - कालाख्यः क्रमः, आभाससद्भावा-सद्भावकृतोऽस्ति ।
कालक्रममेव अनुकृत्य दर्शयति अतीतः इति । अत्र च बालाभासस्यासद्भावः युवाभासस्य तु सद्भावः, वृद्धो भविष्यामीत्यस्याप्युपलक्षणमिदम् । इति शब्दः फलितकथनसमाप्तौ । एवं परिमितप्रमातुः सकालक्रमत्वमुपपाद्य सूत्रेऽनुक्तमप्य-वतरणिकायां शङ्कितं भावेषु सकालक्रमत्वमुपपादयति स च इति । अहम्भावे
- देहादिविषये परिमिताहम्भावे, समावेशनं तस्मात् ।
अपरिपूर्णात् - परिपूर्णतारहितात्, न तु पराहंविमर्शवत् परिपूर्ण-स्वरूपात् । अतः - अस्मादहम्भावसमावेशनात्, उद्रिक्तः - सातिशयः कालक्रमो यः सः विद्यते यस्य सः, तस्य भावः तत्त्वं तस्माद्धेतोः, भावेष्वपि कालक्रमम् आभासयति - स्वेन समकक्ष्यतया प्रकाशयति, स्वं यथाऽतीतत्वेन व्यवहरति तथा तत्कालीनं वस्तुजातमपीति भावः ।
स्वेन समकक्ष्यं भावविषयं कालक्रममेवानुकृत्याह, योऽहम् इति । तत्सहभावी - बालत्वसहभावी । एतेन शून्यादेः इत्यन्तं व्याख्या -
घटाभसोऽपि अभवत् इति, न तु यः सकृद् विभातः इति अन्या वाचोयुक्त्या अविच्छिन्नभासनः प्रमाता संविद्रूपः, तस्य स्वात्मनि कालक्रमः, नापि तदपेषया वेद्ये भावजाते, तद्धि तत्र अभेदेन भाति इति ।
एवं देशक्रमोऽपि मितात्मनः परिच्छिन्नस्वरूपस्य शून्यादेः देहान्तस्य स्वात्मनि भाति इह तिष्ठामि इति, स्वापेक्षया च भावेष्वपि यत् मम संयोगपारिमित्येन वर्तते तदन्तिकम् इतरत् दूरम् इति । अमितस्य स्वरूपेयत्ताशून्यस्य तु संवित्तत्त्वस्य भावाः स्वात्मना अहम्भावेन यतो भान्ति ततः पूर्णाः - अपरिच्छिन्नस्वरूपेयत्ताकाः, यतः
तम् । अथ मातुः इत्यादिश्लोकखण्डं व्याचष्टे न तु इति ।
वाचोयुक्त्या सकृद्विभातोऽयमात्मा इत्येवंरूपश्रुतिमूलया इत्यर्थः । अविच्छिन्नभासनः - सकृद्विभातः । प्रमाता - परप्रमाता, स्वात्मनि - चिद्रूपे निजात्मनि, कालक्रमः - कालाख्यः क्रमः, तस्य न तु भवति, इति सम्बन्धः । न हि तेन दत्तसत्ताकः तस्यैव परिच्छिन्नतामानेतुं समर्थ इति भावः ।
तदपेक्षया - प्रमात्रपेक्षया, भावजाते - नीलसुखादिभावसमूहे, वेद्ये - भावजाते, कुतो नास्तीत्यत आह तद्धि इतिं । तत् - वेद्यजातम्, तत्र - परप्रमातरि, इति शब्दः प्रमेयपरिसमाप्तौ ॥ ६ ॥
देशक्रमेऽप्येनं न्यायमतिदिशंस्तदभिधायकं द्वितीयं श्लोकं व्याचष्टे एवम् इति । मितात्मनः - परिमितस्वरूपस्य । देशक्रमभानमेवानुकृत्य दर्शयति इह इति ।
स्वापेक्षया - परिमितप्रमातुर्निजापेक्षया । भावेष्वपि भाति इति पूर्वेण सम्बन्धः । एनम् भवसम्बन्धिनं देशक्रममप्यनुकृत्य दर्शयति यत् इति । संयोगपारिमित्येन - संयुक्तसंयोगाल्पीयस्त्वेन, इतरत् - संयोगापारिमित्येन वर्तमानम्, इति शब्दः पूर्वार्धव्याख्यासमाप्तौ ।
द्वितीयश्लोकस्य पूर्वार्धं व्याख्यायोत्तरार्धं व्याचष्टे अमित इति । स्वरूपे या इयत्ता तया शून्यस्य, भावाः - बाह्यपदार्थाः, स्वात्मना इति व्याचष्टे अहम्भावेन इति । यतो भान्ति
स्वात्मा तस्य तथाभूत एव इति समुच्चयोपमा, तदुक्तम् -
अपूर्वापरं हि इदं मूर्तितः क्रियातश्च सर्वं सर्वतः पूर्णम् इति । क्रियाप्रसङ्गात् इह कालक्रमः प्राकरणिको दृष्टान्तत्वेन तत्प्रसङ्गात् [एतत्प्रसङ्गात् - क्। ष्। ष्।] देशक्रमो निरूपितः, दृष्टान्तश्च पूर्वं वाच्य इति वैचित्र्यनिरूपणावसरे देशक्रमस्य आदौ अभिधानं न्याय्यम्, उप्संहारे तु प्राकरणिकस्य कालक्रमस्यैव आदौ निर्देशः, पश्चात्तु प्रासङ्गिकस्य देशक्रमस्य इति ॥ ६ - ७ ॥
ननु एवं सत्यप्रमातरि [सत्ये प्रमातरि - क्। ष्। ष्।] भगवति नास्त्येव क्रिया इति आयातं कालक्रमाभावात् क्रमाश्रयेण च तस्या अवस्थानात् इत्याशङ्क्याह :-
इति, अन्यथा अमितत्त्वायोगात् इति भावः । पूर्णाः इति व्याचष्टे, अपरिच्छिन्न इति । अपरिच्छिन्ना स्वरूपस्य इयत्ता येषां ते तादृशाः, भवन्तीति शेषः । स्वात्मेव [स्वात्मैव - च्।] इति हेतुभावेन व्याचष्टे यतः इति । स्वात्मा - निजं स्वरूपम्, तस्य - अमितस्य, तथाभूत एव - अहम्भावेन भानात् पूर्ण एव, इति - एवम्, समुच्चयोपमा भवति । अमितस्य भावा अपि पूर्णाः भवन्ति आत्मापि, इति स्फुटं समुच्चयोपमा, यथा -
श्रोतुर्वितन्त्रीरिव वाद्यमाना इत्यत्र । अत्र वृद्धसम्मतिमाह तदुक्तम् इति । इदम् - अपरिमितं प्रमातृतत्त्वम्, इति शब्दो वृद्धवाक्य-समाप्तौ । अत्र पूर्वापरविरोधित्वं शङ्क्यमानं निरसितुमाह क्रिया इति । प्राकरणिकः - प्रस्तुतः, क्रियावैचित्र्यहेतुकत्वादिति भावः । तत्प्रसङ्गात् - कालक्रमप्रसङ्गात्, न्याय्यम् - न्यायादनपेतम्, इति शब्दो व्याख्यासमाप्तौ ॥ ७ ॥
अथाष्टमस्य श्लोकस्यावतरणिकां करोति ननु एवम् इति ।
अत्र टीका -
सत्यप्रमातरि - परमार्थप्रमातृभूते, तस्याः - क्रियायाः । एवमवतरणिकां
किन्तु निर्माणशक्तिः साऽप्येवं विदुष ईशितुः । तथाविज्ञातृविज्ञेयभेदो यदवभास्यते ॥ ८ ॥
इह तत्त्वतः परमेश्वरस्य अप्रतिहतस्वातन्त्र्यरूपाविच्छिन्न- स्वात्मपरामर्शमयी [अप्रतिहतस्वातन्त्र्यरूपाविच्छिन्नस्वात्मविमर्शमयी -क्। ष्। ष्।] अनन्योन्मुखतारूपा इच्छैव क्रिया इति उपसंहरिष्यते अधिकारान्तरे एवम् इच्छैव हेतुता कर्तृता क्रिया इति । चैत्रमैत्रादेरषि
कृत्वा श्लोकमुपन्यस्य व्याचष्टे । किन्तु इति ।
अत्र टीका -
प्रथमं वाक्यार्थं कथयति इह इति । इह - अस्मिन् प्रत्यभिज्ञाशास्त्रे, परमेश्वरस्य - प्रकाशाख्यस्य महेश्वरस्य, अप्रतिहतस्वातन्त्र्यरूपः - प्रतिघातरहितस्वातन्त्र्यस्वरूपः, तथाऽविच्छिन्नः - नित्याव्यभिचारत्वेन कदापि विच्छेदमगतः यः स्वात्मपरामर्शः
- अहमिति निजामर्शः, तन्मयी, अनन्योन्मुखतारूपा - अनन्यमुखप्रेक्षिता रूपा, इच्छैव - इच्छाख्या शक्तिरेव, क्रिया - भवति, पुष्टीभावेन तत्पर्यन्तरूपा-सादनात् । इति - एवम्, अधिकारान्तरे - उत्तरस्मिन् अधिकारे, उपसंहरिष्यते, आचार्येणेति शेषः । एवं सति इच्छैव हेतुता कर्तृता क्रियेति भवति । एतदेव पुनः सदृष्टान्तं कथयति चैत्र इति । अन्तः
पचामि इति यैव अन्तरिच्छा सैव क्रिया, तथा च अधिश्रयणादिबहुतर- स्पन्दनसम्बन्धेऽपि पचामि इति नास्य विच्छिद्यते, यत्तु पचामि इति इच्छारूपं तदेव तथास्पन्दनात्मतया [तथा स्पन्दनात्मत्या - क्।
ष्। ष्।] भाति, तत्र तु न कोऽपि [कश्चित् क्रमः - क्। ष्। ष्।] क्रमः तत्त्वतः ।
एवम् ईश्वरस्यामि ईशे भासे स्फुरामि घूर्णे प्रत्यवमृशामि
मनसि । ननु कथमिच्छायाः क्रियात्वं युक्तमित्यतः समर्थनमुप-क्रमते तथा च इति । अस्य - चैत्रमैत्रादेः अधिश्रयणादीनि - चुल्ह्यां स्थाल्यधिरोहणमधिश्रयणम्, आदिशब्देन दर्वीघट्टनादिग्रहणम्, अधिश्रयणादिरूपाणि यानि बहुतरस्पन्दनानि तेषां सम्बन्धेऽपि पचामि इति इच्छा न विच्छिद्यते, अधिश्रयणादि भावेन तस्या एव पुष्टीभावासादनात् ।
कुतो न विच्छिद्यते इत्यत आह यत्तु इति । तुशब्दो हेतौ, तु - यतः, तथास्पन्दनात्मतया - अधिश्रयणादिस्पन्दनरूपेण । ननु तर्हि इच्छाक्रिययोर्न कोपि भेद इत्यत आह तत्र इति । तत्र - तस्यामिच्छायाम्, तत्त्वतः - परमार्थतः, कोऽपि क्रमः न भवति, समस्तस्यास्य [समस्ता…षकरणीयस्य] करणीयस्य सिद्धतया स्फुरणात्, अत एव श्रीस्पन्दशास्त्रेषु देवताविषयाया इच्छाया एव देवताप्राप्तिरूपत्व-मुक्तम् । तदुक्तं तत्र :-
अयमेवोदयस्तस्य ध्येयस्य ध्यायिचेतसि ।
तदात्मतासमापत्तिरिच्छतः साधकस्य या
इति । तथा :-
इयमेवामृतप्राप्तिरयमेवात्मनो ग्रहः । इयं निर्वाणदीक्षा च शिवसद्भावदायिनी ॥
इति च । इच्छामात्रमेव नैरपेक्ष्यकारित्वेन तद्विषयप्राप्तिरूपं सूक्ष्मदर्शिनं प्रबुद्धं प्रति, यस्तु फललाभः, स बाह्या- पेक्षाग्रस्तत्वेन क्षोभरूप एव, स्थूलदृष्टीनां तु इच्छाकालीननैर-पेक्ष्यपरामर्शाशक्तत्वेन फललाभ एव परमार्थप्राप्तिः, स च दैवाधीनत्वेन भविष्यति न वेति संशयग्रस्त एवेति श्रीस्पन्दशास्त्रकारिकाद्वयतात्पर्यम् । ये तु मूढा अपि व्यर्थं तदभिमानिनः ते फललाभैकविवशं स्वमनः एव तत्र साक्षीकुर्वन्तु, अन्यथा स्ववञ्चकतापत्तेरित्यलम् ।
दृष्टान्तमुक्त्वा दार्ष्टान्तिकमाह एवम् इति । एवम् ईश्वरस्यापि - प्रकाशरूपस्य परमेश्वरस्यापि,
इत्येवंरूपं यदिच्छात्मकं विमर्शनम् अहम् इत्येतावन्मात्रतत्त्वं न तत्र कश्चित् क्रमः, एतदेव च उच्यते प्रमातृप्रमेयवैचित्र्यक्रम उल्लसतु इत्यमुना [उल्लसतु अमुना वाक्येन - क्। ष्। ष्।] वाक्येन, तदत्रापि न कश्चित् क्रमः, यथा [यदा तु
- क्। ष्। ष्।] तु इच्छारूपं पचामि इति स्पन्दनात्मतां कायपर्यन्तां गतं क्रमारूषितम् आभाति
ईशे - ईशिविषयमुद्भाव्य तत्कर्ता भवामि, भासे - स्वभानकर्तृत्व-पुरस्सरमीशनीयभानकर्ता भवामि, एवमेव स्फुरणघूर्णनयोरपि योजनीयम् । प्रत्यवमृशामि - अहम्परामर्शकर्तृत्वपूर्वमिदं-परामर्शकर्ता भवामि, इत्येवंरूपं यदिच्छात्मकम् - इच्छामात्र-रूपम्, विमर्शनम्
- चेतनत्वेनाव्यभिचारि परामर्शनं भवति, तत्र कश्चित्क्रमो न भवति, तद्विषयस्य स्वस्मिन् स्वत्वेन शक्तित्वेन च सिद्धत्वात्, बाह्यं सामान्यं जनं प्रत्येवोपदेशार्थं क्रमवाचितिङ्प्रयोगात्, अन्यथाऽस्यापि सामान्यजनवत् क्षोभाविष्टत्वा-पातेन एतावत्प्रपञ्चाश्रयजगन्निर्मातृत्वासम्भवेन, जगद्भानाअऽसम्भवप्रसङ्गात् । यद्यपि परमेश्वरस्येच्छाकथन -मप्ययुक्तमेव, तथापि अस्य ब्रह्मणः ईदृगेव महिमा यत् सर्वरूपं वपुरिति [सर्वरूपे वपुरिति नीत्याश्रवणेन - च्।] - नीत्याश्रयणेन सर्वमये तत्र तत्त्वे सर्वंसहत्वेनाज्ञजनबोधनार्थं तद्युक्तत्वमारोप्यैव- मुक्तमित्यलं कृपालुभिः कृपाविवशत्वेनाज्ञजनार्थं कल्पितासु युक्तिषु तमोदर्शनार्थं कल्पितदीपमालासहोदरीभिर्विचारणाभिः । नन्विच्छावाचकेषु वाक्येषु लोडादिकमेव दृश्यते तत्र लटा किमिति निर्देश इत्यत आह एतदेव इति । एतदेव च - समनन्तरोक्तं वस्त्वेव च, इत्यमुना वाक्येन उच्यते । इति किमिति ? प्रमातृ इति । ननु तर्हि प्रथम- मेवामुनैव वाक्येन किं नोक्तम्, किमिति द्वितीयः प्रयासः कृतः ? सत्यम्, बुद्धान् प्रति सातत्यद्योतनार्थं लट्प्रयोग एव युक्तः, अज्ञान् प्रति तु साक्षादिच्छावाचकत्वेन लोट्प्रयोग एवेति न किञ्चिद्विरुद्धम् । नन्वत्र वाक्ये सक्रमत्वमस्ति तद्रहितत्वं वित्यत आह तत् इति । अत्रापि इच्छामात्रस्यैव तत्स्थितत्वाद्बाह्यसञ्चारस्याभावाच्चेति भावः ।
दृष्टान्तदार्ष्टान्तिकयोरुभयोरपि इच्छायाः बाह्यसञ्चारं कथयति यथा तु इति । तु व्यतिरेके, यथा पचामि इतीच्छारूपम् - पचामीति स्थितमिच्छास्वरूपम्, कायपर्यन्ताम् शरीरविश्रान्ताम्, स्पन्दनात्मतां गतं सत् क्रमाऽऽरूषितम् - पूर्वापरीभूतावयव
तथा [तदा - क्। ष्। ष्।] भगवदिच्छा प्रमातृप्रमेयभेदपर्यवसिता तत्क्रमोपश्लिष्टा भाति दर्पणतलमिव विततप्रवहन्नदीप्रवाहक्रम-समाश्लिष्टम्, अत्र च केवलं दर्पणस्य तथा इच्छा नास्ति, परमेश्वरस्य तु सा अस्ति - इति उभयथा अस्य क्रियाशक्तिः क्रमरूपक्रियानिर्माण-सामर्थ्यं क्रमरूपक्रियोपरागयोगश्च इति । एवं देशक्रमेऽपि वाच्यम्, तत्र तु अस्य चिच्छक्तिः उच्यते अन्यैः, इह तु क्रियाशक्तिरेव सा स्वीकृता इति पिण्डार्थः ।
अक्षरार्थस्तु - तथा इति स्वरूपभेदेन देशक्रमकारिणा क्रियाभेदेन च कालक्रमसम्पादकेन उपलक्षितो यो विज्ञातुः शून्यादेः प्रमातुः भेदोऽन्योन्यं ज्ञेयाच्च, एवं घटादेः परस्परं ज्ञातुश्च स भगवता अवभास्यते,
त्वेन क्रमविशिष्टम्, आभाति, तथा भगवदिच्छा प्रमातृप्रमेय-भेदपर्यवसिता सती तत्क्रमोपश्लिष्टा - प्रमातृप्रमेयक्रमाऽऽरूषिता, भाति, किमिव ? दर्पणतलमिव, यथा तत् विततप्रवहन्नदीप्रवाहक्रमसमाश्लिष्टम् भाति तथेत्यर्थः । ननु तर्हि दपणपरमेश्वरयोः सदृशत्वमेवायातमित्यत आह अत्र च इति । अत्र च - दृष्टान्तदार्ष्टान्तिकमध्ये, सा इच्छा, उभयथात्वं विभज्य दर्शयति क्रम इति । सामर्थ्यमत्रेच्छारूपं ज्ञेयम्, उपरागयोगस्तु प्रतिबिम्बग्रहणम्, इति शब्दः प्रमेयसमाप्तौ ।
देशक्रमेऽप्येनं न्यायमतिदिशति एवम् इति । तत्र - देशक्रमे, अस्य - परमेश्वरस्य, अन्यैः - इतो बाह्यैः, इह - क्रियाक्रमे, सा - इच्छाशक्तिः ।
एवं वाक्यार्थमुक्त्वा पदार्थकथनं प्रतिजानीते अक्षरार्थस्तु इति । तु शब्दो दर्शयिष्यामीत्यर्थे । अक्षरार्थमेव दर्शयति तथा इति । तथा इत्यादि समस्तं पदं व्याचष्टे विग्रहपूर्वकं तथा इति, तथा इत्यवयवं व्याचष्टे, स्वरूप इति ।
विज्ञातृ पदं व्याचष्टे शुन्यादेः इति । एतन्निष्ठत्वेन भेदस्य प्रतियोगिधर्मिकथनं करोति अन्योन्यम् इति । विज्ञेय पदं व्याचष्टे एवम् इति । एतन्निष्ठत्वेनापि भेदस्य धर्मिप्रतियोगिकथनं करोति परस्परम् इति ज्ञातुः इति च । यः इत्यस्याकाङ्क्षां पूरयति सः इति । सः - भेदः ईशितुः इति पदं अर्थवशात् तृतीयान्ततां
यत् तदवभासनं सा ईशितुरपि निर्माणशक्तिः क्रियाशक्तिः न तु केवलं शून्यादेरेव क्रिया, यतश्च तन्निर्मितं ज्ञातृज्ञेयक्रियावैचित्र्यभेदम् असौ विद्वान् वेत्ति अविरतम् [अनवरतम्
-क्। ष्। ष्।] तत्रैव हि तत् स्फुरति ततोऽपि तस्य सा क्रियाशक्तिः । अतो भासनविच्छेदनाभावात् [भासनविच्छेदाभावात् - क्। ष्। ष्।] क्रमाभावे स्थूलदृष्ट्या
नीत्वा व्याचष्टे भगवता इति । अवभास्यते इति निगदव्याख्यातम्, णिजन्तोयं प्रयोगः । उत्तरार्धं व्याख्याय पूर्वार्धं व्याख्यातुं योजयति यत् इति । यत्तत् इत्यस्याकाङ्क्षां पूरयति सा इति । सा इति क्रियाशब्दापेक्षं स्त्रीत्वम् । ईशितुरपि - भगवतः परप्रमातुरपि, अपिशब्दात् आपाततः शून्यादेरपि ग्रहणम् ।
निर्माणशक्तिः इति पदं व्याचष्टे क्रिया इति । शून्यादेरेव - आपाततः तद्वत्त्वेनाभासमानस्य शून्यादेरेव । कुतः ईशितुरपि अस्ति इत्यपेक्षायां विदुषः इति पदं हेतुगर्भविशेषणत्वेन व्याचष्टे यतश्च इति । विदेः सकर्मकत्वात् एवम् शब्दं कर्मत्वेन व्याचष्टे तत् इति । अविरतम् इति, न तु शून्यादिवत् कदाचिदेवेत्यर्थः, युक्ततयास्य पदस्याध्याहारः । वेत्ति ततः किमित्यपेक्षायामाह तत्रैव इति । हि - यस्मात्, तत् - निर्माणम्, तत्रैव - तस्मिन्नीशितर्येव स्फुरति, शून्याद्याधेयत्वेन स्फुरणेऽपि परमार्थतः तत्रैव स्फुरणात्, शून्यादेस्तत्सारत्वेन स्थितत्वादन्यथा स्वरूपलाभासम्भवात् । तदुक्तम् :-
कथमन्यथा भवन्ति भुवि दत्तपदानि नृणाम् इति ।
हि शब्दाकाङ्क्षां पूरयति ततः इति । ततः - तस्मात्स्फुरणात् हेतोरपि, तस्य - परमेश्वरस्य, सा - क्रियाशक्तिर्भवति । तदुक्तम् :-
ज्ञानचिकीर्षाकृतिमत्त्वं कर्तृत्वम् इति ।
अपिशब्दात् क्रमो भेदाश्रयः इत्यत्रोक्तनीत्याप्यस्ति इति सूचितम् । फलितमाह अतः इति । अतः कारणात्, भासनविच्छेदाभावात् - सततस्फुरत्त्वेन, क्रमाभावे सति यद्यपि स्थूलदृष्ट्या ईशितुः
यद्यपि अस्य भवेत् क्रियानुपपत्तिशङ्का, किं तु एवमस्य क्रियाशक्तिरुपन्ना - इति सङ्गतिः । इति शिवम् ॥ ८ ॥ आदितः ९७ ॥
इति श्रीमदाचार्योत्पलदेवपादविरचितायामीश्वरप्रत्यभिज्ञायां श्रीमदाचार्याभिनवगुप्तपादकृतविमर्शिन्याख्यटीकोपेतायां क्रियाधिकारे क्रियाशक्तिनिरूपणं नाम प्रथममाह्निकम् ॥ १ ॥
क्रियानुपपत्तिशङ्का भवति, यदाश्रयणेन साङ्ख्यादिभिरस्यो- दासीनत्वमित्युक्तमिति भावः । किन्तु इति तथापीत्यत्रार्थे, तथाप् एवम्
- उक्तप्रकारेण, क्रियाशक्तिरुपपन्ना भवति, न च शङ्कनीयं तद्वत्त्वेऽस्य क्षोभावेश इति, असमर्थस्यैव तद्योगात्, न हि दाहे शक्तस्याग्नेस्तत्र क्षोभावेशो दृश्यते, तदियं घोषणा साङ्ख्यवेदान्त्यादि गृहेषु स्फुरत्ता कर्ता ईश्वर इति । ननु नैयायिका अपि एतदेव कथयन्ति, तेषां का वार्ता ? सत्यम्, यदि ते अपि महाद्वैतनिष्ठा भवयुः, तर्हि भवेदेव तेषामस्मत्सहृदयता, न च ते तत्र निष्ठा भवन्तीति तेषां दूरत एव त्यागः । कर्तृतापि च तैस्तत्र लौकिकी अङ्गीक्रियत्रे, नत्वनुत्तरस्वरूपा, इत्यलं परोपकारार्थं तत्तद्भूमिका परिघट्टनरतेषु कारुणिकेषु वादिषु चोद्यचर्चाभिः । एवमत्र योजनेत्याह इति सङ्गतिः इति । इति - एवम्, सङ्गतिः, सम्बन्धो भवतीत्यर्थः । इति शब्द आह्निकव्याख्यासमाप्तौ, शिवपदं मङ्गलवाचकं परतत्त्वसूचनपरञ्च ।
एवमत्र स्फुटा योजना । किन्त्विति पक्षान्तरे, सा निर्माणशक्तिः
- क्रियाशक्तिः, विदुषः - तद्विषयज्ञानयुक्तस्य, ईशितुः - भगवतः, परप्रमातुरपि भवति, सा का ? तेन ईशित्रा कर्त्रा तथाविज्ञातृ- विज्ञेयभेदः यत् अवभास्यते । इति शिवम् ॥ ८ ॥
इति श्रीमत्पूज्यतमपादाचार्यश्रीभास्करकण्ठविरचितायां श्रीप्रत्यभिज्ञासूत्र विमर्शिनीटीकायां भास्कर्याख्यायां क्रियाधिकारे प्रथममाह्निकम् ॥ १ ॥