अथ षष्ठमाह्निकम् ।
स्वात्माभेदघनान्भावांस्तदपोहनटङ्कतः ।
छिन्दन्यः स्वेच्छया चित्ररूपकृत्तं स्तुमः शिवम् ।
एवं स्मृतिशक्तिर्ज्ञानशक्तिश्च निरूपिता । अथ तदुभयानुग्राहिणी अपोहनशक्तिर्वितत्य श्लोकैकादशकेन अहं प्रत्यवमर्शो यः प्रकाशात्मा
अथ षष्ठाह्निकप्रारम्भः ।
स्वरूपस्तम्भगा भावपुत्रिका विविधात्मिकाः ।
अपोहशक्त्यापास्येवोद्भावयन्तं शिवं स्तुमः ॥
अथ ज्ञानाधिकारे षष्ठाह्निकयाख्यामारभमाणस्तन्निर्विघ्न- समाप्तये परतत्त्वाख्येष्टदेवतानुस्मरणरूपं मङ्गलं समस्ताह्निकाभिप्रायसूचकश्लोकेन शिष्यशिक्षार्थं निबध्नाति स्वात्माभेद इति ।
अत्र टीका :-
वयं तं शिवम् - प्रकाशस्वरूपपरमात्मतत्त्वरूपं शिवेति प्रसिद्धं सुखकारि किमप्यान्तरं तत्त्वम्, स्तुम्ः - स्तुतिद्वारेण तत्स्वरूपं विमर्शविषयतां नयामः । ततो यः स्वेच्छया - स्वातन्त्र्यप्रेरितया कार्यैकगम्ययाऽतिसूक्ष्मयेच्छाशक्त्या स्वरूपभतया, न तु लौकिकेच्छया मनोधर्मरूपया, स्वात्मनः - प्रकाशरूपात् स्वस्मात्, यः अभेदः - भेदराहित्यम्, स्वस्मिन् तादात्म्येनावस्थानमिति यावत्, तेन घनान् - एकपिण्डरूपान् घटादीनिव मृदन्तः, भावान् - ग्राह्यग्राहकरूपान् जडाजडान पदार्थान्, ते - भावाः, अपोह्यन्ते - स्वतोऽन्योन्यतश्च भेदेन भास्यन्तेऽनेनेति तदपोहनशक्तिरिति यावत्, तदेव टङ्कम् - पाषाणदारणं करणम्, ततः, तेनेत्यर्थः । च्छिन्दन् - स्वतोऽन्योन्यतश्च भेदेन भासयन् । चित्राणि यानि रूपाणि अर्थात्तेषां भावानां स्वरूपाणि तानि करोति - प्रतिबिम्बतया स्वात्मन्याविर्भावयतीति तादृशो भवति । सार्वकालीनां प्रत्यत कालस्यापि सत्ताप्रदत्वेनातिमहतीं स्वरूपत्वेन स्थितां सत्तां
इत्यादिना सिद्धे सर्वस्य जीवतः इत्यन्तेन निर्णीयते । तत्र श्लोकेन प्रत्यवमर्शे अविकल्पो विशेषः इति सूच्यते । ततः श्लोकेन शुद्धेऽहम्प्रत्यवमर्शेऽपोहनव्यापारासम्भवः उच्यते । ततः स्वदृष्टावेव तदुपपत्तिः इति
स्वात्मनि कर्तृत्वमाभास्य तद्भावेन भजति । शस्त्रस्य छेदनस्य करणं प्रति हेतुत्वं द्योतयति । एतेनापोहनशक्तिरत्र निर्णीयत इति सूचितम् । अन्योपि महाशिल्पी स्फाटिकशिलादेः टङ्केन खण्डान् छिन्दन् चित्राः पुत्रिकाः करोति, परन्तु व्यतिरिक्तान् व्यतिरिक्तेन करणेन छिन्दन् व्यतिरिक्तानेव तान् करोति ।
अयन्तु स्वात्मन एव छिन्दन् स्वात्मरूपाण्येव रूपाणि स्वस्मादभिन्नेनेच्छामात्रेण करोति इति व्यतिरेको व्यङ्गयः ।
एवं मङ्गलं सम्पाद्य समस्ताह्निकाभिप्रायं शिष्यबुद्धिसमाधानार्थं प्रथममेव कथयति एवम् इति ।
अत्र टीका :-
निरूपिता, समनन्तरोक्ताह्निकद्वयेनेत्यर्थः । ते उभे - ज्ञानस्मृतिरूपशक्ती तयोरुभयम् - युगलकम् अनुगृह्णाति - अपोहितविषयप्रदानेनानुग्रहविषयतां नयतीति तादृशी । केन श्लोकैकादशकेनेत्यपेक्षायां श्लोकैकादशकमाद्यन्ताभ्यामुपलक्षयति अहम् इति । निर्णीयते, प्रतिपक्षदलनपूर्वकं निश्चयविषयतां नीयते इत्यर्थः ।
सामस्त्येनाभिप्रायमुक्त्वा व्यस्तत्वेनापि कथयति तत्र इति । तत्र, श्लोकैकादशकमध्ये इत्यर्थः । प्रत्यवमर्श - शुद्धप्रकाशगतेऽहम्प्रत्यवमर्शे । अविकल्पः - द्वयाक्षेपिविकल्पाभावः, विशेषः - लौकिकपरामर्शाद्विशेषः ।
सूच्यत, सूचनामात्रेण न तु साक्षात् कथ्यत इत्यर्थः । ततः - तदनन्तरम् । अपोहनव्यापारस्य, अन्यव्यवच्छेदरूपस्येति भावः, असम्भवः - अन्याभावकृतः सम्भवाभावः । स्वदृष्टौ
श्लोकेन । ततोऽपि द्वयेन अशुद्धस्याहमित्यवमर्शस्य विकल्परूपता । ततः श्लोकेन अनुसन्धानस्यापि विकल्परूपता ।
एवंरूपानुसन्धानादिरूपमेव [एवं भूतानुसन्धानादिरूपमेव परमेश्वरस्य स्रष्ट्टत्वम् - क्। ष्। ष्।] परमेश्वरस्य स्रष्ट्टत्वम् इति श्लोकेन ।
ततः प्रकृते चिदात्मन्यर्थावभासस्य सत्तोपसंह्रियते श्लोकेन । ततो द्वयेन तस्यैवार्थावभासस्यानुभवस्मरणादौ वैचित्र्यमुच्यते, तदुक्तिश्च प्रकृतायामीश्वररूपस्वात्मप्रत्यभिज्ञायामुपयुज्यते इति श्लोकेन । इत्याह्निकस्य तात्पर्यार्थः । अथ ग्रन्थार्थो व्याख्यायते ।
उक्तमिदम् :-
स्वभावमवभासस्य विमर्शम् …
इति । तत्र विमर्शोऽभिलापात्मना शब्देन योजित एव, तद्योजनाकृतं च
स्वदर्शनभूते शैवनये । तदुपपत्तिः - अहम्प्रत्यवमर्शेऽपोहनव्यापारोपपत्तिः । अशुद्धस्य - भेदाख्यमलयुक्तदेहादिप्रमातृगतत्वेन परमार्थतः शुद्धिराहित्याभावेपि तद्युक्तस्य । अनुसन्धानस्यापि - प्रत्यवमर्शकार्यस्य योजनस्यापि, एवंरूपानु सन्धानादिरूपमेव - विकल्पस्वरूपानुसन्धानादिस्वरूपमेव । चिदात्मनि - शिवस्वरूपभूते प्रकाशे । उपसंह्रियते - उपसंहाररीत्या कथ्यते । तस्यैव - संहृतस्यार्थावभासस्यैव, तदुक्तिश्च - वैचित्र्योक्तिश्च । उपसंहारं करोति इति इति । इति - एवम्, आह्निकस्य तात्पर्यार्थः, समस्ताह्निकस्य व्यस्तत्वेन तात्पर्यार्थ इत्यर्थः । ग्रन्थार्थकथनं प्रतिजानीते अथ इति ।
व्याख्यायते, व्याख्याविषयतां नीयत इत्यर्थः । स्वभावमवभासस्य इति श्लोकव्याख्यावसरे मनसि स्फुरितं शिष्यस्याशङ्कनीयं वस्तु तदशङ्कितमपि कृपादृष्ट्या निर्णेत् स्वयमेव तदनुगुणाम् अवतरणिकां तादृगपेक्षारहितस्यापि प्रथमश्लोकस्य करोति उक्तम् इति ।
अत्र टीका :-
तद्योजनाकृतम् - शब्दयोजनाकृतम् । शुद्धेऽपि - विकल्पासहेपि ।
तदुक्तम् :-
विकल्परूपत्वं शुद्धेपि परमेश्वरे प्राप्तम्, न चैतदिष्टं तस्य संसारपदे मायात्मन्युपपत्तेः इत्याशङ्क्याह :-
अहम्प्रत्यवमर्शो यः प्रकाशात्मापि वाग्वपुः ।
नासौ विकल्पः च ह्युक्तो द्वयाक्षेपी विनिश्चयः ॥ १ ॥
प्रकाशस्य शुद्धसंविद्रूपस्य [विशुद्धसंविद्रूपस्य - क्। ष्। ष्।] देहादिसंस्पर्शैरनाविलीभूतस्य यः आत्मा जीवितभूतः सारस्वभावो विच्छेदशून्योऽन्तरभ्युपगमकल्पोऽनन्य -
विकल्पातीतवृत्तित्वात् प्रत्यक्षोप्यसि विस्मृतः ।
पुरःस्थितो यथा भावः चेतसोन्याभिलाषिणः ॥
इति । ननु परमशिवमपि प्राप्नोत्वित्यत आह न च इति । कुतो नेष्टमित्यत आह तस्य इति । तस्य - विकल्पस्य । मायात्मनि - मायाकार्यभेदरूपत्वेन लक्षणया तत्स्वरूपे । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । अहम् इति ।
अत्र टीका :-
प्रकाशात्मा इति पदं व्याचष्टे विगृह्णाति च प्रकाशस्य इति ।
शुद्ध इति, शुद्धा - संवेद्याऽरूषिता, या संवित् - आन्तरं संवित्तत्त्वम्, सा रूपं यस्य तादृशस्य । शुद्धत्वे हेतुगर्भं विशेषणमाह देहादि इति । आदिशब्देन प्राणादेर्ग्रहणम् ।
देहादिभिरवच्छिन्नतामनानीतस्येत्यर्थः [देहादिभिरवच्छिन्नतामानीतस्य - च्।] । आत्मा इत्यवयवं व्याचष्टे जीवित इति । एतेन षष्ठीतत्पुरुषत्वमस्य द्योतितम् प्रत्यवमर्शः इत्यस्य विशेषणत्वञ्च । अहम्प्रत्यवमर्शः इति पदं व्याचष्टे अहम् इति । अहम् इति - शुद्धे प्रकाशरूपे स्वात्मनि स्थितत्वात् अहम् इत्येवं - रूपः, न तु भावविषयत्वेन इदम् इतिरूपः, प्रत्यवमर्शः, प्रति - आन्तरत्वेन, अवमर्शः - सूक्ष्माभिलापेन स्पर्शनम् अहम् इति प्रत्यवमर्शः । ननु कीदृगसा -
मुखप्रेक्षित्वरूपस्वातन्त्र्यविश्रान्तिरूपः [अनन्यमुखप्रेक्षित्वस्वातन्त्र्य
- क्। ष्। ष्।] अहम् इति प्रत्यवमर्शः असौ विकल्पो न भवति ।
विकल्पत्वाशङ्कायां बीजं दर्शयति वाग्वपुरपि इति । विषयरूपात् श्रोत्रग्राह्यात् शब्दादन्य एव अन्तरवभासमानः संविद्रूपावेशी शब्दनात्माभिलापो वागित्यनेनोक्तः - वक्ति अर्थं स्वाध्यासेन सोऽयमित्यभिसन्धानेन [सोयमित्यभिसम्बन्धेन - क्। ष्। ष्।] । यदि वाग्वपुः, कस्मान्न विकल्पः ? आह - न ह्यस्य विकल्पलक्षणमस्ति, तथा हि - विविधा कल्पना विविधत्वेन च शङ्कितस्य कल्पोऽन्यव्यवच्छेदनं
वित्यपेक्षायां स्वयमपि विशेषणान्याह विच्छेदशून्यः इति ।
प्रकाशस्वात्मभूतत्वेन तद्वन्नित्याव्यभिचरितरूप इति भावः । एतेनास्य बाह्यस्पर्शवन्नवीनमुत्थानं निवारितम्, तथा अन्तरभ्युपगमकल्पः इति, स्वात्मनि यः स्वात्माङ्गीकारस्तद्रूपः, न तु बाह्याभ्युपगमतुल्य इति कल्पग्रहणम् । तथा अनन्यमुखप्रेक्षित्वरूपम् - स्वग्रहणे परापेक्षाराहित्यं नाम यत्स्वातन्त्र्यं तत्र या विश्रान्तिः - आस्वादरूपो विश्रामः सा रूपं यस्य तादृश।ः । यच्छब्दाकाङ्क्षां पूरयति असौ इति । वाग्वपुः इति विशेषणस्य हेतुगर्भत्वं साधयितुमाह विकल्प इति ।
बीजम् - हेतुम् । वाक्शब्दस्यालौकिकार्थत्वं साधयति विषय इति ।
अन्तरवभासमानः इत्यस्य हेतुमाह संवित् इति । तत्र प्रकाशमात्रनिष्ठत्वेन [नात्राप्रकाशमात्रनिष्ठत्वेन - च्।] तच्छरीरविश्रान्तः इत्यर्थः । ननु तर्हि वाग्रूपोसौ न स्यादित्यत आह शब्दन इति । अस्य पर्यायमाह अभिलापः इति । वागित्यनेन, सूत्रस्थेन वाक्शब्देनेत्यथः । इयं परामर्शरूपा वाक् सद्योजातेषु बालेषु स्तन्याभिलाषयुक्ततयाऽनुमीयते एव परन्तु सोपि पुष्टिं गतैव भवति, अन्यथा बहिः प्रसारासम्भवात्, अतश्चान्तरेव गुरुपदेशादिना स्वयमेवानुभाव्या । तदुक्तम् :-
हन्त भणामो मूढाः
इति । परमार्थविचारे तन्मयीभाव एव सिद्ध्यति न तत्रावधानम्, भेदापादकत्वात् ।
विकल्पः, विविधत्वं च वह्नावनग्निसम्भावनासमारोपनिरासेऽसति भवत्, द्वयं वह्न्यवह्निरूपं समाक्षिपति [आक्षिपति - क्। ष्। ष्।] तेन विकल्पेऽवश्यं
तदुक्तम् :-
त्यजावधानानि
इति । अतोपि परमार्थविचारे सिद्धिकथनमपि तत्रायुक्तमेव । सर्वदा सर्वस्य तन्मयत्वात् परं सुप्रबुद्धा एव …विज्ञाः प्रबुधानामुपदेशमात्रयोग्यत्वात्, अप्रबुद्धानां तत्राप्यनधिकारात् ।
तदुक्तम् :-
सेयं क्रियात्मिका शक्तिः शिवस्य वशवर्तिनी ।
बन्धयित्री स्वमार्गस्था ज्ञाता सिद्ध्युपपादिका ॥
इति । अलं प्रसङ्गेन । अत्रोपयोगि वाक् शब्दस्य व्युत्पादनं करोति वक्ति इति ।
स्वाध्यासेन इति, अयं घटः इति हि घटशब्दाध्यासपूर्वं घटशब्दार्थो निश्चीयते । सो यमित्यभिसन्धानेन - यः घटशब्दवाच्यः सोयं पुरःस्थितो भावो भवति, योजनया इत्यर्थः ।
एतेनात्र वाच्यवाचकसङ्केतकरणहेतोरान्तरस्य परामर्शस्यैव वाक्त्वमुक्तम्, न तु बाह्यस्य स्थूलशब्दस्य । अत्र शिष्यः पच्छति यदि इति ।
अत्र गुरुणा दत्तमुत्तरं कथयितुमाह आह इति । किमाहेत्यत आह न ह्यस्य इति । अस्य - प्रत्यवमर्शस्य । कथमित्यपेक्षायां समर्थनमुपक्रमते तथा हि इति । तत्र विकल्प शब्दस्यावयवार्थमाह विविधा इति । विविधा - तदतद्रूपा, कल्पना । द्वितीयमर्थमाह विविधत्वेन च इति । चः समुच्चये, विविधत्वेन - तदतद्रूपत्वेन । कल्प पदस्यार्थमाह अन्य इति । अन्यस्य - अतद्रूपस्य, व्यवच्छेदनम् - अर्थात् तद्रूपाद् व्यावर्तनम् ।
एवमवयवार्थं कृत्वा उपसर्गवाच्यस्य विविधत्वस्य कार्यमाह विविधत्वञ्च इति । तावद् असति सति इति योजनीयम् । समाक्षिपति -
तच्च निश्चेतव्यम् अतच्च अपोहितव्यं [व्यपोहितव्यम् - क्। ष्। ष्।] भवति ।
तथा च
भिन्नयोरवभासो हि स्याद्घटाघटयोर्द्वयोः ।
प्रकाशस्येव नान्यस्य भेदिनस्त्ववभासनम् ॥ २ ॥
अन्योन्याभावाग्रहणात् प्रमातृबुद्धौ स्फुरणशीलं करोति ।
उपसर्गप्रकृतिसमुदायकार्यमाह तेन इति । तेन - ततः कारणात् । विकल्पे - विकल्पविषये । तच्च - विकल्पविषयद्वयमध्ये पुरःस्थितं वस्तु च ।
निश्चेतव्यम् - अस्तित्व - निश्चयार्हं भवति । अतच्च - [अतश्च - च्।] केवलशङ्काविषयं वस्तु च । अपोहितव्यम् - नास्तीति व्यवच्छेद्यम् । भवति, तच्च विकल्पकार्यमेव भवतीत्यर्थः । परमार्थतस्तु कल्पपदस्यैवात्र सामर्थ्यं निश्चयव्यवच्छेदवाचकत्वात् । अथवा कल्पस्येत्यध्याहारः तथा चैवमर्थः । तेन विकल्पे - विकल्पपदे स्थितस्य कल्पस्य तन्निश्चेत - व्यमतच्च [अतश्च - च्।] व्यपोहितव्यं भवति उपसर्गेणैकत्र तदतत्त्वारोपणादिति भावः ॥ १ ॥
अथ द्वितीयस्य श्लोकस्यावतरणिकां करोति तथा च इति ।
अत्र टीका:-
तथा च, तदेव दर्शयिष्यामीत्यर्थः ।
एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । भिन्नयोः इति ।
घटे हि दृष्टे घटस्थान एवाघटोऽपि योग्यदेशाभिमतस्थानाक्रमणशीलो विज्ञानजनकः स्वकारणोपनीतः सम्भाव्यते पटादिस्वभावः, अतो घटाघटयोर्द्वयोरवभासस्य सम्भावनात् समारोपः सावकाशो भवति, अघटस्य सत्यारोपे निषेधनलक्षणोपोहनव्यापारः [निषेधलक्षणः - क्। ष्। ष्।] इति तदनुप्राणिता विकल्परूपता घट इत्येतस्य निश्चयस्य, लिङ्सम्भावनायाम् । यस्त्वयं प्रकाशो
अत्र टीका :-
भङ्ग्या श्लोकं व्याचष्टे घटे हि इति । घटस्थाने एव - घटविषये एव, घटरूपतयेति यावत् । पटादिस्वभावः अघटोपीति योजना । कीदृशः अघटः ? योग्यः - तदवस्थाने योग्यताभाक् यो देशः - पटादिव्यक्तिरूपः देशः, स एवाभिमतं स्थानं तस्य यदाक्रमणं तदेव शीलं यस्य तादृशः, अर्थात् परमार्थतो घटस्थाने सम्भवसह इति भावः ।
सम्भाव्यते - तावत्तादात्म्याभावग्रहणात् स्यादिति सम्भावना - विषयतां नीयते । प्रथमं व्यक्तिमात्रं पश्यन् पुरुषः सङ्कीर्णतयैव भावस्वरूपं गृह्णाति । तदुक्तम् :-
गौर्हि स्वरूपेण न गौः नागौः
इति । ततः तादात्म्याभावं निर्णीय तत्र तद्व्यवहारं करोति, अन्यथा शुक्तिकादौ रजतभ्रमाभावप्रसङ्गात् । सादृश्यनिमित्तोयं भ्रम इति चेत् सत्तारूपसमानधर्मस्य सर्वत्र भावात् सर्वत्रैव सादृश्यं भवतीति यत्किञ्चिदेतत् । यस्तु सद्य एवासङ्कीर्णतया भावव्यवहारः सोऽभ्यासपाटवकृत एवेत्यलम् । ननु ततः किमित्यत आह अतः इति । अतः - अवभाससम्भावनाया हेतोः । समारोपः - अध्यासः । ननु भवतु समारोपः सावकाशः ततः किमित्यत आह अघटस्य इति ।
निषेधनलक्षणः - अघटनिषेधकरणस्वभावः, युक्त इति शेषः । ननु ततोपि किमित्यत आह इति । इति - अतः कारणात्, तदनुप्राणिता - अपोहनदत्तसत्ताका, अतिन्निषेधपरस्य निश्चयस्यैव विकल्पत्वादिति भावः ।
लिङो वाच्यमाह सम्भावनायाम् इति । एतेन पूर्वार्धं गतव्याख्यम् । तथा
नाम तस्य स्थाने यः सम्भाव्यते स तावदप्रकाशरूपो न भवति तुल्यकक्षस्य हि सम्भावनं भवति, न च यत्प्रकाशेन कर्तव्यं तदप्रकाशस्य कदाचित् दृष्टम् सम्भावनारोपणादिबलादेव च अस्याप्रकाशरूपत्वं विघटेत, अतः प्रकाशतुल्यस्यान्यस्याप्रकाशरूपस्य भेदिनस्तत्तुल्यकक्ष्यस्यापोहनात्मकभेदनव्या - पारासाहिष्णोरवभासनमेव नास्ति, तदभावे कस्यापोहनम् ? अवभास
सङ्क्षेपः । प्रकृतत्वात् घटग्रहणकाले भिन्नयोः - स्फुटं भेदेन स्थितयोः, द्वयोर्घटाघटयोरवभासः स्यात् - भवेत्, तावत्तादात्म्याभावग्रहणादित्यर्थः । तथा चातद्व्यपोहनार्थमत्र विकल्पो युक्त एवेति भावः ।
उत्तरार्धं व्याचष्टे यस्त्वयम् इति । तस्य - प्रकाशस्य, स्थाने - विषये, कुतो नाप्रकाशरूपो भवेदित्यत आह तुल्य इति । तुल्यकक्ष्यस्य - सदृशबलस्य, प्रतियोगिन इति यावत् । सम्भावनम् - सम्भवं प्रति प्रेरणम् । ननु कथं घटाघटयोस्तुल्यकक्षत्वम् ? सत्यम्, यथा सत्तायोगन घटस्य भावबुद्धिजनकत्वं तथाऽघटस्यापीत्येतावन्मात्रेणैवात्र प्रतिस्पर्धित्वरूपं तुल्यकक्षत्वमिति । ननु प्रकाशाप्रकाशयोः अपि तुल्यकक्षत्वं स्यादेवेत्यत आह न च इति । अन्यथा तमसोपि पदार्थप्रकाशकत्वप्रसङ्गादिति भावः ।
तथापि तुल्यकक्षत्वमभ्युपगम्य दोषमाह सम्भावना इति ।
सम्भावनाया यदारोपणादि, आदिशब्देन व्यवच्छेदग्रहणम्, तस्य बलात्, विघटेत् - नश्येत् । प्रागिवार्थ इति न्यायेन सम्भावनार्थं ग्रहणेनैवाप्रकाशत्वाभावापातात् । फलितमाह अतः इति । अतः कारणात् ।
प्रकाशस्येव इति पदद्वयं व्याचष्टे प्रकाश इति । अन्यस्य इति पदं व्याचष्टे अप्रकाश इति । भेदिनः इति पदं व्याचष्टे तत् इति ।
तत्तुल्यप्रकाशस्य - प्रकाशेन सह तुल्यकक्ष्यस्य । अत्रापि व्याख्यां करोति अपोहन इति । तुल्यकक्ष्य एव हि प्रतिस्पर्धितया भेदेन पुरः स्थातुं शक्नोति इति तुल्यकक्ष्यस्येत्युक्तम् । नास्ति इति, न हि प्रकाशग्रहणसमये तमोग्रहणं सम्भवतीति भावः । तदभावे - अवभासाभावे, अवभाससम्भवमभ्युपगम्यापि दोषमाह प्रकाश इति । प्रागिवार्थ इत्य
सम्भवेऽपि प्रकाशरूपत्वमेव । न च प्रकाशस्य स्वरूपदेशकालभेदो येन द्वितीयः प्रकाश एकस्मादपोह्येतेति । हीति, यस्मादेवं ततो द्वयाभावादपोहासम्भवे विकल्परूपत्वाभावात् चिन्मात्रे परामर्शात्मनि अहमिति प्रत्यवमर्श एव, न तु विकल्पः ॥ २ ॥
ननु घटे परिनिष्ठितरूपे दृष्टे तद्दर्शनमुपजीवता विकल्पेन कथमघटस्य निषेधनं क्रियते, न ह्यघटस्य केनचिन्नामापि गृहीतम्, अघटवासनापि घटे दृष्टे कथङ्कारं प्रबुध्यताम् ? सत्यम्, एवं शाक्यः पर्यनुयोज्यो न तु वयम्, यतः
त्रोक्तन्यायेनेत्यर्थः । भेदस्याप्यसम्भवं वक्तुमाह न च इति । भेदो यदि ह्यत्राभ्युपगम्यते तर्हि अप्रकाशासम्भवोपहतत्वात् प्रकाशान्तरेण सहैव स वाच्यः । न च प्रकाशस्य स्वरूपगतो भेदो युक्त इति भावः । हि शब्दस्यार्थमाह हीति । हिशब्दद्योतितं पूर्वं प्रत्यस्य श्लोकस्य हेतुत्वं स्फुटीकृत्य कथयति यस्मादेवम् इति । ततः - तस्मात्, द्वयाभावात् - प्रकाशाप्रकाशाख्ययुगलाभावात्, अपोहासम्भवे - अप्रकाशापोहनासम्भवे । अहमिति - अहमित्येवं स्थितः स्वस्वरूपपरामर्शः, प्रत्यवमर्श एव - तद्रूपप्रकाशाख्यस्वरूपपरामर्शनमात्रमेव भवति, न तु विकल्पः, अतद्रूपाप्रकाशव्यवच्छेदनं न भवतीत्यर्थः । अयमत्र सङ्क्षेपः ।
अर्थात् अयमिति प्रकाशस्य स्वग्रहणसमये प्रकाशस्येव - प्रकाशवत्, अन्यस्य भेदिनः - अप्रकाशरूपस्य प्रतियोगिनः घटग्रहे अघटस्येव, तुः व्यतिरेके, अवभासनं न भवति अतोऽत्र विकल्पत्वं नास्तीति । हि - यस्मादेवं ततः पूर्वश्लोकोक्तं वस्तु युज्यत एवेति योजना हि शब्देन द्योत्यते ।
अथ तृतीयश्लोकस्यावतरणिकां करोति ननु इति ।
अत्र टीका :-
परिनिष्ठितम् - स्वाकारमात्रेऽवसानं गतम् रूपं यस्य तादृशे ।
तद्दर्शनम् - घटानुभवम् उपजीवता - अपेक्षाविषयतां नयता । कुतो न क्रियत इत्यत आह अघट इति । सदृशदर्शनादेव हि वासना प्रबुध्यते न च घटोऽघटसदृशः प्रत्यत विलक्षण इति भावः । गुरुरुत्तरमाह सत्यम् इति, एवम् - अनेन
तदतत्प्रतिभाभाजा मात्रैवातद्व्यपोहनात् ।
तन्निश्चयनमुक्तो हि विकल्पो घट इत्ययम् ॥ ३ ॥
इह प्रमाता नाम प्रमाणादतिरिक्तः प्रमासु स्वतन्त्रः संयोजनवियोजनाद्याधानवशात् [संयोजनविअयोजनाद्याधारवशात् - क्।
ष्। ष्।] कर्ता दर्शितः, तस्य च प्रमातुरन्तः सर्वार्थावभासः, चिन्मात्रशरीरोऽपि तत्सामानाधिकरण्यवृत्तिरपि दर्पणनगरन्यायेनास्ति - इत्यपि उक्तम् । एवं च तत्प्रतिभां घटाभासम्, अतत्प्रतिभां च अघटाभासं प्रमाता भजते - सेवते तावत् तदविकल्पदशायां चित्स्वभावोऽसौ घटः
प्रकारेण । शाक्यः - क्षणिकज्ञानरूपं परमात्मानमनिच्छन् बौद्धः । पर्यनुयोज्यः - चोदनीयः । कुतो न पर्यनुयोज्या इत्यत आह यतः इति । यत एवं भवतीत्यर्थः । एवमवतरणिकां कृत्वा तत्र स्थापितं यतःशब्दं निराकाङ्क्षयितुं श्लोकमुपन्यस्य व्याचष्टे । तदतत् इति ।
अत्र टीका :-
प्रमाणात् - इहैव वक्ष्यमाणस्वरूपात् प्रमाकरणात् । प्रमासु - प्रमाणसाध्येषु ज्ञानेषु । स्वतन्त्रः कर्ता इति योजना, न तु हेतुकर्तेति भावः । आधानम् - सम्पादनम् । तेन - चिन्मात्रशरीरेण, समानाधिकरण्येन - एकतया वृत्तिर्यस्य सः ।
अपिशब्दद्योतितमस्तित्वासम्भवं दूरीकर्तुं दर्पण इति दृष्टान्तग्रहणम् । अस्ति - ततो भेदेन स्फुरति, तथाभासमानत्वादिति भावः । उक्तम् इति, न चेदन्तः इत्यत्रेत्यर्थः । ननु ततः किम् इत्यत आह एवञ्च इति । तदतत् इति समस्तपदं व्याचष्टे विगृह्णाति च तत् इति । सेवते इत्यनेन कर्तर्यत्र क्विप् इति सूचितम् । ताअवत्, अत्र कस्यापि विप्रतिपत्तिर्नास्तीत्यर्थः । तदविकल्पदशायां चित्स्वभावः - प्रागिवार्थः इति न्यायेन चित्स्वरूपः । विश्वम् - भावराशिः, शरीरे यस्य सः, अत
चिद्वदेव विश्वशरीरः पूर्णः, न च तेन कश्चिद्व्यवहारः, [न केचिद् व्यवहाराः - क्। ष्। ष्।] तत् मायाव्यापारमुल्लासयन्पूर्णमपि खण्डयति भावम्, तेनाघटस्यात्मनः पटादेश्चापोहनं क्रियते निषेधनरूपम्, तदेव व्यपोहनमाश्रित्य तस्य घटस्य निश्चयनमुच्यते घट एव इति, एवार्थस्य सम्भाव्यमानापरवस्तुनिषेधरूपत्वात्, एष एव परितश्छेदात्तक्षणकल्पात् परिच्छेदः, हीति - यत एवम्, तस्मात् युक्तं द्वयाक्षेपी विकल्पः इति पूर्वश्लोकोक्तेन [तस्माद्युक्तं द्वयाक्षेपी विकल्प इति पूर्वश्लोकोक्ते वस्तुद्वये श्लोकद्वयेन हेतू क्रमेणोक्तौ - क्। ष्। ष्।] वस्तुद्वयेन हेतू क्रमेणोक्तौ यस्मादेवं विकल्पः
एव पूर्णः, तेन - विश्वशरीरेण घटेन, न कश्चिद् व्यवहारः सङ्कीर्णतया स्फुरणात् न कोपि व्यवहारः सम्भवतीत्यर्थः । तर्हि कथं तेन व्यवहार इत्यत आह तत् इति । मायाव्यापारम् - भेदनरूपं मायातत्त्वसम्बन्धिनं व्यापारम् । भावम् - घटरूपम्, तेन - मायाव्यापारोल्लासनेन । आत्मनः - चिन्मात्ररूपात् स्वस्मात्, पटादेश्च
- स्वान्तर्गतादघटाच्च, अपोहनम् । कीदृशम् ? निषेधनरूपम् - निषेधकरणरूपम्, निश्चयनम् - निश्चयकरणम्, सङ्कीर्णतानिवारणेन स्वात्ममात्रे “वस्थापनमिति यावत् । ननु कथं निषेधनं गम्यते घट एवायमित्येतन्मात्रमेव तत्र स्फुरतीत्यत आह घट एव इति । एवार्थस्य, एवशब्दार्थस्येत्यर्थः । अपरवस्तु - अघटरूपं वस्तु । अवधारणं हि फलतोऽन्यनिषेधनमेवेति भावः । ननु तर्हि परिच्छेदः क उच्यत इत्यत आह एष एव इति । एष एव - अपोह एव, परितः - अभितः, परप्रमातुरन्योन्यतश्चेति यावत् । छेदनात् इति स्वयं व्याचष्टे तक्षणात् इति, भेदेन भासनादिति यावत् । हि शब्दाभिप्रायं वक्तुमाह हीति इति । इतिशब्दः शब्दस्वरूपाक्षेपपरः । यतः - यस्मात्, एवम् - एतच्छलोकोक्तं वस्तु, भवति, तस्मात् - ततः, द्वयाक्षेपा इति युक्तम् - प्रथमश्लोकोत्तरार्धप्रोक्तं विकल्पस्य द्वयाक्षपित्वं युक्तं भवति ।
ननु यदि द्वयाक्षेपित्वं प्रत्यनेन हेतुत्वमुक्तं तर्हि पूर्वश्लोकोक्ताभ्यां
ततोऽहमिति शुद्धो विमर्शः न विकल्पः - इति श्लोकत्रये [श्लोकत्रयेण - क्। ष्।
ष्।] महावाक्यार्थः । शाक्यैरपि प्रमातुरेवायं व्यापार उक्तः एकः प्रत्यवमर्शाख्यः इत्यत्र प्रपत्ता,
किं साधितमित्यत आह पूर्व इति । वस्तुद्वयेन - पूर्वार्धोत्तरार्धाभ्यामुक्तेन वस्तुद्वितयेन, हेतू - हेतुद्वयम्, क्रमेणोक्तौ इति । तत्र द्वितीयश्लोकपूर्वार्धेन प्रथम्श्लोकोक्तं नासौ विकल्पः इत्येतत्प्रति हेतुत्वमुक्तम्, उत्तराधन तु तत्रैवोक्तं प्रत्यवमर्श इति प्रति हेतुत्वम् । यद्यपि तत्र प्रत्यवमर्श इत्यस्यानन्तरम् एव शब्दप्रयोगो नास्ति तथापि सर्वं वाक्यं सावधारणमिति न्यायमाश्रित्यैवमुक्तम् ।
अस्य श्लोकस्य शृङ्खलाबन्धेन परस्परसम्बद्धार्थमाह यस्मादेवम् इति । यस्मादेवम् हि शब्दत्रयाक्षिप्तं वस्तु भवति ततः कारणात् । अहमिति - अहमित्येतद्वस्तु । शुद्धो विमर्शः भवति, विमर्श एव भवतीति यावत । न विकल्पः, द्वयकल्पनामिश्रो विकल्पः सर्वो भवतीत्यर्थः, इति - एवम्, श्लोकत्रये - श्लोकानां त्रितये, महावाक्यार्थः - गर्भीकृतावान्तरवाक्यसमूहस्य परमवाक्यस्यार्थो भवति । अत्र चायं विभागः । प्रथमश्लोकोक्तः कुतो न विकल्प [कुतो विकल्प इत्यपेक्षायाम् - च्।] इत्यपेक्षायां स ह्युक्तः इत्यादिना हेतुकथनम् । भवतु विकल्पो द्वयाक्षेपी विनिश्चयः, किम् तेन प्रत्यवमर्शस्य प्रत्यवमर्शैकरूपता विकल्पतानिषेधश्चेत्यपेक्षायामेकेनैव हेतुद्योतकेन हिना पूर्वार्धापरार्धगतहेतुद्वयकथनम् । तत्र पूर्वार्धेन विकल्पतानिषेधं प्रति हेतुरुक्तः, यत्र द्वयं सम्भवति तत्रैव विकल्पता यथा घटविमर्शे, अत्र तु तथा नेति व्यतिरेकद्वारेण । उत्तरार्धेन तु प्रत्यवमर्शैकरूपतां प्रति, यतोऽत्र द्वयग्रहणं सम्भवति ततोत्र प्रत्यवमर्शतामात्रत्वमेवेत्यन्वयेनैव । अत्रापि पूर्वार्धे कथं द्वयोर्ग्रहणमत्र सम्भवतीत्यपेक्षायां तृतीयेन श्लोकेन हेतुकथनरीत्या समर्थनम् । परमार्थतस्तु प्रथमश्लोकोक्तवस्तुन एव साधनमिति स्फुटमेव श्लोकत्रयस्य सम्बद्धार्थत्वम् । ननु शाक्या एतन्न सहन्ते इत्यत आह शाक्यैरपि इति । अयं व्यापारः -
इति स्वयम् इति च वदद्भिः, स त्वेतैः कथं समर्थ्यः - इत्यास्तामेतत् ॥ ३ ॥
नन्वेवमहमित्यपि प्रत्यवमर्शेऽनहंरूपस्य घटादेः प्रतियोगिनोऽपोहनीयस्यापोहे विकल्परूपता कथं न स्यात् इत्याशयेनाह :-
चित्तत्त्वं मायया हित्वा भिन्न एवावभाति यः ।
देहे बुद्धावथ प्राणे कल्पिते नभसीव वा ॥ ४ ॥
विमर्शाख्यो व्यापारः । शाक्यैः कीदृशैः ? । एकः प्रत्यवमशाख्यः इत्यत्र अस्मिन् श्लोके प्रपत्ता इति स्वयम् इति च वदद्भिः - कथयद्भिः । एतेन पदद्वयेनैवास्यार्थस्य तैः प्रमातृव्यापारत्वमुक्तमिति भावः । तथा चैवमयं श्लोक :-
एकः प्रत्यवमर्शाख्यो ज्ञान एकत्र हि स्थितः ।
प्रपत्ता तदतद्रूपान् भावान् विभजते स्वयम् ॥
इति । अत्रायमर्थः । हि - यस्मात्, एकत्र ज्ञाने - ज्ञानक्षणे, एकः प्रत्यवमर्शाख्यः - प्रत्यवमर्श इति नामधेयः, प्रकृतत्वाद् व्यापारः, स्थितो भवति, ततः कारणात् प्रपत्ता - प्रमाता, तदतद्रूपान् भावान् - पदार्थान्, स्वकाले स्थितान् भावक्षणान् इति यावत्, स्वयं विभजते - निश्चेयापोह्यत्वाभ्यां विभागविषयीकरोति । तत्र तद्रूपाणां निश्चेयत्वेन स्थापनम् अतद्रूपाणां तु अपोह्यतयेति । अत्र च प्रपत्तेत्यनेन प्रमातुः कथनम्, स्वयमित्यनेन विभजनरूपस्य प्रत्यवमर्शस्य तत्सम्बन्धित्वं विभजनस्य च प्रत्यवमर्शत्वं स्फुटमेवेति युक्तमुक्तं प्रपत्तेति स्वयमिति चेति । ननु तर्हि शाक्यदर्शनस्यापि शैवनयसमानत्वमेवापतितमित्यत आह सः इति । सः - प्रत्यवमर्शः, एतैः - शाक्यैः, कथं समर्थ्यः - समर्थयितुं योग्यो भवति, तत्समर्थकस्य प्रमातृनित्यत्वस्यानङ्गीकारान्न समर्थ्य इति भावः । ननु तर्ह्यत्र भरः कार्य इत्यत आह इति इति । इति एतत् आस्ताम्, अप्रकृतत्वेन प्रपञ्चानर्हत्वादिति भावः । अयमत्र सङ्क्षेपः । हि - यस्मात्, तदतत्प्रतिभाभाजा - स्वान्तःकृतभावराशित्वेन घटाघटादिज्ञानसेविना, मात्रा - प्रमात्रैव, अतद्व्यपोहनात् - अघटव्यवच्छेदनाद्धेतोः, तन्निश्चयनम् - घटनिश्चयनं कर्म, पण्डितैः, कर्तृभिः अयं घटः इति विकल्पः उक्तः, अतो द्वयग्रहणमत्र सम्भवत्येव येन पूर्वोक्तवस्तुनः सम्भव इति भावः । मात्रा इति कर्तरि तृतीया ॥ ३ ॥
प्रमातृत्वेनाहमिति विमर्शोऽन्यव्यपोहनात् ।
विकल्प एव स परप्रतियोग्यवभासजः ॥ ५ ॥
अहमित्यवमर्शो द्विधा - शुद्धो मायीयश्च, तत्र शुद्धो यः संविन्मात्रे विश्वाभिन्ने विश्वच्छायाच्छुरिताच्छात्मनि [विश्वच्छायाच्छुरितस्वच्छात्मनि - क्। ष्। ष्।] वा । अशुद्धस्तु वेद्यरूपे शरीरादौ । तत्र शुद्धेऽहम्प्रत्यवमर्शे प्रतियोगी न कश्चिदपोहितव्यः सम्भवति घटादेरपि
अथ चतुर्थस्य पञ्चमस्य च श्लोकस्यावतरणिकां करोति नन्वेवम् इति ।
अत्र टीका :-
प्रतियोगिनः - विरुद्धत्वेन प्रतिस्पर्धिभूतस्य [प्रति अस्य विभूतस्य - च्।] इत्याशयेन - इत्यभिप्रायेण, एतमेवाभिप्रायं मनसि कृत्वेति यावत् ।
एवमवतरणिकां कृत्वा श्लोकद्वयमुपन्यस्य व्याचष्टे । चित्तत्त्वम् इति ।
अत्र टीका :-
श्लोकद्वयस्य तात्पर्यार्थं वक्तुं प्रक्रियां करोति अहम् इति ।
द्विधात्वं विभज्य कथयति शुद्धः इति । तत्र शुद्धविषयं कथयति संवित् इति । मात्रचा संवेद्योपरागनिरासः । एतेन शिवतत्त्वस्य ग्रहणम् ।
शुद्धाशुद्धविमर्शविषयाणां सदाशिवादीनामप्यत्रैव समुच्चयेन विषयत्वं कथयति विश्वच्छाया इति । विश्वस्य - इदन्ताग्रहणयोग्यस्य वेद्यराशेः, या छाया - प्रतिबिम्बः, तेन छुरितः - स्तोकं रूषितः यः अच्छात्मा - श्रीसदाशिवादिरूप आत्मा तस्मिन् । यद्यप्येतदर्थं शुद्धाशुद्धस्यापि विमर्शस्य कथनं युक्तं तथापि विस्तरभयान्न कृतम्, शुद्धस्यैव प्रकारत्वेनास्य सूचनामुत्तरश्लोकावतरणिकायां करिष्यति । अशुद्धस्य विषयमाह वेद्य इति । आदिशब्देन प्राणादेर्ग्रहणम् ।
तत्र शुद्धस्य विकल्परूपतां निवारयति तत्र इति । तत्र, शुधाशुद्धविमर्शमध्य इत्यर्थः । प्रतियोगी - समकक्ष्यतया प्रतिस्पर्धी । अप्रतियोगित्वेन - प्रागिवार्थः इति न्यायागतप्रकाशरूपताकृतेन प्रतियोगित्वाभावेन । अपि शब्देन देहादिप्रमातॄणामत्र प्रतियोगित्वे कथैव
प्रकाशसारत्वेनाप्रतियोगित्वेनानपोह्यत्वात्, इत्यपोह्याभावे [इत्यपोह्यत्वाभावे - क्। ष्। ष्।] कथं तत्र विकल्परूपता । अशुद्धस्तु वेद्यरूपे शरीरादौ अन्यस्माद् देहादेर्घटादेश्च व्यवच्छेदेन भवन् विकल्प एव - इति वाक्यार्थः । अक्षरार्थस्तु - चित्तत्त्वं प्रकाशमात्ररूपं हित्वा सदप्यपहस्तनया अप्रधानीकृत्य भिन्ने देहादावहमेव देहादिः नीलादौ प्रमेये प्रमाता - इत्यभिमानेन योऽहं स्थूलः इत्यादि - विमर्शः स विकल्प एव न तु शुद्धं प्रत्यवमर्शमात्रम् । अत्र हेतुः - परो
नास्तीति सूचितम् । ननु ततः किमित्यत आह इति इति । इत्यापोह्याभावे, एवमपोह्याभावे सतीत्यर्थः । तत्र - शुद्धे प्रकाशे । अशुद्धस्य विकल्परूपत्वं साधयति अशुद्धस्तु इति । प्रमातॄणां परस्परं स्थितमपोह्यत्वमभिप्रेत्याह देहादेः इति । प्रमेयमपेक्ष्याह घटादेश्च इति । व्यवच्छेदेन - अपोहेन । वाक्यार्थः - तात्पर्यार्थः ।
पदार्थकथनं प्रतिजानीते अक्षरार्थः इति ।
पदानामप्यवयवभावेनार्थकथनमभिप्रेत्याक्षरशब्दग्रहणम् । तु शब्दो यथा - शब्दार्थे व्यतिरेके च । चित्तत्त्वम् इति पदं व्याचष्टे प्रकाशमात्र इति । तत्र चिच्छब्दस्य प्रकाशमात्रपदेन व्याख्या, रूपपदेन तु तत्त्वपदस्य । हित्वा इति पदं व्याचष्टे सदपि इति ।
अपहस्तनया - वक्ष्यमाणेन मायाकृतेन प्रच्छादनेन ।
अप्रधानीकृत्य - कल्पितप्रमातृधर्मतया विभाव्य, देहादिनिष्ठो हि ज्ञानं देहादिगुणत्वेनैवाभिमन्यते । भिन्ने - परस्परं घटाद्यपेक्षया च समकक्ष्ये, प्रतियोगितया स्थिते इति यावत् ।
अहमेवेत्यभिमानेन - एवं रूपेणाभिमानेन, नीलादौ प्रमेये प्रमाता, प्रमातृत्वेन स्थित इत्यर्थः । स्थूलः इत्यादि इति ।
आदिशब्देनाहं पिपासायुक्त इत्यादेर्ग्रहणम् । अत्र हेतु कथयन् द्वितीयश्लोकचर्तुर्थपादस्यावतरणिकां करोति अत्र इति । द्वितीयश्लोकस्य चतुर्थपादं व्याचष्टे परः इति । पर इत्यवयवं व्याचष्टे द्वितीयः इति ।
प्रतियोगि पदं व्याचष्टे तुल्य इति । प्रतियोगितासाधनार्थं विरुद्धतां साधयति अन्योन्य इति । अन्योन्यं यः परिहारः - व्यवच्छेदेन अवस्थानं
द्वितीयो देहादिर्घटादिश्च यः प्रतियोगी तुल्यकक्ष्योऽन्योन्यपरिहाराच्च विरुद्धस्तस्य योऽवभासः - समारोपणलक्षणः, तस्माद्यतोऽसावतन्निषेधानुप्राणितोऽहमित्यवमर्शो [तन्निषेधानुप्राणितः - क्। ष्। ष्।] जातः अहं स्थूलः, न कृशः, न घटादिः इति, शुद्धप्रकाशरूपस्य अपहस्तनैव [अपहस्तनमेव - क्। ष्। ष्।] देहादेर्भेदहेतुः [भेदे हेतुः - क्। ष्। ष्।], तदपहस्तने तु परमेश्वरस्य स्वात्मप्रच्छादनेच्छारूपाऽभेदाप्रकाशनं भ्रान्तिरूपं प्रति स्वातन्त्र्यरूपा
तस्मात् । अवभास इत्यवयवं व्याचष्टे समारोपण इति ।
अन्यत्रान्यारोपणरूपं ज्ञानमित्यर्थः । अवभासपदस्य पञ्चम्यन्ततया विग्रहं करोति तस्मात् इति । अतन्निषेधेन अनुप्राणितः - उत्थापितः अतन्निषेधानुप्राणितः डप्रत्ययान्तजनिरूपस्य जः इत्यस्यार्थमाह जातः इति । एतेनास्य हेतुगर्भविशेषणत्वं द्योतितम् । एतं विकल्पमनुसृत्य दर्शयति अहम् इति । एतच्चोपलक्षणं प्राणादिपरामर्शस्य । सामान्येन व्याख्यातमपि देहे बुद्धौ इत्यादि प्रथमश्लोकोत्तरार्धं विशेषतो व्याख्यातुं प्रक्रियां करोति शुद्ध इति ।
शुद्धप्रकाशरूपस्य इति भावप्रधानो निर्देशः, तेन शुद्धप्रकाशरूपत्वस्येत्यर्थः । अपहस्तनैव - मायाकृतं प्रच्छादनमात्रम् । देहादेः इति । आदिशब्देन प्राणादेर्ग्रहणम् ।
भेदहेतुः - भेदकारणम् । एव इति, नान्यत्किञ्चिदित्यर्थः । देहादिर्हि जाड्यादेव परमप्रकाशाद् भेदेन स्फुरतीति भावः । ननु तस्यापहस्तनस्य को हेतुरित्यत आह तदपहस्तने इति । तुः व्यतिरेके ।
तदपहस्तने - प्रकाशरूपत्वस्यापहस्तने, परमेश्वरस्य - महास्वातन्त्र्ययुक्तस्य महेश्वरस्य, मायाशक्तिर्हेतुर्भवति ।
मायाशक्तिः कीदृशी ? स्वात्मनः - प्रकाशरूपस्य, यत्प्रच्छादनम् - प्रत्युत जडदेहादिभावेन दर्शनं मितप्रमातृन् प्रति, तस्य या इच्छा सैव रूपं यस्यास्तादृशी, न तु धरादितत्त्ववद् बहिः प्रधानतया स्थितेति भावः । पुनः कीदृशी ? भ्रान्तिरूपम् - न तु परमार्थतया स्थितम्, अभेदाप्रकाशनं
मायाशक्तिर्हेतुः, चिद्रूपस्य चापहस्तनं देहादेरेव अत्यक्तवेद्यभावस्य भिन्नस्यैव उपपत्तिशून्यतयैव प्रमातृत्वाभिमानः [प्रमातृताभिमानः - क्। ष्। ष्।] । तथा च देहाभिमानभूमिकायां स्थिताश्चार्वाकाः चैतन्यविशिष्टः कायः पुरुषः इति कायमेव
प्रति स्वाततन्त्र्यरूपा, स्वातन्त्र्यमिति यावत् । ननु तच्छुद्धप्रकाशस्यापहस्तनं किमुच्यत इत्यत आह चिद्रूपस्य इति ।
उपपत्तिशून्यतया - उपपत्तिराहित्येन, प्रमातृत्वाभिमानः - अहं प्रमातेत्यभिमानः । यद्यपि तदवच्छिन्नस्य प्रकाशांशस्यैव सः परमार्थतोऽस्ति तथापि भेदकृतां तदस्फूर्तिमपेक्ष्यैवमुक्तम् । अत्र मतभेदमाश्रित्य समर्थनं प्रक्रमते तथा च इति । देहाभिमानरूपा या भूमिका - कक्ष्या तत्र देहाभिमानभूमिकायाम् स्थिताः चार्वाकाः - लौकायतिकाः, कायमेव - पाञ्चभौतिकं देहमेव, प्राधान्येन - प्रधानतया, विश्रान्तिस्थानभूत - परमात्मरूपतयेति यावत् कथम् ? इति । इति किमिति ? चैतन्यविशिष्टः - भूम्यन्तर्गतमद्यमदशक्तिन्यायेन संयोगशक्तिप्राप्तचैतन्यभूतपञ्चकमयत्वेन चैतन्ययुक्तः, काय पुरुषः - आत्मा भवति । तथा च श्रुतिः :-
स वा एष पुरुषोऽन्नरसमयः
इति । न त्वेतदन्तर्गत एतद्व्यतिरिक्तो मीमांसकाद्यभिमतः परलोकी अन्यः कायीति भावः । तथा च कायमात्रार्थमेव यत्नं कुर्यात्, न तु परलोकशङ्कया कायस्य तपःप्रभतिना खेदो देयः । यदुक्तम् :-
यावज्जीवं सुखं जीवेन्नास्ति मृत्युरगोचरः ।
भस्मीभूतस्य शान्तस्य पुनरागमनं कुतः ॥
इति । इत्यादि ते कथयन्ति । ननु
प्रज्ञापौरुषहीनानां जीविकेति बृहस्पतिः
इत्युक्तेर्ज्ञायते बृहस्पतिनैव तन्मतमुक्तम्, वेदेप्यस्य मतस्य प्रामाण्यं दृश्यत ए तथा च श्रुतिः :-
न प्रेत्य सञ्ज्ञास्ति
इति । एतया परलोकाभाव एव फलतः उक्तः । मृतस्य चेतनासम्भवे परलोकः सिद्ध्यति नान्यथा, तत्कथमस्य मतस्य सर्व एव दुष्टत्वं कथयन्ति । सत्यम् । प्रथमं तावदन्ये कथयन्ति कलौ पापिप्रवृत्त्यर्थमेतन्मतं सम्पन्नमिति तत्तु नास्मन्मन आवर्जयति ।
यतोऽस्माकमयं निश्चयः, लौकिकास्तावद्देहोपयोगिबाह्यवस्तुनिष्ठा एव सन्तो देहमपि तत्साधनार्थं खेदयन्त्येव धनार्जनाद्यर्थं ताडनादिसहनात् । ननु देहार्थमेव ते तत्सहन्ते, सत्यम् । तद्धनमानीय लोकप्रसिद्ध्या विषय एव ते व्ययीकुर्वन्ति न तु भोगमात्रमेव साधयन्ति इति ज्ञायते तेषामयं देहोऽपि विस्मृतिमेव गत इति । ततस्ते नानापदार्थेष्वेव रताः ममतातिशयद्वारेण चात्रैवात्मभ्रान्तिं सेवमानाः यथा देहमेव तेभ्यः आन्तरतया स्थितमात्मतया जानीयुः । तत्र सम्यक् स्थिताश्च शनैः शनैस्ततोप्यन्तराविशन्त्येवेति चार्वाकमतस्यापि परोपकारनिष्ठत्वमेव, अन्यथा दर्शनत्वायोगात् । सर्वाणि दर्शनानि हि परोपकारार्थमेव काञ्चित्काञ्चिद्भूमिकां दृढीकुर्वन्ति, अन्यथा परपददर्शिनां तेषामवान्तरनिष्ठता न युक्ता । नन्वन्ये कथयन्ति ते तत्पदं न प्रविष्टा इत्यवान्तरे एव लग्नाः, सत्यम् । यत्रातिसामान्यजनाः प्राप्तास्तत्र ते दर्शनकारा न सम्प्राप्ता इत्यसम्भावनीयमिदम् । यथा राजा मार्गमध्येऽध्वगार्थं गृहादि कुर्वन् न तत्रैव विश्रान्त इति वक्तुं युक्तोऽन्यत्रोत्तमस्य स्वगृहस्य स्थितत्वात्, एवमत्रापीति यत्किञ्चिदेतत् ।
तत्र ममताविषयवस्तुमध्येऽपि पुत्रविषया ममताऽऽन्तयव, वेदे
आत्मा वै जायते पुत्रः
इति श्रवणात्, पुत्रार्थं च धनादि पुरुषः निर्विचारं व्ययीकरोत्येव, तत्र प्रेम्णैव तस्य तथा प्रवृत्तिरन्यत्र तु लोकप्रसिद्ध्या, प्रेम एव चान्तरताप्राप्तौ परमात्मरूपम्, आनन्दस्वरूपत्वात्, तदुक्तम् :-
प्रेमैव परमं ब्रह्म
प्राधान्येनाहुः । स्त्रीबालमूर्खाणां तथाभिमानात् ततोऽपि विवेकयुक्ताः [विवेकवन्तः - क्। ष्। ष्।] पाकजोत्पत्तिपरिणामादिबलादस्थिरं शरीरं मन्वानाः प्राणशक्तिसमधिष्ठानेन च विना विकारशतावेशं शरीरस्य पश्यन्तो बुभुक्षापिपासायोगयोग्यं प्राणमेवात्मानं केचन श्रुत्यन्तविदोमन्यते । ततोऽपि समधिकविवेकभाजः प्राणस्यापि अनित्यत्वादनुसन्धानयोग्यतामपश्यन्तो ज्ञानसुखाद्याश्रयभूतां
इति । यच्च शास्त्रे स्नेहहस्य रागत्वमेव कथयन्ति तत् अविषयप्रवृत्तेरेव [तदविषयप्रवृत्तेव - च्।] न तु स्वरूपतः । अतश्च धनादिस्नेहयुक्ताश्चेदतिमूढा एव, पुत्रस्नेहयुक्ता देहस्नेहरहितास्तथा । परमार्थतस्तु इदं प्रेम यथा यथाऽऽन्तरवस्तुविषयीभवति तथा तथा शिवमेव, प्रेम्णः परनिष्ठाप्राप्तिस्तु परमान्दीभाव एव, स एव च परमात्मलाभः । यस्तु सर्वथा स्नेहरहितः सोत्रोपदेशऽयोग्य एव ।
सर्वथा तद्रहितत्वं च कुत्रापि न सम्भवत्येव, परमपदार्थमात्रस्नेहस्यैवास्नेहकथनम् [परं पदार्थ - च्।] ।
अयमेवाशयः सर्ववादिविषये योज्यः, न पुनः पुनरायस्यते, इत्यलं प्रपञ्चेन । प्रकृतमनुसरामः । अतो विशिष्टस्य चार्वाकस्य मतं कथयति स्त्रीबाल इति । तथाभिमानात् - देहात्माभिमानात् । यद्यप्येषामयं सम्यक् नास्ति तथाप्यस्फुटतयाऽस्तीति सिद्धतया कथनम् । अस्माद्धेतोः ततोऽपि - तेभ्यश्चार्वाकेभ्योऽपि विवेकयुक्ताः, एतन्निश्चयस्य स्त्रीबालाद्यविषयत्वादिति भावः । पाकजानाम् - तार्किकोक्तपिठरपाकपीलुपाकजातानां रूपादीनां यत् उत्पत्तिपरिणामादि - मतभेदेनोत्पत्तिपरिणामामादिकम्, तस्य बलात्, शरीरमस्थिरं मन्वानाः - ज्ञातवन्तः, प्राणशक्तेर्यत्समधिष्ठानम् - प्रेरकतयाऽन्तरवस्थानम्, तेन, विकारशतावेशम् - स्तम्भादिरूपविकारशतग्रस्तत्वम्, श्रुत्यन्तविदः - वेदान्तविदः, लक्षणया, अन्योऽन्तर आत्मा प्राणमयः इत्यादिवेदवाक्यनिष्ठाः चार्वाकाः, मन्यते, त एव जानते न तु तथा सम्भवतीति भावः । अनुसन्धानयोग्यताम् - परामर्शप्राणयोजनायोग्यताम् । प्राणस्य चात्र
बुद्धिमेव काणादप्रभृतय आत्मानमाहुः । अपरे तु तस्या अपि योगिदशायां वेद्यभावादपरत्वं मन्यमानाः असंवेद्यपर्वरूपं यन्न किञ्चिद्रूपं सकलवेद्यराशिविनिर्मुक्तं शून्यत्वान्नभस्तुल्यं न तु महाभूताकाशस्वभावं तत्
स्थूलत्वसूक्ष्मत्वभेदेन द्वैविध्यम् । तत्र प्रथमस्य भेदस्य देहादूर्ध्वमेव स्थितिः । द्वितीयस्य तु बुद्धेरुर्ध्वमिति कदाचिच्छून्यादनन्तरं कदाचिद्देहादनन्तरं स्थितः प्राणनिर्देशः न पूर्वापरविरोधावहः । बुद्धिमेव - विज्ञानरूपं बुद्धितत्त्वमेव ।
काणादप्रभृतयः इति, प्रभृतिशब्दान्नैय्यायिकविज्ञानवादिबौद्धादिग्रहणम्, तदुक्तम् :-
आत्मा विज्ञानमयः
इति । यद्यपि बुद्धिगुणयुक्तस्य तैरात्मत्वमुक्तं तथापि क्रियाक्रियावतोरभेदमाश्रित्यैवमुक्तम् । शून्यवादिमतमाह अपरे तु इति ।
अपरे, कर्तारः । तस्या अपि - बुद्धेरपि । योगिदशायाम् - योग्यवस्थायाम् ।
योगी हि अन्तःप्रविष्टः बद्धिमपि देहवदेव पश्यति । वेद्यभावादप रत्वम् - न्यूनत्वम्, मन्यमानाः सन्तः, तत्प्रमातृतत्त्वम् अर्थादात्मानम् आहुः । कीदृशम् ? सकलो यो वेद्यराशिः तस्मान्निर्मुक्तम्, तान्प्रति वेदकत्वात्, अन्यथा प्रमातृत्वायोगात्, तथा शून्यत्वान्नभस्तुल्यम् आकाशसदृशं न तु महाभूताकाशस्वभावम्, तस्य शून्यवादिबौद्धैरात्मत्वाङ्गीकरणात् । तत्किम् ? असंवेद्यपर्व - असंवेद्यम्, रूपम् - स्वरूपं यस्य तादृशम्, यन्न किञ्चिद्रूपम् - अतिसूक्ष्मत्वेन ग्रहणायोगात् परिमितत्वायोगाच्च किञ्चिन्न भवति, न तु लौकिकाभावरूपं भवति जगद्भावेन स्फुरणासम्भवप्रसङ्गात्, तदुक्तम् :-
अशून्यं शून्यमित्युक्तं शून्यञ्चाभाव उच्यते ।
अभावः स समादिष्टो यत्र भावाः क्षयं गताः ॥
इति । तथा :-
अशून्यमिव यच्छून्यम्
प्रमातृतत्त्वं [माहाभूताकाशस्वभावं प्रमातृतत्त्वम् - क्। ष्। ष्।] शून्यं ब्रह्मवादिनः साङ्ख्यप्रभृतय आहुः । तस्मिन्नपि वेद्ये शून्यान्तरं तत्रापि शून्यान्तरम् - इति यावद्भेदः तावत्कल्पना न त्रुट्यतीति [न त्रुट्यति तदर्थमाह - क्। ष्। ष्।] तदर्थमाह कल्पिते इति । न चानवस्था परमार्थप्रकाशबलेन यतः
इति । एतच्चेह श्रीशैवनये शुद्धविद्यातत्त्वमेव । अत्रैव हि वेदान्तिप्रभृतयो निष्ठिताः, परमोत्कर्षस्तेषां सदाशिवदशा । अपरे इत्यस्य प्रपञ्चं करोति शून्य इति । शून्यब्रह्मवादिनः - विमर्शशक्तिरहितचिन्मात्राख्यब्रह्मतत्त्वनिष्ठाः वेदान्तिनः, साङ्ख्याः - साङ्ख्यशास्त्ररताः, प्रभृतिशब्देन पातञ्जलग्रहणम् ।
तत्र ब्रह्मवादिनामद्वैते विश्रान्तिः साङ्ख्यादीनां तु द्वैते एव, ब्रह्मवाद्यद्वैतञ्चाद्वैताभास [ब्रह्मवादिद्वैतं य - च्।] एव विश्वोत्तीर्णस्यैव सर्वत्वकथनात् । अद्वैतं हि परमार्थरूपं तद् भवति यत्र सर्वं तथैव स्थितं सत् एकतया भाति द्वैतञ्चाद्वतञ्चान्तः करोतीत्यास्तामेतदवान्तरम् । प्रकृतमनुसरामः । कल्पिते इत्यस्याभिप्रायमाह तस्मिन् इति । तस्मिन्नपि - देहादावपि, वेद्ये - परिमितत्वेन वेद्यत्वानपायात् स्वतो बाह्यं प्रति वेदकत्वेऽपि स्वत आन्तरं प्रति वेद्यत्वाख्यगुणयुक्ते सति, शून्यान्ताम् - न किञ्चिद्रूपं प्रमात्रन्तरम्, अपेक्षत इति शेषः, तत्रापि शून्यान्तरम्, समानन्यायात्, इति - एवम्, यावद् भेदः - परिमितप्रमात्रङ्गीकारकृतो भेदो भवति, तावत्कल्पना न त्रुट्यति, इति - अतः, तदर्थम् - कल्पनात्रोटनार्थम्, आह - कथयति, कल्पिते इति, एत्पदमित्यर्थः, कल्पनात्रोटनार्थमेवायं प्रमातृप्रप्रपञ्चः कृत इति न पुनः कल्पनायां प्रयोजनमिति भावः ।
एतेन नभसि इत्येतस्यैव कल्पिते इति विशेषणम्, न तु देहादेः अस्य अज्ञं प्रति स्फुटं बहिः स्थितत्वात्, तस्य तु प्रतिभया कल्प्यमानत्वादिति सूचितम् । ननु तथाप्यनवस्था स्यादेवेत्यत आह न च इति । कुतो नानवस्थेत्यत आह परमार्थ इति । अयं भावः । देहादिद्वारेण प्रकाश एव ग्रहणं करोतीति तद्वलेनैवैषां ग्राहकत्वं सिद्धम् ।
सर्वस्य प्रकाशो न तु देहादिवशात्, तथा त्वभिमानमात्रं [तथात्वाभिमानमात्रम् - क्। ष्। ष्।] देहः [देहादिः - क्। ष्। ष्।] प्रमातेति, सङ्कोचमात्ररूपं चित्तत्त्वं शून्यम्, भूतलं यथा घटाभावः, सङ्कोचोपरिवेद्यांशच्छायाच्छुरितं [सङ्कोचः ।
अपरवेद्यांशच्छायाच्छुरितम् - क्। ष्। ष्।] तु चित्तत्त्वमेव बुद्धिप्राणदेहादि इति । अमी एव भूमि -
तत्र च देहादीनां बहिरज्ञं प्रति स्फुटं स्थितत्वादेकस्यैवास्य प्रमातृतत्त्वस्य कल्पनात्रोटनार्थं कल्पितत्वम् । उपदेश्यस्य तावत् परमार्थप्रकाशानभिज्ञत्वात् अत्रैव च तत्कथनेऽधिकाराभावात् परप्रकाशस्थाने तावदस्यैवाभिषेको दीयते नीचजनार्थं राजस्थान इव राजभृत्यस्य । अत्र निष्ठितस्तु स्वयमेव योग्यतासादनेन तत्परप्रकाशस्वरूपं ज्ञास्यत्येवेत्यलं प्रपञ्चेन । एतेन फलितं वस्तु कथयति तथा इति । तथा तु - तथा च सति, देहः प्रमाता भवति, इति - एतत्, अभिमानमात्रं भवति न तु सत्यवस्तु भवति । ननु कथं नभसः प्रमातृत्वं युक्तमिति शिष्याभिप्रायमाशङ्याह सङ्कोच इति ।
सङ्कोचमात्रम् - स्वकीयाप्रसृतिमात्रम्, न त्वभावासादनम् रूपं यस्य तादृशम्, चित्तत्त्वम् - चितः स्वरूपम्, शून्यं भवति, यथा सूर्यमण्डलात्पतितं भूमण्डलं तावदप्राप्तं तेज इति भावः । अत्र दृष्टान्तं स्फुटतयाप्याह भूतलम् इति । यथा सङ्कोचमात्ररूपं भूतलं घटाभावो भवति घटास्पृष्टस्य भूतलस्यैव तार्किकैरपि घटाभावत्वकथनात् । ननु देहादित्वमस्य कथं सम्भवतीत्यत आह सङ्कोचोपरि इति । सङ्कोचोपरि - प्रोक्तस्वरूपसङ्कोचपृष्ठे, या वेद्यांशच्छाया - स्वयङ्कल्पितबाह्यान्तरवेद्यप्रतिबिम्बम्, तयाच्छुरितम् - व्याप्तं यच्चित्तत्त्वम् - [व्याप्तं तु चित्तत्त्वम् - च्।] चित्स्वरूपम्, बुद्धिप्राणादि भवति । आदिशब्देन छायाधापिवेद्यग्रहणम् । एतेषां देहादीनां भूमिकात्वं नानाशास्त्रेषु प्रोक्तं नामभेदादि च कथयति अमो इति । अमो एव - देहादयः, उत्तरोत्तरम् - क्रमेण, योगपुष्टतासादनेन आरोहताम् - पूर्वस्य पूर्वस्य वेद्यभावापादनेनोत्तरमुत्तरं
काविशेषा उत्तरोत्तरमारोहतां योगिनां जाग्रदादितया पिण्डस्थादितया चागमेषु भण्यन्ते, अपहस्तनं च व्याख्यास्यते :-
कलोद्वलितमेतच्च चित्तत्त्वं कर्तृतामयम् । अचिद्रूपस्य शून्यादेर्मितं गुणतया स्थितम् ॥
स्वरूपत्वेनाश्रितवताम्, योगिनाम् - कोशतत्त्वविवेकाख्ययोगयुक्तानां पुरुषाणाम्, भूमिका विशेषाः भवन्ति । तथा आगमेषु - नानाविधेषु श्रीशिवशासनेषु, जाग्रदादितया - अलौकिकजाग्रत्स्वप्नसुषुप्ततुर्यभावेन, तथा पिण्डस्थादितया - पिण्डस्थपदरूपरूपातीतभावेन च, श्रीशिवेन भण्यन्ते - कथ्यन्ते ।
तत्र देहप्रमातुः जाग्रत्त्वम् इन्द्रियैर्बाह्यार्थग्रहणात्, आरोहश्चात्र बाह्यवद्यापेक्षया ज्ञेयः । अस्यैव चापरिमितभावे शुद्धविद्यात्वं क्रियाप्रधानत्वात् । बुद्धिप्रमातुः स्वप्नत्वम्, आभासरूपवेद्यग्रहणात्, अस्यैव चापरिमितभावे ईश्वरत्वम् । प्राणप्रमातुः सवेद्यसुषुप्तित्वं परिमिते स्वरूपमात्रे स्थितत्वात्, सवेद्यत्वं चास्य सुखसंवेदनात्, अन्यथा सुखमहमस्वाप्समित्यौत्तरकालिकपरामर्शायोगात् ।
अपरिमितभावे तु एतदेव सदाशिवतत्त्वम् ।
शून्यप्रमातुश्चापवेद्यसुषुप्तत्वं नकिञ्चिद्रूप - परिमितप्रमातृरूपत्वात्, अपरिमितभावे त्वस्यैव शिवत्वम् । तत्र च परिमितभावे रूढिं गते योगी स्वयमेव शनैः शनैरपरिमिततामासादयत्येव । तदुक्तम् :-
यदा त्वेकत्र संरूढस्तदा लयोद्भवौ ।
नियच्छन् भोक्तृतामेति ततश्चक्रेश्वरो भवेत् ॥
इति । अयं ह्यत्राभिप्रायः । यदा योगी एकत्र - परिमिते देहादौ, संरूढ :- सम्यक् प्रमातृभावेन स्थितः, तदा तस्यापि - परिमितत्वेकसादितस्य देहस्यापि, लयोद्भवौ नियच्छन् - वेद्यतापादनेन स्वनिर्मितत्वं [सुनिर्मितत्वम् - च्।] जानन् सन्, भोक्तृतामेति - तरयापि परिमितदेहादिपदंस्यापि वेदकतामासादयति, ततः - तदनन्तरं परिपुष्ट्यासादनेन, चक्रेश्वरो भवेत् - शुद्धविद्यादिरूपभेदाभेदाभेदप्रधानापरिमितत्वरूपो [शूद्धविद्यादिरूपभेदभेदाभेदं - च्।] भवेदिति ।
इति, तत्स्थितम् - अशुद्धः अहम् इत्यवमर्शो विकल्प एव ॥ ५ ॥
द्विविधोऽपि चायम् अहं - प्रत्ययो द्विधा -
तत्र जाग्रदादयः प्रसिधाः । पिण्डादेः स्वरूपन्तु :-
पिण्डं कुण्डलिनीशक्तिः पदं हंसः प्रकीर्तितः ।
रूपं चिद्विन्दुरित्युक्तं [रूपं चिद्विन्दुरित्युक्तः - च्।] रूपातीतः परः शिवः ॥
इत्यादिषु प्रदेशेषु निर्णीतम् । अत्र च पिण्डं लक्षणया पिण्डरूपदेहान्तगतः भुजगाकारः अन्त्रविशेषः, कुण्डलिनीशक्तिः - कुण्डलिनीतिप्रसिद्धायाः प्राणशक्ते - स्तदन्तर्गतत्वात् । हंसः - हंसेति शब्दोच्चारणेन प्राणः । तदुक्तम् :-
षट्शतानि दिवा रात्रौ सहस्राण्येकविंशतिः ।
हम्स हंसेत्यमुं मन्त्रं जीवो जपति सर्वदा ॥
इति । जीवशब्देन प्राण एवात्रेष्टः, पदत्वं चाध्वाधारत्वात् । तदुक्तम् :-
अध्वा प्राणे प्रतिष्ठितः
इति । चिद्विन्दुः - विज्ञानरूपः, प्रकाशविप्रुड्रूपत्वञ्चास्य परिच्छिन्नत्वेन मूर्तत्वात्, परः शिवः - अनाश्रितः शिवः, स चात्र शून्यम्, रूपातीतत्वं चास्याग्रह्यत्वात्, परिमितत्वमनपेक्ष्यैवमुक्तम्, अपरिमितरूपातीतस्यैव शिवत्वात्, परिमिततायां तु शून्यप्रमातृत्वादित्यलं प्रपञ्चेन । नन्वपहस्तनं किमुच्यत इत्यत आह अपहस्तनञ्च इति । कुत्र व्याख्यास्यत इत्यत आह कलोद्वलितम् इति । इति शब्दः श्लोकसमाप्तौ । अस्य व्याख्या तत्रैव भविष्यतीतीहि नायस्तम् ।
फलितमर्थं सङ्क्षिप्य कथयति तत् इति । तत् - तस्मात्, स्थितम् - सिद्धम्, अशुद्धः - भेदाख्यमलदूषितदेहादिविषयत्वेनाशुद्धियुक्तः, अहमित्यवमर्शः - अहंविमर्शः, विकल्प एव भवति, न परः पत्यवमर्शो भवतीत्यर्थः ।
अथ षष्ठस्य श्लोकस्यावतरणिकां करोति द्विविधोपि इति ।
अत्र टीका :-
द्विविधोपि च, शुद्धाशुद्धात्मकतया स्थितत्वेन प्रकारद्वययुक्तोपि चेत्यर्थः । तत्रैवं सति चतुष्प्रकारत्वमस्यापद्यत इति भावः । तत्र प्रथमं शुद्धस्य रूपद्वयं कथयति -
अनुभवमात्ररूपश्चानुसन्धानात्मा च, शिवात्मनि अहम् इति सदाशिवात्मनि अहमिदम् इति शुद्धो द्विधा । अशुद्धोऽपि अहं स्थूल इति, योऽहं स्थूलोऽभवं सोऽहं कृश, बालो, युवा, स्थविरः, स एव अहम् इति च अशुद्धो द्विविधः । तत्र शुद्धे विकल्परूपत्वमप्रतिष्ठमेव इत्युक्तम्, अशुद्धे तु अनुभवरूपे विकल्पत्वमुपपादितम्, अशुद्धेऽपि तु अनुसन्धानात्मकतया अभेदस्य प्रस्फुरणात् कश्चिदविकल्पकत्वं शङ्केत तस्य व्यामोहं व्यपोहितुमाह [व्यपोहयितुम् - क्। ष्। ष्।] :-
कादाचित्कावभासे या पूर्वाभासादियोजना ।
संस्कारात् कल्पना प्रोक्ता सापि भिन्नावभासिनि ॥ ६ ॥
देहे इत्यादि वर्तते, कादाचित्कः कदाचिद्भवो [अनियतदेशकालाकारः - क्। ष्।
ष्।] नियतदेशकालाकारोऽवभासो
अनुभव इति । अनुसन्धानात्मा - योजनरूपः । अशुद्धस्यापि भेदद्वयं कथयति अहं स्थूलः इति । तत्र - शुद्धाशुद्धमध्ये । उक्तम् इति, साक्षात्कारक्षणेप्यस्ति इत्यत्र । उपपादितम् - समनन्तरं साधितम् ।
अभेदस्य - योऽहं स्थूलोऽभूवं सोऽहं कृशः इत्यादिप्रत्यभिज्ञारूपस्यैक्यस्य । तस्य - शङ्काग्रस्तस्य, व्यपोहितुम् - छेदयितुम् । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे ।
कादाचित्क इति ।
अत्र टीका :-
देहे बुद्धावथ प्राणे कल्पिते नभसीव वा इत्यस्य पदवृन्दस्येहाप्यनुवर्तनं करोति देहे इति । आदिशब्देन बुद्धौ इत्यादीनां ग्रहणम् । वर्तते, अनुवर्तते इत्यर्थः । देहाद्यन्यपदार्थविशेषणतया कादाचित्क इत्यादि समस्तपदस्य विग्रहं व्याख्यां च करोति कादाचित्कः इति ।
यस्य देहादेः स्वलक्षणरूपस्य, तत्र या पूर्वाभासेन बालादिशरीरावभासेन योजना योऽहं बालः स एवाद्य युवा इत्यनुसन्धानम्, आदि - ग्रहणादुत्तरेण भाविना आभासेन सह योजना स्थविरो भवितास्मि इति, सा योजना सर्वा कल्पना विकल्प एव, न तु शुद्धः प्रत्यवमर्शः । अत्र देहादेर्विशेषणं हेतुत्वाशयेन - यतो भिन्नतावभासित्वमेव [भिन्नावभासित्वम् - क्। ष्। ष्।] देहादेस्तदानीमपि
कादाचित्क इत्यवयवं व्याचष्टे कदाचित् इति । अस्यापि वाच्यमाह नियत इति ।
नियतयोः - नियत्या नियमितयोः, देशकालयोराकारो यस्य तादृशः ।
अवभासः - स्फुरणम्, यस्य देहादेः - देहादिरूपस्य प्रमातुः, स्वलक्षणरूपस्य - अननुयायिस्वरूपस्य, प्रत्येकं भिन्नतया स्थितस्येति यावत् । सप्तम्यर्थं योजयति तत्र इति । तादृशे देहादावित्यर्थः । पूर्व इत्यादि समस्तपदं व्याचष्टे पूर्व इति । पूर्वाभास इत्यवयवं व्याचष्टे बाल इति । आदि शब्देन युवशरीरादिग्रहणम् । योजनामेवानुकृत्य दर्शयति व्याचष्टे च योऽहम् इति । आदिशब्दग्राह्यं वस्तु वक्तुमाह आदि इति । योजनामनुकृत्याह स्थविरः इति । भवितास्मि - अग्रे भविता, ग्राह्यमिति शेषः । सा इति पदं व्याचष्टे योजना इति । अपि शब्दार्थमाह सर्वा इति ।
अपिशब्दः कार्त्स्न्ये । कल्पना इति पदं व्याचष्टे कल्पना इति । सर्वं वाक्यं सावधारणमिति न्यायमाश्रित्य एव शबप्रयोगः । एव शब्दव्यावर्त्यं स्वयमेवाह न तु इति । शुद्धः - कल्पनयाऽमिश्रः, एतेन कल्पनाया अपि प्रत्यवमर्शत्वमस्त्येवेति द्योतितम् । भिन्न इत्यादि समस्तं पदं हेतुगर्भविशेषणत्वेन व्याख्यातुमाह अत्र इति । अत्र, कल्पनात्वे इत्यर्थः । हेतुत्वाशयेन, हेतुत्वसूचनार्थमित्यर्थः । विशेषणान्तर्गतं हेतुत्वं स्फुटीकरोति यतः इति । भिन्नतया - परस्परतः स्वविषयात् परप्रकाशाच्च व्यवच्छेदेन, अवभासित्वम् - अवभासकर्तृत्वमेव न तु शुद्धप्रकाशवत् सर्वानुस्यूतत्वेन स्फुरणम् । तदानीम् -
अविच्छिन्नम्, यदि हि तस्य देहादेः सर्वतः पूर्णत्वम् अवच्छेदहीनत्वं पश्यन् अनुसन्धानम् अहमिदम् इति विदध्यात् तदियं सदाशिवभूः केन विकल्पास्पदत्वेन भण्येत [केन भण्यते - क्। ष्। ष्।] यावताऽविच्छिन्ने एव सोऽनुसन्धिः । भिन्नेपि [भिन्ने हि - क्। ष्। ष्।] कथमनुसन्धानम् इति चेदाह संस्कारात् प्राक्तनानुभवकृतवासनाप्रबोधजस्मृतिवशात् इति यावत्, प्राणे बलाबलवशादनुसन्धिः, बुद्धौ ज्ञानसुखादितारतम्यात्, शून्ये वैतत्यावैतत्ययोगात्, अयमपि विकल्प एव, एवं स
प्रमातृभावग्रहणेऽपि । अपि शब्दः प्रमेयभावग्रहणे भिन्नावभासित्वस्याविच्छिन्नत्वे युक्ततां सूचयति । ननु प्रमातृत्वान्यथानुपपत्त्या भिन्नावभासित्वं विच्छिन्नमेव भवत्वित्यत आह यदि हि इति । पूर्णत्वम् इति, अवच्छेदहीनत्वम् इति अस्य व्याख्या । पश्यन्
-
दर्शनक्रियाकर्ता प्रमाता, अहमिदम् इति, इदं कर्तृ अहमेवास्मि, ममैवैतद्भावेन भानात्, विदध्यात् - कुर्यात्, तत् - तदा, सदाशिवभूः
-
सादाख्यतत्त्वदशा । विकल्पास्पदत्वेन - विकल्पाश्रयत्वेन । केन भण्येत, सर्वस्य स्वान्तर्निगरणात् न कोऽपि वक्तुं शक्नुयादित्यर्थः ।
तद्वक्ष्यति
निमेषोन्तः सदाशिवः
इति । कुतो न भण्येतेत्यत आह यावता इति । सोऽनुसन्धिः - सदाशिवभूः, अत्र शिष्यः प्रश्नयति भिन्नेपि इति । न हि चैत्रस्य स्वस्मिन् मैत्रतानुसन्धानं युक्तमिति भावः । गुरुरुत्तरं कथयति आह इति । किमाहेत्यपेक्षायां सूत्रस्थं संस्कारात् इति पदं योजयति । संस्कारात् इत्येतत्पदं व्याचष्टे प्राक्तन इति । उपचारमाश्रित्येयं व्याख्या । ननु देहे एवं योजना भवतु प्राणे तु सा कथं सम्भवतीत्यत आह प्राणे इति ।
अनुसन्धिः - योजना, प्राणस्यैव बलहेतुत्वादिति भावः । स च योऽहं पूर्वमबलः स एवाद्य बलवान् इत्येवंरूपो ज्ञेयः ।
वैतत्यावैतत्ययोगात् इति, शून्यमातृत्वमेव शनैः शनैर्विततीभवत्
एवायं घटः इति घटाद्यनुसन्धानेऽपि विकल्पत्वं मन्तव्यम्, किन्तु एतासु अनुसन्धानभूमिषु विद्याशक्तिराधिक्येन अचिरद्युतिवद्दीप्यते [अचिरद्युतिवदुद्दिप्यते - क्। ष्। ष्।] इति तासां परपदपरिशीलनप्रथमकल्पाभ्युपायत्वमभ्युपागमन् गुरवः ॥ ६ ॥
परशिवीभवति, तस्य च मध्ये वैतत्यावान्तरवैतत्ययोर्योजना सम्भवत्येवेतिभावः । ननु कथमत्र विकल्पत्वमित्यत आह अयम् इति ।
अयमपि वैतत्यावैतत्यानुसन्धिरपि । बाह्यवस्तुप्रत्यभिज्ञास्वपि विकल्पत्वमतिदिशति एवम् इति । ननु परमार्थतः एकवस्तुविषयासु देहादिप्रमातृविषयकल्पनासु बाह्यवस्तुप्रत्यभिज्ञासु च कथमन्यवस्तुव्यवच्छेदप्राणो विकल्पो युक्त इत्यपेक्षायां पक्षान्तरमाह किन्तु इति । आधिक्येन - विकल्पापेक्षयाऽधिकतया देशकालादिभागभेदस्फूर्त्तावपि आकारस्यैकतया स्फुरणात्, विद्याशक्तिः - भेदान्निर्गता तावदप्राप्ताऽभेदा तदुन्मुखीभूता भेदबीजमायातत्त्वोर्ध्ववर्तिनी शुद्धविद्या । अचिरद्युतिवद्दीप्यते इति, तत्क्षणमेकताबुद्धिस्तत्र स्फुरितापि पुनरपि तस्य वस्तुनोऽन्यभ्यो भेदस्फूर्तेश्चिरं स्थातुं न शक्नोतीति भावः । सा चावस्था दृढीकृताभेदभूमिकानां प्रबुद्धानामेव विषयः नाप्रबुधानाम्, न ह्यचर्वितखण्डस्वादानां लेशतः तत्स्वादोपलब्धिरन्यत्र स्तोकं मधुरेषु वस्तुषु युज्यते, पूर्वज्ञाततत्स्वादानामेवात्रापि तदास्वादपरामर्शे शक्तत्वात्, सुप्रबुद्धानां सर्वदा सर्वत्र महाद्वैतबुद्धियुक्तानामत्रोपेक्षैवेत्यलम् । एतदवष्टम्भेन गुरुपरम्परातः आयातं सम्प्रदायं कथयति इति इति । इति - अतः कारणात्, तासाम् - देहादिप्रमातृविषयाणां योजनानां बाह्यवस्तुविषयाणां च, गुरवः, परपदस्य - परशिवाख्यस्योत्कृष्टस्थानस्य, यत् परिशीलनम् - सिद्धस्य यत्परिचयविषयीकरणं न तु साधनम्, तस्य प्रथमकल्पाभ्युपायत्वम् - प्रथमारम्भकारणत्वम्, अभ्युपागमन् - अङ्गीकृतवन्तः । नानाविधैरुपायैः श्रीभगवदनुग्रहेण वा लब्धं परपदं व्युत्थानकालेऽपि एवंविधास्ववस्थास्वेव परिशीलनीयम् इति गुरुभिः परम्परया प्रबुद्धेभ्यः शिष्येभ्यः शिक्षा दत्ता न तु बाहुल्येन प्रक्रियाशास्त्रेष्वेतल्लिखितम् । तेन हि मूढा अपि विषयग्रस्ताः क्लेशकारिणी नानाविधानुपायांस्त्यक्त्वात्रैव लगेयुः न च तत्प्राप्नुयुरिति
न च देहादीनां पूर्वपूर्वप्रमातृवेद्यता येन प्रमातुरप्रकाशे प्रमेयं न भाति तत्प्रकाशश्च न पूर्वप्रकाशं विना, सोऽपि न प्रमात्रन्तरप्रकाशं विना इत्यनवस्था स्यात्, अपि तु शुद्धप्रकाश [विशुद्धप्रकाशः - क्। ष्। ष्।] एव विश्वस्य प्रकाश इति निरूपयन्
गुरवः इत्यस्याभिप्रायः । परमार्थतस्तु नानाविधोपायाश्रये नानाविधैरुपायैराश्रितैरपि भगवच्छक्तिपातं विना न किञ्चित्सेत्स्यति, तत्र प्रवृत्तिरपि वा तत्कार्यैवेत्यलम् ॥ ६ ॥
अथ सप्तमस्य श्लोकस्यावतरणिकां करोति न च इति ।
अत्र टीका :-
देहादीनां पूर्वपूर्वपमातृवेद्यता - प्राणस्य देहे वेद्यभावः बुद्धेश्च प्राणे इत्यादिरूपा, न च भवति, तदवच्छिन्नताभावस्य तद्वत् कल्पितत्वादिति भावः । येन - य या पूर्वं प्रमातारं प्रति वेद्यतया, प्रमातुः - परप्रकाशं प्रति प्रमातृतया कल्पितस्य नभसः, अप्रकाशे - बुद्धिप्रमातृकृतप्रकाशाभावे सति, प्रमेयम् - परप्रकाशाख्यं प्रमेयम्, न भाति, स्वयमसिद्धस्य परसिद्धिप्रवृत्त्ययोगात् । तत्प्रकाशश्च - बुद्धिप्रमातृप्रकाशश्च, पूर्वप्रकाशं विना - प्राणप्रमातृप्रकाशं विना न भवति सोऽपि - प्राणप्रमातृप्रकाशश्च, प्रमात्रन्तरप्रकाशं बिना - देहप्रमातृप्रकाशं विना न भवति । इति - एवम्, अनवस्था स्यात् - देहप्रमातुरपि प्रमात्रन्तरापेक्षापातात् तस्याप्यन्यस्यापेक्षा तस्याप्यन्यस्येत्यादिरूपमनवस्थानं स्यात्, न च नभ-उपरि परप्रकाश इव देहस्याधः कोपि प्रमातास्ति येनानवस्था न स्यादिति भावः । तथा च सर्वं सर्विकयाऽऽन्ध्यस्यैव साम्राज्यं स्यादिति भावः । पुनः किमस्तीत्यत आह अपि तु इति । अपि तु इति निर्णीते पक्षान्तरे, शुद्धप्रकाश एव विश्वस्य - सर्वस्य नभ - आदेः प्रमातृजातस्य बाह्यान्तरतया स्थितस्य प्रमेयजातस्य च, प्रकाशो भवति नभ - आदिनिष्ठस्य पूर्वं प्रति प्रमातृत्वस्यापि तत्प्रमातृत्वानपायात्, न हि गृहाकाशकृतं कार्यं महाकाशकृतं न भवतीति वक्तुं युक्तमिति भावः । इति - एवम्, निरूपयन्
- योग्यतया निश्चयविषयी -
उक्तयुक्त्या सदैव सृष्ट्यादिशक्त्यवियोगो [सृष्ट्यादिशक्तिवियोगोऽपि - क्। ष्। ष्।] भगवत उक्तो भवति, इति दर्शयति :-
तदेवं व्यवहारेऽपि प्रभुर्देहादिमाविशन् ।
भान्तमेवान्तरर्थौघमिच्छया भासयेद् बहिः ॥ ७ ॥
यत् पूर्वं दर्शितं देहे बुद्धौ इत्यादि तत् एवम् उपपद्यते, कथम् ? यदि व्यवहारे मायापदे देहप्राणादिमपि प्रभुरेव प्रकाशपरमार्थ इच्छया मायाशक्तिरूपया, आविशन् देहप्राणादिप्राधान्येन स्वरूपं प्रदर्शयन् अन्तः संविन्मात्रे, भान्तम् अहमित्येवंरूपम् अर्थौघम् इच्छयैव बहिः
कुर्वन्, उक्तयुक्त्या - सदा सृष्टिविनोदाय इति पूर्वम्मुक्तया युक्त्या, इति - एवम्, दर्शयति - अनुग्राह्यान् प्रति प्रकटीकरोति । इति किमिति ? भगवतः - स्वातन्त्र्याख्यमहाशक्तियुक्तस्य परप्रकाशय, सदैव सृष्ट्यादिशक्त्यवियोगो भवति, स च द्विप्रकारत्वेन पूर्वं दर्शित एवेति न पुनरायस्तम् । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे ।
तदेवम् इति ।
अत्र टीका :-
पूर्वम् - चित्तत्त्वं मायया हित्वा इत्यत्र श्लोके, एवम्, वक्ष्यमाणवस्तुनि सतीत्यर्थः । उपपद्यते इति शेषत्वेनाध्याहृतम् । अत्र शिष्य आह कथम् इति कथमुपपद्यत इत्यर्थः । गुरुरुत्तरं कथयति यदि इति ।
व्यवहारे इति पदं व्याचष्टे माया इति, व्यवहारयोग्ये भेदप्राणे मायातत्त्वविषये इत्यर्थः । सूत्रे आदि शब्देन प्राणादिग्रहणम्, अत्र तु आदि शब्देन बुद्ध्यादेर्ग्रहणम् । प्रभु शब्दं व्याचष्टे प्रकाश इति । अन्तः इति व्याचष्टे संवित् इति । भान्तम् इति व्याचष्टे अहमित्येवम् इति । अन्तर्भाने हि अहम्भावे विलय एव । तदुक्तम् :-
अहमित्यस्य विच्छिन्न
इदमिति भासयति तत एतदुपपद्यते, अन्यथा तु अनवस्था स्यात् । हेतौ लिङ् ।
अपिशब्द एवशब्दश्च भिन्नक्रमौ, यत् एतावत् उक्तम्, तदिति, तस्मात् हेतोः, एवं जातं वक्ष्यमाणरूपम्, किं तत् ? यत् किल प्रभुः परस्परं व्यवहारकाले क्रयविक्रयप्रेक्षाव्याख्यादौ [क्रेयविक्रेयप्रेक्षाव्याख्यादौ - क्। ष्। ष्।] चैत्रमैत्रादिसम्बन्धिनो देहप्राणादीन् एकतया तावति व्यवहारे [तावति आभासे - क्। ष्। ष्।] आविशन् अन्तर्भान्तमेव अनुज्झितान्तःप्रकाशमेव सन्तं बहिः एकाभासतया भासयति इति
इति । भावराशिवाचकस्य अर्थौघ शब्दस्य प्रसिद्धतया व्याख्या न कृता । बहिः इति पदं व्याचष्टे इदम् इति । भासयेत् इत्यस्य व्याख्यां करोति भासयति इति । ततः - तस्माद्धेतोः, एतत् - अर्थौघभानम्, अन्यथा - तदावेशाभावे, अनवस्था - अवतरणिकायां प्रोक्तमनवस्थानम् ।
लिङर्थमाह हेतौ इति । यतः अर्थौघं भासयति ततो ज्ञायते देहादिषु विशतीति योजना । भिन्नक्रमौ इति, देहशब्देन प्रभुशब्देन च सम्बन्धयोगादिति भावः । सम्भावनायामपि लिङ व्याख्यातुं तदेवम् शब्दयोः स्फुटतया योजनां करोति यत् इति । यदेतावदुक्तम् - समनन्तरं प्रोक्तम् । तत् शब्दस्योपन्यासपूर्वं व्याख्यां करोति तत् इति, तस्माद्धेतोः, एवं जातम् - सिद्धम्, कीदृशम् ? वक्ष्यमाणरूपम् - शेषेण वक्ष्यमाणस्वरूपम् । शिष्यः प्रश्नयति किं तत् इति, यज्जातं तत्किं भवतीत्यर्थः । अत्रोत्तरं वक्तुं व्याख्यातमपि श्लोकं पुनः योजनापूर्वं सङ्क्षेपेण व्याचष्टे यत् इति । क्रयविक्रय - इत्यनेन मलिनव्यवहारग्रहणम्, प्रेक्षा इत्यादिना शुद्धव्यवहारग्रहणम्, एकतया - स्वाभिन्नतया, तावति व्यवहारे, न तु सर्वत्र व्यवहारेषु तथा चात्रैव महाद्वतप्राप्तिप्रसङ्गात्, एकाभासतया, यथास्वं घटादिपदार्थाभासतया न तु
सम्भाव्यते इत्येतज्जातम्, इति सम्भावनायां लिङ् । तेन तेन प्रमात्रा सह अस्मिन्काले ऐक्यं सृज्यते, अन्येन प्रमात्रा ऐक्यं संह्रियते, घटादिमात्ररूपे स्थितिः क्रियते, पूर्णस्वरूपनिमीलनात् तिरोभाव आधीयते, तावत्याभासे ऐक्यावभासपूर्णत्ववितरणात् [ऐक्यावभासनपूर्णत्ववितरणात् - क्। ष्। ष्।] अनुग्रहः क्रियते, तेन न केवलं
सर्वाभासतया । एतज्जातम् इत्यनेन किं तद् इति प्रश्नस्य स्फुटतया निराकाङ्क्षीकरणम् एतेन फलितम्, तस्य च सृष्ट्यादिपञ्चकृत्यकारित्वं कथयति तेन इति । तेन - देहाद्यावेशपूर्वमर्थौघभासनेन, प्रभुणा तेन, प्रमात्रा सह - देहादिप्रमात्रा सह, अस्मिन्काले - आवेशविशेषणीभूते समये, ऐक्यं सृज्यते, अन्यथा तदावेशासम्भवात्, अन्येन प्रमात्रा सह - इतः पूर्वमावेशविषयीकृतेन प्रमात्रा सह, ऐक्यं संह्रियते - व्यापकत्वेऽपि अनौन्मुख्यमात्रेण तद्योगात्, तथा पूर्णस्वरूपनिमीलनात् - तदावेशान्यथानुपपत्त्या स्वकीयपूर्णस्वभावस्य तावति भागे सङ्कोचनात्, तिरोभाव आधीयते - सम्पाद्यते, तावत्याभासे - तत्कालकृतार्थावभासे, ऐक्यावभासपूर्णत्ववितरणात्, एक्यावभासस्य - अहंविमर्शरूपैक्यावभासस्य सम्बन्धिपूर्णत्वदानात्, अनुग्रहः - स्वात्मनि लयीकरण
महासृष्टिषु महास्थितिषु महाप्रलयेषु प्रकोपतिरोधानेषु दीक्षाज्ञानाद्यनुग्रहेषु भगवतः कृत्यपञ्चकयोगः यावत् सततमेव व्यवहारेपि । यदुक्तम् :-
सदा सृष्टिविनोदाय सदा स्थितिसुखासिने ।
सदा त्रिभुवनाहारतृप्ताय स्वामिने नमः ॥
इति ।
प्रतिक्षणमविश्रान्तस्त्रैलोक्यं कल्पनाशतैः ।
कल्पयन्नपि कोऽप्येको निर्विकल्पो जयत्यजः ॥
इत्यादि च । तथा :-
रूपः अनुग्रहः, क्रियते, अर्थावभासो हि अहंविमर्शे विलीयते । तदुक्तम् :-
अहमित्यस्य विच्छिन्नविमर्शस्य
इति । स चाहंविमर्शः प्रकाशस्वरूपभूत एवेति भावः ।
प्रकोपतिरोधानेषु - प्रकोपेन यानि तिरोधानाति तेषु, व्यवहारेऽपि - ग्राह्यग्राहकोद्भावनेन सम्पादिते शुद्धाशुद्धव्यवहारेऽपि, न केवलं महासृष्ट्यादिष्वेवेति अपि शब्दाभिप्रायः । तत्र महासृष्ट्यादिषु सृष्ट्यादित्वं पूर्वं दर्शितमेव, मितप्रमातृव्यवहारेऽपि सदा सृष्ट्यादि तत्रैव सङ्क्षेपेण निर्णीतम्, इह चायं द्वितीयः प्रकारः स्वयमपि ग्रन्थकारेण स्फुटं निर्णीत इति अत्रापि [न तत्रापि - च्।] योजनीयः, अस्माभिस्तु विस्तरभिया प्रपञ्चो न कृतः । अत्र वृद्धसम्मतिमाह यदुक्तम् इति, किमुक्तमित्यपेक्षायामाह सदा इति । अस्य श्लोकस्य पूर्वमर्थनिर्णयः कृत इति न पुनरायस्तम्, वक्तव्यशेषं यद्वर्तते तदिहोच्यते । अत्र आहार शब्देनैव तिरोधानानुग्रहयोरपि ग्रहणम्, तत्र व्यवहारे तिरोधानानुग्रहौ ग्रन्थकृता इह दर्शितौ, महासृष्ट्यादित्रयानन्तरभाविनौ तु संहृतसृष्ट्यादेः स्वात्मनि संस्कारभावेन तावदवस्थापनं ततश्च स्वात्मनि लयीकरणमित्येवंरूपौ ज्ञेयौ, एतौ च तत्र योजनीयावेवेत्यलम् । अन्यदपि वाक्यद्वयमुदाहरति प्रतिक्षणम् इति प्राकाम्यम् इति च, इत्येतस्मिन् वाक्यद्वयेऽपि
…प्राकाम्यमात्मनि यदा प्रकटीकरोषि ।
व्यक्तोः… ॥
इति च ॥ ७ ॥
इह अन्तरर्थाभावभासः स्थित एव, तत् किं तत्र कारणान्तरचिन्तया इति प्रकृतं प्रमेयम्, तत्सिद्धये उपपत्तिः उक्ता, तेन विना इच्छारूपः प्रत्यवमर्शो न स्यात् इति, तत्प्रसङ्गात् प्रत्यवमर्शविकल्पादिस्वरूपम् उपपादितम्, इति शिष्याणां धियं समाधातुं प्रकृतं प्रमेयम् उपपादयन् उपसंहरति :-
एवं स्मृतौ विकल्पे वाप्य पोहनपरायणे ।
ज्ञाने वाप्यन्तराभासः स्थित एवेति निश्चितम् ॥ ८ ॥
द्वयेऽपि सर्वदा सृष्ट्यादिकारित्वमेव प्रोक्तमिति नात्र प्रपञ्चः कृत इत्यलम् ॥ ७ ॥
अथाष्टमस्य श्लोकस्यावतरणिकां करोति इह इति ।
अत्र टीका :-
अन्तः - पूर्णप्रकाशान्तः, स्थित एव इति, अन्यथा प्रागिवेत्यत्रोक्तन्यायेन प्रकाशासम्भवात्, प्रकृतम् - आरब्धम्, प्रमेयम् - निर्णेयं वस्तु, कीदृशी असावुपपत्तिरित्यत आह तेन इति । एतच्च न विना तस्मादिच्छामर्शः प्रवर्तते इति श्लोकखण्डेनोक्तम्, समाधातुम् इति, अन्यथा तद्धियः [अन्यथा तद्धियः विक्षिप्तेत्र वस्तुजाते - च्।] निक्षिप्ते अत्र वस्तुजाते समाधानं न सम्भवेत् इति । उपपादयन् - उपपत्त्या स्थापयन् ।
एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । एवम् इति ।
अत्र टीका :-
एवम् शब्दस्य निमित्तवाचकत्वमभिप्रेत्य व्याख्यां करोति प्रकाश इति । प्रकाशात्मा - शुद्धप्रकाशरूपः, वस्तुतः, न त्वापाततः, तेन हि देहादेरेव निजनिजविषयं प्रति यथास्वं प्रमातृत्वम् । अपि शब्दः देहादिप्रमातृताभिमाननिरासे शुद्धप्रकाशस्य निःसंशयां प्रमातृतां द्योतयति । एवंशब्दापेक्षितं
प्रकाशात्मा परमेश्वर एव यतो देहादिप्रमातृताभिमानदशायामपि वस्तुतः प्रमाता, एवम् इति, अतो हेतोः इदं सिद्धं भवति - स्मरणे अपोहनजीविते च विकल्पे अनुभवज्ञाने च अन्तराभासः प्रकाशविश्रान्तः स्थित एव, नात्र संशयः कश्चित् यदि हि देहादिरेव परमार्थप्रमाता स्यत् तत् शरीरस्य प्राणस्य धियः शून्यस्य वा अन्तर्घटादि इति न किञ्चित् एतत् - घटादिपरिहारेण देहादेः स्थितत्वात् ।
परमार्थप्रकाशस्तु सर्वंसहः
वस्तूक्त्वा एवम् शब्दमुपन्यस्य व्याचष्टे । एवम् इत्येतेन एवम् शब्दस्य एवं सति इत्ये व्याख्या कार्या इति सूचितम् । किं सिद्धं भवति इत्यपेक्षायाम् स्मृतौ इत्यादिश्लोकं व्याचष्टे स्मरणे इत्येतेन स्मृतौ इत्यस्य व्याख्या । अपोहनजीविते इत्यनेन अपोहनपरायणे इत्यस्य व्याख्या ।
अन्तराभासः इति, प्रकाशविश्रान्तः इति अन्तः इत्यस्य व्याख्या, आभासः इति अर्थाभासवाचकम् कर्तृतया स्थितम् प्रसिद्धत्वेन न व्याख्यातम् । एवं स्मृत्यादावपि आभासः अन्तः स्थित एव भवतीति योजना ।
एवञ्च सर्वत्र प्रकाश एव प्रमाता इति भावः । इति शब्दः पूर्ववाक्योक्तसमस्तार्थाक्षेपपरः । निश्चितम् इति पदं व्याचष्टे नात्र इति । अत्र समर्थनं स्वयमेव करोति यदि इति, अन्तर्घटादि इति, प्रागिवार्थः इति न्यायेन घटादि अन्तर्भवेदिति योजना । भवतु ततः किम् इत्यत आह न किञ्चित् इति । कथं न किञ्चित् इत्यत आह घटादि इति । न हि देहान्तः कोपि घटं लभते इति भावः । ननु तर्हि प्रकाशान्तरपि कथं घटादि स्यादित्यत आह परमार्थ इति, सर्वसहः इति सर्वशक्तियुक्तत्वात् अन्यथा सर्वप्रादुर्भावासम्भवः ।
इति तत्रान्तर्विश्वम्, इति अनायाससिद्धमेतत् ॥ ८ ॥
ननु अन्तराभासवर्गस्य बहिराभासनं यदि सर्वत्रास्ति कस्तर्हि स्मरणादौ आभासभेदः, न च असौ न संवेद्यते - स्फुटतास्फुटतादिप्रस्फुरणस्य [स्फुटास्फुटतां - क्। ष्। ष्।] अनपह्नवनीयत्वात् इत्याशङ्क्याह :-
किन्तु नैसर्गिको ज्ञाने बहिराभासनात्मनि ।
पूर्वानुभवरूपस्तु स्थितः स स्मरणादिषु ॥ ९ ॥
ननु शून्यप्रमातुरपि कथमेवम्भावो न कल्प्यते ? सत्यम्, एवं कल्पिते तु स एव परः प्रकाशः स्यात् । अस्तु का हानिः, स्थलाद्बुद्धिप्रमातृभावान्निर्गत्य न हि सद्य एव प्रमाता व्यापकीभवति किन्तु क्षणं लेशतः संस्कारभावेन स्थितं परिमितत्वम् अवश्यमनुभवत्येव स एव च शून्यप्रमाता, ततः स्वयं स्फुरणशीलायाः अपरिमिततायाः स्फुरणे तस्यैव शुद्धप्रकाशभावः ।
यद्यपि अत्रापि शुद्धविद्यादितत्त्वारोहणरूपः क्रमोस्त्येव तथापि तत्र तादृशो यत्नो नास्ति इत्येवमुक्तमित्यलम् । तत्रान्तः - परमार्थप्रकाशमध्ये ॥ ८ ॥
अथ नवमश्लोकस्यावतरणिकां करोति ननु इति ।
अत्र टीका :-
अन्तराभासवर्गस्य - प्रकाशान्तर्गतस्य अहन्तया ग्रहणयोग्यस्य घटाद्या - भाससमूहस्य, बहिराभासनम् - बहिर्देशत्वेन अफुरणम्, इदम् इति ग्रहणमिति यावत् । स्मरणादौ इति । आदिशब्देन सङ्कल्पादेर्ग्रहणम्, आभासभेदः, अनुभवादिति शेषः, उभयत्राप्यान्तरत्वाविशेषादिति भावः । ननु भास्त्वाभासभेद इत्यत आह न च इति । न च न संवेद्यते, अपि तु संवेद्यत एवेति भावः । कथं संवेद्यत इत्यत आह स्फुट इति । तत्र सर्वधर्माक्षेपेण इदम् इति ग्रहणम् स्फुटताग्रहणम्, तदनाक्षेपेण तत् इति ग्रहणम् अस्फुटताग्रहणम् ।
एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । किन्तु इति ।
अनुभवज्ञानस्य इदं नीलम् इति अन्तरवभासं [अन्तराभासम् - क्। ष्।
ष्।] बहिराभासयतः स्वाऽन्तर्भावाभासो [सोऽन्तर्भावाभासः - क्। ष्। ष्।] नैसर्गिकः - निसृष्टेः स्वातन्त्र्यात् आयातो न तु स्मरणादेरिव अन्यज्ञानकृतवासनादिबलात् । स्मरणे उत्प्रेक्षणे प्रत्यक्षपृष्ठभाविनी अध्यवसाये च योऽन्तर्नीलाद्यवभासो बाह्यतया अध्यवसायितव्यः [बाह्यतया अवभासयितव्यः - क्। ष्। ष्।] नासौ स्वात्मीयः अपि तु पूर्वानुभवसंस्कारजोऽसौ, तत्र संस्कारो नाम अनुभवस्य
अत्र टीका :-
अन्तरवभासम् - अन्तःस्थितं नीलाभासम्, अहम् इति ग्रहणयोग्यं नीलाभासमिति यावत्, बहिराभासयतः - बाह्ये प्रकाशयतः, बहिरवभासनमनुकृत्याह इदम् नीलम् इति इति । स्वान्तर्भावाभासः - स्वान्तःस्थितभावाभासः । नैसर्गिकः इति पदं व्याचष्टे निसृष्टेः इति, तत्रापि प्रकृत्यर्थमाह स्वातन्त्र्यात् इति, निसर्गो हि स्वभावः स च परमार्थतः स्वस्वातन्त्र्यमेव, स्वरूपभूता निजा शक्तिरेवेति यावत् ।
ठञ्प्रत्ययार्थमाह आयातः इति । अत्र व्यतिरेकदृष्टान्तमाह न तु इति, अन्यस्य - पूर्वानुभूतस्य यज्ज्ञानम् - अनुभवः तेन कृतं यद्वासनादि - संस्कारादि तस्य बलात्, आयात इति पूर्वेण सम्बन्धः । एतेन पूर्वार्धव्याख्या कृता । एवमत्र योजना । उत्तरार्धे स्थितम् स इति इहापि योजनीयम् । किन्तु - पक्षान्तरे, सः - अन्तराभासः, बहिराभासनात्मनि - इदन्ताग्रहणस्वभावे ज्ञाने निर्विकल्पानुभवे, नैसर्गिकः भवति न तु स्मृत्यादाविव संस्कारकृतो भवति इति । अथोत्तरार्धं व्याचष्टे । स्मरणे इति स्मरण पदव्याख्या आदि शब्दगृहीतस्य उत्प्रेक्षणे इत्यस्य उल्लेखनमर्थः, अध्यवसाये इत्यस्य सविकल्पानुभवः, बाह्यातयाऽध्यवसायितव्या - तत् इत्यध्यवसायविषयः कार्यः, स्वात्मीयः - नैसर्गिकः । पुनः कीदृशोऽसावित्यत आह
कालान्तरेऽपि अनुवर्तमानता, अतोऽसावनुवर्तमानोऽनुभवो यतो नीलाद्याभाससम्भिन्नः ततः तत्तादात्म्यापन्नं स्मरणाद्यपि तथा निर्भासते, तत एव स्मरणकालसम्भवी आभासः तदनुभवपूर्वकालकलित एवेति स्वयं स्मरणादेर्निर्विषयत्वं गृहीतग्राहित्वं च उद्धोष्यते । एतदेव अस्फुटत्वम्, इति सिद्धोऽनुभवस्मरणादौ आभासभेदः अन्तराभासवर्गस्य बहिराभासनम् अन्याव्यवधानेन [बहिराभासनम् अव्यवधानेन - क्। ष्।
ष्।] स्फुटता, व्यवधानेन तु तात्कालिकत्वाभावात् अस्फुटता इति ॥ ९ ॥
ननु अनुभवज्ञानात् ऐन्द्रियकात् अन्यत् सर्वं ज्ञानं व्यवधानेन बहिराभासनरूपं प्राप्तम् इत्याशङ्क्य प्रविभागमाह :-
अपि तु इति । ननु कथं पूर्वानुभवरूपः इति पदस्य संस्कारजत्वमर्थः इत्यत आह तत्र इति । एतत्समर्थयितुं संस्कारपदस्य प्रथममर्थमाह संस्कारो नाम इति । कालान्तरेऽपि विषयग्रहणकालादुत्तरस्मिन्कालेऽपि, नीलाद्याभाससम्भिन्नः - ग्रहणकाले नीलादिविषयोपरक्तः, तत्तादात्म्यापन्नम् - तन्नीलम् इति नीलतादात्म्ययुक्तम्, तथा - पूर्वानुभववत् । फलितमाह ततः इति । तस्य अनुभवस्य यः पूर्वः कालः तेन कलितः - विशिष्टीकृतः एव, न तु इदानीन्तनतायुक्त इत्यर्थः । एतेन पूर्वानुभवरूपत्वं स्मरणस्य सिद्धम् तदेव च संस्कारजत्वमिति भावः । लोकप्रसिद्धं निर्विषयत्वं गृहीतग्राहित्वं चास्यैतदवष्टम्भेन सिद्धतया कथयति इति इति । इति, अतः कारणात् इत्यर्थः । अस्यैवास्फुटत्वमपि कथयति एतद् इति । ननु स्फुटत्वं कीदृगस्ति इत्यपेक्षायामाह अन्तराभास इति । अन्याव्यवधानेन - संस्कारव्यवधानरहितत्वेन । पुनरपि एतत्प्रसङ्गेन अस्फुटत्वं निर्णीयते व्यवधानेन इति, व्यवधानेन, संस्कारकृतेनेत्यर्थः ।
सर्वधर्माक्षेपित्वेन तदनाक्षेपित्वेन च ग्रहणमत्रैव विश्राम्यतीति न पूर्वापरविरोधः शङ्कनीयः इति ॥ ९ ॥
स नैसर्गिक एवास्ति विकल्पे स्वैरचारिणि ।
यथाभिमतसंस्थानाभासनाद्बुद्धिगोचरे ॥ १० ॥
यः प्रत्यक्षव्यापारम् अनुपजीवन् व्यक्षेपसारतया मनोराज्यसङ्कल्पादिविकल्पः स स्वैरं कृत्वा स्वप्रेरणेन परप्रेरणनैरपेक्ष्येण स्वातन्त्र्येण चरति उदेति व्ययते च, तत्र यो बहिराभासो [बहिरवभासः - क्। ष्। ष्।] नीलादेः अन्तराभासमयस्य स
अथ दशमस्य श्लोकस्यावतरणिकां करोति ननु इति ।
अत्र टीका :-
सर्वम् - मनोराज्यं भ्रान्तिज्ञानादि च समस्तम् । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । स नैसर्गिकः इति ।
अत्र टीका :-
तच्छब्दस्य यच्छब्दाविष्टत्वेन विकल्पे इति पदस्य व्याख्यां करोति यः इति, प्रत्यक्षव्यापारम् - प्रत्यक्षप्रमाणव्यापारम्, अनुपजीवन् - अनपेक्षमाणः, व्याक्षेपसारतया - चित्तव्याकुलतामात्रसारत्वेन, आदि शब्देन भ्रान्तिग्रहणम् । विकल्पे इत्यस्य विशेषणीभूतं स्वैरचारिणि इति कृदन्तपदं व्याचष्टे विग्रहपूर्वं स्वैरम् इति । स्वैर इति व्याचष्टे स्वप्रेरण इति, मनोराज्यादि हि पुरुषस्य स्वयमेवोत्पद्यते विलीयते च न तु पुरुषप्रेरणामपेक्षते परस्य तु कथैवात्र नास्ति । अत्रापि पर्यायमाह स्वातन्त्र्येण इति, एतत् स्वातन्त्र्यं च मनोराज्यादेरेव ज्ञेयं न पुरुषस्य अन्यथा विरोधापातात् । चरति इति पदं व्याचष्टे उदेति इति, चरणं ह्यत्र उदयव्ययावेव, यत्तु जितचित्तानामत्र स्तोकं स्वातन्त्र्यं वर्तते तदनपेक्ष्यैवमुक्तम् । सामान्यजनमनोराज्यादेरेवात्र वक्तुमिष्टत्वात् ।
सप्तम्यर्थमाह तत्र इति, तत्र, एवंविधे विकल्पे इत्यर्थः । सः इत्यस्यार्थमाह यः इति । बहिराभासः - इदन्तया तत्तया वा आभासः ।
अन्तराभासमयस्य - परमार्थतः स्वान्तर्गतत्वेन अहम् इति ग्रहणयोग्यस्य । यच्छब्दाकाङ्क्षां पूरयति सः इति । सः -
नैसर्गिक एव, तथा हि अपरिदृष्टपूर्वमपि श्वेतं दशनशतकलितकरयुगलयुक्तं दन्तिनम् अन्तः प्रमातृभूमौ स्थितं बहिः अन्तःकरणभूमौ स्वच्छधीदर्पणात्मिकायां स विकल्पः तात्कालिकमेव भासयति [आभासयति - क्। ष्। ष्।] ॥ १० ॥
आभासः, बाह्यवस्तुनिरपेक्षमेव मनोमात्रसम्पादित आभास इति यावत् ।
नैसर्गिक एव भवति, संस्कारजस्तु न भवति । कथं नैसर्गिक इत्यपेक्षायां समर्थनं प्रक्रमते तथा हि इति । अपरिदृष्टपूर्वम् - कदाचिदपि पूर्वं न दृष्टम्, न हि वक्ष्यमाणगुणो हस्ती कदापि दृश्यते इति भावः । श्वेतम् - सितम्, दशनशतकलितम्, न तु दन्तद्वयकलितम्, करयोर्युगलम् - द्वयं तेन युक्तम्, नत्वेककरयुक्तम्, दन्तिनम् - हस्तिनम्, प्रमातृभूमौ - बुद्धिप्रमात्रवच्छिन्नपरप्रमातृरूपपरप्रकाशभित्तौ, स्थितम् - शक्तिभावेन तिष्ठत्, अन्यथा निर्गमासम्भवात् । बहिः अन्तःकरणभूमौ - प्रकाशापेक्षया बाह्यत्वेन स्थितायामन्तःकरणभित्तौ, कीदृश्याम् ? स्वच्छा या धीः सैव दर्पणम् - बाह्यप्रतिबिम्बयोग्यत्वेन मुकुरः तदेव आत्मा यस्याः तादृश्याम्, स विकल्पः - मनोराज्यादिरूपः विकल्पः, तात्कालिकमेव, न त्वन्यकालावस्थायि, भासयति । अत्र च बुद्धिप्रमातुः स्वतो बाह्यग्रहणमपेक्ष्य प्रमातृत्वम्, स्वापेक्षयाऽऽन्तरं नभःप्रमातारं प्रति ग्राह्यत्वेन अन्तःकरणत्वमिति न किञ्चिद्विरुद्धम् ।
ननु य एवंविधो हस्ती प्रोक्तः सोऽपि संस्कारज एव, न हि सद्योजातस्य बालस्य कदाप्येवंविधस्य हस्तिनः चित्ते स्फुरणं युक्तम्, पुरुषो हि मनोराज्यादौ स्वयमेव कल्पनया अन्यत्र दृष्टानि विशेषणानि अन्यत्र योजयति, संस्कारवशेन यद्यपि भिन्नतया स्थितानि तानि विशेषणानि एकत्र न दृष्टानि तथापि भिन्नतया व्यस्तत्वेन यत्र तत्र दृष्टान्येव तानि, न चैतावता एषाम् असंस्कारजत्वं वक्तुं युक्तम्, सत्यम्, परमार्थस्त्वयमेव, किन्तु स्थूलबुद्धीन् प्रत्येवमुक्तम्, ते हि परमार्थंविचारे अनधिकृता एव । ननु तर्हि असौ परमार्थः स्वानुगदयया [सा (स्वा) न गदयया - च्।]
स्फुटीकार्य एवेति चेच्छृणु, नैसर्गिकः परामर्शः स एव, यः पूर्व सद्योजातबालादिष्वपि स्तन्याद्यभिलाषप्राणतया दर्शितः । अभिलाषो हि योजनाप्राण एव, योजना चानुसन्धानम्, स एव प्रत्यवमर्शः । बहिरपि हि वस्तुविषयोऽभिलाषः तत्सुखकारित्वानुसन्धानरूप एव । बालस्य वस्तुविषयोऽभिलाषः तत्सुखकारित्वानुसन्धानरूप एव तावद् बालस्य वस्तुग्रहणं न सम्भवतीति असौ ओष्ठगतमङ्गुल्यादिकमपि स्तनत्वेन अनुसन्दधाति येन तत्रापि चयनं करोति । अतोऽपि परमार्थविचारे स्तन्यमसौ न काङ्क्षति स्तन्यज्ञानाभावात्, परं तृप्तिमात्रं काङ्क्षमाणः यत्र तत्र भ्रमति, मुखद्वारचाञ्चल्यं तु अस्य स्वभावभतमेव, तृप्त्यर्तं तच्चञ्चलीकरणेन ज्ञायते अस्य स्वात्मनि शक्तिभावेन स्थितो योजनारूपः परामर्शोऽस्ति । यत्तु तस्य पूर्वजन्मसम्बन्धित्वं कथयन्ति तदपि फलतः तदेव, परमार्थविचारे हि सर्वेषां पूर्वजन्म सर्वशक्तियुक्तं प्रकाशतत्त्वमेव, स्थावरा अपि हि निजं स्वभावमादाय तत एवोत्तिष्ठन्ति, तेषामप्यन्तः सः प्रत्यवमर्शो विद्यत एव अन्यथा तन्तूनां स्वं प्रति रसाकर्षणासम्भवात् । एवं सः सूक्ष्मः प्रत्यवमर्शः सर्वेषु ज्ञानेष्वस्त्येव, तत्र अनुभवे साक्षादेव स्थितः तत्पृठभाविनि विकल्पे पूर्वानुभूत - वस्तुविषयायां स्मृतौ च, स्वैरचारिषु मनोराज्यादिषु तु केवलसंस्कारजत्वभ्रमेण स्थलबुद्धीन् प्रति केवलसंस्कारजत्वमस्याचार्येण साधितम्, न च तद्युक्तम्, यत्र स्थावरेष्वपि तस्य सत्ता युक्तत्वेन दर्शिता का तत्र मनोराज्यादिषु तदसत्त्वकल्पना, परमार्थविचारे हि यस्य यस्य सत्ता तस्य तस्य नैसर्गिकः प्रत्यवमर्शो विद्यते एव तदव्यभिचारिचिन्मात्ररूपसन्मात्रेणैव सर्वपूरणात्, अतोऽपि परमार्थविचारे असत्तायामपि तेनैव पूरणमसत्त्वभावेनैव पूरणात्, तथा हि भैरवशब्दस्य सर्वभावाभावभरणकतृत्वमेवार्थः, तदुक्तम् :-
स एव भैरवो देवो जगद्भरणलक्षणः
अस्माच्च अन्तराभाससम्भवसमर्थनप्रसङ्गागतात् आभासभेदविचारात् शास्त्रे यत् प्रयोजनं मुख्यतया अभिसंहितं स्वात्मनि ईश्वरप्रत्यभिज्ञानरूपं तदधिकरणसिद्धान्तनीत्या अनायाससिद्धम् इति दर्शयति :-
अत एव यथाभीष्टसमुल्लेखावभासनात् ।
ज्ञानक्रिये स्फुटे एव सिद्धे सर्वस्य जीवतः ॥
यदिदं यथाभीष्टं [यथाभीष्टस्य - क्। ष्। ष्।] बहिरसत्त्वात् अननुभूतस्यापि सम्यक् उल्लेखनम्
इति । एतेन सर्वेषां जगद्गतानां जडाऽजडानां सतामसतां च प्रत्यवमर्शयुक्तत्वं साधितम् । यस्य च प्रत्यवमर्शयुक्तत्वं तस्य कथाकरणेऽपि योग्यत्वमिति सर्वे भावाः भगवत्स्तुतिपरा एवेति यत् कैश्चिदुच्यते तदपि युक्तमेव । अतोऽपि परमार्थ - विचारे सर्वे स्वयं स एवेति कः कं स्तूयात्, स्वातन्त्र्यरूपाहम्परामर्शमयत्वमेव सर्वत्र सिद्धमित्यलं स्वप्रतिभामात्रगम्ये वस्तुनि दोषापादकेन वाक्प्रपञ्चेन ॥ १० ॥
अथैकादशस्य श्लोकस्यावतरणिकां करोति अस्माच्च इति ।
अत्र टीका :
शास्त्रे - अस्मिन् प्रत्यभिज्ञाशास्त्रे, अभिसंहितम् - ग्रन्थकारेण मनसि कृतम्, तत् - प्रयोजनम्, अधिकरणसिद्धान्तनीत्या, यत्रैकाश्रयेणान्यद्वस्तु सिद्ध्यति सोऽधिकरणसिद्धान्तः यथा शब्दानित्यत्वाश्रयणेन तद्रुणत्वसिद्धिः, तस्य या नीतिः तया ।
अनायाससिद्धम्, अयत्नसिद्धमित्यर्थः । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । अत एव इति ।
अत्र टीका :-
अत एव इति व्याचष्टे यदिदम् इति । यथाभीष्टम् - बाह्यवस्तुनैरपेक्ष्येण स्वेच्छानुगुणतया, यत् अननुभूतस्य - कदाप्यनुभवविषयतामनीतस्य
अवभासनं च विकल्पस्य प्रसङ्गात् दर्शितम् अस्मादेव हेतोः इदमपि सिद्ध्यति - यः कश्चित् कीटो वा ब्रह्मा वा जीवनक्रियाविष्टः तस्य अवभासनरूपा ज्ञानशक्तिः उल्लेखनरूपा च क्रियाशक्तिः नैसर्गिकी, ततः तस्यां भूमौ व्यतिरिक्तेश्वरकल्पितपूर्वसिद्धसृष्ट्युपजीवनसम्भावनापि [व्यतिरिक्तेश्वरोपकल्पित - क्। ष्। ष्।] नास्ति,
सितहस्त्यादेः, उल्लेखनम् - मनसि कल्पनम्, अवभासनञ्च - विकल्पघनीभावेन पुरः स्फुरणम् । तदुक्तम् :-
स्वप्नचौराद्युपद्रुताः । अभूतानपि पश्यन्ति पुरतोऽवस्थितानिव ।
इति । प्रसङ्गात् - प्रत्यवमर्शविवेकप्रसङ्गेन । ननु ततः किमित्यत आह अस्मादेव इति । इदम् इत्यस्याकाङ्क्षां पूरयति यः इति । जीवनक्रियाविष्टः
- जीवन्, सर्वं जङ्गमजातमिति यावत् । तस्य - कीटस्य ब्रह्मणो वा, सर्वस्य जीवजातस्य इति यावत् । नैसर्गिकी - स्वभाविकी । ननु किं सा स्थावराणां नास्ति, सत्यम् । तेषामप्यस्फुटाऽसावस्त्येव परन्तु स्फुटत्वापेक्षया एवमुक्तम् । नान्वस्तु ततः किम् इत्यत आह ततः इति । ततः - तस्मात्कारणात्, पुरुषेण तस्यां भूमौ - स्वैरविचारिमनोराज्यादिभूमौ, स्वमैश्वर्यमेव - निजं सहजं स्वातन्त्र्यमेव, स्फुटं प्रत्यभिज्ञेयम् - तत् ईश्वरविषयम् ऐश्वर्यम् ममैवेदमैश्वर्यमिति प्रत्यभिज्ञाविषयीकार्यम्, फलतः स ईश्वरः अयमहमेवेति प्रत्यभिज्ञा कार्या इति भावः । स्वमैश्वर्यं कीदृशम् ? जानाति करोति च इत्येवंरूपम् यत् ज्ञानक्रियास्वातन्त्र्यम् - ज्ञाने क्रियायाञ्च कर्तृत्वं तदेव लक्षणं स्वरूपं यस्य तादृशम्, कुतः स्वमेव प्रत्यभिज्ञेयम् ? इति, इति कुतः ? तस्यां भूमौ, व्यतिरिक्तः - स्वात्मनो भिन्नः य ईश्वरः तेन कल्पिता या पूर्वसिद्धा - बाह्यसृष्टिवत् मनोराज्यादेः पूर्वं सिद्धतया स्थिता या सृष्टिः - श्वेतादिगुणयुक्तहस्तिरूपं सर्जनीयं
इति स्वमैश्वर्यमेव [स्वमेवैश्वर्यम् - क्। ष्। ष्।] स्फुटं प्रत्यभिज्ञेयं जानाति करोति चेतिज्ञानक्रियास्वातन्त्र्यलक्षणम् । एकवचनेन सर्वस्य जीवजातस्य वस्तुत एकेश्वररूपतां सूचयति । इति शिवम् ॥ ११ ॥ आदितः ॥ ६३ ॥
वस्तु, तस्य यदुपजीवनम् - संस्कारद्वारेण अपेक्षणं तस्य सम्भावनापि - तर्केण ऊहनमपि, नास्ति, स्फुटं स्वयं कल्पितत्वात् बहिः कदाप्यदृष्टत्वात् । अपि शब्द सद्भावस्य तु का कथेति द्योतयति, तस्यां भूमौ इत्यस्य पदद्वयस्य काकाक्षिवदुभयत्र योजनम् । अयमुपदेशोऽपि प्रबुद्धं प्रत्येव अप्रबुद्धस्य अनधिकारित्वात्, सुप्रबुद्धस्य तु सर्वदा सर्वमात्मत्वेन पश्यतः तदपेक्षाया असम्भवात्, न चाप्रबुद्धैरपि एतच्छ्रुत्वा सङ्कल्पविवशतया स्फुरिते मनोराज्यादावयं भ्रमः कार्यः सर्वथा जितसङ्कल्पानां कदापि देहस्वभाववशेनास्फुरितमनोराज्यानां [देहस्वभाववशेन स्फुरति - च्।] प्रबुद्धानां भातात्मतत्त्वानां व्युत्थाने तत्प्रत्यभिज्ञाकरणे तावदसमर्थानामर्थे अस्योपदेशस्य स्थितत्वात् । कुर्वन्तु वा का नो हानिः इत्यलम् । जीवतः इत्यत्र स्थितस्यैकवचनस्याभिप्रायं वक्तुमाह एकवचन इति । सूचयति - सूचनया कथयति न तु साक्षात्, सूचनं च
द्व्येकयोर्द्विवचनैकवचने
इति सूत्रसामर्थ्यादिति भावः । ननु तर्हि सर्वपदं किमर्थं स्थापितम् ? तद् विस्फुटमेव कथयति, भिन्नानाम् एकत्र बुद्ध्या मेलनं हि सर्वपदप्रवृत्तिनिमित्तम्, सत्यम्, भेदग्रस्तबुद्धीन् प्रत्येवमुक्तम्, ते हि जीवतः इति श्रूत्वा कमप्येकं जीव प्रत्येतदुक्तमिति जानीयुः, तानेव च प्रति ग्रन्थकरणमिति न किञ्चिद्विरुद्धम् । इति शब्द आन्हिकसमाप्तौ, शिवम् इति पदं मङ्गलवाचकं परतत्त्वसूचनपरञ्चेति शिवम् ॥ ११ ॥
इति श्रीमदाचार्याभिनवगुप्तविरचितायामीश्वरप्रत्यभिज्ञासूत्र- विमर्शिन्यां प्रथमे ज्ञानाधिकारे ज्ञानशक्तिनिरूपणं नाम षष्ठमाह्निकम् ॥ ६ ॥
इति श्रीभास्करकण्ठविरचितायां श्रीप्रत्यभिज्ञाविमर्शिनीटीकायां भास्कर्याख्यायां ज्ञानाधिकारे षष्ठमान्हिकं समाप्तम् ॥ ६ ॥