अथ ज्ञानाधिकारे एकाश्रयनिरूपणाख्यं सप्तममाह्निकमारभ्यते ।
अनन्तशक्तिरत्नानां यदेकाश्रयसंश्रयात् । विचित्रचन्द्रिकोल्लाससंसिद्धिस्तं स्तुमः शिवम् ॥
अथ सप्तमाह्निकप्रारम्भः ।
यदेकाश्रययोगेन नानाशक्तिचयः स्फुटम् ।
शक्योद्भावनसामर्थ्यं लभते तं स्तुमः शिवम् ॥
अथ ज्ञानाधिकारे सप्तमस्याह्निकस्य निर्विघ्नव्याख्यासमाप्तये प्रचयगमनाय च तत्त्वानुस्मरणरूपं मङ्गलं शिष्यशिक्षायै समस्तान्हिकतात्पर्यसूचकश्लोकेनोपनिबध्नाति अनन्त इति ।
वयं तम् - यच्छब्दाविष्टे पूर्ववाक्ये प्रोक्तम्, शिवम् - शक्तिपिण्डात्मकं प्रकाशपरमार्थ स्वात्मदेवतारूपं शिवतत्त्वम्, स्तुमः - स्तुतिद्वारेण परामृशामः, तं कम् ? अनन्तानि - अपरिच्छिन्नानि यानि शक्तिरत्नानि - उत्तमवस्तुत्वेन रत्नरूपाः ज्ञानस्मृत्यादिशक्तिसमूहाः तेषाम्, यदेकाश्रयसंश्रयात् यश्चासौ एक आश्रयः - शक्तिमत्त्वेन असाधारणं स्थानम् तस्य संश्रयात् - अवष्टम्भेन, हेतौ इयं पञ्चमी । विचित्रा ये चन्द्रिकोल्लासाः - स्वविषयद्योतकाः प्रमादिरूपाः चन्द्रिकास्फूर्तयः तेषां संसिद्धिर्भवति, ज्ञानादयः शक्तयो हि परप्रकाशे स्थिताः तत एव बलं लब्ध्वा स्वविषयद्योतनं कुर्वन्ति । यद्यपि
शक्तयोऽस्य जगत् कृत्स्नं शक्तिमांस्तु महेश्वरः ।
इति नीत्या सर्वे पदार्थाः शक्तिरूपा एव, तथापि प्रस्तावापेक्षया ज्ञानादिशक्तीनामेवेह ग्रहणं कृतम्, यतो ज्ञानादिशक्तिभिरेवात्मसिद्धिः तावन्मात्रमेव च ईश्वरत्वेन प्रत्यभिज्ञेयत्वेन इहेष्टम्, तन्मात्रपरत्वादस्य शास्त्रस्य । एतेन ज्ञानादिशक्तीनामेकाधारस्य निर्णयोऽत्रान्हिके क्रियते इति सूचितम् ।
एवं स्मृत्यादिशक्तीनां वितत्य स्वरूपमियता दर्शितम्, यत्तु अत्र प्रमातुरपि स्वरूपम् उन्मीलितम् तत्तासामेव शक्तित्वं समर्थयितुम्, न हि स्वन्त्रं शक्तिस्वरूपं भवितुमर्हति इति । अधुना तु तासां शक्तीनाम् एक आश्रयः, स च तच्छक्तिसंयोजनवियोजनादिस्वाच्छन्द्ययोगात् महेश्वरः न तु जडस्वरूपवह्न्यादिवत् दाहकपाचकादिशक्त्याश्रयमात्रम् इति यत् उभयम् उपक्षिप्तम्
न चेदन्तःकृतानन्तविश्वरूपः …
इत्यत्र सूत्रे, तत् वितत्य निर्णेतव्यम् । तत्र एकमाश्रयं निर्णेतुम्
या चैषा प्रतिभा…
इत्यादि
…व्यवहारोऽनुभूयते ॥
एवं मङ्गलं सम्पाद्य समस्तान्हिकतात्पर्यं समस्तव्यस्तत्वाभ्यां कथयति एवम् इति ।
अत्र टीका :-
ननु प्रमातुरपि निर्णयो वर्तते एव तत्कथमुक्तं शक्तीनां स्वरूपम् दर्शितम् इत्यत आह यत्तु अत्र इति । उन्मीलितम् - प्रकटीकृतम्, न तु निर्णीतम्, समर्थयितुम् - साधयितुम् । कुत इत्यपेक्षायामाह न हि इति ।
नन्विदानीं किं कथयति इत्यत आह अधुना इति । तासां शक्तीनां यत् संयोजन - वियोजनादि, आदिशब्देन स्वस्मिन् लयीकरणम्, तत्र यत् स्वाच्छन्द्यम् - स्वातन्त्र्यम् तस्य योगात्, उभयम् - शक्त्याश्रयस्यैकत्वं महेश्वरत्वञ्च, उपक्षिप्तम् - समर्पितम्, कथितमिति यावत् ।
कुत्रेत्यपेक्षायामाह न चेत् इति । तत् युगलम्, निर्णेतव्यम् - अवश्यं निर्णेयम्, अन्यथा महेश्वरत्वनिर्णयासम्भवादिति भावः । तत्र - तस्य युगलस्य निर्णेतव्यत्वे सति, एकम् आश्रयम् - ज्ञानादिशक्तीनां परप्रमातृरूपमहेश्वररूपमेकं स्थानम् । एवं सामस्त्येनाभिप्रायमुक्त्वा
इत्यन्तं चतुर्दशभिः श्लोकैः आह्निकं प्रस्तूयते । तत्र श्लोकेन एक आश्रयः स्वरूपत उपक्षिप्यते । ततोऽपि द्वयेन व्यवहारः सर्वः सति एकस्मिन् आश्रये युज्यते न असतीति अन्वयव्यतिरेकात्मा युक्तिरुच्यते । ततो व्यवहारस्वरूपं कार्यकारणभावतः, स्मरणतः, सत्यासत्यप्रविभागतश्च इति सङ्क्षिप्य श्लोकेन [सङ्क्षिप्य श्लोकेन श्लोकाष्टकेन - क्। ष्। ष्।] श्लोकेन श्लोकाष्टकेन च प्रतिपाद्यते । ततः श्लोकेन सर्वोऽर्थो निगम्यते इत्याह्निकार्थसङ्क्षेपः ।
अथ श्लोकार्थो व्याख्यायते । यदुक्तम् सर्वस्य सिद्धे ज्ञानक्रिये जीवतः इति तत् कथम् ? यावता ज्ञानादिव्यतिरिक्तः कोऽसौ अन्यो यस्य ते स्याताम्, काणाददिशा हि दूषितः तदाश्रयः
व्यस्तत्वेनापि कथयति तत्र इति । तत्र, श्लोकचतुर्दशकमध्य इत्यर्थः ।
स्वरूपतः - स्वरूपमात्रेण, न तु समस्तधर्माक्षेपेणेत्यर्थः, उपक्षिप्यते - कथ्यते, अन्वयव्यतिरेकात्मा - अन्वयव्यतिरेकरूपः, श्लोकेन श्लोकेन श्लोकाष्टकेन च, दशभिः श्लोकैरित्यर्थः । तत्र एकेन कार्यकारणभावनिर्णयः, पुनरेकेन स्मृतिनिर्णयः, अष्टकेन सत्यासत्यप्रविभागनिर्णय इति क्रमः । निगम्यते - निगमनविषयतां नीयते । व्यस्तत्वकथनमुपसंहरति इति इति । श्लोकार्थकथनं प्रतिजानीते अथ इति । तत्र प्रथमश्लोकस्यावतरणिकां करोति यदुक्तम् इति ।
अत्र टीका :-
तत् कथम्, तन्न सम्भवतीत्यर्थः, कुत इत्यपेक्षायामाह यावता इति । यावता, यस्मात् कारणादित्यर्थः । ते - ज्ञानक्रिये । ननु पूर्वं ज्ञानादिगुणाश्रयस्ततो व्यतिरिक्तः साधित एवेत्यत आह काणाद इति ।
स्वदर्शनदृशा - शैवमतदृष्ट्या, तमेकम् - आश्रयम् । स्वरूपतः - स्वरूपमात्रेण, उपन्यस्यति - समर्पयति, कथयतीति यावत् । एवम् अवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे या चैषा इति ।
ततो भिन्नेषु धर्मेषु…
इत्यादिना, तत् एतत् आशङ्क्य स्वदर्शनदृशा [स्वदर्शनदिशा - क्। ष्। ष्।] तमेकं स्वरूपत उपन्यस्यति [उपक्षिपति - क्। ष्। ष्।] :-
या चैषा प्रतिभा तत्तत्पदार्थक्रमरूषिता ।
अक्रमानन्तचिद्रूपः प्रमाता स महेश्वरः ॥ १ ॥
प्रतिभाति घटः इति यद्यपि विषयोपश्लिष्टमेव प्रतिभानं भाति तथापि न तद्विषयस्य स्वकं वपुः, अपि तु संवेदनमेव तत् तथा चकास्ति मां प्रति भाति इति प्रमातृलग्नत्वात् । तथा च वेदः :-
अत्र टीका :-
अक्रमा इत्यन्तं श्लोकखण्डं व्याख्यातुं प्रक्रियां करोति प्रतिभाति इति । विषयोपश्लिष्टमेव - कर्तृभूतघटादिसम्बद्धमेव, प्रतिभानम् - प्रतिभाति इतिक्रियास्वरूपम्, भाति - प्रमातॄन् प्रति स्फुरति, तत् - प्रतिभानम्, विषयस्य - घटस्य, स्वकं वपुः - अर्थात् स्वं [अर्थाख्यं निजम् - च्।] निजं स्वरूपम्, पुनस्तत् किम् इत्यत आह अपि तु इति ।
संवेदनमेव - प्रमातनिष्ठा घटविषया संवेदनाख्या क्रियैव, तत् - प्रतिभानम्, तथा - विषयोपश्लेषेण, चकास्ति - स्फुरति । अत्र हेतुमाह मां प्रति इति । प्रमातृनग्नत्वात् - आपाततः कर्तृभूतघटनिष्ठत्वभागेऽपि परमार्थतः मां प्रति भाति इति एवं प्रमातुरेव तद्भित्तित्वात् । अयमत्र भावः । प्रमाता प्रथमम् अर्थितादिवशेन स्वस्य घटसंवेदने प्रोद्योगं करोति अन्यथा घटप्रस्तावस्यैवायोग्यत्वात्, तत्र तस्य यदि कोऽपि घटवार्तां पृच्छति तदां तं प्रति कथयति घटः प्रतिभाति इति, पुनः पृष्टः सन् कं प्रति भाति इति पुनरसौ कथयति मां प्रति इति । प्रति शब्दो हि घटस्य भानं प्रति कर्तृत्व - निवारकः प्रमातरि तद्योग्यतासाधकश्च, अन्यथा भाति इति ब्रूयात् मां प्रति
इति प्रयोगरहिते भाति इति कथने तु प्रमाता भित्तिभूतं स्वात्मानं विस्मार्य घटमेव उद्धुरीकरोति तदर्थितातिशयेन विवशीकृतत्वात्, न च तावता घटस्यैव कर्तृत्वं वक्तुमुचितम् स्वात्मनो वा उदासीनत्वम्, जडस्य घटस्य कर्तृत्वायोगात् स्वात्मन एव सर्वत्र स्वतन्त्रतायोगेन सर्वकर्तृत्वयोगात्, यदुक्तम् स्वतन्त्रः कर्ता इति । ततश्च स्फुटमेव प्रतिभाति घटः इत्यत्र भानस्य प्रति उपसर्गसूचितं प्रमातृलग्नत्वं प्रमातृलग्नत्वे च बाह्यतानुपपत्तिः, तदनुपपत्तौ च विषयत्वानुपपत्तिरेव इति । अत्र श्रुतिं प्रमाणीकर्तुमाह तथा च इति, वेदवाक्यमेव कथयति तमेव इति । इयं श्रुतिश्चैवम् ।
न तत्र सूर्यो भाति न चन्द्रतारकाः नेमा विद्युतो भान्ति कुतोऽयमग्निः ।
तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ।
इति । अत्रायमर्थः, तत्र - तस्मिन् परप्रकाशे, तत्सन्निधौ इति यावत्, सूर्यः - बाह्य - प्रकाशश्रेष्ठः आदित्यः, न भाति - स्वप्राधान्येन भानं प्रति कर्तृत्वं न भजति, चिदाख्यं तं प्रति भानेन तल्लग्नत्वेन भानात्, न हि प्रमातारं विना घटादिवत् सूर्योऽपि सिद्धिं लभते, तत्सन्निधौ भानं तु परमार्थतः तन्निष्ठमेव, शिलादौ पादन्यासो हि परमार्थतः भुवि एव । तदुक्तम् :-
कथमन्यथा भवन्ति भुविदत्तपादानि नृणाम्
“तमेव भान्तमनु भाति सर्वं तस्य भासा सर्वमिदं विभाति ।”
इति । शत्रा अविरतस्फुरणत्वं कर्मप्रवचनीयेन तदीयस्वातन्त्र्योपकल्पित - निर्माणक्रियाजनितो वेद्यवेदकभावरूपो लक्षणात्मा सम्बधो द्योतितः,
इति । कुतोऽयमग्निः इति, अग्नेर्भाने कथैव नास्तीति भावः ।
प्रकाशव्यतिरिक्तानां वस्तूनामभानं तु दण्डापूपिकान्यायेन स्फुटतरमेवेति न गृहीतम्, विद्युदनन्तरं सूर्याभानकथनस्य योग्यत्वेऽपि प्रथमं सूर्याभानकथनं तस्य तत्समीपे विद्युदादेरपि अतिन्युनत्वसूचनपरम्, अन्यथा तु श्रेष्ठस्य सूर्यस्याभाने कस्तद्भानप्रसङ्गः, तदप्रसक्तौ कस्तन्निषेधः । ननु तर्हि कथमेते भान्ति इत्यत आह तमेव इति । भान्तम् - स्वप्रकाशत्वेन अहम् इति सततमेव स्फुरन्तम्, तमेवानु - तं परप्रमातृरूपं प्रकाशं प्रति, सर्वम् - सूर्यादिप्रकाशजातम्, भाति, अन्यथा अहं सूर्यं पश्यामि इत्यादिप्रयोगासम्भवात् । भाति इति प्रयोगस्तु [प्रयोगस्य तु - च्।] अर्थितादिवशेन तदुद्धुरीकरणप्रमातृप्रयोजनत्वेन, अन्यथा असिद्धत्वात् इति भावः । फलितमाह तस्य इति, अतः इति शेषः । अतः कारणात् इदं सर्वम् - इदन्ताग्राह्यं सूर्यादिरूपं बाह्यं प्रकाशजातम्, तस्य भासा - तदाश्रयेण एतद्विषयेण च प्रकाशेन, विभाति, स्वतन्त्रतया विशिष्टं भानं प्रति कर्तृत्वमिव भजति इत्यर्थः, यथा सूर्यादिभासा घटादिकं सर्वं वस्तुजातमिति भावः । अत्र स्वयमपि लेशतोऽभिप्रायकथनं करोति शत्रा इति । शत्रा - भान्तम् इत्यत्र स्थितेन शतृप्रत्ययेन, अविरतस्फुरणत्वं द्योतितम् इति सम्बन्धः अन्यथा भातम् इति ब्रूयात् इति भावः । अनु शब्दस्याभिप्रायमाह कर्म इति । कर्मप्रवचनीयेन - लक्षणक्रियावाचकेन अनु शब्देन, लक्षणात्मा - वृक्षमनु द्योतते विद्युत् इतिवत् लक्षणक्रियारूपः, सम्बन्धो द्योतितः, यथा हि वृक्षेण विद्युतो द्योतनं लक्ष्यते - प्रेक्षकान् प्रति दर्श्यते, तथा परप्रमातृभानेन सूर्यादिभानं प्रमातॄन् प्रति लक्ष्यते । ननु तत्र वृक्षः स्फुटमेव दृश्यते तेन च युक्तमेव विद्युद्
केवलं विषयोल्लेखनबलात् बहिः क्रमावभासः समर्थितः, स स
दर्शनम्, अत्र तु परप्रमातुर्भानं न स्फुटम् इति कथं तेन एतल्लक्षणम् इति चेत् स एव कः ? देहादिः इति चेत् अहो परोपदेशाधिकारित्वम् । परप्रमाता इरि चेत्, सः भातो न वा ? न चेत्, तत् कथम् मया इति प्रयोगः ? अर्थदर्शनानन्तरमेव तद्वाचकशब्दस्फूर्तियोगात्, भासते चेत्, अद्यैव सदा वा ? अद्यैव इति चेत् तर्हि अद्यैव अहम् इति प्रयोगः कृतः इति पूर्वस्मृतिर्न युक्ता ह्यो मयेदं भक्तम् इति । अद्य तावद् भातः इतः परन्तु न जानामि भास्यति न वा इति चेत्, सत्यम्, परदेहावच्छिन्नो योहम्प्रत्ययः स किं त्वदहमः भिन्नः अभिन्नो वा, यदि भिन्नः तर्हि देहप्रमातृत्वाभिमानस्तथैव स्थितः इत्यत उपदेशानधिकारिता तथैव, यदि तु अभिन्नः तर्हि आकारकृतस्य विच्छेदस्य अनङ्गीकारे का देशकालकृतं विच्छेदं प्रति शङ्का, इति परप्रमातुः सदा भानं स्फुटतरमेव तेनैव च सूर्यादिभानं लक्ष्यते इति न काप्यनुपपत्तिः ।
लक्षणात्मा सम्बन्धः कीदृशः इत्यपेक्षायां विशेषणान्याह तदीय इति । तदीयम् - परप्रमातृसम्बन्धि यत् स्वातन्त्र्यम् - सर्वकार्येषु अनन्यमुखप्रेक्षित्वम्, तेन उपकल्पिता - तद्भाविता या निर्माणक्रिया, तया जनितः, अन्यथा स्वातन्त्र्यायोगात्, तथा, वेद्यवेदकभावरूपः - परमार्थतः घटगतवेद्यत्वपरप्रमातृगतवेदकत्वतदुभयविषयविषयी- भावकारणरूप्ः, आपाततस्तु घटदेहादिनिष्ठवेद्यवेदकभावरूपः ।
ननु यदि परप्रमातुः संवेदनमेव घटादिभानं तर्हि तत् संवेदनरूपमेव, न हि घटादेस्तद्व्यतिरेकेण कापि सिद्धिः, तथा च परप्रमातुः एकत्वेन संवेदनस्याप्येकत्वमेवेति घटादेरपि तद्वशेन एकत्वमेवायातम् इति क्रमस्य तिलाञ्जलिरेव देय इत्यत आह केवलम् इति ।
केवलम् - परम्, विषयाणाम् - वेद्यवस्तूनां यत् उल्लेखनम् - बहिरसत्त्वेऽपि क्रीडार्थ स्वातन्त्र्येण विमर्शनम्, तस्य बलात् - वशेन । बहिः क्रमावभासः - भिन्नभिन्नप्रदार्थविषयं क्रमावभासनम्, समर्थितः - आपातेन तावत् समर्थनविषयीकृतः, अन्यथा उपदेष्ट्रुपदेश्यभावाद्यनुपपत्तेः शास्त्रकरणस्याप्यसम्भवप्रसङ्गात् इति भावः ।
उक्तप्रक्रियावष्टम्भेन तत्तत्पदार्थ इति समस्तं पदं व्याचष्टे विगृह्णाति च स सः इति । तत्तद् इत्येतयोः प्रथमैकवचनान्तं रूपम् स सः इति,
क्रमयौगपद्यादिविचित्ररूपो [स सक्रमयौगपद्य - क्। ष्। ष्।] यः पदार्थानां वक्ष्यमाणेश्वरस्वातन्त्र्यरूपदेशकालशक्त्युपकल्पितः क्रमः देशकालपरिपाटी, तेन रूषिता प्रतिबिम्बकल्पतया उपरक्ता, या प्रतिभा उक्ता
केवलं भिन्नसंवेद्य…
इत्यादिना । एषा इति च सर्वस्य स्वप्रकाशरूपा, परमार्थतश्च अन्तर्मुखत्वेन प्रकाशमात्रपरमार्थतया भेदाभावात् अक्रमा, सैव महेश्वरः,
अनयोर्व्याख्यां करोति क्रम इति, आदिशब्देन दूरादूरादिग्रहणम् ।
वक्ष्यमाणे - क्रियाधिकारे कथयिष्यमाणे, ईश्वरस्वातन्त्र्यरूपे - परमेश्वरसम्बन्धिमूर्तिवैचित्र्यक्रियावैचित्र्यग्रहणाख्यस्वतन्त्र- भावस्वरूपे ये देशकालशक्ती ताभ्याम् उपकल्पितः - स्वावच्छिन्नतावभासनेन सम्पादितः । क्रम इति पदं व्याचष्टे देश इति ।
देशकालपरिपाटी - एतद्देशस्थोयम् एतत्कालगतश्च इत्यादिरूपः सन्निवेशः, तेन - देशकालपरिपाटीरूपेण क्रमेण । रूषिता इति पदं व्याचष्टे प्रतिबिम्ब इति । प्रतिबिम्बकल्पतया - प्रतिबिम्बसदृशत्वेन, उपरक्ता - स्फटिकादीव नीलादिना उपरागविषयतां नीता, या प्रतिभा, उक्ता इत्यस्य पदस्य शेषत्वेन अध्याहारः । केनोक्ता इत्यपेक्षायामाह केवलम् इति, अनेन श्लोकेन इत्यर्थः । एषा इति व्याचष्टे सर्वस्य इति । सर्वस्य - समस्तचेतनवर्गस्य, स्वप्रकाशरूपा, स्वप्रकाशत्वेन स्वसंवेदनसिद्धेत्यर्थः । अक्रम इति पदं व्याचष्टे परमार्थतश्च इति । आपाततः देशकालोपरागेण सक्रमत्वेऽपि परमार्थतः - सत्यदृष्ट्या, च शब्दः तु शब्दार्थे, परमार्थतस्तु, अन्तर्मुखत्वेन - अहञ्जानामि इति प्रमातृलग्नत्वेन, स्फुरणात्, तद्वत् अहम् इति ग्रहणयोग्यत्वेन प्रकाशमात्रपरमार्थतया - शुद्धप्रकाशसारत्वेन, भेदाभावात् - देशकालावच्छिन्नताकृतभेदासम्भवात्, अक्रमा - देशकालपरिपाट्या अस्पृष्टा, न हि नीलादिभिरुपरक्तमपि निर्मलं स्फटिकादि तत्स्पर्शभाग्
अविद्यमानोऽन्तः परिच्छेदो देशतः कालतः स्वरूपतश्च यस्याः चितः संविदः तदेव रूपं यस्य इति, अत एव बहिर्मुखप्रकाशात्मकविज्ञानस्वभावस्य प्रमाणवर्गस्य योऽन्तः प्रत्याभासम् इदम् इदम् इति अनन्त - [इति अनन्तविकल्पमयः - क्। ष्। ष्।]
भवति इति का कथा अतिनिर्मलायाः प्रतिभायाः देशकालकृतस्पर्शे इति भावः । अथ अनन्तचिद्रूपः इत्यादि श्लोकखण्डं व्याचष्टे सैव इति ।
सर्वनाम्नां परामर्शनीयपरामर्शकलिङ्गसहत्वेन सूत्रे पुल्लिङ्गतया निर्दिष्टस्यापि तच्छब्दस्य इह स्त्रीलिङ्गेन निर्देशो न अयुक्तः, सैव - प्रोक्तस्वरूपा प्रतिभैव, महेश्वरः, एवकारो मूढशङ्कितस्य बाह्यस्य देवविशेषस्य महेश्वरत्वव्यावर्तनपरः । कीदृशः महेश्वरः इत्यपेक्षायां महेश्वरविशेषणानि सूत्रोक्तानि योजयति अविद्यमानः इति ।
अनन्तः इत्यादिसमस्तपदं व्याचष्टे विगृह्णाति च अविद्यमानः इति । अन्त [अनन्तपदं व्याचष्टे - च्।] पदं व्याचष्टे परिच्छेदः इति, तदेव - सा चिदेव, इति शब्देन विगृहीतपदस्य पुनः समस्तत्वेन आक्षेपः । अस्य समस्तस्य पदस्य प्रमाता इति पदं प्रति हेतुत्वं द्योतयितुमाह अत एव इति, यतः अनन्तरूपः ततः कारणादित्यर्थः । प्रमाता इति विशेषणं व्याचष्टे बहिर्मुख इति । बहिर्मुखम् - अयं घटः इति इदन्तया ग्राहकम्, प्रकाशात्मकम् - भासकत्वेन परप्रकाशं बिन्दुरूपं यत् विज्ञानं तदेव स्वभावः - स्वरूपं यस्य तादृशस्य, प्रमाणवर्गस्य यः अन्तः
-
सारभूतः, प्रत्याभासम् - समस्तेषु अनन्तेषु पदार्थरूपेषु आभासेषु, इदम् इदम् इति - अनेन प्रकारेण, अनन्तकल्पः - परमार्थतः शान्तत्वेऽपि मितप्रमातॄन् प्रति अनन्त इव भासमानः, विकल्पमयः - प्रतियोगिव्यवच्छेदलब्धसत्ताकत्वेन विकल्परूपः, विमर्शात्मा - संस्कारजस्मृतिविषयशब्दनरूपः, प्रमासमूहः - फलभूतः प्रमावर्गः, तत्र - तस्मिन् प्रमासमूहे, यत् संयोजनवियोजनविश्रमणादि
-
एकविषयतया स्थापनम्, भिन्नविषयीकरणम्, अहम् इति परामर्शेन स्वभित्तौ आरोहणम्, आदिशब्देन अपोहनग्रहणम्,
कल्पः विकल्पमयो विमर्शात्मा प्रमासमूहः, तत्र संयोजनवियोजनविश्रमणादिरूपानेकप्रकारस्वातन्त्र्यपरिपूर्णः [विश्रमणाद्यनेक - क्। ष्। ष्।] शुद्धाहम्प्रत्यवमर्शमयः [शुद्धः अहम्प्रत्यवमर्शमयः - क्। ष्। ष्।] प्रमाता स भण्यते, अतश्च बहिर्घटप्रकाशः अयं घटः इति अन्तर्विकल्पः स्वीकृत -
ग्रहणम्, तद्रूपञ्च तत् अनेकप्रकारं स्वातन्त्र्यं तेन पूर्णः, तथापि शुद्धः - विकल्पामिश्रः यः अहम् प्रत्यवमर्शः तस्य विकारः, तत्स्वरूपः इति यावत्, प्रमाता । व्याख्यातस्य प्रमातुः सः इति पुनः परामर्शः, भण्यते - कथ्यते, भण्यते इति शेषत्वेन अध्याहृतम्, एतेन प्रमातृ शब्दसय कर्तृतृजन्तता सूचिता ।
अत्रैवं योजना, आचार्येण कर्त्रा यैषा प्रतिभा पूर्वम् उक्ता, स महेश्वरः प्रमाता - महेश्वररूपः प्रमाता, परमात्मेति यावत्, भण्यते इति विशेषेण योजना तु स्फुटैवति नायस्तम्, तदुक्तम् :-
शब्दस्पर्शादयो वेद्याः वैचित्र्याज्जागरे पृथक् ।
ततो विविक्ता तत्संविदेकरूपा न भिद्यते ॥
इत्यारभ्य
अयमात्मा परानन्दः परप्रेमास्पदं यतः ।
इत्यन्तम्, तथा :-
एवं स चित् परानन्द आत्मायुश्च तथाविधम् ।
परं ब्रम्ह तयोश्चैक्यं श्रुत्यन्तेषूपदिश्यते ॥
इति । परन्तु वेदान्तेषु निष्कृष्टस्य संवित्तत्त्वस्य परमेश्वरत्वम् इह तु रूषितस्यापि इत्यास्ताम् ।
एतेन फलितं सिद्धान्तं कथयति अतश्च इति, यत एतत् श्लोकोक्तं वस्तु भवति ततः कारणात्, इतीयत् - इत्येतन्मात्रम् यत् प्रकाशस्य - शुद्धप्रकाशस्य पूर्ण स्वरूपं भवति, एतावन्मात्रस्यैव परप्रकाशरूपप्रमातृत्वसाधनात् इति भावः ।
पूर्वरूपः अहम् इति तदुभयविश्रान्तिस्थानम्, इतीयत् [इति - इयत् - क्। ष्। ष्।] पूर्णं प्रकाशस्य स्वरूपम् ॥ १ ॥
अत्रैव उपपत्तिं प्रदर्शयितुमन्वयं तावदाह :-
तत्तद्विभिन्नसंवित्तिमुखैरेकप्रमातरि ।
प्रतितिष्ठत्सु भावेषु ज्ञातेयमुपपद्यते ॥ २ ॥
इतीयत् किम् ? बहिः - बाह्यदेशे अयं घटः इति, घटप्रकाशः - घटदर्शनम् । तथा अन्तः - हृद्देशे, स्वीकृतपूर्वरूपः - गृहीतप्राक्कालीनघटस्वरूपः, विकल्पः, तथा अहम् इति, तदुभयस्य - घटप्रकाशघटविकल्परूपयुगलकस्य, विश्रान्तिस्थानम् - लयस्थानम् ।
एतेन घटमहं पश्यामि इति लौकिकव्यवहारस्यैव पूर्णप्रकाशभासकत्वं द्योतितम् । एतच्च देहादिप्रमातृभावान्निर्गतानां प्राप्तपरप्रकाशगन्धानां देहस्थितिं यावत् अवश्याश्रयणीयशुद्धव्यवहारकाले परप्रकाशस्पर्शसमर्थानां [परप्रकाशस्पर्शासमर्थानाम् - च्।] प्रबुद्धानां वर्ग प्रत्येवोक्तम्, अप्रबुधानां देहादिप्रमातृभावनिश्चितानां सर्वदा तन्मयानां सुप्रबुद्धानां च अत्र अनधिकारात् । देहादिप्रमातृभावान्निर्गमे च स्वमन एव साक्षितया ग्राह्यम्, अन्यथा स्ववञ्चकत्वापत्तेः इत्यलम् ॥ १ ॥
अथ द्वितीयस्य श्लोकस्यावतरणिकां करोति अत्रैव इति ।
अत्र टीका :-
अत्रैव - प्रतिभायाः प्रमातृत्वे एव, उपपत्तिं - युक्तिम्, अन्वयम् - योजनामात्रम्, तावत् इति, तदनन्तरं स्फुटतया उपपत्तिं कथयिष्याम इति भावः । एवम् अवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । तत्तत् इति ।
संविन्निष्ठा हि विषयव्यवस्थितयः इति यत् उच्यते तत् न भिन्नरूप - प्रमात्मकसंविन्मात्रविश्रान्त्या सिद्ध्यति अपि तु तास्ता विभिन्नाः संविदो निश्चयरूपाः प्रमात्मानो याः तानि एव मुखानि द्वाराणि उपाया मार्गाः तैः मुखैः नदीस्रोतः स्थानीयैः यदि अमी भावा नीलसुखादय उह्यमाना एकस्मिन् अहम् इति प्रमातृरूपे महासंवित्समुद्रे प्रतितिष्ठन्ति आभिमुख्येन
अत्र टीका :-
श्लोकं व्याख्यातुं प्रक्रियां करोति संवित् इति । संविन्निष्ठाः - संविद्भित्तित्वेन स्थिताः, विषयव्यवस्थितयः - नीलसुखादिभावमर्यादाः, भिन्नरूपम् - प्रतिक्षणं भिन्नरूपम्, तथा प्रमात्मकम् - प्रोक्तप्रमास्वरूपम् यत् संविन्मात्रम् बौद्धैरात्मत्वेन मतं विज्ञानम्, तत्र विश्रान्त्या - विश्रमणेन, न सिध्यति, नीलग्रहणकाले हि पीतग्रहणं न सिध्यति, तद्ग्रहणकाले च तस्य, प्रमाता चोभयत्र भिन्न एवेति कस्तयोः स्वरूपं भेदेन व्यवस्थापयेत् उभयग्राहकस्यैकस्थ प्रमातुरेव तद्योगात् इति भावः । पुनः कथं सिध्यतीत्यपेक्षायां पक्षान्तरं कथयति तत्तत् इति समस्तपदस्य योजनां च करोति अपि तु इति ।
एतत्पदं व्याचष्टे विगृह्णाति च तास्ताः इति । संवित् शब्दं व्याचष्टे निश्चय इति निश्चयरूपाः नीलसुखादिनिश्चयरूपाः, तानि एव - संविद एव, मुख पदं व्याचष्टे द्वार इति । अस्यैव पुनः पर्यायद्वयमाह उपायाः मार्गाः इति, तृतीयाविभक्तेर्योजनां करोति तैः इति । नदीस्रोतः स्थानीयैः - नदीस्रोतःसदृशैः तैर्हि उह्यमानं तृणादि समुद्रान्तः प्रविशति इति आर्थोपमानत्वेन गृहीतानि सूत्रेऽनुक्तान्यपि । भाव पदं व्याचष्टे नील इति । उह्यमानाः - जले तृणादिवत् विवशतः भ्राम्यन्तः, स्थितस्य प्रतितिष्ठत्त्वमयुक्तं ज्ञात्वा उह्यमानाः इति अध्याहृतम् । एक इत्यादि पदं व्याचष्टे विगृह्णाति च एकस्मिन् इति । उह्यमानानां स्रोतोद्वारेण समुद्रप्रवेशयोग्यत्वं ज्ञात्वा समुद्रग्रहणम्, महासंवित्समुद्रे - महाप्रकाशरूपे समुद्रे, प्रतितिष्ठत्सु
मुख्येन विश्रान्तिं भजन्ते, तत एषु परस्परं समन्वयरूपं यत् ज्ञातेयं तत् उपपत्त्या घटते, ज्ञातीनां भावः तच्छब्दप्रवृत्तिनिमित्तं परस्परं जानीयुः इति, कर्म च अन्योन्ययोगक्षेमोद्वहनात्मकं ज्ञातेयम्, तच्च समन्वयाभि - प्रायेण इह दर्शितम्, न जडानां स्वतः समन्वयः कदाचिदपि इति प्रतिपादयितुम् ॥ २ ॥
इति पदं व्याचष्टे प्रति इति । प्रति इत्यवयवं व्याचष्टे आभिमुख्येन इति, तिष्ठत् इति शत्रन्तां धातुप्रकृतिं व्याचष्टे विश्रान्तिं भजन्ते इति, लडादेशत्वसामान्यमाश्रित्यैवं विग्रहः, अहं घटं पश्यामि इत्यत्र हि घटः दर्शनाख्यसंविद्द्वारेण अहंवाच्ये परप्रमातरि एव स्फुटं विश्रान्तिं भजति, ततः परम् अहम् स्वरूपे एव ब्रुडितत्वात् । यत्तु कालान्तरे तस्य पुनर्दर्शनं तत् पुनर्विच्छिन्नस्य तस्य पुनस्तत्र विश्रमणमेवेति न विरोधः । प्रतितिष्ठतिरूपेण भावेन ज्ञातेयोपपत्तिरूपभावलक्षणं सप्तम्यर्थीभूतं कथयति ततः इति । ततः - तद्भावाद्धेतोः एषु - भावेषु, यज्ज्ञातेयम् - सम्बन्धः, तत् उपपद्यते इत्यस्य व्याख्यां करोति उपपत्त्या इति । घटते, युज्यते इत्यर्थः । ज्ञातेयम् इति भावकर्मणि व्युत्पादयितुमाह ज्ञातोनाम् इति । तद्धितप्रत्ययवाच्यस्य भावस्यार्थमाह तच्छब्द इति, तच्छब्द प्रवृत्तिनिमित्तम् - ज्ञातिशब्दप्रवृत्तिनिमित्तम्, येन धर्मेण ज्ञातिशब्दः प्रयुज्यते स एवात्र भाव इत्यर्थः । किं तत्प्रवृत्तिनिमित्तमित्यपेक्षायां तदेवानुकृत्य आह परस्परम् इति । परस्परं प्रति ज्ञानमेव ज्ञाति शब्दप्रवृत्तिनिमित्तम् इति भावः । भावार्थमुक्त्वा कर्मार्थमाह कर्म च इति । बान्धवा हि न केवलं परस्परं जानन्त्यव किन्तु उपकारपरा अपि भवन्ति इति भावः ।
नन्विह किमस्तीत्यत आह तच्च इति । तच्च - ज्ञातेयञ्च, इह - अस्मिन् श्लोके, दर्शितम् इति, लक्षणयेति भावः । न हि भावानामचेतनत्वेन मुख्यार्थद्वयसम्भवः इति परमार्थः । कुतो न मुख्यमेवार्थं स्वीकरिष्याम इत्यत आह न इति । इति प्रतिपादयितुम्, एतत्सूचयितुम् इत्यर्थः ॥ २ ॥
तथा च व्यतिरेकमुखेन एतदेवाह :-
देशकालक्रमजुषामर्थानां स्वसमापिनाम् ।
सकृदाभाससाध्योऽसावन्यथा कः समन्वयः ॥ ३ ॥
अर्थानां जडानाम्, तज्ज्ञानानां तद्विकल्पानां तन्निश्चयानां च देशक्रमं कालक्रमं चात्यजताम्, स्वसमापिनाम् - स्वरूपमात्रप्रतिष्ठानाम्, कः समन्वयः, न कश्चित् इत्यर्थः, यतो हि असौ समन्वयः सकृदाभासेन देशकालाकारमिश्रीकरणात्मना योजनाभासेन साधयितुं शक्यः नान्यथा, न हि पृथक् पृथक् परिक्षीणेषु स्रोतः सु तदुह्यमानाः तृणोलपादयः समन्वयं कञ्चित् यान्ति इति । अनेकत्वेन देशकालादिभेद [देशादिभेदः - क्। ष्। ष्।] इत्याशयेन सकृच्छब्दः तन्निषेधतात्पर्येण प्रयुक्तः ॥ ३ ॥
अथ तृतीयस्य श्लोकस्यावतरणिकां करोति तथा च इति । स्पष्टम् । एवम् अवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । देश इति ।
अत्र टीका :-
अर्थानाम् इति व्याचष्टे जडानाम् इति । जडानाम् - नीलसुखादिरूपाणाम्, तज्ज्ञानानाम् - नीलसुखाद्यनुभवानाम्, विकल्प पदेन स्मृत्यादीनामपि ग्रहण, अर्थत्वञ्चैषां परप्रकाशं प्रति वेद्यत्वकृतमेव ज्ञेयम् । स्वसमापिनाम् इति व्याचष्टे स्वरूप इति ।
कुतो न इत्यपेक्षायामाह यतो हि इति । सकृदाभास इति पदं व्याचष्टे विगृह्णाति च देश इति । योजनाभासेन, परमार्थतः भेदस्य तथैव स्थितत्वादिति भावः, साधयितुं शक्यः इति, देशकालाकारैः भिन्नतया स्थितानाम् नीलादीनां केनापि समान्येन योजनं हि सम्बन्ध इति भावः ।
अन्यथा इत्यस्य विस्तारं करोति न हि इति । समन्वयम् - परस्परमेलनम् ।
तत्र कोऽसौ समन्वय इत्याशङ्क्य बहुतरव्यापकं कार्यकारणभाषं तावत् दर्शयति :-
प्रत्यक्षानुपलम्भानां तत्तद्भिन्नांशपातिनाम् ।
कार्यकारणतासिद्धिहेतुतैकप्रमातृजा ॥ ४ ॥
इह अग्नौ प्रत्यक्षे धूमं नोपलभते, ततो धूमं प्रत्यक्षेण पश्यति, अग्निं तु यदि न उअपलभते धूमपि न उपलभते - इति प्रत्यक्षाभ्याम् अनुपलम्भैश्च इति पञ्चकात् कार्यकारणभावो धूमाग्न्योः सिद्ध्यति इति यदुक्तं तत् कथम् ? अग्निप्रत्यक्षेण हि धूमे [धूमेन किञ्चिद् उद्व्यूढम् - क्। ष्। ष्।] न किञ्चित् उद्व्यूढम् अग्नि -
इति शब्दः अन्यथाशब्दप्रपञ्चसमाप्तौ, सकृत शब्दस्य भावमाह अनेकत्वेन इति । अनेकत्वेन - आभासानेकतया, देशकालादि - भेदः भवति, इत्याशयेन - अभिप्रायेण, तन्निषेधतात्पर्येण - देशकालादिभेदनिषेधतात्पर्येण, सकृत् शब्दः प्रयुक्तः, सूत्रे इति भावः ॥ ३ ॥
अथ चतुर्थश्लोकस्यावतरणिकां करोति तत्र इति । स्पष्टम् । एवम् अवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । प्रत्यक्ष इति ।
अत्र टीका :-
इह - अस्मिन् व्यवहारविषये जगति । नोपलभते इति, आर्द्रेन्धनसंयोगा
- भावात्, ततः - अग्निप्रत्यक्षानन्तरमार्द्रेन्धनप्रक्षेपात्, इति पञ्चकात्
- एवंरूपात् पञ्चकाद्धेतोः । अन्वयव्यतिरेकाभ्यां व्याप्तेरिति यावत् । तत्र अन्वये अग्निप्रत्यक्षम्, धूमानुपलम्भः, धूमप्रत्यक्षम्, इति त्रयम्, व्यतिरेके अग्न्यनुपलम्भः, धूमानुपलम्भ इति द्वयम्, यदुक्तम्, तार्किकादिभिरिति भावः, तत् कथम्, तन्न सिध्यति इत्यर्थः, कुतो न सिध्यति इत्यत आह अग्नि इति, न किञ्चित् उद्व्यूढम् - लेशतोपि सिद्धिर्न दत्ता, कुतो न उद्व्यूढम् इत्याशङ्क्य सिद्धिहेतुता इत्यादि पदं व्याचष्टे अग्निलक्षणे इति । अग्निलक्षणे - अग्निस्वरूपमात्रे,
लक्षणे धूमात् भिन्ने अंशे तस्य अवगमहेतुत्वात्, स्वस्वभावरूपे भिन्ने अंशे विश्रान्तत्वाच्च, परविषयानवगाहनात् ज्ञानान्तरस्वरूपानावेशाच्च इति । पातिः ज्ञापनवाची पतिश्च विश्रान्तिवाची प्रयुक्तस्तन्त्रेण । एवं धूमानुपलम्भादौ चतुष्टये वाच्यम् ।
ततश्च अग्निः धूमाभावः धूमः, अग्न्यभावः धूमाभावः इति एतानि
अंशे - समस्तकार्यकारणभावविषयभागभूते, तस्य - अग्निप्रत्यक्षस्य, अवगमहेतुत्वात् - ज्ञानकारणत्वात् । अस्यैव पदस्य द्वितीयमर्थमाह स्व इति । विश्रान्तत्वात्, पातित्वादित्यर्थः । कुत एतदित्यपेक्षायाम् अत्र हेतुद्वये क्रमेण हेतुद्वयमाह पर इति ।
परविषयानवगाहनात् - धूमज्ञानविषयधूमानवगाहनात्, तथा ज्ञानान्तरस्य - धूमज्ञानस्य यत्स्वरूपं तत्र अनावेशात् - आवेशा - सम्भवात् । च शब्दोऽत्र क्रमद्योतकः न समुच्चयपरः । इति शब्दः तत्तत् इति समस्तपदविग्रहव्याख्यासमाप्तौ । ननु पातिनाम् इत्यस्यावयवस्य कथं ज्ञापकत्वविश्रान्तत्वरूपमर्थद्वयं सम्भवतीत्यत आह पातिः इति । पातिः - णिजन्तः पतॢ गतौ इति धातुः । ज्ञापनवाची, गत्यर्थानां ज्ञानवाचकत्वेन तत्र च णिच्प्रयोगे ज्ञापनवाचकत्वात्, पतिः - केवलोयं धातुः, विश्रान्तिवाची, श्रान्तो हि यदा विश्राम्यति तदा पतत्येव, तन्त्रेण - प्रोक्तरूपेण, प्रयुक्तः, कर्तरि णिन्प्रत्ययान्तत्वेन प्रयोगविषयीकृत इत्यर्थः । इममेव न्यायमन्यत्र चतुष्टयेऽप्यतिदिशति एवम् इति, समानन्यायत्वादिति शेषः । अत एव सूत्रे ततत् इति वीप्सा भावः ।
द्वितीयार्धं व्याख्यातुं प्रक्रियां करोति ततश्च इति । ततश्च - यतः एवं ततः कारणाच्च, यथा अग्निः, धूमाभावः, धूमः, अग्न्यभावः, धूमाभाः,
वस्तूनि यथा पृथक्प्रमातृसंवेद्यानि धूमाग्न्योः कार्यकारणतां न गमयन्ति तथा एकप्रमातृवेद्यान्यपि, विकल्पोऽपि अनुभवातिरिक्तं ज्ञापयन् न प्रमाणमेव । यदा तु प्रत्यक्षानुपलम्भस्रोतःपञ्चकेन तानि पञ्च वस्तूनि एकसंवित्समुद्रविश्रान्तानि कृतानि तदा एकीभूतानि प्रमात्रा स्वतन्त्रतया अन्योन्यसापेक्षाणि न तु घटपटादिवत् भास्यन्ते, स एक [स एव एकः आभासः - क्। ष्। ष्।] आभासः कार्यकारणभावावभास इति न किञ्चित् अवद्यम् ॥ ४ ॥
इत्येतानि वस्तूनि - प्रत्यक्षद्वयानुपलम्भत्रयविषयीभूतं वस्तुपञ्चकम्, पृथग् यः प्रमाता तस्य वेद्यानि - वेद्यतां गतानि सन्ति, धूमाग्न्योः कार्यकारणतां न गमयन्ति, न हि परेण गृहीतमग्निं परो धूमकारणतया गृह्णाति सोऽपि वा धूममग्निकार्यतया इति भावः । एकप्रमातर्यपि वेद्यान्येव न तु विश्रान्तान्यपि न तां गमयन्ति इत्याह तथा इति । ननु विकल्पेनैव भिन्नप्रमातृवेद्येषु अग्न्यादिषु कार्यकारणताग्रहणमस्तु, न हि विकल्पस्य कुत्राप्य - शक्तिः असम्भवोपहतेऽपि वस्तुनि प्रवृत्तेः इत्यत आह विकल्पोऽपि इति । अत्र उपयोगित्वेन बौद्धमतस्याश्रयणम् । ननु तर्हि प्रत्यक्षदृष्टा कार्यकारणता कथं सिध्यति इत्यत आह यदा तु इति । यदा तु प्रत्यक्षानुपलम्भस्रोतः - पञ्चकेन - नदीप्रवाहस्थानीयेन प्रत्यक्षादिपञ्चकेन, तानि पञ्च वस्तूनि भावादिवत् एकसंवित्समुद्रविश्रान्तानि कृतानि तदा एकीभूतानि सन्ति, चलितानि सन्तीति यावत्, प्रमात्रा - सर्वाधारभूतेन ग्राहकेण, स्वतन्त्रतया - स्वस्मिन् स्थितया अप्रतिहतया स्वातन्त्र्यशक्त्या, परस्परं युक्तत्वेन अन्योन्यसापेक्षाणि भास्यन्ते, न तु घटपटादिवत् निरपेक्षत्वेन भास्यन्ते, स एक आभासः - द्वयोर्मेलनरूप आभासः, कार्यकारणभावावभासः - कार्यकारणतारूपः आभासः भवति, इति - एवम्, न किञ्चिदवद्यम्, किञ्चिद्दोषोपहतं न भवतीत्यर्थः ॥ ४ ॥
ननु प्रत्यक्षानुपलम्भैः यत् कृतं तत् स्मरणबलात् एकीकरिष्यते [एकीकरिष्यति - क्। ष्। ष्।] उक्तं तावद् अत्र - स्मृतिरपि अनुभूतातिरिक्तेऽर्थे न व्याप्रियते । सापि च विज्ञानसमन्वयरूपा एकप्रमातृसद्भावं विना कथं स्यादिति दर्शयति :-
स्मृतौ यैव स्वसंवित्तिः प्रमाणं स्वात्मसम्भवे ।
पूर्वानुभवसद्भावे साधनं सैव नापरम् ॥ ५ ॥
इह अनुभूतो विषयः प्रकाशते स्मृतौ, तत्र विषयस्यासौ [सा स्मृतिः - क्। ष्। ष्।] स्मृतिः न नूतनः प्रकाशः अपि तु अस्य स प्रकाशः प्राच्योऽनुभव [स प्राच्य एवानुभवप्रकाशः - क्। ष्। ष्।] एव, स चानुभवो
अथ पञ्चमस्य श्लोकस्यावतरणिकां करोति ननु इति ।
अत्र टीका :-
यत् कृतम् - अग्न्यादिपञ्चकस्य यः उपलम्भः कृतः, एकीकरिष्यते, प्रमात्रा इति शेषः । गुरुः अत्रोत्तरमाह उक्तम् इति, अत्र - अस्मिन् विषये, पूर्वमिति शेषः, अनुभूतातिरिक्ते - पूर्वानुभूतव्यतिरिक्ते, सापि - स्मृतिरपि, विज्ञानयोः - स्मृतिकालीनानुभवकालीनयोः ज्ञानयोः, यः समन्वयः - योजनम्, एकविषयीकरणम् इति यावत्, सः रूपं यस्याः तादृशी । इति दर्शयति, एतदेव दर्शयतीत्यर्थः ।
एवं अवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । स्मृतौ इति ।
अत्र टीका :-
अनुभूतः - पूर्वानुभूतः, विषयः - घटादिः, तत्र इति, तत्र सतीत्यर्थः, असौ स्मृतिः विषयस्य नूतनः प्रकाशो न भवति, अपि तु अस्य
- विषयस्य स प्रकाशः - स्मृतिरूपः प्रकाशः, प्राच्योऽनुभव एव भवति, एकविषयत्वात्,
ज्ञानरूपत्वेन ज्ञेयरूपत्वाभावात् न ज्ञानान्तरसंवेद्यः अपि तु स्वप्रकाशः, स च स्मृतिकाले यदि असन् तत् कथं प्रकाशताम्, भवतु वा असौ तथापि स्मृतिप्रकाशोऽनुभवप्रकाश इति अन्योन्यभिन्नं युगलम् इति न कदाचित् स्मृतिः स्यात्, तस्मात् एतत् एवमुपपद्यते, यदेव स्मृति - स्वसंवेदनम्, तदेव अनुभवस्य स्वसंवेदनम्, न तु अपरं स्वसंवेदनव्यतिरिक्तं प्रत्यक्षम् अनुमानादिकं वा तत्र क्रमते, ततश्च तावत्कालव्यापि अविच्छिन्नमेकं यत् स्वसंवेदनं तदेव प्रमातृतत्त्वम् इति सिद्धम् । अन्यत्र अनुभवितरि
स चानुभवः - स्मृतिरूपतां गतः प्राच्योऽनुभवः, ज्ञानरूपत्वेन ज्ञेयरूपत्वाभावात् ज्ञानान्तरसंवेद्यो न भवति, दृक् स्वाभासा इत्युक्तन्यायेनेति भावः, अपि तु स्वप्रकाशः - स्वेन स्वं प्रति भासनशीलः भवति, स च - अनुभवः, स्मृतिकाले यदि असन् भवति, तत् - तदा, कथं प्रकाशताम्, न हि शशशृङ्गस्य प्रकाशो दृष्ट इति भावः । भवतु वा असौ, सन् वा भवत्वित्यर्थः, तथापि - नूतनप्रकाशत्वेऽपि सति, स्मृतिरूपः प्रकाशः स्मृतिप्रकाशः, अनुभवरूपः प्रकाशः अनुभवप्रकाशः, अन्योन्यभिन्नम् - परस्परनिरपेक्षम् । न स्यात् इति, योजकाभावादिति भावः । फलितमाह तस्मात् इति । ततः एवम् - अनेन प्रकारेण, एतत् - स्मृतिसम्भवः । एवं कथम् इत्यपेक्षायाम् सूत्रं व्याचष्टे एतदुत्तरत्वेन यदेव इति । स्मृतौ स्वसवित्तिः इति पदद्वयं व्याचष्टे स्मृति इति । स्मृतौ स्वसंवेदनम् - स्वरूपभूतं स्ववेदनम् स्मृतिस्यसंवेदनम्, एवशब्दव्यावर्त्यमाह न तु इति, स्वसंवेदनव्यतिरिक्तम् - स्वरूपभूतसंवेदनव्यतिरिक्तम्, तत्र - तस्यां स्मृतौ, क्रमते - प्रगल्भते । तावन्तं कालम् - स्मृत्यवधिं कालम् व्याप्नोतीति तावत्कालव्यापि, स्वसंवेदनम् स्मृत्यनुभवयोः संवेदनम्, भावदायिसंवेदनमिति [सावदायिसंवेदनम् - च्।] यावत् ।
ननु पूर्वं स्मृत्या प्रमातृसाधनं कृतमेव इति किमयं पिष्टपेषणसहोदरः पुनः प्रयत्न आरब्ध इत्यत आह अन्यत्र इति ।
अनुभवितरि,
स्मर्ता अन्यो न उपपद्यते, इत्यनया छायया स्मृत्या प्रमातृसिद्धिः पूर्वमुक्ता, इदानीं तु स्वसंवेदनैकीभावेन भङ्ग्यन्तरेण इति विशेषः ॥ ५ ॥
नन्वनुभवातिरिक्तेऽपि अर्थे सन्तु विकल्पाः प्रमाणम्, अप्रामाण्यं हि बाधबलात् भवति, बाधाभावे तत् कथं स्याद् इत्याशङ्क्य सोऽपि अयं बाध्यबाधकभावः सत्यासत्यप्रविभाजनया [सत्यासत्यप्रविभाजनाय
- क्। ष्। ष्।] विश्वेषां व्यवहाराणां जीवितभूतो न एकेन प्रमातृतत्त्वेन विना घटत इति वितत्य दर्शयति :-
बाध्याबाधकभावोऽपि स्वात्मनिष्ठाविरोधिनाम् ।
ज्ञानानामुदियादेकप्रमातृपरिनिष्ठितेः ॥ ६ ॥
अन्यस्मिन् सति अन्यः स्मर्तान उपपद्यते - उपपत्त्या न घटते, न हि अन्यदृष्टे अन्यस्य स्मृतिर्दृष्टेति भावः । इत्यनया छायया - रचनया पूर्वं स्मृत्या - करणभूतया, प्रमातृसिद्धिरुक्ता - कथिता, इदानीन्तु - अस्मिन् श्लोके तु, स्वसंवेदनैकीभावेन भङ्ग्यन्तरेण - सारभूतस्वसंवेदनैकत्वेन रचनान्तरेण, स्मृत्या प्रमातृ - सिद्धिरुक्ता, इति - एवम्, विशेषः भवति, तथा च न पौनरुक्त्याशङ्का इति भावः ।
एवमत्र सङ्क्षेपः, स्मृतौ यैव स्वसंवित्तिः - सारभूतं स्वसंवेदनम्, स्वात्मसम्भवे - स्मृत्याख्यनिजस्वरूपस्य प्रकाशने भरणे च प्रमाणं भवति, सैव स्वसंवित्तिः पूर्वानुभवस्य सद्भावे पूर्वानुभवस्य प्रकाशने भरणे च साधनम् प्रमाणम् आसीत्, अपरम् - अन्यत् प्रत्यक्षादिकं नासीत् तस्य तत्राशक्तत्वात्, तथा च स्वसंवेदनाख्यैकप्रमातृ - सिद्धिरिति भावः ॥ ५ ॥
अथ षष्ठस्य श्लोकस्यावतरणिकां करोति नन्वनुभव इति ।
अत्र टीका :-
सत्यासत्ययोः या प्रविभाजना - विभागविषयीकरणं तया ।
एवम् अवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे ।
बाध्यबाधक इति ।
बाधाभावे प्रामाण्यम् इत्येतदर्थम् अवश्यसमर्थ्यो यो बाधव्यवहारः सोऽपि कथम् इति अपि शब्दस्यार्थः । इह शुक्त्या तावत् रजतस्य न काचित् बाधा नाम क्रियमाणा दृश्यते, शुक्तिज्ञानेन रजतज्ञानं बाध्यते इत्यपि न युक्तम्, स्वस्मिन् विषये आत्मनि च स्वरूपे द्वयोः ज्ञानयोः परिनिष्ठितयोः विश्रान्तयोः अन्योन्यं विरोधस्य अभावात् । अथ [अथ अयमेव विरोधः परस्परपरिहाररूपः - क्। ष्। ष्।] अयं परस्परपरिहार एव विरोधः तर्हि सर्वेषां ज्ञानानां विरोधात् बाध्यबाधक -
अत्र टीका :-
प्रथमम् अपि शब्दस्यार्थमाह बाधाभावे इति । एतदर्थम् - ज्ञानप्रामाण्यार्थम्, अवश्यसमर्थ्यः - अवश्यं साधनीयः, सोपि कथम्, एकप्रमातृ - परिनिष्ठितिं विना स्यादित्यर्थः । अर्थः, समुच्चयरूप इत्यर्थः । एवम् अपि शब्दार्थमुक्त्वा श्लोकं व्याख्यातुं प्रक्रियां करोति इह इति । न दृश्यते इति, अत एव सूत्रे ज्ञानानामेव बाध्यबाधकभावो निर्दिष्ट इति भावः । इत्यपि - सूत्रे उपात्तो ज्ञानानां बाध्यबाधकभावोऽपि, न युक्तम्, न युक्तो भवतीत्यर्थः । कुत इत्यपेक्षायाम्, स्वात्मनिष्ठा इति पदं हेतुगर्भविशेषणत्वेन योजयति विग्रहपूर्वं व्याचष्टे च स्वस्मिन् इति । स्व इत्यवयवस्यार्थमाह विषये इति, स्वकीये विषये इत्यर्थः । आत्म इत्यवयवं व्याचष्टे स्वरूपे इति, आत्मशब्दस्य स्वरूपवाचकत्वात् । निष्ठा इति पदं व्याचष्टे विश्रान्तयोः इति, एतेन स्वात्मनिष्ठानि च तानि अविरोधीनि चेति विग्रहः, द्वयोरेव विरोधाभावविवक्षया बहुवचनस्यात्र तन्त्रत्वं सूचितम् ।
अथास्यैव वाक्यस्य द्वितीयमर्थमाह अथ इति । अथ - यदि, अयं परस्परपरिहार एव - अन्योन्याभाव एव, ज्ञानानां विरोधो भवति, न हि शुक्तिकाज्ञानं रजतज्ञानं भवतीति भावः । तहि - तदा, सर्वेषा ज्ञानानां विरोधात् - अन्योन्याभावाऽव्यभिचारेण सिद्धात् विरोधात्, प्रकृतत्वात् बाध्यबाधकभावस्य,
भावस्य स्वात्मनि [बाध्यबाधकभावस्य परिनिष्ठैव - क्। ष्। ष्।] परिनिष्ठैव न लभ्येति सुतरां विघटेत सत्येतरप्रविभागः । न ञपि अत्र तन्त्रेण व्याख्येयः । एतदुक्तं भवति - यदि ज्ञानं स्वयं नश्यति तदा किं ज्ञानान्तरेण अस्य कृतम्, न हि तेन तत्कालेऽसम्भवता तस्य विषया -
स्वात्मनि परिनिष्ठा - नियतावस्थितिः, एव न लभ्या इत्यस्य शेषत्वेन अध्याहारः, लभ्या न भवति, अत्र बहुवचनं प्रधानमेव । ननु कथमत्रायमर्थो युक्त इत्यत आह न ञपि इति । अत्र - अस्मिन् विषये, तन्त्रेण - दीपवत् स्थितया युगपत् सर्वोपकारिरूपया तन्त्रवृत्त्या, व्याख्येयः, न केवलं ज्ञानानाम् इत्यन्तः श्लोकखण्ड एव तन्त्रेण व्याख्येयः अपि तु बुद्धया निष्कृष्य नञ् अपि इति अपि शब्दार्थः । तत्र पूर्वार्थे विरोधिपदसमस्ततया व्याख्येयः अविरोधिनाम् इति, द्वितीये तु अर्थे बुद्ध्या ततो निष्कृष्य न विरोधिनाम् इति व्याख्येयः । अन्यथा लभ्या इत्यध्याहृतेन सह सम्बन्धायोगात् । तथा चैवमत्र योजना । ज्ञानानां बाध्यबाधकभावोऽपि एकप्रमातृपरिनिष्ठितेः - एकप्रमातृविश्रान्तेरेव हेतोरुदियात् । कुत इत्यपेक्षायां स्वात्मनिष्ठाविरोधिनाम् इति हेतुगर्भं विशेषणम् । यतः एतानि ज्ञानानि स्वविषये स्वरूपमात्रे च विश्रान्तानि न तु अन्यविषये स्वरूपे च व्यभिचरण - शीलानि भवन्ति तत इत्यर्थः । न च अविरोधिनां परस्परं बाध्यबाधकभावो युक्तः, एकप्रमातृविश्रान्तत्वे तु तत्कृतस्य तस्य युक्ततैव इति बाध्यबाधकभावस्य स्वरूपलाभ इति भावः । अथ च अस्यामेवापेक्षायां यतः इति शेषः, यतः विरोधिनां परस्परं तादात्म्याभावाव्यभिचारेण स्वभावेन अविशेषेण विरोध - युक्तानां समस्तज्ञानानां सम्बन्धिनः, अर्थवशेन विभक्तिपरिणामः, बाध्यबाधक भावस्य स्वात्मनिष्ठा - यथास्वं बाध्यबाधकयोर्व्यवस्था इदं बाध्यम् इदं बाधकमित्येवंरूपा, लभ्या इति शेषः । लभ्या न भवति ततः स बाध्यबाधकभावः एकप्रमातृ - परिनिष्ठितः उदियात् - एकप्रमातरि प्रतितिष्ठत्त्वे सति तु तत्स्वातन्त्र्यवशेन बाध्यबाधकभावस्य स्वात्मनिष्ठा युक्तेति बाध्यबाधकभावोऽपि स्वरूपं लभते एवेति भावः । व्याख्यातस्य ज्ञानानाम् इत्यन्तस्य श्लोकखण्डस्य
पहारः कर्तुं शक्यः, न रजतम् इत्यपि ज्ञाअं स्वं रजताभावं विषयीकुर्वत् न विषयम् अपहरेत् रजतज्ञानस्य । अथापि ज्ञानान्तरेण नाश्यते इत्यपि पक्षः, तत्रापि सर्वेषां ज्ञानानाम् इयमेव सरणिरिति किञ्चिदेव बाध्यम् इति कथं स्यात् ? यदा तु रजतज्ञानं शुक्तिज्ञानं च एकत्र स्वसंवेदने विश्राम्यतः तदा एतत् उपपद्यते, तथा हि - एकत्रापि प्रमातृतत्त्वे विश्राम्यतां ज्ञानानां
अतिदुर्बोधतया पुनः सङ्क्षेपेण अर्थकथनं प्रतिजानीते एतत् इति । किमुक्तं भवतीति शिष्यप्रश्नमाशङ्क्याह यदि इति । ज्ञानम् - रजतज्ञानम्, नश्यति, एकक्षणावस्थायित्वादिति भावः, ज्ञानान्तरेण - शुक्तिकेयम् इति न रजतमिदम् [रजतमिदम् - च्।] इति वा अन्येन ज्ञानेन । ननु तत्तर्ह्यस्य विषयापहारं करोति इत्यत आह न हि इति । तेन - ज्ञानान्तरेण, तत्काले - रजतज्ञानसमये । ननु शुक्तिकेयम् इति ज्ञानं शुक्तिकामात्रग्रहणमात्रनिष्ठत्वेन अस्य विषयं मा अपहरतु न रजतम् इति ज्ञानन्तु अपहरत्येव इत्यत आह न रजतम् इति । न रजतम् इति ज्ञानम् हि रजताभावविषयमेव न रजतविषयम्, तथा च कथमपहरणमिति भावः । नाशनम् अभ्युपेत्यापि कथयति अथापि इति । तत्रापि - तस्मिन्नपि पक्षे, किञ्चिदेव - रजतज्ञानमेव, कथं स्यात्, न हि सर्वाणि ज्ञानानि युगपत् सम्भवन्ति इति उत्तरज्ञानेन पूर्वं ज्ञानं नाश्यते एव इति सर्वज्ञानानां बाध्यत्वं स्यान्न केवलं शुक्तिविषयस्य रजतज्ञानस्यैवेति भावः । एवं सङ्क्षेपेण अर्थकथनं कृत्वा उदियात् इत्यादि अवशिष्टं श्लोकखण्डं व्याचष्टे यदा तु इति । स्वसंवेदने - स्वसंवित्तिरूपे प्रमातरि, एतत् - ज्ञानानां बाध्यबाधकभावः ।
कथमित्यपेक्षायाम् समर्थनमुपक्रमते तथा हि इति । सा - विश्रान्तिः, संवेद्यते - अनुभूयते, ज्ञाने - विशेषणे विशेष्ये च निष्ठां गतं ज्ञानद्वयम्, विश्राम्यन्ती अहं पश्यामि इति विश्रामं भजमाने, परस्परं यः उपरागाभासः - स्वविशिष्टबुद्धिजननरूपः, तेन, विश्राम्यतः - विश्रामं भजतः, अन्यथा विशेषणविशेष्यभावज्ञानासम्भवादिति भावः ।
परस्परानाश्लेषेण -
नैकप्रकारैव विश्रान्तिः अपि तु विचित्रतयैव सा संवेद्यते, तथा हि - नीलम् इति उत्पलम् इति ज्ञाने प्रमातरि विश्राम्यन्ती परस्परोपरागाभासेन विश्राम्यतः । घट इति पट इति परस्परानाश्लेषेण, शुक्तिका इति न रजतम् इति वा ज्ञानं रजतम् इति ज्ञानस्य उन्मूलनं तदीयविमर्शात्मक - प्रमारूपव्यापारानुवर्तनविध्वंसं कुर्वत् प्रमातरि प्रतिष्ठां भजते । एवं कार्यकारण भावादौ विश्रान्तिवैचित्र्यं प्रमेयासम्भवि प्रमात्रा स्वातन्त्र्येण निर्मितं तत एव अस्य प्रमास्वतन्त्रतादायि वाच्यम् ।
एवमेकत्र प्रमातरि पूर्वज्ञानस्य
परस्परानपेक्षया, न हि घटपटयोः कापि परस्परमपेक्षा दृश्यते, विश्राम्यत इत्यनेनैवात्रापि सम्बन्धः, कदाचिद्धि शुक्तिकायां रजतज्ञाने शुक्तिकेयम् इति बाधोत्पादः, कदाचित्तु न रजतम् इति, इति वा शब्दप्रयोगः । रजतम् इति ज्ञानस्य, शुक्तिकाविषये स्फुरितस्येति भावः
उन्मूलनम् - नाशनम्, अस्यैव स्वयं व्याख्यां करोति तदीय इति । तदीया - रजतसम्बन्धिनी या विमर्शात्मकप्रमा - परामर्शरूपा प्रमा, तद्रूपो यो व्यापारः तत्र यदनुवर्तनम् - पश्चाल्लगनम्, तस्य विध्वंसम् - नाशम्, कुर्वत् - प्रत्युत तद्विरुद्धशुक्तिकासम्बन्धिविमर्शात्मकप्रमारूप-व्यापारानुवर्तनं कुर्वत्, प्रतिष्ठाम् - प्रोक्तरूपां विश्रान्तिम् । एनमेव न्यायं कार्यकारणभावादौ सम्बन्धनिवहे अतिदिशति एवम् इति ।
प्रमेयासम्भवि - आपाततः अचेतनेषु प्रमेयेषु असम्भवोपहतम् । तत एव - निर्मितेर्हेतोरेव, अस्य - प्रमातुः, स्वतन्त्रतादायि - स्वतन्त्रतोद्भावकम् । वाच्यम् - अवश्यं वक्तव्यम्, एतेन सर्वेषां सम्बन्धानाम् प्रमातृस्वातन्त्र्यप्राणत्वमेवोक्तम्, अन्यथा आपाततः अचेतनेषु परमार्थतः शुद्धचैतन्यरूपेषु भावेषु यथास्वं स्वगृहे स्थितेषु का सम्बन्धकलना । तदुक्तम् :-
भावानां स्वगृहे रूपं तत्सत्यमितरन्मृषा
इति । अत्र च पूर्ववाक्यस्थस्य यच्छब्दस्यापेक्षा, तथा च भावानां स्वगृहे - शुद्धप्रकाशान्तदशरूपे निजगृहे यद्रूपं भवति तत्सत्यम् - परमार्थसत् भवति, इतरत् - प्रमात्रा स्वकल्पनया कृते यद् भवति तत्, मृषा भवति, अत्र च यद्यपि प्रमातुरपि स्वगृहे एव सत्यत्वम्
परिवर्जनेन यतो निश्चिता स्थितिः, इति बाध्यबाधकव्यवहार [अतः बाध्यबाधकव्यवहारः - क्। ष्। ष्।] उपपन्नः, नीलादिवत् किल तानपि व्यवहारान् स एव परमेश्वरः स्वातन्त्र्यात् आभासयति तत् तेऽपि सत्या एवेति ॥ ६ ॥
तथापि तद् दण्डापूपिकान्यायसिद्धमेव न यत्नापेक्षम्, इत्यलम् ।
उपसंहारं करोति एवम् इति । पूर्वज्ञानस्य - पूर्वं भातस्य शुक्तिकायां रजतज्ञानस्य, परिवर्जनेन - प्रमातृस्वातन्त्र्यकृतेन उन्मूलनेन, निश्चिता - निश्चयविषयतां गता, स्थितिः - शुक्तिकाज्ञानस्वरूपम्, इति - अतः कारणात्, उपपन्नः, उपपत्त्या सिद्ध इत्यर्थः । ननु कथमनया इह भ्रमज्ञानं दर्श्यते इत्यत आह नीलादिवत् इति । तान् व्यवहारानपि - भ्रमज्ञानादिरूपान् व्यवहारानपि, स एव - सत्याज्ञानादिनिर्मातृत्वेनाभिमत एव । तत् - ततः कारणात्, ते अपि - भ्रमज्ञानादिरूपा व्यवहारा अपि । इति शब्दो व्याख्या - समाप्तौ । अयं भावः । सत्यासत्यतया मतं सर्वं भाववृन्दं यदि प्रकाशात्मतया दृश्यते तदा सर्वम् अविशेषेण परमार्थसदेव, यदि तु भावतया तदा सर्वमपमार्थमेवेति का भ्रमज्ञानं प्रति असत्यत्वाशङ्का इति ॥ ६ ॥
अथ सप्तमस्य श्लोकस्यावतरणिकां करोति अत्र इति ।
अत्र परकीयं मतम् आशङ्कते दूषयिष्यामीति :-
विविक्तभूतलज्ञानं घटाभावमतिर्यथा ।
तथा चेच्छुक्तिकाज्ञानं रूप्यज्ञानाप्रमात्ववित् ॥ ७ ॥
इह शुक्तिकाज्ञानं स्वात्मानं संविदत् स्वात्माभिन्नं प्रमाणत्वं [प्रमाणम् - क्। ष्। ष्।] बुध्यते, तत्परिच्छिनत्ति इति न्यायात्, तत्परिच्छेदनान्तरीयकश्च अन्यव्यवच्छेद इत्यशुक्तिज्ञानरूपस्य रजतज्ञानस्य अप्रमाणत्ववेदनं तदेव उच्यते यत् एतत् शुक्तिकासंवेदनाभिन्नप्रमाणत्ववेदनम्, न च एतत् अपूर्वं यत्
अत्र टीका :-
अत्र - अस्मिन् विषये, परकीयं मतम् - बौद्धमतम् ।
किमर्थमाशङ्कते इत्यत आह दूषयिष्यामि इति, दूषणधियेत्यर्थः ।
एवम् अवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । विविक्त इति ।
अत्र टीका :-
इह - अत्र लोके, शुक्तिकाज्ञानम् - पूर्वं रजतज्ञानविषयीकृतशुक्तिकाविषयं शुक्तिकेयम् इति ज्ञानम्, स्वात्मानम्
- शुक्तिकाज्ञानरूपं निजं स्वरूपम्, संविदत् - स्वप्रकाशत्वेन स्वसंवेदनविषयतां नयत्, स्वात्माभिन्नम् - स्वरूपत्वेन स्थितम्, प्रमाणत्वम् - निजं प्रमाणभावम्, बुध्यते - स्वात्मवत् अनुभूयते ।
कुतः ? तत्परिच्छिनत्ति इति न्यायात्, बौद्धैरुच्यमानादस्मान्न्यायाद्धेतोरित्यर्थः ।
तत्परिच्छेदनान्तरीयकश्च - तद्रूपस्वात्मपरिच्छेदाव्यभिचारी च, अन्यव्यवच्छेदः - अतद्रूपरजतज्ञानव्यवच्छेदः भवति । तदुक्तम् :-
तत्परिच्छिन्नवर्ति अन्यबुद्ध्यवच्छिन्नवर्ति
इति । इति - अतः कारणात् । अशुक्तिज्ञानरूपस्य - शुक्तिज्ञानापेक्षयाऽतद्रूपस्य, अप्रमाणत्ववेदनम् - अप्रमाणत्वज्ञानम्, पण्डितैः तदेवोच्यते यदेतत् शुक्तिकासंवेदनाभिन्नप्रमाणत्वसंवेदनम् - शुक्तिकाज्ञानाभिन्नं तत्प्रमाणत्वज्ञानं
वस्त्वन्तरज्ञानमेव वस्त्वन्तराभावज्ञानम् इति, शुद्धभूभागग्रहणमेव हि घटाभावग्रहणम् [घटाभावज्ञानं भवति - क्। ष्। ष्।] इति प्रसिद्धमेतत् । एवम् अप्रमाणत्वसंवेदनमेव [अप्रमाणतासंवेदनम् - क्। ष्। ष्।] रजतज्ञानस्य बाध्यत्वम् उच्यते, अतश्च बाध्यभाधकत्वम् एवं सिद्धम् इति चेत् अस्माभिः उच्यते - तत् किं प्रमात्रैक्येनेति ॥ ७ ॥
अत्र प्रसङ्गात् अभावव्यवहारस्य सिद्धौ तत्त्वमुपपादयिष्यन् दृष्टान्तमेव तावत् परदर्शने दूषयति :-
नैवं शुद्धस्थलज्ञानात्सिद्ध्येत्तस्याघटात्मता ।
न तूपलब्धियोग्यस्याप्यत्राभावो घटात्मनः ॥ ८ ॥
भवति, एतदपूर्वम् - नवीनमुल्लिखितं वस्तु, यत् - यतः कारणात्, वस्त्वन्तरज्ञानमेव वस्त्वन्तराभावज्ञानं भवति, अतद्व्यवच्छेदेनैव तद्व्यवस्थासम्भवात् । इति शब्दो दार्ष्टान्तिकोक्तिपर उत्तरार्धव्याख्यासमाप्तौ । समर्थकं दृष्टान्तं वक्तुं तद्वाचकं पूर्वार्धं व्याचष्टे शुद्ध इति । हि - यस्मात् शुद्धभूभागग्रहणमेव - घटरहितभभागग्रहणमेव घटाभावग्रहणं भवति, न तु अभावाख्यस्य स्वतन्त्रस्य ग्रहणं घटाभावग्रहणं भवति, इति - एवम्, एतत् प्रसिद्धं भवति, दृष्टान्तस्य सूत्रे यथातथाशब्दाभ्यां द्योतितं दार्ष्टान्तिके योजनमिह हेतुहेतुमद्भावेनैव कृतम् । ननु एतेन बाध्यबाधकभावस्य किमायातमित्यत आह एवम् इति । अप्रमाणत्वसंवेदनम् - अप्रमाणत्वज्ञानमेव । फलितमाह अतश्च इति । एवम् - अनेन प्रकारेण, सिद्धम् - सिद्धिं गतम्, इति - एवम्, चेत् - यदि, अस्माभिः - बौद्धप्रख्यैः उच्यते, चेच्छब्दापेक्षितं वस्तु सूत्रेऽनुक्तमपि शेषत्वेन व्याचष्टे तत् इति ।
तदा प्रमात्रैक्येन किं भवति बाध्यबाधकभावस्य तद्विनैव सिद्धत्वात् न किञ्चिद् भवतीत्यर्थः ॥ ७ ॥
अथाष्टमस्य श्लोकस्यावतरणिकां करोति अत्र इति ।
यो दृष्टान्त उक्तः स एव न, कुत इति चेत् उच्यते इह भूतलं न घटः इति तादात्म्येन अभावो व्यवहर्तव्यः कदाचित्, कदाचित् व्यतिरेकेण इह भूतले घटो न इति । तत्र शुद्धभूतलज्ञानात् आद्योऽयं व्यवहारः सिध्यति, यत्र दृश्यत्वं न उपयोगि, उपलब्धिलक्षणप्राप्तिरपि हि यस्य नास्ति पिशाचादेः स्वभावबलात्, यस्य वा शब्दादेः तद्गाहक -
अत्र टीका :-
प्रसङ्गात् - दृष्टान्तीकरणरूपात्, तत्त्वम् - परमार्थम्, परदर्शने - बौद्धमते एवम् अवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । नैवम् इति ।
अत्र टीका :-
नैवम् इति व्याचष्टे यः इति । उच्यते इति प्रतिज्ञां सफलीकर्तुं शुद्ध इत्यादि पूर्वार्धं व्याचष्टे इह इति । तादात्म्येन - सामानाधिकरण्येन, कदाचिद्, भूतलस्वरूपव्यवस्थाकरणार्थं तादात्म्याभावग्रहे इत्यर्थः । कदाचित् - भूतले घटाभावग्रहणकाले, व्यतिरेकेण - वैय्यधिकरण्येन, अभावो व्यवहर्तव्य इति पूर्वेण सम्बन्धः । तत्र इति, द्वयोर्व्यवहारयोर्मध्य इत्यर्थः ।
शुद्धभूतलज्ञानात् - घटरहितभूतलज्ञानात्, आद्यः - तादात्म्याभावरूपः, व्यवहारः - अभावव्यवहारः, यत्र - यस्मिन् आद्ये तादात्म्याभावव्यवहारे, दृश्यत्वम् - अभावप्रतियोगिनः अवश्यं द्रष्टुं योग्यत्वम्, नोपयोगि - उपयुक्तं न भवति, भूतलस्वरूपव्यवस्थायां हि तद्व्यतिरिक्तस्य सर्वस्य दृश्यस्य घटादेः स्वभावविप्रकृष्टत्वादिबलेन अदृश्यस्य वा पिशाचादेरविशेषेण तदात्मताया अभावो गृह्यते, न तु परमते संसर्गाभावे इह भूतले नास्तीत्येवंरूपे दृश्यस्य घटादेरेव न त्वदृश्यस्य [नत्वदृश्यस्य वा पिशाचादेरपि - च्।] पिशाचादेरपीत्यभिप्रायः । अत्र स्वयमपि समर्थनं करोति उपलब्धि इति । हि - यस्मात् कारणात्, उपलब्धिरेव लक्षणम् - असाधारणो धर्मः तस्य प्राप्तिः - आसादनम्, सत्त्वे उपलम्भयोग्यत्वमिति यावत् । सा, स्वभावबलात् - तादृक्स्वभावतावशेन, यस्य पिशाचादेर्नास्ति
श्रोत्रादिसामग्रीसाकल्यस्य तत्र एकज्ञानसंसर्गिवस्त्वन्तरप्रतिपत्त्यभावेना - निश्चयात् [प्रतिपत्त्यभावेनापि निश्चयात् - क्। ष्। ष्।] तस्यापि तादात्म्येनायमभावो [अभावः व्यवहार्यः - क्। ष्। ष्।] गृह्यते भूतलं न पिशाचो न
न हि सन्नपि पिशाचादिरुपलभ्यते तादृक्स्वरूपत्वात्, वा - पक्षान्तरे, तद्ग्राहकम् - शब्दग्राहकं यत् श्रोत्रादिसामग्रीसाकल्यं तस्य । तत्र - तस्मिन् शुद्धभूतल - ग्रहणसमये । एकज्ञानेन - साकल्यकार्येणान्यदा सकलाभावप्रतियोगिग्राहकेण तेनैव ज्ञानेन, संसर्गि - संसृज्यमानम्, तस्य विषयीभवदिति यावत्, यद् वस्त्वन्तरम् - आन्तरप्राणस्पन्दादिजनितशब्दादिरूपं किमपि वस्तु, तस्य या प्रतिपत्तिः तस्या अभावेन - अभावात् हेतोः, अनिश्चयात् हेतोः, यस्य शब्दादेरुपलब्धिलक्षणप्राप्तिर्नास्ति, तस्मिन्समये ग्रहणोपायाभावात् यस्य वस्तुनः उपलम्भयोग्यत्वं नास्तीति यावत्, आदिशब्दद्वयेन श्रोत्रेतरेन्द्रियग्रहणं तद्ग्राह्य शब्देतरविषयग्रहणञ्च । तस्यापि - स्वभावविप्रकृष्टस्य पिशाचदेः ग्राहककारण - सामग्रीविप्रकृष्टस्य शब्दादेश्च, अपि शब्दात् उपलब्धिलक्षणप्राप्तस्य वस्तुजातस्यापि ग्रहणम्, तादात्म्येन - तदात्मतया, सामानाधिकरण्येनेति यावत्, अयमभावो गृह्यते । कुत्रेत्यपेक्षायामुदाहरणमाह भूतलम् इति, एतेन भूतलस्य पिशाचाद्यभावरूपत्वमेव सामानाधिकरण्येनोक्तम् । अयं भावः ।
पुरुषः वस्तु गृह्णन् तदितरसर्वव्यतिरिक्तमेव गृह्णाति, अन्यथा सङ्कीर्णतापत्तिः, तदितरसर्वव्यतिरेकेण ग्रहणमेव च फलतः तदितरसर्वाभावग्रहणम्, तदितरसर्वं च द्विविधम्, उपलब्धु योग्यमयोग्यञ्चेति । तत्र किञ्चित् स्वभावविप्रकृष्टम्, यथा पिशाचादि परमाण्वादि च, किञ्चित्तु ग्रहणोपायविप्रकृष्टं यद् गृह्यमाणवस्तु - ग्राहकसामग्र्या विषयतां न याति इति उपलब्धुमयोग्यमपि द्विविधम् ।
उपलब्धुं योग्यन्तु एकप्रकारमेव, तत्र द्वयोरपि स्वभावविप्रकर्षोपायविप्रकर्षयोरभावात्, अन्यथोपलभ्यत्वायोगात्, इति स्फुटमेव शुद्धस्थलज्ञानात् - केवलस्थलज्ञानात् तस्य स्थलस्याघटात्मतासिद्धिः - समस्तघटादिपदार्थाभावतासिद्धिरिति ।
शब्दः इति, यत्र तु दृश्यत्वं विशेषणम् अवश्यम् उपयोगि तत्र व्यतिरेकेण अभावे व्यवहर्तव्ये न एषोऽभ्युपायः ॥ ८ ॥
कुत इति चेत् - अतिप्रसङ्गादिति ब्रूमः । तमेव दर्शयति :-
विविक्तं भूतलं शश्वद् भावानां स्वात्मनिष्ठितेः ।
तत्कथं जातु तज्ज्ञानं भिन्नस्याभावसाधनम् ॥ ९ ॥
एवं पूर्वार्धं व्याख्याय कदाचिद् व्यतिरेकेणेत्यस्य विस्तारं कर्तुं द्वितीयमर्धं व्याख्यातुमाह यत्र तु इति । यत्र तु - यस्मिन् द्वितीये व्यतिरेकेणाभावव्यवहारे, संसर्गाभावव्यवहारे इति यावत् । अभावो हि सङ्क्षेपेण द्विधैव, तादात्म्याभावः संसर्गाभावश्चेति । दृश्यत्वं विशेषणम् - उपलब्धिलक्षणप्राप्तिरूपं विशेषणम्, उपयोगि, भवति, अन्यथा तत्र स्थितस्यापि स्वभावविप्रकृष्टस्य पिशाचादेः ग्राहकसामग्रीविप्रकृष्टस्यापि शब्दादेरभावविषयत्वापातादिति भावः । तत्र - तस्मिन्, व्यतिरेकेण - भूतलाधेयत्वरूपेण भूतलाद् भेदेन, व्यवहर्तव्ये - व्यवहारविषये अभावे, एषः - केवलभूप्रदेशदर्शनरूपः, अभ्युपायः - तदितरसर्वाभाव - ग्रहणोपायः न भवति, तत्र भूतलमात्रग्रहणेन तद्गतस्य कस्याप्यभावो न वक्तुं शक्यः, तत्र स्थितस्यादृश्यस्य पिशाचादेरपि अभावव्यवहारविषयत्वप्रसङ्गादिति भावः ।
एवमत्र योजना, उपलब्धियोग्यस्यापि - उपलब्धिलक्षणं प्राप्तस्यापि, घटात्मनः - घटस्वरूपस्य, अत्र भूतले शुद्धस्थलज्ञानात् अभावः सिध्येत्, उपलब्धिलक्षणं प्राप्तस्य पिशाचादेरभावसिद्धौ का कथेत्यपिशब्दाभिप्रायः, अन्ये हि वादिनः उपलब्धियोग्यस्य शुद्धभूतलज्ञानेनाभावं साधयन्त्येव, अस्माकं तदपि नेष्टम् ॥ ८ ॥
अथ नवमस्य श्लोकस्यावतरणिकां करोति कुतः इति ।
अत्र टीका :-
कुतः - घटात्मनः अभावः कुतः कारणात् न सिद्ध्येत्, इति चेत् - एवं यद्यवोचः, तदा अतिप्रसङ्गादिति ब्रूमः, अतिप्रसङ्ग एवात्र हेतुरिति भावः । ननु किंरूपोऽसावतिप्रसङ्ग इति शिष्यप्रश्नमाशङ्क्याह तमेव इति । सूत्रकार एव दर्शयतीति वयं किमर्थं यतामह इति भावः ।
विद्यमानेऽपि घटे भूतलं शुद्धमेव, न हि भावा मिश्रीभवन्ति, ततश्च तदापि शुद्धभूतलज्ञानम् अस्ति, इति सत्यपि घटे कथम् अभावो व्यतिरेकेण न व्यवह्रियते अत्र भूतले घटो नास्ति इति, तज्ज्ञानम् इति विविक्तभूतलभागज्ञानम्, जातु इति कस्याञ्चिदेव दशायां घटासन्निधानरूपायाम्, भिन्नस्य घटस्य अभावं साधयति न तु सर्वदा इति केन प्रकारेण
एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । विविक्तम् इति ।
अत्र टीका :-
शश्वत् इति पदं व्याचष्टे विद्यमानेपि इति । अपि शब्दादविद्यमाने तु तराम्, तथा च शश्वत् नित्यमित्यर्थः, विविक्तम् इति व्याचष्टे शुद्धम् इति ।
शुद्धमेव - स्वरूपमात्रे स्थितमेव । कुत इत्यपेक्षायाम भावानां स्वात्मनिष्ठितेः इति पदं व्याचष्टे न हि इति । मिश्रीभवन्ति, सङ्कीर्णीभवन्तीत्यर्थः, तथा चोदकाहरणार्थं पटस्यापि ग्रहणमापद्येतेति भावः । ततश्च - तस्माद्धेतोश्च, तदापि - घटावस्थानेऽपि । पूर्वार्धावष्टम्भेनोत्तरार्धं व्यतिरेकरीत्या व्याचष्टे इति इति । इति - अतः कारणात्, सत्यपि घटे कथम् - केन प्रकारेण, अभावो व्यतिरेकेण न व्यवह्रियते - व्यवहारविषयतां न नीयते ।
व्यतिरेकमेवानुकृत्याह अत्र भूतले घटो नास्ति इति ।
व्यतिरेकरीत्योत्तरार्धस्य वाक्यार्थमुक्त्वा तस्यैवान्वयरीत्या पदार्थमाह तज्ज्ञानम् इति विविक्तभूतलज्ञानम् इति । जातु इति व्याचष्टे कस्याञ्चिदेव दशायाम् इत्यादि । दशामेव स्फुटयति घट इति । भिन्न पदस्य वाच्यमाह घटस्य इति । अभाव इत्यादि पदं व्याचष्टे अभावम् इति । साधयति इत्यनेन कर्तर्यत्र ल्युट् इति द्योतितम् । जातु शब्दस्य व्यावर्त्यमाह न तु इति । केन प्रकारेण भवेत्, न केनापीत्यर्थः ।
अवतरणिकायां हेतुत्वेनोक्तमतिप्रसङ्गं सूच्यत्वेनाह एतेन इति ।
आपतितम् -
भवेत्, एतेन अत्र भूतले पिशाचो नास्ति इत्यपि स्यादिति आपतितं मन्तव्यम् ॥ ९ ॥
नन्वेवं व्यतिरेकाभावनिष्ठो व्यवहारो लोके तावत् अविगीतः कस्याञ्चिदेव दशायां दृष्टः, तत्र का गतिरित्याशङ्क्य चिरन्तनैरपरिदृष्टं तत्सिद्धिप्रकारं दर्शयति :-
किं त्वालोकचयोऽन्धस्य स्पर्शो वोष्णादिको मृदुः ।
तत्रास्ति साधयेत्तस्य स्वज्ञानमघटात्मताम् ॥ १० ॥
इह भाव एव भावान्तरस्य अभाव इति व्यवहर्तव्यः इति अयं तावत् अपरित्याज्यः प्रातीतिकः पन्थोः, तत्र भावस्य भावान्तरेण य
प्रसङ्गादायातम्, मन्तव्यम् - ज्ञातव्यम्, निष्ठितेः इत्यत्र नेर्गदनद इति षत्वम्, तेन स्वात्मस्थितेरित्यर्थः ॥ ९ ॥
अथ दशमस्य श्लोकस्यावतरणिकां करोति नन्वेवम् इति ।
अत्र टीका :-
व्यवहारः - भूतले घटो नास्तीत्येवंरूपः, अविगीतः - अदूषितः, स्फुट इति यावत्, कस्याञ्चिदेव दशायाम् - घटादिसन्निधिरूपायाम्, गतिः - उपायः, अपरिदृष्टम् इति, कथनस्य तु का कथेति भावः, चिरन्तनैर्हिशुद्धभूतलदृष्टेरेवाभावसाधकत्वमुक्तम् न चैतद्युक्तम्, उक्तयुक्ते । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । किन्तु इति ।
अत्र टीका :-
श्लोकं व्याख्याअतुं प्रक्रियां करोति इह इति । प्रातीतिकः - प्रतीतिसिद्धः, पन्था - मार्गः, तत्र - तस्मिन् पथि, अपरित्याज्ये सति, भावतदभावयोः - भावाभावयोः । ननु ततः किमित्यत आह ततश्च इति । वस्त्वन्तरमेव विशेषतः
आधार्याधारभावः स एव भावतदभावयोः, ततश्च भूतले घटव्यतिरिक्तं वस्त्वन्तरं शिलादिकम् आलोकपुञ्जादिकं वा यत् चाक्षुषे ज्ञाने भाति तदेव व्यवह्रियते भूतले घटाभावः, भूतले घटो नास्ति इति वा, यत्रापि नास्ति चक्षुर्व्यापारो नेत्रनिमीलनसन्तमसादौ तत्रापि भूतले घटोचितकठिनस्पर्शविविक्तं मृदुम् उष्णं शीतम् अनुष्णाशीतं वा गृह्णन् तमेव अत्र घटाभाव इति व्यवहरति वायुस्पर्शस्य सर्वगस्य अवश्यम्भावात्, इति वाक्यार्थः । पदार्थस्तु - किं तु इति स्वमतोपक्षेपाय स्वप्रतिभाप्रश्नपरामर्शः, [प्रतिभाप्रश्नपरामर्शः - क्। ष्। ष्।] किं पुनरत्र न्याय्यमिति तत्राह तत्र भूतले आलोकचयः तावत् अस्ति ज्ञेय; अन्धस्य उष्णादिकः स्पर्शः अस्ति तस्य आलोकचयस्य
कथयति शिलादिकम् इति । चाक्षुषे - चक्षुषा कृते, ज्ञाने - प्रत्यक्षज्ञाने, तदेव - शिलादिकम् आलोकपुञ्जादिकं [आलोकपुञ्जादिकं चैव - च्।] वा ।
यत्रापि इति । आदि शब्देन नेत्रोपहत्यादेर्ग्रहणम्, अन्धस्य हि नेत्रोपहतिरेव चक्षुर्व्यापाराभावे कारणम्, विविक्तम् - भिन्नम्, तमेव - स्पर्शमेव ।
ननु यदि स्पर्शो न भवेत्तदा किं कार्यमित्यत आह वायु इति ।
पदार्थकथनं प्रतिजानीते पदार्थस्तु इति । किन्तु शब्दस्य सूचनीयमर्थमाह स्वमत इति । स्वप्रतिभया कृतः प्रश्नः स्वप्रतिभाप्रश्नः, तस्य परामर्शः स्वप्रतिभाप्रश्नपरामर्शः ।
प्रश्नमेवानुकृत्याह किम् इति । इति शब्दः प्रश्नानुकृतिसमाप्तौ । तत्र - तस्मिन् प्रश्ने । किमाहेत्यपेक्षायां श्लोकार्थं कर्मत्वेन व्याचष्टे तत्र इति । तत्र इति पदं व्याचष्टे भूतले इति । आलोकचयः - आलोकपुञ्जः, ज्ञेयः - दृश्यः । यद्यपि नेत्रसहितस्यापि स्पर्शोस्ति तथापि तस्य तदपेक्षा - भावादेवमुक्तम् । एतेन तत्रास्ति इत्यन्तं कृतव्याख्यम् । साधयेत्
स्पर्शस्य वा यत् स्वज्ञानम् अन्यघटादिविविक्तेन स्वेन रूपेण ज्ञानम् तत् कर्तृ, तस्य आलोकादेः अघटरूपतां घटाभावरूपतां तत्र भूतले साधयति इति शक्योऽयमर्थः । शकि लिङ् च (पा। सू। ३ - ३ - १७२) इति लिङ् ।
आन्तरप्राणस्पन्दनजनितसूक्ष्मशब्दाकर्णनाच्च श्रोत्रादिसाकल्यं सम्भवायमानः तमेव शब्दम् एकज्ञानसंसर्गिणं शृण्वन् शब्दान्तरं निषेधयति न इह अन्यः शब्दः इति । तत्सूक्ष्मशब्दाभावमपि
इत्याद्यवशिष्टं श्लोकखण्डं व्याचष्टे तस्य इति । तस्य इति पदं व्याचष्टे आलोक इति । तत्र नेत्रसहितापेक्षया आलोक इति, अन्धापेक्षया तु स्पर्शस्य वा इति, सम्बन्धि इति शेषः । स्वज्ञानम् इति व्याचष्टे अन्य इति ।
एतेन स्वज्ञानम् इत्यस्य तृतीयासमासत्वं द्योतितम् । तत् - ज्ञानम् ।
अघटात्मताम् इति व्याचष्टे अघट इति, अस्यापि पर्यायमाह घटाभाव इति । लिङर्थमाह शक्योयम् इति । ननु कथं लिङोऽयमर्थ इत्यत आह शकि इति । नन्वालोकचयदर्शनेन नेत्रादिसाकल्यनिश्चययुक्तस्य भूतले समस्तालोकचयव्यतिरिक्तनेत्रदृश्यवस्त्वभावज्ञानं भवतु, शब्दादेरभावज्ञानं कथं तत्र स्यात्, न हि तदा तत्र कस्यापि शब्दस्य श्रवणेन शब्दग्राहकश्रोत्रादिसामग्री - साकल्यज्ञानमस्त्येवेत्यत आह आन्तर इति । बहिः शब्दाभावेपि हि पिहितकर्णः प्राणजनितमान्तरं सततमच्चरन्तमनाहताख्यं शब्दं शृणोत्येवेत्येवमुक्तम् । एक - ज्ञानेन - समस्तशब्दग्रहणयोग्येन श्रोत्रकृतेन ज्ञानेन, संसर्गिणम् - संसृज्यमानम् । नन्वत्यवहितत्वे तमपि न शृणोत्येवेत्यत आह तत् इति । तस्य सूक्ष्मतमस्य शब्दस्याभावः तम्, सूक्ष्मतमः यः अन्तर्नादः तत्रावहिते श्रोत्रे यस्य सः, वेदयते -
सूक्ष्मतमान्तर्नादावहितश्रोत्रो वेदयते, रसगन्धस्पर्शाभावोऽपि दन्तोदकरसन्त्रिपुटिकागन्धं कायीयं च स्पर्शं संवेदयमानेनैव [संवेदयमानेनैव संवेद्यः - क्। ष्। ष्।] रसाभावो वेद्यः, न हि एकज्ञानसंसर्गयोग्यवस्त्वन्तरोपलम्भेन विना उपलब्धिकारणसाकल्यनिश्चयोऽसोति, इति एकान्त एषः ।
अचिरप्रवृत्ततत्तद्विषयानुभवकल्पितस्य [अचिरप्रवृत्तितत्तद्विषय - क्। ष्। ष्।]
अनुभूयते, आन्तरशब्दानां दशधा भिन्नत्वात् । तदुक्तम् :-
घोषादिदशधा शब्द भजतिताय शम्भवे
इति । समाधौ लीनस्य समस्तान्तरशब्दाभावबोधः सततोच्चरदपरिमिताहम्परामर्शावधानकृतो ज्ञेयः, तदभावस्त्वसम्भवोपहत एवेत्यलम् । रसाद्यभावग्रहणं साधयति दन्तोदक इति । दन्तोदकरसम् - रसनेन्द्रियस्थिते लालारूपे जले मधुरादिवस्तुदर्शनेन प्रोद्भवनशीलं शक्तितया सर्वदा स्थितं रसविशेषम्, संवेदयमानेन - अनुभवता, अत एव रसनेन्द्रियावैकल्यं सम्भावयमानेन, रसाभावः - आस्वादाभावः, वेद्यः भवति ।
एवमन्यत्रापि योजनीयम् । त्रिपुटिका - नासान्तर्वर्तिनी सर्वदा गन्धयुक्ता, तदुक्तम् :-
एवं घ्राणान्तरे गन्धो रसो दन्तोदके स्फुटः
इति । कायीयम् - कायसम्बन्धिनम्, कायस्य पार्थिवत्वेन स्फुटं स्पर्शवत्त्वात् । आन्तस्य तेजसः नेत्रनिमीलनेनैव दृश्यत्वात् न नेत्रसाकल्यज्ञानहेतुत्वमस्ति इति तस्य नेह ग्रहणम् । पूर्वं स्पर्शेन अन्धस्य तदाधारघटाभावज्ञानमुक्तम्, इह तु कायीयस्पर्शेनान्यस्पर्शाभाव इति न पौनरुक्त्यम् । ननु कुत एतदित्यत आह न हि इति । हि - यस्मात् कारणात् । इति - एषः, एकान्तः - निश्चयः भवति । इत्येषु
तदैव ध्वंसानाशङ्कनात् करणस्य कारणसाकल्यनिश्च्यः किम् एकज्ञानसंसर्गितया इति चेत् न, तत्तदभावोपलिप्सुर्हि प्रयत्नेन तत्तदिन्द्रियाधिष्ठानं व्यापारयन्नेव लक्ष्यते ॥ १० ॥
कः ? एकज्ञानसंसर्गयोग्यानां मध्ये यद्वस्त्वन्तरं तस्य उपलम्भेन विना उपलब्धिकारणसाकल्यस्य निश्चयः नास्ति ।
अयमत्राभिप्रायः । पुरुषस्य तावदभावग्रहणे निजेन्द्रियसाकल्यतापि निर्णेया, अन्यथा इन्द्रियवैकल्यदोषकृततद्वस्तुग्रहणाभावेन तदभावं वदन् उपहासविषयतामेव भजते, तन्निजेन्द्रियसाकल्यज्ञानञ्च न समस्त
- तद्ग्राह्यग्रहणापेक्षं किन्तु तद्ग्राह्यमध्ये यद्येकमेव कञ्चिदर्थं गृह्णाति तेनैव तत्साकल्यं जानाति ममेन्द्रियं पुष्टमेव वर्तत इति, ततश्चागृहीतानामन्येषामभावं निश्चिनोति, ते इह न सन्तीति । तत्र तदिन्द्रियकार्यं सर्वग्राह्यज्ञानम् एकज्ञानम्, तद्विषयभूतं यदेकं वस्तु - संसर्गयोग्यवस्त्वन्तरम्, तस्य यज्ज्ञानं तेन ग्राहकसामग्रीसाकल्यज्ञानम्, अन्यथोपायविप्रकर्षेणागृहीतमपि वस्तु नाऽभाव - व्यवहारयोग्यं पिशाच इव स्वभावविप्रकर्षेणेत्यलम् । अत्र शिष्यप्रश्नं शङ्कते अचिर इति । अचिरप्रवृत्तः - समनन्तरसम्पन्नः यः तत्तद्विषयानुभवः तेन कल्पितस्य - अस्तित्वेन कल्प्यमानस्य, करणस्य - ग्राहकसाकल्यरूपस्य प्रमाणस्य, तदैव - समनन्तरमेव, क्रियमाणवस्तुग्रहणसमय एव, ध्वंसनाशङ्कनात् - नाशशङ्काकरणायोगात्, कारणसाकल्यनिश्चयः भवति । अतः एकज्ञान - संसर्गितया किं भवति, व्यक्तत्वान्न किञ्चिद् भवतीत्यर्थः ।
उत्तरमाह न इति । अत्र हेतुमाह तत्तत् इति । तेषां तेषां वस्तूनामभावमुपलब्धुमिच्छुः तत्तदभावोपलिप्सुः, तेषां तेषाम् - तत्तदर्थग्राहकाणाम्, चक्षुरादीनामिन्द्रियाणाम् अधिष्ठानम् - गोलकादिरूपम्, व्यापारयन्नेव - सन्ति वा न वेति ज्ञानार्थं ग्रहण - व्यापारं प्रति योजयन्नेव न तूदासीनतया स्थापयन्, लक्ष्यते - दृश्यते ।
तथा चैकज्ञानसंसर्गिवस्त्वन्तरज्ञानेन ग्राहकसामग्रीसाकल्यज्ञानमवश्योपयोग्येवेति भावः ॥ १० ॥
अथैकादशस्य श्लोकस्यावतरणिकां करोति नन्वेवम् इति ।
नन्वेवम् अदृश्यास्यापि पिशाचादेः निषेधव्यवहारो व्यतिरेकेणापि प्राप्नोति, स हि आलोकपुञ्जो यथा घटात् अन्यः तद्वत् पिशाचादेरपि । तदेतत् आशङ्क्याह :-
पिशाचः स्यादनालोकोऽप्यालोकाभ्यन्तरे यथा ।
अदृश्यो भूतलस्यान्तर्न निषेध्यः स सर्वथा ॥ ११ ॥
आलोकपुञ्जो यद्यपि पिशाचाद् व्यतिरिक्तो यद्यपि च आलोकोऽस्ति अपिशाचात्मा इत्येतावत् सिद्ध्यति तथापि अत्र पिशाचो नास्ति इत्येतत् अशक्यम् अध्यवसातुम्, घटो हि आलोकपूरमध्येऽपि असम्भाव्यः, घट - [अघटसन्निधौ - क्। ष्। ष्।]
अत्र टीका :-
एवम् - तादात्म्याभाववद्व्यतिरेकाभावव्यवहारेऽपि वस्त्वन्तरदर्शनस्यैव न तु शुद्धभूप्रदेशदर्शनस्य साधकत्वे सति, अदृश्यस्य - सत्त्वेपि द्रष्टुमयोग्यस्य, अपि शब्देन तादात्म्याभावव्यवहारे पिशाचनिषेधस्य युक्ततामेव सूचयति, इह त्वयुक्तताम् । व्यतिरेकेणापि, भूतले नास्ति एवंरूपे व्यतिरेकेण निषेधव्यवहारेऽपीत्यर्थः । कुत इत्यपेक्षायामाह स हि इति । तदेतत् - समनन्तरोक्तं वस्तु ।
एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । पिशाचः इति ।
अत्र टीका :-
पिशाचः स्यादनालोकोपि एतद्व्याचष्टे आलोक इति ।
यद्यप्यालोकपुञ्जः - आलोकचयः, पिशाचाद् व्यतिरिक्तः । एतदेव पुनः पर्यायान्तरेण सुबोधीकर्तुं कथयति यद्यपि इति । यद्यपि आलोकः अपिशाचात्मा अस्ति इत्येतावत्सिद्ध्यति । अपि शब्दसूचितं वस्त्वाह तथापि इति । तथापि अत्र - भूतले, पिशाचो नास्तीत्येतदध्यवसातुम् - निश्चेतुम्,
सन्निधौ तत्र आलोकपूरासमर्पणात्, [आलोकपूरापसर्पणात् - क्। ष्। ष्।] अतश्च सिद्ध्यतीदम् अत्र घटो नास्ति इति, पिशाचस्तु तादृक्स्वभावो यो भूतलमध्ये आलोकमध्येऽपि वा भवन् भूतलस्य आलोकस्य वा तां निबिडतां न विहन्ति [न प्रतिहन्ति - क्। ष्। ष्।] ततश्च [अतश्च - क्। ष्। ष्।] आलोकमध्ये तस्य सम्भावनात् कथं व्यतिरेकेण निषेधव्यवहारः, एवं रूपमध्ये रसादेः सम्भावनात् तस्यापि अनिषेधः । यद्यपि अनालोकः आलोकात् अन्यः पिशाचः तथापि असौ भूतलस्य अन्तर्मध्येऽदृश्यो भवति इति
अशक्यम्, शक्यं न भवतीत्यर्थः । कुत इत्यपेक्षायामाह घटो हि इति । हि
- यस्मात्, आलोकपूरमध्येऽपि - आलोकचयमध्येऽपि, अपि शब्दाद् भूप्रदेशेऽपि, असम्भाव्यः - सम्भावयितुमशक्यः, कुत ? घटसन्निधौ तत्र - तस्मिन्नधः प्रदेशे, आलोकपूरासमर्पणात् - व्यवधानकारित्वेनालोकपुञ्जावकाशादानात्, आलोकमध्ये धारितं छत्रादिकं हि तावति प्रदेशे छायामेव करोति, भूतले तस्यासम्भवस्तु आलोकपुञ्जव्यतिरिक्तत्वेन स्फुट एव । अतश्च इति इदं सिद्ध्यति इति । इदं किं ? अत्र - भूतले, घटो नास्ति । तु व्यतिरेके, पिशाचः तादृक् - तादृशः, स्वभावः - स्वरूपं यस्य तादृशः, भवति, यः भूतलमध्ये आलोकमध्येऽपि वा भवन् भूतलस्यालोकस्य वा ताम् - प्रसिद्धाम्, निबिडताम् - घनताम्, न विहन्ति - न नाशयति शून्यशरीरत्वात् ।
ततश्चालाकमध्ये तस्य सम्भावनात् - सम्भावयितुं शक्यत्वात्, व्यतिरेकेण - भूतलाधेयत्वेन, निषेधव्यवहारः कथं स्यात् । एनं न्यायमन्यत्राप्यतिदिशति एवम् इति । तस्यापि - रसादेरपि । एवं वाक्यार्थमुक्त्वा योजनासहितं पदार्थमाह यद्यपि इति । यद्यपि, अनालोकः इत्यस्य व्याख्यां करोति आलोकादन्यः इति । तथापि
सम्भाव्यते यथा, तद्वदेव आलोकस्याभ्यन्तरेपि [आलोकस्याभ्यन्तरे सोऽस्ति - क्। ष्। ष्।] सोऽस्ति इति सम्भाव्यत एव, ततश्च यद्यपि आलोकस्ततोऽन्यः इत्यनेन पथा निषिद्धः पिशाचः तथापि सर्वप्रकारेण न निषिद्धः इति तदभावनिबन्धनाः कथं तत्र व्यवहाराः प्रवर्तन्ताम् इति श्लोकार्थः ॥ ११ ॥
एवं प्रसङ्गात् अभावव्यवहारस्य तत्त्वम् उपदर्श्य प्रकृते योजयति :-
एवं रूप्यविदा भावरूपा शुक्तिमतिर्भवेत् ।
न त्वाद्यरजतज्ञप्तेः स्यादप्रामाण्यवेदिका ॥ १२ ॥
असौ पिशाचः, भूतलस्यान्तः मध्ये, अदृश्यः - अतिसूक्ष्मत्वेन द्रष्टुं योग्यो न भवति इति सम्भाव्यते, एतेनात्र सम्भावनायां लिङिति द्योतितम्, तद्वदेव - तथैव, आलोकस्याभ्यन्तरेपि सोऽस्तीति सम्भाव्यते एव, ततश्च यद्यपि आलोकः ततः - पिशाचात्, अन्यः भवति अन्यस्यान्यरूपत्वायोगात्, इत्यनेन पथा - तदात्मतामार्गेण, पिशाचः निषिद्धः, तथापि सर्वप्रकारण न निषिद्धः आलोकव्यतिरेकेणावस्थानस्य शङ्कास्पदत्वात्, इति - अतः कारणात्, तदभावनिबन्धनाः - पिशाचाभावनिबन्धनाः व्यवहाराः तत्र - भूतले, कथं प्रवर्तन्ताम् - येनालोकचयेन घटस्याभावः साध्यते तन्मध्येपि तस्य सम्भवास्पदत्वेन न प्रवर्तन्ते इत्यर्थः । उपसंहारं करोति इति इति । इति - एवम्, श्लोकार्थः भवति ।
एवमत्र योजना । अनालोकोपि पिशाचः यथा भूतलस्यान्तः - अदृश्यः सत्त्वेपि द्रष्टुमयोग्यः स्यात् तथा आलोकाभ्यन्तरेऽपि स्यात् समानन्यायत्वात् । अतः इति शेषः । अतः स सर्वथा निषेध्यो न भवति ।
आलोकरूपतानिषेधविषयत्वेपि तदन्तर्वर्तितानिषेधायोगात् । अतश्च तस्य व्यतिरेकेणाभावो भूतले व्यवहर्तुमशक्य एवेति भावः ॥ ११ ॥
अथ द्वादशस्य श्लोकस्यावतरणिकां करोति एवम् इति ।
स्पष्टम् । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । एवम् इति ।
यथा आलोको घटाभाव इति आलोके गृहीते प्राक् गृहीतस्य घटस्य न किञ्चित् आयातम् तथैव शुक्तिज्ञानं रूप्यज्ञानाभाव इति इयत् सम्भाव्यते । यथा घटज्ञानं घटज्ञानप्रामाण्यसंवित् पटज्ञानाभावः पटज्ञानाभावप्रामाण्यसंवित् इयता च न पूर्वप्रवृत्तं पटज्ञानम् अप्रमाणीभवति, एषा हि तस्य घटज्ञानस्य स्वरूपचिन्ता सर्वा न ज्ञानान्तरस्य आद्यस्य किमपि अतो जातम् । एवं शुक्तिरियम् इति, न रजतम् इदम् इति च ज्ञानमेव स्वात्मना प्रकाशताम्, अहं शुक्तौ रजताभावे च प्रमाणं न तु रजते इति, तावता तु प्राक्तनस्य रजतज्ञानस्य न किञ्चित् वृत्तम् इति तद्विषयीकृतं रजतं कथम् असत्यं स्यात् ॥ १२ ॥
अत्र टीका :-
एवम् शब्दं व्याचष्टे यथा इति । न किञ्चिदायातम् - न कापि बाधा सम्पन्ना । रूप्यज्ञानाभाव :- रजतज्ञानाभावः, इयत् - एतावन्मात्रम्, सम्भाव्यते - सम्भावयितुं शक्यते न तु रूप्यज्ञानस्य बाधा सम्भाव्यते । एतदेव सविस्तरं पुनरपि कथयति यथा इति ।
पूर्वप्रवृत्तम् - घटविषये पूर्वं प्रवृत्तम्, पटज्ञानम् - पटोऽयमिति ज्ञानम् । कुत इत्यपेक्षायामाह एषा हि इति । ज्ञानान्तरस्य - तत्रैव क्रमेण प्रवृत्तस्य पटोऽयमिति ज्ञानस्य । किमपि, कापि बाधेत्यर्थः । उपसंहारं करोति एवम् इति । प्रकाशनमेवानुकृत्य दर्शयति अहम् इति । एतच्च स्वात्मना प्रकाशनं प्रमातृद्वारेणैवास्य दिद्ध्यति, न हि ज्ञानं नाम प्रमातुर्भिन्नं यदहमिति परामर्शं कुर्यादिति न कोऽपि विरोधः । तावता तु - प्रकाशमात्रेण, किञ्चित् - कापि बाधा, न वृत्तम् - न सम्पन्नम् । इति - अतः कारणात्, तद्विषयीकृतम् - अबाधितरजतविषयीकृतम्, रजतमसत्यं कथं स्यात्, भ्रमस्थलेपि एकं प्रमातारं विना तस्यासत्यत्वं न युक्तमिति भावः । सम्भावनायां लिङ् ॥ १२ ॥
अथ त्रयोदशस्य श्लोकस्यावतरणिकां करोति नन्विदम् इति ।
नन्विदमित्यनेन तदेव परामृश्यते यत्र रजतज्ञानम् अभूत् तत्रैव इदानीं “न रजतम्” इति शुक्तिः इति च ज्ञानं प्रमाणभूतं जातम्, तत् अतोऽनुमीयते - तत् [यत् - क्। ष्। ष्।] “प्राच्यम्” रजतज्ञानम् अप्रमाणम्" इति, न हि एतत् सम्भवति - विरुद्धविषयद्वयावगाहि [विरुद्धविषयावगाहिं - क्। ष्।
ष्।] ज्ञानद्वयं प्रमाणम् एकत्र विषयीभवति इति, तदयम् आनुमानिको बाधव्यवहारो भविष्यति इत्याशङ्क्याह :-
धर्म्यसिद्धेरपि भवेद्वाधा नैवानुमानतः ।
स्वसंवेदनसिद्धा तु युक्ता सैकप्रमातृजा ॥ १३ ॥
न केवलं स्वसंवेदनात् न सिद्ध्यति बाधा, यावत् अनुमानतोऽपि
अत्र टीका :-
यत्र - परमार्थतः स्थितायां यस्यां शुक्तौ, तत्रैव - तस्यां शुक्तावेव, प्रमाणभूतम् - प्रमाणतया स्थितम्, जातम् - सम्पन्नम् ।
तत् - ततः कारणात् । अतः - अस्माद्धेतोः । किमनुमीयते इत्यपेक्षायामाह तत् इति । कुतो “नुमीयते इत्यपेक्षायामाह न हि इति । एतच्छब्दाकाङ्क्षां पूरयति विरुद्ध इति । विरुद्ध - विषयद्वयावर्गाह - अन्योन्यव्यावृत्तस्वरूपशक्तिकारजताख्यविषयविषयम्, ज्ञानद्वयम् - पूर्ववृत्तं रजतमिदमितिज्ञानं तदनन्तरं प्रवृत्तं शुक्तिकेयमितिज्ञानम्, एकत्र - एकस्यां शुक्तौ । इति शब्दः प्रमेयसमाप्तौ । फलितमाह तदयम् इति । आनुमानिक :- अनुमानसिद्धः । एवमत्र प्रयोगः । पूर्ववृत्तं शुक्ताविदं रजतमिति ज्ञानमप्रमाणम्, इदानीं तत्रैव विरुद्धशुक्तिकेयमिति ज्ञानोत्पादादिति ।
एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । धर्मी इति ।
अत्र टीका :-
पूर्वार्धं व्याचष्टे न केवलम् इति । स्वसंवेदनात् - प्रत्यक्षानुभवात् । कुत इत्यपेक्षायां सूत्रोक्तं हेतुं योजयति धर्मिणः इति । अपि शब्दात् -
न सिद्ध्यति, धर्मिणोऽसिद्धेः, अपिशब्दात् हेतोः व्याप्तेश्च, अपिः उभयत्र नेयः, इह धर्मिणि सिद्धे सिद्धेन हेतुना स्मर्यमाणव्याप्तिकेन साध्यधर्मायोगव्यवच्छेदोऽनुमानव्यापारः [साध्यधर्मावच्छेदकः - क्।ष्।ष्।], इह च प्राच्ये रूप्यज्ञाने धर्मिणि अप्रामाण्यं साध्यो धर्मः तत्र शुक्तिकाज्ञानं वा, न रजतम् इति ज्ञानं वा, तज्ज्ञानविषयीकार्यत्वं वा विषयगतं हेतूक्रियेत [हेतूक्रियते - क्। ष्। ष्।] न चैतत् युक्तम् तत्काले प्राच्यरूप्यबोधस्य धर्मिणोऽभावात्, न चापि तस्य शुक्तिज्ञानादयो धर्माः, न च अपक्षधर्मात् साध्यसिद्धिः, अतः स्मर्यमाणं तद्धर्मि स्यात् इत्यपि असत् ।
अथ शुक्तिः न रजतज्ञानस्य विषय इति साध्यते शुक्तिकाज्ञान
समुच्चयवाचिनः अपिशब्दात् । हेतोः व्याप्तेश्च, असिद्धेरिति शेषः ।
उभयत्र नेयः, धर्म्यसिद्धेरपि अनुमानतोपीति द्विर्योजनीय इत्यर्थः । कुत एतदित्यपेक्षायां समर्थनं करोति इह इति । साध्यधर्मस्य यः अयोगः - असम्बन्धः, तस्य व्यवच्छेदः, साध्यधर्मेण तद्वत्त्वमिति यावत्, अनुमानव्यापारः, लक्षणया अनुमानव्यापार - विषय इत्यर्थः ।
रूप्यज्ञाने - रजतज्ञाने । तत्र - तस्मिन् साध्यधर्मे । ताभ्यां ज्ञानाभ्यां विषयीकार्यत्वं तज्ज्ञानविषयीकार्यत्वम्, विषयगतम् - शुक्तिगतम् । हेतूक्रियेत इति सम्भावनायां लिङ् । ननु त्रयमध्ये किञ्चिद्धेतूकरिष्याम एवेत्यत आह न चैतत् इति । कुतो न युक्तमित्यत आह तत्काले इति । तत्काले - शुक्तिज्ञानकाले न रजतमिति ज्ञानकाले वा, प्राच्यश्चासौ रूप्यबोधः - रजतबोधः, तस्य, प्राच्यरूप्यबोधस्य, आदि शब्देन न रजतमिति ज्ञानस्य विषयगतस्य तज्ज्ञानविषयीकार्यत्वस्य च ग्रहणम् । ननु ते तस्य धर्मा मा सन्तु ततः किमित्यत आह न च इति ।
अपक्षधर्मात्, पक्षावृत्तेर्हेतोरित्यर्थः । स्मर्यमाणम् - स्मृतिविषयीक्रियमाणम्, तत् - प्राच्यं रजतज्ञानम्, असत् इति, धर्मिसिद्धावपि हेतोरपक्षधर्मत्वादिति भावः ।
प्रकारान्तरेणानुमानं शङ्कते अथ इति ।
विषयत्वात् इति, तत् यदि इदानीम् तदा सिद्धसाधनम् [तत् सिद्धसाधनम् - क्। ष्।
ष्।], अथ पूर्वम् तदा तत्पूर्वस्वसंवेदनेन बाध्यविषयता । केन चैवं व्याप्तिर्गृहीता - यत्र इदानीम् अन्यत् ज्ञानम् तत्र पूर्वम् अन्यत् न भवति इति, अनुमानान्तरेण इति चेत्, अनवस्था । एतेन एतत् प्रत्युक्तम् - एकस्मिन् विषये कथं ज्ञानद्वयं स्यात् इति, को हि एकविषयतां तयोर्ज्ञानयोः [द्वयोर्ज्ञानयोः - क्। ष्। ष्।] जानीयात्, ते हि तावत्
इति - एवम्, साध्यत, तथा च न धर्मिणः सिद्धिः, नापि हेतोरपक्षधर्मत्वमिति भावः । नन्वत्र हेतुः कः क्रियत इत्यत आह शुक्तिका इति । इति शब्दः पूर्वपक्षसमाप्तौ । अत्र प्रतिसमाधानं करोति तत् इति । तत् - शुक्तेः रजतज्ञानाविषयत्वसाधनम्, यदि इदानीम्, क्रियते इति शेषः, तदा सिद्धसाधनम् भवति प्रत्यक्षसिद्धत्वात् । अथ - यदि, पूर्वम्, तदानीमपि शुक्तिः न रजतज्ञानस्य विषयः इति तच्छुक्तेः रजतज्ञानविषयत्वसाधनं क्रियते, तदा स्वसंवेदनेन करणेन, बाध्यविषयता - बाध्यो विषयः साध्यं यस्य हेतोः स बाध्यविषयः, तस्य भावस्तत्ता, बाध्यविषयत्वमिति यावत्, भवति, अत्र हि स्वसंवेदनमेव साक्षि, पूर्वं शुक्तिः रजतज्ञानस्य विषय आसीदिति । तथा च यथा अग्निरनुष्णो द्रव्यत्वात् इत्यत्र बाधितविषयत्वं तथात्रापीति भावः । अत्र दोषान्तरमाह केन च इति । बौद्धमते नित्यस्य प्रमातुरसम्भवात् अनुमानान्तरेण इत्युक्तम् । अनवस्था इति । तस्यानुमानस्याप्यन्यापेक्षा तस्याप्यन्यापेक्षेत्येवमादिरूपमनवस्थानम् । एतदवष्टम्भेनान्यदपि किञ्चित्पूर्वपक्षवाद्युक्तं प्रतिसमाधत्ते एतेन इति । प्रत्युक्तम् - प्रतिसमाहितम् । एतत्किमित्यपेक्षायामाह एकस्मिन् इति । इति शब्दः प्रत्याख्येयवस्तुसमाप्तौ । कथं प्रत्युक्तमित्यपेक्षायामाह को हि इति ।
तयोर्ज्ञानयोः रजतमिदम् इति ज्ञानस्य शुक्तिकेयम् इति ज्ञानस्य च, जानीयात्, भवन्मते एकस्य नित्यस्य प्रमातुरसम्भवान्न कोऽपि जानीयादिति भावः । ननु कुतो न जानीयादित्यत आह ते हि इति । ते -
स्वात्मनि स्वविषये च विश्राम्यत इति उक्तम्, इति अनुमानतोऽपि न बाधा, न च तथाभूतमपि व्यवधानम् अत्र प्रतीतौ संवेद्यते, स्वसंवेदन - सिद्धतया झटिति भासनात् । अत एव एतदपि अशक्यं वक्तुम् - मा भूत् बाधा नाम इति ।
एवं परपक्षेऽनुपपत्तिं प्रदर्श्य स्वपक्षे एकप्रमातृपरिनिष्ठितेः उदियात् बाध्यबाधकभाव इति वाक्येन प्रतिज्ञातं निगमयति - युक्ता सा एकस्मात् प्रमातुः यदि जायेत इति, स एव हि तथा निर्माता इति व्याख्यातमेव,
ज्ञाने । उपहारं करोति इति इति । इति - अतः कारणात्, अनुमानतापि बाधा न भवति । एवं युक्तितोऽनुमानं निरस्य स्वसंवेदननिरस्तत्वमप्यस्य कथयति न च इति । अत्र प्रतीता - अस्मिन् बाधप्रतीतिव्यवहारे, तथाभूतं व्यवधानम् - अनुमानयोग्यहेतुग्रहणव्याप्तिस्मरणादिरूपव्यवधानम् [अनुमानयोग्यहेतुग्रहणव्याप्तिव्याप्तिस्मरणं - च्], न संवेद्यते - नानुभूयते । कुत इत्यत आह स्व इति । स्वसंवेदनसिद्धतया - स्वसंवेदनरूपप्रत्यक्षसिद्धतया, झटिति - हेतुग्रहणव्याप्तिस्मृत्यादिकं विना । एतदवष्टम्भेनोत्तरार्धं व्याख्यातुं बाधाया अनिर्वाच्यत्वमाह अत एव इति । अत एव, यतो झटिति भासनमस्ति अतः कारणादित्यर्थः । एतत्किमित्यपेक्षायामाह मा भूत् इति ।
एतेन स्वसंवेदनसिद्धा तु इत्यस्य व्याख्या कृता ।
चतुर्थपादं व्याख्यातुमवतरणिकां करोति एवम् इति । परपक्षे - बौद्धपक्षे, प्रतिज्ञातम् - प्रतिज्ञाविषयीकृतम्, निगमयति - निगमनविषयतां नयति, मध्य “वयवत्रयकथनमर्थादेव ज्ञेयम् ।
एवमवतरणिकां कृत्वा चतुर्थं पादं व्याचष्टे । युक्ता इति । इति शब्दः चतुर्थपादव्याख्यासमाप्तौ । अत्र समर्थनं करोति स एव हि इति । हि - यस्मात्, स एव - प्रमातैव, तथा निर्माता -
स्थिते चैवं यदि व्यवहारसिद्धयेऽन्यथानुपपत्तिरप्युच्यते तत् उच्यतां कामम्, अधुना सर्वं सिद्ध्यति, इति ॥ १३ ॥
न केवलमेते कार्यकारणभावस्मरणबाधाव्यवहाराः सकललोकयात्रा सामान्यव्यवहारभूता एकप्रमातृप्रतिष्ठाः, यावत् अवान्तरव्यवहारा अपि ये क्रयविक्रयादयः समलाः, उपदेश्योपदेशभावादयश्च निर्मलाः, तेपि एकप्रमातृनिष्ठा एव भवन्ति, व्यवहारा हि सर्वे समन्वयप्राणाः [व्यवहारो हि सर्वः समन्वयप्राणः - क्। ष्। ष्।] इति उपसंहारक्रमेण दर्शयति :-
इत्थमत्यर्थभिन्नार्थावभासखचिते विभौ ।
समलो विमलो वापि व्यवहारोऽनुभूयते ॥ १४ ॥
बाधकर्ता भवति, पूर्वापरव्यापित्वात् । इति व्याख्यातमेव - पूर्वकथितमेव । वादिभिर्यो व्यवहारान्यथानुपपत्त्या बाध्यबाधकभावः प्रोक्तः सोप्येकप्रमात्रङ्गीकार एव सिद्ध्यतीत्याह स्थिते च इति । एवं स्थिते च सति, अन्यथानुपपत्तिः - बाध्यबाधकभाव विना अयोग्यता, अर्थापत्तिप्रमाणेन बाध्यबाधकभावसाधनमिति यावत् । उच्यते इति, वादिभिरिति भावः । अधुना - एकप्रमात्रङ्गीकारे, सर्वम् - सर्वः स्मृतिसम्बन्धनिवहः, सिध्यति, योजकस्याङ्गीकृतत्वादिति भावः । इति शब्दः श्लोकव्याख्यासमाप्तौ ॥ १३ ॥
अथ चतुर्दशस्य श्लोकस्यावतरणिकां करोति न केवलम् इति ।
अत्र टीका :-
सकला या लोकयात्रा तत्र सामान्यव्यवहारभूताः - परमव्यवहाररूपाः, एक - प्रमातरि निष्ठा येषां तादृशाः, तेन लब्धसत्ताका इति यावत् । समन्वयप्राणाः - सम्बन्धजीविताः ।
उपसंहारक्रमेण - समस्तान्हिकार्थोपसंहाररीत्या ।
एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । इत्थम् इति ।
“तत्तद्विभिन्न इति श्लोकद्वयोक्तेन अनेन उपपत्तिप्रकारेण, अन्वयव्यतिरेकात्मना तथा श्लोकान्तरैरुक्तेन व्यवहारोदाहरणप्रकारेण इदमपि मन्तव्यम् - यत् विभौ देशकालानवच्छिन्ने, अत एव अत्यर्थभिन्नैः मायाबलात् भेदैकप्राणितैः नीलसुखाद्याभासैः प्रतिबिम्बकल्पैः अनतिरिक्ततया वर्तमानैः, खचिते स्वरूपानन्यथाभावेन उपरक्ते, विश्रान्तः सर्वो व्यवहारोऽनुभूयते, अनुभव एव अत्र दृढतमं प्रमाणम् इति यावत्,
अत्र टीका :-
इत्थम् शब्दं व्याचष्टे तत्तत् इति । तत्तद्विभिन्न इति, श्लोकान्तरैः - तत्तद्विभिन्न इत्यादिरूपैरन्यैः श्लोकैः, मन्तव्यम् - अवश्यज्ञातव्यम् ।
इदम् इत्यस्याकाङ्क्षां पूरयति यत् इति । विभौ इति पदं व्याचष्टे देश इति ।
अत्यर्थ इत्यादिसमस्तपदस्य व्याख्यां विग्रहं च करोति अत एव इति । अत एव, विभुत्वादेवेत्यर्थः । भिन्ना इत्यवयवं व्याचष्टे माया इति । भेदेन एकम्
- केवलम् प्राणितैः - दत्तसत्ताकैः, अर्थावभास इत्यवयवद्वयं व्याचष्टे नील इति । युक्ततया बिम्बप्रतिबिम्बभावमाश्रयितुं विशेषणमध्याहरति प्रतिबिम्ब इति । बिम्बाभावात् परमार्थतः प्रतिबिम्बवादस्य शैथिल्यं द्योतयितुं कल्पप् प्रत्ययः । एतेन फलितं विशेषणान्तरमध्याहरति अनतिरिक्त इति । प्रतिबिम्बं हि आदर्शादेरभिन्नमपि भिन्नमिव भाति । यद्यपि वस्तुपिण्डरूपायाः शक्तेरेवात्र बिम्बत्वात् कल्पप्प्रत्ययोऽयुक्त एव तथापि लौकिकप्रतिबिम्बविलक्षणताप्रयोजनोसौ न विरोधावहः । खचिते इति पदं व्याचष्टे स्वरूप इति । स्वरूपस्य चिन्मात्राख्यस्य निजरूपस्य यः अन्यथाभावः - अचिद्रूपतासादनम्, तेन, उपरक्ते - तत्कृतरागमात्रास्पदे । सप्तम्यर्थमाह विश्रान्तः इति, अधिकरणकारकस्य विश्रान्तिस्थानत्वात् ।
अनुभूयते इति व्याचष्टे अनुभवः इति । अनुभवस्य केनाप्यन्येन प्रमाणेन शैथिल्योत्पादनायोगात् दृढतमम् इत्युक्तम् । ननु तर्हि सर्वेषामेव परमात्मतत्त्वप्राप्तिरयत्नसिद्धैवेति
अनुभूयते च सोपदेशैः अवधानपरैः [अवधानधनैः - क्। ष्। ष्।] येन एषां यैव संसारदशासम्मता [संसारसम्मता - क्। ष्। ष्।] व्यवहारदशा सैव प्रमातृतत्त्वप्रख्यात्मिका शिवभूमिः । यदुक्तम् :-
“…षम्बन्धे सावधानता ॥ "
किमर्थं शास्त्रान्तरेषु यमनियमादि शरीरक्लेशहेतुकमुपायत्वेनोपदिष्टमित्यत आह अनुभूयते च इति । च शब्दः एवशब्दार्थे । सोपदंशैः - प्रथमं यमनियमादिद्वारेण चित्तशुद्ध्यासादनेन तीव्रतरभगवच्छक्तिपातप्राप्तमहागुरुकृतोपदेशसमाहितैः, तदनुसारेण अवधानपरैश्च - व्यवहारदशायामपि प्रियासक्तकामिनीन्यायेन परमात्मतत्त्वपरामर्शनपरैरेव न तु भोगैकासक्तत्वेऽपि कृतनिरर्थकतदभिमानैः स्ववञ्चकैः । अनुभूयते - सर्वो व्यवहारः परमात्मनि विश्रान्तः अनुभूयते । येन - अनुभवेन, एषाम् - अवधानपराणाम्, चैव संसारदशासम्मता - बाह्यजनैः स्वदृष्टान्तेन भ्रमतः संसारावस्थात्वेनाभिमता, व्यवहारदशा - देहस्थितिं तावदपरिहार्यत्वेन शैथिल्येन क्रियमाणा भोजनादिव्यापारावस्था भवति सैव तेषां प्रमातृतत्त्वप्रख्यात्मिका - परमात्मतत्त्वज्ञानात्मिका, शिवभूमिः - परप्रकाशरूपशिवावस्था भवति, तत्समयेपि व्यवहारमूलपरप्रमातृतत्त्वात्मतासादनात् बाह्यदृष्ट्यैव व्यवहारित्वात् । तदुक्तम् :-
येनैव मुह्यति जडः प्राज्ञस्तेनैव तरति संसारात् ।
पिण्डितमयोऽप्सु मज्जति तदेव पात्रीकृतं प्लवते
इति । अत्रायमर्थः । जडः - प्रोक्तयुक्त्यनभिज्ञः पुरुषः, येनैव - बाह्यव्यवहारेण, मुह्यति - फलप्राप्तिकृतं हर्षरूपं तदप्राप्तिकृतामर्षरूपञ्च मोहं भजति, देहमात्रनिष्ठत्वेन तदुपयोगिवस्तुविषयव्यवहारमात्रैकरतत्वात् । प्राज्ञः - चित्तशोधनपूर्वं गुरुतः सिद्धत्वे मन्दशक्तिपाताघ्रातत्वेन, प्राप्तसद्गुरुपदेशत्वेन शास्त्रतः सिद्धत्वे तीव्रशक्तिपाताघ्रातत्वेन, चित्तशुद्धिपूर्वं प्राप्तमहारहस्यशास्त्रत्वेन स्वतः सिद्धत्वे तु श्रीभगवतीव्रतरशक्तिपाताघ्रातहृदयत्वेन प्रोक्तयुक्तिज्ञः पुरुषः ।
तेनैव - बाह्य -
व्यवहारेण, संसारात् - रागद्वेषमयात् तरति - तदुत्तीर्णतामासादयति, तन्मूलसम्बन्धयोजकपरमात्मतत्त्वमात्रपरत्वेन तत्फलाप्राप्तिकृतामर्षभागी न भवतीति यावत्, तद्द्वारेण प्राप्तमहाफलत्वात् । कश्चिद्धि वराटिकार्थं यत्नं कुर्वन्नकस्माच्चिन्तामणिं प्राप्नुवन् वराटिकालाभालाभकृतहर्षामर्षभागी न भवति । एतेन परतत्त्वपरामर्शपरस्य चित्तस्य भुज्यमाना अपि भोगा उपकृतिमेव कुर्वन्ति न हानिमिति द्योतितम् । तथा चास्मदीयं वृत्तम् :-
प्रवाहेनायाता उपकृतिकराश्चित्तविषया यदिच्छिद्रैर्न त्वं कलित [कलितमिह - च्।] इह सङ्कल्पनिचयैः ।
अरन्ध्राया नावो जलमुपकरोत्येव नियतं भजन्तीं सौषिर्यं ब्रुडयति तु तामेतदनिशम् ॥
इति । अत्र दृष्टान्तमाह पिण्डितम् इति । पिण्डितम् - पिण्डभावेन स्थितम् अयः अप्सु - जलेषु, मज्जति, तदेव - पिण्डितमय एव, पात्रीकृतम् - घटादिपात्र - भावेन सम्पादितम्, सत् प्लवते - उह्यते, युक्तेः सर्वंसहत्वादिति भावः इति ।
अत्र रहस्यशास्त्रवाक्यमुदाहरति सबन्धे सावधानता इति । एवमिदं पद्यम् :-
ग्राह्यग्राहकसंवित्तिः सामान्या सर्वदेहिनाम् ।
योगिनान्तु विशेषोयं सम्बन्धे सावधानता ॥
इति । अत्रायमर्थः । सर्वदेहिनाम् - तज्ज्ञानामतज्ज्ञानाञ्च सर्वेषां प्राणिनाम्, ग्राह्यग्राहकसंवित्तिः - लक्षणया ग्राह्यग्राहकसम्बन्धज्ञानम् । ग्राह्यग्राहकसम्बन्धः इति वा पाठः । सामान्या - सदृशी भवति । तज्ज्ञा अपि हि अज्ञाऽविशेषेणैव शरीरयात्रानिमित्तं यावच्छरीरं व्यवहारं कुर्वन्त्येव । ननु तर्हि एषामपि सामान्यजनत्वमेवायातम् इत्यत आह योगिनाम् इति । तु व्यतिरेके, योगिनाम् व्यवहारेऽपि परमात्मपराणाम्, अयं विशेषः - अज्ञेभ्य उत्कर्षो भवति । अयं कः ? सम्बन्धे - ग्राह्यग्राहकयोजने, तत्समये इति यावत्, या सावधानता - तद्योजके प्रमातरि यदवधानं भवति ।
क्रयविक्रयादिरूपे समलव्यवहारेऽपि तेषां न परमात्मविष्मृतिर्जायते इति स्फुट एव तेषां सामान्यजनेभ्य उत्कर्ष इति भावः । एतच्च मध्यधामाभ्यासिनामयत्नमेव सिद्धयति,
इति । अप्रत्यभिज्ञातात्मपरमार्थानां समलो व्यवहारः, अन्येषां स एव निर्मलः ॥ इति शिवम् ॥ १४ ॥ आदितः ॥ ७७ ॥
इति श्रीमन्माहेश्वराचार्यवर्योत्पलदेवपादविरचितायामीश्वर- प्रत्यभिज्ञायां श्रीमदाचार्याभिनवगुप्तकृतविमर्शिन्याख्यव्याख्योपेतायां प्रथमे ज्ञानाधिकारे एकाश्रयं निरूपणं नाम सप्तममाह्निकम् ॥ ७ ॥