अथ पञ्चममाह्निकम् ।
महागुहान्तर्निर्मग्नभावजातप्रकाशकः ।
ज्ञानशक्तिप्रदीपेन यः सदा तं स्तुमः शिवम् ॥
अथ पञ्चममाह्निकम् ।
स्वरूपगृहमध्यान्तर्भावभाण्डप्रकाशकम् ।
प्रज्वाल्य दीपं ज्ञानाख्यं स्वप्रकाशं शिवं स्तुमः ॥
अथ ज्ञानाधिकारे पञ्चमाह्निकव्याख्याया निर्विघ्नपरिसमाप्तये प्रचयगमनाय च शिष्यप्रवृत्त्यर्थं सकलाह्निकतात्पर्यसूचकं मङ्गलप्रतिपादकं च श्लोकमुपनिबध्नाति महा इति ।
अत्र टीका :-
वयं तं शिवं स्तुमः । तं कम् ? यः शिवः सदा - नित्यम्, न तु कदाचिदेव प्रयोजनादिवशेन । तदुक्तम् :-
सदा सृष्टिविनोदाय सदा स्थितिसुखासिने ।
सदा त्रिभुवनाहारतृप्ताय स्वामिने नमः ॥
इति । ज्ञानशक्तिरेव - उक्तवक्ष्यमाणरूपा ज्ञानाख्या शक्तिरेव, प्रदीपः तेन कृत्वा, महागुहायाम् - अपरिच्छिन्नदुरवगाहनिजस्वरूपरूपायां महत्यां गुहायाम्, अन्तः मध्ये, निर्मग्नम् - न चेदन्तः कृतेत्यत्रोक्तन्यायेन ब्रुडितं यद् भावजातम् - भावराशिः, तस्य प्रकाशकः - अपोहनशक्त्या विच्छिन्नीकृत्य बहिर्गतत्वेन भासको भवति ।
अन्योपि गुहान्तर्गतानि वस्तूनि दीपेन प्रकाशयतीति ध्वनिः । एतेनात्र ज्ञानशक्तिरेव समर्थनीयेति सूच्यते ।
एवं तावत् स्मृतिशक्तेः स्वरूपं प्रतिपादितम्, अधुना तदुपजीवनीयज्ञानशक्तिपरमार्थनिर्णयं [तदुपजीवनीयज्ञानशक्तिपरामर्शनिर्णयं - क्। ष्। ष्।] वितत्य, “वर्तमानावभासानाम्” इत्यादिकया “सक्रमं प्रतिभासते” इत्यन्तया श्लोकैकविंशत्या निरूपयति । तत्राद्येन श्लोकेन वस्तुनि प्रतिज्ञां करोति एवम्भूता ज्ञानशक्तिः इति । ततः श्लोकद्वयेन प्रकाश एवार्थानां स्वरूपम् इत्याह । ततो द्वयेन प्रकाशबाह्यानामर्थानां सद्भावं विज्ञानवाद्युपगतवासनादूषणेन [विज्ञानवादोपगत - क्। ष्। ष्।] दृढीकृतम् आशङ्क्य, तृतीयेन तदनभ्युपगमेऽपि तावत् न किञ्चित् उपरुध्यत इति दर्शयति । अथ श्लोकेन स्वदर्शनेऽर्थतत्त्वम् उपदर्शयन् बाह्यार्थसद्भावे प्रत्यक्षं पराकरोति [निराकरोति - क्। ष्। ष्।] प्रमाणत्वेन । ततो द्वयेन अनुमेयतामपि बाह्यस्य निरस्यति । अनन्तरं श्लोकेन चिदात्मनि अर्थानाम् अवश्यं सद्भावः परामर्शात्मना इति प्रकटयति । ततोऽपि
एवं मङ्गलं सम्पाद्याह्निकाभिप्रायं समस्तव्यस्तत्वाभ्यां कथयति एवम् इति ।
अत्र टीका :-
“प्रतिपादितम्” इति, पूर्वाह्निके इत्यर्थः । उपजीवनीया - अपेक्षणीया या ज्ञानशक्तिः तस्याः यः परमार्थः - सहजं स्वरूपं तस्य निर्णयम् । सामस्त्येनोक्त्वा व्यस्तत्वेनापि कथयति तत्र इति । तत्र, श्लोकैकविंशतिमध्ये इत्यर्थः । वस्तुनि - ज्ञानशक्तिनिरूपणरूपे, प्रतिज्ञास्वरूपमेव दर्शयति एवम् इति । ततः - प्रतिज्ञानन्तरम्, विज्ञानवादिभिः - विज्ञानवादिभिः बौद्धैः, उपगता - अङ्गीकृता, या वासना - भावसंस्कारः, तस्याः दूषणेण । तदनभ्युपगमेऽपि - पदार्थानभ्युपगमेऽपि, नोपरुध्यते - न प्रतिबध्यते, साधनीयोर्थो न व्याहन्यते इति यावत् । अर्थतत्त्वम् - पदार्थानां सहजं स्वरूपम्, प्रमाणत्वेन पराकरोति, प्रमाणं नास्तीत्येवमित्यर्थः । अनुमेयताम् - अनुमानगम्यताम्, बाह्यस्य, बहिःस्थस्य भावराशेरित्यर्थः ।
प्रकाशस्य प्रमातृरूपस्य प्रत्यवमर्श एव जीवितम् इति श्लोकचतुष्टयेन अनुभवागमन्यायस्वरूपनिरूपणाभिः अभिधत्ते । अनन्तरं ज्ञानपरामर्श एव ज्ञेयं शुद्धं प्रमातृरूपतानुज्झितं च प्रथयति इति तस्यैव प्रधानत्वे न्यायं श्लोकत्रयेणाह ।
प्रकाशैकरूपत्वे च ज्ञानज्ञात्रादि भिन्नम् इति श्लोकेनाह । ततो ज्ञातरि इव विशुद्धे ज्ञानेऽपि अविकल्पकसविकल्पकरूपे विमर्श एव प्राणितम् इति श्लोकद्वयेनाह । ततो ज्ञातुर्ज्ञानस्य च पूर्वपक्षे दूषितं यत् भिन्नत्वं तत् उपसंहारदिशा श्लोकेन समर्थयते इति तात्पर्यम् आह्निकस्य ।
श्लोकार्थस्तु निरूप्यते ।
ननु स्मरणविकल्पादीनाम् अनुभव एव जीवितम्, तत्र यदि भेदेन आभासान्तेऽर्थाः, तत् तेष्वपि तथैव अवभास उचितः, नो चेत् अन्यथा, तदनुभव एव तावत् ज्ञानशक्तिरूपो विचारणीय इत्याशयेनाह :-
परामर्शात्मना - परामर्शस्वरूपेण, न तु स्थूलतया, प्रत्यवमर्श एव - परामर्श एव, अनुभवश्चागमश्च न्यायश्च स्वरूपनिरूपणा [निरूपणाश्र भाति - च्।] च ताभिः, तस्यैव - ज्ञानपरामर्शस्यैव, न्यायम् - युक्तिम् । ज्ञान इति, आदि शब्देन ज्ञेयग्रहणम् । श्लोकार्थनिरूपणं प्रतिजानीते श्लोकार्थ इति ।
ननु स्मृतिरेव किं निर्णीता, किमिति च तदुपजीवनीया ज्ञानशक्तिर्न निर्णीता इति शिष्यव्याकोपमाशङ्क्य तत्समाश्वासनार्थमवतरणिकां करोति ननु इति ।
अत्र टीका :-
अनुभव एव - निर्विकल्पज्ञानमेव, तत्र - अनुभवे, तेष्वपि - स्मरणविकल्पादिष्वपि, तथैव - भेदेनैव, नो चेत् इति, अनुभवेऽर्थाः यदि भेदेन न भासन्ते इत्यर्थः । अन्यथा इति, तदा तेष्वपि अभेदेनैवावभास उचित इत्यर्थः । फलितमाह तत् इति । तत्, तस्मादित्यर्थः । एवमवतरणिकां कृत्वा प्रथमं श्लोकमुपन्यस्य व्याचष्टे । वर्तमान इति ।
वर्तमानावभासानां भावानामवभासनम् ।
अन्तःस्थितवतामेव घटते बहिरात्मना ॥ १ ॥
वर्तमानत्वेन स्फुटतया अवभासनम् इदमित्येवमाकारं येषां तेषाम्, यदेतत् बहिरात्मना कल्पितमायीयशून्यादिशरीरान्तप्रमातृपृथग्भावेन हेतुना, भिन्नानाम् ततो मायाप्रमातुः विच्छिन्नानाम् “अवभासनम्” तत्
अत्र टीका :-
वर्तमान इत्यादिसुत्रस्थसमासपदविग्रहं करोति वर्तमान इति ।
भावप्रधाननिर्देशमाश्रित्य वर्तमानत्वेन इति विग्रहः । अस्य लक्ष्यार्थमाह स्फुटतया इति । अग्रस्थत्वकृतेन सर्वधर्माभासग्रहणरूपेण स्फुटत्वेनेत्यर्थः । अवभासनमेव स्वरूपेणानुकृत्याह इदम् इति, येषां तेषाम् इत्यनेन विगृहीतानां समसनम् । यदेतत् इति करिष्यमाणतच्छब्दाध्याहारापेक्षम्, यत्तच्छब्दाभ्यां योजितं वाक्यं हि सम्यक् स्फुटीभवति बहिरात्मना इति पदं व्याचष्टे कल्पित इति । कल्पिताः - ग्राह्यग्राहकभावान्यथानुपपत्त्या कल्पनया साधिता ये मायीयाः - भेदप्राणत्वेन [भेदप्रमाणत्वेन - च्।] मायाकार्याः शून्यादयः शरीरान्ताः य प्रमातारः तेभ्यः, न तु परप्रमातुः, यः पृथग्भावः - तैरेव कल्पितः स्वस्मात् भेदः तेन । हेतुना एतेन बहिरात्मना इति सूत्रस्थपदस्य हेतौ तृतीयेति द्योतितम्, युक्तत्वनाध्याहृतं भिन्नानाम् इति व्याचष्टे ततः इति । भावानाम् इति स्थाने भिन्नानामिति प्रशस्तः पाठः, विशेष्यतया स्थितस्य भावानामित्यस्य विशेषणवशेनैवाक्षेपसिद्धेः ।
परमार्थप्रमातरि शुद्धचिन्मये “अन्तःस्थितवताम्” तेन सह ऐकात्म्यम् अनुज्झितवतामेव “घटते” प्रमाणेन उपपद्यते, तेन अनुज्झितसंविदभेदस्य भावस्य कल्पितप्रमात्रपेक्षया भेदेन प्रकाशनं भगवतो ज्ञानशक्तिरित्युक्तं भवति ॥ १ ॥
प्रमाणेनोपपद्यते इत्युक्तं तत् प्रमाणं दर्शयति :-
अथवा भावशब्देनैव भिन्नत्वमाक्षिप्तम् । तत् - अवभासनम्, अर्थात् परमार्थप्रमातरि शुद्धचिन्मये । अन्तः स्थितवताम् इति पदं व्याचष्टे तेन इति । तेन सह - शुद्धचिन्मयेन परमार्थप्रमात्रा सह, ऐकात्म्यम् - अभेदम्, घटते इति पदं व्याचष्टे प्रमाण इति । प्रमाणेन
- वक्ष्यमाणेन केवलव्यतिरेक्यनुमानेन । फलितां वस्तुप्रतिज्ञामनुकृत्याह तेन इति । एतेनार्थीयं प्रतिज्ञा न श्रौतीति दर्शितम् ।
अत्र चायमभिप्रायः । परमार्थतः स्वरूपतया स्थितेषु स्वावयवभूतेषु भावेष्वहमिति ग्रहणयोग्येष्वपि मायावशेन स्वतः भेदेन यदिदमिति भासनं तत्तत्रैवावयवतया स्थितानामेव सतां भवति, न ततः च्युतानाम्, यथा मृन्मयस्य घटस्य मृन्मयत्वेन स्थितस्यैव घटतया ग्रहणम्, न हि मृदो निर्गतो घटःकिमपि भवति, मृत्सत्तयैव सतायुक्तत्वात्, इति तदन्तःस्थितत्वं तदभिन्नतामात्रमेव [तदन्तः स्थितत्वं च तदभिन्न - च्।] न तु तदन्तराधेयत्वेनावस्थानं मृद्भावेन हि स्थितो घटः मृदन्तस्थ उच्यते, न तु तदाधारत्वेन स्थितः, तद्बहिःस्थितत्वं तु ततो भिन्नत्वमेव, मृदो भिन्नो जलतरङ्गो मृदा बाह्य इत्युच्यते । अतश्च चिदन्तःस्थितस्य भावराशेः चिन्मयत्वमेव तदन्तःस्थितत्वम् न तु स्वप्रधानतया तत्रावस्थानम्, ततो बहिःस्थत्वं च मायावशेनेदन्तया ततो भेदेन भासनम्, न तु ततो निर्गत्य कुत्रापि देशेऽवस्थानमिति तद्वहिरवस्थानं मायाकार्यमेव । तदुक्तम् :-
एतदन्धकारं यद् भावेषु प्रकाशमानतया स्वात्मानतिरिक्तेष्वपि
इत्यादि ।
प्रागीवार्थोऽप्रकाशः स्यात्प्रकाशात्मतया विना ।
न च प्रकाशो भिन्नः स्यादात्मार्थस्य प्रकाशता ॥ २ ॥
अर्थो नीलादिः, तस्य नीलादिरूपतैव यदि प्रकाशमानता न पुनः सापरा [न पुनरपरा काञ्चित् - क्। ष्। ष्।] काचित् अर्थशरीरोत्तीर्णा प्रकाशात्मता तर्हि यथा सर्वान् प्रति नीलमेव तत्सम्भावनया भण्यते, न कञ्चित् वा प्रति, वस्तुतो वा स्वात्मन्येव तत् नीलं परस्य परनिष्ठत्वानुपपत्तेः [परनिष्ठतानुपपत्तेः - क्। ष्। ष्।] स्वात्मनि वा न नीलम् न अनीलम् प्रकाशानुग्रहेण विना व्यवस्थानायोगात् । तथा प्रकाशमानतापि अस्य
अथ द्वितीयस्य श्लोकस्यावतरणिकां करोति प्रमाणेन इति । स्पष्टम् ।
एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । प्राक् इति ।
अत्र टीका :-
सूत्रस्थमर्थशब्दं व्याचष्टे नीलादिः इति । आदिशब्देन सर्वस्य नीलव्यतिरिक्तस्य बाह्यस्य सुखादेरान्तरस्य च भावजातस्य ग्रहणम् ।
वाक्यार्थमाह तस्य इति । तस्य - नीलादेः, नीलादिरूपतैव - नीलादिस्वभावतैव, यदि प्रकाशमानता - ग्रहणसमये स्थितं प्रकाशते इत्येवंरूपं प्रकाशकर्तृत्वं भवति । पुनः - पक्षान्तरे, सा
- प्रकाशमानता, अपरा - नीलादिरूपताया अन्या, अत एव अर्थशरीरोत्तिर्णा - अर्थाख्यात् शरीरात् - स्वरूपात् उत्तिर्णा, प्रकाशात्मता - प्रकाशरूपता, शुद्धप्रकाअशरूपतेति यावत् । न भवति, तर्हि - तदा, तत् - नीलादिवस्तु, यथा सर्वान् प्रति - सर्वेषु प्रमातृषु, सम्भावनया - कल्पनया, नीलमेव लौकिकैः भण्यते, वा - पक्षान्तरे, वस्तुतः - परमार्थतः, परस्य - अन्यस्य, परनिष्ठत्वानुपपत्तः - अन्यलग्नतायोगात्, पण्डितैः तत् स्वात्मन्येव नीलं भण्यते । नानीलं भण्यते कुतः? प्रकाशानुग्रहेण - प्रकाशावष्टम्भेन, विना व्यवस्थानायोगात् - व्यवस्थाया असम्भवात्, प्रकाशगृहीतमेव हि वस्तु नीलादिरूपतया व्यवस्थापयितुं शक्यते, तथा - तद्वत्, प्रकाश -
सर्वान् प्रति न कञ्चित् वा प्रति अपि तु स्वात्मन्येव, स्वात्मन्यपि वा न स्यात् इति अन्धता जगतः ।
अथ इन्द्रियालोकादिक्षणवर्गात् प्रकाशरूपोऽसौ नीलक्षणो विशिष्ट एव जातः, एवमपि स एव प्रसङ्गः, प्रकटतावादेऽपि अयमेव दोषः, सर्वथा
मानतापि - नीलादिवद् अर्थरूपत्वनाङ्गीक्रियमाणा प्रकाशकर्तृतापि अस्य - नीलार्थस्य, सर्वान् प्रति - सभावनया सर्वेषु, स्यात्, न कञ्चिद्वा, वस्तुतः कस्मि।श्चिदपि न वा स्यात्, अपि तु स्वात्मन्येव ततोऽपि, परमार्थविचारे स्वात्मन्यपि वा नस्यात् इति अन्धता - अर्थग्रहणसमर्थत्वेनान्धसदृशत्वम्, जगतः - लक्षणया जगद्गतेषु प्रमातृषु स्यात्, सम्भावनयोक्तं सर्वान् प्रति प्रकाशमानत्वं सर्वज्ञत्वहेतुत्वमनपेक्ष्यैवमुक्तम् ।
अयम्भावः - ग्रहणसमये भावस्य मायया भावत्वेन भासितं निजं सहजशुद्धप्रकाशाख्यं स्वरूपमेव प्रमातारं प्रति स्फुटीभवति, यतः तदा प्रमाता तद्वस्तु प्रति दिदृक्षासमये व्यापको भवति । तदुक्तम् :-
दिदृक्षयेव सर्वार्थान्यदा व्याप्यावतिष्ठते ।
तदा किं बहुनोक्तेन स्वयमेवावभोत्स्यते ॥
इति । व्यापकीभवंश्च तद्वस्तु स्वात्मसात्करोति, तन्मयीभावासादनं च वस्तुनः शुद्धप्रकाशरूपत्वासादनमेव, प्रमातुः स्फुटं प्रकाशमात्ररूपत्वात्, एतच्च शक्तिपातं विना महतापि प्रयत्नेन दुर्ज्ञेयमेव, तस्मिंस्तु सति स्वयमेव स्फुरति अत एवोक्तम् स्वयमेवावभोत्स्यते इति, अन्यथा तु यदि तच्छद्धप्रकाशरूपतासादनं प्रकाशमानत्वं न स्यादपित्वर्थरूपतायाः नीलगुणवत् विशेषादायकमेव स्यात् तदा तस्यान्यप्रकाशानुग्रहं विना नीलवद्ग्रहणमेव न सम्भवेदिति ।
अत्र क्षणिकवादी प्रश्नयति अथ इति । असौ - नीलार्थः, विशिष्टः - ग्रहणयोग्यतारूपविशेषयुक्तः, उत्तरं कथयति एवमपि इति । स एव - पूर्वोक्त एव, अर्थशरीरोत्तीर्णप्रकाशरूपतानासादनाविशेषादिति भावः । मनसि शङ्किते मीमांसकमतेऽपि दोषमासञ्जयति प्रकटता इति ।
प्रकटतापि हि
अर्थशरीरविश्रान्तः चेत् प्रकाशो मम अवभासते इति प्रमातृलग्नतया प्रकाशस्थितिः दुरुपपादा । प्रमाता हि तदानीम् इन्द्रियादिमयोऽर्थरूपप्रकाशस्य [इन्द्रियार्थमय - क्। ष्। ष्।; अर्थरूपस्य प्रकाशस्य - क्। ष्। ष्।] कारणं भवेत् बीजमिवाङ्कुरस्य । न च अङ्कुरो बीजापेक्षोऽङ्कुरात्मा, ततो यदि न प्रकाशात्मा स स्यात् [भवेत् - क्। ष्। ष्।] “प्रागिव” ज्ञानोदयात् पूर्वं यथाऽसावप्रकाशः [सोऽप्रकाशः - क्। ष्। ष्।]
ज्ञानक्रिययार्थविषयत्वेनोत्पादितार्थशरीरोत्तीर्णा नैव भवतीति भावः । सङ्गृह्य परमार्थं कथयति सर्वथा इति । सर्वथा - सर्वप्रकारेण, अर्थशरीरविश्रान्तः, न तु शुद्धप्रकाशरूपः, प्रकाशः - लक्षणया प्रकाशमानता, चेत् - यदि, तदा ममावभासते इति - एवम्, प्रमातृलग्नतया - षष्ठ्यन्तास्मच्छब्दवाच्यप्रमातृसम्बन्धितया, प्रकाशस्य - घटसबन्धिनः प्रकाशकर्तृत्वस्य, स्थितिः - अवस्थानम्, दुरुपपादा - दुःखेनोपपादयितुं शक्या स्यात्, अन्यसम्बन्धिनः अन्यसम्बन्धित्वायोगात् । ननु कारणतया स्थितः प्रमाता कथं न तस्य सम्बन्धी स्यादित्यत आह प्रमाता इति । हि - यस्मात्, प्रमाता तदानीम् - ग्रहणसमये, इन्द्रियादिमयः - ग्रहणसापेक्षत्वेन इन्द्रियादिषु दत्तावधानतया तद्रूपोऽपि सन्, अर्थरूपप्रकाशस्य - अर्थशरीरविश्रान्ततयाङ्गीकृतस्य प्रकाशस्य, कारणं भवेत् - अवश्यं भवत्येव । किमिव कस्य ? बीजमिवाङ्कुरस्य । ननु तेनैव तस्य तत् सम्बन्धित्वमायातमित्यत आह न च इति । अङ्कुरः - बीजादुत्पन्नः अङ्कुरः, अङ्कुरात्मा - अङ्कुरभावं गतः सन्, बिजापेक्षः - सर्वदा बीजापेक्षायुक्तः न भवति स्वकार्यकरणे तदपेक्षारहितत्वात् ।
तथैवात्मनो लब्धसत्ताकः अर्थशरीरविश्रान्तः प्रकाशः भिन्नत्वेन आत्मानं नापेक्षते इत्यर्थः । प्रक्रियामुपसंहरति ततः इति । ततः - तस्मात्, सः - अर्थः, ग्रहणसमये प्रकाशात्मा - प्रकाशकर्तृताद्वारेण शुद्धप्रकाशरूपः, यदि न स्यात्, तदा प्रागिव इति पदं व्याचष्टे ज्ञानोदयात् पूर्वं यथा इति । ज्ञानोदयात् पूर्व यथा असौ -
प्रकाशः तथा ज्ञानोदयेऽपि स्यात् । ननु ज्ञानम् अर्थप्रकाशरूपमेव, तत् कथं ज्ञानस्य उदयानुदययोः अर्थस्य तुल्यता स्यात् । स्यात् एतत् यदि उपपद्येत, यावता अर्थात् भिन्नं यत् ज्ञानं प्रकाशरूपम्, तत् अर्थस्य सम्बन्धितया कथं स्यात् । यदि तावत् अर्थः प्रकाशते इत्येवम्भूतं ज्ञानस्य स्वरूपं
अर्थः, अप्रकाशः स्यात्, नीलत्वाप्रकाशमानत्वयोरविशेषात्, विशेषे तु अस्मदभीष्टस्य सिद्धिरिति भावः । तदुक्तम् :-
ज्ञेयस्य च परं तत्त्वं यः प्रकाशात्मकः शिवः ।
न ह्यप्रकाशरूपस्य प्राकाश्यं वस्तुतापि वा ॥
इति । इदं प्रमाणं च तर्करूपमेव । तथा हि - अर्थो यदि शुद्धप्रकाशव्यतिरिक्तः स्यात् तर्हि अप्रकाशः स्यात् इति व्याप्यारोपेण व्यापकारोपणमेवात्र दृश्यते । यथा यद्यत्राग्निर्नाभविष्यत् तर्हि धूमो नाभविष्यत् इत्यत्र । ननु तर्हि कथमत्रावतरणिकायामाचार्येण प्रमाणव्यवहारः कृतः ? प्रमाणमार्गशोधकत्वेनेति ब्रूमः अनेन हि शोधितो [अनेन शोधितं मार्गं हि - च्।] मार्गः । अथमर्थः - शुद्धप्रकाशरूपः प्रकाशत्वादिति केवलव्यतिरेक्यनुमानमत्र प्रवर्तते प्राक्कालीनस्यास्यार्थस्यैव व्यतिरेके दृष्टान्तत्वात्, सर्वस्य अर्थराशेः पक्षीकृततत्वेनान्वयासम्भवाच्चेत्यलं प्रपञ्चेन ।
अत्र तृतीयपादस्यावतरणिकां कर्तुं तार्किकमतं शङ्कते ननु इति ।
अर्थ प्रकाशरूपमेव - अर्थविषयप्रकाशस्वरूपमेव, न तु नीलवत् विशेषणतया अर्थशरीरविश्रान्तम् । ननु ततः किमित्यत आह तत् इति । तत् - ततः कारणात्, ज्ञानस्योदयानुदययोरर्थस्य - नीलद्यर्थस्य, तुल्यता स्यात् ।
तर्करीत्याङ्गीकरोति स्यादेतत् इति । ननु तर्ह्यस्त्वित्यत आह यदि इति । ननु कथं नोपपद्यते इत्याशङ्क्य तृतीयपादं व्याचष्टे यावता इति । यावता - यस्मात्, सम्बन्धितया - सम्बन्धिभावेन, सम्बन्धीति यावत्, इत्थम्भावे तृतीया । कथं स्यात्, केन प्रकारेण स्यात् इत्यर्थः । तत्र प्रकारमुपन्यस्येष्टापत्तिमाह
तत् अर्थज्ञानयोः अभेद एवायातः, अर्थस्वभावस्य ज्ञानत्वेन उक्तत्वात्, अर्थस्वभावत्वे [अर्थस्वभावत्वे च प्रकाशस्य - क्। ष्। ष्।] च सति प्रकाशस्य अर्थात्मतायाम् उक्तं दूषणम् । अथ अर्थं प्रकाशयति इति ज्ञानस्य स्वरूपम्, तर्हि प्रकाशमानमर्थं करोति ज्ञानम् इति आपतिते पुनरपि स एव दोषः । कृतप्रतानश्च अयं प्रकृत्यर्थण्यर्थविवेकोमयैव भेदविदारणे [भेदवादविदारणे - क्। ।ष्। ष्।] इति तत एव अन्वेष्यः । तस्मात् भिन्नः प्रकाशोऽर्थस्य सम्बन्धी भवति इति सम्भावनैव नास्ति । तच्च [अतश्च - क्। ष्। ष्।] इदम् उपपत्त्या आयातम् -
यदि इति । कुत आयात इत्यत आह अर्थ इति । अर्थस्वभावस्य - अर्थस्वरूपस्य, ज्ञानत्वेन - ज्ञानभावेन, उक्तत्वात् इति, अनिच्छयापि इति शेषः । ननु ततः किम् इत्यत आह अर्थ इति । प्रकाशस्यार्थस्वभावत्वे सति अर्थात्मतायाम् उक्तं दूषणम् - समनन्तरमर्थात्मताविषये प्रोक्तोऽन्धतारुपो दोषः स्यात् । अथ पूर्वपक्षवादिना अभीष्टं पक्षमुपन्यस्यति अथ इति । अर्थं प्रकाशयति इति, णिसहितेन प्रकारेणेत्यर्थः, अत्रापि पुर्वोक्तमेव दूषणं प्रसञ्जयति तर्हि इति । आपतिते - विग्रहवशेन बलादायाते, प्रकाशमानं करोति इत्यत्र हि प्रकाशमानम् इति घटः प्रकाशते इत्यनेन तुल्यार्थम्, तत्र चोक्त एव दोषः, यत्तु करोतीति णिज्वाच्यं तत्रावस्थाभेदेन तदेव ज्ञानं हेतुः, न च तेनास्य प्रकाशकर्तृत्वं विनश्यति, न हि पचनात् [न हि पचनापाठको देवदत्तः पचन्निति वक्तुं शक्यः - च्।] पाठको देवदत्तो पचन्निति वक्तुं शक्यः । ननु अस्य विस्तरेण विवेचनं व्याय्यमित्यत आह कृत इति । कृतप्रतानः - कृतविस्तारश्च, भेदविदारणे, भेदविदारणपरे ग्रन्थे इत्यर्थः । तत एव - भेदविदारणादेव । उक्तमर्थमुपसंहरति तस्मात् इति । सम्भावनैव नास्ति, का कथा वस्तुताया इति भावः । फलितं कथयंश्चतुर्थपादं व्याचष्टे तच्च इति । उपपत्त्या - प्रमाणेन, आयातम् - अनिच्छयापि सिद्धम् । किमित्यपक्षायामाह
अर्थस्य स्वरूपं प्रकाशमानता [प्रकाशमानत्वम् - क्। ष्। ष्।] प्रकाशाभिन्नत्वम् इति । प्रकाशश्च यदि घटेऽन्यः पटेऽन्यः तदा अनुसन्धानस्य अयोगः, द्वयोः प्रकाशयोः स्वात्ममात्रपर्यवसानाद् इति वितत्य उपपादितं नश्येत् जनस्थितिः इत्यत्र । तस्मात् एक एव प्रकाशः एतदेव आवृत्त्या दर्शितं न च प्रकाशो भिन्नः स्यात् इति ॥ २ ॥
अर्थस्य इति । प्रकाशता इति पदं व्याचष्टे प्रकाशमानता इति । अत्रापि पर्यायपदमाह प्रकाशाभिन्नत्वम् इति । अकर्मकाणां कर्ता हि क्रियया सहैकत्वमेव भजति, यथा देवदत्तो भवति इत्यत्र भवनं देदत्तस्य स्वरूपमेव न तु देवदत्त ओदनं पचति इतिवत् कर्मकारकविषयक्रियाहेतुतया तिष्ठतीति । इति शब्दः श्लोकव्याख्यासमाप्तौ ।
अथ तृतीयपादस्यावृत्त्यार्थान्तरं वक्तुं पुनरवतरणिकां करोति प्रकाशश्च इति । उपपादितम् - समर्थितम् । कुत्रेत्यपेक्षायामाह नश्येत् इति । अवतरणिकां कृत्वा फलितकथनरीत्या तृतीयं पादमावृत्त्या व्याचष्टे तस्मात् इति । आवृत्त्या - पात्रवत् क्रमेण योजनरूपया, दर्शितम्, तृतीयपादेन इति शेषः । तदेवोपन्यस्यति न च इति ।
अयमत्र सङ्क्षिप्तार्थ।ः । प्रकाशात्मतया विना - प्रकाशमानतारूपशुद्धप्रकाशाख्यानिजस्वरूपासादनद्वारागत- शुद्धप्रकाशरूपतां विना, अर्थः प्रागिव - अग्रहणकाले इव ग्रहणकालेऽपि अप्रकाशः स्यात्, प्रकाशते च अतो ज्ञायते प्रकाशान्तः स्थितस्यैव भावस्य बहिरिदन्तया भासनमस्तीति भावः । ननु प्रकाशविषयतयैवास्य भानं भवतु किं तद्रूपताकल्पनायासेनेत्यत आह न च इति । प्रकाशः भिन्नः न च स्यात्, तथा च अस्य घटसम्बन्धित्वमेवायुक्तं भिन्नयोः सम्बन्धायोगादिति भवः । अतः प्रकाशोऽर्थस्यात्मा - अलौकिकं स्वरूपं भवति ।
ननु तत्किं प्रत्यर्थं भिन्नमथवा एकमित्यपेक्षायां तृतीयपादमावृत्त्या योजनीयम् । प्रकाशः भिन्नः न हि स्यात्, एक एव स्यादित्यर्थः, अन्यथा जनस्थितिनाशप्रसङ्गाद्
व्यतिरिक्तस्य ज्ञानस्य अर्थप्रकाशरूपताम् अभ्युपगम्यापि बाधकान्तरमाह :-
भिन्ने प्रकाशे चाभिन्ने सङ्करो विषयस्य तत् ।
प्रकाशात्मा प्रकाश्योऽर्थो ना प्रकाशश्च सिद्ध्यति ॥ ३ ॥
यदि अर्थात् अन्य एव ज्ञानात्मा प्रकाशः अत एव भिन्नोऽर्थतः तर्हि स्वात्मनि तस्य प्रकाशमात्ररूपत्वात् अभेद एव । तथा हि नीलस्य प्रकाशः, पीतस्य प्रकाशः इति यो नीलांशः पीतांशश्च, स न तावत् ज्ञानस्य [स तावत् ज्ञानस्य स्वरूपम् - क्। ष्। ष्।]
इति । तथास्मदीयं पद्यमपि :-
चिदन्तःस्थानां यद्बहिरिव विभानं समुचितं ततोऽर्थानां…चिति चिति विभागा इव यतः ।
मृदन्तःस्थो मृत्त्वं त्यजति न कदाचिद् घट इह तदन्तःस्थत्वं यद् भवति खलु तत्त्वं न तु भिदा ॥
इति ।
अथ तृतीयस्यश्लोकस्यावतरणिकां करोति व्यातिरिक्त इति ।
अत्र टीका :-
व्यतिरिक्तस्य - विषयितया स्थितत्वाद् भिन्नस्य, अभ्युपगम्यापि - निपुणवादितयाऽङ्गीकृत्यापि, वाधकान्तरम् - सङ्कररूपमन्यं बाधकम् । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । भिन्ने इति ।
अत्र टीका :-
भिन्ने प्रकाशे इति पदद्वयं व्याचष्टे यदि इति । अन्य एव - भिन्न एव, ज्ञानात्मा - ज्ञानरूपः, अत एव - अन्यत्वादेव, अर्थतः - नीलादेः सकाशात् । भिन्ने इति पदं व्याचष्टे तर्हि इति । स्वात्मनि - प्रकाशाख्ये निजस्वरूपे । अभेदमेव समर्थयितुमुपक्रमं करोति तथा हि इति ।
स्वरूपम् भेदवादत्यागापत्तेः । अथ विषयः, तदेवेदं विचार्यते - इह प्रकाअशबलात् नीलपीतयोः भेदोऽभ्युपगन्तव्यः, येनैव च प्रकाशेन नीलो नील एव इति उपगम्यते, तेनैव च प्रकाशेन पीतः इति कथं सङ्गच्छताम्, नीलेन जनितः, पीतेन जनितः, तेन वा सह समानसमाग्रीक [एकसामग्रीकः - क्। ष्। ष्।] इत्यादि
तावत्, नात्र कस्यापि विप्रतिपत्तिरित्यर्थः । भेदवादत्यागापत्तेः इति, वैशेषिका हि भेदनिष्ठा एव, ज्ञानार्थयोश्च तैरेकस्वरूपत्वेऽङ्गीकृते स्वाभीष्टस्य भेदवादस्य तेषां त्याग एव स्यात्, तथा च अपसिद्धान्तापत्तिस्तेषां स्यादिति भावः । पक्षान्तरं शङ्कते अथ इति ।
नीलांशः पीताशश्च ज्ञानस्य विषयः अथ - चेद् भवतीत्येर्थः ।
तदेवेदम् - विषयत्वमेव । विचारमेव करोति इह इति । अभ्युपगन्तव्यः - अवश्यमङ्गीकर्तव्यः, अन्यथा तस्यासिद्धे । तेनैव प्रकाशेन पीतः पीतो भवतीति यदभ्युपगम्यते, इति - एतत्, कथं सङ्गच्छताम् - युक्तं भवेत्, नीलज्ञानस्य पीतं प्रति पीतज्ञानस्य च नीलं प्रति व्यवस्थापकत्वाऽयोगादिति भावः । अत्र बौद्धैकदेशैः समर्थितो द्विविधो विषयविभागो न युक्त इति कथयति नीलेन इति । अयं प्रकाशः नीलेन जनितः - विषयभावेन स्थित्वोत्पादितः, अत एव नीलप्रकाशो भवति, पीतेन जनितः अतः पीतप्रकाशो भवति । वा - पक्षान्तरे, तेन सह समानसामग्रीकः - नीलेन सहैकसामग्रीयुक्तः नीलप्रकाशो भवति, एवं पीतेन सहेत्यादि ।
इदमत्र तात्पर्यम् । सर्वे सन्तो भावास्तावत् क्षणिकेन विज्ञानेन दत्तसत्ताकाः क्षणिका एवेति युक्तिमत्, विज्ञानस्य च क्षणिकत्वं प्रतिक्षणं प्रतिविषयं नवीनतयोत्पादात् प्रसिद्धमेव, तत्र प्रथममिन्द्रियेण क्षणिकेन उत्पन्नो ज्ञानक्षणः स्वसन्तानमारभते तद्विषयोऽर्थक्षणश्च स्वसन्तानम्, तत्र द्वितीय ज्ञानक्षणे प्रथमो ज्ञानक्षणः आरम्भकत्वन उपादानीभवति, तद्विषयस्त्वर्थङ्क्षणः उपादानकारणस्फूटीभावहेतुत्वेन
यत् उच्यते तत् सिद्धे नीलपीतयोर्भेदे स्यात्, स एव विचार्यः । अथ नीलाकारोऽसौ तत् यदि प्रतिबिम्बबलात् तद्द्वितीयबिम्बानवभासात् अयुक्तम् । अथ अभेदः, तर्हि त्यक्तो भेदवादः, तथा करणतादिवादे [कारणतादिवादे - क्। ष्। ष्।] शिखरस्थज्ञानं बहुतरनीलादिजन्यम् एकत्र पटु अन्यत्र मन्दम् इति कथं
अमुमेव प्रति निमित्तकारणीभवति इति स्फुटमेव द्वितीययोः ज्ञानार्थक्षणयोः एकसामग्रीकत्वम्, ज्ञानस्य ज्ञानार्थजन्यत्वात्, अर्थस्याप्यर्थज्ञानजन्यत्वात् । यस्तूपादानसहकारिभेदः स स्तोकत्वेन अकिञ्चित्कर एव । यदुक्तम् :-
एको हि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेष्विवाङ्कः
इति । तावेव प्रथमद्वितीयौ ज्ञानार्थक्षणौ एकसामग्रीकत्वेन परस्परं न व्यभिचरत इत्ययं ज्ञानक्षणोऽस्यार्थक्षणस्य सम्बन्धी, एवं तृतीयादिष्वपि ज्ञेयम्, प्रथमयोस्तु जन्यजनकभावेनैव व्यवस्थासिद्धिरित्यलम् ।
नन्वेवमेव भवतु इत्यत आह इत्यादि इति । स एव - नीलपीतयोर्भेद एव ।
तथा च नैतद्युक्तमिति भावः । अथ निराकारसाकारज्ञानबौद्धमतमाह अथ इति । असौ - प्रकाश एव, नीलाकारो भवति, तत एव नीलप्रकाशो भवतीत्यर्थः । अत्रापि परिहारमाह तत् इति । तत् - नीलाकारत्वम्, यदि प्रतिबिम्बबलाद् भवति, तदा तद् द्वितीयबिम्बानवभासात् - वस्तुरूपबिम्बानवकॢप्तेः, अयुक्तं भवति, बिम्बाभावे प्रतिबिम्बाऽयोगात् । एतेन निराकारबौद्धमतनिरासः ।
साकारवादिमतमपि दूषयति अथ इति । अथाभेदः - ज्ञानाकारस्यैव स्थितत्वेन अर्थज्ञानयोरभेद एव भवति, तर्हि भवद्भिरपि भेदवादः त्यक्तः, विज्ञानवादिबौद्धवदिति शेषः
अथोपायातिशयेन प्रमेयातिशयेन च ज्ञानातिशयवादिनां तार्किकाणां मतं दूषयितुमाह करण इति । करणम् - उपायः तस्य भावः, आदिशब्देन प्रमेयत्वादिकार्यग्रहणम्, तस्याः वादः तस्मिन् । ते हि एवं कथयन्तिः - एकरूपाः प्रतीतयः करणवशेनैव भिद्यन्ते, कुत्रचिद्धि किञ्चिदेव करणं न सर्वं सर्वत्र, तथा प्रमेयेन वा भिद्यन्ते, न हि सर्वत्र एकमेव प्रमेयम् । तत्र परिहारमाह शिखरस्थ इति । शिखरे - पर्वतशृङ्गे तिष्ठतीति तादृशस्य, युगपत्सर्वदर्शिनः पुरुषस्येत्यर्थः, यत् ज्ञानम्,
भेदः प्रकाशशरीरस्य अभेदात् । तथाभूते च अन्यतरदर्शनोद्भूतेऽपि [अन्यतरदर्शनोद्बोधिते - क्। ष्। ष्।] संस्कारे बलादेव अशेषस्मरणप्रसङ्ग इति भूयान् सङ्करः । स्यादेतत्, अर्थ एवास्तु, किमनेन दोषापादकेन [दोषोपपादकेन - क्। ष्। ष्।] प्रकाशेन इति । अत्राह - अप्रकाशस्य प्रसिद्धिरेव न काचित्, स्वात्मनि हि नीलं यदि पीतं न किञ्चित् वा, तत्
कीदृशम् ? बहुतरं यन्नीलं तद् आदिर्यस्य तत् बहुतरनीलादि, तेन जन्यम्, आदिशब्देन अल्पतरपीतादिग्रहणम्, एकत्र - बहुतरनिलविषये, पटु भवति, अन्यत्र - अल्पतरपीतादिविषये, मन्दं भवति इति भेदः कथं स्यात् । कुतः ? प्रकाशशरीरस्य प्रमाणत्वेन स्थितस्य प्रकाअशस्वरूपस्य, एकत्वात्, न हि तत्र उपायभूतस्य प्रमाणस्य भेदः, आदिशब्दगृहीतेन प्रमेयातिशयेन ज्ञानातिशयवादे दूरादूरस्थितवस्तुज्ञानं कथमेकत्र पटु अन्यत्र मन्दं भवेदिति स्वयं योजनीयम् । समीपस्थे हि ज्ञानं पटु भवति दूरस्थे तु तस्मिन्नेव मन्दम्, प्रमेयैकत्वादिति हेतुत्वेन स्वयं योजनीयम् । करणतावादे दोषान्तरमाह तथा इति ।
तथाभूते च संस्कारे - युगपत्सर्वविषयानुभवानुकूले संस्कारे च, अन्यतरदर्शनोद्भूते - तत्रानुभूतबहुवस्तुमध्यादेकतरस्य दर्शनेनोद्भूते सति बलादेवाशेषस्मरणप्रसङ्गः - तत्रानुभूतसमस्तवस्तुस्मरणप्रसङ्गः, इति - अतः कारणात्, भूयान् - अतिबहुः, सङ्करः स्यात्, स्मृतौ व्याप्तेरिति भावः, अतः कारणात्कारणतादिवादस्यापि न युक्तत्वमिति भावः । एतेन पूर्वार्धं कृतव्याख्यम् ।
अत्र शिष्यः प्रश्नयति स्यादेतद् इति । एतद् भवत्वित्यर्थः ।
किमित्यपेक्षायामाह अर्थ एव इति । दोषापादकेन - प्रोक्तसङ्करदोषान्धतादिदोषप्रसञ्जकेन । एतेन अर्थ पदरहितं तृतीयपादं तावद् अवस्थाप्य चतुर्थपादस्यावतरणिका कृता । उत्तरं वक्तुं पूर्वपादस्थ अर्थ पदसहितं चतुर्थपादं व्याचष्टे अत्राह इति ।
किमाहेत्यपेक्षायामाह अप्रकाशस्य इति । कुतो न सिद्धिरित्यत आह स्वात्मनि इति । स्वात्मनि - प्रकाशास्पृष्टे स्वरूपमात्रे, नीलं यदि पीतम्, वा - पक्षान्तरे, न किञ्चिद्वा - असद्वा, कश्चिद् ब्रूयादिति शेषः ।
किं दुष्येत्, अत एव ग्रन्थकृतैव अन्यत्र उक्तम् :-
एवमात्मन्यसत्कल्पाः प्रकाशस्यैव सन्त्यमी ।
जडाः प्रकाश एवास्ति स्वात्मनः स्वपरात्मभिः ॥
इति । तत् यदि प्रकाशः तदा भवति अर्थः, प्रकाशश्च असौ कथम् । यदि प्रकाशतैव घटस्य वपुः सैव पटस्य इत्यादि विश्ववपुः प्रकाशः सिद्धः ॥ ३ ॥
किं दुष्येत् - को दोष आयाति, न हि तन्नीलमुत्थाय नीलोहम् इति विवादं कुर्यात्, जडत्वेन मूकत्वादिति भावः । अत्र श्रीमदुत्पलदेवस्य वाक्यमुदाहरति एवम् इति । अस्य श्लोकस्य पूर्वं व्याख्या कृतेति न पुनरायस्तम् । तावत्स्थापितं तृतीयपादमिहैव व्याख्यायोग्यं व्याख्यातुं फलितकथनरीत्याऽवतरणिकां करोति तत् इति । तत् - तस्मात् कारणात् यदि प्रकाशः स्यात् तदा अर्थो भवति, सिद्ध्यतीत्यर्थः ।
शिष्यः पृच्छति प्रकाशश्च इति । असौ प्रकाशश्च कथं स्याद्, येन अर्थः सिद्ध्यतीति भावः । उत्तरं वक्तुम् “अर्थ” पदरहितं तृतीयं पादं व्याचष्टे यदि इति । प्रकाशः तदा भवति । तदा कदा ? यदि इत्यादि भवति, इत्यादि किम् ? या घटस्य प्रकाशता वपुर्भवति सैव प्रकाशता पटवपुर्भवति । आदिशब्देन सैव सर्वस्य वपुर्भवति । प्रकाशात्मा प्रकाश्यः इति वाक्यस्याप्ययमेवार्थः । यदा प्रकाशात्मा, भावप्रधानो निर्देशः, प्रकाशात्मता, अर्थात्सर्ववेद्येषु परमार्थतया स्थिता प्रकाशरूपता, प्रकाश्यो [प्रकाशो भवति - च्।] भवति न तु प्रत्येकं विषयितया स्थितः प्रकाशः तस्य तदंशत्वेन ग्राहकतया कल्पितत्वात् इति सूत्रेऽनुक्तमपि फलितं स्वाभिप्रेतं वस्तु सिद्धतया कथयति विश्ववपुः इति । इति शब्दोऽध्याहार्यः, इति विश्ववपुः - सर्वमयः, प्रकाशः सिद्धः ।
एवमत्र सङ्क्षपः । प्रकाशे - ज्ञाने, भिन्ने - स्वविषयाद् भिन्ने सति, तथा अभिन्ने अर्थ एव प्रकाशः [प्रकाशकः - च्।] अभिन्ने च सति, विषयस्य, जातावेकवचनम् तेन विषयाणामित्यर्थः ।
एकस्यैव प्रकाशस्य एवम्भूतक्रमाक्रमकार्यकारणभावादि- विचित्रवैश्वरूप्यप्रदर्शनसामर्थ्यरूपम् ऐश्वर्यम् इत्येतावत् [इति तावत् - क्। ष्। ष्।] पर्यवसाययितव्यम् । तच्चैवं पर्यवस्यति, यदि प्रकाशस्य विचित्रभावे हेत्वन्तरम् अपाकृतम् । तत्र प्रकाशस्य अविचित्रस्य क्रमेण विचित्रता विचित्रताकारणं प्रतिबिम्बात्मकं तत्प्रतिबिम्बसजातीयं यत् तदेव नीलादिरूपं बाह्यम्, तच्च यद्यप्यनुमेयम्, तथापि
सङ्करः - सङ्कीर्णता, [माहार्णता - च्।] एकज्ञानेन सर्वविषयग्रहणात्, अप्रकाशः - प्रकाशरहितो विषयः न सिद्ध्यति, यतः प्रकाशात्मा अर्थः प्रकाशो भवति इति ॥ ३ ॥
अथ चतुर्थपञ्चमयोः श्लोकयोरवतरणिकां करोति एकस्यैव इति ।
अत्र टीका :-
एकस्यैव, न तु प्रतिविषयं भिन्नत्वन स्थितत्वादनकस्य, एवम्भूताः - लोके प्रसिद्धत्वाऽप्रसिद्धत्वाभ्यां स्थिताः ये क्रमाक्रमाः - क्रमाक्रमरूपाः कार्यकारणभावादयः, कार्यकारणभावः मोक्षेण महेश्वरस्य, घटादिभिः सह कुलालादेश्च, आदिशब्दाद् व्याप्यव्यापकभावादिग्रहणम्, ते एव विचित्रम् - नानाविधम्, वैश्वरूप्यम् - सर्वरूपत्वम्, तस्य यत् प्रदर्शनं तत्र यत्सामर्थ्यं तद्रूपं यस्य तादृशम् । इत्येतावत् - प्रोक्तमेतावन्मात्रम्, पर्यवसाययितव्यम् - विश्रामयितव्यम्, निश्चेयमिति यावत् । पर्यवस्यति - विश्राम्यति । एवं कथमित्यपेक्षायामाह यदि इति । हेत्वन्तरम् - स्वव्यतिरिक्तोऽन्यो हेतुः अपाकृतम् - दूरीकृतम्, अन्यथा भेदापातादिति भावः । तत्र अक्रमस्य “युक्तताम्” ज्ञात्वा क्रमेण इत्युक्तम्, विचित्रतायाः कारणम् विचित्रताकारणम्, प्रतिबिम्बात्मकम् - प्रतिबिम्बदायकम्, तस्य प्रतिबिम्बस्य - सङ्क्रान्तस्य भावप्रतिबिम्बस्य, सजातीयम् - सदृशम्, बिम्बप्रतिबिम्बयोः सदृशत्वात्, बाह्यम् - बिम्बभूतं बाह्यं वस्तु, बिम्बं विना प्रतिबिम्बाअऽयोगादिति भावः । ननु तर्ह्यनुमेयतया स्थितस्यास्य बाह्यस्य प्रत्यक्षत्वं कथं कथयसीत्याह तच्च इति । तच्च - बाह्यञ्च, यद्यप्यनुमेयम् -
इदं नीलमिति प्रत्यक्षेण अध्यवसायात् अध्यवसायप्राणितत्वाच्च प्रमाणस्थितेः प्रत्यक्षव्यपदेश्यं भविष्यति । बाह्यार्थवादिकथितमिति हेत्वन्तरम् अनुमीयमानबाह्यरूप [अनुमीयमानं बाह्यरूपम् - क्। ष्।
ष्।] आशङ्क्यमानत्वेन दर्शयति [प्रदर्शयति - क्। ष्। ष्।] :-
तत्तदाकस्मिकाभासो बाह्यं चेदनुमापयेत् ।
न ह्यभिन्नस्य बोधस्य विचित्राभासहेतुता ॥ ४ ॥
न वासनाप्रबोधोऽत्र विचित्रो हेतुतामियात् ।
तस्यापि तत्प्रबोधस्य वैचित्र्ये किं निबन्धनम् ॥ ५ ॥
इह बोधः तावत् अभिन्नः, प्रकाशमात्रमेव हि अस्य परमार्थः, प्रकाशाधिकं यदि नीलस्य रूपम्, तर्हि तत् अप्रकाशरूपम् इति न प्रकाशेत ।
प्रतिबिम्बाख्यन लिङ्गेन अवगतत्वात् अनुमितिविषयो भवति, तथापि इदं नीलम् इति प्रत्यक्षेण - प्रत्यक्षप्रमाणन, अध्यवसायात्, प्रमाणस्थितेः - प्रत्यक्षादिप्रमाणसत्तायाः, अध्यवसायप्राणितत्वाच्च, यत् प्रमाणं हि यत्र विषये यथाऽध्यवसायं जनयति तत्तत्र तथा व्यवस्थाप्यते इत्यर्थः ।
प्रत्यक्षव्यदेश्यम् - प्रत्यक्षेतिनामयोग्यम्, भविष्यति, येन तस्य लोके प्रत्यक्षमिति प्रसिद्धिरिति भावः । बाह्यार्थवादिभिः - बौद्धविशेषैः कथितम्, इति हेत्वन्तरम् - प्रोक्तरूपमन्यं हेतुम्, कीदृशम् ? अनुमीयमानं बाह्यरूपम् - बाह्यपदार्थस्वरूपं येन तादृशम्, आर्शङ्क्यमानत्वेन - आशङ्काकर्मत्वेन, दर्शयति, तदेवाशङ्कते इति यावत् । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । तत् इति ।
अत्र टीका :-
प्रथमश्लोकस्य प्रथममुत्तरार्धमेव व्याचष्टे इह इति । अभिन्नः - भेदरहितः । कुतोऽभिन्न इत्यत आह प्रकाश इति । परमार्थः - सहजं स्वरूपम् । साकारज्ञानवादिमतं शङ्कते प्रकाश इति । प्रकाशाख्यात् स्वरूपादधिकं प्रकाशाधिकम्, अस्य - बोधस्य । परिहारमाह तर्हि इति । तत् -
अथ तथा प्रकाशत्वमेव अस्य रूपम्, पीतप्रकाशः कथं स्यात् । अथापि क्रमिकनीलपीतादिप्रकाशरूपमेव तस्य स्वरूपम्, [तस्य रूपम् - क्। ष्। ष्।] नीलाद्याभासशून्योऽहमिति प्रकाशः स्वापाद्यवस्थासु न स्यात् । तस्मात् प्रकाशः प्रकाश एव, अणुमात्रमपि न रूपान्तरम् अस्य अस्ति इति अभिन्नो बोधः, तस्य च अभिन्नस्य कदाचित् नीलाभासता कदाचित् पीताभासता इति ये विचित्राभासाः तत्र कारणत्वम् हि यस्मात् न उपपन्नम् हेतौ अभिन्ने कार्यभेदस्य
नीलाख्यं रूपम्, अप्रकाशरूपम् इति, न हि जडस्य नीलस्य प्रकाशत्वं युक्तमिति भावः । न प्रकाशेत - न हि अश्वेतः प्रासादः श्वेतते इति युक्तमिति भावः । शिष्यः शङ्कते अथ इति । तथा प्रकाशत्वम् - नीलप्रकाशभावः, स्वरूपम् इति, न स्वरूपे पर्यनुयोगो युक्त इति भावः ।
अत्र परिहारमाह पीत इति । स्वरूपपरिवृत्तेरयोगादिति भावः । पुनरपि शङ्कते अथ इति । तस्य - बोधस्य, स्वरूपम् । पुनरपि परिहारं कथयति नील इति । नीलाद्याभासशून्यः - अहम्मात्राभासत्वेन नीलाभासरहितः, स्वापाद्यवस्थासु - सुपित्मूर्च्छाद्यवस्थासु । ननु तत्र आत्मनोप्याभासो नानुभूयते । सत्यम्, तत्र स्थितोऽप्यात्माभासः प्रकाशमात्रविषयत्वेन परामर्शानारूढत्वादसत्कल्प एव न तु परमार्थतो “सन् अज्ञानसाक्षितया स्थितत्वात्, अन्यथा न किञ्चिदवेदिषम् इत्युत्तरकालीनस्मृत्ययोगादिति भावः । तथा च न नीलाद्याभासोऽस्य [नीलाद्याभासमस्य - च्।] स्वरूपमिति भावः । उपसंहारं करोति तस्मात् इति । रूपान्तरम् - नीलादिस्वरूपम् अन्यत्स्वरूपम् इति - अतः कारणात्, अभिन्नः - भेदरहितः, तस्य च अभिन्नस्य बोधस्य, कदाचित् - नीलग्रहणसमये, एवं पीतादौ, इति - एवंरूपाः, ये - आभासाः, तत्र - तेषु आभासेषु, तस्य इत्यस्य काकाक्षिवदुभयत्र योजना । कुतो नोपपन्नमित्याकाङ्क्षायामाह हेतौ इति । हेतौ - बोधाख्ये कारणे, फलितं स्वाभिप्रायमह पुर्वार्धं च व्याचष्टे तस्मात् इति । स स इति वीप्साअयां
असम्भवात्, तस्मात् स स विचित्रनीलपीतादिरूप आकस्मिकोऽज्ञातप्रत्यक्षसिद्धहेतुकः सन् बाह्यं विज्ञानगतप्रतिबिम्बात्मकस्वस्वभावसम्पादकम् औचित्यात् [औचित्यवशात्
- क्। ष्। ष्।] निजरूपसदृशं क्रमोपनिपतद्रूपबहुतरभेदात्मकं ज्ञानात् सर्वथा पृथग्भूतम् अनुमापयति इति सम्भावयते बाह्यार्थवादी ॥ ४ ॥
न च अस्य इदं सम्भावनामात्रम्, अपि तु निश्चयपर्यवसायि एव भवति । तथा हि विज्ञानवादिना यो हेतुः वैचित्र्ये वासनाप्रबोधलक्षण उक्तः स न उपपद्यते । “स्मृतिजनकः संस्कारो वासना” इति तावत्
द्वित्वम् । एतेन् तत्तद् इत्यस्य व्याख्या । आकस्मिकः - परमार्थतः आलम्बनकारकासम्भवेनाकस्मादुत्पन्नः । कुतोकस्मादुत्पन्न इत्यपेक्षायां हेतुगर्भं विशेषणमाह अज्ञात इति । बाह्यम् - बाह्यवस्तु, अनुमापयति इति योजनीयम् । बाह्यं कीदृशमित्यपेक्षायां विशेषणान्याह विज्ञान इत्यादि । विज्ञाने - ग्रहणोन्मुखे अभिन्नतया प्रोक्ते बोधे, गतः - आकारत्वेन भासमानः, अतः एव प्रतिबिम्बात्मकः - प्रतिबिम्बरूपः यः स्वः स्वभावः तस्य सम्पादकम् । तथा औचित्यात् - युक्तत्वेन, निजरूपस्य - आभासाख्यस्य निजस्य स्वरूपस्य, सदृशम्, न हि प्रतिबिम्बविसदृशं बिम्बं युक्तमिति भावः । तथा क्रमेण उपनिपतन्तः रूपाणां ये बहुतराः - अतिबहवः भेदाः ते आत्मा यस्य तादृशम्, आभासभेदवत् बहुभेदयुक्तमिति यावत् । तथा ज्ञानात् - अभिन्नतया उक्ताद् बोधात्, पृथग्भूतम् अनुमापयति - अनुमितिं प्रति कर्तृत्वं भजन्तं प्रमातारं प्रेरयति, इति - एतत्, बाह्यार्थवादी सम्भावयते इति योजनीयम् । एतेन सम्भावनायामत्र लिङ् इति सूचितम्, णेरणौ इत्यात्मनेपदम् । एतेन प्रथमश्लोको गतव्याख्याः ॥ ४ ॥
ननु तर्हि इयं सम्भावनैवास्ति न वस्तु इत्यत आह न च इति ।
सम्भावनात्वं चात्र स्वदर्शनानुसारेणैवोक्तमिति अस्य इति पदेन सूचितम् । निश्चयपर्यवसायि - निश्चयविश्रान्तम्, निश्चितमिति यावत् । एतत् समर्थयन् द्वितीयश्लोकपूर्वार्धं व्याख्यातुमुपक्रमं करोति तथा हि इति । बासनाप्रबाधलक्षणः -
प्रसिद्धम्, इह तु अनुभववैचित्र्यहेतुः [अनुभववैचित्र्ये हेतुः - क्। ष्। ष्।] पर्येषणीयो वर्तते । अस्तु वा नीलाद्याभाससम्पादनसामर्थ्यरूपा ज्ञानस्य योग्यतात्मिका शक्तिः वासना, तस्याश्च स्वकार्यसम्पादनौन्मुख्यं प्रबोधः, ततो बोधेषु आभासवैचित्र्यम् इति ।
तत्रापि तु ब्रूमः - इह यद्यपि [ब्रूमः - यद्यपि - क्। ष्। ष्।] आभासानां ज्ञानान्तर्वर्तिनाम् अपारमार्थिकत्वं [अपाररमार्थिकम् - क्। ष्। ष्।] संवृतिसत्त्वम् उच्येतापि, तथापि यदेषां कारणं तद् वस्तुसदेव अङ्गीकार्यम् अवस्तुनः सर्वसामर्थ्यविरहितालक्षणस्य कार्यसम्पादनप्राणितसामर्थ्यात्मकस्वभावानुपपत्तेः । एवं स्थिते या एता वासना आभासकारणत्वेन इष्यन्ते, तासां बोधात् यदि भिन्नं रूपम्, तच्च परमार्थसत्, तदयं शब्दान्तरप्रच्छन्नो बाह्यार्थवादप्रकार एव । अथ
वासनाप्रबोधरूपः, अनुपपत्तिमेव साधयति स्मृति इति । इह - अस्मिन्विषये, अनुभववैचित्र्यहेतुः - अनुभववैचित्र्यस्योत्पादको विषयः, पर्येषणीयः विचारणीयः, तथा चान्यप्रस्तावे अन्यकथनमापतितमिति भावः ।
पक्षान्तरमाह अस्तु वा इति । तस्याश्च - शक्तेः, ततः - तस्मात् प्रबोधात् ।
अत्रापि परिहारमाह तत्रापि इति । ब्रूमः इति प्रतिज्ञां सफलयति इह इति ।
अपारमार्थिकत्वम् इति संवृतिसत्त्वपर्यायत्वेनोक्तम्, वस्तुसत् - परमार्थसत्, एव, न तु संवृतिसत् । कुत इत्यपेक्षायामाह अवस्तुनः इति ।
सर्वसामर्थ्यविरहोस्यास्तीति सर्वसामर्थ्यविरही तस्य भावः सर्वसामर्थ्यविरहिता, सा लक्षणम् - असाधारणो धर्मो यस्य तादृशस्य, कार्यसम्पादनेन प्राणितः - दत्तसत्ताकः यः सामर्थ्यात्मकः - सामर्थ्यरूपः स्वभावस्तस्य अनुपपत्तेः । ननु एवं भवतु ततः किमित्यत आह एवम् इति । तच्च - रूपं च, शब्दान्तरप्रच्छन्नः - वासनाशब्देन अपूर्वेण कथनात् तेन
संवृतिसत्, तर्हि तेन रूपेण कारणतानुपपत्तिः । तथा [अथ - क्। ष्। ष्।] येन रूपेण आसां पारमार्थिकता तेन कारणता, तत् तर्हि ज्ञानमात्रं तच्च अभिन्नम् इति नीलाद्याभासरूपस्य कार्यभेदस्य असिद्धिः । एवं वासनानाम् अविचित्रत्वे तत्प्रबोधो विचित्र इति का प्रत्याशा । भवन्तु वा वासना भिन्नाः, तथापि बोधमात्रातिरिक्तस्य देशकालभावादेः प्रबोधकाभिमतस्य विचित्रस्य कारणस्य अभावात् प्रबोधोऽविचित्र इति एक एव प्रबोधः इति सममेव नीलादिवैचित्र्यं भासेत । अथ स्वसन्तानवर्तीनि ज्ञानान्तराणि [बोधान्तराणि - क्। ष्। ष्।] विचित्राणि प्रबोधकारणानि इति, तदसत्, सुखदुःखनीलपीतादिपूर्वापरादिदेश -
प्रच्छादितः, तथा च अपसिद्धान्तापत्तिरिति भावः ।
प्रकारान्तरमाशङ्कापूर्वकत्वेन निराकरोति अथ इति । संवृतिसत् - अपारमार्थिकम्, कारणतायाः अनुपपत्तिः - अयोग्यता, समनन्तरमेवोक्तत्वादिति भावः । पुनः प्रकारान्तरं शङ्कते तथा इति ।
आसाम् - वासनानाम् । अनुमेयार्थवादी अत्र इष्टापत्तिमाह तत्तर्हि इति । तत् - पारमार्थिकं रूपम्, ज्ञानमात्रम् - विषयस्वरूपोत्तिर्णः शुद्धः प्रकाशः, तस्यैव सर्वसारत्वात्, तच्च - वासनापारमार्थिकरूपभूतं ज्ञानमात्रं च । ननु वासनानामेकत्वमेव भवतु, तत्प्रबोधस्य तु वैचित्र्यमेवेति तदेव बाह्यवैचित्र्यहेतुर्भवतीत्यत आह एवम् इति । अविषये प्रवृत्तत्वे प्रतिकूला आशा प्रत्याशा ।
वासनानां वैचित्र्यमभ्युपगम्यापि तत्प्रबोधस्य अवैचित्र्यमेव द्वितीयश्लोकस्योत्तरार्धेन व्याख्यातुं कथयति भवन्तु वा इति । अभावात् इति, अन्यथाऽद्वैतभङ्गप्रसङ्गादिति भावः । प्रबोधः - वासनाप्रबोधः, सममेव - युगपदेव । अत्र विज्ञानवादी स्फुरितं स्वाभिप्रायमाविष्करोति अथ इति । स्वसन्ताने - नीलादिज्ञानक्षणसमूहरूपे स्वे - निजे सन्ताने वर्तन्ते इति स्वसन्तानवर्तीनि, ज्ञानान्तराणि - प्रकाशाख्यादभिन्नाज्ज्ञानादन्यानि ज्ञानानि । एतदपि प्रत्याचष्टे तदसत् इति ।
कालभेदस्य विज्ञानमात्ररूपत्वे विज्ञानस्य च प्रकाशमात्रपरमार्थतायां स्वरूपभेदासम्भवे तथा बोधवैलक्षण्यानुपपत्तेः । परप्रमातृरूपेषु बोधान्तरिषु सन्तानान्तरशब्दवाच्येष्वपि तुल्योऽयम् अवैलक्षण्यप्रकारः । तत्रापि परकीयाभिमतस्य कृशस्थूलादेः कायस्य, स्वासप्रश्वासादेः प्राणस्य, सुखदुःखादेः धीगुणस्य; अनुमात्रभिमतसंविन्मात्ररूपाभेदे परत्वं कस्य भवेत् इति न विद्मः । बोधस्य तन्निष्ठस्य इति चेत्, सोऽपि प्रमाणेन यदि न
असत्त्वमेव साधयति सुख इति । सुखदुःखनीलपीतादयश्च, आदिशब्देन समस्तबाह्यवस्तुग्रहणम्, पूर्वापरादिरूपौ यौ देशकालौ तौ च, तेषां भेदस्य । अत्र आदिशब्देन दक्षिणादिभेदग्रहणम्, कालविषये तु चिरक्षिप्रादिग्रहणम् । विज्ञानमात्ररूपत्वे - विज्ञानाद्वैतान्यथानुपपत्त्या विज्ञानमात्रस्वरूपत्वे सति, विज्ञानस्य च प्रकाशमात्रपरमार्थतायाम् - सारभूतपरप्रकाशमात्रस्वरूपतायां सत्याम् । एतच्च परप्रसिद्ध्यैवोक्तम्, न हि बौद्धमते कुत्रापि नित्यप्रकाशसिद्धिः । तथा, अर्थात् विज्ञानस्य स्वरूपभेदाऽसम्भवे सति, बोधवैलक्षण्यानुपपत्तेः, तथा च बोधानतराणीति कथनमयुक्तं तेन च वासनाप्रबोधवैचित्र्यमप्ययुक्तमेवेति भावः । ननु परप्रमातृरूपाणि विज्ञानान्येव बोधान्तराणि नैकप्रमातृगतानि तथा च न त्वदुक्तदोषप्रसङ्ग इत्याशङ्क्याह पर इति । अवैलक्षण्यप्रकारः - अभेदप्रकारः, तत्रापि बोधमात्रस्यैकत्वात् कायाद्युपाधिकृतभेदस्य अकिञ्चित्करत्वात् इति भावः । कथं तुल्य इत्यपेक्षायामाह तत्रापि इति ।
परकीयाभिमतस्य - अन्यसम्बन्धित्वनाभिमतस्य, बौद्धमते गुणसमूहस्यैव गुणित्वात् कृश इत्युक्तम् । श्वास इति च धीगुणस्य इति च तार्किकप्रसिद्ध्योक्तम् । अनुमात्रभिमतम् - अनुमानकर्तृत्वेन कल्पितम्, यत् संविन्मात्रं तस्य यद्रूपं तस्मादभेदेविज्ञानमात्ररूपत्वेन भेदाभावे सति, परत्वं कस्य भवेदिति न विद्मः - जानीमः ।
सिद्धः तत् असन् एव, सिद्धोऽपि प्रमेयतया चेत् तत् जड एव, तथापि च कायादिवत् एव ज्ञानमात्रस्वभावः स्वसंविन्मात्ररूपत्वे परं प्रति अस्य असिद्धेः । ननु व्याहारादिक्रिया स्वात्मनि इच्छया व्याहरेयम् इत्येवं रूपया हेतुभावेन व्याप्ता दृष्टा तत् चैत्रकायेऽपि तया तद्धेतुकया भाव्यम् । न च मत्सन्ततिपतिता समीहा अस्ति इति स्वसंवेदनेन निश्चितम्, ततश्च परसमीहा सिद्ध्यति, तदेव सन्तानान्तरम् इति ।
पुनः शङ्कते बोधस्य इति । तन्निष्ठस्य, परकायाद्यवच्छिन्नस्येत्यर्थः ।
अत्रोत्तरमाह सोपि इति । सोपि - तन्निष्ठो बोधोऽपि, तथापि - जडत्वेऽपि, ज्ञानमात्रस्वभावः इति, अन्यथा विज्ञानाऽद्वैतभङ्गप्रसङ्गादिति भावः । नासौ प्रमेयतया सिद्धः अपि तु प्रमातृभावेनेत्यत्राह स्वसंविद् इति । अस्य - स्वसंविन्मात्ररूपस्य तन्निष्ठबोधस्य, असिद्धेः, न ह्यन्यसंविदन्यगोचरा इति भावः । तदुक्तम् :-
आत्मा यदि भवेन्मेयः
इत्यादि । अनुमानसिद्धत्वं वक्तुं प्रश्नयति ननु इति । व्याहारादिक्रिया - वचनादिरूपा क्रिया, आदिशब्देन स्पन्दादिक्रियाग्रहणम् । तत् - तस्मात्कारणात्, तया - दृश्यमानया चैत्रकायादिव्याहारक्रियया, तद्धेतुकया - इच्छाहेतुकया, भाव्यम् - अवश्यं भवनीयम्, मम व्याहारादिक्रियावदिति शेषः । नन सा इच्छापि प्रमातुरेव भवत्वित्यत आह न च इति । निश्चितम् इति, अत्र कोपि सन्देहो नास्तीति भावः । ततश्च - तस्माच्च, परसमीहा - परेच्छा, सिद्ध्यति - सिद्धिं याति, तदेव - सिद्धा परसमीहैव, न तु विज्ञानम्, सन्तानान्तरम् - समनन्तरोक्तमन्यसम्बन्धिसन्तानम्, समीहानाञ्च स्फुटमेव वैचित्र्यं तेनैव च
अत्रोच्यते - इह अनुमातुः व्याहाराभासो द्विधा भवति - व्याप्तिग्रहणकालेऽविच्छेदप्राणोऽहं व्याहरामि इत्येवंरूपः ।
अनुमानावसरे च “व्याहरति अयम्” इति विच्छेदजीवित इरि अन्यस्य व्याप्तिः गृहीता अन्यश्च आभासः कथम् इदानीं हेतुः स्यात् ? व्याहरति इति आभासस्य हेतुः अविदित एव इति कथं ततो हेतोः समीहा अनुमीयेत ? किं च “व्याहरति अयम्” इति यः प्रमात्रन्तरेऽनुमातृसम्मते विच्छिन्नतया अवभासः सोऽनुमेयसम्मतायाः परसमीहायाः कथं कार्यः स्यात् ? तस्या हि व्याहरामीत्याभासः कार्यो योऽसौ अविच्छेदजीवितः । न च अविच्छेदमयस्य विच्छेदमयः कार्यम् इति युक्तं तथाभूतकार्यकारणभावग्रहणो -
वासनाप्रबोधो विदित इति भावः । अत्रापि दोषं प्रसञ्जयितुमाह अत्रोच्यते इति । प्रतिज्ञां सफलयति इह इति । इह - अस्मिन् लोके, व्याहाराभासः - व्याहाररूप आभासः । सर्वस्य भावजातस्य आभासमात्ररूपत्वात् ।
द्विधाभावमेव विभज्य कथयति व्याप्ति इति । अविच्छेदप्राणः - अहंविश्रान्तत्वेन स्वतो भेदरहितः । कोसावित्यत आह अहम् इति ।
विच्छेदजीवितः - भेदप्राणः, परनिष्ठतया स्फूर्तेरिति भावः । अन्यस्य - अविच्छेदप्राणस्य, व्याप्तिः - निजसमीहया सह व्याप्यव्यापकभावः सम्बन्धः, अन्यः - विच्छेदजीवितः, इदानीम् - अनुमानकाले, कथं स्यात्, न स्यादित्यर्थः । दोषान्तरमाह व्याहरति इति । अविदित एव, न हि परसमीहा कस्यापि प्रत्यक्षेति भावः । ततो हेतोः - अविदिताद्धेतोः । पुनरपि दोषान्तरमाह किञ्च इति । प्रमात्रन्तरे - व्याहर्तृरूपात्प्रमातुरन्यस्मिन् । कुतो न स्यादित्यत आह तस्या हि इति । ननु विच्छेदमयस्याभासस्य परसमीहा कार्यं मा भवतु, तस्याः कारणभूतः विच्छेदमयः आभास एव कार्यं स्यादित्यत आह तथाभूत इति । तथाभूतस्य - तथारूपस्य । कुतोभाव इत्यत आह न हि इति । कुतो न सिद्धमित्यत आह पर इति ।
परसिद्धिपूर्वकत्वेनापि किम् इत्यत आह पर इति । परप्रमाअतृसिद्धौ
पायाभावात्, [ग्रहणोपायाभावनात् - क्। ष्। ष्।] न हि स्वात्मनि योऽयम् अविच्छिन्नाभासः स परत्र विच्छिन्नं “व्याहरति अयम्” इत्येवंरूपम् आभासं जनयति इति केनचित् प्रमाणेन सिद्धम्, परसिद्धिपूर्वकत्वात् अस्य अर्थस्य, परप्रमातृसिद्धेश्च एवं भूतार्थाधीनत्वेन [एवम्भूतार्थसिद्ध्यधीनत्वेन - क्। ष्। ष्।] इतरेतराश्रयात् । न च अवश्यम् अविच्छिन्नात् विच्छिन्नेन भाव्यम् इति नियमोऽस्ति व्यभिचारात् । न च विच्छिन्नोऽपि आभास उत्पद्यताम् इति तदनुसन्धानात् तदुत्पत्तिः नियता तत्सद्भावेऽप्यस्यानुत्पत्तेः [तत्सद्भावेऽपि अनुत्पत्तेः - क्। ष्। ष्।]
हि परत्र इति कथनं युक्तं स्यात्, न च तत्सिद्धिरस्ति, एकस्य बोधमात्रस्यव स्थितत्वादिति भावः । तदुक्तम् :-
परव्यवस्थापि परे यावन्नात्मीकृतः परः ।
तावन्न शक्यते वक्तुं यतो बुद्धः परः परः ॥
बुद्धश्च बोधभेदेन भवेन्न व्यवहारभाक् ।
व्यतिरिक्तस्य बुद्धत्वे सर्वं बुद्धं न किं भवेत् ॥
इति । इतरेतराश्रयाख्यं दोषमप्यत्र प्रसञ्जयति एवम्भूत इति ।
एवम्भूतः - असिद्धः योऽर्थः - पराख्यं वस्तु, तत्राधीनत्वेन - आयत्तत्वेन, इतरेतराश्र्यात्, परसिद्धौ अनुमानसिद्धिः अनुमानसिद्धौ च सन्तानान्तरसिद्ध्या परसिद्धिरिति इतरेतराश्रयाख्यो दोषः । नन्वनयोः कार्यकारणभावो मास्तु नियमस्तु स्यादेवेत्यत आह न च इति । व्यभिचारात् इति, कदाचिद्धि केवलोऽविच्छिन्न एवाभासो दृश्यते इति भावः । ननु अनुमात्रनुसन्धानमात्रादेव विच्छिन्न आभासो जायते इत्यत आह न च इति ।
तदनुसन्धानात् - अविच्छिन्नाभासाश्रयानुमातृसम्बन्धिनः परामर्शात् । तदुत्पत्तिः - विच्छिन्नाभासोत्पत्तिः । कुतो न नियता इत्यत आह तत्सद्भावे इति । तत्सद्भावेपि - अविच्छिन्नाभासाश्रयानुमातृसद्भावेऽपि, अस्य - विच्छिन्नाभासस्य,
स्यानुत्पत्तेः तदभावे च उत्पत्तेः, विच्छिन्न आभासः परत्र उत्पद्यताम् इति या समीहा तया सह परत्र उत्पन्नस्य विच्छिन्नाभासस्य कार्यकारणभावग्रहणमेव परासिद्धौ न युक्तम् इति व्याप्तेरेव असिद्धिः ।
प्रमात्रन्तराणि च यदि भिन्नानि तदा तन्निष्ठानाम् अवभासानां भेद एव “ज्ञानादव्यतिरिक्तं च” इति न्यायात् । ततश्च एकाभासनिष्ठत्वाभावात् एकाभासविश्रान्तः सम्भूय प्रमातॄणां व्यवहारो न स्यात् इति अन्योन्यानुपरक्तं भूतग्रस्तप्रकृतिप्रायं जगत् आपद्येत । अनुमीयमानमपि च बोधान्तरम् अनुमातृसम्मतात् बोधात् यदि भिन्नम्, तत् अस्ति तावत्
अनुत्पत्तेः - उत्पादाभावात्, न हि परव्याहारस्य तत्रावश्यम्भाव इति भावः । तद्भावे च - अनुमात्रभावे च, न हि अनुमातृसन्निधावेव परो व्याहरतीति भावः । ननु अनुमानेन एतज् ज्ञायते इत्यत आह विच्छिन्न इति । या समीहा - अनुमातुरिच्छा, व्याप्तेरेवाऽसिद्धिः इति, का कथाऽनुमास्येति भावः ।
प्रमात्रन्तराणामभ्युपगमं कृत्वापि विकल्पद्वयं कृत्वा अभेदपक्षे इष्टापत्तिं ज्ञात्वा भेदपक्षं प्रति दोषापादनं करोति प्रमात्रन्तराणि च इति । भिन्नानि इति, परस्परत इति भावः ।
तन्निष्ठानाम् - प्रमात्रन्तरगतानाम्, अवभासानाम् - अर्थाभासानाम् । कुतो भेद एवेत्यत आह ज्ञानात् इति । वस्तु ज्ञानादव्यतिरिक्तं भवति, ज्ञानेन सह एकरूपमेव भवति, ततश्च ज्ञानरूपाणां प्रमातृणां परस्परतो भेदे प्रतिप्रमातृ अर्थभेदोपि युक्त एवेति भावः । नन ततोपि किम् इत्यत आह ततश्च इति । तदेव वस्तु एकं प्रति तद्रूपम् अन्यं प्रति अतद्रूपं न किञ्चिद्वा स्यात् ततश्च तद्विषयो व्यवहारोपि प्रतिप्रमातृ भिन्न एव स्यादिति सङ्क्षेपः एव स्यादिति सङ्क्षेपः । ननु सम्भूय व्यवहारो माऽस्तु ततः किमित्यत आह अन्योन्य इति । अन्योन्यानुपरक्तम् - अन्योन्यम् अननुषक्तम्, आपद्येत - सम्पद्येत, ततश्च उन्मत्तभरितमेव जगत् स्यादिति भावः । दोषान्तरमप्यापादयति अनुमीयमानम् इति । बोधान्तरम् - परसम्बन्धी बोधः । कः सम्भव इत्यत आह यत् इति । यत् इति भवति,
सम्भवः - यत् प्रमेयं बोधात् भिन्नं [भिन्नं अस्ति इति - क्। ष्। ष्।] भवति इति । सहोपलम्भनियमादेः अनैकान्तिकत्वात् नीलपीतादिनापि प्रमेयराशिना किम् अपकृतम्, येन अस्य स्वरूपविश्रान्तिः न सह्यते, तस्मात् प्रमात्रन्तराणामपि असिद्धिरेव, सिद्धौ वा सर्वप्रमात्रन्तर्गता आभासा एकैकत्र परत्र आभासवैचित्र्यहेतुं वासनोद्बोधवैचित्र्यं जनयेयुः नियमे हेत्वन्तराभावात् इति तथापि न नीलादिवैचित्र्यसिद्धिः । एवं वासनानां तदुद्बोधहेतूनां च विचित्राणाम् अनुपपतीरेव । ततश्च स्थितमेतत्, अभिन्नो बोधः तस्य आकस्मिकाभासभेदहेतुत्वानुपपत्तेः बाह्योऽर्थोऽनुमेयः सम्भाव्यते इति यदि बाह्यार्थवादिना
इति किमिति ? प्रमेयं बोधाद् भिन्नं भवति, प्रमेयीभूतबोधान्तरवदिति शेषः । ननु प्रमेयस्य बोधेन सहोपलम्भ एव दृश्यते इति कथं तस्य ततो भेदो युक्त इत्यत आह सहोपलम्भ इति ।
अनैकान्तिकत्वात् - व्यभिचारात्, सुषुप्त्यादौ हि प्रमेयं विना केवलो बोध एवानुभूयते, यच्च तत्र अज्ञानस्य प्रमेयत्वं तदपि न किञ्चिदेवेति भावः । ननु अयं सम्भवोऽस्तु का हानिरित्यत आह नील इति ।
प्रमेयीभूतबोधवन्नीलादिरूपस्य प्रमेयस्यापि प्रमातुर्भिन्नत्वमायाति तच्च नेष्टमिति भावः । फलितमाह तस्मात् इति । सिद्धिमभ्युपगम्यापि दोषमाह सिद्धौ इति । एकैकत्र परत्र - प्रत्येकं परेषु, जनयेयुः - उत्पादयेयुः, ततश्च वासनानाम् अबोधः कदापि न सम्भवेदिति भावः ।
कुतो जनयेयुरित्यत आह नियमे इति । ननु को दोष इत्यत आह तथापि इति ।
वैचित्र्यं हि क्रमेण भासनम्, सर्वदा सर्ववासनाप्रबोधे तन्न सम्भवेदिति भावः । उपसंहारं करोति एवम् इति । फलितमाह ततश्च इति ।
इति शब्दः श्लोकद्वयव्याख्यासमाप्तौ । श्लोकद्वययोजनां कर्तुम् इति शब्दस्य कर्तुः क्रियायाश्चाध्याहारं करोति यदि इति । यदि इति पदेन चेत् शब्दव्याख्या । चेत् शब्दसूचनीयं वस्तु आह श्लोक इति । एतेन चेच्छब्दः भिन्नक्रमत्वेन योजनीय इति सूचितम् ।
उच्यते इति श्लोकद्वयार्थः । चेच्छब्दः श्लोकद्वयवाक्यार्थशङ्काद्योतकः । एवम् आशङ्क्यमानत्वेन परसम्भावना दृढा दर्शिता ॥ ५ ॥
अधुना तु एनां सम्भावनां शिथिलयितुं तावदाह :-
स्यादेतदवभासेषु तेष्वेवावसिते सति ।
व्यवहारे किमन्येन बाह्ये नानुपपत्तिना ॥ ६ ॥
“स्यादेतत्” इति पूर्वोक्तसम्भावनाभ्युपगमे यदा व्याख्यायते तदा किं -
तथा चैवमत्र योजना । बाह्यार्थवादिना कर्त्रा इति कर्म चेदुच्यते, इति किमिति ? तत्तत् इत्यादि ।
श्लोकद्वयाभिप्रायं सङ्क्षेपेण उपसंहरति एवम् इति ।
परसम्भावना - विज्ञानवादिबौद्धं प्रति बाह्यार्थानुमेयत्ववादिबौद्धसम्भावना, आशङ्क्यमानत्वेन - दर्शिताशङ्काविषयत्वेन, दर्शिता, इत्थम्भावे तृतीया ॥ ५ ॥
अथ षष्ठश्लोकस्यावतरणिकां करोति अधुना इति ।
अत्र टीका :-
एनाम् - वाह्यार्थवादिकथिताम्, श्लोकद्वये तद्वाचा सम्भावितामिति यावत् शिथिलयितुम् - तर्केण शिथिलीकर्तुम्, न तु सम्यग् दूरीकर्तुम्, तत्र प्रमाणस्यैव व्यापारात् । तावत् इत्येनेन प्रमाणेनाप्येतां दूरीकरिष्याम एवेति द्योतितम् । एवमवतरणिकां कृत्वा श्लोकमपन्यस्य व्याचष्टे । स्यादेतत् इति ।
अत्र टीका :-
स्यदेतत् इत्यस्य द्विधा व्याख्यां करोति । पूर्वोक्ता - समनन्तरश्लोकद्वयोक्ता, या सम्भावना - बाह्यार्थसम्भावना, तस्या अभ्युपगमे - अङ्गीकारे, यदा व्याख्यायते - व्याख्याविषयतां नीयते, किन्त्विति वाक्यशेषेण किन्तु
तु इति वाक्यशेषेण तच्छैथिल्यविषयं सम्भावनान्तरं शेषश्लोकेन दर्श्यते इति व्याख्येयम् । यदि तु अध्याहारो न सह्यते तदा स्यादेतदिति इदमपि सम्भावनान्तरं स्यात्, यदनेन श्लोकेन उच्यते इति एकवाक्यतया योज्यम् ।
अनयापि कष्टकल्पनया बाह्यान् अर्थान् प्रसाधयता भवता तैः न किञ्चित् कर्तव्यम्, आभासैरेव तैः भवता अभ्युपगतैः व्यवहारसिद्धेः, न हि नित्यानुमेयेन कश्चित् व्यवहार इति किं बाह्येन, यत्र साधकं च नास्ति प्रमाणम्, बाधकं च प्रकाशात् भेदे अनुमेयतयापि प्रकाशनाभाव इति
इति वाक्यशेषं कृत्वेत्यर्थः । तच्छैथिल्यविषयम् - पूर्वोक्तसम्भावनाशिथिलताविषयम्, तद्द्योतकमिति यावत् ।
सम्भावनान्तरम् - बाह्यानुपपत्तिरूपा अन्या सम्भावना, शेषश्लोकेन - अवभासेषु इत्यादिना श्लोकशेषेण, दर्श्यत - ज्ञानप्रत्येयतां नीयते, इति व्याख्येयम्, अर्थात् शेषतया नीतस्य किन्तु इत्यस्य व्याख्या कार्या इत्यर्थः । अस्यैव द्वितीयां व्याख्यां कर्तुमाह यदि तु इति । स्यादेतत् इति पदम् एकवाक्यतया योज्यम् इति । सम्बन्धः । कथम् ? इति, इति किमिति ? इदमपि सम्भावनान्तरं स्यात्, इदम् किम् ? अनेन श्लोकेन
- अवभासेषु इत्यादिना श्लोकशेषेण, यदुच्यते, एतच्छब्दाकाङ्क्षा श्लोकेन पूरणीयेत्यर्थः । शेषश्लोकं व्याचष्टे अनया इति । अनया - अनुमानरूपया, तैः - बाह्यैः । कुतो न कर्तव्यमित्यत आह आभासैः इति ।
तैः - अर्थप्रतिबिम्बतया कल्पितैः । ननु ते मद्दर्शने न सन्तीत्यत आह भवता इति । व्यवहारसिद्धेः इति, यादृशो यक्षस्तादृशो बलिः इति नीत्याश्रयणेन आभासरूपस्य व्यवहारस्य आभासरूपैरेवार्थैः सिद्धिर्युक्तेति भावः । ननु तथापि तैरपि कथं व्यवहार इत्यपेक्षायां द्वितीयं हेतुमाह न हि इति । फलितमाह इति इति । इति अतः कारणात्, बाह्येन किं भवति, व्यर्थत्वान्न किञ्चिदित्यर्थः । बाह्येन केन ? यत्र - यस्मिन् बाह्ये, साधकं च प्रमाणं नास्ति, बाधकं च तावत् इति - एवम्, मुख्यं भवति - प्रधानं भवति, साक्षाद्वाधकत्वात् । इति किमिति ? प्रकाशाद्
तावत् मुख्यम् । अभ्युच्चयबाधकास्तु अवयविनो वृत्त्यनुपपत्तिः, समवाया सिद्धिः, कम्पाकम्पावरणानावरणरक्तारक्तदिग्भागभेदादिविरुद्धधर्मयोगः ।
भेदे सति अनुमेयतयाऽपि प्रकाशनाभावः ।
तावच्छब्दप्रयोगयोग्यतां स्फुटीकर्तुं गौणान् बाधकानप्याह अभ्युच्चय इति । अभ्युच्चयेन - अन्वाचयेन, प्रसङ्गेनेति यावत्, बाधकाः । अत एव गौणत्वमेषाम्, पूर्वं साक्षात् बाह्यबाधकम्, एते प्रसङ्गेनैव बाधकाः इति । तु शब्दो यथाशब्दार्थे, तान्दर्शयिष्यामित्यर्थः ।
बाधकानेव दर्शयति अवयविनः इति । अवयविनः - पटादिरूपस्य, अर्थादवयवेषु तन्त्वादिषु अनुपपत्तिः - स्थित्ययोगः अवयविनो बाधिका ।
तथा हि, अवयवी सर्वेष्ववयवेषु तिष्ठति एकत्र वा, यदि सर्वेषु, तत्रापि किं सामस्त्येन व्यस्तत्वेन वा, सामस्त्येन स्थितौ अवयवेष्वेव अवयविव्यवहारसिद्धौ अवयविकल्पना व्यर्था, व्यस्तत्वेन तु एकत्र अवयविसमाप्तेः अन्येषु कः तिष्ठेत् । यद्येकत्र इति पक्षः तदा अन्यषामनवयवत्वप्रसङ्गः, अवयव्याश्रित एव ह्यवयवो भवति ।
समवायासिद्धिः इति, अवयवेषु समवायेन अवयवी तिष्ठतीति तु सुप्रसिद्धम् । समवायस्तत्र केन तिष्ठति संयोगस्यासम्भवात्, समवायेनेति चेत् सोऽपि केनेत्यनवस्थाऽऽपातः । अथवा सन्निवेशेन तेष्वेव तन्तुषु समवायकल्पनया समवायस्य परमार्थतो “सिद्धिरेव ।
कम्पाकम्प इति, पदादेर्हि एकत्र पार्श्वे चाल्यमाने कम्पः अन्यत्र अकम्पः, तच्च तस्यैकत्वे न युज्यते । एवमावरणानावरणादौ ज्ञेयम् ।
दिग्भागेन कृतः भेदः - पूर्वापरादिरूपः, दिग्भागभेदः
अणुसञ्चयबाह्यवादेऽपि सञ्चयस्य अन्यस्य अभावे परमाणव [अणव एव - क्। ष्। ष्।] एव, ते च यदि संयुज्यन्ते निरन्तरतया तत् अवश्यं दिग्भागभेदः, देवनाक्षे षट्सुदिक्षु सञ्चीयमानेषु षट्सु अणुषु मध्यमस्य परमाणोः यत्रैव धाम्नि एको लग्नः तत्रैव यदि अपरः तत् एकपरमाणुमात्रता । अथ अन्यत्र एकः अन्यत्र अपरः तत् एकपरमाणुमात्रता । अथ अन्यत्र एकः अन्यत्र अपरः तत् अवश्यं भागभेदापत्तिः, इति भाग एव सन्, [भाग एव परमार्थसन् - क्। ष्। ष्।] तस्यापि एषैव सरणिः इति न किञ्चित् अवशिष्यते बाह्यं तत्त्वतः ।
न चैतत् वाच्यम् - मूर्तानाम् एकदेशत्वायोगात्, संयोगे भिन्नदेशत्वाव्यावृत्तेः
ननु अवयवी मास्तु परमाणव एव सञ्चीयमाना बाह्यीभवन्तीत्यत आह अणु इति । अन्यस्य - परमाणुव्यतिरिक्तस्य, परमाणव एव बाह्यं भवन्तीति योजना । ननु ततः किमित्यत आह ते च इति । ते च - परमाणवश्च, निरन्तरतया, संहततयेत्यर्थः, तत् - तदा, दिग्भागभेदः - षट्सु दिक्षु भागषट्कभेदापत्तिः, सा च भवतां नेष्टेति भावः । देवनाक्षे - क्रीडनरूपे अक्षे । ननु परमाणवो दिग्भागभेदेन [दिग्भागेन - च्।] न तिष्ठन्ति, किन्तु एकस्य मध्यगस्य स्थाने लगन्ति इत्यत आह षट्सु इति ।
चतुष्टयमध्ये अन्तर्भवद्विदिशामग्रहणम्, तत् - तदा, एकपरमाणुमात्रता, अन्येषां तत्रैव लग्नत्वात्, तथा च सर्वपदार्थानाम् अदृश्यत्वमेवापतेत् इति भावः । प्रकारान्तरं प्रत्याह अथ इति । ननु भागभेदापत्तिरस्तु का हानिरित्यत आह इति इति । इति - अतः, भाग एव सन् स्यात्, तस्यापि - भागस्यापि, एषैव सरणिः - अयमेव मार्गः, षट्सु दिक्षु विभाग इत्यर्थः ।
तार्किककृतमारम्भवादं प्रत्याख्यातुमाह न च इति ।
मूर्तानाम् - परिच्छिन्नपरिमाणत्वेन क्रियावत्वेन वा मूर्ततया अङ्गीकृतानाम् परमाणूनाम्, एकदेशत्वायोगात् - एकदेशेऽवस्थानासम्भवात्, संयोगे सति भिन्नदेशत्वाऽव्यावृत्तेः -
व्यावृत्तेः तन्निष्टं द्व्यणुकं नाम कार्यद्रव्यम् अणुपरिमाणम्, तेभ्यः त्रिभ्यो महत्कार्यम् इति । अवयविवादो हि अयम्, स च पूर्वमेव अपबाधितः । यच्च अव्याप्यवृत्तित्वं संयोगस्य उच्यते तन्निरंशे कथं सङ्गच्छतां । स्वाश्रये हि यदि असौ समवैति किम् अन्यत् अस्य अवशिष्यते [अवशिष्टम् - क्। ष्। ष्।] यत् न व्याप्नुयात् इति । अभ्युच्चयबाधकं च इदम् इति न अत्र अस्माभिः भरः कृतः । विस्तरेण च प्रज्ञालङ्कारे दर्शितम् आचार्यशङ्करनन्दनेन ॥ ६ ॥
ननु भाधकं नाम प्रमाणसिद्धे वस्तुनि न किञ्चित् कर्तुं समर्थम्, तेनैव दृढेन प्रमाणेन बाधकाभिमतस्य बाधितस्य अप्रमाणत्वसम्पादनात् ।
भिन्नदेशत्वावश्यम्भावात्, तन्निष्ठम् - अर्थात्परमाणुद्वयनिष्ठम्, अणुपरिमाणम् - अण्वाख्यपरिमाणयुक्तम्, द्व्यणुकं नाम कार्यद्र प्रथमं भवति, ततः तेभ्यः त्रिभ्यः - द्व्यणुकेभ्यः, महत्कार्यम् - दृश्यं त्र्यणुकाख्यं कार्यं भवति, न तु परमाणूनामेव षट्कं मिलति येनोक्तदोषप्रसङ्गः स्यादिति भावः । इति शब्दः प्रमेयपरिसमाप्तौ ।
कुतो न वाच्यमित्यत आह अवयवी इति । पूर्वमेव, समनन्तरमेवेत्यर्थः ।
परमाणुविषये द्वयणुकादिभावसम्पादकस्य संयोगस्यानुपपत्तिं वक्तुं तद्गतमव्याप्यवृत्तित्वमेव प्रतिक्षिपति यच्च इति । अव्याप्यवृत्तित्वम् - स्वात्यन्ताभावसमानाधिकरणत्वम्, निरंशे - अवयवरहितपरमाणौ ।
कथं न सङ्गच्छते इत्यत आह स्वाश्रये इति । स्वाश्रये - परमाणुद्वयरूपे निजाश्रये, असौ - संयोगः, समवायवृत्त्या तिष्ठति, किमवशिष्यते, तेनैवाक्रान्तत्वान्न किञ्चिदप्यवशिष्यते इत्यर्थः, तथा च संयोगस्याप्यत्र स्थितिर्न युक्तेति भावः । नन्वत्र विस्तारयोग्ये कथं न विस्तारः कृतः इत्यत आह अभ्युच्चय इति । भरः - अतिशयः, प्रज्ञालङ्कारे - प्रज्ञालङ्काराख्यशास्त्रे ॥ ६ ॥
अथ सप्तमश्लोकस्यावतरणिकां करोति ननु इति ।
दर्शितं च इह साधकं प्रमाणं कार्यहेतुः “तत्तदाकस्मिकाभास” इति कारिकया इत्याशङ्क्य आह :-
चिदात्मैव हि देवोऽन्तः स्थितमिच्छावशाद्बहिः ।
योगीव निरुपादानमर्थजातं प्रकाशयेत् ॥ ७ ॥
इह तावत् स्वप्न स्मरण - मनोराज्य - सङ्कल्पाडिषु नीलाद्याभासवैचित्र्यं बाह्यसमर्पकहेतुव्यतिरेकेणैव निर्भासते इति यद्यपि अस्ति सम्भवः, तथापि तदाभासवैचित्र्यम् अस्थैर्यात् सर्वप्रमात्रसाधारण्यात् पूर्वानुभवसंस्कारजत्वसम्भावनात् अवस्तु इति शङ्क्येत । यत् पुनरिदं योगिनाम् इच्छामात्रेण
अत्र टीका :-
तेनैव - सिद्धिहेतुनैव । ननु बाधकं बाधितं भवतु, साधकं प्रमाणं च नास्तीत्यत्र किं कुर्मः इत्यत्राह दर्शितञ्च इति । कार्यहेतुः
- प्रतिबिम्बरूपः कार्यरूपः हेतुः । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । चिदात्मैव इति ।
अत्र टीका
ननु स्वप्नादिषु स्फुटमेव उपादानादिबाह्यसामग्रीं विनैवार्थजातसिद्धिः प्रसिद्धैव इति किमप्रसिद्धयोगिदृष्टान्तेनेत्याशङ्क्याह इह इति । बाह्यसमर्पकाः - बाह्यनीलादिसम्पादकाः ये हेतवः - कारणानि तेषां व्यतिरेकेण, अभावेनेत्यर्थः । तदाभासवैचित्र्यम् - स्वप्नादौ स्थितं नीलाद्याभासवैचित्र्यम्, सर्वप्रमातृषु यत् असाधारण्यं तस्मात्, न हि एकस्य स्वप्नादिनिष्ठमर्थजातमन्यस्य गोचरम् इति भावः । शङ्क्येत इत्येनेन अस्थैर्यसर्वप्रमात्रसाधारण्यसंस्कारजत्वयुक्तमपि अर्थजातं स्थैर्यसर्वप्रमातृसाधारण्यासंस्कारजत्वयक्तजाग्रदर्थजातसमानयो ग-क्षेममेव स्थैर्यत्वादेरपि आभासमात्ररूपत्वात्, न च आभासस्य परमार्थसत्त्वम्, परन्तु सिद्धमपि तत्स्वप्नादिकं शिष्यं तावदप्रबुद्धं ज्ञात्वा दृष्टान्तत्वेन न गृहीतं किन्तु तत्साम्मुख्यसम्पादनाय अतिशयरूपा योगिदृष्टान्ततैव कृता, अतिशयं बुद्ध्वा सम्मुखीभूतः शिष्यस्तु प्रबुद्धीभूतः सर्वं स्वयमेव विचारयतीतिं सूचितम् ।
पुरसेनादिवैचित्र्यनिर्माणं दृष्टम्, तत्र उपादानं प्रसिद्धमृत्काष्ठ - शुक्र - शोणितादिवैचित्र्यमयं न सम्भवत्येव, न हि एवं वक्तुं शक्यम्
- सर्वगताः परमाणवो योगीच्छया झटिति सङ्घटिताः कार्यम् आरप्स्यन्ते इति । यत् एतत् लोकप्रसिद्धकारणभावानतिक्रमसिद्धये निरूप्यते । न च एतत् प्रसिद्धम् - परमाणुभ्य एव स्थूलं घटादि जायते इति, किं तु कपालादिव्यवधानेन, तथापि [तत्रापि - क्। ष्। ष्।] नियतसहकारिसमवलम्बनम् करचरणादिव्यापारो विशिष्टदेशकालधर्माधिपत्ययोगः शिक्षाभ्यासप्रकर्ष इति, इयति च आंश्रीयमाणे योगी कुम्भं निर्मिमाणः कुम्भकारप्रसिद्धसमस्तसामग्रीसमर्जनपुरःसरं घटं घटयन् कुम्भकार एव स्यात्, तस्मात् प्रसिद्धकारणोल्लङ्घने किम् असञ्चेत्यमानपरमाण्वाद्युपादानकारणान्तरचिन्तया इति । तत्र योगिसंविद एव सा तादृशी शक्तिः - यत् आभासवैचित्र्यरूपम् अर्थजातं प्रकाशयति
एवमाशङ्कितं चोद्यमपसार्य पक्षान्तरकथनरीत्या श्लोकं व्याख्यातुमारभते यत्पुनः इति । योगिनाम् - अष्टाङ्गयोगयुक्तानाम्, तत्र
-
तस्मन्निर्माणे, वैचित्र्यमयम् - वैचित्र्यहेतुत्वेन वैचित्र्यरूपम् । अत्र शिष्यशङ्कां स्वयमेवोत्थापयति नह्येवम् इति । सङ्घटिताः - आदिसर्गन्यायेन स्वयमेव मिलिताः । कुतो न शङ्क्यमित्यत आह यतः इति । एतत्
-
इदं वस्तु, लोके प्रसिद्धः लोकप्रसिद्धः, कपालादिव्यवधानेन इति, प्रथमं कपालादयः सम्पद्यन्ते ततः तत्सन्धानाद् घट इति भावः ।
तथापि - कपालादिव्यवधाने सत्यपि, धर्माधिपर्यम्, उपलक्षणं चैतदधर्मस्यापि तार्किकमते हि धर्माधर्मयोरपि सहकारित्वमेवेति, इयति
- एतावति सामग्रीरूपे अर्थजाते । तत्र - तस्मिन्विषये, सा का इत्यपेक्षायाम् आह यत् इति । ननु योगिनिर्मितमर्थजातं न दृष्टं तं प्रति किं दृष्टान्तीकुर्मः ? सत्यम्, इन्द्रजालनिर्मितं वस्तु इति ब्रूमः, तदपि हि कदाचिदर्थक्रियाकारि भवति, तर्हि योगी अपि ऐन्द्रजालिक एव,
इति । तदस्ति सम्भवः - यत् संवित् एव अभ्युपगतस्वातन्त्र्या अप्रतीघातलक्षणात् इच्छाविशेषवशात् संविदोऽनधिकात्मताया अनपायात् अन्तःस्थितमेव सत् भावजातम् इदमित्येवं प्राणबुद्धिदेहादेः वितीर्णकियन्मात्रसंविद्रूपात् बाह्यत्वेन आभासयति इति, तत् इह विश्वरूपाभासवैचित्र्ये चिदात्मन एव स्वातन्त्र्यं किं न अभ्युपगम्यते स्वसंवेदनसिद्धम्, किमिति हेत्वन्तरपर्येषणाप्रयासेन खिद्यते ।
एवकारेण इदमाह - सर्वेण तावत् वादिना
किं ब्रूषे, [किं ब्रूषि - च्।] ईश्वरनिर्मितस्यापि जगतः यत्र इन्द्रजालनिर्मितत्वं कथयन्ति । तदुक्तम् :-
इन्द्रजालनिभं विश्वम्
इति । तत्र का कथा योगिनिर्मितस्य भावस्य, अत एव योगिनामपि तत्रोपेक्षैव दृश्यते, येषान्तु नास्ति तेऽप्यैन्द्रजालिकप्राया एव, सर्वत्रोपेक्षामात्रस्यैव महायोगत्वादित्यलम् । दृष्टान्तमुक्त्वा दार्ष्टान्तिकं लितरीत्या कथयति तदस्ति इति । तच्छब्दाकाङ्क्षां पूरयति यत् इति । अप्रतीघातलक्षणात् - [अप्रतीघातत्वलक्षणात् - च्।] अप्रतिहतस्वरूपात्, इच्छाविशेषवशात् - “तदुत्पद्यताम्” इति इच्छाविशेषसामर्थ्यात्, संविदः - स्वरूपभूतात् संवित्तत्त्वात्, अनधिकात्मतायाः - एकतायाः, अनपायात् - अनाशात्, संविदेकरूपत्वेनेति यावत्, अन्तःस्थितमेव - स्वान्तर्गतमेव सत्, मृदन्तःस्थितत्वेन व्यवह्रियमाणो हि घटो मृद्रूप एवेति भावः ।
प्राणबुद्धिदेहादेः - ग्राहकत्वेनाभिमतात् प्राणादेः, कीदृशात् ? अर्थात् परसंविदैव वित्तिर्ण कियन्मात्रम् - स्वविषयग्रहणमात्रसमर्थ, लेशरूपम्, संविद्रूपं यस्य तादृशात्, बाह्यत्वेन - पृथक्त्वेन, न तु परसंविदा पृथक्त्वेन, अन्यथा प्रागिवार्थः इति उक्तन्यायेन अप्रकाशापातात् । फलितमाह तत् इति । हेत्वन्तराणाम् - परमाण्वादिरूपाणामन्येषां हेतूनाम्, पर्येषणाभिः - गवेषणाभिः यः प्रयासः तेन । सूत्रस्थस्य एवकांरस्याभिधेयं वक्ति एवकारेण इति । किमित्यपेक्षायामाह
विषयव्यवस्थापनं संविद्रूपम् अनपह्नवनीयम् आदिसिद्धं हि तत् इति उक्तम् । तस्य च स्वातन्त्र्यमेव देवशब्दनिर्दिष्टं चिद्रूपत्वम् इति किम् अपरकारणान्वेषणव्यसनितया । हि यस्मात् एवं प्रकाशयति देव इति सम्भाव्यते, तस्मात् किं भाह्येन अनुपपत्तिना इति पूर्वेण सम्बन्धः ॥ ७ ॥
सर्वेण इति । कुतो न अपन्हवनीयमित्यत आह आदि इति । उक्तम् इति, कर्तरि इति कारिकायामिति भावः । देव शब्दस्याभिधेयं वक्तुमाह तस्य च इति ।
तस्य च - संविद्रूपस्य च, देवो हि क्रीडाशील उच्यते क्रीडा एव च स्वातन्त्र्यम् । अत एव यदि कश्चिद् ब्रूयात् किमर्थ भावनिर्माणे ईश्वरः प्रवृत्तः इति तस्यानेनैव मुखमुद्रा जायते । न हि क्रीडाशीलस्य पर्यनुयोगः युक्तः । अतिपरमार्थविचारे त्वेतदपि वक्तुं युक्ततां नावगाहते । न हि स्वनिर्मितवस्तुसादृश्यमाश्रित्य निर्मातंरि दोषनिराकृतिर्युक्ता, परन्तु अनिर्वाच्यतैव केवलमत्र युक्ता, ततोपि विचारे सापि न युक्ता अनिर्वाच्यताया अपि तत्रैवावस्थानात्, तत्सर्वथा विस्मयपरेणैव भाव्यम् । तदुक्तम् :-
विष्मयो योगभूमिका
इति । ननु विस्मयोऽप्यत्रावकाशं न लभते अशक्यकरणे एव तद्योगात्, न च ईश्वरस्य किमप्यशक्यम् ईश्वरत्वव्याघातात् । सत्यम्, अत एव अतिनिपुणैः शाक्तैः शक्तावेव विश्रान्तिः कृता । न चात्रापि शक्तिसमारोपणेन द्वैतापातः प्रसञ्जनीयः एकत्र तत्त्वे एव रूपद्वयभानात् । आयातु वा द्वैतापातः अस्मदभीष्टे परमाद्वैते तस्याप्यवकाशात्, अन्यथा सामान्याऽद्वैतापत्तेः । सामान्याद्वैतापत्तिरप्यस्तु का हानिः, हानिरपि वाऽस्तु अन्यथा महापूर्णत्वायोगात् । महापूर्णेपि वृद्धिहानी स्वान्तर्गते एव । किं बहुना यत्र यत्र विश्रान्तिः क्रियते तत्तद्रूपम्, ततः उत्तिर्ण तत्त्वमिति कुत्रापि न स्थेयम् सर्वत्र वेत्यलं बहुतरया अतिरहस्यचर्चया प्रतिभारहितेषु वक्तुमयोग्ययां तद्युक्तेषु तु श्रीभगवत्तिव्रतरशक्तिपातघ्रातेषु स्वयं स्फुरणशीलयेति । अस्य श्लोकस्य पूर्वं प्रति हि शब्दद्योत्येन हेतुत्वेन योजनां करोति हि इति सम्भाव्यते इत्यनेन अत्र सम्भावनायां लिङिति सूचितम् ॥ ७ ॥
ननु एवम् उभयथापि सम्भावनानुमानम् उन्मिषति, तत्र किं मकुरप्रतिबिम्बितघटादिदृष्टान्तेन ज्ञानप्रतिबिम्बताभासवैचित्र्ये विज्ञानदर्पणातिरिक्तं तत एव बाह्याभिमतं हेतुं कल्पयेम ? किं वा योगिदृष्टान्तेन संवित्स्वातन्त्र्यमेव हेतुभावेन ब्रूयाम ? तदिदं सांशयिकं वर्तते इति आशङ्क्य बाह्यार्थानुमानसम्भावनां सूत्रद्वयेन अपाकर्तुमाह :-
अनुमानमनाभातपूर्वे नैवेष्टमिन्द्रियम् ।
आभातमेव बीजादेराभासाद्धेतु वस्तुनः ॥ ८ ॥
आभासः पुनराभासाद्बाह्यस्यासीत्कथञ्चन ।
अर्थस्य नैव तेनास्य सिद्धिर्नाप्यनुमानतः ॥ ९ ॥
न केवलम् अनन्तरश्लोकनिर्दिष्टाभिः युक्तिभिः प्रत्यक्षेण बाह्योऽर्थो न भासते [न आभासते - क्। ष्। ष्।] इयदेव हि प्रत्यक्षं तच्च नीलं भाति इति स्वप्रकाशसंविद्रूपं
अथाष्टमस्य नवमस्य च श्लोकस्यावतरणिकां करोति नन्वेवम् इति ।
अत्र टीका :-
उभयथा, बाह्यानुमेयवाद्युक्तप्रकारेण समनन्तरश्लोकोक्तप्रकारेण चेत्यर्थः, सम्भावनानुमानम् - तर्करूपमनुमानम्, न तु दृढमनुमानम्, बाह्याभिमतम् - बाह्यत्वेनाभिमतम्, सांशयिकम् - संशयग्रस्तम् । एवमवतरणिकां कृत्वा श्लोकद्वयमुपन्यस्य व्याचष्टे । अनुमानम् इति ।
अत्र टीका :-
प्रथमम् अपि शब्दस्याभिधेयमाह न केवलम् इति । अनन्तरश्लोकः - चिदात्मव हि इति, तत्र निर्दिष्टाअभिः - उक्ताभिः योगिदृष्टान्तादिरूपाभिः, युक्तिभिः - उपायैः । न केवलम् इति तावदवस्थाप्य न भासते इत्येतन्मात्रस्य हेतुमाह इयदेव हि इति [यत् - क्। ष्। ष्।] । तच्च - भानञ्च,
नाधिकं किञ्चित् इति, यावत् अनुमानेनापि न अस्य बाह्यस्य सिद्धिः इति अपिशब्दस्याभिप्रायः [इति अपिशब्दः - क्। ष्। ष्।] । तत्र अनुमानम् अत्र नैव प्रवर्तितुम् उत्सहते । प्रवृत्तमपि न प्रकृतसिद्धिम् आदध्यात् इति अनेन सूत्रद्वयेन उपदर्श्यते [दर्श्यते - क्। ष्। ष्।] तत्र अनुमानं विकल्पः, सर्वश्च अयं विकल्पोऽनुभवमूल इति प्रसिद्धम् । तेन यत् सर्वथा अनाभातपूर्वम् अननुभूतचरं तत्र अनुमानम् अनुमितिव्यापारो विकल्पात्मा नैव केनचित् वादिना इष्यते । ननु भवतु प्रत्यक्षतो दृष्टेऽनुमाने सङ्कथा इयम्, सामान्यतो दृष्टे तु किं वक्ष्यसि यथा अर्थोपलब्ध्या इन्द्रियानुमाने ? उच्यते - तत्रापि विकल्पेन यथा सोऽर्थः स्पृश्यते तथा
इति शब्दो हेतुसमाप्तौ । न केवलम् इत्यस्य आकाङ्क्षां पूरयति यावत् इति ।
अपिशब्दस्य नाप्यनुमानतः इत्यत्र स्थितस्येत्यर्थः ।
अपिशब्दाभिप्रायमुक्त्वा श्लोकद्वयस्याभिप्रायं सङ्क्षेपेण कथयति तत्र इति, अपि शब्दार्थे एवं सतीत्यर्थः । प्रकृतसिद्धिम् - बाह्यसिद्धिम्, अनेन - कारिकाद्वयेन, उपदर्श्यते, सूच्यत इत्यर्थः । ननु दर्शयतु ततः किमित्यत आह तत्र इति । तत्र, एवंरूपेऽभिप्राये सतीत्यर्थः, अनुमानं विकल्पो भवति न निर्विकल्पदर्शनम् अवसायमात्रहेतुत्वात् । सर्वः - अनुमानादिरूपः, अनुभवमूलः - निर्विकल्पज्ञानमूलः, इति - एतत्, प्रसिद्धं भवतीति शेषः । तेन - अनुमानस्य विकल्पत्वेन ।
अनाभातपूर्वम् इति पदं व्याचष्टे अननुभूतचरम् इति, तत्र - अननुभूतचरे । अत्र तार्किकः प्रश्नयति ननु इति । इयं सङ्कथा - अनुभूतचरत्वसङ्कथा, किं वक्ष्यसि, तत्र सामान्यतो व्याप्तिग्रहणसम्भवान्नैतद्युक्तमिति भावः । कुत्र तत्सामान्यतो दृष्टमनुमानं भवतीत्याह यथा इति । अर्थोलपब्ध्या - घटादिविषयेण ज्ञानेन, इन्द्रियानुमाने - सर्वदाऽतीन्द्रियचक्षुराद्यनुमाने । अत्र परिहारमाह उच्यते इति । तत्रापि - इन्द्रियानुमानादिरूपे सामान्यतो दृष्टेऽपि, सोर्थः - चक्षरादिरूपः विषयः, स्पृश्यते - सामान्यभावेन
अनुमेय इति स्थितिः । विकल्पश्च न इन्द्रियादिकम् अर्थं केनचित् सन्निवेशविशेषादिना [सन्निवेशविशेषात्मना - क्। ष्। ष्।] विशेषात्मना स्पृशति, अपि तु किञ्चिदुपलब्धेः कारणम् इति अमुना स्वभावेन, स च स्वभावः कारणतालक्षणः प्रत्यक्षगृहीत एव । तथा च बीजात् अङ्कुरः तन्तुभ्यः पट इत्यादौ कार्यकारणभावः प्रत्यक्षानुपलम्भबलेन तावत् निश्चेयः । तत्र च प्रत्यक्षं प्रत्याभासं प्रामाण्यं भजते, विमर्शलक्षणस्य प्रमितिव्यापारस्य एकैकशब्दवाच्येऽर्थे प्रवृत्तेः [विश्रान्तेः - क्। ष्। ष्।] तदनुसारित्वाच्च प्रमाणस्य इति वक्ष्यते ।
“एकाभिधानविषये मितिर्वस्तुन्यबाधिता ।”
अनुभूयते, स्थितिः - व्यवस्था । सामान्येनोक्तमर्थ विशेषेण दर्शयति विकल्पश्च इति । सन्निवेशविशेषादिना रचनाविशेषादिना, विशेषात्मना - विशेषस्वरूपेण । पुनः केन रूपेण स्पृशतीत्यत आह अपि तु इति ।
किञ्चिदुपलब्धेः कारणं भवति इत्यमुना स्वभावेन, सामान्यरूपेणेत्यर्थः, स्पृशतीति पूर्वेण सम्बन्धः । स च स्वभावः - स्पर्शविषयीकृतः स्वभावश्च, कारणतालक्षणः - कारणतास्वरूपः, धर्मरूप इत्यर्थः । बीजादेः इति दृष्टान्तवाक्यं व्याख्यातुमाह तथा च इति । प्रत्यक्षानुपलम्भयोर्यद्वलं तेन, तत्र प्रत्यक्षनिश्चेयं वस्तु कथयति तत्र इति । तत्र प्रत्यक्षानुपलम्भयोर्मध्ये, प्रत्याभासम् - सर्वेष्वाभासेषु, प्रामाण्यम् - प्रमाणताम् । कुतो भजत इत्यपेक्षायां हेतुमाह विमर्श इति । विमर्शलक्षणस्य - विकल्पज्ञानरूपस्य, एकैकशब्दवाच्ये - एकैकशब्दाभिधेयसमस्तधर्मधर्मिसमुदायरूपे, स्वलक्षणे इति यावत्, प्रवृत्तेः, न तु निर्विकल्पदर्शनवत् प्रत्याभासप्रवृत्तेः ।
तदनुसारित्वाच्च - विमर्शानुसारित्त्वाच्च, प्रमाणस्य प्रत्यक्षादेरित्यर्थः । ननु कथं विमर्शहेतुकस्य प्रमाणस्य विमर्शानुसारित्वं युक्तमित्यत आह इति इति । इति - एतत्, कुत्र वक्ष्यत इत्यत आह एकाभिधान
इति । आभासमात्रं च सामान्यम् इति निर्णेष्यते । अनुपलम्भोऽपि अन्योपलम्भरूप आभासमात्रविश्रान्त एव इति कारणाभासो विशेषशून्यः परिगृहीत एव बीजात् अङ्कुर इति प्रतीतौ । यत् यस्य नियमम् अनुविधत्ते अव्यतिरिक्तम् तत् तस्य कार्यम् इति प्रतिघटं मृत्तिकादिरूपहेतुतद्वन्मात्रस्य [मृत्तिकादिरूपस्य हेतुतद्वन्मात्रस्य - क्।
ष्। ष्।] आभासात् ॥ ८ ॥
इति, अस्यां कारिकायामित्यर्थः, तत्र हि स्वोत्पादितविकल्पद्वारेणैव प्रमाणस्य स्वलक्षणविषयतं कथयिष्यति । ननु आभासेष्वेव प्रमाणव्यापार उक्तो न तु सामान्ये तत्कथमेवं सिद्ध्यतीत्यत आह आभास इति । आभासमात्रम् - केवलः आभासः, न तु सर्वधर्माक्षेपेण ग्रहणम्, निर्णेष्यते, अस्यामेव कारिकायामित्यर्थः ।
अनुपलम्भकृत्यमाह अनुपलम्भोऽपि इति । अनुपलम्भः - गोष्वश्वत्वानुपलम्भः, अन्योपलम्भरूपः - अश्वादिष्वश्वत्वाद्युपलम्भरूपः, प्रमाता हि गोषु गोत्वं प्रत्यक्षेण पश्यनु अश्वादिषु तदनुपलभमानः सर्वगोव्यक्तिगतं गोत्वं निश्चिनोति ।
आभासमात्रविश्रान्त एव, न तु पराभिमतव्यक्तिविश्रान्तः, इति - अत एव हेतोः, कारणाभासः - इन्द्रियगतः उपलब्धिकारणताभासः, विशेषशून्यः - तन्निष्ठतयाऽग्रहणान् विशेषरहितः, परिगृहीतः, प्रत्यक्षानुपालम्भाभ्यामिति शेषः । कुत्रेत्यपेक्षायां दृष्टान्तमाह बीजात् इति, स्फुटमेव हि बीजस्याङ्कुरं प्रति कारणत्वमिति भावः ।
अत्राप्यप्रत्यक्षत्वमाशङ्ङ्क्य सूत्रे आदि शब्दगृहीतं मृद्घटयोः कार्यकारणभावं व्याप्तिप्रदर्शनद्वारेण कथयति यत् इति । नियमम् - अवश्यम्भावम्, अनुविद्धत्ते, स्वरूपलाभं प्रति अपेक्षते इत्यर्थः । ननु कुत्रेयं व्याप्तिर्दृश्यत इत्यत आह प्रतिघटम् इति । प्रतिघटम् - सर्वेषु घटेषु, मृत्तिकादिरूपः - मृद्दण्डादिरूपः यो हेतुस्तेन यतद्वन्मात्रम्, तस्य, भावप्रधानो निर्देशः, तद्वत्तामात्रस्य मृद्दण्डादिरूपकारणयुक्तत्वस्येति यावत्, आभासात् - स्फुरणात् । एतेन प्रथमश्लोकः कृतव्याख्यः ॥ ८ ॥
आभासात् बाह्यः पुनरनाभासरूपः, स च आभासते इति विप्रतिषिद्धम् । अनाभासे च नास्ति विकल्परूपस्य अनुमानस्य व्यापारः ।
ग्रामगृहादेस्तु यत् बाह्यं तत् अग्रामादिरूपं न उच्यते प्रत्येकं वाटानूपकुड्यतुलादेः बाह्यत्वप्रसङ्गात्, अपि तु तत्सन्निकटम् [सन्निकृष्टम् - क्। ष्। ष्।] तस्मात् ग्रामबाह्यम् आभासबाह्यम् इति च शब्दसाम्यमात्रम् एतत् न वस्तुसाम्यम् । एवं ये विकल्पे वस्तु न आभाति इति मन्यन्ते तेषामपि तावत् अनुमानविकल्पो न बाह्ये उपपन्नः ।
ननु आभासेनैव [द्वितीयं श्लोकं व्याचष्टे ननु इति । ननु आभासेनैव किं सर्वं सञ्जयसीत्यत आह आभासात् इति । विप्रतिषिद्धम् - विरुद्धम् । ननु आभासो मास्तु विकल्प एव सर्वं कार्यं करिष्यति इत्यपेक्षायां द्वितीयं श्लोकं व्याचष्टे “अनाभासे च” इति - च्।] किं सर्वं सञ्जयसीत्यपेक्षायां द्वितीयं श्लोकं व्याचष्टे आभासात् इति ।
विप्रतिषिद्धम् - विरुद्धम् । ननु आभासो मास्तु विकल्प एव सर्वं कार्यं करिष्यति इत्यत आह अनाभासे च इति । व्याप्तिग्रहणाऽसम्भवादिति भावः ।
ननु यदि बाह्यत्वमात्रेण विरुद्धतासाधनं तर्हि ग्रामबाह्यस्य वस्तुजातस्यापि विरुद्धत्वमापद्येतेत्यत आह ग्राम इति । ग्रामापेक्षया वाटानूपेत्युक्तम्, गृहापेक्षया तु कुड्यतुलादेर्ग्रहणम्, आदिशब्देन तत्रत्यान्यवस्तुजातस्य ग्रहणम् । पुनः किं तदुच्यते इत्यत आह अपि तु इति । अपि तु पण्डितैः तद् - ग्रामबाह्यं वस्तुजातम्, सन्निकटम् - ग्रामसमीपस्थम् उच्यते, ग्रामसमीपे एव स्थितत्वात् ग्रामं प्रत्यविरुद्धत्वाच्वेति भावः ।
फलितमाह तस्मात् इति । न च शब्दसाम्ये वस्तुसाम्यवादो न्याय्यः इति भावः । ननु बौद्धैर्विकल्पस्य वस्त्वसंस्पर्श एवोक्तः, त्वया तु तेनैव सर्वं साध्यते इति किमेतदित्यत आह एवम्
अस्माभिस्तु उपपादितम् - अध्यवसायस्यापि आभोसमानविषयत्वम् “भ्रान्तित्वे चावसायस्य” इति सूत्रे । तेन अनुमानविकल्पात्मनापि प्रकाशेन यदि अनाविष्टो नीलादिः अर्थः तत् न अनुमित एव स्यात् । अथ आविष्ट एव, तर्हि “प्रागिवार्थोऽप्रकाशः स्यात्” इति न्यायेन प्रकाशमात्रस्वभाव एव, न बाह्यः । तेन बाह्ये साध्ये यत् किञ्चित् प्रमाणम् आनीयते, तदबाह्यतामेव प्रत्युत साधयति [प्रसाधयति - क्। ष्। ष्।] इति विरुद्धमेव, अत एव आह “कथञ्चन” इति, केनापि प्रकारेण प्रत्यक्षात्मना अनुमेयात्मना वा आभासनम् आभासो बाह्यस्य अनाभासस्य न कदाचित् अभूत् इति, तस्मात् सिद्धम् “चिदात्मैव हि देव” इति ॥ ९ ॥
इति, एवं सतीत्यर्थः । ननु तव दर्शने किमस्तीत्यत आह अस्माभिः इति ।
अध्यवसायस्य - विकल्पकार्यस्याध्यवसानस्य, आभासमानविषयत्वम्, अर्थविषयत्वमित्यर्थः । कुत्रेत्यपेक्षायामाह भ्रान्तित्वे इति ।
स्वाभिप्रायमुपसंहरति तेन इति । अनुमानविकल्पात्मना - अनुमानरूपविकल्परूपतां गतेन । फलितमाह तेन इति । साधयति प्रागिवार्थोऽप्रकाशः इति न्यायेनेत्यर्थः । तत् इति विरुद्धमेव इति योजना, अतः तत्प्रमाणं विरुद्धमेव भवतीत्यर्थः । तथा च शान्तिकर्मारम्भे वेतालोत्थापनमेव बाह्यसाधनमिति भावः । ननु सूत्रे केन पदेन एतदुक्तमित्यत आह अत इति । किमाहेत्यत आह कथञ्चन इति ।
एतदपि व्याचष्टे केनापि इति । एतदवष्टम्भेन पूवश्लोकार्थस्य सिद्धतां कथयति तस्मात् इति ।
एवमत्र श्लोकद्वये योजना । पण्डितः अनुमानम् अनाभातपूर्वे नैवेष्टम् । इन्द्रियम् आभातमेव भवति, सामान्येनेति शेषः । कुतः ? वीजादेः हेतुवस्तुनः आभासात् । पुनः - पक्षान्तरे, आभासाद् बाह्यस्य आभासः कथञ्चन नासीत् तेनास्याथस्य बाह्यार्थस्य अनुमानतोऽपि सिद्धिर्नास्ति इति ॥ ९ ॥
ननु अन्तःस्थितं बहिः प्रकाशयेदित्युक्तं तत् अन्तःस्थित्वम् उपपादनीयम् इति आशङ्क्य आह :-
स्वामिनश्चात्मसंस्थस्य भावजातस्य भासनम् ।
अस्त्येव न विना तस्मादिच्छामशः प्रवर्तते ॥ १० ॥
बहीरूपतया आभासनेऽपि [बहीरूपतयापि आभासने - क्। ष्। ष्।] अहन्तारूपता [अन्तारूपता - क्। ष्। ष्।] न त्रुट्यति,
“प्रमात्रैकात्म्यमान्तर्यम्”
इति हि वक्ष्यते, तच्च सदैव, प्रकाशस्य प्रमातृत्वात्, तदात्मतया
अथ दशमश्लोकस्यावतरणिकां करोति ननु इति ।
अत्र टीका:-
उपपादनीयम् - युक्त्या समर्थनीयम्, स्यादेतत् इत्यत्र तर्कमात्रणैव साधनादिति भावः । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्ट स्वामिनः इति ।
अत्र टीका :-
श्लोकं व्याख्यातुं प्रक्रियां तनोति बहीरूप इति । बहिरूपतया आभासनेऽपि - बाह्यत्वेनाभसेऽपि, इदन्तया ग्रहणेऽपीति यावत्, अहन्तारूपता - आन्तररूपता । कुतो न त्रुट्यतीत्यत आह प्रमात्रा इति ।
प्रमात्रा सहप्रकाशेन सह ऐकात्म्यम् [प्रमात्रा सह - प्रकाशेन सह ।
ऐक्यम् प्रमात्रैक्यम् - च्।] प्रमात्रैकात्म्यम्, तच्च - भावानां प्रमात्रा सह ऐकात्म्यं [ऐक्यम् - च्।] च । कुत इति हेत्वपेक्षायामाह प्रकाशस्य इति । ननु प्रकाशस्य, प्रमातृत्वेऽपि प्रकृते किमायातम् इत्यत आह तदात्मतया इति । तदात्मतया -
च विनाऽप्रकाशमानस्य [प्रकाशमानस्य - क्। ष्। ष्।] अवस्तुत्वात्, किं तु तत्र अहम् इति उचिते परामर्शे योऽयम् इदन्तापरामर्शः सैव बाह्यता, तच्च इह अन्तःस्थितत्वम् अहमित्येतावता चित्समुचितेनैव वपुषा परामर्शनमेव तच्च इह नीलादीनामस्त्येव, न तु नास्ति इति, यदि हि न स्यात् कुम्भकृतो “घटं करवाणि” इति य उत्तरक्रियामपेक्ष्य इच्छाशब्दवाच्यः परामर्शः, एषणीयेन [एषणीयात्मना - क्। ष्। ष्।] स परामृ"येन अनियन्त्रितः चेत् ततः पटेच्छापि सा न कस्मात् इति सङ्कीर्येरन्
प्रकाशरूपप्रमातृरूपतया, अप्रकाशमानस्य - प्रागिवार्थः इति न्यायेन प्रकाश - कर्तृत्वमभजतो भावजातस्य, अवस्तुत्वात्, अप्रकाशमानं हि वस्तु वस्तु न भवति । ननु तर्हि अबाह्यमेव सर्वदा तत् इत्यपेक्षायाम् पक्षान्तररीत्या बाह्यत्वमपि साधयति किन्तु इति । तत्र - तस्मिन भावजाते, सैव - इदन्तापरामर्श एव, न तु ततो निर्गत्य बहिरवस्थानम् । तच्च इति, चिति समुचितः - योगिचित्समुचितः, तेन परामर्शनमेव, न तु कुत्राप्यन्तर्देशेऽवस्थानम्, तच्च - अहमिति परामर्शनं च अस्त्येव इति । एव शब्दस्य व्यावर्त्यमाह न तु इति । अत्र तर्कमनुकूलं प्रमाणानुग्राहकं कथयति यदि हि इति । तत् यदि न स्यात् इति
- एवम्, व्यवहाराः सङ्कीर्येरन् - सङ्करं गच्छेयुः । इति कथम् ? कुम्भकृतः - कुम्भनिर्माणे उद्युक्तस्य कुलालस्य, उत्तरक्रियामपेक्ष्य इच्छाशब्द - वाच्यः तां प्रति इच्छारूपः इति यावत् । घटं करवाणि इति परामर्शः भवति, सः एषणीयेन - एषणाविषयभूतेन, अत एव परामृश्येन - इच्छारूपस्य परामर्शस्यापि विषयभूतेन घटेन, अनियन्त्रितः - विषयभावेन परिच्छिन्नतां न नीतश्चेत्स्यात् ततः, सा - परामर्शरूपा इच्छा, पटेच्छापि कथं न स्यात्, विशेषा -
व्यवहाराः । अथ तत्रापि च एषणीयः तदानीमेव निर्मितः सन् तथा जातः तर्हि तन्निर्माणं चिदात्मनि विनेच्छया नोपपन्नम् इति “तिष्ठासोरेवमिच्छैव हेतुता” इत्यत्र वर्णयिष्यते । तच्च [ततश्च इच्छान्तरमपि - क्। ष्। ष्।] इच्छान्तरमपि विषयनियन्त्रितं न वा इति विकल्पेऽनवस्था । विषयनियन्त्रितं चेत् स्यात् आत्मतैव जाता, न चेत् घटे पटेच्छा स्यात् । अथ तत्रापि तदानीमेव इति कृत्वा अनवस्था । तस्मात् सर्वोऽयं भावराशिः चिदात्मनि अहम् इत्येव वपुषा सततावभासुरवपुः ऐश्वर्यरूपाच्च स्वातन्त्र्यलक्षणात् स्वामिभावात् विचित्रेण वपुषा क्रमाक्रमादिना संवित् एनं बहिः करोति प्रमातृप्रथनपूर्वकम्, [प्रमातृभेदप्रथन - क्। ष्। ष्।]
भावात् इति शेषः । अथ - यदि, तत्रापि - तस्यां घटेच्छायामपि, एषणीयः तदानीम् - इच्छासमये, निर्मितः - सम्पादितः, सन्, तथा जातः - एषणीयः सम्पन्नः, तर्हि तस्य - घटस्य निर्माणम्, चिदात्मनि - चित्स्वरूपे, इच्छया विना उपपन्नं न भवति, इति - एतत्, तिष्ठासोरेवमिच्छैव हेतुता इत्यत्र - अस्यां कारिकायाम्, वर्णयिष्यते - कथयिष्यते, तच्चेच्छान्तरम् - निर्मीयमाणविषया अन्या इच्छा, अपि, विषयनियन्त्रितं न वा इति विकल्पे सति, अनवस्था - तत्राप्यन्य एषणीयः तत्राप्यन्या इच्छा इत्येवंरूपः अनवस्थाख्यो दोषो भवेत् ।
आत्माश्रयादेरत्यन्तसंयुक्ततां ज्ञात्वा अनवस्थामात्रग्रहणम् ।
तर्केण शैथिल्यमुपपाद्यानुमानमत्र प्रवर्तयति फलितरीत्या तस्मात् इति ।
अयम् - पुरो भासमानः, सततम् अवभासुरं वपुर्यस्य तादृशम्, संवित् - प्रकाशरूपं परप्रमातृतत्त्वम्, एनम् - अहन्तया स्थितं भावराशिम्, बहिःकरोति - इदन्तया भासयति, ऐक्येन स्थितं सत् अपोहनशक्त्या भेदेन भासयति इति यावत् । कथम् ? प्रमातॄणाम् - ग्राहकरूपाणां स्वांशभूतानां मितप्रमातॄणां यत्प्रथनम् - अपोहनशक्त्या स्वतो भेदेन भासनम् तत् पूर्व यत्र तत्, प्रथमं ग्राहकान् भासयति
तत्रापि क्वचित् आभासे प्रमातॄन् एकीकरोति नितम्बिनीनृत्त इव प्रेक्षकान् । तावति हि तेषाम् आभासे ऐक्यम् । शरीरप्राणबुद्धिसुखाद्याभासांशेषु तु भेदस्य अविगलनात् न सर्वथा ऐक्यम् । अत एव प्रतिक्षणं प्रमातृसंयोजन
- [प्रमातृसंयोजनावियोजनावैचित्र्येण - क्। ष्। ष्।] वियोजनवैचित्र्येण परमेश्वरो विश्वं सृष्टिसंहारादिना प्रपञ्चयति । तदुक्तमाचार्येण :-
“सदा सृष्टिविनोदाय सदा स्थितिसुखासिने ।
सदा त्रिभुवनाहारतृप्ताय भवते नमः ॥”
तदनन्तरं ग्राह्यवर्गमिति भावः । तत्रापि - बहिष्करणेऽपि । कथं तत्र तेषामेकीकरणमित्यत आह तावति इति । तावति आभासे - नृत्ताभासे, किं सर्वथैव तेषान्तत्रैक्यमित्यत आह शरीर इति । प्रतिक्षणम् - क्षेण क्षणे इत्यर्थः, संयोजनम् - नृत्तादौ, वियोजनम् - शरीरादौ, आदिशब्देन मध्यगतायाः स्थितेर्ग्रहणं पिधानानुग्रहयोश्च । अत्राचार्यसम्मतिं दर्शयति तदुक्तम् इति । किमुक्तमित्यत आह सदा इति । स्थितिकृतं सुखं स्थितिसुखम् तत्र आस्ते इति तादृशाय । आहारः - निगरणम्, संहार इति यावत् ।
ननु कथं विरुद्धानां क्रमभाविनाञ्च सृष्ट्यादीनां युगपत् नित्यं भवति विनोदादिकारित्वम् ? शृणु, तत्र अनादित्वेऽपि कालग्रस्तशिष्यबुद्ध्यपेक्षया प्रथमभूतायां सृष्टौ तावत् पूर्वतरं संहारकाले स्थितायाः सञ्जिहीर्षायाः संहारः, तत्रैवोत्पान्नायाः सर्जनेच्छायाः स्थितिः, तद्विषयभूतानां भावनामुद्भविष्यमाणस्थितोच्छायाश्च सृष्टिः । स्थितौ तु सृष्टौ स्थितायाः सर्जनेच्छायाः संहारः । तत्रैवोत्पन्नायाः स्थितीच्छायाः तद्विषयभूतानां भावानाञ्च स्थितिः, सञ्जिहीर्षायाः सृष्टिः, संहारे तु स्थितौ स्थितायाः स्थितीच्छ्यायाः तद्विषयाणां भावानाञ्च संहारः, तत्रैवोत्पन्नायाः सञ्जिहीर्षोयाः स्थितिः, भाव्यमानसर्जनेच्छायाः सृष्टिः, इति स्फुटमेवास्य सृष्ट्यादित्रयस्य सृष्ट्यादित्रयमयत्वम्, सदात्वं च चिन्मात्रस्य तत्र सर्वदा तत्रोद्यन्तृत्वेन ज्ञेयम् । तदुक्तम् :-
नासन्निवेशं हेमास्ति नासर्गं ब्रम्ह विद्यते
इत्यादि । श्रीभट्टनारायणेनापि
“मुहुर्मुहुरविश्रान्तस्त्रैलोक्यं कल्पनाशतैः ।
कल्पयन्नपि कोऽप्येको निर्विकल्पो जयत्यजः ॥”
इति । तस्मात् स्थितम् अन्तःस्थितं भावजातं तेन विना तद्विषयस्य
इति । अन्योपि चक्रवर्ती भोगान् सृजति गृहे स्थापयति आहरति चेति ध्वनिः । अथवा परप्रमातुः सदा सृष्टिविनोदादित्वं स्वसृष्टस्वांशभूतमितप्रमातृकृतमेव ज्ञेयम्, ते हि सदा क्वचिद्भागे सृष्टिभाजः क्वचित् स्थितिभाजः क्वचित् संहारभाजः तरङ्गा इव जलनिधावित्यलं प्रपञ्चेन । श्रीभट्टनारायणवाक्यमप्यत्र संवादयितुमाह भट्ट इति । उक्तम् इति पूर्वेण सम्बन्धः । किमुक्तमित्यत आह मुहुः इति । मुहुर्मुहुः इति मध्यमावेशापेक्षया उक्तम्, सर्वे हि प्रमातारः स्वभावबलेन प्रतिक्षणं सिद्धं प्राणविज्ञाननिष्ठं मध्यमावेशमनुभवन्ति, यद्यपि शून्यं सर्वदा तन्मयमेव किन्तु स्तोकं जाड्येन व्याप्तं देहमपि अतिजाड्येन स्पृष्टं तादृशमेवेति तयोरिहाग्रहणम् ते च प्राणद्वारेण बुद्धिद्वारेण च तत्र प्रविष्टा भावराशिमपि स्वात्मना सह तत्र प्रवेशयन्ति, स्वभावबलेन तत उत्थिताश्च नवीनमेवोत्पादयन्ति, या च तेषु नवेषु भावेषु प्रत्यभिज्ञा सा सादृश्यनिमित्तकैव तैः कल्पितमान्तरविवक्षायां जाग्रदादिरूपं लोकत्रयं बाह्यविवक्षायां भूरादिरूपं लोकत्रयमपि तत्समष्टिभूतपरप्रमातृभूतसदातनचिन्मात्रकृतमेव ज्ञेयम् । यश्च कल्पनाशतैः मुहुर्मुहुः विश्रामरहितः त्रैलोक्यं कल्पयति स कथं निर्विकल्पो भवतीत्याश्चर्यम् । परिहारस्तु कल्पनाशतः इति ।
त्रैलोक्यकल्पनाः मितप्रमातृगताः, स तु सर्वदा निर्विकल्प एव यथा सार्वभौम आज्ञाद्वारेण स्वभृत्यैः सर्वदेशसम्बन्धिनीः क्रियाः कुर्वन्नपि निश्चिन्त एव स्वमण्डले तिष्ठति इति । अथवा अतिसूक्ष्मः परामर्शोऽपि प्रकाशस्य स्वरूपोद्वलनमेवेति न तेनापि हानिरिति ।
स्वाभिप्रायमुपसंहरन् [स्वाभिप्रायमुपसंहरति - च्।] न विना इति श्लोकशेषं व्याचष्टे तस्मात् इति । तस्मात्, इतीति शेषः, इति स्थितम् - सिद्धम् भवति । इति किमिति ? भावजातमिदमन्तःस्थितं
परामर्शायोगात् [परामर्शस्य अयोगात् - क्। ष्। ष्।] इति ॥ १० ॥
ननु परामर्शो नाम विकल्पः, स च अविकल्पशुद्धसंविद्वपुषि भगवति कथं स्यात् इत्याशङ्क्याह :-
स्वभावमवभासस्य विमर्शं विदुरन्यथा ।
प्रकाशोऽर्थोपरक्तोऽपि स्फटिकादिजडोपमः ॥ ११ ॥
इह अवभासस्य प्रकाशस्य, अनवभासस्य च अप्रकाशस्य घटादेः परस्परपरिहारेण द्वयोः स्वात्मनि चेत् व्यवस्थानम्, तत् घटपटयोः इव इदमजडम् इदं जडम् इति दुरुपपादं वैलक्षण्यम् । अथ अवभासो यतोऽर्थस्य सम्बन्धी, ततो न जडः, तर्हि सम्बन्धमात्रेण मृत् अपि घटस्य इति अजडा स्यात् । अथ न स्वसम्बन्धमात्रम् अपि तु अवभासोऽर्थस्य
भवति, कुतः ? तेन विना - अन्तरवस्थानं विना, परामर्शायोगात् करवाणि इतीच्छायाः अयोगात्, न हि निर्विषया इच्छा युक्तेति भावः । एतेन तर्कशोधिते मार्गे अनुमानप्रमाणं सञ्चारितम् ।
अयमत्र सङ्क्षेपः । स्वामिनः - विमर्शाख्यैश्वर्ययुक्तात् प्रभवापादनरूपाच्चित्तत्त्वात्, आत्मसंस्थस्य - तादात्म्येत स्वान्तर्गतस्यैव सतः, भावजातस्य - भावराशेः, भासनमस्ति, तस्माद्विना - तस्यात्मनि समवस्थानं विना, इच्छामर्शः - करवाणि इति इच्छारूपो विमर्शो न प्रवर्तते निर्विषयत्वात् ॥ १० ॥
अथैकादशश्लोकस्यावतरणिकां करोति ननु इति । स्पष्टम् ।
अत्र टीका :-
इह - अत्र लोके । अवभासस्य इति पदं व्याचष्टे प्रकाशस्य इति ।
परस्परपरिहारेण - परस्परतो व्यावृत्त्या, व्यवस्थानम् - विशिष्टमवस्थानम्, दुरुपपादम् - दुःखेनोपपादयितुं शक्यम् ।
यथास्वं स्वरूपसिद्धौ विशेषा -
प्रकाशः, तर्हि अर्थात्मना स प्रकाश इति समापतितम् । न च अन्यात्मना अन्यस्य प्रकाश उपपन्नः । अथ अन्यस्वभावोऽपि घटोऽवभासस्य कारणम्, तर्हि अवभासोऽपि घटस्य कारणम् इति घटोऽपि अजडः स्यात् । अथ अन्येन सतापि [अन्येनापि सता - क्। ष्। ष्।] घटेन यतोऽवभासस्य प्रतिबिम्बरूपा च्छाया दत्ता, ताम् असौ अवभासो बिभ्रत् घटस्य इति उच्यते, ततश्च अजडः, तर्हि स्फटिकसलिलमकुरादिः अपि एवम्भूत एव इति अजड एव स्यात् । अथ तथाभूतमपि आत्मानं तं च घटादिकं स्फटिकादिः न पराम्रष्टुं समर्थ इति जडः, तथापरामर्शनमेव अजाड्यजीवितम् अन्तर्बहिष्करणस्वातन्त्र्यरूपं [अन्तर्बहिष्करणस्वातन्त्र्यस्वरूपम् - क्। ष्।
ष्।] स्वाभाविकम् अवभासस्य स्वात्मविश्रान्तिलक्षणम् अनन्यमुखप्रेक्षित्वं
भावादिति भावः । पक्षान्तरमाह अथ इति । प्रकाशः - प्राकट्यम्, सः - अवभासः, समापतितम् - बलादायातम् । ननु तदेव भवत्वित्यत आह न च इति । अत्रापि प्रश्नं करोति अथ इति । कारणम् - विषयत्वेन आलम्बनकारकम् ।
उत्तरमाह तर्हि इति । घटस्य कारणम्, ज्ञापकत्वेन सिद्धिप्रदमित्यर्थः ।
पुनः शङ्कते अथ इति । अन्येन सतापि - जडत्वेन व्यतिरेकेण सताऽपि, ताम् - छायाम्, घटस्य इति, घटसम्बद्ध [घटसबन्ध - च्।] इत्यर्थः । ततश्च
- तत्सम्बन्धित्वाच्च, एवम्भूतः - प्रतिबिम्बरूपां छायां बिभ्रत् ।
प्रश्नं करोति अथ इति । तथाभूतमपि - तथाभूतं घटप्रतिबिम्बं गृह्णन्तम्, तं च - प्रतिबिम्बदायकञ्च, न समर्थः, असमर्थ इत्यर्थः ।
उत्तरमाह तथा इति । तथापरामर्शनम्, घटोपरक्तस्वात्मविषयं घटविषयं च परामर्शनम्, अजाड्यजीवितम् - चेतनतायाः सत्ताप्रदम्, अन्तः - लक्षणया अन्तःस्थितस्य भावराशेः, बहिष्करणम् - इदन्तया स्फारणम्, तत्र, यत् स्वातन्त्र्यम् तत् रूपं यस्य तादृशम्; स्वाभाविकम्, न तु केनाप्यागन्तुकम्, स्वात्मनि या
नाम । अहमेवं प्रकाशात्मा प्रकाशे इति हि विमर्शोदये स्वसंविदेव प्रमातृप्रमेयप्रमाणादि कृतार्थम् [चरितार्थम् - क्। ष्। ष्।] अभिमन्यते न तु अतिरिक्तं काङ्क्षति, स्फटिकादि हि गृहीतप्रतिबिम्बमपि तथाभावेन सिद्धौ प्रमात्रन्तरम् अपेक्षते इति निर्विमर्शत्वात् जडम् । सर्वत्र [सर्वं तु - क्। ष्। ष्।] वस्तुतो विमर्शात्मकप्रमातृस्वभावतादात्म्याहम्परामर्शविश्रान्तेः अजडत्वमेव [अजडमेव - क्। ष्। ष्।] पूर्वापरकोट्योः । यदुक्तम् :-
विश्रान्तिः सा लक्षणम् - स्वरूपं यस्य तादृशम्, अत एव अनन्यमुखप्रेक्षित्वं नाम - स्वग्रहणे परापेक्षारहितत्वाख्यम्, अवभासस्य इति विशेषेणमध्ये विशेष्याश्रयस्य कथनम् ।
कथनन्यमुखप्रेक्षि इत्यत्र हेतुमाह अहम् इति । अहमेवं प्रकाशात्मा, [अहम्प्रकाशाख्यः - च्।] अहमेवं प्रकाशात्मना स्वप्रकाशस्वभावेन च, प्रकाशे - प्रकाशकर्ताऽस्मि इति विमर्शोदये, हि - यस्मात्, प्रमात्रा स्वसविदेव - स्वरूपभूता संविदेव, न तु ततो व्यतिरिक्तं किञ्चिद् वस्तु, प्रमातृप्रमेयप्रमाणादि, आदिशब्देन प्रमाग्रहणम्, कृतार्थम् - चरितार्थम्, अभिमन्यते सः प्रमाता, अतिरिक्तम् - स्वरूपभूतसंविदः व्यतिरिक्तं प्रमात्रादि चरितार्थम्, न काङ्क्षति । ननु स्फटिकादिरप्येवं भवतु इत्यत आह स्फटिकादि इति । स्वभावे भिन्नत्वेन विमर्शाऽसमथत्वात् ।
ननु यदि स्फटिकादि जडमेव तर्हि द्वैतापत्तिरित्यत आह सर्व इति । वस्तुतः - परमार्थतः सर्वत्र विमर्शात्मकः - उक्तन्यायेन विमर्शस्वभावः यः प्रमातृस्वभावः - प्रकाशाख्यः परप्रमातुः स्वभावः तेन सह यत्तादात्म्यम् - प्रकाशमानत्वान्यथाऽनुपपत्त्या एकत्वम्, तेन या अहम्परामर्शे विश्रान्तिः तस्या हेतोः, पूर्वापरकोट्योः - ग्रहणेच्छासमये ग्रहणानन्तरं च, अजडत्वमेव - प्रकाशस्वरूपत्वमेव, भवति । यद्यपि मध्येऽपि तथैव भवति तथापि शिष्यबुद्धेस्तावदप्रौढत्वमपेक्ष्य एवमुक्तम् । अत्र वृद्धसम्मतिमाह यदुक्तम् इति । किमुक्तमित्यत आह इदम् इति ।
“इदमित्यस्य विच्छिन्नविमर्शस्य कृतार्थता ।
या स्वस्वरूपे विश्रान्तिर्विमर्शः सोऽहमित्ययम् ॥”
इति । मध्यावस्थैव तु इदन्तारविमृश्यमानपूर्वापरकोटिः विमूढानां मायापदं संसारः इति विमर्श एव प्रधानं भगवत इति स्थितम् ॥ ११ ॥
न केवलं संवित्तत्त्वस्य अस्माभिः एव विमर्शप्राधान्यम् उक्तम् यावत् आगमान्तरैरपि इति दर्शयति :-
इदं पूर्वमेव कृतव्याख्यम् इति न पुनरायस्यते तथा च नाद्वैतहानिरिति भावः । ननु मध्यावस्था कीदृशी भवतीत्यत आह मध्या इति । इदन्ता - इदन्तारूपा, तज्ज्ञानात् सर्वदा सर्वमेकरूपं पश्यतां विमूढवद् व्यवहारकारित्वेऽपि संसाराभावाद् विमूढानाम् इत्युक्तम् । तदुक्तम् :-
प्रबुद्धः सर्वदा तिष्ठेज् ज्ञानेनालोच्य गोचरम् ।
एकत्रारोपयेत् सर्वं ततोऽन्येन न पीड्यते ॥
इति । सिद्धं वस्तु सङ्क्षेपेण कथयति विमर्श इति । विमर्श एव - घटोपरक्तप्रकाशाख्यनिजस्वरूपविषयः उपरागकारिघटविषयश्च परामर्श एव, प्रधानम् - स्वरूपस्य प्रकाशतोपपादकत्वेन मुख्यम्, स्वरूपादपि मुख्यमिति यावत्, इति स्थितम् - सिद्धम् भवति । तथा च परामर्शस्य शुद्धप्रकाशगतत्वेऽपि न हानिरिति भावः । यद्यपि परमार्थतः ग्राहकत्वावच्छिन्नप्रकाशद्वारेणैवैतत्साधितम्, अन्यथाऽर्थोपरागकथनाऽयोगात्, शुद्धप्रकाशस्वरूपे उपरागकथायाः एव अयोगात्, तथापि तद्द्वारेण तस्याप्येतत् सिद्धमेव, परन्तु अतिसूक्ष्मतया तत्साक्षान्न कथितम्, अतश्च स्वात्ममात्रपरामर्शे शुद्धप्रकाशस्यापीयमेव वर्तनीत्यलं सूक्ष्मेक्षिकाभिः ॥ ११ ॥
अथ द्वादशसङ्ख्याकस्य श्लोकस्यावतरणिकां करोति न केवलम् इति । स्पष्टम् । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । आत्मात इति ।
आत्मात एव चैतन्यं चित्क्रियाचितिकर्तृता - तात्पर्येणोदितस्तेन जडात् स हि विलक्षणः ॥ १२ ॥
यतो विमर्श एव प्रधानम् आत्मनो रूपम् अमुमेव हेतुं प्रयोजनरूपम् उद्दिश्य आत्मा धर्मिस्वभावो द्रव्यभूतोऽपि, चैतन्यम् इति धर्मवाचिना [धर्मिवाचिना - क्। ष्। ष्।] शब्देन सामानाधिकरण्यम् आश्रित्य उदितः कथितः, भगवता शिवसूत्रेषु
चैतन्यमात्मा १ - १
इति पठितम् । चैतन्यम् इति हि धर्मवाचकोपलक्षणम्,
चितिशक्तिरपरिणामिनी …टद्दृशेः कैवल्यम् । (यो। सू। २ - २५) द्रष्टा दृशिमात्रः…(यो। सू। २ - २०)
इत्यादौ अपि हि धर्मशब्देन सामानाधिकरण्यम् आत्मनो दर्शितं गुरुणा
अत्र टीका :-
अत एव इति पदं व्याचष्टे यतः इति । विमर्श एव - परामर्श एव, आत्मनः - प्रकाशरूपस्य अवभासाख्यस्य प्रमातृतत्त्वस्य, रूपम् - स्वभावः, तत इति शेषः । अमुम् - विमर्शस्य आत्मनः प्रधानरूपतारूपम्, प्रयोजनरूपम् - प्रयोजकतया प्रयोजनस्वरूपम् ।
आत्म शब्दं व्याचष्टे धर्मि इति । धर्मिस्वभावः - चैतन्याख्यस्य धर्मस्य आश्रयत्वेन धर्मिस्वरूपः । चैतन्य शब्दं व्याचष्टे धर्म इति । प्रथमाविभक्तेर्वाच्यमाह सामानाधिकरण्यम् इति । उदित पदं व्याचष्टे कथितः इति । कुत्र केनोदित इत्यपेक्षायामाह भगवता इति ननु किमत्रैव धर्मवाचिशब्देनात्मनः कथनमस्ति उतान्यत्रापीत्यत आह चैतन्यम् इति । कुत उपलक्षणम् इत्यत आह चितिशक्तिः इति ।
चितिशक्तिरपरिणामिनी आत्मा भवति, तद्दृशेः - आत्मरूपायाः दृशे, कैवल्यम् - औदासीन्यं भवति । द्रष्टा दृशिमात्रा भवति इति सूत्रत्रयस्यार्थः । धर्मशब्देन - चितिशक्तिरपरिणामिनी
अनन्तेन । द्रव्यं हि तत् उच्यते यद्विश्रान्तः पदार्थवर्गः सर्वो भाति च अर्थ्यते च अर्थक्रियायै, तद् यदि न कुप्यते तत् सकलोऽयं तत्त्वभूतभावभुवनसम्भारः संविदि विश्रान्तः तथा भवति इति स एव गुणकर्मादिधर्माश्रयभूतपदार्थान्तरस्वभावः तामेव मुख्यद्रव्यस्वरूपाम् [मुख्यद्रव्यरूपाम् - क्। ष्। ष्।] आश्रयते इति सैव द्रव्यम् । तत् अनन्तधर्मराशिविश्रमभित्तिभूतायाः तस्याः स
इत्यादिना, अनन्तेन - शेषेण, पतञ्जलिसूत्रेष्वस्य सूत्रत्रयस्य स्थितत्वात् ।
ननु तर्हि आत्मनः अप्रधानत्वमायातम् पराश्रितो हि धर्मः स्फुटमप्रधानमेवेत्यत आह द्रव्यं हि इति । द्रव्यम् - गुणाश्रयः, प्रधानं वस्तु इति यावत् । तत्किमित्यपेक्षायामाह यत् इति । न तु तार्किकाभिमतद्रव्येष्विव गुणकर्मादिरूपः पदार्थवर्ग एवेत्यर्थः ।
भाति - घट इव मृदि स्फुरति । पुनः कीदृशो भवतीत्यपेक्षायाम् आह अर्थ्यते च इति । जनैः अर्थक्रियायै - निजनिजार्थक्रियार्थम्, प्रार्थ्यते च, न हि मृदोऽनिष्कृष्टो घटः उदकाहरणार्थं केनापि प्रार्थ्यते । अत्र शिष्याङ्गीकारं ज्ञात्वा सूचीप्रवेशे मुसलप्रवेशः इति न्यायमाश्रित्य धर्मितया मतेष्वपि तत्त्वादिषु आत्मधर्मत्वमेव कथयति तत् इति । भूतानि
- महाभूतानि, भावाः - भौतिकानि । धर्माः - आश्रिताश्च, आश्रयाः - धर्मिणः तद्भूतानि पदार्थान्तराणि च तानि, स्वभावः - स्वरूपं यस्य तादृशः । समस्तधर्मधर्मितूप इत्यर्थः । तामेव - अर्थरूपां संविदमेव, मुख्यद्रव्यस्वरूपाम् - सर्वाश्रयत्वेन प्रधानद्रव्यरूपाम्, न तु तार्किकाभिमतद्रव्या - भासरूपाम्, सैव - संविदेव, द्रव्यम्, अन्यत्त सर्वं गुणरूपमेवेत्यर्थः । अतः एव श्रीभगवता चोक्तम् :-
सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज
इति । अत्र धर्मशब्देन सकलभावजातमेवोक्तम्, न तु चातुर्मास्यादिको धर्मः । अस्मच्छब्देन चैतन्यम्,
एव धर्मः चैतन्यम् इति कर्तृकृदन्तात् उत्पन्नेन भावप्रत्ययेन सम्बन्धाभिधायिनापि प्राधान्येन दर्शितः । तथा हि सम्बन्धविश्रान्तस्य प्रतीतेः, द्रव्यरूपस्य च सम्बन्धिनः प्रकृत्या उक्तत्वात् चितिक्रियारूपं धर्मं सम्बद्धम् अवगमयताष्यञा निष्कृष्टांशः [निष्कृष्ट एवांशः - क्। ष्। ष्।] प्रत्यायितो भवति । चितिक्रिया च चितौ कर्तृता, स्वातन्त्र्यं संयोजनवियोजनानुसन्धानादिरूपम् आत्ममात्रतायामेव
न तु देहावच्छिन्नविज्ञानम् । ततश्चैवमत्रार्थः, सर्वं भावजातं परित्यज्यवस्तुबुद्ध्यविषयतां नीत्वा, एकं मां - तत्र सारतया स्थितम्, प्रकाशमात्रस्वरूपं सन्मात्ररूपञ्च किमपि तत्त्वम्, शरणं व्रज - स्वस्यापि सत्ताप्रदत्वेन जानीहि इति, सर्वपापानि च तत्र बन्धकं भावजातमेव ज्ञेयं । बन्धनस्यैव पापत्वात्, न तु अदृष्टस्य कस्यापीत्यलं प्रपञ्चेन । उपसंहारं करोति तत् इति । तस्याः - संविदः, स एव - संविद्रूप एव, कर्तृकृदन्तात् - कर्तरि कृत् इति सूत्रेण सूत्रयतीति कर्तरि विहितः यः कृत्प्रत्ययः यु प्रत्ययः सः अन्ते यस्य, तादृशात् प्रातिपदिकात्, भावे विहितेन ष्यञा, सम्बन्धम् - धर्मधर्मिभावम्, प्राधान्येन - आत्मस्वरूपत्वेन, दर्शितः । भावो हि स्वरूपमेव । एतदेव समर्थयितुमुपक्रन्ते तथा हि इति । सम्बन्धिनोर्विश्रान्तस्य सम्बन्धिविश्रान्तस्य, द्रव्यरूपस्य - चेतनाख्यधर्मिरूपस्य, प्रकृत्या - चित्याख्यधातुप्रकृत्या । चितिक्रियारूपम् इति, क्रियाया एव बाहुल्येन धात्वर्थत्वादिति भावः । धर्मम् - चितिक्रियाख्यम्, सम्बद्धम् - चेतनेन सम्बन्धयुक्तम्, अवगमयता - भावे विहितत्वेन सूचयता, ष्यञा - ष्यञ् प्रत्ययेन, निष्कृष्टांशः - चितिक्रियारूपः चेतनात् पृथक्कृतो भागः, प्रत्यायितो भवति - बोधितः स्यात् । तदुक्तम् :-
यस्य हि गणस्य द्रव्ये भावाच्छब्दनिवेशः तदभिधाने तात्वौ भवतः
इति । तात्वयोश्चात्र सर्वभावप्रत्ययोपलक्षत्वम् । ननु भवतु ततः किमित्यतः चित् इति पदं व्याख्यातुमाह चिति इति । चितिक्रिया च अहम् इति भवति इति योजना । किंस्वरूपासौ चितिक्रियेत्यपेक्षायामाह चितौ कर्तृता
जडवत् अविश्रान्तत्वम् अपरिच्छिन्नप्रकाशसारत्वम् अनन्यमुखप्रेक्षित्वम् इति । तदेव अनात्मरूपात् जडात् संयोजनवियोजनादिस्वातन्त्र्यविकलात् वैलक्षण्यादायि इति । तदेवं [तदेव - क्। ष्। ष्।] परत्वेन प्रधानतया अभिसन्धाय आत्मा चेतन इति वक्तव्ये धर्मान्तराधरीकरणाय विमर्शधर्मोद्धुरीकरणाय च आत्मा
इत्यादि अनन्यमुखप्रेक्षित्वम् इत्यन्तम् । चितिक्रिया च - चेतनाख्यात् द्रव्यात् ष्यञा निष्कृष्टा चित्याख्या क्रिया च, चितौ - चेतयतीति कर्तृप्रत्ययान्तचितिशब्दवाच्ये चेतने, स्थिता कर्तृता, क्रियाया एव हि कर्ता कर्ता भवति, अन्यथा सामर्थ्यपि गौणकर्तृत्वात् जडवत् आत्ममात्रतायामविश्रान्तत्वम् - जडन्यायेन स्वरूपमात्रे स्थित्यभावः, स्वं प्रति परान् प्रति च ग्राहकत्वमिति यावत् । एतेन चित्क्रियाचितिकर्तृतातात्पर्येण इति समासपदव्याख्या । तथा हि चित्क्रिया एव चितिकतृता - चितौ कर्तृता, तस्याः यत्तात्पर्यं तेन, चित्क्रियैव चितिकतृता यथा ज्ञायते इत्यभिप्रायेणेत्यर्थः । तेन इत्यादि श्लोकशेषं व्याचष्टे तदेव इति । तदेव - अहंरूपचितिकर्तृत्वमेव, वैलक्षण्यादायि - आत्मभेदकारि, तेष्वहम्परामर्शासम्भवादिति भावः । एतदवष्टम्भेन शिवसूत्रस्य स्फुटं व्याख्यां करोति अस्य श्लोकस्य च सङ्क्षिप्तार्थं कथयति तदेवम् इति । परत्वेन - एतन्निष्ठत्वेन, अभिसन्धाय - चेतसि कृत्वा, धर्मान्तराधरीकरणाय - नित्यत्वाद्यन्यधर्मगौणीभावापादनाय, विमर्शधर्मोद्धुरीकरणाय च - अहंविमर्शमुख्यीकरणाय च ।
अत्रचाहंविमर्शस्य प्रकाशजीवितभूतस्य अद्वैतस्थिरताकरणाय आत्मधर्मत्वमवधूय आत्मस्वरूपत्वमेवोक्तम्, न च तावता आत्मनो वस्तुतः ततो भेदः शङ्क्यः, अत्र हि शिष्यबोधनमात्रप्रयोजना एव सर्वाः प्रक्रियाः, बोधनञ्च अद्वैतविषयमेव तेन यावन्मात्रेणाद्वैत सिद्धिः तावन्मात्रमेव ग्राह्यम्, न तु बलादायातं द्वैतमपि, अपि तु ततो विमुख्यमेवाश्रयणीयम्, शब्दस्य च द्वैतापादकत्वमपरिहार्यमेव ।
तदुक्तम् :-
यदभिन्नं स्वसंवित्तौ तत्परस्य यदोच्यते ।
तदा भिन्नमिवाभाति शाब्दीं भूमिमुपाश्रितम् ॥
चैतन्यम् इत्युक्तम् । चित्क्रियाचितिकर्तृतातात्पर्येण इति समासः । अर्धयुक् पादविश्रान्तिः इति हि काव्ये समयः, न शास्त्रे । यदि वा चित्क्रिया आत्मा उदितः चितिकर्तृता च इति पृथगेव । एवं तु न क्वचित् पठितम् ॥ १२ ॥
इति । अतोपि परमार्थविचारे तु मनसोप्यत्र द्वैतापादकत्वमेव, अत एव यावदहमिति स्फुरति तावत् परिच्छिन्नप्रमातृत्वस्पर्श एव आयाति, अतश्चात्र स्वयं सदास्फुरणशीले अहम्परामर्शे समाधानमेव कार्यम् ।
तदुक्तम् :-
हन्त रहस्यं भणामो मूढा मा भ्रमत गर्भगोलेषु ।
अत्यासन्नं हृदयं परिधारयत तस्य चोद्योगम् ॥
इति । तदपि वा न तत्रारोहति समाधेयत्वेन परिच्छिन्नतापातात् तदुक्तम् :-
त्यजावधानानि ननु क्व नाम धत्सेऽवधानं विविशन्स्वयं तत् ।
पूर्णेऽवधानं न हि नाम युक्तं नापूर्णमभ्येति च सत्यभावम् ॥
इति । अलमनाख्ये वस्तुन्युन्मत्तप्रलापैः । सूचनया कथितं समासं स्फुटत्वेन कथयति चित्क्रिया इति । ननु कथमयं समासः सम्भवति न हि पूर्वार्धस्योत्तरार्धेन सम्बन्धः क्वापि दृश्यते इत्यत आह अर्ध इति ।
अर्धयुक् - अर्धेयोगः, न तु परार्धेन सह पूर्वार्धस्य योगः ।
पादविश्रान्तिः - पादे विश्रान्तिः - विरामः, शास्त्र - शिवप्रणीतादौ ।
पक्षान्तरमाह यदि वा इति । तर्हि एवमेवास्तु किमित्यप्रसिद्धाश्रयणं करिष्यामः इत्यत आह एवम् इति । शिष्यप्रशिष्यपरम्परया एतन्नैव श्रुतमित्यर्थः ।
अत्रायं सङ्क्षेपः । अत एव - अवभासस्य विमर्शस्वभावत्वादेव, चित्क्रियाचितिकर्तृतातात्पर्येण हेतुना आत्मा चैतन्यमुदितः - चैतन्यमात्मा इति सूत्रे शिवन कथितः । हि - यस्मात्कारणात्, सः - आत्मा, तेन - चैतन्येन, जडाद्विलक्षणो भवति भवति च
ननु यथा प्रकाशोऽप्रकाशश्च इति उभयमपि स्वात्मनि, ततश्च प्रकाश इति उक्ते जडात् न वैलक्षण्यम् उदितं स्यात्, तद्वत् विमर्शोऽपि अविमर्शोऽपि च स्वात्मनि, इति तेनापि कथं वैलक्षण्यं जडाजडयोः इत्याशङ्क्याह :-
चितिः प्रत्यवमर्शात्मा परा वाक्स्वरसोदिता ।
स्वातन्त्र्यमेतन्मुख्यं तदैश्वर्यं परमात्मनः ॥ १३ ॥
चेतयति इत्यत्र या चितिः चितिक्रिया तस्याः प्रत्यवमर्शः स्वात्मचमत्कारलक्षण आत्मा स्वभावः । तथा हि - घटेन स्वात्मनि न चमत्क्रियते,
बाहुल्येन प्रधानस्य धर्मस्य स्वरूपतया निर्देशः मनोधर्मस्य सङ्कल्पस्येव मनस्तया इत्यलम् ॥ १२ ॥
अथ त्रयोदशस्य श्लोकस्यावतरणिकां करोति ननु इति ।
अत्र टीका :-
उभयम् - युगलकम्, स्वात्मनि स्थितं भवति नत्वन्योन्यं प्रति वैलक्षण्या - पादकं भवति निर्विकल्पत्वात् भेदापादनस्य च विकल्पकार्यत्वात्, तद्वद्विमर्शोपि अविमर्शोपि च इति उभयं च, स्वात्मनि स्यात्, इति - अतः कारणात्, कथं तेनापि - विमर्शयुगलकेनापि, जडाजडयोर्वैलक्ष्यण्यम् इत्याशङ्क्य - एवंरूपां शङ्कां कृत्वा, आह - कथयति चितिः इत्यादि ।
अत्र टीका :-
चितिः इति शब्दस्य व्याख्यां करोति चेतयति इति । चेतयतीत्यत्र या चितिः, अस्मिन् विग्रहे स्थिता या धातुप्रकृतिवाच्या चित्याख्या क्रिया न तु कर्तविहितकृत्प्रत्ययान्तवाच्या चितिः, अत एवोक्तं चितिक्रिया इति ।
प्रत्यवमर्श पदं व्याचष्टे स्वात्म इति । स्वात्मचमत्कारलक्षणः - अहम् इतिस्वविषयास्वादरूपः । आत्मा इति पदं व्याचष्टे स्वभाव इति ।
एतेन प्रत्यवमर्श आत्मा यस्याः सा इति विग्रहोऽस्य पदस्य सूचितः ।
कथमस्याः स स्वभाव इत्यत आह तथा हि इति । न चमत्क्रियते - अहम्
स्वात्मा न परामृश्यते, न स्वात्मनि तेन प्रकाश्यते, न अपरिच्छिन्नतया भास्यते, ततो न चेत्यत इति उच्यते । चैत्रेण तु स्वात्मनि अहमिति संरम्भोद्योगोल्लासविभूतियोगात् चमत्क्रियते, स्वात्मा परामृश्यते, स्वात्मन्येव प्रकाश्यते, इदमिति यः परिच्छेद एतावद्रूपतया तद्विलक्षणीभावेन नीलपीतसुखदुःखतच्छून्यताद्यसङ्ख्यावभास- योगेन अवभास्यते, [आभास्यते - क्। ष्। ष्।] ततः चैत्रेण चेत्यते इति उच्यते । एवं च विमर्शः स्वात्मनि अविमर्शोऽपि
इति स्वविषय आनन्दो नानुभूयते । अस्य व्याक्यां स्वयं करोति स्वात्मा इति ।
परामृश्यते - परामर्शविषयतां नीयते, अत एव न प्रकाश्यते, अत्र स्वयमेव व्याख्यां करोति न इति । अपरिच्छिन्नतया न भास्यते - अहम् इति अपरिच्छिन्नाभासविषयेण न भूयते, प्रत्युत इदम् इति परिच्छिन्नाभासविषयेण भूयते, ततः कारणात् इति उच्यते - कथ्यते, इति किमिति ? तेन - घटेन, न चेत्यते - चेतनक्रियाकर्तृत्वं न आसाद्यते इति । ननु अचेतनवर्गस्येयं वार्ता भवतु चेतनवर्गस्य तु कीदृशी वार्ता इत्यत आह चैत्रेण इति । स्वात्मनि - स्वविषये, अहम् इति यः संरम्भोद्योगः - उद्यन्तृतां प्रत्युद्योगः, तस्य यः उल्लासः स एव विभूतिः - ऐश्वर्यम्, तस्याः योगान्त्, स्वात्मन्येव, न तु परप्रमातर्यपि, प्रकाश्यते - प्रकाशविषयेण भूयते, स्वप्रकाशत्वादिति भावः ।
तद्विलक्षणीभावेन, अहम् इति यावत् । यस्तु अयं चैत्रः, इति परिच्छिन्नतया परामर्शः सः तद्देहादिनिष्ठ एवेति भावः । तच्छून्यता - नीलादिशून्यता, एतेन सौषप्तावभासस्य ग्रहणम् अवभास्यते - नीलादिग्राहकत्वेननापि स्वात्माऽनुभूयते अहं नीलादिज्ञानवान् इति ।
ततः - तस्मात्कारणात् । उपसंहारं करोति एवञ्च इति । एतत्, अवतरणिकायां शङ्कितमित्यर्थः । चितिर्हि चेतन्क्रिया सा एव प्रत्यवमर्शस्वरूपम् इति तस्य प्रत्यवमर्शस्य स्वाश्रयादजडात् जडस्य भेदद्योतने सामर्थ्यम् इति भावः । कथमेतदित्यपेक्षायामाह
स्वात्मनि इत्यसिद्धमेतत् । विमर्शो हि सर्वंसहः परमपि आत्मीकरोति, आत्मानं च परीकरोति, उभयम् एकीकरोति, एकीकृतं द्वयमपि न्यग्भावयति इत्येवंस्वभावः । प्रत्यवमर्शश्च [अनतरभिलापात्मक - क्। ष्। ष्।] आन्तराभिलापात्मकशब्दनस्वभावः, तच्च शब्दनं सङ्केतनिरपेक्षमेव अविच्छिन्नचमत्कारात्मकम्
विमर्शो हि इति । विमर्शः - चितिक्रियारूपः प्रत्यवर्मशः, सवसहः न तु प्रकाशत्वाद् बाह्यप्रतिबिम्बग्रहणमात्रसमर्थः, अत एव परमप्यात्मीकरोति, भूतावेशसमये इत्यर्थः, तत्र हि अहम् अमुकवटस्थो यक्ष इत्यादिज्ञानमनुभूयते । पुनः किं क्रियते इत्यत आह आत्मानम् इति ।
नाहं चैत्रोऽस्मि इति भावः । उभयमपि एकीकरोति - य एव वटयक्षः स एवाहम् इति । द्वयम् इति । द्वयम् - आत्मानं परञ्च अहं चैत्रोपि नास्मि यक्षोपि नास्मि इत्यर्थः । तदुक्तम् :-
रज्ज्वां नास्ति भुजङ्गस्त्रासं कुरुते च मृत्युपर्यन्तम् ।
भ्रान्तेर्महती शक्तिर्निश्चेतुं केन शक्यते नाम ॥
इति । एतेन पदद्वयेनैव अभिप्रेतोऽर्थः सिद्धः, शेषाणि विशेषणानि प्रत्यवमर्शस्य अत्याश्चर्यत्वद्योतनमात्रपराणीति ज्ञेयम् । तत्र परा वाक् इति पदं व्याचष्टे प्रत्यवमर्शश्च इति । प्रत्यवमर्शश्च ।
चितिरूपतया प्रोक्तः प्रत्यवमर्शश्च, आन्तरञ्च तत् - बाह्ये मध्यमाभावेन स्थितम्, न तु पश्यन्तीपदमारूढं वैखरीभावं वा पतितम्, आन्तरत्वे तु पराभावेन स्थितम्, अभिनाषात्मकम् - व्यक्तवाग्रूपम्, न तु कुक्कुटादिरुतवत् अव्यक्तम्, शब्दनम् - शब्दोच्चारणं सः स्वभावः यस्य तादृशः, शब्दस्मृतेरेव विकल्परूपप्रत्यवमर्शत्वात्, एतेन वाक्त्वं साधितम् । पराशब्दवाच्यं पूर्णत्वं साधयति तच्च इति । तच्च शब्दनम् - प्रत्यवमर्शस्वरूपभूतं शब्दनम्, सङ्केतनिरपेक्षमेव - वाह्यशब्दवत् सङ्केतापेक्षारहितमेव, अन्यथा सद्योजातबलादौ तदुत्पादो न स्यात्, तस्यापि हि सूक्ष्मः अहम् इति परामर्शो विद्यते एव, अन्यथा स्वात्मार्थ स्तन्याद्यभिलषणमयुक्तं स्यादिति भावः । तथा अविच्छिन्नः - इदन्तास्पर्शाभावेन परमात्मनः अप्रच्युतः यः चमत्कारः -
अन्तर्मुखशिरोनिर्देशप्रख्यम् अकारादिमायीयसाङ्केतिकशब्दजीवितभूत [भूतं नीलमिदं चैत्रोऽहम् इत्यादि - क्। ष्। ष्।] - नीलमिदञ्चैत्रोऽहमित्यादिप्रत्यवमर्शान्तरभित्तिभूतत्वात्, पूर्णत्वात् परा, वक्ति विश्वम् अभिलपति [अपलपति - क्। ष्। ष्।] प्रत्यवमर्शेन इति च वाक्, अत एव सा स्वरसेन
अहम् इति स्वरूपः स्वरूपास्वादः स आत्मा यस्य तादृशम्, अत एव अन्तर्मुखः यः शिरोनिर्देशः - शिरःकम्पादिना कृतः वस्तुनिर्देशः तस्य प्रख्यम् - सदृशम्, यद्यप्यत्रापि सङ्केतो विद्यत एव, एतावन्मात्रस्तनिका इत्यादौ अभिनये हि सङ्केतो विद्यत एव, तथाप्यस्फुटताऽभिप्रायेणेदमुक्तम् । तथा अकारादयः ये मायीयाः साङ्केतिकशब्दाः - भेदरूपत्वेन मायाकार्यसङ्केतविषयगवादिशब्दाः ते संस्कारभावेन जीवित भूतानि येषां तानि च तानि लीलमिदम् चैत्रोहम् इत्यादीनि प्रत्यवमर्शान्तराणि - अन्ये बाह्याऽऽन्तरवस्तुविषयाः विकल्परूपाः प्रत्यवमर्शः, तेषां भित्तिभूतत्वात् - आधारतया स्थितत्वात् । तदुक्तम् :-
गुणादिस्पन्दनिष्पन्दाः सामान्यस्पन्दसंश्रयात् ।
लब्धात्मलाभाः
इति । पूर्णत्वात्, एवंरूपया पूर्णतयेत्यर्थः, पराशब्दस्य हि पूर्णत्वमेवार्थः, तथा च गर्भस्थितसकलपश्यन्तीमध्यमावैखरीरूपसकलवाक्प्रपञ्चा इत्यर्थः । एतेन परात्वं साधितम् । समुच्चयेन वाक्शब्दस्य व्याख्यानं करोति वक्ति इति । वक्ति इति पदं व्याचष्टे अभिलपति इति । प्रत्यवमर्शेन - प्रत्यवमर्शवृत्त्या, न तु उच्चारवृत्त्या इत्यर्थः । च शब्दः समुच्चये पूर्वव्याख्यया सह इमां व्याख्यां समुच्चिनोति । स्वरसोदिता इति पदं व्याचष्टे स्वरसेन इति । स्वः - स्वात्मभूतः यः रसः - आस्वादः, न तु कस्यापि केनापि प्रयत्नेन,
चिद्रूपतया स्वात्मविश्रान्तिवपुषा उदिता सदानस्तमिता [सततम् - क्। ष्। ष्।] नित्या अहमित्येव । एतदेव परमात्मनो मुख्यं स्वातन्त्र्यम् ऐश्वर्यम् ईशितृत्वम् अनन्यापेक्षित्वम् उच्यते । परापरं तु इदम्भावरूपस्य प्रत्यवमर्शस्य अख्यातिप्राणस्य उद्बोधमात्रेऽपि अहम्भाव एव विश्रान्तेः श्रीसदाशिवादि - भूमौ पश्यन्तीदशायाम् । अपरं तु इदम्भावस्यैव निरूढौ मायागर्भाधि -
स्वभावेन इति यावत् । स चास्याः चिद्रूपतैव इति चिद्रूपतया इत्युक्तम् ।
कीदृश्या ? स्वात्मनि या विश्रान्तिः - अहम् इति विश्रमणम् सा वपुः यस्यास्तादृश्या । उदिता इति पदं व्याचष्टे सदा इति । सदानस्तमिता सदोदितेत्यर्थः, सकृद्विभातेति यावत् । तदुक्तम् :-
सकृद्विभातोयमात्मा
इति । अस्य पदस्यापि स्वयमेव व्याख्यां करोति नित्या इति । अहम् इत्येव, नित्याहन्ताभावेन स्फुरणशीलेत्यर्थः । द्वितीयार्धं व्याख्यातुमाह एतद् इति । एतदेव च - प्रत्यवमर्श एव च, स्वातन्त्र्यशब्दापेक्षं नपुंसकत्वम्, परमात्मनः - प्रकाशरूपस्य अपरिमितप्रमातुः, न तु ग्राहकाभिमतस्य मितप्रमातुः, तस्य परिमिताहन्तास्पदत्वात् । ऐश्वर्य पदं व्याचष्टे, ईशितृत्व इति । पर्यायान्तरमाह अनन्य इति । उच्यते इति, पण्डितैरिति शेषः । नन्वत्र परात्वं भवतु परापरात्वन्तु अस्याः कुत्रास्तीत्यत आह परापरम् इति । अख्यातिप्राणस्य - उपर्यपि मायातत्त्वस्पर्शात् मायाजीवितस्य, उद्बोधमात्रेपि - प्रादुर्भावमात्रेऽपि, न तु स्वकार्यौन्मुख्ये, आदिशब्देन ईश्वरादेर्ग्रहणम् । यद् वक्ष्यति :-
ईश्वरो बहिरुन्मेषो निमेषोन्तः सदाशिवः
इति । ईश्वरदशायाम् अहन्तेदन्तयोः समप्राधान्येऽपि ब्रह्मादिभ्योऽतिशययुक्तत्वात् श्रीसदाशिवेन सह समकक्षतया कथनम् ।
अपरात्वं कुत्रास्तीत्य - पेक्षायामाह अपर इति । निरूढो - विश्रान्तौ । ननु तर्हि श्रीसदाशिवादीनामपि
कृतानामेव विष्णुविरिञ्चेन्द्रादीनाम्, तत्तु तेषां [एषाम् - क्। ष्। ष्।] परमेश्वरप्रसादजमेव । इति अन्यनिरपेक्षतैव परमार्थत आनन्दः, ऐश्वर्यम्, स्वातन्त्र्यम्, चैतन्यम् । तस्मात् युक्तमुक्तम्
…टेन जडात् स हि विलक्षणः ।
इति ॥ १३ ॥
प्रधानागमेष्वपि एतत् प्रदर्शितमेव इति निरूपयति : -
सा स्फुरत्ता महासत्ता देशकालाविशेषिणी ।
सैषा सारतया प्रोक्ता हृदयं परमेष्ठिनः ॥ १४ ॥
ऐश्वर्यं स्यादेवेत्यत आह तत्तु इति । तत् - ऐश्वर्यम्, तेषाम् - सदाशिवादीनाम्, परमेश्वरप्रसादजम् - परप्रकाशरूपपरशिवप्रसादजम् । तदुक्तम् :-
एते तदीयैश्वर्यविप्रुड्भिरीश्वरीभूताः
इति । अथवा कथमैश्वर्यादेरनन्यापेक्षित्वस्वरूपत्वमित्यपेक्षायामाह परापरम् इति । उपसंहारं करोति इति इति । इति - अतः कारणात् ।
एतदवष्टम्भेन फलितं समर्थनीयं सिद्धत्वेन कथयति तस्मात् इति ।
प्रत्यवमर्शस्य हि जडाजडभावविवेचकत्वं स्फुटमेवानेन श्लोकेन कथितमिति भावः ॥ १३ ॥
अथ चतुर्दशश्लोकस्यावतरणिकां करोति प्रधान इति ।
अत्र टीका :-
प्रधानागमेषु - महाऽद्वैतवादिषु मालिनीविजयादिप्रधानशास्त्रेषु । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । सा स्फुरत्ता इति ।
अत्र टीका :-
प्रकृतिचितिरूपप्रत्यवमर्शपरामर्शपरं सा इति पदं स्फुटार्थत्वेन अव्याख्यया स्फुरत्ता इति पदं व्याचष्टे इह इति । इह - अत्र व्यवहारविषया
इह घटः कस्मात् अस्ति, खपुष्पं [खपुष्पं च - क्। ष्। ष्।] कस्मात् नास्ति इत्युक्त इति - वक्तारो [इति उक्ते वक्तारो भवन्ति - क्। ष्। ष्।] भवन्ति घटो हि स्फुरति मम न तु इतरत् इति । तदेतत् घटत्वमेव यदि स्फुरत्त्वं स्फुरणसम्बन्धः, तत् सर्वदा [तत्सर्वस्य स्फुरेत् - क्। ष्। ष्।] सर्वस्य स्फुरेत् न कस्यचिद्वा, तस्मात् मम स्फुरति इति कोऽर्थः, मदीयं स्फुरणं स्पन्दनम् आविष्टम् [आविष्ट - क्। ष्। ष्।] इति । स्पन्दनञ्च किञ्चिच्चलनम्, एषैव च किञ्चिद्रूपता यत् अचलमपि
भावभरिते जगति, घटः कस्मात् - अर्थतः कारणात्, अस्ति - सत्तां भजते तस्य अस्तित्वेन प्रसिद्धत्वात्, खपुष्पं कस्मान्नास्ति, अस्यापि नास्तित्वेन प्रसिद्धेः, इत्युक्ते - निर्णयपरेण केनापि पृष्टे सति, इतिवक्तारः एवमुत्तरकर्तारः भवन्ति, इति किमिति ? हि - यस्मात्, घटः मम स्फुरति - मद्बोधे स्फुरणकर्ता भवति, अतः अस्तीति भावः । इतरत् - खपुष्पम्, न स्फुरति, अतो नास्तीति भावः । ननु ततः किमित्यत आह तदेतत् इति । तत् - तस्मात्कारणात्, एतत् - भासमानम्, घटत्वम् - घटत्वाक्यः स्वभाव एव, स्फुरत्त्वम् - स्फुरणकर्तृत्वम्, अस्य पर्यायमाह स्फुरंसम्बन्धः - स्फुरणक्रियासम्बन्धः, कर्तुः क्रियासम्बन्धस्य युक्तत्वात् अन्यथा कर्तृत्वायोगात्, तत् सर्वदा सर्वस्य स्फुरेत् - न हि घटस्य घटत्वं केचित् प्रत्येव दृश्येत, वा - पक्षान्तरे, अस्फुरणस्वभावत्वेऽङ्गी क्रियमाणे कस्यचिन्न स्फुरेत्, विशेषाभावात्, न चैतद्युक्तं स्फुरणाविष्टस्य एकस्यैव तत्स्फुरणात् इति भावः । ननु तर्हि किमत्र वाच्यमित्यत आह तस्मात् इति । उत्तरमाह मदीयम् इति । मदीयम् - मम प्रमातुः सम्बन्धि, स्फुरणम् - प्रकाशरूपा स्फर्तिः, स्पन्दनम् - घटविषयीकरणरूपं किञ्चिच्चलनम्, आविष्टम्, इति, एवमर्थो भवतीत्यर्थः । ननु स्पन्दनं किमुच्यते इत्यत आह स्पन्दनञ्च इति । किञ्चित्त्वस्य निर्णयं करोति एषैव इति ।
चलमाभासते, चलतया
चलमाभासते इति, प्रकाशस्वरूपं हि मनागपि नातिरिच्यते, अतिरिच्यते इव इति तत् [इति अचलम् - क्। ष्। ष्।] अचलमेव आभासभेदयुक्तमिव [आभासभेदयुक्तमेव - क्। ष्। ष्।] च भाति । तत उक्तम् :-
आत्मैव सर्वभावेषु स्फुरन्निर्वृतचिद्वपुः ।
अनिरुद्धेच्छाप्रसरः प्रसरद्दृक्क्रियः शिवः ॥
इति । तथा :-
अतिक्रुद्धः प्रहृष्टो वा किं करोमिति वा मृशन् ।
धावन्वा यत्पदं गच्छेत्तत्र स्पन्दः प्रतिष्ठितः ॥ (स्प। २२)
इति ।
भ्रमेण दृश्यते इत्यर्थः । ननु पारमार्थिकमेव किन्न चलनं स्यादित्यत आह प्रकाश इति । नाऽतिरिच्यते - चलनरूपविशेषयुक्तं न सम्पद्यते, अतिनिर्मलत्वेन न किञ्चित् - कल्पत्वात्, अन्यथा अतिनिर्मलत्वायोगात्, अतिनिर्मलं हि तदुच्यते यत् स्वयम् असद् इव परं प्रतिबिम्बतया भासयति, अतिनिर्मलत्वानङ्गीकारे तु प्रकाशत्वाऽयोगः, प्रकृष्टं काशनं हि समलस्य न सम्भवति मलावृतत्वात्, न किञ्चित् त्वे च किञ्चिद् रूपस्य चलनस्यायुक्तत्वं स्फुटमेव, न हि अतिमुक्तसारे वस्तुनि स्थूलस्य अवस्थानसम्भवः, तथापि च यत् प्रतिबिम्बतया भासनं तदेव किञ्चित् त्वेन साधितम्, यद्यपि असतः किञ्चित् त्वमयुक्तमेव तथापि सत्यताभ्रमग्रस्तान् प्रत्येवमुक्तम् इत्यलं प्रपञ्चेन । ननु यदि नातिरिच्यते तर्हि स्पन्दोऽस्य नास्त्येवेत्यत आह अतिरिच्यत इव इति ।
पारमार्थिकत्वशङ्कानिवारणप्रयोजनम् इव शब्दग्रहणम् । इति - अतः कारणात् । तत् - प्रकाशस्वरूपम्, अचलमेव सत् आभासभेदयुक्तमिव च - चलत्वाअख्याभासभेदसहितमिव च, भाति, तथास्वभावत्वात्, न च स्वभावस्य पर्यनुयोगो युक्त इति भावः ।
अत्र शास्त्रान्तरसम्मतिमाह तत इति । स्फुरन् इति, स्फुरत्तायुक्तो भवतीत्यर्थः । स्पन्दतत्त्वविविक्तये - किञ्चिच्चलनरूपस्पन्दस्वरूपविवेचनार्थम्,
…ष्पन्दतत्त्वविविक्तये । (स्प। २१)
इति ।
गुणादिस्पन्दनिःष्यन्दाः… (स्प। १९)
इति च । लोकेऽपि विविधवैचित्र्ययोगेन [लोकेऽपि विविधवैचित्र्ययोगेऽपि स्वरूपात् अचलन् जनो गम्भीरः स्पन्दवान् इति उच्यते - क्। ष्। ष्।] स्पन्दवत्त्वम् । सत्ता च भवन -
सततमुद्युक्तः सन्निति सबन्धः, तत्र अतिक्रुद्धाद्यवस्थासु प्रतिष्ठितः स्पन्दः विशेषस्पन्दाधारभूतः सामान्यस्पन्दो भवति इति योजना ।
गुणादिस्पन्दनिष्यन्दाः गुणत्रयप्रधानाः सुखादिस्पन्दप्रवाहाः, सामान्यस्पन्दसंश्रयात् लब्धात्मलाभाः सन्तः ज्ञस्य परिपन्थिनो न स्युरिति सम्बन्धः । एतच्च स्पन्दटीकायां वीक्ष्यमीह तु विमर्शरूपस्फुरत्तास्वभावस्पन्दनाममात्रव्यवहारोदाहरणमात्र- मेवोपयोगीति मूलकारेणापि तन्मात्रमेव कथितम्, अस्माभिश्च स्तोकं सम्बन्धमात्र - योजना कृतातिविस्तरभयात् प्रकृतानुपयोगाच्च सम्यङ्निर्णयो न कृत इत्यन्यथा न भ्रमितव्यमित्यलम् । अयं भावः, यदि प्रत्यवमर्शो नाम न किञ्चित् स्यात् तदैतेषु महारहस्यशास्त्रेषु तत्पर्यायभूतस्फुरत्तायास्तत्स्वरूपस्य स्पन्दस्य च व्यवहारो न स्यात् इति लोकव्यवहारमप्यत्र साधकत्वेनाश्रयति लोके इति । विविधानि यानि वैचित्र्याणि तेषां योगेन, स्पन्दवत्त्वम्, किञ्चित्क्षोभावेशात् अचलत्वेन गम्भीरत्वमिति विवेकः । एतेन स्फुरत्ताभावः चितिरूपस्य प्रत्यवमर्शस्य साधितः । प्रकाशस्पन्दो हि स्वरूपप्रत्यवमर्शव्यतिरिक्तो न सम्भवत्येव तत्सन्निधौ तद्व्यतिरिक्तस्य सर्वस्य वह्निसन्निधाविव तूलराशेरसम्भवात्, प्रत्यवमर्शस्तु तदैश्वर्यविजृम्भामयत्वेन कल्पितः, न तादृशीमयोग्यतामावहतीत्यलम् ।
कर्तृता सर्वक्रियासु स्वातन्त्र्यम् । सा च खपुष्।पादिकमपि व्याप्नोति इति
अथ महासता इति पदं व्याचष्टे सत्ता च इति । महदिति अवयवभूतपदं तावदवस्थाप्य विशेष्यभूतं सत्तेति अवयवं व्याचष्टे भवन इति । भवने - सत्तायाम्, कर्तृता पदं व्याचष्टे सर्व इति । अयं भावः, धातुपाठे तावत् अस भुवि इति पठ्यते, भूश्च भवनं तच्च प्रादुर्भावमात्रं न तु नवीन उत्पादः । यदुक्तं श्रीभगवता :-
नासतो विद्यते भावः
इति । तस्माद्धातोश्च कर्तरि लट् तदुपरि च शतृप्रत्ययः सोऽपि स्थानिवद्भावेन कर्तर्येव, ततः श्नसोरल्लोपः इत्यलोपः, ततः सुप्रत्ययः, सन्निति सिद्ध्यति, स च प्रादुर्भवन्नित्यस्यार्थे, तस्य सतः भावः स्वरूपभूतो येन तत् सन्नित्यच्यते, सा सत्ता भावे तल्प्रयोगात्, एतेन प्रत्ययेन धर्मिणो निष्कृष्टः कर्तृतासाधकः भवनक्रियारूपः केवलो धर्म उच्यते, स च फलतः प्रादुर्भावः, तमेव चाश्रित्य सर्वाः क्रियाः स्वरूपं लभन्ते, पचतीत्यादौ प्रयोगे हि पचन् भवतीत्यादिरर्थ एव परमार्थतोऽस्ति भवनाभावे पाचकत्वायोगात्, अतोऽस्य प्रादुर्भावक्रियाकर्तुः सर्वक्रियाकर्तृत्वं सिद्धमेव सर्वत्र ।
स्वातन्त्र्यं च प्रत्यवमर्श एव प्रकाशस्य नान्यत् किञ्चित् ।
प्रादुर्भावश्च प्रकाशस्य सर्वदा स्थितस्याभिव्यक्तिरूपः स्वात्मप्रत्यवमर्श एवेति सिद्धं सत्तायाः चितिरूपप्रत्यवमर्शत्वम् इति ।
अस्या एव विकल्परूपप्रत्यवमर्शत्वनिवारणाय महच्छब्दप्रयोगं सफलीकर्तुमाह सा च इति । सा च - सत्ता च, खपुष्पादिकं व्याप्नोति सर्वक्रियास्वातन्त्र्यात्, नास्तीत्युक्ते हि असन् भवतीति फलतो हि ज्ञायते, ततश्चेदं भवनं भावमात्रनिष्ठभवनवन् न परिमितम् । ननु कथं न परिमितं भावाभावमात्रव्याप्तेः ? सत्यम्, भावाभावव्यतिरिक्तं किमस्ति न वा ? न चेत् तदा फलितमस्मन्मनोरथेन, न हि असतोऽव्याप्यत्वं युक्तम्, तथा चास्यापि व्याप्यत्वं केनापहस्तितम् । तदुक्तम् :-
समुदेति यथा भावैर्विना भानुर्नभस्तले ।
वेद्यं विनैव भगवन् भवान् केन कृतोदयः ॥
महती, देशकालौ नीलादिवत् सैव सृजति इति ताभ्यां विशेषणीया न भवति, यत् किल येन तुल्यकक्ष्यतया भाति तत् तस्य विशेषणं कटक इव
इति । अस्ति चेत्तर्हि सुतराम्, स्वयमेव तत्रापि भवनव्याप्त्यङ्गीकरणात् । ननु तर्हि द्वैतापत्तिः । अहो विस्मृतिः, समनन्तरमेव चितिक्रियायास्तत्कर्तुश्चैकतया व्यपदेशो दर्शितः, अत्रापि स एव न्यायः, अत एव वेदान्तिभिरपि सत्तामात्रमेव ब्रह्मणो रूपमुक्तम्, यत्तु ते विमर्शासहिष्णुत्वमस्य कथयन्ति तदन्यत् किञ्चिदेव । अस्माभिरपि सदाशिवतत्त्वस्य तथा कथनात् परमशिवावस्थामनारूढेष्वेतच्चोद्यानवकाशात् इति ।
स्वाभिप्रायमुपसंहरति इति इति । इति - अतः कारणात्, इयं सत्ता महतो - अपरिच्छिन्ना भवति, अत एव सूत्रे महासत्तेत्युक्तम् इति भावः ।
देशकालाविशेषिणी इति पदं व्याचष्टे देश इति, सैव - प्रत्यवमर्शरूपा चितिरेव, सृजति - विमर्शरूपत्वेन परमप्रकाशस्वरूपाच्च्यावयति, भासयतीति यावत्, विमर्शरूपो विसर्गो हि त्रिधा, स्थूलः, सूक्ष्मः, परश्च । तदुक्तम् :-
विसर्गस्त्रैधमुच्यते
इति । तत्र परः आकारवाच्यः आनन्दरूपत्वात्, येनाभेदप्रधानस्य शिवतत्त्वस्य प्रादुर्भावः । एतच्च निराभासादिति मङ्गलश्लोके प्रतिपादितम् । ननु कथं तस्यैवाहंविमर्शरूपस्य शक्तितत्त्वस्य स्वाविर्भावकत्वं युक्तम् ? सत्यम्, अत्राविर्भावकत्वकथनं बोधनमात्रप्रयोजनमेव, परमार्थतस्तु सर्वदा सर्वमयमेव तत्तत्त्वम् न तु केनापि क्वचिदेव ।
तदुक्तम् :-
वस्तुनि योऽसौ निवसति कार्त्स्न्येन विस्मयनिधये तस्मै नमो नमः श्रीमते गुरवे ।
इति । गुरुरत्र विमर्शशक्त्या सहैकीभूतः परः शिव एव ज्ञेयः । सूक्ष्मः अ इत्यनेनोच्यते तेन च भेदाभेदप्रधानस्य शिवादेः शुद्धविद्यान्तस्य तत्त्वव्रातस्य प्रादुर्भावः । स्थूलश्वासश्च हकारवाच्यः, तेन भेदप्रधानस्य मायादेस्तत्त्वसमूहस्य प्रादुर्भावः । इति स्फुटमेव स्थूलभावेनास्या एव देशकालप्रकृतित्वम् । ननु सृजतु ततः किम् इत्यत आह इति इति । इति - अतः कारणात्, ताभ्याम् - देशकालाभ्याम्, विशेषणीया न भवति, न हि तत्सृष्टस्य तद्विशेषणत्वं युक्तम्, तत्सृष्टेः
चैत्रस्य । न च देशकालौ विमर्शेन तुल्यकक्ष्यौ भातः तयोः इदन्तया तस्य च अहन्तया प्रकाशे तुल्यकक्ष्यत्वानुपपत्तेः । एवं देशकालास्पर्शात् विभुत्वं नित्यत्वं च, सकलदेशकालस्पर्शोऽपि तन्निर्माणयोगात् इति ततोऽपि व्यापकत्वनित्यत्वे । तदुक्तम् :-
महासत्ता महादेवी विश्वजीवनमुच्यते ।
इति । सारम् इति यत् अतुच्छं रूपं तत् इयमेव विमर्शशक्तिः, ग्राह्यग्राह -
पूर्वं तदविशिष्टतया सिद्धस्य तस्योत्तरकाले तद्विशेषणताया व्यर्थत्वात् । हेत्वन्तरमाह यत् इति । कुतो न तुल्यकक्ष्यौ भात इत्यत आह तयोः इति । तयोः - देशकालयोः । तस्य - विमर्शस्य, प्रकाशे - परप्रकाशविषये प्रतिबिम्बतया स्फुरणे, परप्रमाता हि स्वात्मानमहमिति गृह्णन् तमहम्भावमपि स्वात्मविश्रान्त्यैव गृह्णाति, अन्यथा तस्यापि बाह्यविकल्पत्वापातात्, देशकालयोस्त्विदन्तया ग्रहणं स्फुटमेव, तथा च तद्ग्रहणकाले तस्या ग्रहणं नास्ति, तद्ग्रहणकाले च तयोरिति का विशेषणविशेष्यभावकथेति भावः । एतेन फलिते विभुत्वनित्यत्वे अस्याः कथयति एवम् इति । देशानवच्छेदे विभुत्वं कालानवच्छेदे च नित्यत्वं स्फुटमेवेति भावः । ननु तर्हि
यथा न देशो देशस्य कालः कालस्य वापरः ।
तथा त्वय्यपि भगवन् न तौ भिन्नौ कदाचन ॥
इति न्यायेन देशकालसमानयोगक्षेमत्वमेवास्यायातम् इत्यत आह सकल इति । तन्निर्माणयोगात् - देशकालसर्जनसमये ताभ्यां स्रष्टतया सम्बन्धात् । ततोऽपि, देशकालाभ्यां बहिरपीत्यर्थः, तयोरेतदन्तर्गतत्वादिति भावः, ततश्च नास्यास्ताभ्यां तुल्यौ योगक्षेमौ इत्यभिप्रायः । अत्र वृद्धसम्मतिमाह महा इति । विश्वजीवनम् इत्यनेन देशकालाविष्टत्वमप्युक्तम्, तयोरपि विश्वान्तर्गतत्वात्, यच्च येन जीव्यते न तत्तस्य विशेषणं युक्तम् । सैषा इति तावदवस्थाप्य सारतया इति पदं व्याचष्टे सारम् इति । सारपदवाच्यम् आह अतुच्छम् इति ।
काणां यत् प्रकाशात्मकं रूपं तस्यापि अप्रकाशवैलक्षण्याक्षेपिका इयमेव इति श्रीसारशास्त्रेऽपि निरूपितम् :-
यत्सारमस्य जगतः सा शक्तिर्मालिनी परा ।
इति । सैषा इति शक्तिप्रत्यभिज्ञानं दर्शितम् । हृदयं च नाम प्रतिष्ठास्थान-
अतुच्छम् - न तु भावराशिवत् भावमात्रसिद्धम्, अन्यथा जगतः सारदानायोगात्, न हि शशशृङ्गस्य धनुषः सारदाने शक्तिर्दृष्टा, यच्च, जगतस्तुच्छता कथ्यते तज्जगत्त्वापेक्षामात्रेण, परमार्थतस्तु सारात् प्रादुर्भूतत्वेन तदपि सार एव । इयम् इति, समनन्तरप्रोक्तस्वरूपा ।
ननु कथमस्यास्सारत्वमित्यत आह ग्राह्य इति । प्रकाशात्मकं रूपम् - सारतया स्थितः प्रकाशभागः, घटसारतया स्थितः मृद्भाग इव, तस्यापि - ग्राह्यादिगतस्य प्रकाशात्मकरूपस्य च, अप्रकाशेभ्यो यद्वैलक्षण्यम् - भेदः, तस्याक्षेपिका - आक्षेपकारिणी, प्रकाशिकेति यावत् ।
न केवलं परप्रकाशस्यैव वैलक्षण्याक्षेपिकेयमपि तु सर्वेषां ग्राह्यग्राहकाणाम् इत्यपिशब्दाभिप्रायः । इति - एतत्, श्रीसारशास्त्रे - मालिनीविजये, निरूपितम् इति, श्रीपरमेश्वरेणेत्यर्थः । ननु तर्हि जडेभ्यो वैलक्षण्यमेव ग्राह्यग्राहकाणामियं करोति सारत्वं तु प्रकाशस्यैव युक्तम् । पुनरपि विस्मृतिर्जाता किं कुर्मः, प्रकाशादस्या न कोऽपि भेदः, बोधनार्थमेवैकत्र तत्त्वे द्वित्वमारोपितम् । ननु के ते जडाः येभ्यः प्रतियोगिभूतेभ्यो वैलक्षण्यं करोति, ग्राह्याश्चेत्तेषामपि वैलक्षण्यमेव साधनीयम् ? सत्यम्, सारभागमपेक्ष्य तेषां जडेभ्यो वैलक्षण्यमत्राभिप्रेतम्, यस्तु ग्राह्यताख्यः स्वभावः स भेदप्रतियोग्यवेति न काप्यनुपपत्तिः । ननु केन वाक्येनैतत्तत्र निरूपितम् इत्यत आह यत्सारम् इति । मालिनी - नादिफान्तवर्णसमाम्नायरूपमहामन्त्रवाच्यत्वेन त्रिकशास्त्ररतैः सङ्केतिता प्रत्यवमर्शशक्तिः, सैव हि स्वान्तः सर्वं जगद्धारयति, परा
- परारूपा महाद्वैतप्रधानत्वात् इति शब्दः श्रीसारशास्त्रवाक्यसमाप्तौ । सूत्रे स्थापितस्य सैषा इत्यस्य व्याख्यां करोति शक्ति इति । शक्तिप्रत्यभिज्ञानम् - प्रत्यवमर्शरूपायाः चितेः प्रत्यभिज्ञा, स्वदर्शनरीत्या पूर्वं निर्णीइतायाः पुनर्दर्शनान्तररीत्या निर्णेतुमुपात्तायाश्चानुसन्धानरूपं प्रत्यभिज्ञानमिति यावत् । हृदयम् इति व्याचष्टे प्रतिष्ठा इति ।
प्रतिष्ठायाः -
मुच्यते, तच्च उक्तनीत्या जडानां चेतनम्, तस्यापि प्रकाशात्मकत्वम्, [प्रकाशात्मत्वम् - क्। ष्। ष्।] तस्यापि विमर्शशक्तिः इति विश्वस्य परमे पदे तिष्ठतो विश्रान्तस्य तस्य [तिष्ठतो विश्रान्तस्य इदमेव हृदयम् - क्। ष्। ष्।] इदमेव हृदयं विमर्शरूपं परमन्त्रात्मकं यत्र तत्र [तत्र तत्र - क्। ष्।
ष्।] अभिधीयते । सर्वस्य हि मन्त्र एव हृदयम्,
स्वस्य विश्वस्य च स्थितेः, स्थानम्, व्यवस्थापकत्वात्, विमर्शेनैव हि प्रकाशस्य भावानां च स्वरूपव्यवस्था भवति, तत्र प्रतिष्ठितस्पन्दरूपया प्रकाशव्यवस्था स्वभावमवभासस्य इति न्यायेन विशेषस्पन्दरूपया भावव्यवस्थेति विभागः । हृद्देशे एव हि सर्वभावव्यवस्था सर्वैरनुभूयते इति सर्वं प्रतीतिसाक्षिकमेव इति न्यायेनास्या अपि सर्वव्यवस्थापकत्वेन हृदयत्वमेवेति भावः । तच्च - हृदयं च, अजडानाम् - ग्राहकरूपाणामजडवस्तूनाम्, चेतनम् - सारतया प्रोक्तः परिच्छिन्नः प्रकाशभाग एव भवति, तस्यापि - चेतनस्यापि, प्रकाशात्मकत्वं भवति, शुद्धप्रकाशादुत्थितत्वात्, तस्यापि - चेतनात्मतया स्थितस्य शुद्धप्रकाशस्यापि, विमर्शशक्तिः भवति । मध्ये परमेष्ठिनः इति पदं व्याचष्टे विश्वस्य इति । अर्थात् विश्वस्य तत्त्वषट्त्रिंशकात्मनो जगतः, परमे पदे - परमशिवरूपे सप्तत्रिंशे स्थाने । तिष्ठतः इत्यस्य पर्यायमाह विश्रान्तस्य इति ।
विगृहीतस्य समस्तत्वेन परामर्श करोति तस्य इति । इदं विमर्शरूपमेव - प्रत्यवमर्शस्वरूपमेव, पण्डितैः तस्य - परमेष्ठिनः, ग्राहकसारविज्ञानसार - शुद्धप्रकाश - सारत्वात्, हृदयम् यत्र तत्र - सर्वशास्त्रेषु, अभिधीयते । एतेन प्रोक्ता इत्यस्य व्याख्या । कीदृशम् ? परमन्त्रात्मकम् - महामन्त्रस्वरूपम् । तदुक्तम् :-
आदिमान्त्यविहीनास्तु मन्त्राः स्युः शरदभ्रवत्
इति । हेतुगर्भमिदं विशेषणम्, यतः परमन्त्रात्मकं तत एव हृदयमित्यर्थः ।
मन्त्रश्च विमर्शनात्मा, विमर्शनं च परावाक्च्छक्तिमयम् । तत एवोक्तम् :-
न तैर्विना भवेच्छब्दो नार्थो नापि चितेर्गतिः ।
इति ।
तत्र तावत्समापन्ना मातृभावम्… ।
ननु परमन्त्रात्मकत्वं कथमस्य ? सत्यम्, मन्त्रः - गुप्तभाषणम् तच्च विमर्श एवान्तरशब्दनरूपत्वात्, तच्चाहम्परामर्शत्वात्, परत्वञ्च अस्य विकल्परूपेभ्यः अन्यप्रत्यवमर्शेभ्यः उत्तीर्णत्वात्, अथवा मन्त्रशब्देनात्र लक्षणया मन्त्रवीर्यं लक्ष्यते, अतः परमन्त्रवीर्यरूपमित्यर्थः, मन्त्रवीर्यत्वं च विमर्शस्य स्फुटमेव, अविमृष्टो हि मन्त्रो न किमपि फलं दातुं समर्थः । तदुक्तम् :-
तदास्य बलिनो [बलम् - च्।] मत्राः सर्वज्ञबलशालिनः ।
प्रवर्तन्तेऽधिकाराय करणानीव देहिनाम् ॥
इति । सर्वज्ञबलं ह्यत्रात्मबलरूपं विमर्शनमेवेष्टम् । करणानां च स्फुटमात्मबलेन स्वक्रार्यसाधकत्वम् इत्युपमानतया ग्रहणम्, महामन्त्रस्य च शैवादिनयेषु बहुप्रकाराः बीजवर्णसमुदायमयाः बहवः सङ्केताः, ते अतिरहस्यत्वात् स्फुटमनुकृत्य वक्तुमयोग्या एवेति निजनिजगुरुभ्य एव ते महासेवापूर्वमासादनीयाः जप्याश्च, अस्माभिस्तु प्रसङ्गात्तद्वीर्यनिर्णय एव कृतः, परमार्थविचारे तु वीर्यमात्रासादनमेव जपादेः - फलम्, अधिगतमन्त्रवीर्यास्तु व्यवहारकथास्वपि मन्त्रजपनिष्ठा एव । तदुक्तम् :-
कथा जपः
इति । अधिगमस्तु तस्य सदास्थितस्यावधानमात्रेण तत्परत्वमेव न त्वपूर्वोधिगमः, अवधानं च शनैः शनैः जपादिद्वारेण, येषां तद्रहित एवाधिगमस्तीव्रतरभगवच्छक्तिपाताघ्रातेभ्यस्तेभ्यो नम एव ।
तदुक्तम् :-
न न्यायतो न जपतः स्याद्यस्याविधिपूर्वकम् ।
एवमेव शिवाभासस्तं नुमो भक्तिशालिनम् ॥
इति । ये तु प्रतिदिनं जपं कुर्वन्तोऽपि तद्वीर्येऽवधानं न कुर्वन्ति, सिकताभ्यस्तलार्थिनां तेषां विधिरेव त्राणम्, अधिगतमन्त्रवीर्यस्य च युगपदेव सर्वमन्त्रोच्चारणमपि
इत्यादि च, इत्यागमेषु । तत्रभवद्भर्तृहरिणापि :-
न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते ।
अनुविद्धमिव ज्ञानं सर्वं शब्देन गम्यते ॥
वग्रूपता चेदुत्क्रामेदवबोधस्य शाश्वती ।
न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी ॥
इति ।
सैषा संसारिणां सञ्ज्ञा बहिरन्तश्च वर्तते ।
यदुत्क्रान्तौ विसञ्ज्ञोऽयं दृश्यते काष्ठकुड्यवत् ॥
सम्भवत्येवेत्यलं प्रसक्तानुप्रसक्त्या । ननु कथं मन्त्रात्मकत्वेन प्रत्यवमर्शस्य हृदयत्वमित्यत आह सर्वस्य इति । सर्वस्य - समस्तस्य चेतनवर्गस्य, अचेतनानामेतन्निष्ठत्वेनैव स्वरूपलाभात्, अनेनैव सर्वभावाभावव्यवस्थाकरणात्, अङ्गुष्ठप्रमाणस्य दहरस्य तु एतदाश्रयत्वमात्रेण हृदयत्वादिति भावः । ननु मन्त्रस्य हृदयत्वं भवतु विमर्शस्य तु किमनेनायातम् इत्यपेक्षायामुक्तमपि विमर्शरूपत्वमतिस्फुटीकरणाय पुनः कथयति विमर्शनात्मा इति । ननु तद्विमर्शनं किंरूपमित्यत आह परा इति । परा या वाक् - समनन्तरोक्ता चितिरूपा, तस्या या शक्तिस्तन्मयम्, विशेषस्पन्दरूपमित्यर्थः । एवं च ग्राहकवर्गगतस्य विशेषस्पन्दरूपस्य प्रत्यवमर्शस्य मन्त्रत्वसाधनेनापरिमितप्रमातृगतस्य सामान्यस्पन्दात्मकस्य प्रत्यवमर्शस्य महामन्त्रत्वमयत्नसिद्धमेवेति भावः ।
अत्रागमवाक्यान्युदाहरति तत एव इति । श्रीशिवेन कर्त्रा, इत्यादि - कर्म, इत्येवं रूपेष्वागमेषु उक्तमिति सम्बन्धः, तैविना, मन्त्रैर्विनेत्यर्थः, प्रत्यवमर्शप्राणत्वात् सर्वस्येति भावः । तत्र तावत् इति । मातृभावम् - अवर्गादिरूपवर्गाष्टकात्मब्राह्म्यादिमातृभावम्, आदिशब्देनान्येषां वाक्यानां ग्रहणम् । श्रीभर्तृहरिवाक्यान्यप्युदाहरति तत्र इति । इत्यादि उक्तम् इति योजना । किमुक्तमित्यपेक्षायां तद्वाक्यान्येकदेशतया पठति न सोस्ति इति । वाग्रूपता चेत् इति । सैषा इति । आदिशब्देनान्येषां तत्रत्यवाक्यानां ग्रहणम् । वाक्यत्रयेऽप्यत्र प्रत्यवमर्शस्य सर्वात्मकत्वसाधनमेव, विस्तरभयात्त न
इत्यादि च । तत् एतेन विदुः इत्येतत् निर्वाहितम् । बौद्धैरपि अध्यवसायापेक्षं प्रकाशस्य प्रामाण्यं वदद्भिः उपगतप्राय एव अयम् अर्थः, अभिलापात्मकत्वात् अध्यवसायस्य इति ॥ १४ ॥
ननु असङ्ख्यशक्तिश्रेणीशोभितवपुषि परमशिवे विमर्शशक्तिरेव इयम् इत्थङ्कारम् अभिषिच्यते कस्मात् इत्याशङ्क्याह :-
प्रपञ्चितम् । एतदवष्टम्भेन स्वभावमवभासस्य इत्यत्र स्थितस्य विदुः इत्येतस्य निर्वाहं करोति एतेन इति । निर्वाहितम् - निराकाङ्क्षीकृतम्, वादिरूपस्य कर्तृभागस्य पूरणादिति भावः । ननु कथं निर्वाहितं बौद्धैरस्यार्थस्यानङ्गीकरणात् इत्याशङ्क्याह बौद्धेः इति ।
अध्यवसायापेक्षम्, अध्यवसायापेक्षयेत्यर्थः । तदुक्तम् :-
यथाध्यवसायः प्रकाशः
इति । उपगतप्रायः - बाहुल्येनाङ्गीकृतः न तु सर्वथा, तन्मते विमर्शस्य भ्रमत्वात्, भ्रमस्यापि भ्रान्तमिदमिति भ्रान्तिविशिष्टज्ञानं प्रति प्रमाणत्वं दृश्यत एवेत्यलम् । नन्वध्यवसायस्य प्रामाण्यमुक्तम् न तु प्रत्यवमर्शस्येत्यपेक्षायां हेतुमाह अभिलाप इति । अभिलापात्मकत्वात्
- शब्दरूपत्वात्, ततश्चाध्यवसायस्यापि प्रत्यवमर्शत्वमेवेति सिद्धम् ।
तन्मतेऽपि प्रत्यवमर्शस्य प्रकाशजीवितत्वात् [प्रकाशजीवितत्वमिति - च्।] । इति शब्दः श्लोकव्याख्यासमाप्तौ ॥ १४ ॥
अथ पञ्चदशषोडशयोः श्लोकयोरवतरणिकां करोति ननु इति ।
अत्र टीका :-
असङ्ख्याः याः शक्तयः - जगद्गतपदार्थरूपाः शक्तयः ।
तदुक्तम् :-
शक्तयोऽस्य जगत् सर्वं शक्तिमांश्च महेश्वरः ।
इति । तासां या श्रेणी - पङ्क्तिस्तया शोभितम् - विशेषितं वपुः - स्वरूपं यस्य तादृशे, परमशिवे - शिवशक्तिसामरस्यरूपे परमशिवाख्ये सप्तत्रिंशे तत्त्वे, इत्थङ्कारम् - इत्थं कृत्वा, कुप्रकारेणेति यावत् ।
कस्मात् - कुतो हेतोः, इयम् - समनन्तरोक्तस्वरूपा, विमर्शशक्तिरेव - अहम्प्रत्यवमर्शशक्तिरेव, अभिषिच्यते - अभिषेकयुक्ता सम्पाद्यते,
आत्मानमत एवायं ज्ञेयीकुर्यात् पृथक् स्थिति ।
ज्ञेयं न तु तदौन्मुख्यात् खण्ड्येतास्य स्वतन्त्रता ॥ १५ ॥
स्वातन्त्र्यामुक्तमात्मानं स्वातन्त्र्यादद्वयात्मनः ।
प्रभुरीशादिसङ्कल्पैर्निर्माय व्यवहारयेत् ॥ १६ ॥
सर्वाः शक्तोः कर्तृत्वशक्तिः ऐश्वर्यात्मा समाक्षिपति । सा च विमर्शरूपा इति युक्तम् अस्या एव प्राधान्यम् इति तात्पर्येण उत्तरमुक्तम् ।
शब्दार्थस्तु अयम्, प्रकाशात्मा परमेश्वरः स्वात्मानं
युक्ता सम्पाद्यते, महाधिकारिपदे स्थाप्यते इति यावत् । एवमवतरणिकां कृत्वा श्लोकद्वयमुपन्यस्य व्याचष्टे । आत्मानम् इति ।
अत्र टीका :-
तत्र प्रथमं श्लोकद्वयस्य तात्पर्यमाह सर्वाः इति ।
ऐश्वर्यात्मा - ऐश्वर्यरूपा [ऐश्वर्यरूपः - च्।] समाक्षिपति - स्वान्तः करोति, सा च - कर्तृत्वशक्तिश्च, विमर्शरूपा - प्रत्यवमर्शस्वरूपा, विमर्शपूर्वमेव करणसम्भवात्, यस्तु तत्र कायादिव्यापारो दृश्यते सोपि विमर्शपूर्वक एवेति स्फुटमेव विमर्शशक्तेः कर्तृत्वम् । इति - अतः कारणात्, अस्या एव - विमर्शशक्तेरेव, प्राधान्यम् - सर्वशक्तिभ्यः प्रधानता । तदुक्तं श्रीमत्तन्त्रालोके :-
तेन स्वातन्त्र्यशक्त्यैव युक्त इत्याञ्जसो विधिः ।
इति । अत्र ह्येवमभिप्रायः, तेन इति पूर्वापेक्षम्, यतः स्वातन्त्र्यशक्तिरेव प्रधानं ततः स्वातन्त्र्यशक्त्या युक्त एव भवति भगवान्, तयैव सर्वशक्त्याक्षेपात्, इति विधिराञ्जसः प्रकटो भवति सङ्क्षेपेण सर्वसाधकत्वात् इति । इति - एवम्, तात्पर्येणोत्तरमुक्तम् - तात्पर्यार्थोऽत्रैवं भवति इत्युक्तमित्यर्थः । अक्षरार्थकथनं प्रतिजानीते शब्द इति । शब्दार्थमेव दर्शयति अयम् इति । प्रभुः इत्यस्य पदस्यार्थमाह परमेश्वरः इति । ज्ञाता इति भावप्रधानो निर्देशः,
ज्ञात्रेकरूपत्वात् अज्ञेयमपि ज्ञेयीकरोति इति यत् सम्भाव्यते कारणान्तरस्य अनुपपत्तेः दर्शितत्वात् दृढेन सम्भावनानुमानेन, तदत [तत एव - क्। ष्। ष्।] एव विमर्शशक्तिलक्षणात् कर्तृत्वात् हेतोः भवति, यतो हि अयम् आत्मानं परामृशति ततो विश्वनिर्भरत्वात् तथा नीलादित्वेन चकास्ति । ननु एषैव कुतः सम्भावना, आत्मानं ज्ञेयीकरोति इति ? आह, पृथक्
ज्ञातृत्वमेकं रूपं यस्य सः, तस्य भावस्तत्त्वम् तस्मात्, अज्ञेयमपि - ज्ञेयताऽसहमपि, तदुक्तम् :-
आत्मा यदि भवेन्मेयस्तस्य माता भवेत्परः ।
पर आत्मा तदानीं स्यात् स परो यस्तु मीयते ॥
इति । ज्ञेयीकरोति - अज्ञेयं सत् स्वयं स्वशक्त्यास्वादनरूपक्रीडार्थं ज्ञेयतया भासयति । इति - एवम्, यत्सम्भाव्यते - सूत्रस्थकुर्यादितिपदस्थलिङ्द्योत्यसम्भावना - विषयतां नीयते । कुतः सम्भाव्यते ? कारणान्तरस्य - स्वव्यतिरिक्तोपादानादिकारणानां सामग्याः, अनुपपत्तः - अयोग्यत्वात्, दृढेन - नत्वन्यतर्कवत् शिथिलेन, सम्भावनानुमानेन - स्यादेतत् इति श्लोकोक्तेन सम्भावनारूपेणानुमानेन दर्शितत्वात् । यच्छब्दापेक्षां पूरयति तत् इति । तत् - यच्छब्दोक्तं वस्तु, अत एव इति सूत्रस्थं पदं व्याचष्टे अत एव इति । कर्तृत्वाद्धेतोः, स्वातन्त्र्याद्धेतोरित्यर्थः । भवति, सिद्ध्यतीत्यर्थः । कुत इत्यपेक्षायामाह यतः इति । हि - यस्मात्कारणात्, अयम् - प्रकाशरूपः परमात्मा, यतः - यस्मिन् स्वांशे, आत्मानं परामृशति - अहमिति परामर्शविषयतां नयति, ततः - तस्मिन्नंशे, विश्वनिर्भरत्वात् - वस्त्ववस्तुरूपसर्वजगद्भरितत्वेन, तथा नीलादित्वेन
- परामर्शानुगुणेन नीलादिभावेन, चकास्ति - भासते, तत्स्वभावत्वात् ।
अन्यथा भावाभावरूपजगद्भानासम्भवात् । न च स्वभावस्य पर्यनुयोगो युक्त इति बहुवारमुक्तम् । अत्र शिष्यः प्रश्नयति ननु इति । एषा का इत्यत आह आत्मानम् इति । इति शब्दः प्रश्नपरिसमाप्तौ । उत्तरं कथयति आह इति, गुरुरिति शेषः ।
प्रकाशात् बहिर्भूता स्थितिः यस्य तादृक् ज्ञेयं नैव भवति । तुः अवधारणे । तत्र च उक्ता युक्तयः । अभ्युच्चययुक्तिमपि आह, यदि व्यतिरिक्तं ज्ञेयं स्यात् तत् ज्ञातृरूपस्य आत्मनो यत् एतत् ज्ञेयविषयम् औन्मुख्यं स्वसंवेदनसिद्धं दृश्यते तत् न अस्य स्यात्, तेन व्यतिरिक्तविषयौन्मुख्येन अन्याधीनत्वं नाम पारतन्त्र्यम् अस्य आनीयते । पारतन्त्र्यं च स्वातन्त्र्यस्य विरुद्धम् । स्वातन्त्र्यमेव च अनन्यमुखप्रेक्षित्वम् [अनन्यमुखप्रेक्षित्वलक्षणम् - क्। ष्। ष्।]
किमाहेत्यपेक्षायामाह पृथक् इति । अस्य पदस्य विग्रहं करोति प्रकाशात् इति । तु शब्दार्थमाह अवधारणे इति । एतेन पृथक्स्थिति इति पदमुत्तरार्धेन योजनीयम् इति सूचितम् । सर्वं वाक्यं सावधारणम् इति न्यायेन सूत्रेऽनुक्तस्यापि एवशब्दस्य ग्रहणम् । उक्ताः, प्रागिवार्थः इत्यादिना । तत्र - बहिर्ज्ञेयासम्भवे, युक्तयः - मुख्ययुक्तयः, साक्षात्तत्साधनेन प्रवृत्तत्वात् । ननु तर्हीदानीं मौनमेव कुरु इत्यत आह अभ्युच्चय इति । अभ्युच्चययुक्तिम् - अन्वाचययुक्तिम्, अप्रधानयुक्तिमिति यावत्, स्वतन्त्रताखण्डनप्रसङ्गद्वारेण युक्तित्वादिति भावः । आह इत्यस्याकाङ्क्षां पूरयति तदौन्मुख्यात् इत्यादिश्लोकशेषं च व्याचष्टे यदि इति । व्यतिरिक्तम् - स्वतो भिन्नम्, तत् - तदा, आत्मनः - प्रकाशरूपापरिमितप्रमातुः । ननु कुतो न स्यात् इत्यत आह तेन इति ।
अन्याधीनत्वम् - स्वव्यतिरिक्तज्ञेयवशीभावम्, अस्य - आत्मनः, आनीयते - बलात्सम्पाद्यते । ननु ततः किम् इत्यत आह पारतन्त्र्यं च इति । ननु तर्हि स्वातन्त्र्यमेव मास्तु इत्यत आह स्वातन्त्र्यमेव च इति ।
अनन्यमुखप्रेक्षित्वम् - स्वप्रसिद्धौ परानपेक्षा । अयं भावः - आत्मा हि ज्ञातृत्वेनैवात्मा भवति, अन्यथा घटादेरप्यात्मत्वप्रसङ्गात्, अतः ज्ञेयेनैवात्मसिद्धिः, तच्च यदि व्यतिरिक्तं तर्हि स्फुटैवात्मनोऽन्यापेक्षा, परापेक्षाग्रस्त आत्मा चात्मैव
आत्मनः स्वरूपम्, इति व्यतिरिक्तोनमुख आत्मा अनात्मैव स्यात् । अनात्मा च जडो ज्ञेयं प्रति न उन्मुखीभवति इति प्रसङ्गः । ततः प्रसङ्गविपर्ययात् इदमायातम् - अव्यतिरिक्तोन्मुखः स्वतन्त्रः सन् आत्मानमेव ज्ञेयीकरोति इति ॥ १५ ॥
न च केवलं नीलादिरूपमेव ज्ञेयम्, यावत् अत्यक्तकर्तृस्वभावं स्वातन्त्र्येण अपरित्यक्तमेव सन्तम् आत्मानं निर्माय व्यवहारेण ध्यानोपा -
न स्यात् । स्वं तत्त्वं ह्यात्मा, यस्य च परापेक्षा तस्य तदधीनतासमये स्वं तत्त्वं हीयते, परकीयत्वापातत्, तद्धानौ च सातत्यगमनं न स्यात् ।
सातत्यगन्तृत्वं हि आत्मशब्दार्थः, तच्च लक्षणया स्वरूपे सदा तथैवावस्थानमेव न कुत्रापि सदागमनम्, तत्र गत एव हि प्रायस्तत्रस्थ उच्यते इति तान्तेन निर्देशः । ज्ञेयस्य स्वाव्यतिरिक्तत्वे तु स्वाधीनत्वमेव, तच्च नाधीनत्वम्, यतस्तदेव स्वातन्त्र्यमिति । ननु आत्मत्वमेव मास्तु इत्यत आह अनात्मा इति । नोन्मुखीभवति इति, तत्राशक्तत्वात्, न हि [न हि जलं तृणभादेतौत्मुख्ययुक्तं दृष्टमिति भावः - च्।] जलं तृणलाभौन्मुख्ययुक्तं दृष्टमिति भावः । ननु मा भवतु इत्यत आह इति प्रसङ्गः इति । एतच्चानिष्टमेवानुभवविरोधात् इति भावः । ननु तर्हि किं कार्यम् इत्यत आह ततः इति । प्रसङ्गविपर्ययात् - पूर्वोक्तप्रसङ्गस्य विपर्ययाद्धेतोः, ज्ञेयं प्रत्यात्मन औन्मुख्यदर्शनादिति यावत् ।
किमायातमित्यत आह अव्यतिरिक्त इति ॥ १५ ॥
अथ द्वितीयश्लोकं व्याख्यातुं सङ्गतिं दर्शयति न च इति । न केवलम् इत्यस्याकाङ्क्षां पूरयति यावत् इति । स्वातन्त्र्यामुक्तम् इति व्याचष्टे अत्यक्त इति । निर्माय इति निगदव्याख्यातम् । सङ्कल्पेन स्वयमत्पाद्येत्यर्थः । व्यवहारयेत् इति व्याचष्टे व्यवहारेण इति ।
कृदन्ततावशेन प्रातिपादिकीभूतसुबन्तसोपसर्गधातुप्रकृत्यर्थं स्फुटयति ध्यान इति,
सनार्चनोपदेशादिना योजयति इति यत् सम्भाव्यते तदपि अत एव इति सम्बन्धः । ननु स्वातन्त्र्ययुक्तं च निर्मायते च इति विरुद्धम् इदम् ? अत्राह [तत्र - क्। ष्।
ष्।], अद्वयात्मनः संविदेकरूपस्य स्वातन्त्र्यात् हेतोः इदं न न युज्यते, यत् किल मायापदे अतिदुर्घटं प्रतिभाति, तत्सम्पादने यत् अप्रतिहतं स्वातन्त्र्यं तदेव पुनः स्वातन्त्र्यशब्देन दर्शितम् । अत एव इत्यनेन तु विमर्शशक्तिरूपम् इति अपुनरुक्तम् । अथ वा अत एव स्वातन्त्र्यात् इति सामानाधिकरण्येन
ध्यानादेरेवात्र व्यवहारत्वात् । तृतीयया णिजन्तयुजिना च णिजर्थ उक्तः, तृतीयान्तव्यवहारशब्दात् हस्तिना क्रामतीतिवत् णिजुत्पत्तेः । योजयति - विषयत्वाभावेऽपि स्वातन्त्र्यात् विषयतया सम्बध्नाति । लिङर्थमाह सम्भाव्यते इति । यच्छब्दाकाङ्क्षां पूरयति तत् इति । एतेन पूर्वसूत्रस्थस्यातःशब्दस्य हेतुत्वेनेहापि योजना कृता । शिष्योऽत्र प्रश्नयति ननु इति । गुरुणा दत्तमुत्तरं कथयितुमाह अत्र इति ।
किमाहेत्यपेक्षायां सूत्रस्थम् अद्वयात्मनः स्वातन्त्र्यात् इति सष्ठ्यन्तपञ्चम्यन्तपदद्वयं व्याचष्टे संविदेक इति । न न युज्यते, अपि तु युज्यते इत्यर्थः । कुतो युज्यते इत्यत आह यत् किल इति । मायापदे - भेदपदे, अतिदुर्घटम् - अतिशयेनासम्भवोपहतम् । अप्रतिहतम् - प्रतीघातरहितम्, पुनः शब्दो व्यतिरेके । अत एव इत्यनेन इति, पूर्वसूत्रस्थेनेहापि योजितेनात एवेति शब्देन । विमर्शशक्तिरूपम् - विमर्शशक्त्याख्यं हेतुस्वरूपम्, अपुनरुक्तम्, पुनरुक्तं न भवतीत्यर्थः [अपुनरुक्तम् न भवतीत्यर्थः - च्।] । अन्यथा द्वयोरपि हेत्वोः स्वातन्त्र्यवाचकत्वात् पौनरुक्त्यं स्यादिति भावः । मतान्तरमाह अथ वा इति । अत एव स्वातन्त्र्यात्, विमर्शरूपात् स्वातन्त्र्यात् हेतोरित्यर्थः । ईशादिसङ्कल्पैः इत्यस्य व्याख्यां कर्तुं योजनां करोति
श्लोकद्वयेन सम्बन्धनीयम् । उदाहरणम् अत्रार्थे दर्शयति, नीलादिनिर्माणवत् अस्य स्वतन्त्रनिर्माणस्य [स्वतन्त्ररूपनिर्माणस्य - क्। ष्।
ष्।] अप्रसिद्धत्वात्, ईश्वरो भगवान् आत्मा नित्यो विभुः स्वतन्त्रः इत्येवमादौ हि प्रमातुः, पूजयितुः, ध्यातुः वाऽपृथग्भूतं तत् प्रमेयम्, पूज्यम्, ध्येयं च भाति इति तत् तावत् निर्मितम्, न च अनीश्वरम् [अनीश्वररूपम् - क्। ष्।
ष्।] । एवं हि ईश्वर इति, अनीश्वर इति सङ्कल्पध्यानादेः तुल्यत्वं स्यात्, न च एवम् फलभेदस्य उपलब्धेः इति, तस्मात्
उदाहरणम् इति, सामान्ये विशेषरूपम्, अत्रार्थे - ईशादिसङ्कल्पैर्निर्मित
- ज्ञेयव्यवहारविषये, तदुक्तम् :-
शिवश्चालुप्तविभवस्तथामृष्टोऽवभासते ।
स्वसंविन्मात्रमुकुरे स्वातन्त्र्याद् भावनादिषु ॥
इति । ननु किमर्थमत्रोदाहरणं दर्शयति इत्यत आह नील इति, स्वतन्त्रनिर्माणस्य - स्वातन्त्र्यामुक्तात्मरूपेशादिनिर्मितेः, अप्रसिद्धत्वात् - लोके प्रसिद्ध्य - भावात् । ननु कथं स्वातन्त्र्ययुक्तानामीशादीनां निर्मितत्वं युक्तमित्यत आह ईश्वरः इति ।
ईश्वरः इत्येनेन ईश शब्दव्याख्या, भगवान् इत्यादयस्तु आदिशब्दगृहीताः, अपृथग्भूतम् - अभिन्नम्, तत् प्रमेयम् - ईशादिरूपं प्रमेयम्, निर्मितम् - सङ्कल्पेन सम्पादितम्, प्रमेयस्य स्फुटमेव निर्मितत्वानपायात् इति भावः । ननु तर्हि निर्मितत्वेन स्वातन्त्र्यमुक्तमेव भवतु इत्यत आह न च इति । कुतो नानीश्वरम् इत्यत आह एवं हि इति । आदि शब्देन पूजादेर्ग्रहणम् । ननु तुल्यतैवास्तु इत्यत आह न चैवम् इति । कुतो नैवम् इत्यत आह फल इति । फलभेदस्य - भोगमोक्षरूपस्य, नीलादिसेवनेन हि भोगः, ईशादिसेवनेन हि मोक्ष इति भावः । ये तु भगवत्तीव्रतरशक्तिपवित्रीकृताः नीलादेरपि
येनैव मुह्यति जडः प्राज्ञस्तेनैव तरति संसारात् ।
पिण्डितमयोप्सु मज्जति तदेव पात्रीकृतं प्लवते ॥
स्वातन्त्र्यशून्यताभासनेन स्वातन्त्र्ययुक्तताभासनेन च यत् इदम् उभयं ज्ञेयं आत्मरूपमेव परमेश्वरो भासयति तत् विमर्शशक्तिबलात् एव, इति सैव प्रधानम् इति ॥ १६ ॥
ननु प्रकाशबलात् भावव्यवस्था, स च प्रकाशो विमर्शसार इति विमर्शाभेदे तदेव तत् इति वक्तुं युक्तम् ईश्वर आत्मा इत्यादिसङ्कल्पेषु च निर्मितस्य इदन्तया परामर्शः, स्वातन्त्र्यं तु अहम्परामर्शरूपम्, इति निर्मितस्य तद्रूपत्वाभावे कथं स्वातन्त्र्यामुक्तत्वम् इति ? तत् एतत् परिहर्तुमाह :-
नाहन्तादिपरामर्शभेदादस्यान्यतात्मनः ।
अहम्मृश्यतयैवास्य सृष्टेस्तिङ्वाच्यकर्मवत् ॥ १७ ॥
स्वरूपे भावप्रत्ययः, आदिग्रहणात् आत्मेश्वरादिपरामर्शः, तिङ्ग्रहणं
इति दृशा मोक्षफलभागिन एव, तेषां कथाऽन्यैव । तदुक्तम् :-
भुक्त्वा भोगान् भवभ्रान्तिं हित्वा लप्स्ये परं पदं ।
इत्याशंसेह शोभेत शम्भोर्भक्तिमतः परम् ॥
इति । सङ्ङ्क्।एपेण श्लोकद्वयार्थं कथयत्युपसंहाररीत्या तस्मात् इति ।
उभयम् - नीलादिरूपमीशादिरूपं च, तत् - भासनम्, इति - अतः कारणात्, सैव - विमर्शशक्तिरेव, प्रधानम्, प्रधानभूतप्रकाशजीवितत्वादिति भावः ॥ १६ ॥
अथ सप्तदशश्लोकस्यावतरणिकां करोति ननु इति ।
अत्र टीका :-
तदेव, तदित्यर्थः, तद्रपत्वाभावे - अहम्परामर्शविषयत्वाभावे । परिहर्तुम् - परिहारविषयीकर्तुम् ।
एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । नाहन्तां इति ।
अत्र टीका :-
तल् अर्थमाह स्वरूपे इति, न तु भावे, असम्बन्धात् । स्वरूपं हि धर्मी भावस्तु स्वरूपगतः शब्दप्रवृत्तिनिमित्तभूतो धर्मः, इह च धर्म्येवोपयुक्तः ।
क्रियावाचिप्रत्ययोपलक्षणम्, कर्मग्रहणम् असत्त्वभूतशक्तिरूपोपलक्षणम् ।
आदि शब्दग्राह्यमाह आत्मा इति । आदि शब्देन स्वतन्त्र इत्यादीनां ग्रहणम् । तिङ्प्रत्ययग्राह्यमाह प्रत्यय इति । न स्वान्तर्गतस्वरूपसहिततिप्तस् - आदिप्रत्ययमात्रपरम्, अपि तु क्रियावाचिसर्वप्रत्ययपरम् । प्रत्ययग्रहणमप्यत्रोपलक्षणमेव, निपातानामप्यनेन ग्रहणात् । कर्म शब्दग्राह्यमाह असत्त्व इति ।
असत्त्वभूतानाम् - सर्वनामप्रयोगासहत्वेनाऽद्रव्यभूतानां यत् शक्तिरूपम् - शक्त्याख्यं वस्तु तस्योपलक्षणम्, न तु केवलस्य वाच्यभूतस्य क्रियामात्रस्य ग्रहणपरम् । तिङादिवाच्यम् - क्रियादि, निपातावाच्याः समुच्चयादयश्च बहिः स्वप्रधानतया स्थितं सर्वनामव्यपदेशार्हं स्वरूपं न विभ्रति परनिष्ठत्वेनैव स्थितत्वात्, अत एव च निपातानां निपात इति नाम सार्थकम् एव, निपतन्ति - सूचकत्वेन विषयी - भवन्ति परनिष्ठेष्वर्थेषु इति निपाताः ।
तिङादिवाच्याक्रियाकारकाणि च स्फुटमेव परनिष्ठान्येव, परं तु तद्वाचकानां निपातत्वेन रूढिर्नास्त्येव यतस्ते योगमात्रेण
तत् अयम् अर्थः, अहम् इत्येवंस्वरूपो [इत्येवंरूपः - क्। ष्। ष्।] यः परामर्शो यश्च ईश्वरः प्रमाता आत्मा शिव इत्यादिः अनन्तप्रकारः परामर्शः, तस्य यद्यपि भेदोऽन्योन्यरूपता, तथापि तद्भेदात् हेतोः अस्य आत्मनो निर्मातृरूपस्य अहम्परामर्शमयस्य निर्मेयरूपस्य च ईश्वरादिपरामर्शास्पदस्य यो भेदः शङ्कितः स न युक्तः । यत ईश्वर इत्यपि यः परामर्शः, स ईशनशीले ज्ञातृत्वकर्तृत्वतत्त्वे विश्राम्यति, ज्ञातृत्वादि च ज्ञानादौ स्वातन्त्र्यम् अनन्य -
निपाताः, विकल्पादिवाचकानां वादीनां तु योगरूढ्या निपातत्वम्, यद्यपि कारकाणां बहिः प्रधानं स्वरूपं वर्तत एव तथापि तदर्थरूपत्वेनैव न कारकत्वेन, कारकत्वं हि स्वरूपनिष्ठशक्तिमात्ररूपमेव, अन्यथा विदितकार्यकारणभावो बालश्छिदाद्यर्थं पादुकादि न गृह्णीयात् इत्यलं प्रपञ्चेन ।
एतदवष्टम्भेनार्थकरणे प्रतिज्ञां करोति तत् इति । अहन्ता शब्दे प्रकृतिं व्याचष्टे अहम् इति । तल्प्रत्ययार्थमाह स्वरूपाः [तल्प्रत्ययार्थमाह स्वरूपमिति - च्।] इति । परामर्शशब्दस्य प्रसिद्धत्वेन निगदव्याख्यानम् । आदिगृहीतं वस्तु आह ईश्वर इति । भेदात् इति पदं व्याचष्टे अन्याय इति । तेषाम् - परामर्शानां भेदस्तद्भेदस्तस्मात् तत्राहम्परामर्शः निर्मातृविषयः, ईश्वरादिपरामर्शाः निर्मेयविषयाः । पञ्चम्यर्थमाह हेतोः इति । अस्य आत्मनः इति ।
पदद्वयं व्याचष्टे निर्मातृ इति । अन्यता पदं व्याचष्टे भेद इति ।
शेषत्वेन युक्तः इत्यध्याहृतम् । अत्र हेतुत्वेन स्थितमुत्तरार्धं व्याचष्टे यतः इति । ईशन इति । ईशनम् - समर्थीभवनक्रिया, शीलम् - निष्प्रयोजना प्रवृत्तिर्यस्य तादृशे । ज्ञातृत्वरूपं यत् कर्तृत्वं तस्य यत्तत्त्वं तस्मिन्, ज्ञानपल्लवभूतैव हि क्रिया वक्ष्यते इति भावः । विश्राम्यति इति । ईश् धातोः कर्तरि कृत्प्रत्ययोत्पादादिति भावः । ननु विश्राम्यतु ततः किमित्यत आह ज्ञातृत्व इति । ज्ञातृत्वादि च - ज्ञातृत्वमादिशब्देन कर्तृत्वं च, ज्ञानादौ - ज्ञाने आदिशब्दात्करणे च,
मुखप्रेक्षित्वम् अविच्छिन्नज्ञानयोगः, [अविच्छिन्नज्ञानादिशक्तियोगः - क्।
ष्। ष्।] अविच्छेदश्च जानामि करोमि इति अस्मदर्थविश्रान्तिः इति अस्य ईश्वरस्य आत्मनः सृष्टेः सृज्यमानस्य अहंविमर्शनीयत्वमेव । सृष्टेरिति वा हेतौ पञ्चमी । अस्य ईश्वरस्य यतः ईश्वरादिसङ्कल्पेषु अपि अहम्परामर्शनयोग्यस्यैव सृष्टिः । अर्हे कृत्यः । यथा
स्वातन्त्र्यं भवति । कर्तरि प्रत्ययोत्पादादिति भावः । तच्च अनन्यमुखप्रेक्षित्वं भवति, तच्च अविच्छिन्नज्ञानयोगो भवति, विच्छिन्नज्ञानयोगो हि कादाचित्कत्वेन स्वव्यतिरिक्तहेत्वपेक्षत्वेनान्यमुखप्रेक्षित्वग्रस्त एव । स अविछेदश्च अहं जानामि, अहं करोमि, इति - एवम्, अस्मदर्थे या विश्रान्तिः - भित्तितया तदाश्रयणम्, सा भवति, स्फुटं ज्ञानकरणयोरस्मदर्थेऽहम्पदार्थे स्थिततया स्फुरणात्, इति - अतः कारणात्, अस्य इति पदं व्याचष्टे ईश्वरस्य इति । सृष्टेः इति पदं व्याचष्टे सृज्यमानस्य इति । एतेन कर्मणि क्तिन्निति द्योतितम् । सृज्यमानस्य, सङ्कल्पेन भाव्यमानस्येत्यर्थः ।
अहम्परामर्शनीयत्वमेव - अहम्परामर्शविषयत्वमेव, साक्षात्तत्वाभावेऽपि फलतस्तत्त्वानपायात् । पक्षान्तरमाह सृष्टेरिति वा इति । पञ्चमीं व्याचष्टे यतः इति । अस्मिन्पक्षे सृष्टेः इत्यस्य भावे क्तिन् पञ्चम्यन्तता च । ननु योग्यतायाः कुतोऽवगम इत्यत आह अर्हे इति । कृत्यः
- मृश्यतया इत्यत्र स्थितः कृत्यप्रत्ययः । अहमिति म्रष्टुं योग्यः - अहम्मृश्यः, तस्य भावस्तत्ता तयेत्यर्थः, पूर्वपक्षे तु कर्मणीति भावः । तिङ्वाच्य इति पदस्य अर्थोपमापरस्य व्याख्यां करोति यथा इति ।
वतिप्रत्ययार्थमाह यथा इति । प्रकृत्यर्थमाह क्रिया इति ।
आदिशब्देनोपमादेर्ग्रहणम् । यथास्वम् इति । तत्र क्रियाशक्तिः तिङ्प्रयोगावसेयपरामर्शपरमार्था, तिङ्प्रयोगेनावसेयः - द्योत्यः, यः परामर्शः स एव परमार्थः यस्याः सा । धातुवाच्यत्वेपि
प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूतः
क्रियाकारकसमुच्चयविकल्पादिशक्तयो यथास्वं तिङ्तृतीयादिचवादिप्रयोगावसेयपरामर्शपरमार्थाः पाकः कर्ता समुच्चयो विकल्पः इत्यादिशब्दैः अभिधीयमानाः सत्त्वभावमापादिता अपि पचति चैत्रेण च वा इत्येवंरूपे [इत्येवम्भूते - क्। ष्। ष्।] मूलपरामर्शे विश्राम्यन्ति, अन्यथा तु ताः प्रतीता नैव भवेयुः । तद्वत्
इति न्याये तु प्रत्ययरूपतिङ्मात्रग्रहणम्, उपलक्षणं चैतत्कृत्प्रत्ययादीनाम्, तेषामपि क्रियायां प्रयोगात् । तथा कारकशक्तिः तृतीयादिप्रयोगावसेयपरामर्शपरमार्था, तृतीयाया एव कर्तृत्वकरणत्वद्योतकत्वात्, आदिशब्देन चतुर्थ्यादीनां ग्रहणम्, तासामपि सम्प्रदानादिद्योतकत्वात्, एवं सर्वत्र योजना । वादि इत्यत्रादिशब्देनोपमादिद्योतकस्य इवादेर्ग्रहणम्, उपमाशक्तिरपि हि इवादिप्रयोगावसेय - प्ररामर्शपरमार्थैव, ताश्च शक्तयः एवंविधाः सत्यः पाकः कर्ता समुच्चयो विकल्प इत्यादिशब्दैरभिधीयमानाः ।
पाको हि भावविहितघञन्तत्वेन क्रियामभिदधाति, एवं कर्त्रादिकमपि कारकादीन् आदिशब्देनोपमादेरभिधायकस्य सादृश्यादेः शब्दजातस्य ग्रहणम् । अत एव सत्त्वभावमापादिताः - सहजस्वरूपतया स्थितात् अद्रव्यभावात् प्रच्याव्य कल्पिते अयं पाकः इत्येवमभिनवनामपरामर्शसहे सत्त्वे - द्रव्ये तादात्म्यमापादिताः, अपि पचति चैत्रेण च वेत्येवंरूपे मूलपरामर्शे विश्राम्यन्ति, अन्यथा
- मूलपरामर्शविश्रामाभावे, ताः प्रतीता एव - लब्धस्वरूपा एव, न भवेयुः । अनेन पाकः क्रियते इति ह्युक्ते पचत्ययमिति परामर्शे सद्यो विश्रान्तिर्जायते, न हि पाके नाम सिद्धं वस्तु कुत्रापि तिष्ठति पूर्वापरीभूतावयवत्वेन सिद्धत्वासम्भवात्, तिङ्प्रत्ययस्य तु तत्रैव सङ्केतितत्वात् झटिति प्रत्यायकत्वम्, मूलत्वं च तत एव प्रथमं क्रियापरामर्शोत्पादात् । सिद्धतया कथनं तु व्युत्पन्नं प्रत्येव, अत्र स्वबुद्धिरेव साक्षिणीति नऽऽयस्यते । एवं कारकत्वादिकमपि कार्यमात्राधिगम्यमेव न सिद्धतया स्थितम्, न हीदं कारकमित्युक्ते वस्तुस्वरूपं विना किञ्चिल्लभ्यते, कार्येण तु ज्ञायतेऽस्य कारकत्वशक्तिरस्तीति, सत्त्वस्य च सर्वनामपरामर्शसहत्वम्
अत्रापि । एतदुक्तं भवति - परामर्शो नाम विश्रान्तिस्थानम्, तच्च पार्यन्तिकमेव पारमार्थिकम्, तच्च अहमित्येवंरूपमेव ।
मध्यविश्रान्तिपदं तु यत्
वस्तूपलक्षणं यत्र सर्वनाम प्रयुज्यते ।
द्रव्यमित्युच्यते सोर्थो भेद्यत्वेन विवक्षितः ॥
इति वृद्धसम्मत्या ज्ञेयम् । उपमानोपमेयभावरूपं योजनां करोति तद्वत् इति । एवं च तिङ्वाच्यकर्मणीव तिङ्वाच्यकर्मवत् इति सङ्क्षेपः ।
एतदुक्तं भवति । यथा पाक इति परामर्शः तिङ्वाच्ये कर्मणि पचतीत्येवंरूपपरामर्शे एव फलतो विश्राम्यति, तथेश्वर इत्युक्तेऽहम्परामर्शे एव फलतो विश्रामः, अन्यत्र स्वातन्त्र्य - रूपेश्वरत्वासम्भवात्, यस्तु मूढानां पाकादिसिद्धत्वे ईश्वरविषये च स्वतो भिन्नत्वेन निश्चयः स भ्रम एवेति । अत्र स्वयमपि भावकथनं प्रतिजानीते एतदुक्तं भवति इति । किमुक्तं भवति इत्यपेक्षायामाह परामर्शो नाम इति । विश्रान्तिस्थानम् इति, विषयग्रहे परामर्शानन्तरमेव पुरुषो हि तूष्णीं तिष्ठति, तूष्णीम्भावश्च विषयसुखानुभवः, स एव च विश्राम इति स्फुटमेव परामर्शस्य विश्रान्तिस्थानत्वम् । तच्च - विश्रान्तिस्थानं च, पार्यन्तिकमेव - पर्यन्ते भवमेव नत्ववान्तरम्, पारमार्थिकम् - सत्यभूतम्, अवान्तरविश्रान्ति - स्थानानां परमार्थतो मार्गरूपत्वात्, तच्च - पारमार्थिकं विश्रान्तिस्थानं च, अहमित्येवंरूपमेव, अहम्परामर्श एवेत्यर्थः, विषयकृते सुखे विश्रान्तोऽपि हि परमार्थतः स्वात्मविश्रान्त एव भवति, तदुक्तम् :-
दृश्यदर्शनसम्बन्धे यत्सुखं पारमात्मिकम्
इति । ये त्वेतेन विषयरसिका अपि परमात्मविश्रान्तिमभिनयन्ति तेषां स्ववञ्चकत्वमेव, तत्र विश्रान्ता हि केनापि वस्तुना सदैव सुखिनस्सन्तः प्रवाहवशेन विषयेभ्यः सुखं प्राप्नुवन्तोऽपि विषयवैमुख्यपरा एव, आत्मन्येव सुखकार्त्वनिश्चयात् । यस्तु विषयकाले एव सुखी स विषयमात्रपर एव, सदा सुखित्वे चात्मैव साक्षीकार्योऽन्यथा स्ववञ्चकत्वापत्तेरित्यलं परचोदनाभिः । ननु मध्ये स्फुरणशीलं विषयपरामर्शनं कुत्रापसारयामः इत्यत आह यत् इति ।
मध्यविश्रान्तिपदम् - ईश्वरपरामर्शरूपं नीलादिविषयपरामर्शरूपं चावान्तरविश्रान्तिस्थानम्, ग्राम -
वृक्षमूलस्थानीयं ग्रामगमने तस्य तदपेक्षया सृष्टत्वम् उच्यते इति को विरोधः । अनेन नीलादेः अपि इदं नीलम् इति मध्यपरामर्शेऽपि मूलपरामर्शे अहमित्येव विश्रान्तेः आत्ममयत्वम् उपपादितमेव । नीलम् इदम् वेद्मि इत्यपि हि अहं प्रकाशे इतीयत्तत्त्वम् । यथोक्तम् इदमित्यस्य इत्यादि ।
मूढस्तु नीलादिविमर्शात् एव अर्थक्रियादिपरितोषाभिमानी
गमने वृक्षमूलस्थानीयम् - वृक्षमलसदृशम्, ग्रामं गन्ता हि श्रान्तस्तावद्विश्रामार्थं वृक्षतले तिष्ठति, मूलशब्दस्य तलवाचकत्वं लक्षणया ज्ञेयम् । ननु मध्यपरामर्शस्य सृष्टत्वं कथमुक्तमित्यत आह तदपेक्षया इति ।
पार्यन्तिकविश्रान्तिस्थानभूताहम्परामर्शापेक्षया तत्पूर्वकत्वादस्येति भावः । नन्वीश्वरपरामर्शस्य प्रत्यासन्नत्वेनाहम्परामर्शविश्रान्तत्वं भवतु, नीलादिविषयपरामर्शस्य का वार्तां इत्यत आह अनेन इति । अनेन - ईश्वरपरामर्शस्याहम्परामर्शविश्रान्तिसधनेन, उपपादितमेव - समर्थितमेव, विषयत्वाविशेषादिति भावः । अत्र च भरःकृतः इति न पुनरायस्यते । ननु कथमेतद्युक्तम् इत्यत आह नीलम् इति । हि - यस्मात्, नीलमिदं वेद्मि इत्यपि अहं प्रकाशे [नीलमिदमहं वेद्मि इति अहं प्रकाशे इति हि इयत्तत्वम् - क्। ष्। ष्।] इतीयत् - एतावन्मात्रं तत्त्वम् - परमार्थः यस्य तत्, भवति नीलद्वारेणाहम्परामर्शात्, अन्यथाहम्प्रयोगासम्भवात् इति भावः । अत्राऽऽचार्यसम्मतिमाह इदम् इति । आदि शब्देन विच्छिन्नविमर्शस्य इत्यादेः श्लोकशेषस्य ग्रहणम्, अत्र च पूर्वं व्याख्या कृतेति न पुनरायस्यते । ननु कथं तर्हि मूढा एवं न जानन्ति इत्यत आह मूढः इति । अथ च यद्येवं तर्हि कथमीश्वरादिविषयस्यैव स्वातन्त्र्यामुक्तत्वमुक्तं न नीलादेरपीत्यत आह मूढः इति । अर्थक्रियादिकृतः परितोषः - अर्थक्रियादिपरितोषस्तमभिमन्यत इति तादृशः, परमार्थतोऽपेक्षाग्रस्तस्य तस्य सः परितोषोऽपि हस्तं
इति नीलादेः स्वातन्त्र्यनिर्मुक्तत्वम् उक्तम् । आत्मादौ तु तन्मूलपरामर्शविश्रान्तिमन्तरेण प्रतीतिपरिसमाप्तिम् अर्थक्रियां च मूढोऽपि न अभिमन्यत इति तस्य निर्मितौ अपि अनुज्झितस्वातन्त्र्यम् उक्तम् ॥ १७ ॥
नन्वेवं विश्वपरामर्शानाम् अहम् इत्येव विशुद्धैकपरामर्शविश्रान्तिरेव तत्त्वम् तत् कथम् इदम् उच्यते - ज्ञानस्मृत्यादिका अस्य शक्तय इति, ज्ञानस्य च संशयनिर्णयादिभेदः [निर्णयसंशयभेदाः - क्। ष्। ष्।] नीलादीनां च वैचित्र्यम् ? इति आशङ्कायां परिहारमाह :-
नायाति इत्यभिमानीत्युक्तम् । निर्मितौ अपि - सृष्टत्वेऽपि, उक्तम् इति, मूढप्रबोधनमात्रफलत्वादस्य शास्त्रस्य, अन्यथा सर्वथाऽनिर्वाच्ये ततोऽपि व्यतीते प्रसिद्धात् प्रसिद्धे च भगवत्स्वरूपे का प्रक्रियाजालपरिनिष्ठतेति भावः ।
एवमत्र सङ्ङ्क्षेपः । अस्यात्मनः - परप्रकाशतया ईश्वरादिरूपतया च भावितस्य परमात्मनः; अहन्तादेः परामर्शस्य यो भेदः भिन्नविषयताकृतस्तत अन्यता - भेदो न भवति कुतः ? अस्य सृष्टे - सृज्यमानस्येश्वरादेः अहम्मृश्यतया, कथम् ? तिङ्वाच्य इति ।
अस्येश्वरादेः सृष्टेर्हेतोरिति वेति ॥ १७ ॥
अथाष्टादशश्लोकस्यावतरणिकां करोति नन्वेवम् इति ।
अत्र टीका :-
विश्वपरामर्शानाम् - अयमीश्वर इदं नीलमित्यादीनां सर्वेषां परामर्शानाम्, विशुद्धः - विषयोपरागाऽरूषितत्वेन अतिशुद्धो यः परामर्शः - प्रकाशस्य स्वरूपमात्र - निष्ठोहम्परामर्शः, स एव, तत्त्वम् - पारमार्थिकं स्वरूपम्, तत् - तदा, इदं किम् इत्यपेक्षायामाह ज्ञान इति । आदिशब्देनापोहनस्य ग्रहणम् ।
अस्य - प्रकाशस्य, ज्ञानस्य इति । ज्ञानस्य संशयनिर्णयादिभेदः नीलादीनां च वैचित्र्यम्, कथं शक्तिरुच्यते इति सम्बन्धः ।
एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । माया इति ।
मायाशक्त्या विभोः सैव भिन्नसंवेद्यगोचरा ।
कथिता ज्ञानसङ्कल्पाध्यवसायादिनामभिः ॥ १८ ॥
अनुपपन्नम् अवभासनं माया इति उच्यते, ततश्च भिन्नं प्रकाशात् सर्वम् अवभासजातं माया, तत्र च चित्तत्त्वस्यैव स्वातन्त्र्यं मायाशक्तिः, तया भिन्नं यत् संवेद्यं प्रमातुश्च अन्योन्यतश्च, मायाशक्त्या भिन्नेन प्रमातुः अन्योन्यतो वेद्याच्च करणवर्गेण यत् संवेद्यं स एव गोचरो विश्रान्तिपदं
अत्र टीका :-
माया पदं व्याचष्टे अनुपपन्नम् इति । अनुपपन्नम् - उपपत्त्यसहम्, अवभासनम् - भेदेन वस्तूनां स्फुरणम् । फलितं मायास्वरूपमाह ततश्च इति । ततश्च - तस्माच्च, भिन्नम् - भेदधर्मितया स्थितम्, प्रकाशात् - परमप्रकाशाख्यात्प्रतियोगिनः, अवभासजातम् - नानाविधबाह्यान्तरभावविषयो ज्ञानसमूहः ।
शक्ति पदं व्याचष्टे तत्र च इति । तत्र च - अवभासजाते मायास्वरूपे सति, स्वातन्त्र्यम् - अवभासोद्भावने समर्थता, अनन्यमखप्रेक्षित्वमिति यावत् । योजनामात्रप्रयोजनं पुनर्मायापदग्रहणम् । तृतीयार्थमाह तया इति । भिन्न इत्यादिसमस्तपदस्य विग्रहं व्याख्यां चावयवविभागेन करोति भिन्नम् इति । संवेद्य इत्यवयवं व्याचष्टे माया इति ।
प्रमातुरन्योन्यतश्च इति पदद्वयस्य व्यवहितेन भिन्नम् इत्यनेन योजना ।
कुतो भिन्नम् ? प्रमातुः - ग्राहकात्, अन्योन्यतश्च इत्यर्थः । संवेद्य इत्यस्य सापेक्षशब्दत्वात् तदपेक्षापूरकस्य करणवर्गेण इत्यस्याध्याहारः । करणवर्गेण - बाह्यान्तररूपेण करणसमूहेन, तद्द्वारेणेति यावत् । यत्संवेद्यम् - संवेदनविषयः, अर्थाद् बाह्यान्तरं भावजातम्, सः - भिन्नं संवेद्यं च भावजातं च । एकेनैव तच्छब्देन यच्छब्दद्वयस्याकाङ्क्षा पूरिता । गोचरा इत्यवयवं व्याचष्टे विश्रान्ति इति । अयं च लक्षणाप्रयोग एव, गाव एव हि गोचरे विश्राम्यन्ति । विगृहीतानां पदानां समसनं करोति यस्या इति, योग्यतया
यस्याः तादृशी सती, सैव प्रत्यवमर्शात्मा चितिः परावाग्रूपा ज्ञानम् इति, सङ्कल्प इति, अध्यवसाय इति च उच्यते, आदिग्रहणात् संशयः स्मृतिः इत्यादि । तथा हि - यत् इन्द्रियेण स्फुटग्राहिणा बाह्येन विषयेण स्फुटेन च नियन्त्रितं संवित्तत्त्वं तत् ज्ञानम् । मनसा विषयेण च अस्फुटेन सङ्कल्पः । बुद्ध्या विषयेण च विषयत्वपर्यन्तभाजा अध्यवसायो निश्चयः । विषयस्य च यत् भिन्नत्वं बहिरन्तः करणानां च तत्प्रकाशाभेदात् अनुपपन्नं चित्तत्त्वेन भास्यते [आभास्यते - क्। ष्। ष्।] इति भेदे यतो विश्रान्तिः, न तु भेदस्य अभेदे ईश्वरसदाशिवादिवत्,
सती इत्यस्याध्याहारः । सैव इति पदं व्याचष्टे प्रत्यवमर्श इति । ज्ञान इत्यादि पदं व्याचष्टे ज्ञानम् इति । सर्वत्र इति शब्दः स्वान्तः - कृततृतीयार्थः शब्दस्वरूपाक्षेपपरः शब्दस्वरूपस्यैव नामत्वात् ।
कथिता इति पदं व्याचष्टे उच्यते इति । आदि शब्दग्राह्यं वस्तु कथयितुमाह आदि इति । इत्यादि ग्राह्यमिति शेषः । आदिशब्देन भ्रमज्ञानादेर्ग्रहणम् । ज्ञानादीनां स्वरूपकथनं प्रक्रमते तथा हि इति । स्फुटग्राहिणा - सर्वधर्माक्षेपेण ग्रहणात् स्फुटतया वस्तुग्रहणं कुर्वता, स्फुटेन - सन्निकर्षचतुष्टयवशेन स्फुटतां गतेन । नियन्त्रितम् - प्रमाणतया प्रमेयतया च परिच्छिन्नतां नीतम्, संवित्तत्त्वम् - अपरिच्छिन्नप्रकाशस्वरूपम् । ज्ञानम् इति ।
प्रमारूपमित्यर्थः । सङ्कल्पस्य स्वरूपमाह मनसा इति ।
अध्यवसायस्वरूपमाह बुद्ध्या इति । विषयत्वस्य - भावगतस्य विषयभावस्य यः पर्यन्तस्तं भजतीति तादृशेन । ततः परं हि भावस्य विषयीभावो नस्तीति भावः । ननु कथं ज्ञानादीना भिन्नत्वं युक्तमित्यपेक्षायां निर्णेतुमाह विषयस्य इति । प्रकाशेन - परप्रकाशेन सह यः अभेदस्तस्मात् । भास्यते इति, मायाशक्त्येति भावः । इति - एवम् । यतः कारणाद् भेदे विश्रान्तिः भवति नत्वीश्वरसदाशिवादिवत्, आदिशब्देन शक्त्यादेर्ग्रहणम्, भेदस्याभेदे विश्रान्तिर्भवति, ततः - तस्मात्कारणात्, ज्ञानसङ्कल्पादयो भिन्ना
ततो ज्ञानसङ्कल्पादयो भिन्नाः तस्य अप्रध्वस्तस्वस्वभावाभेदस्य संवित्तत्त्वस्य अनुसन्धातुः शक्तय इति उक्ताः, संशयादयश्च भिन्ना नीइलादिवैचित्र्यं च इति सर्वम् अखण्डितम् ॥ १८ ॥
ननु प्रत्यवमर्शात्मत्वं चितिशक्तेः सङ्कल्पस्मरणादिशक्तिषु सविकल्पात्मिकासु भवति । या तु निर्विकल्परूपा साक्षात्करणलक्षणा अनुभवशक्तिः, तत्र कथम् । प्रत्यवमर्शो हि अभिलापविशेषयोजनामयः, [अभिलापभेदयोजनामयः - क्। ष्। ष्।] अभिलापविशेषयोजना च सङ्केतस्मरणम् अपेक्षते । तच्च संस्कारप्रबोधम् । सोऽपि
भवन्ति, विषयभेदेनैव ज्ञानभेदस्य युक्तत्वात् । ज्ञानादीनामपि शक्तित्वं साधयति तस्य इति । तस्य - परमप्रकाशरूपस्य । उक्ताः इति, मायावत् तत्सामर्थ्यसिद्धत्वादिति भावः । संशयादयश्च - आदिशब्दगृहीताः संशयादयश्च, शक्तय इत्युक्ताः, नीलादिवैचित्र्यं च शक्तिरित्युक्तमिति सम्बन्धः । इति - एवम्, सर्वम् - समस्तम्, अखण्डितम् - खण्डनाऽसहं भवति, न हि मायायाः किमपि दुष्करम् इति सर्वैरङ्गीकृतत्वादिति भावः ॥ १८ ॥
अथैकोनविंशस्य श्लोकस्यावतरणिकां करोति ननु इति ।
अत्र टीका :-
प्रत्यवमर्शात्मकत्वम् - प्रत्यवमर्शस्वभावत्वम् । चितिशक्तेः - चैतन्यशक्तेः । अनुभवशक्तिः - चितिशक्तिः, तत्र - तस्यां शक्तौ, कथं प्रत्यवमर्शात्मकत्वमिति सम्बन्धः । कुत इत्यपेक्षायामाह प्रत्यवमर्शो हि इति । अभिलापविशेषाणाम् - प्रतिपदार्थेऽभिन्नतया स्थितानां शब्दानां या योजना - स्मृत्या योजनं तन्मयः - तत्स्वरूपः । ननु ततः किमित्यत आह अभिलाप इति । अपेक्षते इति, न हि पूर्वगृहीतसङ्केतस्मृतिं विना ज्ञातार्थः शब्दो योजयितुं शक्यते इति भावः । तच्च - सङ्केतस्मरणं च । सोऽपि - संस्कारप्रबोधोऽपि । तादृशी चासौ दृक् तादृशदृक्ताम्, सदृशज्ञानमित्यर्थः । प्रथमसमये - प्रथमतया स्थितनिर्विकल्पज्ञानसमये ।
तादृशदृशम्, इति एवं प्रथमसमये कथम् अभिलापयोगः इति परस्यव्यामोहम् अपोहितुमाह [अपोहयितुम् - क्। ष्। ष्।] :-
साक्षात्कारक्षणेऽप्यस्ति विमर्शः कथमन्यथा ।
धावनाद्युपपद्येत प्रतिसन्धानवर्जितम् ॥ १९ ॥
इह तावत् चैतन्यस्य आत्मभूतोऽङ्गुलिनिर्देशादिप्रख्योऽभिलापयोगः, अन्यथा बालस्य प्रथमं व्यवहारे दृश्यमाने व्युत्पत्तिरेव न स्यात् ।
कल्पज्ञानसमये । परस्य - तार्किकादेः । अपोहितुम् - दूरीकर्तुम् ।
एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे ।
साक्षात्कारक्षणेऽप्यस्ति इति ।
अत्र टीका
श्लोकं व्याख्यातुं प्रक्रियां तनोति इह इति । इह - भासमाने जगति, चैतन्यस्य - प्रकाशस्य, अङ्गलिनिर्देशप्रख्यः - अङ्गुल्या कृतो यो निर्देशः - वस्तुनिर्देशस्तस्य प्रख्यः - सदृशः । आदिशब्देन शिर - आदिनिर्देशग्रहणम् । अभिलापयोगः - शब्दयोगः, तेन सहाव्यभिचार इति यावत् । अस्तीति शेषः । व्यतिरेकरीत्यात्र समर्थनं करोति अन्यथा इति ।
अन्यथा - बालस्य - अद्य तावदशिक्षितस्य शिक्षोन्मुखस्य, न तु स्तनपायिनः । प्रथमव्यवहारे - तावत्कालमननुभूतायां वृद्धमध्यमवृद्धयोर्घटमानयनयेत्यादिरूपायां व्यवहृतौ, दृश्यमने सति, व्युत्पत्तिः - अस्य वाक्यस्यायमर्थ इत्येवमावापोद्वापाभ्यां सङ्केतग्रहणकृता निपुणता, एव न स्यात् का कथा तत्कार्यस्य व्यवहारस्येत्येव - शब्दाभिप्रायः । कुतो न स्यात् इत्यत आह निर्विकल्प इति । हि - यस्मात् - बालो निर्विकल्पकज्ञानपरम्परया - इदम्प्रथमतः ग्रहणवशेन शब्दार्थ - विषयपरामर्शरूपविकल्परहितश्रवणेन्द्रियकृतशब्दश्रुतिप्रमातृरूपा नु-भवपरम्पराभावेन,
निर्विकल्पकज्ञानपरम्परया [निर्विकल्पविज्ञानपरम्परया - क्। ष्। ष्।] हि तं शब्दं शृणोति, ततः तमर्थं पुरः पश्यति, पुनस्तद्विविक्तं भूतलं पश्यति इति घटम् आनय नय इति व्यवहारात् कथम् अस्य अयम् अर्थ इति हृदि [अस्य अयमर्थो हृदि परिस्फुरेत् - क्। ष्। ष्।] परिस्फुरेत्, इदम् घट इति, इदमानय इति, इदं नय इति, इतियोजनाप्राणो [इदमिति - क्। ष्। ष्।] हि अयमर्थः, योजना च विकल्प -
तं शब्दम् - वृद्धेनोच्चारितं घटानयननयनवाचकं शब्दम्, शृणोति । बहुवारं श्रवणानन्तरं सङ्केतग्रहणसम्भवमपेक्ष्य परम्परया इत्युक्तम् । ततः - तदनन्तरम् । तमर्थम् - व्यवहारविषयं घटरूपमर्थम्, पुरः पश्यति तत्रैव स्थितत्वात्, पुनस्तद्विविक्तं भूतलम् - घटरहितं तं भूप्रदेशम्, पश्यति, मध्यमवृद्धेनानयतिशब्दश्रवणे अन्यदेशं प्रत्यानीतत्वात् नयेति शब्दव्यवहारे तु अन्यत्र नीतत्वात्, न तु तत्र तस्य कोऽपि शृङ्गग्राहिकया शब्दार्थयोर्योजनां कृत्वा दर्शयति अस्यायमर्थः इति इति भावः । इति - अतः कारणात्, व्यवहारात् - वृद्धेनोच्चार्यमाणशब्दवाच्यात् मध्यमवृद्धेन क्रियमाणादानयननयनव्यवहारात् । अस्य - तटस्थस्य, बालस्येति शेषः । इति - एतद्वस्तु, हृदि कथं परिस्फुरेत् । इति किमिति ? अस्य शब्दस्यायमर्थो भवति इति । अस्य इत्यस्य काकाक्षिवदुभयत्र योजना ।
अथवा अयमर्थः इत्यनेनैवास्यायमर्थ इति ज्ञायते । कुतो न परिस्फुरेदित्यत आह योजना इति । हि - यस्मात्, अयमर्थः - अस्यायमर्थः इत्येतद्वस्तु, इतियोजना - एवंरूपं योजनं प्राणो यस्य तादृशो भवति । इति किमिति ? इदम् - वस्तु घट इति - घटशब्दवाच्यं भवति, इदम् - वस्तु, आनयेति - आनयशब्दवाच्यं भवति, इदम् - वस्तु, नयेति - नयेतिशब्दवाच्यं भवति । तत्र प्रथमं घटमानयेति श्रुतेऽखण्डो वाक्यार्थ एव ज्ञायते, न तु प्रतिपदम् अर्थतः। पुनः प्रसङ्गेन घटं नयेति श्रुते घटशब्दस्यान्वयेन नयशब्दस्य व्यतिरेकेण च ज्ञायते घटपदस्यायमर्थः, आनय -
व्यापारः । अथ बालस्य प्राग्जन्मानुभूतसङ्केतस्मृतेः एवम्, तथापि सङ्केतकाले
शब्दस्यायं नयशब्दस्यायमिति आनयनयेत्युक्तम्, अन्यथा प्रतिपदमर्थज्ञानं कदापि न सम्भवेत् । ननु योजनाप्यत्रास्त्येवेत्यत आह योजना च इति । विकल्पव्यापारः इति, अनुसन्धानात्मकत्वात् इति भावः ।
अनुसन्धानकारिविकल्पाभावे हि घटदर्शनसमये शब्दस्मृतिर्नास्ति, तस्यां चोत्पन्नायां तदतिक्रान्तमेवेति सङ्कल्प एव घटोऽपि जात इति किं कुत्र योजयेत् । शब्दस्मृतिरपि तस्य दुरुपपादैव । ननु कथं दुरुपपादा समनन्तरमेव हि शब्दः श्रुतः, मध्ये घटदर्शनमात्रमेव सम्पन्नम्, इति घटदर्शने जाते तदुद्बुद्धेन संस्कारेण घटशब्दस्मृतिर्युक्तैवेति । सत्यम्, प्रथमं घटम, नयेति व्यवहारे तस्याखण्डवाक्यार्थप्रतीतिरेव, घटं नयेति व्यवहारे तु प्रतिपदमर्थो ज्ञायते, तत्र च पुरातनस्य घटशब्दस्यैव स्वार्थेन सह स्मृत्या योजना क्रियते एव । किन्त्वखण्डवाक्यार्थे या खण्डशब्दयोजना क्रियते अस्य वाक्यस्यायमर्थ इति, तत्र या शब्दस्मृतिः सैवास्माभिर्दुरुपपादत्वेनोक्ता । ननु सापि न दुरुपपादा मध्यमवृद्धव्यवहारदर्शनमात्रस्याखण्डवाक्यानुभूतेर्व्यवधा नात्, अनुभूतेश्च मध्यमवृद्धव्यवहारे तत्कृतसंस्कारोद्वोधात् अखण्डवाक्यस्मृतिरयत्नमेव जायते । सत्यम्, सा स्मृता - खण्डपदपङ्क्तिरखण्डे वाक्यार्थे येन स्मृतेन शब्दराशिरूपेण परामर्शेन योज्यते, अस्यायमर्थ इति तत्स्मृतिः कथं सिद्ध्यति ? न हि तदनुभवस्तस्याद्यतावज्जातः, तदभावे च तस्या दुरुपपादत्वमेवेति सा स्मृतिः तस्य बलस्य चैतन्ये स्वरूपतया स्थितैव युक्ता, परमार्थविचारे तु तस्याः स्मृतेरस्यायमर्थ इत्यपि रूपं न भवत्येव, अस्य पदत्रयस्य संस्कृतभाषापेक्षया सामान्यत्वेऽपि देशादिभाषापेक्षया विशेषत्वम् इत्यङ्गुल्यादिनिर्देशप्रख्यत्वमुक्तम्, अङ्गुलिनिर्देशोऽपि विचार्यमाणो विशेष एव, अत एव प्रख्य इत्युक्तम् । अत आन्तरः कोऽप्यसौ चैतन्यशक्तिरूपः परामर्शः, येन बालः प्रथम स्वयमेव योजनां करोति, सा शक्तिश्च पश्वादिष्वपि वर्तत एव, गवादयोपि हि अङ्गुल्यादिनिर्देशेन वस्तु जानन्त्येव । तदुक्तम् :-
बालास्तिर्यक्प्रमातारो ये “प्यसङ्केतभागिनः ।
तेऽप्यकृत्रिमसंस्कारसारामेनां हि संविदम् ॥
भिन्नभिन्नामुपाश्रित्य यान्ति चित्रां प्रमातृताम् ।
स शब्दो विषयत्वेन इदम्भावेन प्रत्यवमृश्यमानत्वात् [अप्रत्यवमृश्यमानत्वात् - क्। ष्। ष्।] भेदात् प्रच्युत्य
इति । पाषाणादिष्वपि तस्याः स्थितिरनिवार्यैव, शक्तियुक्तचैतन्ययुक्तत्वात्, अन्यथा वृद्ध्याद्यसम्भवात् । अत्र तरूणां चैतन्ये स्वकीयं केशादि, पाषाणानां चैतन्ये स्वकीयमस्थिजातं साक्षितया स्थितमित्यलमनिर्वाच्येषु वस्तुषु हेतुपर्येषणाभिः । अत एव च सर्वेषां जडाजडानां भावानां भगवत्स्तुतिपरत्वं यत् कथयन्ति तद्युक्तमेव परामर्शमात्रस्य स्तुतित्वात् । परामर्शस्य चैतन्यद्वारेण सर्वत्रगतत्वेन साधनात् । चैतन्यस्य च सर्वगतत्वं सन्मात्रभावेन सर्वसत्तादायकत्वेन चिन्मात्रताद्वारेण सर्वज्ञापकत्वेन च द्विविधमेव, अन्यथा जगद्गतं भाववृन्दं किम्मयं केन ज्ञातं च भवेत् । ननु परामर्शमात्रेण कथं सर्वोत्कर्षपरामर्शरूपस्तुतिकारित्वं युक्तम् ? सत्यम्, सर्वोत्कर्षः - स्वातन्त्र्यम्, तच्चानन्यमुखप्रेक्षित्वं तदेव चाहम्परामर्शस्य साधितम् स एव सर्वत्र जडाजडेषु सारतया स्थित इति सर्वे एव भगवत्स्वरूपा एवेति कः कं रतूयादित्यलं मूढसम्बोधनार्थ कल्पितेषु प्रपञ्चेषु सूक्ष्मेक्षिकाभिः ।
प्रकृतमनुसरामः । अत्र शिष्यः प्रश्नं करोति अथ इति । प्राग्जन्मनि - पूर्वजन्मनि, अनुभूतो यः सङ्केतः - अस्यायमर्थ इत्येवंरूपस्तस्य स्मृतेः, एवम्, योजनं भवतीत्यर्थः । ननु प्राग्जन्मैव किमुच्यते ? शृणु, प्रथमं तावदयं यत उत्थितस्तदेवास्य प्राग्जन्म तत्र च सव शक्तितया स्ह्तितमिति यदनेन स्वतन्त्र्यतया नीतं तदस्य प्राग्जन्मकालीनमुच्यते, तदेव स्मरति इति कथ्यते । यदि तु नाऽत्र त्वद्बुद्धिः समर्था तर्हि पिता पुत्रस्य प्राग्जन्मेति जानीहि । तत एव च यद्रेतसा सहास्यागतम्, तदेव चास्य प्राग्जन्मकालीनं तदेव च स्मरतीति कथ्यते नवीनं जन्म च पुत्र एव । यदि चात्रापि त्वद्बुद्धिर्न व्यापृता तर्हि स्मृतिशास्त्रेषु यस्मात्पूर्वजन्मनोऽयमागतस्तदेवास्य पाग्जन्म, तत्रैव च यद्यदनेन कृतं तदेव अदृष्टवशात् अयमिह स्मरति, नवीनं च यत्र पुनर्येन भावेन जन्म प्राप्स्यतीति । अत्रोत्तरमाह तथापि इति । सङ्केतकाले - प्राग्जन्मनि स्थिते सङ्केतसमये, स शब्दः - अद्य योजनाहेतुत्वेन स्थितः परामर्शरूपः शब्दः । इदम्भावेन - इदन्तया, अयं शब्दोऽस्यार्थस्य वाचकः इत्येवम् । विषय वेन - विषयभावेन, प्रत्यवमृश्यमानत्वात् - प्रमात्रापरामर्श -
निर्भासमानो विज्ञानशरीरे [विज्ञानशरीरविश्रान्तीकृतः - क्। ष्। ष्।] विश्रान्तः सन् वाचक इति भवति, तद् विज्ञानस्य स्वरूपं चेत् भाति तत् अभिलापमयमेव इति, यथा विषयस्य सुखरूपत्वाभावेऽपि ज्ञानं सुखात्मकं तथा मा भूत अभिलापात्मा रूपादिः विषयः, तथापि विज्ञानं तदात्मकं अवभासिष्यते । अत्र तु दर्शने
विषयीकृतत्वेन, सम्पादितात् भेदात् प्रच्युत्य - परप्रमातुः शून्यप्रमातुश्च विच्छिन्नीभूय, निर्भासमानः - तस्मिन् काले भासमाः, विज्ञानशरीरे - बुद्धिप्रमातरि, विश्रान्तस्सन् वाचक इति भवति । परापश्यन्तीभावात् प्रच्युतो मध्यमाभावमागत्य बुद्धिप्रमातरि निरूढः शब्दो हि स्वार्थनियमितः सन् वाचक इति कथ्यते ।
ततोऽपि च्युतस्तु वैखरीभावमागतः प्राणदेहरूपप्रमातृद्वये विश्रान्तः तराम्, तद्विज्ञानस्य - वाचकविश्रान्तिस्थानभूतस्य बुद्धिप्रमातुः, स्वरूपं चेद् भाति - स्वप्रकाशत्वेन स्फुरति, तत् - तर्हि, अभिलापमयमेव - शब्दमयमेव, भाति, वाचकविश्रान्तिस्थानस्वभावत्वात् । तज्जन्मान्तरे बालस्याभिलापः स्वाभाविक एव सिद्ध इति भावः । इति शब्दः प्रमेयपरिसमाप्तौ । नन विषयोऽभिलापरूपो नास्तीति कथं विज्ञानं तन्मयतायुक्तं विषयानुगुणेनैव विज्ञानोत्थानात्, अन्यथा तस्यापि परप्रमातृत्वानपायात् इत्यत आह यथा इति । ज्ञानम् - विज्ञानम्, भाति - स्फुरति, विषयकृततात्कालिकनैरपेक्ष्यवशेन स्वरूपभूतसुखाविर्भावात् । तथा - तद्वत्, तदात्मकम् - स्वात्मविश्रान्ताभिलापमयम् ।
अवभासिष्यते - स्वप्रकाशत्वेन स्वयं स्वं प्रति भासनविषयीभविष्यति, कर्मकर्तरि ऌडुपरि ते आदेशः । अस्मद्दर्शने तु विषयोऽप्यभिलापमय एव इत्याह अत्र तु दर्शने इति । अत्र दर्शने, श्रीशैवनये इत्यर्थः । तदुक्तम् :-
अनादिनिधनं बह्म शब्दतत्त्वं यदक्षरम् ।
विवर्ततेर्थभावेन प्रक्रिया जगतो यतः ॥
विषयस्यापि विमर्शमयत्वात् अभिलापमयत्वमेव वस्तुतः, स्तैमित्याद्यवस्थापि यदि न परामर्शमयी तर्हि अस्यां विकल्पात्मकप्रमातृव्यापारानुल्लासात् सम्भवः शपथपरमार्थ एव, स्मरणं च न स्यात्, रूपविषयाध्यवसायी हि यदि विकल्प उदियात् किमन्यत्, सर्वचिन्तासंहरणेन स्तैमित्यं नाम न स्यात्, इति तत्रापि अस्ति अन्तः परामर्शः, सकलेन च शब्दग्रामेण शब्दनं हि सहन्ते वस्तूनि, तत्र च नियतशब्दयोजनं क्रियते । तथा हि - बालस्य पुरः [पुरतः पिण्डे - क्। ष्। ष्।] पिण्डे सहजो यः परामर्शः, अहम् इत्यविच्छेदेन इदम् इति विच्छेदेन
इति । ननु यदि सर्वमभिलापमयमेव तर्हि कथं स्तैमित्यं नाम सम्भवति इत्यत आह स्तैमित्य इति । विकल्पात्मकः - विकल्परूपः यः प्रमाता - बुद्धिप्रमाता तस्य यो व्यापारः - ग्रहणरूपः तस्यानुल्लासात् ।
शपथपरमार्थः, शपथेनैव यदि कश्चित्तत्सत्त्वमङ्गीकरोति तर्हि तं प्रत्यस्ति, अन्यथा तत्सत्तामेव कोऽपि नाङ्गीकरोति, साक्ष्यभावात्, साक्षी च विज्ञानमयः स्वात्मैवेति भावः । स्मरणं च - स्तैमित्यादुत्थितस्य उत्तरकालीनम् स्तैमित्यं ममासीत् इत्येवंरूपा स्मृतिः । ननु यद्येवं तर्हि तत्राप्यध्यवसायः स्फुट एव भवतु इत्यत आह रूप इति । रूपविषय अध्यवसायः - परामर्शोऽस्यास्तीति रूपविषयाध्यवसायी, स्तैमित्ये इति शेषः, यदि उदियात्, तर्हीति शेषः । किमन्यत् - अत्राङ्गीकृतादस्मादध्यवसायाद् भिन्नम्, सर्वचिन्तासंहरणेन स्तैमित्यं नाम - सर्वचिन्तासंहरणरूपं स्तैमित्याख्यं वस्तु किं स्यात्, स्तैमित्याध्यवसायस्यैव स्तैमित्यसिद्धिहेतुत्वान्न किमपि स्यादित्यर्थः । फलितमाह इति इति । इति - अतः कारणात् । तत्रापि - स्तैमित्येऽपि, अन्तः परामर्शः अस्ति । एतेनायातं सर्वशब्दानां सर्वार्थविषयत्वं कथयति सकलेन इति । शब्दनम् - कथनम्, वाचकतया संयोजनम् । अत्र समर्थनं करोति तथा हि इति । पुरः पिण्डे - अग्रगते गवादिपिण्डे । सहजः
- स्वाभाविकः, न तु इहानुभूतशब्दसंस्काररूपः, परामर्शः - प्रथमव्यवहारयोजनानिमित्तभूतः, वाशब्दद्वयमुभयत्रविकल्पप्रधानताद्योतनार्थम् । तत्पृष्ठे - अविच्छदपरामर्शस्य
वा तत्पृष्ठे एव गौर इति गौः इति वा शब्द आरोप्यते, सोऽपि अभ्यासात् प्रमातृमयो [प्रमातृमयीभवति - क्। ष्। ष्।] भवति, तत्पृष्ठे च अन्यः शुक्ल इति, अन्यत् बलीवर्द इति, [अन्यः शुक्ल इति, बलीवर्द इति एवमन्यत् इति सङ्केततत्त्वम् - क्। ष्। ष्] इत्येवं सङ्केततत्त्वम् । तस्मात् अस्ति साक्षात्कारे प्रत्यवमर्शः ।
अपिशब्दस्य अयमाशयः । इह साक्षात्कारो वस्तुतः पश्यामि इत्येवम्भूतविकल्पनव्यापारपर्यन्त एव । विकल्पो हि प्रत्यक्षस्य व्यापार इति परोऽपि मन्यते । न च व्यापारः तद्वतो भिन्नो युक्तः, तत्स्वरूपभूतो हि सः । भवतु वा
विच्छेदपरामर्शस्य वा पृष्ठे, गौर इति देशभाषाशब्दोपलक्षणम्, गौः इति नानाविधशास्त्रभाषाशब्दोपलक्षणम् । आरोप्यते इति, शुक्तिकायां रजतमिवारोपविषयतां नीयते, परमार्थतस्तु काकवाशितादिरूपस्यान्तरपरामर्शस्यैव स्थितत्वात् तस्यैव च वर्णविशेषैः उपरागीकरणात् । सोऽपि - स शब्दोऽपि, प्रमातृमयः - विज्ञानशरीराविष्टः । तत्पृष्ठ च - प्रोक्तशब्दद्वयपृष्ठे च, अन्यः शुक्लः इत्यारोप्यते, अन्यत् बलोवर्दः इत्येवमारोप्यते, इत्येवं सङ्केततत्त्वं भवति, न तु कोऽपि शब्दः कुत्रापि नियतो वर्तते, तत्त्वे हि सर्वा भाषा एकरूपा एव भवेयुरिति भावः । विमर्श इत्यन्तं व्याख्यातस्य श्लोकखण्डस्य वाच्यमुपसंहरति तस्मात् इति ।
एतद्वाक्यगतस्य अपि शब्दस्याभिप्रायमाह अपिशब्दस्य इति ।
साक्षात्कारः - प्रत्यक्षीकरणम् । कुतो विकल्पव्यापारपर्यन्त इत्यत आह विकल्पो हि इति । प्रत्यक्षस्य - प्रत्यक्षप्रमाणस्य । तदुक्तम् :-
प्रत्यक्षं द्विविधं सविकल्पकं निर्विकल्पकं च
इति । परोऽपि - तार्किकोऽपि न तु बौद्धः, तन्मते विकल्पस्याप्रत्यक्षरूपत्वात् ।
ननु ततः किम् इत्यत आह न च इति । तद्वतः - व्यापारवतः । कुतो न भिन्न इत्यत आह तत् इति । ततश्च स्फुटमेव साक्षात्कारस्य विमर्शमयत्वमेवेति भावः । एतत्तु वाक्यदृष्ट्या साधनम् । अत्र बौद्धमतमुत्थापयति
क्षणमात्रस्वभावः साक्षात्कारः, तत्रापि अस्ति विमर्शः । अवश्यं चैतत् ।
कथम् अन्यथा इति । यदि स न स्यात् तत् एकाभिसन्धानेन जवात् गच्छन्, त्वरितं च वर्णान् पठन्, द्रुतं च मन्त्रपुस्तकं वाचयन्, न अभिमतमेव गच्छेत्, उच्चारयेत्, वाचयेत् वा । तथा हि - तस्मिन् देशे ज्ञानम् - आचिक्रमिषा
- आक्रमणम् - आक्रान्तताज्ञानम् - प्रयोजनान्तरानुसन्धानम् - तित्यक्षा देशान्तरानुसन्धिः, तत्रापि आचिक्रमिषा इत्यादिनां योजनवियोजनरूपेण [संयोजनवियोजनरूपेण - क्। ष्। ष्।] प्रत्यवमर्शेन [परामर्शेन विना - क्।
ष्। ष्।] विनाभिमतदेशावाप्तिः कथं भवेत् । एवं त्वरितोद्ग्रहणवाचनादौ
भवतु वा इति । क्षणमात्रस्वभावः - विकल्पारूषितैकक्षणस्वरूपः, बौद्धमते सर्वस्य क्षणिकत्वात् । अत्रापि विमर्शस्य सत्त्वं साधयति तत्रापि इति । तत्रापि - क्षणमात्रस्वभावे साक्षात्कारेऽपि ।
तेषामत्रानङ्गीकारमाशङ्क्याह - अवश्यम् इति । कथमित्यपेक्षाया कथमन्यथा इत्यादिश्लोकशेषमुत्तरतया व्याचष्टे कथम् अन्यथा इति ।
कथमन्यथा इति पदद्वयं व्याचष्टे यदि इति । सः - विमर्शः ।
प्रतिसन्धान इति पदं व्याचष्टे तत् इति । तत् - तदा, एकाभिसन्धानेन - धावनं करोमीत्यादिप्रथमपरामर्शरूपेणानुसन्धानेन, अभिमतम्
- इष्टगन्तव्यदेशाद्येव । अत्र समर्थनं कर्तुमारभते तथा हि इति ।
तस्मिन्देशे - प्रथमं धावनविषयीकृते देशे । ज्ञानम् - इतो देशाद्धावनं करोमीति, तत आचिक्रमिषा - आक्रान्तुमिच्छा, तत आक्रमणम् - तद्देशाक्रान्तिः, ततः तित्यक्षा - तस्य देशस्य त्यक्तुमिच्छा, ततो देशान्तरानुसन्धिः - द्वितीयपदाश्रयभूतस्य देशस्य मनस्यभिसन्धानम्, तत्राचिक्रमिषा, आदिशब्देनाक्रमणादेः देशान्तराभिसन्धानादेश्च ग्रहणम् । इत्यादिना - इत्येवंरूपेण, योजनवियोजनरूपेण परामर्शेन - अस्फुटेनावश्याङ्गी - कर्तव्येन च, प्रत्यवमर्शेन विनाभिमतदेशाप्तिः कथं भवेत्, प्रतिपदमेतावतः
मन्तव्यम् । तत्र विशेषतः स्थानकरणाक्रमणादियोगः । अत्र च यतः
ज्ञानेच्छाऽऽक्रान्त्यादिजालस्य सम्भव एव तत्सम्भवात् न स्यादित्यर्थः । येन रूपेण च तस्य ज्ञानादि तत्र स्थितं तदेव सहजोहम्परामर्श इति तत्रावधानपरेणैव भाव्यम् । तदुक्तम् :-
धावन् वा यत्पदं गच्छेत् तत्र स्पन्दः प्रतिष्ठितः ।
इति । न चात्राप्यसम्भवो ज्ञानादेर्वाच्यः, पदद्वयमध्यप्रदेशरूपस्य सर्वमयस्य मध्यपदस्यात्र स्थितत्वात्, मध्यपदं च ज्ञानाज्ज्ञानान्तरगमने स्फुटतरमेव प्रबुद्धानाम्, सुप्रबुद्धानां सर्वदा सर्वं तन्मयमेव, अप्रबुद्धानां त्वत्राधिकार एव नास्ति । तदुक्तम् :-
एकचिन्ताप्रसक्तस्य यतः स्यादपरोदयः ।
उन्मेषः स तु विज्ञेयः स्वयं तदुपलक्षयेत् ॥
इति ।
श्रीवसिष्ठेनापि एतदेव मनसि कृत्वा
देशाद्देशान्तरं दूरं गतायाः संविदः क्षणात् ।
यद्रूपममलं मध्ये तद्रूपं परमात्मनः ॥
इत्युक्तम् । अत्रैव स्थितिं कुर्वतामणिमादिकमैश्वर्यं विघ्नत्वेनाविर्भवति । तदुक्तम् :-
अतो बिन्दुरतो नादो रूपमस्मादतो रसः ।
प्रवर्तन्तेऽचिरेणैव क्षोभकत्वेन देहिनः ॥
इति । देहिन इत्यनेनैतत् सूचितम् - प्रथमं यथातथाभूतादेवोत्थाय [प्रथमं यथा तयादेवोत्थाय - च्।] गन्तव्यम् अन्यथा मध्यधामाभ्यासिनोऽपि मध्ये क्षोभा आयान्त्येवेत्यलम् ।
आदिशब्दगृहीते तद्ग्रहणवाचनादौ चामुं न्यायम् अतिदिशति एवम् इति ।
आदिशब्देन त्वरितं क्रियमाणस्य सर्वस्य क्रियाजातस्य ग्रहणम् । तत्रापि विमर्शस्फूर्तिरस्तीति भावः । तदुक्तम् :-
अयमुच्चारयन् वाक्यं वर्णाद्वर्णं कथं व्रजेत् ।
यावन्न मध्ये विश्रान्तस्त्वयि शुद्धचिदात्मनि ॥
पश्चाद्भाविस्थूलविकल्पकल्पना न संवेद्यते, तत एव त्वरितत्वम् इति सूक्ष्मेण प्रत्यवमर्शेन संवर्तितशब्दभावनामयेन भाव्यमेव ।
संवर्तिता हि शब्दभावना प्रसारणेन विवर्त्यमाना स्थूलो विकल्पः, यथा इदमित्यस्य प्रसारणा घटः शुक्ल इत्यादिः, तस्यापि पृथुबुध्नोदराकारः शुक्लत्वजातियुक्तगुणसमवायी इत्यादिः । धावु गतिशुद्धौ इति पाठात् धाविस्त्वरितगतौ स्वशक्तिवशात् वर्तत इति ॥ १९ ॥
भवतु एवं सूक्ष्मो विमर्शः प्रकाशशरीरावेशी, यत्र तु स्थूलत्वेन
इति । शुद्धाहम्परामर्शयुक्त एव शुद्धचिदात्मेति नान्यथा शङ्क्यम् ।
नन्वेतत्कथमित्यपेक्षायामाह तत्र इति । तत्र - त्वरितोद्ग्रहणादौ ।
स्थानानाम् - कण्ठादीनाम्, करणानाम् - स्पृष्टत्वादिरूपाणाम् । अत्र - त्वरितोद्ग्रहणादिसमये, च भाविनी - ततो विश्रम्य स्फुरणशीला, न संवेद्यते - नानुभूयते । इति - अतः कारणात्, संवर्तितशब्दभावनामयेन - अतिसङ्कुचितशब्दपरामर्शरूपेण, भाव्यमेव, अन्यथा एकवर्णोच्चारानन्तरं द्वितीयवर्णज्ञानाद्यसम्भवे द्वितीयवर्ण - पठनमयुक्तमेव स्यादिति भावः । संवर्तिता - प्रथमं त्वरितपठनरीत्या सङ्कुचिता, शब्दभावना - वर्णद्वयमध्यगता तत्संयोजनहेतुप्रत्यवमर्शरूपा, विवर्त्यमाना - स्फुटतां नीता सती, स्थूलो विकल्पो भवतीति योजना ।
अत्रोदाहरणमाह यथा इति । आदिशब्देन क्रियादेर्ग्रहणम् । तस्य - घटः शुक्ल इत्यादेः । तत्र घट इत्यस्य प्रसारणमाह पृथु इति । शुक्ल इत्यस्य प्रसारणा शुक्लत्व इति । ननु कथं धावतेस्त्वरितगतिवाचकत्वम् इत्यत आह धावु गति इति । स्वशक्तिवशात् - स्वशक्तिवशेन । धातूनां हि उपसर्गैर्विनापि स्वशक्त्यैव नानार्थत्वम्, यथा यौतेः मिश्रणामिश्रणार्थत्वमिति भावुः । धावु गतिशुद्ध्योः इति प्रशस्तः पाठः । इति शब्दः श्लोकव्याख्यासमाप्तौ ॥ १९ ॥
अथ विंशस्य श्लोकस्यावतरणिकां करोति भवत्वेवम् इति ।
अत्र टीका :-
एवम् - त्वदुक्तप्रकारेण, सूक्ष्मः - शुद्धाहम्मात्रस्वरूपः, प्रकाशशरीरावेशो -
विकल्परूपता स्फुटा, तत्र शब्दो नीलादिवत् एव पृथक् प्रतिभासते - नीलम् इदम् इति, स कथं प्रकाशस्वरूपात् अपृथग्भूतः स्यात्, शब्दात्मा च विमर्शः, स च अत्र मायात्मके भेदपदेऽपि प्रकाशापृथग्भूतो भवद्भिः इष्टः, तत् एतत् कथं प्रतिपत्तव्यम् इत्याशङ्क्याह :-
घटोऽयमित्यध्यवसा नामरूपातिरेकिणी ।
परेशश्क्तिरात्मेव भासते न त्विदन्तया ॥ २० ॥
केन एतत् उक्तम् घट इति यः स्थूलः शब्दः स प्रकाशजीवित स्वभावो विमर्श इति । सोऽपि हि स्थूलः शब्दोऽर्थवत् पृथग्भूत एव भाति । तौ नामरूपलक्षणौ शब्दार्थौ एकरूपतया सोऽयम् इत्येवंरूपत्वेन परामृशशन्ती अध्यवसा [अध्यवसायशक्तिः - क्। ष्। ष्।] या सा परमेश्वरशक्तिः विमर्शरूपा आत्मव -
प्रकाशस्वरूपाविष्टः, प्रकाशस्य तं विना स्वरूपानुद्भूतेः, यत्र तु
- यस्मिन्नीलादौ, कथं प्रतिभासते इत्यत आह नीलम् इति, सः - विकल्परूपः शब्दः, अत्र पुरःस्थितः [परः स्थितः - च्।] अपि शब्दो भिन्नक्रमः, तथा च भवद्भिरपीष्ट इति योजना । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । घटोयम् इति ।
अत्र टीका :-
श्लोकं व्याख्यातुं प्रक्रियां तनोति केनैतत् इति । पुनः किमुक्तमस्तीत्यपेक्षायामाह सोऽपि इति । पुनः कस्य प्रकाशजीवितत्वमित्यत आह - तौ इति । तौ - प्रसिद्धौ, नामरूपौ - घट इति नामेदमिति रूपम् लक्षणम् - स्वरूपं ययोस्तौ, शब्दार्थौ । एकरूपतया स्वयमेवास्य पदस्य व्याख्यां करोति सोऽयम् इत्येवम् इति । परामृशन्ती - शब्दार्थैकीकरणरूपया प्रत्यभिज्ञया परामर्शविषयतां नयन्ती, अत एव ताभ्यामतिरेकेण युक्तेति भावः । अध्यवसा - बुद्धिव्यापाररूपमध्यवसानम्, या भवति सा न तु घट इति स्थूलः शब्दः, परमेश्वर
देव अहमित्यनवच्छिन्नत्वेन भाति, न तु कदाचित् इदन्तया विच्छिन्नत्वेन भाति विच्छिन्नत्वेन अवभासे परप्रतिष्ठत्वात् पुनर्विमर्शान्तरेण भाव्यम्, तत्रापि एवम् इति अनवस्थातो [अनवस्था अतः - क्। ष्। ष्।] नीलस्य प्रकाशनमेव न स्यात् प्रतिष्ठालाभाभावात् । तस्मात् सर्व एव विमर्शः प्रकाशात् अविच्छिन्न एव इति । अध्यवसा इति, आतश्चोपसर्गे (पा। व्या। ३ - ३ - १६ ) इत्यङन्तः स्त्रियाम् ॥ २० ॥
शक्तिः विमर्शरूप - नामरूपोपरागेपि परमार्थतोहमित्येव विमर्शरूपा सती । आत्मवदेव - प्रकाशवदेव, अहमित्यनवच्छिन्नत्वेन भाति, तत्स्वभावभूतत्वात्, उपरागस्य तु अकिञ्चित्करत्वादिति भावः । ननु कुतो न इदन्तया भाति इयं घटाध्यवसा इति भिन्नत्वेन भानादित्यत आह इदन्तया इति । परप्रतिष्ठत्वात् स्वात्मविश्रान्त्यभावेन विषयनिष्ठतया ग्रहणात्, पुनः विमर्शान्तरेण - स्वात्मारोहार्थं कृतेनान्येन विमर्शेन, भाव्यम्, विमर्श विना स्वात्मारोहाभावात्, स्वात्मारोहं विना च सम्पन्नाप्यध्यवसाऽसत्कल्पैवेति भावः । ननु भवतु विमर्शान्तरमपि ततः किम् इत्यत आह तत्रापि इति । तत्रापि - तस्मिन्विमर्शान्तरेऽपि, एवम्, विमर्शान्तरेण भाव्यमित्यर्थः, समानन्यायत्वादिति भावः । इति - एवम्, अनवस्थातः - अनवस्थादोषप्रसङ्गात्, नीलस्य प्रकाशनमेव न स्यात्, प्रमातुरध्यवसानग्रहणमात्र एव क्षीणत्वादिति भावः । फलितं स्वाभीष्टं सिद्धत्वेन कथयति तस्मात् इति । सर्व एव - अहंस्वरूपः नीलादिरूपश्च सामान्यविशेषस्पन्दात्मकः । इति शब्दो व्याख्यासमाप्तौ ।
अध्यवसा इति पदं व्युत्पादयति अध्यवसा इति । अङ इति, भावे विहितः इत्यर्थः, स्त्रियां टाबन्तत्वात् स्त्रीलिङ्ग इत्यर्थः । अध्यवसेति उपसर्गद्वयपूर्वस्य षो अन्तकर्मणि इत्यस्येदं रूपम्, आदे च इति ओकारस्याकारः ॥ २० ॥
ननु एवं सर्वस्यैव ज्ञानकलापस्य अहमित्येव प्रतिष्ठाने वेद्यभूमिस्पर्शो नास्ति वेद्यभुवि च देशकालयोगः न तु वेदकांशे, देशकालयोगाभावे च यत् इदं ज्ञानानां देशापेक्षया प्रमात्राद्यंशापेक्षया [स्वांशापेक्षया ज्ञानान्तरापेक्षया - क्। ष्।
ष्।] च सक्रमत्वं लक्ष्यते तत् कथं स्यात्, क्रमाभावे च एकत्वमेव वस्तुतो भवेत्, ततश्च ज्ञानस्मृत्यादिभिस्तद्वान् [ज्ञानस्मृत्यादिशक्तिभिस्तद्वान् - क्। ष्। ष्।] परमेश्वरः इति यत् उक्तं तत् कथं निर्वहेत् इत्याशङ्कां शमयन् पूर्वोक्तमुपसंहरति :-
केवलं भिन्नसंवेद्यदेशकालानुरोधतः ।
ज्ञानस्मृत्यवसायादि सक्रमं प्रतिभासते ॥ २१ ॥
अथैकविंशस्य श्लोकस्यावतरणिकां करोति ननु एवम् इति ।
अत्र टीका :-
एवम्, समनन्तरोक्ते प्रकारे सतीत्यर्थः, प्रतिष्ठाने - स्थितौ सत्याम्, कुतो नास्तीत्यत आह वेद्य इति । च शब्दो हि शब्दार्थे, मास्तु देशकालस्पर्शस्ततः किम् इत्यत आह देश इति । दोशापेक्षया प्रमात्राद्यंशापेक्षया कथं स्यात्, कालस्यैव क्रमहेतुत्वान्न स्यादित्यर्थः । ननु तदपि मास्तु इत्यत आह क्रम इति । नन्वेकत्वमेव भवतु ततोऽपि किम् इत्यत आह ततश्च इति । ततश्च - एकत्वे च सतीत्यर्थः ।
ज्ञानस्मृत्यादिभिः तद्वान् - ज्ञानस्मृत्यपोहनशक्तिमान् । उक्तम् इति, न चेदन्तःकृतेति श्लोके इत्यर्थः । निर्वहेत् - सिद्धिं गच्छेत् । उपसंहरति, सङ्कलय्यकत्र कथयतीत्यर्थः । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । केवलम् इति ।
सत्यम् एवम् अक्रममेव संवित्तत्वम्, किन्तु स्वशक्तिवशात् भिन्नत्वेन भासितानि यानि वेद्यानि तेषां मूर्तिभेदकृतो यो दूरादूरवैतत्यावैतत्यादिः देशः, क्रियाभेदकृतश्च [क्रियाभेदकृतश्च चिरशीघ्रक्रमादिरूपः कालः - क्। ष्। ष्।] यः चिरशीघ्रकर्मादिरूपः कालः, तौ अनुरुध्य छायामात्रेण अवलम्ब्य, ज्ञानस्मरणाध्यवसायानां स्वांशा इव भान्ति निरंशानामपि, तद्भासमानांशकृतश्च सक्रमत्वावभासः परस्परापेक्षया स्वांशापेक्षया च, यद्यपि कालक्रम एव स्फुटो विज्ञानेषु भाति न देशक्रमः,
अत्र टीका :-
केवलम् इति पदं व्याचष्टे सत्यम् इत्यादिना किन्तु इत्यन्तेन । स्वशक्तिवशात् इत्यस्योपयोगित्वेनाध्याहारः । भिन्नसंवेद्य इत्यादेस्समस्तपदस्य विग्रहं व्याख्यां च कतोति भिन्नत्वेन इति । संवेद्य पदं व्याचष्टे वेद्यानि इति । वेद्यानि - नीलादयो विषयाः, तेषां यः मुर्तिभेदः - स्वरूपभेदः - तेन कृतः यो देशः, देशो हि वस्तुस्वरूपभेदमात्रमेव ।
किंरूपो देश इत्यपेक्षायां तद्विशेषणमाह दूर इति । तथा यः क्रियाभेदः - चेष्टाभेदस्तेन कृतः यः कालः, कीदृशः कालः इत्यत आह चिर इति । तौ - देशकालौ । अनुरोधतः इत्यस्यार्थमाह छाया इति ।
छायामात्रेण - भासमात्रेण, न तु परमार्थतः, अवलम्ब्य, आश्रित्येत्यर्थः, एतेन ल्यब्लोपेऽयं तसिलिति सूचितम् । पूर्वार्धं व्याख्यायोत्तरार्धं व्याचष्टे ज्ञान इति । आदि शब्देन ज्ञानाद्यंशानां ग्रहणम् । कथमादिशब्दगृहीता अंशाः सम्भवन्ति इत्यत आह स्वांशा इति । निरंशानामपि सतां स्वांशा इव भान्ति, उपाधिवशेनाकाशांशवदिति योजना । ते भासमानाश्च ते अंशास्तैः कृतः - तद्भासमानांशकृतः । सक्रमं प्रतिभासते इति व्याचष्टे सक्रम इति । तत्र क्रम [तत्र कृत इति पदेन - च्।] इति पदेन सूचनया तद्व्याख्या, अवभास इत्यनेन प्रतिपूर्वभासृधातुव्याख्या । नन
तथापि विमूढस्य पर्वतसंवेदनं विततमिव बदरसंवेदनं च सूक्ष्ममिव भाति इति देशक्रमोऽपि दर्शितः, तेन वेद्यगतक्रमस्वीकाराभासात् सक्रमत्वम् आभासमानमपि न अपारमार्थिकम् आभासमानस्य परमार्थत्वात्, ततश्च युक्तमुक्तम् ज्ञानादयोऽस्य भगवतः शक्तयः इति ।
मायाशक्त्या विभोः
इति श्लोकेन स्वरूपवैचित्र्यं ज्ञानानां दर्शितम् । अनेन तु देशकालवैचित्र्यम् इति विशेषः । इति शिवम् ॥ २१ ॥
इति श्रीमदाचार्याभिनवगुप्तविरचितायामीश्वरप्रत्यभिज्ञासूत्र - विमर्शिन्यां प्रथमए ज्ञानाधिकारे ज्ञानशक्तिनिरूपणं नाम पञ्चममाह्निकम् ॥
क्रमशब्दस्य सापेक्षशब्दत्वात् किमपेक्ष्य स क्रमः प्रतिभासते इत्यपेक्षायां सूत्रे कृतमप्येतन्निर्णयं करोति परस्पर इति । न हि ज्ञानादय एककाले एव सम्भवन्तीति भावः । न हि ज्ञानं युगपत् प्रादुर्भवति, अपि तु प्रमात्राद्यंशावलम्बक्रमेणैव, एवं स्मृत्याद्यपि । शिष्यशङ्कां मनसि कृत्वा निर्णयान्तरमपि करोति यद्यपि इति । अपि शब्दो देशक्रमदर्शनस्य स्तोकमयुक्ततां सूचयति । फलितमाह तेन इति ।
आभासमानस्य च पारमार्थिकत्वं प्रागिवार्थं इति श्लोकोक्तयुक्त्या ज्ञेयम् । एतदवष्टम्भेन पूर्वोक्तवस्तुनो युक्ततां साधयति ततश्च इति ।
मायाशक्त्या इति पूर्वश्लोकेन सहास्य पुनरुक्ततां निवारयति माया इति ।
अनेन - एतेन श्लोकेन, इति विशेषः - एवं भेदो भवति । इति शब्द आह्निकसमाप्तौ । शिवम् इति मङ्गलवाचकं परतत्त्वपरामर्शसूचकञ्चेति शिवम् ॥ २२ ॥
इति श्रीभास्करकण्ठविरचितायां श्रीप्रत्यभिज्ञासूत्रविमर्शिनीटीकायां श्रीभास्कर्याख्यायां ज्ञानाधिकारे पञ्चममाह्निकं समाप्तम् । शुभमस्तु सर्वजगताम् ।