ते हि ग्राह्यग्राहकयोर्मध्ये किमपि तद्योजकं तत्त्वं यत् इदमस्य ग्राह्यम्, इदमस्य ग्राहकम्, इति परामर्शकं भवति तत्र निष्ठा एव भवन्ति ।
तदुक्तम् :-
एकचिन्ताप्रसक्तस्य यतः स्यादपरोदयः ।
उन्मेषः स तु विज्ञेयः स्वयं तमुपलक्षयेत्
इति । अस्मदीयं पद्यमपि :-
देहाद्रिस्थमनोद्रुमस्थकलनाशाखालिसन्ध्यन्तरात् द्रष्टुं जाड्यहरं विमर्शविभवादुन्मेषरूपं रविम् ।
लग्ना ये सततं तदेकमयतां पश्यन्त आत्मन्यथो संसारेऽपि च तत्प्रकाशवशतो भातेऽस्तु तुभ्यं नमः ॥
इति । ननु समले व्यवहारे कथं प्रमातृतत्त्वप्राप्तिर्युक्तेत्यत आह अप्रत्यभिज्ञात इति अन्येषाम् - पूर्वं बहुविधैरुपायैः प्रत्यभिज्ञातात्मतत्त्वानाम्, एतेन प्रबुद्धानामेवात्राधिकार इति द्योतितम् । समलो व्यवहारश्च क्रयविक्रयादिरूपः ऋजुतया कृतोपि, विमलः उपदेशादिरूपः, देशकालशास्त्रविरुद्धस्तु व्यवहार एव न भवतीति नान्यथा भ्रमितव्यम् । इति शब्द आह्निकसमाप्तौ । शिव इति पदं मङ्गलप्रतिपादकं परतत्वसूचनपरञ्च । इति शिवम्
इति श्रीभासकरकण्ठविरिचतायां श्रीप्रत्यभिज्ञासूत्रविमर्शिनीटीकायां श्रीभास्कर्याख्यायां ज्ञानाधिकारे सप्तममाह्निकं समाप्तम् । [शुभमस्तु । पुनः प्रारम्भो भूयात् । ॐ श्रीगुरवे नमः । ॐ श्री शिवार्पणमस्तु । ॐ श्रीपरशिवाय नमः । ॐ श्री परादेव्यै नमः । ॐ श्री स्वात्मने शिवाय नमः । ॐ ज्योतीरूपाय परमात्मने नमः । ॐ श्री विघ्नहन्त्रे नमः ।
ॐ श्री प्रतिभादेव्यैः नमः ।]
अथ ज्ञानाधिकारे माहेश्वर्यनिरूपणं नामाष्टममाह्निकं प्रारभ्यते ।
स्वसंवेदनसंसिद्धव्यवहारवशेन यः ।
नित्यं महेश्वरः सिद्धः सिद्धानां तं स्तुमः शिवम् ।
अथ अष्टमाह्निकप्रारम्भः ।
प्रसिद्धव्यवहारेण स्मृतिमात्रैकसिद्धिना ।
स्मृत्याश्रयं स्वयं सिद्धं हृदये तं स्तुमः शिवम् ॥
अथ ज्ञानाधिकारे ऽष्टमाह्निकव्याख्यानिर्विघ्नसमाप्तये परतत्त्वरूपेष्टदेवता - परामर्शनरूपं मङ्गलं मनसानुष्ठितमपि शिष्यशिक्षार्थ [शिष्यशिक्षार्थे - च्।] सकलाह्निकतात्पर्यसूचनापरेण [सकलाह्निकसूचनापरेण - च्।] श्लोकेनोपनिबध्नाति स्वसंवेदन इति । वयं तम् - यच्छब्दाविष्टे पूर्ववाक्ये प्रोक्तस्वरूपम्, शिवम् - अपरिच्छिन्नम्प्रकाशस्वरूपं सर्वेषां भावानां प्रकाशकारि सारप्रदञ्च किमपि तत्त्वम्, स्तुमः ।
तं कम् ? यः शिवः सिधानाम् - सुप्रबुद्धानां न तु प्रबुधानाम्, तेषामर्थे एवोपदेशप्रवृत्तेः, नाप्यप्रबुधानाम्, तेषामत्र कथामात्रेप्यनधिकारात् । स्वसंवेदनसंसिद्धः - स्वप्रतीतिसाक्षिकः, यः व्यवहारः - देहस्थितिपर्यन्तं त्यक्तुमशक्या समला क्रयविक्रयादिरूपा, विमला वा उपदेशादिरूपा व्यवहृतिः, तस्य वशेन - सामर्थ्येन, न तु केवलभावनाद्यपायनिचयेनैव । नित्यम् - सदैव, न तु कुत्रापि परिमिते समाधिसमये एव, महेश्वरः - ज्ञानक्रियारूपमहैश्वर्ययुक्तः, सिद्धः - स्वयंसिद्धनिजात्मरूपतया स्थितः, न तु बहिः साधनीयतया स्थितो भवति, सिद्धा हि व्यवहारसमयेऽपि तत्कारणस्मृतिसम्बन्धादिमूलभूतयोजक- ज्ञानक्रियाशक्तियुक्तपरप्रमातृरूपान्तरतत्त्वमेव महेश्वरतया जानते न तु बहिः कमपि भस्मादिभूषितं मूढोपासामात्रार्थं कल्पितं परिमितं देवविशेषम् । सोऽपि
एवं ज्ञानस्मरणपोहनानि व्युत्पाद्य एषामेकमाश्रयं [तेषाम् - क्। ष्। ष्।] विना व्यवहारो न युक्तः इति निरूपितम् एतावता,
कल्पितः किं ज्ञानक्रियासहितः क्रियते ? न चेत्तर्हि पाषाणोपमः स न क्रीडाशीलवाचकदेवशब्दवाच्यतां भजते, यदि तु तद्युक्तः तर्हि स आत्मैवेति किमर्थं कल्पनया स्वात्मा खेद्यते, या तु ज्ञानक्रिययोः परिमितत्वापरिमितत्वशङ्का सा उपाधिकल्पितैव, उपाधिरप्यत्र विचारितो न ततो ऽतिरिच्यते । अत्र चाग्निकण एव दृष्टान्तीकार्यः, स हि महाग्निना सह कमपि भेदं नैव भजते, शनैः शनैः शक्त्यासादनेन सोऽपि हि महाग्निरेव भवतीत्यलम् । सिद्धानां समाधिदेशो व्यवहारदेशव्यतिरिक्तो नास्त्येवेति तस्याकथनम्, भवन्नपि वा समानविश्रान्तिस्थानतया अवज्ञापदमेव । यद्यपि तेषां व्यवहारपदमप्यवज्ञापदमेव तथापि समाधौ विश्रान्तानां व्यवहारसमये क्षोभभाजां प्रबुद्धानामर्थे एवमुक्तम्, यथा तेऽपि सुप्रबुद्धा भवेयुरिति । अप्रबुद्धानां यद्येतदुच्यते तर्हि स्वप्रवृत्त्यैव व्यवहारावटलग्नास्ते [व्यवहारवटलग्ना - च्।] ततोऽप्यधःपातं भजेयुः । यदि तु ते स्वप्रवृत्त्यैवात्र विशन्ति विशन्तु, विधिरेव त्राणं तेषां करिष्यति किमस्माकमशक्तानां तत्र निषेधप्रवृत्त्या । तदुक्तम् :-
तेषामवटलग्नानां विधिस्त्राणं करिष्यति
इति ।
एतेनात्राह्निके माहेश्वर्यनिरूपणमेव करिष्यतीति सूचितम् ।
एवं मङ्गलं सम्पाद्य समस्तव्यस्तत्वाभ्यामाह्निकतात्पर्य- निरूपणं करोति एवम् इति ।
अत्र टीका :-
व्युत्पाद्य - पृथक् पृथग् आह्निकत्रयेण निर्णीय, ऐषाम् - ज्ञानस्मरणापोहनानाम्, एकमाश्रयम् - प्रमातृरूपमेकमधिकरणम्, व्यवहारः - समस्ता समला विमला वा व्यवहृतिः, एतावता, समनन्तरोक्ताह्निकेनेत्यर्थः ।
न चेदन्तः कृता …,
इत्यत्र यत् उक्तम् “एकः” इति तत् परिघटितम् । अन्तराभाससमर्थनेन “अन्तःकृतानन्तविश्वरूपःऽ, इत्यपि निरूपितम् । यदत्रैव [यत्तत्रैव - क्। ष्। ष्।] “महेश्वरः” इति उक्तम् तन्माहेश्वर्यं स्वातन्त्र्यरूपमुपपादयितव्यम्, तच्च ज्ञानविषयं क्रिया - विषयं च इत्युभयप्रकारम्, तत्र यतो [ततो भगवान् - क्। ष्। ष्।] भगवान् ज्ञाता कर्ता च, यद्यपि च प्रकाशविमर्शात्मकं चिदेकघनम् एकमेव संविद्रूपम्, तथापि व्युत्पादनाय
न चेदन्तः कृत इत्यत्र, अस्मिन् श्लोके इत्यर्थः । एकः इति ज्ञानाद्याश्रयस्यैकत्वकथनम्, तत् - एकः इति कथनम्, परिघटितम्, एकाश्रय - समर्थनेन? समर्थितमित्यर्थः । अन्तराभासानां [अनन्तराभासानाम् - च्।] यत् समर्थनम् - युक्त्या साधनम्, तेन, इत्यपि - अयं श्लोकभागोऽपि, निरूपितम् प्रागिवार्थः इत्यत्र निर्णीतमित्यर्थः? ।
अत्रैव - न चेदन्तःकृत इत्यत्र श्लोक एव, तन्माहेश्वर्यम् - महेश्वरत्वसमर्थकं महेश्वरभावम्, कीदृशम् ? स्वातन्त्र्यरूपम् - अनन्यमुखप्रेक्षित्वरूपम्, कर्तृत्वरूपमिति यावत्, उपपादयितव्यम्, अवशिष्टत्वेन साधनीयमित्यर्थः । एतेन न चेदन्तकृत इत्यादिपदनिवहरूपस्यास्य श्लोकस्यैव ज्ञानाधिकारसूत्रत्वं सूचितम्, स एव हि पूर्वपक्षक्षोदानन्तरं बीजत्वेन स्थापितः तस्यैव च प्रतिपदं निर्णयः कृतः क्रियते चेति । ननूपपादयितव्यं स्वातन्त्र्यरूपं माहेश्वर्यं किम्प्रकारमित्यत आह तच्च इति । तच्च - माहेश्वर्यं च, ज्ञानं विषयः यस्य तादृशम्, क्रिया विषयः यस्य तादृशम् इत्युभयप्रकारम् - द्विप्रकारं भवति तत्र - तस्मिन्नैश्वर्ये सति, यतः - यस्मात् प्रकारद्वयाद्धेतोः, भगवान् - ऐश्वर्ययुक्तः परप्रमाता, ज्ञाता कर्ता च भवति, ज्ञाने स्वतन्त्रो हि ज्ञाता, क्रियारूपे कर्मणि स्वतन्त्रः कर्ता । ननु सर्वत्रैश्वर्यस्यैकत्वेन प्रसिद्धत्वात् कथं द्विप्रकारत्वमुक्तम् इत्यत आह यद्यपि इति । प्रकाशविमर्शात्मकम् - सर्वोपरागसहप्रकाशता -
तत्परिघटित एव अयं विभागः, तेन ज्ञानात्मकक्रियाविषयं स्वातन्त्र्यं यद्यपि क्रियाशक्तिरूपं तथापि तत् ज्ञानाधिकार [तथापि ज्ञानाधिकार एव - क्। ष्। ष्।] एव निर्णेतव्यं तद्विषयत्वात् एवं च ज्ञातृशब्दार्थः प्रकृतितः प्रत्ययतश्च सम्पूर्णतया निर्णीतो
दृक्स्वरूपामर्शनरूपम्, अत एव चिता एकघनम् - अतिनिबिडम्, तथा एकमेव, न हि शक्तिशक्तिमतोर्भेदो युक्त इति भावः । संविद्रूपम् - प्रमातृतत्त्वरूपं भवति । तथापि व्युत्पादनाय - अज्ञबोधनार्थाय, विभागः - शिवशक्तिरूपः शक्तौ कर्तृत्वज्ञातृत्वरूपश्च, तत्परिघटित एव - शास्त्रकारभावमासाद्य तेन निर्मित एव भवति । तदुक्तम् :-
एकस्मिन्नेव तत्त्वे शिवशक्तिविभागकल्पनां कुर्मः
इति । न च प्रयोजनापेक्षया तावत् कल्पिते वस्तुनि मध्ये आक्षेपो युक्त इति भावः फलितमाह तेन इति । तेन - यतोऽयं विभागः परव्युत्पादनमात्रप्रयोजन एव भवति ततः कारणात्, ज्ञानात्मिका - ज्ञा अवबोधने इति दृशा ज्ञानरूपा, क्रिया - ज्ञानात्मकक्रिया सा विषयो यस्य तादृशम्, स्वातन्त्र्यम् - तृच्प्रत्ययवाच्यं कतृत्वम्, यद्यपि क्रियाशक्तिरूपं भवति, कर्तृत्वं हि कारकशक्तिरेव, सा च करोतीति कारकम् इति व्युत्पत्त्यनुसारेण क्रियैव, तथापि तत् - स्वातन्त्र्यम्, ज्ञानाधिकारे एव न तु वक्ष्यमाणे क्रियाधिकारे, निर्णेतव्यम् - निर्णयविषयीकार्यम्, कुतः ? तद्विषयत्वात् - ज्ञानविषयत्वात्, न हि अयं नियमः क्रियावचन एव धातुः इति, गडि वदनैकदेशे इत्यादौ तद्व्यतिरिक्तवाचकस्यापि दर्शनादिति भावः । ज्ञानाधिकारे हि ज्ञानं तद्विषयः कर्ता च निर्णेयः, यदि तु तस्य ज्ञानस्यापि धात्वर्थत्वेन क्रियात्वमुच्यते तर्हि अस्यापि क्रियाधिकारे एव कथनं युक्तं स्यादिति अस्याधिकारस्य निर्विषयत्वमेवापतेत्, यत्तु कारकशक्तित्वेन कर्तृत्वस्य क्रियात्वमुच्यते तत्राङ्गीक्रियमाणे क्रियाद्वैतवाद एवापतेत् गौणमुख्यकारकमात्रभरितत्वाज्जगतः, अत एव च ज्ञातृत्वेऽन्तर्गतं कर्तृत्वं निष्कृष्यापि ज्ञानाधिकार एव निर्णीतम्, ज्ञानाधिकारस्य येन कर्तरि ज्ञातरि इत्युपक्रमे शुद्धे
भवति । तत्र ज्ञानं नाम स्वयम्भेदिताभासभेदोपाश्रयनियन्त्रणासङ्कुचितम् “अहमिति” संवेदनम् । तत्राभासेषु यत् स्वातन्त्र्यं तदेव ज्ञानाशक्तिविषयं स्वातन्त्र्यं सम्पद्यते इति ।
ज्ञानक्रिये यतः इति पर्यन्ते च प्रतिपादनम् [प्रतिपादितम् - च्।], क्रियाधिकारे तु ततो निष्कृष्य कालादिभावेन पुष्टिं गतस्य क्रियातत्त्वस्य तद्विषयस्य च निर्णयः । प्रथमं हि प्रमाता जानामीत्यनुभवति, ततः करोति, तत्र जानामीत्यत्र प्रकृत्या ज्ञानमुच्यते प्रत्ययेन तु कर्तृत्वम्, परन्तु एतत् कर्तृत्वं ज्ञातृत्वमेव, अज्ञावबोधनार्थन्तु पृथग्निदशः, यत्तु करोतीत्यत्र कर्तृत्वं तत् पुष्टिरूपमन्यत् किञ्चिदेवेत्यलमतिगहनेषु वस्तुषु व्यर्थकल्पनाभिः । एतेन फलितं वस्तु कथयति एवञ्च इति, ज्ञानक्रिययोरेकत्वे सति, ज्ञातृशब्दार्थः - तृच्प्रत्ययाप्तज्ञाधात्वर्थः, प्रकृतितः - अवबोध - वाचिन्याः प्रकृतेः, प्रत्ययतश्च - स्वान्तःकृतक्रियाकर्तृवाचितृच्प्रत्ययाच्च, सम्पूर्णतया
- सम्यक् पूर्णतया, निर्णीता भवति, ज्ञानक्रियात्मकैकपिण्डवाचकत्वेन स्थापनादिति भावः । ननु ततः किमित्यत आह तत्र इति । तत्र सति आचार्येण कर्त्रा, तत् - ज्ञानं कर्म, तात्कालिकाक्षसामक्ष्य इत्यादिना शुद्धे ज्ञानक्रिये यतः इत्यन्तेन श्लोकैकादशकेन निरूप्यते - निरूपणाविषयतां नीयते । कुतः ? इति, इति कुतः ? तदेव कर्तृ, ज्ञानशक्तिविषयं स्वातन्त्र्यम् - पराकाष्ठाप्राप्तौ पराहन्तारूपं महास्वातन्त्र्यम्, सम्पद्यते । तदुक्तम् :-
ततश्चक्रेश्वरो भवेत्
इति । तदेव किम् ? स्वयम्भेदिताः - अपोहनशक्त्या तेन परप्रकाशेन स्वतो भिन्नतया भासिताः ये आभासभेदाः - घटपटादिरूपाः, ते उपाश्रयाः यस्याः तादृशी या नियन्त्रणा
“तात्कालिकाक्षसामक्ष्य… ।”
इत्यादिना
“…शुद्धे ज्ञानक्रिये यतः ।”
इत्यन्तेन श्लोकैकादशकेन तत् निरूप्यते । तत्र अभासान्तरापेक्षी च आभासोऽन्यथा वा इति श्लोकेन उक्त्वा, स एव आभास एक इति श्लोकान्तरेण उच्यते । अर्थक्रियाभासोऽपि तथैव आभासनियत इति श्लोकद्वयेन उक्त्वा कस्मिन् आभासे सा अर्थक्रिया इति पुनः श्लोकद्वयेन ।
नियतरूपाश्रयणम्, तया सङ्कुचितम् - सङ्कोचं गतम्, तन्मात्रज्ञातृत्वेन स्थितमिति यावत्; अहमिति संवेदनम्, परिमिताहंरूपमित्यर्थः । अत एव तत्राभासेषु स्वातन्त्र्यम् - तावन्मात्रेण तु सर्वत्र स्वातन्त्र्यरूपम् । अयं सङ्क्षेपः । यतः परिमिताहंरूपमघटघटादिषु [परिमिताहंरूपयाघटघटादिषु - च्।] ज्ञातृतया स्थितं ज्ञानशब्दवाच्यं वस्तु एव देहाद्युपाधेर्निष्कृष्टमत एव पराकाष्ठामाश्रितं पराहन्तारूपं सर्वज्ञत्वरूपं [सर्वज्ञतृरूपम् - च्।] महास्वातन्त्र्यं भवति, अतः तदेव आद्यन्ताभ्यामुपलक्षितेन श्लोकैकादशकेन निर्णीयते इति ।
एवं सामस्त्येनाह्निकाभिप्रायमुक्त्वा व्यस्तत्वेन कथयति तत्र इति ।
तत्र - श्लोकैकादशकमध्ये, आभासान्तरापेक्षा - स्फुटतावस्थायां दर्शनाद्याभासरूपव्यतिरिक्ताभासापेक्षी, आभासः - नीलाद्याभासः, चः समुच्चये, अन्यथा वा, स्फुटत्वावस्थायामाभासान्तरानपेक्षी चेत्यर्थः, वा शब्दोपी समुच्चये एव, स आभासः एक एव इति, एवकारो भिन्नक्रमः, श्लोकेन, प्रथमेनेत्यर्थः, श्लोकान्तरेण - द्वितीयेन श्लोकेन, तथैव - आभासानुसारेणैव, आबासनियतः - नीलाद्याभासनियतः, श्लोकद्वयेन - तृतीयचतुर्थाभ्याम्, पुनः श्लोकद्वयेन - पञ्चमषष्ठाभ्याम्, आभासान्तरैः चित्रितः - विचित्रीकृतः आभासः आभासान्तरचित्रिताभासः, तस्य भित्तिस्थानीयम् - आधारभूतम्, आन्तरत्वम् - प्रकाशान्तर्गतत्वम्,
आभासान्तरविचित्रिताभासभित्तिस्थानीयम् [आभासान्तरविचित्रस्य भित्तिस्थानीयम् - क्। ष्। ष्।] आन्तरत्वम् इति श्लोकेन । ततो बाह्यत्वं स्वरूपतो विभागतश्चेति [विभागश्च श्लोकयुग्मेन - क्। ष्। ष्।] श्लोकयुग्मेन । ततः श्लोकेन ज्ञानादिशक्त्याश्रयस्य एकस्य उपसंहारः । श्लोकान्तरेण महेश्वरत्वम् उपसंहरता भाविनः क्रियाधिकारस्य उपक्षेप इति सङ्क्षेपार्थ आह्निकस्य । अथ श्लोकार्थो निरूप्यते ।
ननु यदि परमेश्वरनिष्ठतयैव समस्तोऽयं व्यवहारः तत् अस्य स्फुटत्वास्फुटत्वप्रायप्रसिद्धवैचित्र्यानुपपत्तिः, येन किल अयम् अनुप्राणितः स एक एव भगवान्, न च तद्व्यतिरेकेण व्यवहारस्य निजं किञ्चन तत्त्वम् उत्पश्याम इत्याशङ्क्याह :-
श्लोकेन, सप्तमेनेत्यर्थः, श्लोकयुग्मेन, अष्टमनवमाभ्यामित्यर्थः ।
ततः - तदनन्तरम्, श्लोकेन, दशमेनेत्यर्थः, एकस्य, एकात्मतया स्थितस्य चिदात्मन इत्यर्थः, उपसंहारः - समस्तधर्माक्षेपेण सङ्क्षेपतः कथनम्, श्लोकान्तरेण - एकादशेन, महेश्वरत्वम् - चिदात्मगतं महेश्वरभावम्, इति - एवम् । श्लोकार्थकथनं प्रतिजानीते अथ इति ।
एवं समस्तव्यस्तत्वाभ्यां सकलाह्निकतात्पर्यमुक्त्वा प्रथमद्वितीययोः श्लोकयोरवतरणिकां करोति ननु इति ।
अत्र टीका :-
परमेश्वरनिष्ठतयैव - योजकरूपपरप्रमातृभित्तित्वेनैव, तत् - तदा, अस्य - व्यवहारस्य, येन - भित्तिभूतेन येन प्रमात्रा, अनुप्राणितः - दत्तसत्ताकः । ननु तर्हि व्यवहारस्तद्व्यतिरिक्त एवास्तु इत्यत आह न च तद्व्यतिरेकेण इति । तद्व्यतिरेकेण - परमेश्वररूपपरप्रमातृव्यतिरेकेण, इत्थम्भावे तृतीया । एवमवतरणिकां कृत्वा श्लोकद्वयमु?पन्यस्य व्याचष्टे । तात्कालिक इति ।
तात्कालिकाक्षसामक्ष्यसापेक्षाः केवलं क्वचित् ।
आभासा अन्यथान्यत्र त्वन्धान्धतमसादिषु ॥ १ ॥
विशेषोऽर्थावभासस्य सत्तायां न पुनः क्वचित् ।
विकल्पेषु भवेद् भाविभवद्भूतार्थगामिषु ॥ २ ॥
केवलम् एतावता आभासानां भेदो न पुनरर्थावभासस्य स्वात्मगतः कचिदपि भेद इति श्लोकद्वयस्य सम्मेलितस्य सम्बन्धः ।
यस्मिन्नेव काले स आभास आभाति तत्काले एव भवति, यत् अक्षसामक्ष्यं बाह्येन्द्रियप्रत्यक्षत्वं नाम आभासान्तरं पश्यामीत्येवंरूपं तत्सापेक्षाः तद्व्यामिश्राः क्वचित् आभासा भवन्ति, यत्र स्फुटताव्यवहारः । अन्धविषयः अन्ध -
अत्र टीका :-
तत्र प्रथमं श्लोकद्वयस्यार्थिकं सम्बन्धं कथयति केवलम् इति । एतावता, अक्षसामक्ष्यापेक्षित्वान्यथात्वमात्रेणेत्यर्थः ।
आभासानाम् - नीलाद्याभासानां तज्ज्ञानाद्याभासानाञ्च, भेदः
- परस्परतो भिन्नता, पुनः - पक्षान्तरे, स्वात्मगतो भेदः, स्वगतभेद इत्यर्थः । सम्बन्धः - आर्थिकी योजना । सम्बन्धमुक्त्वा व्याख्यां कर्तुमारभते यस्मिन्नेव इति । यस्मिन् काल एव स आभासः नीलाद्याभासः, आभाति - फुरति, तत्काले एव बाह्येन्द्रियप्रत्यक्षत्वं नाम - बाह्येन्द्रियप्रत्यक्षत्वाख्यमक्षसाम-क्ष्यम आभासान्तरम् - अक्षसामक्ष्यरूपः अन्य आभासः यद् भवति, कीदृशम् ? पश्यामि इत्येवं रूपं यस्य तादृशम्, पश्यामोत्येवंरूपम्, तत्सापेक्षाः - आभासान्तरापेक्षायुक्ताः । एतद् व्याचष्टे तद्व्यामिश्राः इति । क्वचिद् आभासाः - नीलाद्याभासाः, भवन्ति । क्वचिच्छब्दद्योतितं विषयं स्फुटीकृत्याह यत्र इति । यत्र, यस्मिन् प्रत्यक्षस्थले इत्यर्थः । एतेन आभासाः इत्यन्तं गतव्याख्यम् । अन्यथा इत्यादि शोकखण्डं व्याचष्टे अन्ध इति । अन्धतमस इति लक्षणामाश्रित्य व्याचष्टे अन्धकारस्थ इति । सूत्रस्थन आदि शब्देन व्याध्यादिनष्टकारस्थप्रमातृविषयः
पुनः योऽन्यो व्यवहारोस्फुटतामयः तत्र ते आभासा अन्यथा, तथा हि जात्यन्धस्य बाह्येन्द्रियप्रत्यक्षत्वलक्षणम् आभासान्तरं नैवास्ति, दृष्टतस्तु अन्धीभूतस्य सन्तमसस्थितस्य च तात्कालिकं तत् नास्ति अपि तु प्राक्तनमेव बाह्येन्द्रियप्रत्यक्षत्वम् अनुसन्धत्ते ॥ १ ॥
तस्मात् अर्थावभासस्य केषुचिदपि विकल्पेषु सत्तायां स्वरूपे विशेषोऽसि इति सम्भावना न कर्तव्या । ते हि विकल्पा भाविवस्तुगामिनो वा भविष्यन्निष्ठा वा भवन्तु वर्तमाननिष्ठा वा अतीतवस्तुविश्रान्ता वा ।
एतदुक्तं भवति - नीलमिदं पश्यामि, सङ्कल्पयामि, उत्प्रेक्षे, स्मरामि, करोमि वच्मि [वेद्मि - क्। ष्। ष्।] इत्यादौ नीलाभासोऽसौ स्वरूपतोऽनूनाधिकः । एवं
नेत्रादेः प्रमातुर्ग्रहणम् । अस्फुटतामयः - अस्फुटतारूपः, तत्र - विकल्पमात्ररूपे तस्मिन् व्यवहारे, अन्यथा, आभासान्तरव्यामिश्रणारहिता इत्यर्थः । अत्र समर्थनमुपक्रमते तथा हि इति । अन्धीभूतस्य - रोगादिना नष्टदृष्टेः, तात्कालिकम् - दर्शनकालीनम्, तत् - अक्षसामक्ष्यम्, अनुसन्धत्ते - स्मरति । एतेन प्रथमः श्लोकः कृतव्याख्यः ॥ १ ॥
अथ द्वितीयस्य श्लोकस्य व्याख्यां फलितरीत्या करोति तस्मात् इति ।
तस्मात् - यत आभासानाम् आभासान्तरव्यामिश्रणातदभावकृत एव भेदोस्ति ततः कारणात् । सत्तायाम् इति व्याचष्टे स्वरू ।? इति । सम्भावना न कर्तव्या इत्यनेन सम्भावनायामत्र लिङिबि सूचितम्, भावि इत्यादि समस्तं पदं व्याचष्टे ते हि इति । अत्र साङ्क्षिप्तार्थकथनं प्रतिजानीते एतद् इति । किमुक्तं भवतीत्यपेक्षाया-माह । नीलमिदं पश्यामि इति निर्विकल्पानुभवग्रहणम्, सङ्कल्पयामि इति सविकल्पानुभवग्रहणम्, उत्प्रेक्षे इति भ्रमज्ञानादिग्रहणम्, स्मरामि इति स्मृतिज्ञानग्रहणम् करोमि इति कर्मेन्द्रियव्यापारग्रहणम्, वच्मि इति प्रधानत्वेन वागिन्द्रियव्यापारस्य पृथग्ग्रहणम्,
पश्यामीत्यपि [पश्यामीत्येवम् - क्। ष्। ष्।] यः पीतादिषु । ते पुनराभासाः स्वातन्त्र्येण यदा भगवता स।योज्यन्ते वियोज्यन्ते च तदा अयं स्फुटत्वादिर्व्यव-हारः, [स्फुटत्वास्फुटत्वादिव्यवहारः - क्। ष्। ष्।] नीलमित्याभासस्य उत्प्रेक्षे इत्याद्याभासान्तरव्यवच्छेदनेन [व्यवच्छेदेन - क्। ष्। ष्।] पश्यामीति आभास-व्यामिश्रणायां स्फुटताव्यवहारः । एवं त्रैकालिकव्यवहारवैचित्र्योपपत्तिः ।
परमेश्वरस्वरूपान्तर्भूतत्वे पुनराभासानां न कुतश्चित् व्यवच्छेदः न केनचित् व्यामिश्रणा इति ॥ २ ॥
आदिशब्देनान्येषां सर्वेषां व्यवहाराणां ग्रहणम्, नीलाभासः - दर्शनादिक्रियाकर्मभूतनीलाभासः, अन्यूनाधिकः - अन्यूनातिरिक्तः, एकरूप इति यावत् । दर्शनादि - क्रियाणामपि अन्यूनाधिकत्वम् अतिदेशरीत्या कथयति एवम् इति । एवम् - नीलवत्, पीतादिषु यं पश्यामीत्यपि - पश्यामीत्येवंरूप आभासो भवति सोपि स्वरूपतोऽन्यूनाधिको भवति इति पूर्वेण सम्बन्धः । नीलाभासः पीतद्याभाससोपलक्षणम्, पीताद्याभासा-नामपि अन्यूनाधिकत्वात् । पश्यामोत्यपि इति, अपिशब्दः सङ्कल्पयामीत्यादिक्रिया-भासोपलक्षणपरः, तेषामप्यननाधिकत्वात् ।
पुनः - पक्षान्तरे, ते - आभासाः, भगवता स्वातन्त्र्येण यदा संयोज्यन्ते - परस्परं व्यामिश्रीक्रियन्ते, वियोज्यन्ते - भिन्नतया भास्यन्ते, तदा अयम् - प्रसिद्धः, स्फुटत्वास्फुटत्वादिर्व्यवहारः, भवति, कथमित्यपेक्षायामाह नीलम् इति । व्यवच्छेदनेन - वियोजनेन, अर्थादस्यैव व्यत्ययेनास्फुटताव्यवहारः । सर्वेषु व्यवहारेषु स्फुटत्वास्फुटत्वेऽतिदिशति एवम् इति । ननु यद्ययमेव सिद्धान्तस्तर्हि द्वैतापत्तिरित्यत आह परमेश्वर इति । पुनः - पक्षान्तरे, परमेश्वरस्वरूपान्तर्भूतत्वे - परप्रमातृरूपचित्स्वरूपान्तर्ब्रुडितत्वे । इति शब्दः सङ्क्षिप्तार्थकथनसमाप्तौ ।
एवमत्र श्लोकद्वययोजना । क्वचिदाभासाः - नीलाद्याभासाः तज्ज्ञाना-भासाश्च, अक्षसामक्ष्यसापेक्षाः केवलं भवन्ति, अन्यत्रान्धतमासादिषु अन्यथा भवन्ति । पुनः -
नन्वेतत् नीलादिषु उपपद्यतां यत्र बाह्येन्द्रियव्यपारोऽस्ति, सुखादौ तु तदभावात् कथं वैचित्र्यमित्याशङ्क्याह :-
सुखादिषु च सौख्यादिहेतुष्वपि च वस्तुषु ।
अवभासस्य सद्भावेऽप्यतीतत्वात्तहा स्थितिः ॥ ३ ॥
गाढमुल्लिख्यमाने तु विकल्पेन सुखादिके ।
तथा स्थितिस्तथैव स्यात्स्फुटमस्योपलक्षणात् ॥ ४ ॥
सुखे स्रक्चन्दनादिके च तत्कारणे, दुःखे अहिकटकादौ च तद्धेतौ अतीतेऽनागते वा यद्यपि आभासः स एव तथापि अतीतमिदम्
पक्षान्तरे, अर्थावभासस्य सत्तायाम्, लक्षणया स्वरूपे, क्वचिद्विशेषो न भवति । केषु विकल्पेषु कीदृशेषु ? भावि भवत् इति ॥ २ ॥
अथ तृतीयस्य श्लोकस्य चतुर्थस्य चावतरणिकां करोति नन्वेतत् इति ।
अत्र टीका :-
एतत् - वैचित्र्यम् । एवमवतरणिकां कृत्वा श्लोकद्वयमुपन्यस्य व्याचष्टे ।
सुखादिषु इति ।
अत्र टीका :-
सुख पदं प्रसिद्धत्वेन निगदव्याख्यातम्, सौख्य इत्यादि पदं व्याचष्टे स्रक् इति । तत्कारणे - सुखकारणे, आदिशब्दद्वयग्राह्यं वस्त्वाह दुःखे इति । अतीत इति पदं व्याचष्टे व्यतीते इति । एतदपि निगदव्याख्यातम्, अस्योपलक्षणत्वमभिप्रेत्-याह अनागते इति । अनागते, भविष्यतीत्यर्थः । अवभासस्य सद्भावे इति व्याचष्टे यद्यपि इति । स एव, एक एवेत्यर्थः । यद्यपि तथापि इति योजना अपि शब्दद्योत्या [अपिशब्दद्योत्यगव्याख्यातस्यातीत - च्।] । व्याख्यातस्य अतीत शब्दस्य हेतुपञ्च-मीं व्याख्यातुं यद्यपीत्यस्य चाकाङ्क्षां पूरयितुमाह
अनागतमिदम् इति आभासान्तरेण यतो व्यामिश्रणा अनुभवामीति आभासाच्च यतो व्यवच्छेदः तेन विद्यमानेष्वपि तेषु तस्य प्रमातुः तेन प्रकारेण स्थितिर्न भवति यथा पूर्वम् अभूत् अहम् अधुना सुखो दुःखीति समर्जिततत्तन्निमित्तसामग्रीको वा इति ॥ ३ ॥
तथापि इति । आभासान्तरण - व्यतिरिक्तेनाभासेन सह, यतः - यस्माद्धेतोः । व्यामिश्रणा - मिश्रीभावः, योजनेति यावत्, अर्थात् अर्थावभासस्य, अनुभवामीत्याभासात् - वर्तमानतावभासात्, विच्छेदः - वियोजना, तेन, व्यामिश्रणाविच्छेदाभ्यां हेतोरित्यर्थः ।
सतिसप्तम्यर्थमाह विद्यमानेष्वपि इति । विद्यमानत्वं चात्र स्मरणकृतमेव ज्ञेयम्, अनागते तु मनोराज्यकृतम्, तेषु - सुखादिषु तद्धेतुषु च, तस्य प्रमातुः इति शेषत्वेनाध्याहृतम् । तथा स्थितिः इति व्याचष्टे तेन इति । एतेनाश्राद्धभोजीतिवदत्र प्रसज्यप्रतिषेध इति द्योतितम् ।
तथा शब्दाकाङ्क्षितं वस्त्वाह यथा इति । यथा सा स्थित्ः पूर्वमभूत्, कथम् ? इति, इति किमिति ? अहम - अधुना सुखी अस्मि, दुःखी अस्मि इति, तथा अहमधुना समर्जिता - सम्यगर्जिता तत्तन्निमित्तानाम् - सुखदुःखनिमित्तानाम्, सामग्री येन तादृशः अस्मीति वा । अत्र च सूत्रानुरोधेनैतन्मात्रमुक्तम्, उपलक्ष्यत्वेन गृहीतेऽनागते एवं योजना कार्या, यथा अग्रे भविष्यति, अधुनाहं सुखी दुःखीति समर्जिततत्तन्निमित्तसामग्रीको वेति, तथाद्य नास्तीति । एतेन पूर्वश्लोकव्याख्या सम्पन्ना ।
तथा च योजना । सुखादिषु सौख्यादिहेतुषु च वस्तुषु सत्स्वपि - स्मर्यमाणतया मनोराज्यविषयत्वन च वर्तमानेष्वपि, तथा अवभासस्य
- सुखावभासस्य तद्धेत्ववभासस्य च, सद्भावेऽपि - स्मृतिरूपमनोराज्यरूप-त्वाभ्यां सद्भावेऽपि सति, प्रमातुः अर्थात् तेषु, तथास्थितिः - तथा स्थितिर्न भवति, कुतः ? अतीतत्वात्, न हि अतीतं स्मर्यमाणं सुखादि तद्धेतुर्वा तादृगवभासते तथा उपलक्षणत्वमाश्रित्य अनागतत्वात्, न हि मनोराज्यलिखितं [मनोराज्यलेखितम् - च्।] भावि सुखं तद्धेतुर्वा तादृगवभासते इति ॥ ३ ॥
यदा तु विकल्पेन तानि वस्तूनि बाढम् [गाढम् - क्। ष्। ष्।] उल्लिखति तदा पौनः पुन्यविशिष्टसुखतद्धेतूल्लेखनाभिधानकारणाभासानुप्रवेशात् आभासान्तरव्यामिश्रणात्मना तेनैव अस्मदुक्तेन प्रकारेण न पुनरन्येन, तथा इति, सुखी अहमित्यादिकेन स्थितिः भवति इति सम्भाव्यम् ।
उचितमेतत् यतस्तदानीं
अथ द्वितीयश्लोकव्याख्यां करोति यदा तु इति । विकल्पेन - स्मृतिमनोराज्यरूपया विकल्पसन्तत्या, तानि वस्तूनि - सुखादिरूपाणि तद्धेतुरूपाणि च वस्तूनि, बाढम् - अर्थित्वहेतुकेनातिशयेन, पौनःपुन्येन - आवृत्त्या, यद्विशिष्टं सुखतद्धेतूल्लेखनम् तदेव अभिधानम् - नाम यस्य तादृशं यत्कारणं तस्य यः अवभासः तस्य योऽनुप्रवेशः - व्याप्तिः, तस्माद्धेतोः । भिन्नतया स्थितं तथा शब्दं व्याचष्टे तेन इति । अस्मदुक्तेन - तात्कालिकाक्ष इत्यत्रोक्तेन, स्थिति शब्देन सम्बद्धं तथा शब्दं व्याचष्टे सुखी इति, अस्मीति शेषः । इत्यादिकेन प्रकारेण, वर्तमानतयेति यावत् । सुखादेर्मनोव्यापारैकगम्यमानत्वेन उल्लिख्यमान इत्युक्तम् । सुखहेतौ दुःखहेतौ च बाह्येन्द्रियव्यापारो यद्यपि भवत्येव तथाप्युपचारादेवमुक्तम् । सम्भाव्यम् इत्यनेन सम्भावनायामात्र लिङ इति द्योतितम् । स्फुटमस्योपलक्षणात् इति वाक्यशेषस्य अवतरणिकां करोति उचितमतत् इति । अवतरणिकां कृत्वा व्याख्यां करोति यतः इति । तदानीम् - गाढोल्लेखनसमये, असौ - गाढोल्लेखः । ननु सूत्रे अतीत ग्रहणमे-वास्ति त्वया कथं भाविनोपि व्याख्या कृतेत्यपेक्षायामाह अतीत इति । अन्यथा तन्निर्णयो न भवेदिति भावः । एतेन द्वितीयश्लोकस्य व्याख्या कृता ।
तथा च योजना । तु शब्दो व्यतिरेके पूर्वश्लोकोक्तवस्तुनो व्यतिरेकं द्योतयति । विकल्पेन - स्मृतिरूपेण मनोराज्यरूपेण च विकल्पसन्तानेन, अतीते अनागते वा सुखादिके, गाढम् - अविच्छिन्नप्रवाहेण, उल्लिख्यमाने सति, तथा - अस्मदुक्तप्रका-रेण, आभासान्तरव्यामिश्रणारूपेणेति यावत्, तथा स्थितिः - भूतभाव्यनुभ-वकालवत् स्फुटतयाऽवस्थानम्, स्यात् - भवेत् ।
कुतः ? अस्य - सुखाद्यवभासस्य स्फुटमुपलक्षणात्
स्फुटत्वाभासमिश्रं सुखाभासम् उपलक्षयति असौ । अतीतग्रहणं भाविनोऽपि उपलक्षणम् ॥ ४ ॥
ननु इयता किमुक्तम् भवति - बाह्यरूपाः स्रगादयः सुखादिहेतवो बाह्य-जनिताश्च सुखादयः सुख्यहमिति अभिमानहेतवः इति, ततश्च बाह्यत्वाभावे तज्जन्यत्वाभावे च न तथा [न तथा इति उक्तम् स्यात् - क्। ष्। ष्।] उक्तं स्यात्, तत्र च त एव न केचित्, ततश्च कथमुक्तम् अर्थावभासस्य सत्तायां न क्वापि विशेष इति सत्ताया एव अभावात् इत्याशङ्क्याह :-
भावाभावावभासानां बाह्यतोपाधिरिष्यते ।
नात्मा सत्ता ततस्तेषाभान्तराणां सतां सदा ॥ ५ ॥
अर्थात् गाढोल्लेखकृतादुपलक्षणात्, दर्शनाद्धेतोरित्यर्थः ।
एवञ्चात्राभा-सान्तरव्यामिश्रणयैवाभासवैचित्र्यं न स्वरूपत इति श्लोकद्वयाभिप्रायः । उपपूर्वात् कृतणिचो लक्षेर्ल्युटि रूपं उपलक्षण इति ॥ ४ ॥
अथ पञ्चमस्य श्लोकस्यावतरणिकां करोति ननु इति ।
अत्र टीका :-
इयता - श्लोकद्वयेन । गुरुः यदुक्तं भवति तदाह बाह्य इति । इति उक्तं स्याद् इति सम्बन्धः । इति किमित्यपेक्षायामाह बाह्य इति । अत्र शिष्य आक्षेपं करोति ततश्च इति । ततश्च - तस्मादुक्ताद्धेतोः, न तथा उक्तम् - वस्तु नेत्युक्तं स्यात् । ननु ततः किमित्यत आह तत्र च इति । तत्र च, बाह्यत्वाभावे तज्जातत्वाभावे च सतीत्यर्थः । त एव - सुखादय एव, न केचित्, केवलविकल्पोल्लिखितस्य न किञ्चित्त्वादिति भावः । ननु ते किञ्चिन्मा भवन्त्वित्यपेक्षायां पुनरपि पूर्वोक्तमेव दोषं प्रसञ्जयति ततश्च इति । इति शब्दः उक्तम् इत्यस्य कर्मत्वेन योजनीयः । अस्य हेतुमाह सत्ताया एव
इह सुखमस्ति मम, दुःखं नास्ति ममेति ये भावाभासा अभावाभासाश्च तेषां बाह्यत्वं नाम आत्मा स्वरूपं न भवति, न हि सुखमित्यस्य स्वरूपं बाह्यम् इति वपुषा भाति, सुखस्य हि सुखमेव स्वरूपम् केवलं बाह्यत्वं नाम अभासान्तरम् ईश्वरेण स्वातन्त्र्यबलादेव यदा तत्र सुखाभासे मिश्रतया भास्यते तदा तत् तस्य उपाधिरूपताम् उपरञ्चक्रतां विशेषणत्वं गच्छति, ततश्च यथा नीलाभासाभावे उत्पलाभासस्य न किञ्चित् वृत्तं स्वरूपतो राजाभासाभावे वा पुरुषाभासस्य, तथा बाह्यत्वाभासाभावेऽपि
इति । न हि असति धर्मिणि धर्मकल्पना युक्तेति भावः । इति शब्दः समस्ताश- ङ्क्यमानवस्त्वाक्षेपपरः । आशङ्क्य, प्रश्नोत्तरपूर्वमाशङ्काविष- यतां नीत्वेत्यर्थः ।
एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । भाव इति ।
अत्र टीका :-
भावाभासाः - सुखाभासाः, अभावाभासाः - दुःखाभावाभा- साः, तेषाम् - भावाभावाभासानाम्, बाह्यता इति प्रथमान्तं पदं व्याचष्टे बाह्यत्वम् इति । आत्मा इति पदं व्याचष्टे स्वरूपम् इति । कुतो न भवतीत्यत आह न हि इति । हि - यस्मात् । सुखमित्यस्य - सुखाख्यस्य वस्तुनः, स्वरूपम् - आत्मा, बाह्यम् इति वपुषा - बाह्यतारूपेण, भाति । न हीदं बाह्यमिति कोपि सुखं गृह्णाति अपितु सुखम् इति । तर्हि बाह्यत्वं भासमा- नं किमस्तीत्यत आह केवलम् इति । आभासान्तरम् - सुखाभासव्यतिरिक्त आभासः । ईश्वरेण - परप्रमात्रा, यदा - यस्मिन् बाह्यताग्रहणकाले, भास्यते - भासनविषयतां नीयते । तत् - बाह्यत्वम्, तस्य - सुखाभासस्य । उपाधि पदं व्याचष्टे उपरञ्जकताम् इति । पर्यायान्तरमाह विशेषणत्वम् इति । फलितमाह ततश्च इति । स्वरूपतः न किञ्चिद् वृत्तम् - न कापि स्वरूपहानिः सम्पन्ना । तथा - तद्वत् । सर्वाभिमतबाह्यत्वाभि- प्रायेणाप्रस्तुतस्यापि कान्तादेर्ग्रहणम्, सुखादेर्हि केचन सूक्ष्मदर्शिन एव बाह्यत्वमामनन्ति । म्लानता - शिथिलता । एतेन आत्मा इत्यन्तं
सुखाभासस्य दुःखाभावाभासस्य कान्ताभासस्य च न स्वरूपतः काचन म्लानता इति आन्तराणां सदैव स्थितिः एषाम् ॥ ५ ॥
इह अन्तःकरणे बुद्धिदर्पणात्मनि नीलादीनामवभासानाम् आन्तरत्वमप्यस्ति अन्तःकरणमध्येभवत्वात्, बाह्यत्वमपि ग्राह्यतारू- पं प्रमातुः विच्छेदेनावभासात्, बाह्यत्वं च केवलं बाह्यप्रत्यक्षता, अत्र च अवस्थाद्वयेऽपि
व्याख्यातम् । सत्ता इत्यादिवाक्यं व्याचष्टे इति इति । ततः इति पदं व्याचष्टे इति इति । सत्ता इति पदं व्याचष्टे स्थिति इति । आभासपरामर्शकं विशेष्यवा- चकं तेषाम् इति पदं व्याचष्टे आन्तराणाम् इति । सताम् इत्यस्य आन्तराणाम् इति विशेषणेन सम्बन्धः । एषाम आभासानां कीदृशानाम् ? आन्तराणां सताम्, प्रमात्रैक्येन वर्तमानानामित्यर्थः ।
एवमत्र योजना । पण्डितैः भावाभावावभासानां बाह्यता उपाधिः - विशेषको धर्म इष्यते, उत्पलस्येव नीलत्वम्, तैः पण्डितैः बाह्यता आत्मा स्वरूपं नेष्यते । ततः कारणात् तेषाम् भावाभावाव- भासानाम् आन्तराणां सतां सदा सत्ता भवति । ततश्च बाह्यत्वाभावे न तेषां सत्ताया अभावः । ततश्च तस्यां सत्तायां तेषां विषेष एवेति भाव इति ॥ ५ ॥
अथ षष्ठस्य श्लोकस्यावतरणिकां करोति इह इति ।
अत्र टीका :-
अन्तः करणे - नीलाद्यपेक्षयाऽऽन्तरसुखादिग्रहणसाधनत्वेनान्तः- करणतया स्थिते, बुद्धिदर्पणात्मनि - निर्मलतया बाह्यप्रतिबिम्ब- सहिष्णुत्वेन मुकुरस्थानीये बुद्धितत्त्वे, नीलादीनामवभासानाम् - नीलपीताद्याकाराणामाभासानाम्, आन्तरत्वमप्यस्ति, कुत इत्यत आह अन्तःकरण इति, भवत्वात् - स्फुरत्वात्, तथा बाह्यत्वमप्यस्ति कुतः ? प्रमातुः - परप्रकाशरूपात् प्रमातुः, विच्छेदेनावभासात्, अन्यथा इदमिति नीलादिसमकक्षतया भानायोगात्,
अर्थक्रियाम् अमी कुर्वन्त्येव अन्ततो ज्ञानं स्वविषयम् । यत् पुनः प्रमातृतादात्म्यलक्षणम् आन्तरत्वं तत्र अमी कथं [कस्मात् - क्। ष्। ष्।] न काञ्चित् अर्थक्रियां विदधीरन् इत्याशङ्क्याह :-
आन्तरत्वात्प्रमात्रैक्ये नैषां भेदनिबन्धना ।
अर्थक्रियापि बाह्यत्वे सा भिन्नाभासभेदतः ॥ ६ ॥
चः तुशब्दार्थे । केवल बाह्यत्वं च बाह्यप्रत्यक्षता - बाह्येन्द्रिय- प्रत्यक्षता भवति । नन्वेवं भवतु ततः किमित्यत आह अत्र च इति ।
अवस्थाद्वयेऽपि - बाह्यत्वान्तरत्वरूपे अवस्थायुगलेऽपि । अमी - नीलाभा- सादयः । अन्ततः - परमार्थतः, स्वविषयं ज्ञानमर्थक्रियाम् - स्वविषयज्ञानरूपामर्थक्रियाम् । कुर्वन्त्येव - न तु न कुर्वन्ति, स्वानुभवस्यात्र साक्षित्वादिति भावः । पुनः - पक्षान्तरे, यत् प्रमातृतादात्म्यलक्षणम् - परप्रमात्रैक्यस्वरूपम्, आन्तरत्वं भवति । तत्र - तस्मिन्नान्तरत्वे, अमी - नीलावबासादयः काञ्चिदर्थक्रियां कथं न विदधीरन् - कथं न कुर्वन्तीति सम्भा- व्यते, न च सा दृश्यते इति सम्भावनागर्भं कथनम् । एतेन योगिनां सदा सर्वविषयं प्रतिविषयं च ज्ञानं वर्तत इति भ्रमोपि निरस्त एव ज्ञातव्यः, देहोपाधिं तावत् तदसम्भवात् । न हि सर्वदाहे समर्थोप्यग्- निकणः कणत्वावस्थायां तत्र समर्थो दृश्यते । ननु तर्हि योगिनां सामान्यजनेभ्यः को भेदः इति चेन्न, तद्दृष्टया हि भेदकल्पना कापि न विद्यत एव, त्वद्दृष्टया भवन्ती तु सा तेषामेतज्ज्ञानरूपा एव, न हि अतिशयप्राप्तिभ्रमेण ग्रस्ताः सामान्यजनाः अत्र समाश्वस्ता भवन्ति ।
ननु तहापि कथं तेषां योगित्वमिति चेत्, सत्यम्, ते हि सर्वस्वरूपचिन्मात्र- निश्रिताः स्वात्मनि तत्त्वमेव पश्यन्ति, तेन च स्वात्मानं सर्वव्यापकं जानन्ति, तेन चातितृप्ताः न किमपि वाञ्छन्ति, न प्रवाहागतं त्यजन्ति ।
तदुक्तम् :-
शान्तैर्न गृह्यते किञ्चिन्न च सन्त्यज्यतेऽपि च ।
त्यागादाने न जानन्ति तेऽतस्तैः शान्तमास्यते ॥
इति । अत्रास्मदीयं पद्यमपि :-
चिता सिद्धं यत्तु न तदचिदिति वक्तुं समुचितम् तया “सिद्धं नाचिन्न चिदपि कदाचित् क्वचिदपि ।
चितो द्वारैः सिद्ध यदपि च समस्तं तदपि चित् इतीदं बुद्ध्वान्तः कुरु निजकृतिं मूढवदिमाम् ॥
इति । ननु तर्हि योगिनां सर्वज्ञत्वं सर्वव्यापकत्वं च किं लेशतोऽपि नास्तीति चेन्नैवम् चिन्मात्रस्वरूपं हि सर्वसाक्षित्वेन सर्वज्ञम्, सर्वसत्ता- दायकत्वेन च सन्मात्रतया सर्वव्यापकमेव, तत्रैव च स्वात्मत्वे निश्चिता- नां तेषामान्तरस्पर्शभावेनोभयं [अन्तरस्पर्शभावेन - क्। ष्। ष्।] विद्यते एव तदुक्तम् :-
दिदृक्षयेव सर्वार्थान् यदा व्याप्यावतिष्ठते ।
तदा किं बहुनोक्तेन स्वयमेवावभोत्स्यते ॥
इति । अत्र ह्ययमभिप्रायः । दिदृक्षासमये द्रष्टुः दिदृक्षाविषयीकृतेषु बहुषु वस्तुषु यादृशी सूक्ष्मस्पर्शमात्ररूपा व्याप्तिर्भवति तादृश्येव योगिनः सर्वविषयत्वेनोक्ता, न तु त्वदभिमता, ययाऽसौ महातुष्णाग्रस्तस्य तव समस्तदेशकालगतान् भावान् कथयेद्येन त्वदभिमतसिद्धिः स्यात् । देहास्थितिं तावत्तदसम्भवात्, पर्यन्ते तु त्वदभिमतासिद्धेः, सा सुक्ष्मा व्याप्तिश्च मूढेषु तात्कालिकतृप्तिमात्ररूपा विद्युद्द्योतितरत्नवत् क्षणमात्रमेव स्फुरन्ती न विषयीभवति । प्रबुद्धानाम् अन्यत्र सम्यगभ्यस्तमात्रापि हस्तमायात्येव, सुप्रबुद्धास्तु सर्वदा तन्मया एवेति कापेक्षा तेषां क्षणस्थायिन्यामस्याम् । अतिसूक्षत्वमेवापेक्ष्य च स्वयमेव इत्याद्युक्तम् ।
तदुक्तम् :-
यदभिन्नं स्वसंवित्तौ तत्परस्य यदोच्यते ।
तदा भिन्नमिवाभाति शाब्दीं भूमिमुपाश्रितम् ॥
इति । भवन्ति च कदाचिदतिनिर्मलेभ्यो योगिभ्यस्तप - आद्दिप्रभावेण देशकालविप्रकृष्टविषया आभासाः, परन्तु तेऽपि लेशत एव भवन्ति न तु सामस्त्येन, येन त्वदाशा पूर्णा स्यात् । ईश्वरेच्छानुसारेणैव च ते उत्पद्यन्ते न त्वदिच्छानुसारेण, स्वप्रयोजने विमुखानां तेषां त्वत्प्रयोजनानुसरणायोगात् । ये तु तदनुसरन्ति तेभ्य ऐन्द्रजालिकेभ्यो
प्रमात्रैक्ये इति, तन्निमित्तकं यत् आन्तरत्वं तस्माद्धेतोः, एषाम् आभासानाम् अर्थक्रिया न काचित् अस्ति, सा हि अर्थक्रिया भेदे सति भवति, स हि नीलाभासः पीताभासात् यतो भिद्यते यतश्च प्रमातुर्भिद्यते ततः स्वेन साध्यां [स्वसाध्याम् - क्। ष्। ष्।] नियतां भिन्नाम् अर्थक्रियां तस्य प्रमातुः कुर्यात्,
नम एवेत्यलम् प्रसक्तानुप्रसक्त्या । प्रकृतमनुसरामः । इत्याशङ्क्याह इति, एतां शिष्यशङ्कां सम्भाव्य कथयतीत्यर्थः । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । आन्तरत्वात् इति ।
अत्र टीका :-
प्रमात्रैक्ये - आन्तरत्वात् इति पदद्वयं व्याचष्टे तन्निमित्तकम् इति ।
तन्निमित्तकम् - प्रमात्रैक्यनिमित्तकम् । एतेनेयं निमित्तसप्तमीति सूचितम् ।
पञ्चमीविभक्तिं व्याचष्टे तस्माद्धेतोः इति । एषाम् इति पदं व्याचष्टे आभासानाम् इति । अर्थक्रिया विशेषणं भेदनिबन्धना इति पदं हेतुगर्भत्वेन व्याचष्टे सा हि इति । भेदे सति, भेदे निमित्तभूते सतीत्यर्थः ।
ननु कथमर्थकिया भेदेसति भवतीत्यपेक्षायां समर्थनं करोति स हि इति । यतः - यस्मात्कारणात्, भिद्यते - भगवदपोहनशक्त्या स्वयं भेदविषयतां भजते, कर्मकर्तरि लकारः । एवमुत्तरत्र । स्वेन साध्यां नियताम् - स्वमात्रे लग्नाम्, अर्थक्रियाम् - स्वविषयज्ञानादिरूपाम्, कुर्यात् इति । तथैव भगवन्मायाशक्त्या उत्थानादिति भावः । तदा - प्रमात्रान्तरत्वावस्थायाम् । ननु तर्हि भावानां कदापि नार्थक्रियाका- रित्वं भवेत्, ते हि सदैव प्रमात्रन्तर्गता एव, न तु कदाचिदेव केनापि कारणेन, सत्यम्, यथा भासमाना अपि भावाः सदा तदन्तर्गता एव तथा तत्कृतार्थक्रियापि [तत् कृत्वा अर्थक्रियापि - च्।] भासमानापि तदन्तर्गता एवेति यथा न भावैः प्रमातृशरीरे भेदाशङ्का तथा तत्कृतयाऽर्थक्रिययापि सा न युक्ता एव ।
न च एष तदा भेदोऽस्ति प्रमात्रैक्यात् । सा हि अर्थक्रियाभासभेदनियता, तथा च कान्ताभासस्य बाह्यत्वेऽपि सति आभासान्तरस्य आलिङ्गनलक्ष- णस्य व्यपगमे दूरीभवति, इयम् इति च आभासान्तरस्य उपगमेऽन्यैव प्राक्तनाह्लादविपरीता दृश्यते अर्थक्रिया, अत आभासभेदाभावः यतः प्रमात्रैक्यकृते आन्तरत्वे तस्मात् न अर्थक्रिया इति । अर्थक्रियाभासोऽपि
येषां तु ते भावा न भान्ति तेषां साऽर्थक्रियापि न भात्येव समानन्- यायत्वात्, देहस्थितिं तावच्च भावभानं तदर्थक्रियाभानञ्च दुर्निवारमेव । अभानन्तु अन्यभावेन ज्ञानमात्रमेव । तदुक्तम् :-
प्रकाशमाने परमार्थभाने नश्यत्यविद्यातिमिरे समस्ते ।
तदा बुधा निर्मलदृष्टयोऽपि किञ्चिन्न पश्यन्ति भवप्रपञ्चम् ॥
इति । अत्र च निर्मलदृष्टित्वं भावभानरूपमेव ज्ञेयम्, ज्ञानिनो हि तीक्ष्णेक्षणत्वेन लौकिकनिपुणवदेव सम्यक् पश्यन्ति, अन्यथा जडत्वापातात् । तदुक्तम् :-
ते ह्यज्ञा निपुणा इव
इति । अन्यभावेन ज्ञानमपेक्ष्य न पश्यन्ति इत्युक्तमित्यलं प्रपञ्चेन ।
एतेन अर्थक्रिया इत्यन्तं कृतव्याख्यम् । ननु बाह्यत्वे सा किन्निबन्धनास्- तीत्यपेक्षायाम् अपि इत्यादि श्लोकशेषं व्याचष्टे सा हि इति । तसिलर्थं व्याख्यातुं हि शब्दप्रयोगः । सा इति पदं व्याचष्टे अर्थक्रिया इति ।
बाह्यत्वेऽपि इत्यत्र योजयितु युक्तमप्युदाहरण एव योजयिष्यति आभासभेदे नियता आभासभेदनियता । कथमित्यपेक्षायां समर्थनमुपक्रमते तथा च इति । आलिङ्गनलक्षणस्य - तया सह आलिङ्गनस्वरूपस्य, व्यपगमे - दूरीभवने, दूरीभवति । इयम् इति चाभासान्तरस्य - इत्यं कान्ता दूरे गतेत्येवंरूपस्यान्यस्याभासस्य, उपगमे - प्राप्तौ सत्याम्, अन्या - प्रह्लादाभावरूपा प्रत्युत सन्तापरूपा, अतः - अस्माद्धेतोः । इति शब्दः प्रमेयसमाप्तौ । नन्वर्थक्रियाभावे भावाभावयोरसत्त्वमेवा- यातमिति [भावे भावयोरक्षत्वम् - च्।] बौद्धमतमाशङ्क्याह अर्थक्रिया
च आभासान्तरमेव इति अर्थक्रियाकारित्वमपि न भावानां सत्त्वम्, येन तदभावे स्वरूपतोऽभावः [स्वरूपत एवाभावः - क्। ष्। ष्।] स्यात् ॥ ६ ॥
ननु च बाह्याभासव्यतिभेदनकाले आन्तराभासो विरोधात् विच्छिन्न इति कथम् इदम् उक्तम् आन्तराणां य आभासः स सदा इति ? एतत् परिहरति :-
चिन्मयत्वेऽवभासानामन्तरेव स्थितिः सदा ।
मायया भासमानानां बाह्यत्वाद्बहिरप्यसौ ॥ ७ ॥
इह अवभासानां सदैव बाह्यताभासतदभावयोः अपि अन्तरेव
इति । आभासान्तरमेव - भावाऽभावाभासादन्य एवाभासः । इति - अतः कारणात, तदभावे - अर्थक्रियाया अभावे, स्वरूपतोऽभावः - भावाभावाभासयोः स्वरूपाभावः ॥ ६ ॥
अथ सप्तमस्य श्लोकस्यावतरणिकां करोति ननु च इति ।
अत्र टीका :-
बाह्याभासेन यद् व्यतिभेदनम् - विशिष्टीकरणम्, तस्य काले - समये, यदा बाह्यमिदम् इति वस्तु गृह्यते तदेति यावत् । आन्तराभासः - आन्तरमि- दम् इत्याभासः । इति - अतः कारणात् । किमुक्तं भवतीत्यपेक्षायामाह आन्तर इति । आन्तराणाम् - प्रमात्रन्तःस्थितानां वस्तूनाम्, इति शब्दः उक्तिसमाप्तौ, एतत् - शङ्कितं वस्तु, परिहरति - अयुक्तत्वेन परिहारविषय- तां नयतीत्यर्थः । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे ।
चिन्मयत्वे इति ।
अत्र टीका :-
अवभासानाम् - नीलसुखादिरूपाणामाभासानाम्, सदैव इति व्याचष्टे बाह्यताभासतदभावयोः इति, बाह्यताभाससमये आन्तराभाससमये वेत्यर्थः ।
प्रमातृप्रकाश एव स्थितिः, यत एते चिन्मयाः, अन्यथा नैव प्रकाशेरन् इति उक्तं यतः । यदा तु मायाशक्त्या विच्छेदावभासनस्वातन्त्र्यरूपया [विच्छेदनावभासन - क्। ष्। ष्।] बाह्यत्वम् एषाम् आभास्यते तदा तत् अवलम्ब्य अवभासमानानाम् असौ स्थितिः बहिरपि अन्तरपि । नायम् अन्तराभासो बाह्यत्वस्य विरोधी प्रत्युत सर्वाभासभित्तिभूतोऽसौ, तत् कथं विरोधः इति युक्तमुक्तम् “सदैव आन्तराणां सत्ता” इति ॥ ७ ॥
अन्तरेव इति व्याचष्टे प्रमातृ इति । एव शब्दस्य काकाक्षिवदुभयत्र सम्बन्धः । कुत इत्यपेक्षायां चिन्मयत्वे इति व्याचष्टे यतः इति । यतः शब्देन सप्तमीद्योत्यस्य हेतुत्वस्य कथनम्, स्थिति शब्दस्य स्फुटत्वेन निगदव्याख्यानम् । सूत्रेऽनुक्तमपि व्यतिरेकरीत्या हेतुमाह अन्यथा इति ।
उक्तम् इति, प्रागिवार्थः इत्यत्र । यतः इति हेतुत्वद्योतनार्थम् । पूर्वार्धं व्याख्यायोत्तरार्धं व्याचष्टे यदा इति । विच्छेदेन - परप्रमातुरन्योन्य- तश्च भेदेन, अवभासने - नीलाद्यवभासने, स्वातन्त्र्यम् - स्वतन्त्रता, तद्रूपं यस्यास्तादृश्या । एषाम् - नीलाद्याभासानाम्, तत् - बाह्यत्वम्, अवलम्ब्य - आश्रित्य । असौ इति पदं व्याचष्टे स्थितिः इति । अपि शब्दात् अन्तरपि इत्युक्तम् । एतेन बाह्यत्वात् इत्यत्र ल्यब्लोपे पञ्चमीति द्योतितम् । सूत्रेऽनुक्त- मपि फलितं स्वाभिप्रायं कथयति नायम् इति । असौ - अन्तराभासः, तत्कथं विरोधः इति न हि मृदाभासो घटाभासविरोधीति भावः । इति - अतः कारणात्, इति - एतत्, आचार्येण युक्तमुक्तम् । इति किमिति ? सदैव इति, आन्तराणाम् - आन्तरत्वेन स्थितानां नीलादीनाम् ।
एवमत्रोत्तरार्धे योजना । मायया भासमानानाम् - भेदेन भासमानानाम्, अर्थात् एषामान्तराणां नीलाद्याभासानाम्, मायया बाह्यत्वात् - मायाकृतं बाह्यत्वमाश्रित्य,
ननु बाह्यत्वे सति अर्थक्रिया, तच्च बाह्येन्द्रियगम्यत्वम्, न च विकल्पोल्लिखितानां तत् सम्भवति, तत् कथम् अमीषाम् अर्थक्रिया स्यात्, दृश्यते च विकल्पोल्लिखितः पिशाचादिः त्रासादिविधायी इत्याशङ्क्याह :-
विकल्पे योऽयमुल्लेखः सोऽपि बाह्यः पृथक्प्रथः ।
प्रमात्रैकात्म्यमान्तर्यं ततो भेदो हि बाह्यता ॥ ८ ॥
विमर्शविशेषरूपे विकल्पज्ञाने य उल्लिख्यमानः कान्ताचौरादिः अर्थः सोपि बाह्यः, न केवलं बहिरवलोक्यमानः, यस्मात् सोऽपि प्रमातुः सकाशात् पृथगेव प्रथते “अयम्” इति, यच्च प्रमातरि अहमित्येव विश्रान्तत्वं तत् आन्तरत्वम्, अन्तरिति निकटम्, तच्च किञ्चित् अपेक्ष्य, अपेक्षणीयश्च
असौ स्थितिः बहिरपि भवति । अपि शब्दः समुच्चये, काकाक्षिवत् मायाशब्दस्- योभयतो योजनेति ॥ ७ ॥
अथाष्टमस्य श्लोकस्यावतरणिकां करोति ननु इति ।
अत्र टीका :-
तच्च - बाह्यत्वञ्च, तत् - बाह्येन्द्रियगम्यत्वम्, अमीषाम् - विकल्पोल्लि- खितानाम् । मास्त्वित्यत आह दृश्यते च इति । आदि शब्देन हर्षादिकारिण्याः स्त्र्यादेर्ग्रहणम् । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे ।
विकल्पे इति ।
अत्र टीका :-
विमर्शस्य - सामान्यतया स्थितस्य विमर्शस्य, विशेषरूपे, विमर्शविशेषरूपे, उल्लिख्यमानः - उल्लेखविषयतां नीयमानः, सोपि - कान्ताचौरादिरपि, यस्मात् - यतः कारणात्, प्रथते - प्रकाशते । कथं प्रकाशत इत्यत आह अयम् इति, इदन्तयेत्यर्थः । कुतस्तदेवान्तरत्वमित्यत आह अन्तरिति इति । निकटम् - समीपम्, तच्च - निकटञ्च, अपेक्ष्य भवतीति शेषः ।
अपेक्षणीयान्तराभावे, प्रमातुर्व्यतिरिक्तस्यापेक्षणीयस्याभावे सतीत्यर्थः । ततश्च - तस्माद्धेतोश्च, तादात्म्यम् -
सर्वत्र प्रमातैव अपेक्षणीयान्तराभावे, ततश्च प्रमातरि निकटं तादात्म्य - प्राप्तमेव [तादात्म्यं प्राप्तम् - क्। ष्। ष्।] इति, ततो यत् भिन्नं तत् बाह्यमेव इति युक्ता उल्लेखस्यापि अर्थक्रिया ॥ ८ ॥
ननु कुम्भकारादिव्यापारेण घटादेः अस्तु बाह्यत्वम्, अन्तःकरण- गोचरस्य तु किं कृतं तत् इत्याशङ्क्य आह :-
उल्लेखस्य सुखादेश्च प्रकाशो बहिरात्मना ।
इच्छातो भर्तुरध्यक्षरूपोऽक्ष्यादिभुवां [अक्षादिभवाम् - क्।
ष्। ष्।] यथा ॥ ९ ॥
अन्तर्विकल्पप्रतिबिम्बितस्य नीलादेः यो बहिरात्मना प्रमातृविच्छिन्नेन स्वभावेन प्रकाशः, स भर्तुः अन्तराभासान् बिभ्रतो बहिः सृष्टिं च पुष्णतः ईश्वरस्यैव इच्छया, यथैव चक्षुरादिविषयभूतानां प्रत्यक्ष -
ऐक्यम् प्राप्तम्, तादात्म्यप्राप्तम् । इति - अस्मात् कारणात् । ततः - तस्मात् कारणात् । ततः - तस्मात्प्रमातुः । इति - अतो हेतोः, उल्लेखस्य - लक्षणया उल्लेखविषयस्य ॥ ८ ॥
अथ नवमस्य श्लोकस्यावतरणिकां करोति ननु इति । स्पष्टम् ।
एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । ऊल्लेखस्य इति ।
उल्लेखस्य इति पदं व्याचष्टे अन्तः इति । भर्तुः इति पदं व्याचष्टे अन्तः इति । डुभृञ् धारणपोषणयोरिति धात्वनुसारेणार्थद्वयं कृतम् । इच्छया इत्यनेन तृतीयार्थेऽत्र तसिल् इति सूचितम् । एतेन भर्तुः इत्यन्त गतव्याख्यम् ।
अध्यक्ष इत्यादि दृष्टान्तपदं व्याचष्टे यथैव इति । अक्ष्यादयः - नेत्रादयः, तेषां याः भुवः - विषयाः, तासाम्, इति विग्रहः सूचितः ।
अध्यक्षरूपः इति व्याचष्टे प्रत्यक्ष इति । नीलादीनाम्
ज्ञानशब्दवाच्यो बाह्यात्मना प्रकाशो नीलादीनाम् । एतदुक्तं भवति - कुम्भकारव्यापारो नाम परमार्थतः ईश्वरेच्छैव तदवभासितकाय- स्पन्दपर्यन्ता, न पुनरन्यः कश्चन सः, ततश्च तथा ईश्वरेच्छया प्रकाशात् अबहिर्भूता अपि नीलाद्या बाह्यकरणगोचरीभूताः कल्पितात् प्रमातुः विच्छिन्नरूपत्वेन [विच्छिन्नरूपेण - क्। ष्। ष्।] बाह्यत्वेन भासन्ते, तथा अन्तःकरणगोचरीभूता अपि इति को विशेषः । सुखदुःखप्रायास्तु भरताद्युक्तरूपाः स्थायिव्यभिचारिरूपा
इति विशेष्याध्याहारः । दुर्बोधत्वमाशङ्क्य पुनः कथनं प्रतिजानीते एतदुक्तं भवति इति । किमुक्तं भवतीत्यपेक्षायामाह कुम्भकार इति ।
कीदृशीच्छा ? तदवभासितः - ईश्वरेणैवापोहनशक्त्याऽवभासितः, यः कायस्पन्दः - कुम्भकारशरीरचेष्टा, सः पर्यन्तः यस्यास्तादृशी ।
अन्तःस्फुरितेच्छैव हि बाह्यस्पन्दभावेन स्फुरति । तदुक्तम् :-
लोकेऽपि किल गच्छामीत्येवमन्तःस्फुरैव या ।
सा देहं देशमक्षांश्चाप्याविशन्ती गतिक्रिया ॥
इति । पुनः - पक्षान्तरे, सः - कुम्भकारव्यापारः । नन्वेवं भवतु ततः किमित्यत आह ततश्च इति । ततश्च - तस्मात्कारणाच्च, यथा ईश्वरेच्छया प्रकाशात् - परप्रमातुः, अबहिर्भूता अपि - बहिर्देशमगता अपि, नीलाद्याः - बाह्यान्तः - करणाग्राह्याः नीलपीतादयः, बाह्यकरण- गोचरोभूताः सन्तः कल्पितात्प्रमातुः - देहादेः प्रमातुः, विच्छिन्नरूपत्वेन बाह्यवेन - इदन्ताग्राह्यत्वरूपेण बहिर्देशस्थत्वेन, भासन्ते, तथा - तद्वत्, अन्तःकरणगोचरीभूता अपि नीलाद्याः विच्छिन्नरूपत्वेन बाह्यत्वेन बासन्ते, परप्रमात्रपेक्षया अन्तःकरणस्- यापि बाह्यत्वात्, अन्यथा इदम् इति ग्रहणायोगादिति भावः । भरतादौ - भरतशास्त्रादौ, उक्तरूपाः विभावादिशब्देनोक्तरूपाः भरताद्युक्त- रूपाः, सुखदुःखप्रायाः, न तु सर्वथा सुखदुःखमात्ररूपाः, हासादिरूपत्वस्यापि स्थितत्वात्,
रतिनिर्वेदादयोऽन्तःकरणैकगोचरीभूता [अन्तःकरणैकगोचराः - क्। ष्। ष्।] बहिरात्मना भान्ति, सङ्कल्पेषु यद्यपि क्षेत्रज्ञस्यैव स्वातन्त्र्यम् तथापि चित्परमार्थताया न्यग्भवयितुम् अशक्यत्वात् ईश्वरस्यैव तत् वस्तुतः, यथोक्तं ग्रन्थकृतैव :-
“यद्यप्यर्थस्थितिः प्राणपुर्यष्टकनियन्त्रिते ।
जीवे निरुद्धा तत्रापि परमात्मनि सा स्थिता ॥
तदात्मनैव तस्य स्यात्कथं प्राणेन यन्त्रणा ।”
स्था?यिव्यभिचारिरूपाः - स्थाय्यष्टकत्रयस्त्रिशत्सङ्ख्याकव्यभिचारिरूपाश्च, रतिनिर्वेदादयः - लक्षणया रतिनिर्वेदादिसंयोगप्रादुर्भूतं रसाष्टकम्, अन्तःकरण- स्यैकम् - केवलम्, गोचरीभूताः, अन्तःकरणैकगोचरीभूताः सन्तः, बहिरात्मना बाह्यत्वेन, भान्ति । परप्रमातुर्विच्छिन्नीभूतत्वात [विच्छित्तीभूताः - च्।] नीलादीनां द्विविधकरणग्राह्यत्वेन बाह्यत्वम्, सुखादीनान्तु अन्तःकरणग्राह्यत्वमात्रेणेति भावः । लौकिक - सुखादीनां तु तादृक्पुष्ट्यभावाद् भरतशास्त्रप्रसिद्धरसग्रहणम् ।
यद्यपि तत्र दुःखस्यापि सुखरूपतैव तथापि दुःखतया स्फुरणमप्य- निवार्यमेव पानके इव मरिचतिक्ततायाः । पानके भातापि हि मरिचतिक्तता “ऽस्वादमधिकं करोति । तथा विभावादिसंयोगे भातमपि दुःखमा- स्वादमेव जनयति, अन्यथा रसत्वायोगात्, रसो हि मिलितविभावादिस्वादमात्र- मेव, तदुक्तं भरते :-
विभावानुभावव्यभिचारिसंयोगाद्रसनिष्यत्तिः
इति । निर्वेदस्थायिकस्य नवमस्य शान्तरसस्येहाप्रस्तुतत्वात् प्रकृतरसाष्ट- कसमकक्षतया कथनमयुक्तमेवेति नान्यथा शङ्कनीयम् ।
ननु सङ्कल्पे स्फुटमेव जीवस्यैव स्वातन्त्र्यं दृश्यते त्वया कथमीश्वरस्योच्यत इत्यत आह सङ्कल्पेषु इति । क्षेत्रज्ञस्यैव - देहाभिमानिनो जीवस्यैव, न्यग्भावयितुम् - नाशयितुम्, तत् - स्वातन्त्र्यम्, वस्तुतः - परमार्थतः । न हि
इति । यत्र तु अनिच्छोरेव क्षेत्रज्ञस्य स्वरसवाहिव्याक्षेपसारा साङ्कल्पिकी सृष्टिः तत्र स्फुटः ईश्वरस्यैव व्यापारः । तस्मात् साङ्कल्पिकानामपि बहिर्भावे परमेश्वरेच्छैव हेतुरिति सिद्धान्तः ॥ ९ ॥
अधुना पूर्वोक्तम् ऐक्यं माहेश्वर्यम्? च निगमयति :-
तदैक्येन विना न स्यात्संविदां लोकपद्धतिः ।
प्रकाशैक्यात्तदेकत्वं मातैकः स इति स्थितम् ॥ १० ॥
स एव विमृशत्त्वेन नियतेन महेश्वरः ॥
विमर्श एव देवस्य शुद्धे ज्ञानक्रिये यतः ॥ ११ ॥
गृहाद्वहिर्निर्गतं दैपमर्चिः गृहद्वारसम्बन्धीति वक्तुं युक्तमिति भावः । तथा चास्मदीयं पद्यमपि :-
प्रमातृत्वं भातं यदपि च शरीरादिनिवहे तथाप्येतद्द्वारा स्फुरति ननु चिन्मात्रनभसः ।
गृहद्वारैर्ज्योतिः प्रसरति यदेतद्वहिरिदम् गृहान्तःस्थस्यैव भवति खलु दीपस्य नियतम् ॥
इति । अत्र श्रीमदुत्पलदेवस्य सम्मतिमाह यथोक्तम् इति । ग्रन्थकृता - श्रीमदुत्पलदेवेन । किमुक्तमित्यपेक्षायामाह यद्यपि इति । अर्थस्थितिः - अर्थविषयो ज्ञानादिव्यवहारः, निरुद्धा - नियता । न हि प्राणपुर्यष्टकरहिताद् घटादेरर्थस्थितिर्दृश्यते । सा - अर्थस्थितिः, तदात्मना - परमात्मरूपेण, तस्य - परमात्मनः, यन्त्रणा - परिच्छेदः । इति शब्दः प्रमेयसमाप्तौ । स्वरसवाही - स्वेच्छया प्रसरणशीलः यः व्याक्षेपः स सारो यस्यास्तादृशी । कदाचिद्धि जीवः स्वेच्छां विनैव सङ्कल्पविवशीभवति । फलितमाह तस्मात् इति ।
राद्धान्तः - सिद्धान्तः ॥ ९ ॥
अथ दशमैकादशयोः श्लोकयोरवतरणिकां करोति अधुना इति ।
यत् एतत् पूर्वोक्तेन ग्रन्थेन उपपादितम्, तत् इति, तस्मात् हेतोः, संविदां ज्ञानानाम् ऐक्येन विना, लोकपद्धतिः लोकमार्गः सर्वो व्यवहारो न सम्भवेत्, सम्भवति च अयम्, तस्मात् ऐक्यम् आसाम् । न चैतत् दुर्घटम् यतो विषयप्रकाश एव संवित् उच्यते, केवलं विषयोपरागमहिम्ना बहिर्मुखतया नीलप्रकाशोऽन्यः, पीतप्रकाशश्चान्यः, परमार्थतस्तु प्रकाशस्य देशकालाकारसङ्कोचवैकल्यात् एकत्वमेव, इत्येक एव प्रकाशोऽन्तर्विश्रान्तः, स एव च प्रमाता उच्यते इति स्थितम् इदानीमुपपत्तितः ॥ १० ॥
अत्र टीका :-
ऐक्यम् - सविदेकताम् । निगमयति - निगमविषयीकरोति ।
एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । तदैक्येन इति ।
अत्र टीका :-
तत् इति पदं व्याचष्टे यदेतत् इति । उपपादितम् - उपपत्त्या स्थापितम्, संविदाम् इति व्याचष्टे ज्ञानानाम् इति । लोकपद्धति इति व्याचष्टे लोकमार्गः इति, अस्यापि पर्यायमाह सर्वः इति । आसाम् - संविदाम्, दुर्घटम् - असम्भवोपहतम् । कुत इत्यपेक्षायामाह यतः इति । तर्हि संविदो भेद एवायात इत्यत आह केवलम् इति । बहिर्मुखतया - इदम् इति बहिर्मुखत्वेन । ननु सत्यतया किमस्तीत्यत आह परमार्थतः इति ।
देशकालाकारैः यः सङ्कोचः - परिच्छेदः, तेन वैकल्यात् - रहितत्वात् । न हि परिच्छेदकं प्रति परिच्छेद्यस्य परिच्छेदकत्वं युक्तमिति भावः । एतेन प्रकाशैक्यात् इति कृतव्याख्यम् । तदेकत्वम् इति व्याचष्टे एकवम् इति ।
एकत्वम् - प्रकाशैकत्वम् । मातैकः इत्यादि व्याचष्टे इत्येक एव इति । स एव च
- प्रकाश एव च, स्थितम् - प्रतिष्ठाम् गतम् - इदानीमुपपत्तितः इति पदद्वयं शषत्वनाध्याहृतम् । एतेन प्रथमस्य श्लोकस्य व्याख्या सम्पन्ना ॥ १० ॥
न च अस्य असौ प्रकाशलक्षणः स्वात्मा नीलाद्युपरागश्च परामर्शन- शून्य एव आस्ते स्फटिकमणेरिव, अपि तु सदैव विमृश्यमानरूपः, इति विमृशद्रूपत्वम् अनवच्छिन्नविमर्शता अनन्योन्मुखत्वम् आनन्दैकघन- त्वम्, [आनन्दैकघनत्वमेव अस्य माहेश्वर्यम् - क्। ष्। ष्।] तदेवास्य माहेश्वर्यम् । स एव हि अहम्भावात्मा विमर्शो देवस्य क्रीडादिमयस्य शुद्धे पारमार्थिक्यौ ज्ञानक्रिये, प्रकाशरूपता ज्ञानं तत्रैव स्वातन्त्र्यात्मा विमर्शः क्रिया, विमर्शश्च अन्तःकृतप्रकाशः,
अथ द्वितीयं श्लोकं व्याचष्टे न च इति । विमृशत्त्वेन इति व्याख्यातुं प्रक्रियां तनोति न च इति । अस्य - प्रकाशस्य, स्वात्मा - प्रकाशाख्यो निजात्मा, परामर्शनशून्यः - स्वकर्तृकपरामर्शाविषयः, अत्र व्यतिरेकदृष्टान्तमाह स्फटिकमणेरिव इति । यथा स्फटिकमणेरात्मा नीलाद्युपरागश्च अहमिति इदमिति च परामर्शस्याविषयः तथास्य नास्तीत्यर्थः । पुनरस्यात्मा नीलाद्युपरागश्च कीदृशोस्तीत्यत आह अपि तु इति । अपि तु अस्य प्रकाशस्य स्वात्मा नीलाद्युपरागश्च विमृश्यामानरूपः अहम् इति अयम् इति च विमर्शविषयरूपयुक्तो भवतीत्यर्थः । विमृशत्त्वस्य पर्यायानाह अनवच्छिन्न इति । महेश्वरः इति व्याचष्टे माहेश्वर्यम् इति ।
तदेवास्यमाहेश्वर्यं भवति, तेनैवासौ महेश्वरो भवतीत्यर्थः । एव शब्देन नियतेन इत्यस्य व्याख्या । पूर्वार्धं व्याख्याय उत्तरार्धं व्याचष्टे स एव, इति । विमर्श एव इति व्याचष्टे स एव इति । इदम्भावस्यापि परमार्थतोऽहम्भाव एव विश्रान्तेः अहम्भावात्मा इत्युक्ततम् । स एव - प्रकृतत्वेन [ते एव प्रकृतत्वेन प्रसिद्धे एव - च्।] प्रसिद्ध एव । देवस्य इति व्याचष्टे क्रीडादि इति । आदि शव्देन विजिगीषादेर्ग्रहणम् । शुद्धं इति व्याचष्टे पारमार्थिक्यौ इति । ज्ञानक्रिययोः पृथक् पृथग्व्याख्यां करोति ज्ञानम् इति । तत्रैव - ज्ञान एव,
इति विमर्श एव परावस्थायां ज्ञानक्रिये, परावस्थायां ज्ञानक्रिये, परापरावस्थायां तु भगवत्सदा - शिवभूवि इदन्तासामानाधिकरण्- यापन्नाहन्ताविमर्शस्वभावे, अपरावस्थायां च मायापदे इदम्भावप्राधान्येन वर्तमाने इति विशेषः । सर्वथा तु विमर्श एव ज्ञानं तेन विना हि जडभावोऽस्य स्यात् इति उक्तम्, स एव च क्रिया इति भाविनः क्रियाधिकारस्य उपक्षेपं करोति इति । शिवम् ॥ १० ॥ ११ ॥
आदितः ॥ ८९ ॥
स्वातन्त्र्यात्मा - कर्तित्वरूपः, विमर्शः - तलन्ततृच्प्रत्ययवाच्यो विमर्शः, क्रिया भवति । कर्तुः क्रियामयत्वात् तृचश्च कर्तरि विहितत्वादिति भावः । ननु तर्हि क्रियैव पर्यन्ते विश्राम्यतीति ज्ञानस्याप्रधानत्वमे- वायातमित्यत आह विमर्शश्च इति । अन्तःकृतप्रकाशः, सारभूतप्र- काश इत्यर्थः । एतेन विमर्शशक्तेः प्रकाशेन सम्पुटीकृतत्वसाधनमेव । अत एव च श्रीबहुरूपाख्ये निष्कलतत्त्ववाचकस्य बीजस्यादौ अन्ते चावस्थितिः मध्ये तु शक्तिरूपायाः अकारादिरूपायाः वर्णसन्ततेरित्यलं रहस्योद्धाटनेन । इति - अतः कारणात्, विमर्श एव - अहम्परामर्श एव, परावस्थायाम् - शिवभुवि । न हि तत्रेदन्तायाः नामाप्यस्ति ।
इदन्तासामानाधिकरण्यापन्नो योऽहन्ताविमर्शः स एव स्वभावः ययोर्ज्ञानक्रिययोः ते । अहमिदमिति स्वरूपे इत्यर्थः । ईश्वरदशाप्यत्रैव ज्ञेया । वर्तमाने - स्थिते, ज्ञानक्रिये इति पूर्वेण सम्बन्धः इति - एवम्, विशेषः, ज्ञानक्रिययोरिति शेषः । सिद्धान्तं कथयति सर्वथा इति । अस्य - प्रकाशस्य । उक्तम् इति, स्वभावमवभासस्य इत्यत्र । स एव च - विमर्श एव च, क्रिया भवति, पुष्टीभूय क्रियाभावेन स्फुरणशीलत्वात् । इति - अतः, स एव भाविनः - एतदनन्तरं स्थितस्य, उपक्षेपम् - बीजत्वेन वापनम्, करोति इति, तस्यैतत्पल्लवत्वात् । इति शब्दः आह्निकसमाप्तौ, शिव पदं मङ्गलप्रति- पादकं परतत्त्वसूचकञ्च । इति शिवम् ।
इति श्रीमन्माहेश्वराचार्यवर्योत्पलदेवपादविरचितायामीश्वर- प्रत्यभिज्ञायां श्रीमदा चार्याभिनवगुप्तकृतविमर्शिन्याख्य- व्याख्योपेता-यां माहेश्वर्यनिरूपणाख्यमष्टममाह्निकम् ॥ ८ ॥
प्रथमो ज्ञानाधिकारश्च समाप्तः ।
इति श्रीकश्मीरमण्डलान्तर्वर्त्याराध्यतमपादश्रीवैडूर्यकण्ठात्मजा- वतारकण्ठपुप्रश्रीभास्करकण्ठविरचितायां श्रीप्रत्यभिज्ञाविमर्शि- नीटीकायां भास्कर्याख्यायां ज्ञानाधिकारेऽष्टममाह्निकम् ।
समाप्तश्चायं ज्ञानाधिकाराख्यः प्रथमो विमर्शः ॥
तृज्वाच्यस्य महेश्वरस्य कुरुते ज्ञावाच्यतासादनात् स्वातन्त्र्यस्य सुसूत्रणां सह ततो वाच्येन भावेन या ।
पुष्टीभावि कृतेः सुबीजमुदिता शक्तिः स्फुटं यत्र सा व्याख्यातो ननु भास्करेण स इह ज्ञानाधिकारो मया ॥
नाभिमानो मनः कार्यः शिवः कर्तात्र यत्स्थितः ।
तदैक्येनाभिमानस्ते यद्यस्ति स तु शोभनः ॥
शिवः कर्ता शिवो द्रष्टा शिवः पाठक एव च ।
व्याख्याता च शिवः प्रोक्तः शिवार्पणमिति स्फुटम् ॥