अथ चतुर्थमाह्निकम् ।
पदार्थरत्ननिकरं निजहृद्गञ्जपुञ्जितम् ।
ग्रथ्नन्तं स्मृतिसूत्रान्तः सन्तत्यैव स्तुमः शिवम् ॥ १ ॥
एवं ज्ञानपूर्विका स्मृतिः, तदुभयानुग्राहिणी अपोहनशक्तिः - इति तावत् वस्तुसम्भवक्रमेण प्रदर्शितम् । उपक्रमानुसारेण स्मृतिरेव सूचितप्रसङ्गविपर्ययसमर्थनदृशा विवेच्या ।
अथ चतुर्थाह्निकम् ।
स्मृतिसूत्रोम्भितां कृत्वा भावमुक्तावलीं सिताम् ।
स्वान्तस्थितां तयात्मानं भूषयन्तं स्तुमः शिवम् ॥
अथ ज्ञानाधिकारे चतुर्थान्हिकव्याख्यामारभमाणो निर्विघ्नतत्समाप्तिकामनया समस्तान्हिकाभिप्रायसूचकं स्वेष्टदेवताप्रह्वीभावपरं मङ्गलश्लोकमुपनिबध्नाति पदार्थ इति ।
अत्र टीका :-
वयं तं शिवं स्तुमः, कीदृशम् ? पदार्था एव - बाह्यान्तरतया स्थिताः पदार्था एव, रत्ननिकरस्तम्, निजहृद्गजपुञ्जितम् - निजहृदयाख्यकोशपुञ्जीभूतं सन्तम्, स्मृतिसूत्रान्तः - स्मृत्याख्यसूत्रमध्ये, सन्तत्या - पङ्क्त्या, ग्रथ्नन्तम्, स्वरूपे तादात्म्येन लीनमपि सन्तं [सत्वम् - च्।] व्यवहारार्थं परिपाट्याऽनुसन्दधानमिति यावत् । अन्योपि कोशे राशिभावेन स्थितं रत्ननिकरं कण्ठादिभूषणार्थं सूत्रे ग्रथ्नाति इति ध्वनिः । यद्यपि पदार्थानां तत्त्वेनैव स्थितत्वात् पुँज्नीभावो वक्तुमयोग्य एव, तथाप्यौत्तरकालिकं निर्गमनमपेक्ष्यैवमुक्तम् । एतेन स्मृतिशक्तेरत्र निरूपणं करोतीति सूचितम् ।
एवं मङ्गलं सम्पाद्य समस्तव्यस्तत्वाभ्याम् आन्हिकस्य शिष्यप्रवृत्त्यर्थं तावदभिप्रायं कथयति एवम् इति ।
सत्यं किन्तु स्मृतिज्ञानम् … ।
इति हि उपक्रान्तम् । तत्र संस्कारमात्रात् तावत् मा नाम उदपादि स्मृतिः, इदं तु वक्तव्यं - तथाभूतभवदभ्युपगतभगवत्प्रभावोऽपि कथम् एनां कुर्यात् - इति शङ्कां शमयितुं स्मृतितत्त्वनिरूपणाय
“स हि पूर्वानुभूतार्थोपलब्धा…” इत्यादि
“…ऽर्थौ भातः प्रमातति ।”
इत्यन्तं श्लोकाष्टकम् । तत्र श्लोकेन स्वपक्षे स्मृतिरुपपन्ना - इति कथितम् ।
अत्र टीका:-
तदुभयानुग्राहिणी - विषयस्वरूपव्यवस्थापकत्वेन ज्ञानस्मृत्योरनुग्राहिणी, वस्तुनः - परमार्थस्य यः सम्भवः तस्य क्रमेण, एवमेव वस्तु सम्भवतीति क्रममाश्रित्येत्यर्थः ।
उपक्रमानुसारेण - प्रक्रियानुरोधेन, स्मृतिरेव, न तु ज्ञानपोहनं च ।
सूचितः, न तु साक्षात्कथितः यः प्रसङ्गः - न किञ्चिदपि भासेतेत्येवंरूपाऽनिष्टापत्तिः, तस्य यः विपर्ययः - भासते तु तस्मादेतद् अवश्यमङ्गीकर्तव्यमित्येवंरूपः, तस्य यत्समर्थनम् - दृढीकरणम्, तस्य दृशा - दृष्ट्या, लक्षणया मार्गेणेति यावत्, विवेच्या - अवश्यं विचारणीया । ननु तस्या विवेकः पूर्वान्हिक एव कृत इति किं विवेच्या इत्युक्तम् इत्यत आह सत्यम् इति । उपक्रान्तम् - पूर्वान्हिकारम्भे आरब्धम् । ततः किम् इत्यत आह तत्र इति । तत्र - तस्मिन् उपक्रान्ते सति, मा नाम उदपादि - मा उत्पद्यताम्, तत्र एतावन्मात्रस्य सूचनादिति भावः ।
किं तेन तवात्र निर्णयसिद्धिर्न सम्पन्ना इत्यत आह इदम् इति । किं वक्तव्यमित्यपेक्षायामाह तथाभूत इति । तथाभूतः - परमार्थभूतः, यो भवताऽभ्युपगतो भगवान् - ज्ञानादिशक्तित्रययुक्तः परमात्मा, तस्य प्रभावः - माहात्म्यम्, एनाम्
- स्मृतिम्, इति शङ्काम् - प्रश्नोत्तरपूर्वं स्थितां शिष्यशङ्काम् ।
श्लोकाष्टकम् भवतीति सम्बन्धः ।
सामस्त्येननाभिप्रायमुक्त्वा व्यस्तत्वेनापि कथयति तत्र इति । तत्र श्लोकाष्टकमध्ये इत्यर्थः । स्वलक्षणम् - अन्याननुयायिवस्तुरूपम् ।
अनुभवेन -
द्वितीयेन स्मृतेः पूर्वानुभवविषयीकृतस्वलक्षणप्रकाशनसामर्थ्यमुक्तम् । तृतीयेन अनुभवेन तद्विषयेण च एकीभावपर्यन्त आवेशः स्मरणस्य उक्तः ।
तुर्येण अनुभवस्य न विषयतया स्मृत्या प्रकाशनम् - इति निरूपितम् ।
पञ्चमेन योगिज्ञानमपि अनुभवं पृथग्भावेन न विषयीकरोति - इति वददा तुर्यश्लोकार्थ एव उपोद्वलितः । षष्ठेनाशङ्क्यमानम् अनुभवस्य स्मृत्या पृथग्विषयीकरणं काल्पनिकम् - इत्यवास्तवीकृतम् । सप्तमेन स्मृतिप्रसङ्गात् विकल्पेऽपि पूर्वानुभवेन ऐक्यात्मावेशो दर्शितः ।
अष्टमेन स्मर्तव्यस्य स्मृतेः स्मर्तुश्च एकचित्तत्त्वविश्रान्तिः उक्ता, प्रसङ्गाच्च दृश्यस्य दर्शनस्य द्रष्टुश्च - इति तात्पर्यार्थः । अथ क्रमेण श्लोकार्थ उच्यते ।
स हि पूर्वानुभूतार्थोपलब्धा परतोऽपि सन् ।
विमृशन्स इति स्वैरी स्मरतीत्यपदिश्यते ॥ १ ॥
“पूर्वमनुभूतस्य अर्थस्य” य “उपलब्धा” अन्तर्मुखो बोधः स तावत् अद्यापि “परतः” स्मृतिकालेऽपि अस्त्येव, संविन्मात्रस्वरूपस्य कालकृत -
पूर्वानुभवेन, तद्विषयेण - पूर्वानुभवविषयेण, एकीभावपर्यन्त आवेशः - एकीभावावसानः समावेशः । वर्णयता - कथयता आचार्येण, वदता इत्यपि पाठः । विकल्पेऽपि - सविकिल्पज्ञानेऽपि, ऐकात्म्येन - एकात्मतया, आवेशः - प्रवेशः । तात्पर्यार्थः - तात्पर्यभूतोऽर्थः ।
प्रथमश्लोकमुपन्यस्य व्याचष्टे । स हि इति ।
अत्र टीका :-
पूर्वम् - अनुभवकाले, उपलब्धा - ग्राहकः, अन्तर्मुखः - अहमिति स्थितः, बोधः - ज्ञानम्, न तु प्रमाणतया स्थितः इदमिति बहिर्मुखो बोधः । परतः इति व्याचष्टे स्मृति इति । अस्त्येव, न तु नास्ति तत्र अस्तित्वस्य साक्षिसिद्धत्वे व्याघातापातात् तदसिद्धत्वे तु असत्त्वापातात् । अत्र हेतुमाह संविन्मात्र इति ।
सङ्कोचरूपविशेषात्मकावच्छेदायोगात् [विशेषात्मकविच्छेद - क्। ष्। ष्।] ।
अनुभवस्य च अन्तः अर्थोऽपि अपृथग्भावेन अवस्थितः - इत्येतदपि अयत्नसिद्धम् । इयत् [इदम् - क्। ष्। ष्।] तु चिन्त्यम् - अकालकलिते संवेदने तदन्तर्वर्तिनि च विश्वत्र भावजाते यदि तावत् चिन्मयतापरामर्शः, तत् “अहम्” इति एतावतैव पूर्णेन विमर्शेन भाव्यम्; अथ इदन्तया पृथग्भावावभासनेन, तथापि तत्र द्वयी गतिः । अहम्
कालेन - वर्तमानादिभेदयुक्तेन क्रियावैचित्र्यरूपेण कालतत्त्वेन, कृतो यः सङ्कोचः - वर्तमानादिनिजभेदपरिच्छिन्नतारूपं सङ्कोचनम्, तद्रूपो यो विशेषः - अवस्थाभेदः, तदात्मको योवच्छेदः - अव्यापकता, तस्या अयोगात् । संविदैव हि तत्क्रियावैचित्र्यरूपस्य संवेद्यस्य कालस्यावच्छेदो युक्तः, न तु तेनाऽस्या इति भावः । ननु सोऽर्थः स्मृतिकाले नास्तीत्यत आह अनुभवस्य इति । अपृथग्भावेन - तादात्म्येन, अयत्नसिद्धम्, ग्राह्यग्राहकभावान्यथानुपपत्तिमात्रेण सिद्धत्वान्नात्र यत्नापेक्षेति भावः । ननु तर्हि तूष्णीम्भाव एव युक्त इत्यत आह इयत इति । संवेदने - संविन्मात्रे, विश्वत्र भावजाते - विषयीभूतेऽविषयीभूते च भावराशौ, चिन्मयतत्या परामर्शः - अनुसन्धानरूपं ग्रहणम्, चिन्मयतापरामर्शः, परमार्थतः स्थितेन चिन्मात्ररूपत्वेन परामर्शनमिति यावत् । पूर्णेन - सर्वभावभरितेन, सर्वं हि भावजातमाद्यस्पन्दभूतायाम् अपरिमिताहन्तायामेव विश्रान्तम्, तत एव च अन्तर्गतसमस्ताक्षराऽकारहकारात्मकप्रत्याहारवाच्यत्वमस्याः, तदुक्तम् :-
अनुत्तराद्या प्रसृतिर्हान्ता विश्वस्वरूपिणी ।
प्रत्याहृताशेषविश्वा
इति । अम् इति तु अत्र प्रत्ययभाग एव सुप्रत्ययादेशत्वात्, यस्तु प्रकृत्यकारः सोपि अमि पूर्वः इति सूत्रेण प्रत्ययनिगीर्ण एव । अथवा अन्ते पुनरपि अम् इति बिन्दुसम्मतस्यानुत्तरस्य [बिन्दुयतस्य - च्।] स्थापनम्, अक्षराणां समस्तभावरूपत्वं समस्तवाचक -
इत्यंशे यदि विश्राम्यति इदन्ता, तदा अहमिदमितिसदाशिवादिदशया [अहमिदम् इति सदाशिवदशया - क्। ष्। ष्।] भाव्यम् । अथ न रोहति, तत् “इदम्” इत्येव आभासनेन भवितव्यम्; अपूर्वताभासनाच्च तत् अनुभवनमेव स्यात् न स्मरणम् - इत्याशङ्क्याह “स्वैरी” इति । “स्वम्” आत्मीयम् उपकरणम् ईरयति स्वकर्तव्येषु [कर्तव्येषु - क्। ष्। ष्।] अवश्यं तच्छीलश्च “स्वम्” च आत्मानम् ईरयति न पुनः स्वकर्तव्ये प्रेरकमपेक्षते - इति “स्वैरी” स्वतन्त्रः । तेन स्वतन्त्रत्वात् “स” इति [इत्येवम् - क्। ष्। ष्।] विमृशति । “स” इति विमर्शनस्य च इयद्रूपम् - यत् सर्वथा अकालकलितस्वरूपपरामर्शनमेव
त्वेन स्फुटमेवेत्यलं बहुतरया रहस्यचर्चया । पक्षान्तरमाह अथ इति ।
पृथग्भावावभासनेन, चिद्व्यतिरिक्तचेत्यभावेन भासनरूपया इत्यर्थः, परामर्शः इति योजना । द्वयी - द्वयवयवा, गतिः - प्रकारः, प्रकारद्वयमिति यावत् । प्रथमं प्रकारमाह अहम् इति । विश्राम्यति - पर्यवस्यति, अहमिदम् इति स्थिता सदाशिवादिदशा तया, आदिशब्देनेश्वरदशादेर्ग्रहणम्, तद् वक्ष्यति :-
ईश्वरो बहिरुन्मेषो निमेषोन्तः सदाशिवः ।
इति । अथ द्वितीयं प्रकारमाह अथ इति । न रोहति - विश्राम्यति, तत् - तदा, अपूर्वतया यद्भासनं तस्मात्, अहम् इत्येव हि सदातनं भासनमिति भावः । स्वैरी इति पदस्यावयवार्थमाह स्वम् इति । स्व इत्यवयववाच्यम् आह आत्मीय इति । उपकरणम् - प्रमाणरूपां सामग्रीम्, स्वकर्तव्येषु - प्रमादिरूपेषु निजकार्येषु । अस्यैवार्थान्तरमाह आत्मानम् इति ।
अवयव्यर्थमाह स्वतन्त्र इति । ननु भवतु स्वतन्त्रः ततः किमित्यत आह तेन इति । स स्वैरी स इति विमृशति - विमर्श करोति, न हि स्वतन्त्रः सापेक्षो युक्त इति भावः । शतुः कर्तरि विहितत्वादेवं व्याख्या । ननु तस्य विमर्शस्य किं रूपमस्तीत्यत आह स इति इति । विमर्शनस्य - विमर्शस्य, इयच्छब्दाकाङ्क्षां पूरयति यत् इति । सर्वथा अकालकलितस्वरूपपरामर्शनमेव न,
न, नापि अत्यन्तं भेदेन विमर्शनमेव [अत्यन्तभेदपरामर्शनम् - क्। ष्।
ष्।] अपि तु यो भावः पूर्वमनुभवकाले तद्देशकालप्रमात्रन्तरसाचिव्येन पृथक्कृतो न च अहन्तायामेव लीनीकृतः [विलीनीकृतः - क्। ष्। ष्।], स तादृगेव तमसेव आच्छाद्य अवस्थापितः संस्कारशब्दवाच्यः, तस्य तमाच्छादकम् अपहस्तयति; तत्र अपहस्तिते स पूर्ववत् पृथक्कृते एवावभाति [पृथक्कृत इव - क्। ष्। ष्।] । ननु च इदन्तया अवभासेत पूर्ववदेव, नैवम् ।
तदानीन्तनावभा-
अहं शब्दवाच्यव्यापकचिद्रूपपरामर्शनमात्रं केवलं नेत्यर्थः ।
अत्यन्तं भेदेन विमर्शनम् - इदमिति विमर्शनम् । पुनस्तस्य किं रूपमित्यत आह अपि तु इति । पूर्वम् इत्यस्य स्वयमेव व्याख्यां करोति अनुभव इति । तद्देशकालम् - अनुभवसम्बन्धिदेशकालावच्छिन्नम्, यत् प्रमात्रन्तरम् - परप्रमातुरन्योनुभवित्राख्यः परिमितः प्रमाता, तस्य साचिव्येन - अवष्टम्भेन, तं मध्येकृत्येति यावत् । पृथक्कृतः - अपोहनशक्त्या भेदेनावभासितः, न च अहन्तायामेव लीनीकृतः इति, अन्यथा तद्विषयस्मृत्यभावप्रसङ्गाद् इति भावः । एतेन पुनः स्मृतिविषयमनागत्य भावजातमहन्तायामेव लीयते इति द्योतितम् । सः - भावः, तादृगेव - पृथक्कृतः, न चाहन्तायां लीनीकृत इति यावत् ।
तमसा - अज्ञानेन, अवस्थापितः हृदये इति शेषः, परमार्थतोऽवच्छादने स्मृतिविषयताऽयोगादिवशब्दोपादानम् ।
संस्कार इति । संस्कारशब्दस्य गोशब्दस्येव सास्नावत्यर्थेऽत्रैवार्थे सङ्केतितत्वादिति भावः । तस्य - उक्तविशेषणस्य संस्कारतया स्थितस्य भावस्य, तम् - तमोरूपम्, अपहस्तयति, सादृश्यदर्शनाद्यवष्टम्भेन येन तदुद्भूतिः स्यादिति भावः । ननु ततः किमित्यत आह तत्र इति । तत्र - तस्मिन्नावरके, पृथक्कृते एव - अहम् शब्दवाच्याच्चिन्मात्राद् भिन्नीकृते एव, इदम्परामर्शविषयतयेति यावत् । अत्र शिष्य आक्षिपति ननु इति ।
पूर्ववदेव - अनुभवकालवदेव, पृथक्कृतत्वाऽविशेषादिति भावः ।
गुरुः प्रतिसमाधानं करोति नैवम् इति । कुत
सनपृथक्कृतशरीरादिसम्बन्धमनवधूयैव हि तत्प्रकाशः; ततश्च इदानीन्तनावभासनस्मरणकालप्रामर्शोऽपि [इदानीन्तनावभासनकालपरामर्शोऽपि - क्। ष्। ष्।] न निमीलति इति तत्परामर्शभित्तिप्राधान्येन [इति एतत्परामर्शभित्तिप्राधान्येन - क्। ष्। ष्।] पूर्वकालपरामर्शः इति विरुद्धपूर्वापरपरामर्शस्वभाव एव “स” इति परामर्श उच्यते । एवं च स एव परमेश्वरः “स्मरति” । एतदेव हि तस्य
इत्यपेक्षायामाह तदानीन्तन इति । हि - यस्मात् कारणात्, पण्डितैः स इति परामर्शः विरुद्धौ - कालभेदेन परस्परं विरोधयुक्तौ, यौ पूर्वापरपरामर्शौ - अनुभवकालीनस्मृतिकालीनौ परामर्शौ, तौ स्वभावः - एकीभूय स्वरूपं यस्य तादृशः, एवोच्यते, अतो योग्यतया तेनैवात्र भासनम् इति भावः । कुत एवं - स्वभाव एवासौ इत्याह इति इति ।
कुतः ? पूर्वकालपरामर्शः - अनुभवकालपरामर्शः, तत्परामर्शभित्तिप्राधान्येन - स्मृतिकालपरामर्शाधारतया भवति, अन्यथा तस्य गतत्वात्, अत एव परामर्शद्वयस्वभावत्वं स इति विमर्शस्य इति भावः । तदपि कुत इत्याह इति इति । कुतः ? तत्प्रकाशः - स्मर्यमाणस्य भावस्य प्रकाशः, तदानीन्तनावभासेन - अनुभवकालीनज्ञानेन, पृथक्कृतः - परिच्छेदविषयतां नीतः, यः शरीरादिसम्बन्धः - तस्य भावस्य निजस्वरूपयोगः, तम्, अनवधूयैव - अपेक्ष्यैव भवति । तथा ततश्च - तस्मात् प्रकाशाच्च, इदानीन्तनावभासनरूपो यः स्मरणकालपरामर्शः - तमवधीकृत्य स्थितः, अर्थात्तस्य भावस्य परामर्शः, अनुभवानन्तरभावी परामर्शः, न निमीलति - न तिरोभवति, परामर्शमवधीकृत्य परामर्श इति राहोः शिर इतिवत् प्रयोगः द्वयोरप्येकपरामर्शरूपत्वात् । अवध्यवधिमद्भावस्तु शिष्यबोधनमात्रप्रयोजनः । यतः पूर्वानुभूतभावस्वरूपानुसारेण प्रकाशोऽपि वर्तते परामर्शश्च, तत एव स्मृतिकालपरामर्शभित्तिप्राधान्येन पूर्वकालपरामर्श इति सङ्क्षेपः ।
पादत्रयं व्याख्याय चतुर्थमपि व्याचष्टे एवं इति । स एव स्वैरी एव । ननु तर्हि तस्यापि मितप्रमातृत्वमायातम् इत्यपेक्षायामेतदुत्तरभावेन योज्यम् ।
स्मर्तृत्वम् - [स्मरणम् - क्। ष्। ष्।] यत् एवं प्रकारपरामर्शोचितकालकलादिस्पर्शसहिष्णुमायाप्रमातृभावपरिग्रह ः इति मायाविद्याद्वयाद्वयमयम् । तत एव सकलसिद्धिवितरणचतुरचिन्तामणिप्रख्यम् आगमिकाः स्मरणमेव मन्त्रादिप्राणितं मन्यन्ते । तथा च :-
“ध्यानादिभावं स्मृतिरेव लब्ध्वा चिन्तामणिस्त्वद्विभवं व्यनक्ति ।”
अपदिश्यते इतिपदसूचितं वस्त्वाह एतत् इति । तस्य परमेश्वरस्य स्मर्तृभूतपरिमितप्रमातृभावासादनमेव स्मर्तृत्वम् [स्मर्तृकर्तृत्वेन - च्।], न तु परिमितप्रमातृवत् परमार्थतः स्मरणकर्तृत्वेनेति भावः ।
बाह्यव्यवहारानुप्राणाकत्वेन स्थितस्य अस्य स्मरणस्यैव परमात्मप्राप्तिं प्रत्यपि साधकत्वं कथयति इति माया इति । इति - पूर्वोक्ताद्धेतोः, अद्वयचित्तत्त्वस्य द्वयरूपस्मर्तृभावग्रहणाद्धेतोरिति यावत् । मायामायातत्त्वम्, विद्या - शुद्धविद्यातत्त्वम्, तद्रूपं यद्द्वयाद्वयम्, तत्र मायाया भेदकत्वेन द्वयत्वं विद्यायास्तदपसारकत्वेन अद्वयत्वम्, तन्मयम् - तद्रूपम् । तत एव - द्वयाद्वयरूपत्वेनैव, सकला याः सिद्धयः - बाह्याभ्यन्तरत्वेन स्थिता द्विविधाः सिद्धयः, तासां यद्वितरणम् - प्रतिपादनम्, तत्र चतुरो यः चिन्तामणिः तस्य प्रख्यम्, तत्सदृशमिति यावत् । तत्र द्वयाख्येन रूपेण बाह्यसिद्धिहेतुत्वम् अद्वयेनान्तरसिद्धिहेतुत्वम् इति क्रम आश्रयणीयः, तथा मन्त्रादिभिः प्राणितम् - ऊच्चारादिद्वारेण उपोद्वलितम् । तत्र आन्तरव्यवहारे मन्त्रप्राणितं बाह्यव्यवहारे तु आदिशब्दगृहीतेन सादृश्यदर्शनादिना प्राणितमित्यपि क्रमो ज्ञेयः । आगमिकाः - शिवशासनज्ञाः, तद्वाक्यमेव शब्दतः पठति ध्यानादि इति ।
ध्यानादिभावम् - स्वाभीष्टदेवताचिन्तनादिरूपताम्, चिन्तामणिः - सर्वप्रदत्वेन चिन्तामणिरूपा, त्वद्विभवम् - तव माहात्म्यम्, इति शब्दो वाक्यसमाप्तौ । ननु बहु वक्तव्यमत्रास्तीति तदपि कथनीयम् इत्यत आह अलम् इति, अप्रकृतत्वादिति भावः ।
इति । अलं तावत् । अनेन [अलन्तावत् अनेन । तृन्नन्तसमासेन - क्। ष्। ष्।] तृन्नन्तसमासेन यत्नतोऽनुभवस्यार्थमुखेन कालस्पर्शम् अर्थविश्रान्ततां द्वयोरपि प्रमातरि निरूढिं भेदाभेदाभ्यां दर्शयति, वृत्तौ एकार्थीभावात् । तस्य च भेदाभेदमयत्वम् - इति वक्ष्यामः ॥ १ ॥
पूर्वानुभूतार्थोपलब्धा इत्यस्य समासस्याभिप्रायमाह अनेन इति । अनेन - सूत्रस्थेन, यत्नतः - समासनिषेधऽपि द्वितीया श्रितातीत इत्यत्र सूत्रे योगविभागरूपाद्यत्नात्, कृतेनेति शेषः । तृन्नन्तसमासेन - पूर्वानुभूतार्थमुपलब्धा इति विग्रहेण तृन्प्रत्ययान्तसमासेन, अनुभवस्य - पूर्वानुभवस्य, अर्थमुखेन - विषयद्वारेण, कालस्पर्शम् - अकालकलितत्वेऽपि निष्ठावाच्यातीतकालस्पर्शम्, अर्थविश्रान्तताम् - प्रमातरि विश्रान्तत्वेपि विषये विश्रान्तिं नीलमुत्पलमितिवत् । अनुभूत इत्यर्थविशेषणम्, तथा द्वयोरपि - अनुभवार्थयोरपि [अनुभवार्थयोः - च्।], प्रमातरि - उत्तरपदार्थभूते प्रधाने उपलब्धरि, निरुढिम् - विश्रामम्, भेदाभेदाभ्यां दर्शयति, आचार्य इति शेषः । तत्र भेदेन अनुभवस्य कालस्पर्शोर्थविश्रान्तिश्च, अभेदेन तु उत्तरपदार्थप्रधानत्वात् तत्पुरुषस्य द्वयोः हेतुमाह वृत्तौ इति । वृत्तौ - समासे, अनेकार्थानामेकार्थभावासादनम् एकार्थीभावः, तस्मात्, समासे परस्परं भेदेन स्थितानि पदानि एकीभवन्ति । कुत एकार्थीभावस्य भेदाभेदत्वम् इत्यत आह तस्य च इति । तस्य च - एकार्थीभावस्य च, वक्ष्यामः, अग्रे सम्बन्धनिर्णये इति भावः ।
एवमत्र योजना । हि - यस्मात्, स पूर्वानुभूतार्थोपलब्धा परतोऽपि सन् अत एव स इति विमृशन् स्मरति इति अपदिश्यते कथ्यते, कुतः ? स्वैरी - स्वतन्त्रः, न हि स्वतन्त्रस्य किमपि दुष्करम् ॥ १ ॥
अथ द्वितीयस्य श्लोकस्य अवतरणिकां करोति एतदेव इति ।
एतदेव स्मृतितत्त्वमुपपादयितुं श्लोकान्तराणि । तत्र यदि कश्चिद् ब्रूयात् - इह स्मृतिर्विकल्पः, न च अनेनार्थः प्रकाश्यते, अर्थासंस्पर्शिनो हि विकल्पाः, अनुभवेन च येन सोऽर्थः प्रकाशतां नीतः स इदानीं कीर्तिमात्रमूर्तिर्जातः, न च सोऽपि स्मृत्या प्रकाश्यते - ज्ञानस्य ज्ञानान्तरेणसंवेद्यत्वात् असत्त्वाच्चेति अर्थस्य प्रकाशनाभावात् “इदं स्मरामि” इति ज्ञानं भ्रान्तिमात्रमेव - इति पुनरपि आपतितम् - इति, तदा तं प्रति उच्यते :-
भासयेच्च स्वकालेऽर्थात्पूर्वाभासितमामृशन् ।
स्वलक्षणं घटाभासमात्रेणाथाखिलात्मना ॥ २ ॥
अत्र टीका :-
ननु पूर्वश्लोकेनैव स्मृतिसमर्थनं कृतमिति किमर्थमन्ये श्लोका इत्यत आह एतदेव इति । उपपादयितुम् - उपपत्त्या [उपपादयितुम् - उत्पत्त्या दृढीकर्तुम् - च्।] दृढीकर्तुम्, श्लोकान्तराणि - अन्यत् श्लोकसप्तकम् । ननु तावद् द्वितीयः श्लोकः किमर्थं कृत इत्यत आह तत्र इति । तत्र - श्लोकान्तरमध्ये, कश्चित् - कोपि बौद्धादिः, अनेन - विकल्पेन । कुतो न प्रकाश्यत इत्यत आह अर्थ इति । अर्थासंस्पर्शिनः - क्षणरूपवस्तुस्पर्शरहिताः, तत्सन्तानावसायमात्रपरत्वात् इत्यर्थः ।
ननु स पूर्वानुभव एव पुनस्तं प्रकाशयत्वित्यत आह येन इति ।
कीर्तिमात्र मूर्तिर्जातः, नष्ट इत्यर्थः । ननु स्मृतिरेव तमनुभवं प्रकाशयत्वित्यत आह न च इति । सोपि - पूर्वानुभवोपि । अत्र हेतुमाह ज्ञान इति । एतच्च दृक् स्वभासा इत्यत्र निर्णीतम्, असत्त्वात् - प्रध्वंसाभावविषयत्वात् । फलितमाह इति इति । इति - अतः कारणात्, इति शब्दो बौद्धादिवाक्यसमाप्तौ, तं प्रति - बौधादिकं प्रति ।
एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । भासयेच्च इति ।
इह स्मृतिविकल्पे [स्मृतिकाले - क्। ष्। ष्।] तावत् अर्थोऽवसीयते, [अध्यवसीयते
- क्। ष्। ष्।] अन्यथा सुप्तमूर्च्छितकल्पतापत्तेः । एवं च यावत् अध्यवसायोऽर्थस्य तावत् “अर्थात्” इति सामर्थ्यात् इयत् अभ्युपगन्तव्यम् - यत् सोऽर्थः प्रकाशते, अप्रकाशमानेऽध्यवसातव्येऽध्यवसायोऽन्धप्रायः स्यात् । प्रकाशनं च न तदानीन्तनकालस्य त्यागेन, नापि स्वीकारेण, इदम् इत्येवावभासनप्रसङ्गात् । तस्मात् अतीतानुभवकालः पूर्वानुभूतभावस्वालक्षण्याक्षेपकत्वेनापेक्षणीयो वेद्यभागे प्रकाशा-
अत्र टीका :-
इह - अस्मिन् जगति, स्मृतिविकल्पे - स्मृतिरूपे विकल्पे, तावत्, नात्र विप्रतिपत्तिरित्यर्थः । अर्थः - पूर्वानुभूतो घटादिर्विषयः, अवसीयते - उल्लेखविषयतां नीयते, अन्यथा - अध्यवसायाभावे, न हि सुप्तादेरध्यवसायो दृश्यत इति भावः । ननु ततः किमित्यत आह एवञ्च इति ।
सूत्रस्थम् अर्थात् इति पदं व्याचष्टे सामर्थ्यात् इति । इयत् शब्दः अर्थाक्षेपपरः । इयच्छब्दाकाङ्क्षां पूरयति यत् इति । सः - स्मृतिविकल्पे अध्यवसीयमानः । प्रकाशाभावे दोषमाह अप्रकाश इति ।
अध्यवसातव्ये - अध्यवसायविषयीभवति पूर्वानुभूतेऽर्थे, अन्धप्रायः - अर्थविषयत्वाभावेनान्धसदृशः, प्रकाशित एवार्थे तस्य प्रवृत्तेरिति भावः । ननु स प्रकाशः किमनुभवकालस्वीकारेण वर्तते त्यागेन वा इत्यत आह प्रकाशनञ्च इति । तदानीन्तनकालस्य - अनुभवकालस्य । कुत इत्यपेक्षायामाह इदम् इति । तस्य त्यागे हि स्मृतिकालस्यैव प्रकाशविशेषणत्वापत्त्या स्फुटम् इदम् इत्यवभासप्रसङ्गः, स्वीकारे तु तत्रस्थस्य इदम् इत्यवभासस्यापि स्वीकारप्रसङ्ग इति भावः । तर्हि किं कार्यमित्यत आह तस्मात् इति । तस्मात् - यतः पूर्वकालस्य त्यागे स्वीकारे च इदम् इत्यवभासप्रसङ्ग ततो हेतोः, अतीतानुभवकालः - पूर्वानुभवकालः, पूर्वानुभूतस्य भावस्य - घटादेः, यत्स्वालक्षण्यम् अन्याननुयायिस्वरूपत्वम्, तस्य
त्मकावभासाभिनिवेशितया, स्मर्तृदेहप्राणाद्यवभासकालश्चावलम्बनीयो वेदकभागे विमर्शांशाभिनिवेशित्वेन । आभासमात्रं हि भावस्य स्वरूपम्, प्रत्याभासं प्रमाणस्य व्यापारात् । तदेव आभासान्तरव्यामिश्रणया दीप -
आक्षेपकत्वेन - अवच्छेदकत्वेन, वेद्यभागे - स्मृतेर्विषयरूपे अंशे, अपेक्षणीयः - विशेषणत्वेनाश्रयणीयः । केन कृत्वा ? प्रकाशात्मको योवभासः - पूर्वकालीनोवभासः, तत्र अभिनिवेशः - हठोस्यास्तीति तादृशः, तस्य भावस्तत्ता तया यतः पूर्वकाले घटस्य स्वलक्षणं प्रकाशितं स एव च घट इहापि स्मृतिविषयीभवत्यतो घटाख्यविषयविषये विशेषणत्वेन स एव कालेऽपेक्षणीय इति सङ्क्षेपः ।
ननु वेदकभागे कोऽपेक्षणीय इत्यत आह स्मर्तृ इति । स्मर्तुर्यद् देहप्राणादि - अर्थात् स्वरूपम्, तस्यावभासकालश्च, स्मृतिकालश्चेति यावत् । वेदकभागे - वेदकांशे, अवलम्बनीयः - विशेषणत्वेनाश्रयणीयः ।
केन कृत्वा ? विमर्शांशे - अद्यतनपरामर्शाख्ये भागे, यदभिनिवेशित्वं तेन । यतः परामर्शकारी स्मर्ता स्मृतिकाल एव सम्भवति ततः स्मृतिकाल एव वेदकविशेषणत्वेनाश्रयणीयः । यद्यपि वेदकस्य नित्यत्वेन सद्भावः सर्वदैव वर्तते तथापि परामर्शकत्वाख्यं विशेषमपेक्ष्यैवमुक्तम् । ननु घटस्य स्वरूपमत्र नास्ति कथमस्य वेद्यत्वं कथयसीत्यत आह आभासमात्रम् इति । आभासमात्रम्, न तु मृत्कार्यत्वेन स्थितं स्थूलं किमपि वस्तु, भावस्य - घटादिपदार्थस्य । कुत इत्यपेक्षायामाह प्रत्याभासम् इति ।
प्रत्याभासम् - आभासे आभासे, सर्वेषु घटतद्धर्माद्याभासेष्विति यावत् । प्रमाणस्य - बहिर्मुखबोधरूपस्य प्रमाकरणस्य, व्यापारात् - प्रवृत्तेः । अयं भावः - प्रमाणं हि सर्वत्राभासमात्रमेव करोति न तूपादानीभूय कस्यापि सत्तां करोति, तत्प्रवृत्तिमन्तरेण च न कोपि सत्तां लभते । यदुक्तम् :-
प्रमाणगम्यतैव सत्ता
इति । ततः प्रमाणकृतमाभासमात्रमेव भावस्य स्वरूपमिति । यत्तु मृदादेरुपादानत्वं दृश्यते तदप्याभासमात्रमेवेत्यलमाभासमात्रे जगति । तदन्तर्वर्तिपदार्थाभासमात्रत्वविषयाभिः सूक्ष्मेक्षिकाभिः ।
ननु यद्याभासमात्रमेव भावस्वरूपं तर्हि गलितः स्फुटत्वास्फुटत्वव्यवहारः सर्वत्राभासमात्रस्याविशेषादित्यत आह तदेव इति ।
सहस्रप्रभासम्मूर्च्छनवत् स्फुटीभवति ।
आभासान्तरव्यामिश्रणाभावेऽपि तु कालाभाससम्भेदेनैव स्वालक्षण्यं तस्य आभासस्य करोति, कालशक्तेरेव भेदकत्वात् इति वक्ष्यते ।
एवं तावत् स्वलक्षणीभावः प्राक्तनदेहाभाससाचिव्याभ्युदितकालाभासया घटाभासस्य इति ।
तदेव - आभासमात्रमेव, आभासान्तरव्यामिश्रणया - ऊर्ध्वबुध्न्यादिधर्माभासमिश्रणेन । ननु आभासमात्रत्वे असाधारणधर्माभासग्रहणासम्भवात् स्वलक्षणं गृहीतं न स्यादित्यत आह आभासान्तर इति । कालाभाससम्भेदेन - वर्तमानादिकालरूपाभाससंयोजनेन, तस्य आभासस्य - सामान्यरूपघटाभासमात्रस्य, स्वालक्षण्यम् - स्वलक्षणभावम्, करोति इति । प्रमातेति शेषः । कुत इत्यपेक्षायां हेतुमाह काल इति ।
भेदकत्वात् - विशेषणत्वात् । असाधारणेन भेदकेनैव च स्वलक्षणं व्यवतिष्ठते नात्र कस्यापि विप्रतिपत्तिः । कालस्य चासाधारणत्वं घटाभासदेशाद्याभासमिश्रीभावेन स्फुटमेवेति न काप्यनुपपत्तिः ।
तथा च क्रियाधिकारे सामान्यस्य कालादियोजनया स्वलक्षणीभावं कथयिष्यति । उपसंहारं करोति एवम् इति । एवं सति तावत् घटाभासस्य - घटत्वावच्छिन्नस्य आभासस्य, प्राक्तनः - अनुभवकालीनः, यो देहाभासः - घटदेहरूपाभासः, तस्य यत्साचिव्यम् - सहायता तेन अभ्युदिता या कालाभासा, विशेषणता इति यावत्, तया, स्वलक्षणीभावः भवति, उक्तन्यायादिति भावः । इति शब्दः प्रमेयपरिसमाप्तौ । स्मृतेरेव तावद्रूपतां कथयति तवात्येव इति । तावत्येव - आभासमात्ररूप एव, आभासान्तरैः - अन्यैर्धर्मरूपैराभासैः, अतिस्फुटा, मिश्रीभावाद्धेतोरतिस्फुटेत्यर्थः । द्वितीयः इति शब्दः प्रमेयपरिसमाप्तौ । ननु
तावत्येव वा स्मृतिः आभासान्तरैरपि व्यामिश्रा अतिस्फुटेति ।
अत्यन्तस्फुटीभावेऽपि तदानीन्तनकालता न त्रुट्यति अन्यसाधारण्यानवभासात् [साधारण्येन अनवभासनात् - क्। ष्। ष्।] ।
तथावभासे तु योगिनस्तन्निर्माणमेव । ब्रह्मभाषितादौ तु
स्फुटीभावे स्मृतेः इदम् इति रूपं वर्तते तत् इति वा इत्यपेक्षायामाह अत्यन्त इति । तदानीन्तनकालता - वेद्यविषया पूर्वकालता, तत् इति ग्रहणमिति यावत् । कुतः ? अन्यैः - प्रमातृभिः यत्साधारण्यं तेन यः अनवभासः ततो हेतोः, न हि अन्येन अत्यन्तं स्फुटतया स्मर्यमाणो घटोऽन्यस्य ग्रहण विषय इत्यर्थः, अस्फुटीभावे तु का कथेति अपि शब्दस्याभिप्रायः । ननु योगिस्मृतेः कथमन्यसाधारणत्वं दृश्यते, योगिस्मृतं हि अन्येऽपि पुरःस्थं पश्यन्तीत्यत आह तथा इति ।
तथावभासे - साधारण्येनावभासे, तन्निर्माणमेव - तस्य वस्तुनः सम्पादनमेव, न तु स्मरणम्, योगप्रभावेण तत्र शक्तत्वादिति भावः ।
न चैतेन महावैराग्ययुक्तेभ्यो महाविवेकेभ्यः स्मृतिमात्रेण वस्तुनिर्माणासमर्थेभ्योपि [वस्तुनिर्माणसम्र्थेभ्यः - च्।] विमुखेन भाव्यम्, वैराग्यपूर्वस्य विवेकित्वमात्रस्य महायोगित्वात् ।
ऐन्द्रजालिकेष्वपि स्मृतिमात्रेण विषयनिर्माणं दृश्यते एव इति न तन्मात्रैणैव [इति तन्मात्रेणैव योगित्वम् - च्।] योगित्वं ज्ञेयमित्यलं प्रपञ्चेन । ननु स्मृतिकल्पिताभिर्देवताभिः सह भाषणादेः का वार्तेत्यत आह ब्रह्म इति । ब्रम्हणा सह - ध्यानाभ्यासवशेन प्रत्येयतां [प्रत्ययताम् - च्।] नीतं यत् ब्रम्हब्रम्हतत्त्वं तेन सह, भाषितम् - भाषणं आदिर्यस्य तस्मिन् । आदिशब्देन अन्यदेवताभिः सह भाषणस्य ग्रहणम् । तत्र नवमेवावभासनं भवति कल्पितत्वात् । इति शब्दः समाप्तौ । कुत इत्यपेक्षायामाह अत्र इति । तु शब्दः यतः शब्दार्थे, तु - यतः, आगमादिमानान्तरेण - शास्त्रादिप्रमाणान्तरेण, अनुभूतम् - ध्यानेनानुभवविषयतां
नवमेव अवभासनम् इति । अत्र [तत्र - क्। ष्। ष्।] तु आगमादिमानान्तरानुभूतब्रह्मादिस्वरूपस्मरणपरम्परा अभ्युपायः । “भासयेत्” इति विधिरूपेण नियोगेन नियमो लक्ष्यते, न भासयति इत्येतत् न, अपि तु भासयत्येव इति । “स्वकाले” इति स्मरणकाले । “आमृशन्” इति वेदकभागनिवेशी वर्तमानकाल उक्तः । “पूर्वाभासितं [पूर्वावभासितम् - क्। ष्। ष्।] स्वलक्षणम्” इति वेद्यांशस्पर्शी भूतकालो घटाभासस्यापि
नीतम्, यद् ब्रम्हादिस्वरूपं तस्य यत्स्मरणम् - परामर्शनरूपा स्मृतिः, तस्य या परम्परा सा एव अभ्युपायः उपायो भवति, न तु पूर्वं प्रत्यक्षीकृतं ब्रम्हतत्त्वं तस्य प्रत्यक्षाविषयत्वात् ।
उक्तप्रक्रियानुसारेण श्लोकस्य योजनां कर्तुमारभते भासयेत् इति ।
नियोगस्यापि विधिविशेषत्वात् विधिरूपेण इत्युक्तम् । तदुक्तम् :-
विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति ।
तत्र चान्यत्र च प्राप्तौ परिसङ्ख्या विधीयते ॥
इति । नियोगलक्षणं नियममेव स्फुटयति न भासयति इति । एतेन भासयेत् इति पदं कृतव्याख्यम् । स्वकाले इति पदं व्याचष्टे स्मरण इति ।
स्मृतिकालस्मरणकालयोरेकत्वादिति भावः । आमृशन् इति पदं व्याचष्टे आमृशन् इति । वेदकभागनिवेशो - वेदकांशविशेषणीभूतः, उक्तः, शतुर्वर्तमाने प्रयुक्तलडादेशत्वादिति भावः । मध्ये अर्थात् इति प्रथममेव कृतव्याख्यमितीह न व्याख्यातम् । पूर्वाभासितं स्वलक्षणम् इति पदद्वयं विशेषणविशेष्यभावेन स्थितं सङ्कलय्य व्याचष्टे वेद्याम्श इति । वेद्यांशस्पर्शी - वेद्यभागविशेषणीभूतः, भूतकालः - क्तप्रत्ययवाच्योतीतकालः, दर्शित इति सम्बन्धः । घटाभासमात्रेण इति पदं व्याख्यातुं
केवलस्य स्वालक्षण्यापत्तिहेतुर्दर्शितः । इयदेव स्मृतेः अव्यभिचारि वपुः, अर्थितातिशयात् तु स्फुटत्वम् इति “अथ” शब्दो द्योतयति । तदेवाह “अखिलात्मना” इति । सर्वाभासमिश्रेण वपुषा इत्यर्थः ॥ २ ॥
ननु एवं स्वलक्षणस्य प्रकाशने भेदेन बहिस्तदवभासेत । एतदेव हि बहिरवभासनम् - यत् स्वलक्षणप्रकाशनम् इति शङ्काशमनाय निरूपयति :-
न च युक्तं स्मृतेर्भेदे स्मर्यमाणस्य भासनम् ।
तेनैक्यं भिन्नकालानां संविदां वेदितैष सः ॥ ३ ॥
विशेषणमाह केवलस्य इति । स्वालक्षण्यस्य आपत्तिः - प्राप्तिः तस्या हेतुः ।
घटाभासमात्रे कालाभासस्य समनन्तरमेव स्वालक्षण्यकारित्वसमर्थनात् । एतन्मात्रस्यैव स्मृतित्वं कथयति इयदेव इति । इयत्, वस्तुनः आभासमात्रं भूतकालकृता स्वालक्षण्यापत्तिश्चेत्यर्थः । अव्यभिचारि वपुः, असाधारणं स्वरूपमित्यर्थः । ननु आभासान्तरव्यामिश्रणया कृता स्फुटताप्यस्याः कदाचित् स्यान्न वा इत्यत आह अर्थिता इति । अर्थितातिशयात् - अतिकाङ्क्षणीयत्वेन, कदाचित् स्मृतिरपि अतिकाङ्क्षणीया भवत्येव, स्फुटत्वम् - धर्माभासव्यामिश्रणाकृतः स्फुटीभावः । द्योतयति इति ।
अस्फुटपक्षात् पक्षान्तरत्वादिति भावः । तदेव - समनन्तरोक्तमेव स्फुटत्वम् । केन इत्यत आह अखिल इति । एतदपि पदं व्याचष्टे सर्व इति ।
सर्वाभासाः - धर्माभासाः, वपुषा, घटस्वरूपभूतेन घटाभासेनेत्यर्थः । आमृशन् - परामर्शकारी, स्वैरी कर्ता पूर्वाभासितं स्वलक्षणं कर्म भासयेत् इति श्लोके योजना । तृतीयाद्वयम् इत्थम्भावे ॥ २ ॥
अथ तृतीयस्य श्लोकस्यावतरणिकां करोति ननु इति ।
अत्र टीका :-
एवम् - उक्तनीत्या, बहिः - भेदेन, इदन्तया । अत्र हेतुमाह एतद् इति ।
स्वलक्षणस्य - घटसम्बन्ध्यसाधारणस्वरूपस्य, प्रकाशनम् - प्रकाशः, स्वलक्षणप्रकाशनम् । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । न च इति ।
स्मरणज्ञानात् भिन्नत्वेन बहीरूपतया यदि सोऽर्थो भासेत “स्मर्यमाणस्य” च यत् “भासनम्” तदेव न स्यात् स्मर्यमाणमेव तत् न स्यात्, अनुभूयमानमेव तत् भवेत् इति यावत् । ननु चैवं स्वलक्षणस्य प्रकाशनम् [कथं स्वलक्षणस्य प्रकाशनम् ? उक्तमेतत् - न इदानीम् - क्।
ष्। ष्।] उक्तम् ? एतत् न इदानीं प्रकाशनम् अपि तु पूर्वकाले एव, तदा चासौ बहिरवभासत एव । ननु चेदानीं तर्हि किं ? विमर्शनम् इति ब्रूमः । ननु प्रकाशनविमर्शनयोः भिन्नकालत्वम् आपतितम् । ततः किम् ? उभय -
अत्र टीका:-
स्मृतेः इति पदं पञ्चम्यन्ततया व्याचष्टे स्मरण इति । भेदे इति पदं व्याचष्टे भिन्न इति । अस्य पदस्य स्वयमेव व्याख्यां करोति वही इति, इदन्तयेत्यर्थः । भासेत - प्रकाशेत । पुनस्तत् किं स्यादित्यत आह अनुभूयमानम् इति । तत् - भासनक्रियाया विषयः सोऽर्थः [सोऽन्यः - च्।] ।
उत्तरार्धं व्याख्यातुमवतरणिकां करोति ननु च इति । उक्तम् - पूर्वश्लोके कथितम् । उत्तरं कथयति एतत् इति । एतत् - पूर्वश्लोकोक्तम्, प्रकाशनम् । तर्हि किङ्कालीनमित्यत आह अपि तु इति । प्रकाशनमिति पूर्वेण सम्बन्धः । ननु ततः किम् इत्यत आह तदा च इति । तदा - पूर्वकाले, अवभासत एव, न तु न भासते इति वर्तमानप्रयोगः पूर्वकालीनवर्तमानविषयत्वेन न विरोधावहः । पुनः शिष्यः प्रश्नयति ननु इति । इदानीम् - स्मृतिकाले ।
गुरुरुत्तरमाह विमर्शनम् इति । पुनरपि शिष्यः प्रश्नं करोति ननु इति ।
आपतितम् - बलादायातम् । गुरुराह ततः इति । गुरुकृते प्रश्ने शिष्य उत्तरं ददाति उभयम् इति । उभयम् - प्रकाशविमर्शयोर्युगलम् ।
मपि न किञ्चित् स्यात्, अन्योन्यजीवितत्वात् अस्य । मैवम्, यस्य हि संवेदनान्येव भिनानि तत्त्वम्, तस्य इदम् अप्रतिसमाधेयमेव, अस्मद्दर्शने तु भिन्नकाला अपि संविदः तत्कालात्यागेनैव एकतावभासनेन [एकताभासनेन - क्। ष्। ष्।] स्वतन्त्रः प्रमाता यावदन्तर्मुखतया तावत्यंशे विमृशति तावत् प्रकाशस्य तात्कालिकबहिर्भावावभासो विमर्शस्य इदानीन्तनान्तर्मुखा स्थितिरिति [स्थितिरेव - क्। ष्। ष्।] । एतदेव
कथं न किञ्चित्स्यादित्यत आह अन्योन्य इति । अस्य - उभयस्य, प्रकाशो हि विमर्शेनैव प्रकाशो भवति, तद्वक्ष्यति :-
स्वभावमवभासस्य विमर्श विदुरन्यथा ।
प्रकाशोर्थोपरक्तोपि स्फटिकादिजडोपमः ॥
इति । विमर्शस्तु स्फुटमेव प्रकाशकार्यं प्रकाशानन्तरमेव हि विमर्शोत्पादः, यश्च यस्मान्नियमेनानन्तरं भावी स तस्य कार्यम्, तदुक्तम् :-
अनन्यथासिद्धनियतपश्चाद्भावित्वं कार्यत्वम्
इति । अत्रोत्तरार्धव्याख्यात्वेन समाधानं करोति मैवम् इति । कुत इत्यपेक्षायामाह यस्य हि इति । तत्त्वम् - परमार्थः, अप्रतिसमाधेयम् - प्रतिसमाधातुमशक्यम् । ननु तव दर्शने किं तत्त्वम् इत्यत आह अस्मद् इति ।
तत्कालात्यागेन - भासमानाया भिन्नकालतायाः त्यागाभावेनैव स्थितेन, एकतावभासनेन - सारभूतेन किञ्चिद् रूपान्तरप्रमातृतत्त्वापेक्षया सिद्धेन एकतायाः स्फुरणेन, तद्भावेनेति यावत् । इत्थम्भावे तृतीया । स्वतन्त्रः - स्वरूपभूतसंविदां संयोजने वियोजने च स्वातन्त्र्ययुक्तः, प्रमाता भवति, अर्थात् स एव प्रमाता यावत् - यस्मिन् क्षणे एव, अन्तर्मुखतया - अन्तर्मुखत्वेन, अहम् इति यावत्, तावत्यंशे - तद्भविष्यमाणस्मृतितायोग्ये स्वांशे, परामृशति - अहम् इति परामर्शं करोति स्वप्रकाशत्वात्, तावत् - तत्क्षणादेव, प्रकाशस्य - पूर्वानुभवस्य, तात्कालिकबहिर्भावावभासः - परामर्शावकाशदायी स्वकालीन इदन्तावभासः, भवति । विमर्शस्य - परामर्शस्य, इदनीन्तना - स्मृतिकालीना, अन्तर्मुखा - अहंरूपा, स्थितिः भवति । इति
वेदनाधिकं वेदितृत्वं - वेदनेषु संयोजनवियोजनयोः यथारुचि करणं स्वातन्त्र्यम्, कर्तृत्वं च एतदेव उच्यते [कर्तृत्वं चैतदेव उच्यते घटमहमन्वभूवमिति - क्। ष्। ष्।] । घटमहमन्वभूवम् इति वा स घटः इति वा “ऐक्यम्” अनुसन्धानम् अनुसन्धातुरभिन्नम् इति दर्शयितुं यदेव ऐक्यं “स एव वेदिता” इति सामानाधिकरण्येन दर्शितम् । “एष स” इति आच्छादितस्येव प्रमातृतत्त्वस्य स्फुटावभासनं कृतम् इदम् इति, विस्मयगर्भयानया [विस्मयगर्भया उक्त्या - क्। ष्। ष्।] उक्त्या प्रत्यभिज्ञा [प्रत्यभिज्ञानमेव सूचितम् - क्। ष्। ष्।] एव सूचिता । यदाह ग्रन्थकार एव :-
शब्दः प्रमेयपरिसमाप्तौ । ननु तर्हि इदमहम् इति ग्रहणं कथं न भवति ? सत्यम् अत्र इदन्तायाः अहन्तायाश्च तादृशी पुष्टता न भवति येन ईश्वरदशावत् यथास्वं ताभ्यां ग्रहणं सिद्ध्येत्, किन्तु द्वयोरपि विषयग्रहणायोग्यं लेशद्वयं वर्तते, तदेव च द्वयमेकीभूय तत् इति भावेन परिणमते तदेव च स इति परामर्शः इति । तावदंशविषयस्य विमर्शनस्यैव वेदितृत्वादिकं कथयति एतदेव इति । एतदेव - स्वांशविषयमहमिति विमर्शनमेव, वेदनाधिकम् - प्रमाणरूपाद् बहिर्मुखज्ञानादधिकम्, करणम् - करणरूपम्, तदुक्तम् :-
स्वातन्त्र्यमथ कर्तृत्वं मुख्यमीश्वरतापि च
इति । सूत्रस्थस्य ऐक्यवेदित्रोः सामानाधिकरण्यस्याभिप्रायमाह घटम् इति । घटमहमन्वभूवम् इति विस्तरेण परामर्शः, स घट इति तु सङ्क्षेपेण, ऐक्यम् - ऐक्यरूपम्, अनुसन्धानम् - अनुसन्धानाख्यक्रिया ।
भिन्नप्रवृत्तिनिमित्तयोरेकार्थनिष्ठत्वम् एकविभक्तिकत्वञ्च सामानाधिकरण्यम्, न हि क्रियाक्रियावतोर्भेदो युक्त इति भावः ।
शिवसूत्रेष्वपि चैतन्यमात्मा इति सूत्रेण एतदेव कटाक्षितम् । एष स इत्यस्य सूचनीयमर्थमाह एष सः इति । एष स इत्यनेन पदेन, विस्मयगर्भया - विस्मयकारित्वान्यथानुपपत्त्याऽन्तःकृतविस्मयया उक्त्या, प्रत्यभिज्ञा एव सूचिता, कुतः ? इति । इति कुतः ? अन्यथा उक्तया आच्छादितस्येव - परमार्थतो भानेऽपि प्रतिबन्धकवशेनाऽभातकल्पस्य । तदुक्तम् :-
“इत्थं स्वसंवित्तिमपह्नुवानैर्यत्तद्वदद्भिः कलुषीकृतं यत् ।
प्रमातृतत्त्वं स्फुटयुक्तिभिस्तान्मूकान्विधाय प्रकटीकृतं तत् ॥”
इति ॥ ३ ॥
ननु च प्राच्य एव अनुभवो यदि स्मर्यमाणस्य बहिरवभासनरूपः प्रकाशः तर्हि इयत् उच्यताम् - सोऽनुभव इदानीं स्मरणेन विषयीक्रियते - इति, ऐक्येन तु अलौकिकेन कोऽर्थः इति व्यामोहं विहन्तुमाह :-
भानेप्यभानं भानस्य प्रतिबन्धेन युज्यते
इति । प्रमातृतत्त्वस्य - आत्मतत्त्वस्य, स्फुटावभासनं कृतम्, प्रत्यभिज्ञा च विस्मृतस्य प्रत्यक्षीकरणमेव । अत्र ग्रन्थकारवाक्यमुदाहरणत्वेन कथयति यदाह इति । कलुषीकृतम्, विकल्पैरिति शेषः, तान् - संवित्तिमपह्नुवानान्, प्रकटीकृतम्, प्रमातृन् प्रति प्रत्यभिज्ञामुत्पाद्य प्रकटं सम्पादितमित्यर्थः ।
एवमत्र सङ्क्षेपः - स्मृतेः भेदे, अर्थात् स्मृतिविषयस्य अर्थस्य स्मृतेः सकाशाद् भेदे, इदन्ताग्रहणेन भेदे सति, समर्यमाणस्य भासनं न च युक्तं स्यात्, सोऽर्थः प्रकाशमान एव स्यान्न स्मर्यमाणः इति भावः, तेन - ततः, भिन्नकालानां संविदाम् - अनुभवस्मृत्यादिज्ञानानाम्, ऐक्यं भवति, एककालत्वात् भिन्नकालस्याकिञ्चित्करत्वात् । तथा च प्रकाशमानत्वेऽपि स्मर्यमाणत्वमर्थस्य सिद्द्ध्यति भावः । ननु तथापि ग्रहीतुरभावात् कथं सिद्ध्यति इत्यत आह वेदिता इति । एष सः - उक्तम् ऐक्यमेव लक्षणया क्रियातद्वतोरैक्यात् योजकः, ऐक्यग्रहीतैव वेदिता ग्रहीता भवति ।
अद्वैतभङ्गमाशङ्क्य कृतो लक्षणाप्रयोगो न दुष्ट इति ॥ ३ ॥
अथ चतुर्थश्लोकस्यावतरणिकां करोति ननु च इति ।
अत्र टीका :-
बहिरवभासनरूपः - बहिःप्रकाशनरूपः, इयच्छब्दाकाङ्क्षां पूरयति सोऽनुभव इति । इदानीम् - स्मृतिकाले । क्रियते इति, अन्यथा गतस्य तस्य स्वलक्षणविषयत्वायोगादिति भावः । इति शब्दः प्रमेयपरिसमाप्तौ । ऐक्येन - वेदितृतया साधितेन संविदामनुसन्धानेन, अलौकिकेन - लौकिकेष्वप्रसिद्धेन । अवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । नैव इति ।
नैव ह्यनुभवो भाति स्मृतौ पूर्वोऽर्थवत्पृथक् ।
प्रागन्वभूवमहमित्यात्मारोहणभासनात् ॥ ४ ॥
वैधर्म्यसाधर्म्याभ्यां दृष्टान्तः । “प्राक्” इति अनुभवकाले यथा स “पूर्वो” घटादिः अर्थः “पृथक्” इति इदन्तया भाति स्म नैवं स्मरणकाले स्मृतिज्ञानात् पृथक्त्वेन इदं पूर्वमनुभवनम् इति “भाति” । यथा च स्मृतिकाले तस्मात् स्मृतिज्ञानात् सोऽर्थः “प्राक्” इति पूर्वस्वभावो न भेदेन आभाति, स्मृतिकाले बहिरवभासाभावात् एवं तत एव हेतोः “पूर्वोऽपि अनुभवो” न भेदेन आभाति, कथं तर्हि उभयं भाति ? अन्वभूवम् इत्येवम् । एतत् किमुच्यते इति चेत्, “अहम्” - इत्येवंस्वभावो य “आत्मा”
अत्र टीका :-
दृष्टान्तः - लक्षणया उदाहरणम्, इदं सूत्रमिति शेषः । तत्र प्रथमं वैधर्म्यमेव स्फुटयति प्राक् इति । प्राक् इति पदं व्याचष्टे अनुभव इति । अर्थवत् इति पदं व्याचष्टे यथा इति । अर्थस्य पूर्वत्वमर्थादेव [अर्थवदेव सिद्धम् - च्।] सिद्धम् । पृथक् इति पदं व्याचष्टे इदन्तया इति । स्मृतौ इति पदं व्याचष्टे स्मरण इति । पूर्वम् अनुभवनम् इत्याभ्यां पूर्वः अनुभवः इति पदद्वयव्याख्या ।
साधर्म्यदृष्टान्तं स्फुटीकृत्याह यथा च इति । च समुच्चये, तस्मात् स्मृतिज्ञानात् - इत्यनयोः प्राक् इत्यनेनापेक्षितत्वात् अध्याहारः । प्राक् इति पदस्यह अर्थपदविशेषणत्वमाह पूर्व इति । न पृथक् इति पदद्वयं सङ्कलय्य व्याचष्टे न भेदेन इति । कुतः इति हेत्वपेक्षायामाह स्मृतिकाले इति । यथा शब्दाकाङ्क्षां पूरयति एवम् इति । तत एव हेतोः, बहिरवभासाभावाद्धेतोरित्यर्थः । एतेन प्राक् इत्यन्तं व्याख्यातम् ।
एवं दृष्टान्तद्वययोजना । हि - यस्मात्, स्मृतौ पूर्वः अनुभवः पृथक् नैव भाति, कथम् ? अर्थवत् - यथा प्राक् अर्थः पृथग् भाति स्म नैवमनुभव इति ।
पूर्वापरसंविदन्तर्मुखस्वभावः तत्र यत् “आरोहणम्” विश्रमः तेन हेतुना पूर्वसंविद्रूपतायाः स्वप्रकाशाया “भासनात्” तल्लीनस्यापि घटस्य स्वप्रकाश-
अत्रार्थानुभवगतस्य भानाभानरूपस्य विरुद्धधर्मद्वयस्य साधनात् वैधर्म्यदृष्टान्तत्वमिति एका योजना ।
अथ द्वितीया । स्मृतौ पूर्वोऽनुभवो न पृथग्भाति । कथम् ? अर्थवत् - यथा प्राग् अर्थः स्मृतौ न पृथग् भाति तथा अनुभवोऽपि न भाति इति । अत्र च साधर्म्यदृष्टान्तत्वम्, नभानरूपस्य समानधर्मस्योभयत्र साधनात् ।
अत्र शिष्यः प्रश्नयति कथम् इति । उभयम् - पूर्वानुभवः पूर्वार्थश्च न हि अत्र अभानं युक्तमिति भावः । अत्रोत्तरं दातुम् अन्वभूवम् इति पदमुपन्यस्यति । अन्वभूवमित्येवम् एवम्प्रकारेण भातीत्यर्थः । अत्र शिष्यशङ्कापूर्वकं हेतुं कथयिष्यन् अहम् इत्यादि पदद्वयं व्याचष्टे एतत् इति । अन्वभूवम् इत्यस्य पदस्य हेतुरीत्या सूत्रकारेण स्वयङ्कृतं व्याख्याग्रन्थं व्याचष्टे अहम् इत्येवम् इति ।
अहम् इति पदं व्याचष्टे एवंस्वभावः इति, अहमर्थस्वभाव इत्यर्थः ।
“इति” शब्दोऽर्थ निर्देशपरः । आत्म पदं व्याचष्टे पूर्व इति ।
पूर्वापरसंविद्रूपश्चासावन्तर्मुखश्च, तत्स्वभावः - तत्स्वरूपः ।
एतेन अत सातत्यगमने इति धात्वनुसारेणार्थः कृतः, सातत्यगमनं हि नित्यत्वं तदेव च पूर्वापरकालव्यापित्वम् । तत्र तस्मिन्नात्मनि । आरोहण पदं व्याचष्टे विश्रमः इति । पञ्चम्यर्थमाह तेन हेतुना इति ।
पूर्वसंविद्रूपतायाः पूर्वानुभवरूपतायाः, स्वप्रकाशायाः स्वप्रकाशत्वेन स्थितायाः । सविशेषणं पूर्वसंविद्रूपतायाः इति पदं प्रसिद्धत्वेन भासनक्रियाकर्तृत्वेन आनीतम् । ननु तद्विषयस्य घटस्य कथमारोहणं सम्भवतीत्यत
देशीयत्वेन भासनम् [अवभासनम् - क्। ष्। ष्।] । “आत्मनि च आरोहणम्” विश्रमणा अनुभवस्य अर्थस्य च । प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूतः - इति न्यायात् सङ्ख्याक्षिप्ते तद्वति वा कर्तृभूतेऽस्मदर्थे प्रत्ययार्थेऽनुभवो ब्रुडितः तद्द्वारेण अर्थोऽपि च,
आह तल्लीनस्य इति, विषयत्वेन तस्यां संविदि लग्नस्य, अन्यथा प्रकाशाऽयोगात् । घटस्य - विषयीभूतस्य घटस्य, स्वप्रकाशदेशीयत्वेन भासनम् - आत्मारोहेण भासनं भवति, न हि सत्योत्पलत्वं सितत्वं विहाय कुत्राप्यन्यत्र तिष्ठतीति भावः । एतेन आरोहण पदं ण्जिरहितत्वेन व्याख्यातम् । आत्मगता हि संविद्रूपता आत्मनि स्वयमेव आरोहति तद्द्वारेण अर्थोऽपि । एतदेव पदं णिजन्तत्वेन व्याचष्टे आत्मनि च इति । विश्रमणा - विश्रमकरणम् ।
कयोरित्यपेक्षायामाह अनुभवस्य इति । प्रमाता हि तां संविद्रूपतां तद्विषयं च घटादिमात्मन्यारोहति । अत्र च णिचः णेरनिटि इति लुप्तत्वं ज्ञेयम् । ननु तर्हि कथं न अन्वभूवम् इत्यत्र कर्मणो निर्देशः कृत इत्यपेक्षायामाह प्रकृति इति । अथवा कथम् अन्वभूवम् इत्यत्र अनिर्दिष्टस्य कर्मणः अनुभवद्वारेणात्मनि विश्रम इत्यपेक्षायामाह प्रकृति इति ।
सह ब्रूतः - एकीभावमासाद्य कथयतः, प्रकृतिः प्रत्ययार्थे ब्रुडति इति यावत् । इति न्यायात् - एवं स्थितेन पूर्वाचार्यन्यायेन, सङ्ख्याक्षिप्ते - प्रत्ययवाच्यसङ्ख्यामात्रेण धर्मेण धर्मितया [धर्मिताया - च्।] आक्षिप्ते, स्वयमेव प्रत्ययवाच्यसङ्ख्याधर्मयुक्ते धर्मिणि वा, केषाञ्चिन्मते सङ्ख्यामात्रमेव प्रत्ययार्थः धर्मी तु तदाक्षिप्त एव, केषाञ्चित्तु धर्म्यव प्रत्ययार्थः । कर्तृभूते - अनुभवक्रियाकर्तृत्वेन स्थिते, अस्मदर्थे - अस्मच्छब्दरूपाहंशब्दवाच्येऽर्थे अस्मद्युत्तमः इति सूत्रानुसारेण उत्तमपुरुषभूतलुङ्गादेश मिप् प्रत्ययवाच्यभूते वस्तुनि, अनुभवः - अनुपूर्व भू धातुप्रकृत्यर्थभूतः, ब्रुडितः - लीनीभूतः, तद्द्वारेण - अनुभवद्वारेण च, अर्थोपि - तद्विषयभूतो घटोपि, ब्रुडितः इति
न तु स्वान्त्र्येणैव असौ, तदर्थमेव कर्म न निर्दिष्टम् । घटादिः पुनः अनुभवकाले न अस्मदर्थमारोहति, हि यस्मात् नैव भाति पूर्वोऽनुभवः पृथक् अपरार्धोक्तात् हेतोः, तस्मात् संविदामैक्यम् इति पूर्वेण सम्बन्धः ।
योजना । अयं भावः - अर्थं विना अनुभवः स्वात्मरूप एव । यदुक्तम् :-
पृथक्स्थयोर्ग्रहे रूपं तत्सत्यमितरन् मृषा ।
इति कः कुत्र रोहेत
इति । अनुभवब्रुडने सिद्धमेवार्थब्रुडनम् । ननु तर्हि अनुभवार्थयोः को विशेष इत्यत आह न तु इति । असौ - अर्थः, न हि सितोत्पलमानयेत्युक्ते विशेषणीभूतः सितगुण आनेतु शक्यत इति भावः ।
स्वातन्त्र्याऽस्वातन्त्र्यरूप एवानयोर्भेद इति भावः । एतदवष्टम्भेन कर्माऽनिर्देशस्य युक्तत्वं कथयति तदर्थमेव इति । न हि अयत्नसिद्धे वस्तुनि यत्नापेक्षेति भावः । ननु अनुभूतोऽर्थः इत्यादौ अनुभवस्याप्यर्थ विशेषणता दृश्यते एव, विशेषणविशेष्यबावो हि काल्पनिक एव सत्यम्, अयं विशेषणविशेष्यभावः बाह्यव्यवहारयोग्यः एव, बहिरर्थस्य प्राधान्यात् ज्ञानस्य तु गौणत्वात् । आन्तरे व्यवहारे तु ज्ञानस्यैव प्राधान्यमर्थस्य तु अप्राधान्यमित्यलम् । ननु तर्हि घटमनुभवामि इत्यत्र कथं कर्मनिर्देश इत्यपेक्षायाम् आह घटादिः इति । न ओराहति, बहिर्मुखत्वेन ग्रहणात्, अन्यथा इदम् शब्दायोगात् अमु घटम् इति युक्तस्तत्र प्रयोगः । हि शब्दद्योतनीयम् अस्य श्लोकस्य पूर्वश्लोकं प्रति हेतुभावं प्रकटीकरोति यस्मात् इति । पृथक् - इदन्तया । पूर्वेण - पूर्वश्लोकेन, प्राक् पदमनपेक्ष्यैव अपरार्ध इत्युक्तम् भूयसा व्यपदेशा भवन्ति इति न्यायात् ।
लुङा भूतकालस्य द्योतितत्वात् प्राक् इति भिन्नक्रमः, उत्तमपुरुषेण अस्मदर्थस्य अहम् इत्यपि । आरोहणम् इति, रुहिरिति अणिजन्तः णिजन्तोपि [रुहिरपि णिजन्तोऽपि - क्। ष्। ष्।] ॥ ४ ॥
ननु क एवमाह - अनुभवः पृथक् न भाति इति, घटवत् न भाति इति चेत् किं ततः ? घटोऽपि हि न अनुभवसख्यः [अनुभवभङ्ग्या - क्। ष्। ष्।] भाति इति
“प्राक्” शब्दस्य पूर्वार्धे योजने हेतुमाह लुङा इति । लुङा - लुङिति प्रत्ययेन द्योतितत्वात् इति, लुङ् इति सूत्रमाहात्म्यादिति भावः । समुच्चयेन अहम् इति शब्दस्यापि भिन्नक्रमत्वमेव कथयति उत्तम इति । उत्तमपुरुषेण
- मिपा, अस्मदर्थस्य - अहम् इत्यस्य, द्योतितत्वात् अहम् इत्यपि भिन्नक्रमो भवति अन्वभूवम् इत्यस्य कर्तृत्वेन न वर्तते इति भावः । ननु कथमेकस्य आरोहण शब्दस्य विश्रम विश्रमणा रूपमर्थद्वयमित्यपेक्षायामाह आरोहणम् इति । आरोहणशब्दस्य अणिजन्तस्य णिजन्तस्य च विग्रहः । रुहिरिति अणिजन्तः, रुह बीजजन्मनि इति धातुः यस्य विश्रमोऽर्थ इति भावः । णिजन्तोऽपि, यस्य विश्रमणाऽर्थ इति भावः ॥ ४ ॥
अथ पञ्चमश्लोकस्यावतरणिकां करोति ननु इति ।
अत्र टीका :-
पृथक् - इदन्तया, नेदं वक्तुं युक्तमिति भावः । सत्यं भाति परन्तु घटवन्न भाति इति गुरुशङ्कापूर्वं हान्यभावं स्वस्य गुरुं प्रति कथयति घटवत् इत्यादि किं ततः इत्यन्तम् । किं ततः, न कापि हानिरिति भावः । हान्यभावमेव घटेन समानन्यायत्वमाश्रित्य कथयति घटोपि इति । अनुभवसख्यः - अनुभवसदृशः, अनुभववदिति यावत् । इति शब्दो हेतौ, अतः स घटः किन्न
किं [भाति इति, किं न भाति - क्। ष्। ष्।] न भाति ? स्वभावेन भाति इति तु उभयत्रापि समानम् । तथा हि - अतीतानागतसूक्ष्मादि यथा योगिज्ञाने विषयीभवति इति अभ्युपगतम्, तथा परचित्तमपि
“प्रत्यस्य परचित्तज्ञानम् ।” (योगद। ३ पा। १९ सू।)
इत्यादौ । तत्र ज्ञानवृत्तिपरिणतमेव सत्त्वं चित्तशब्देनोक्तम्, अन्यथा प्रत्ययस्य संयमविषयीकार्यत्वं कथमुच्येत् [किमुच्यते - क्। ष्। ष्।] आलम्बनयोगश्च कथं शङ्कयेत
भाति इत्यर्थः । शिष्यः पुनराक्षेपं करोति कीन्न इति । गुरुः अभानम् अयुक्तं ज्ञात्वा अन्यथा अर्थं करोति स्वभावेन भाति इति, घटवन्न भाति इत्यस्य अभानं नैवार्थः किन्तु स्वरूपेण भानमेवेत्यर्थः ।
शिष्यः स्वभावेन भानमनुभवेऽप्यारोपयति इति तु इति । इति तु - एतत्तु, स्वभावेन भानं समानं भवति, अनुभवस्यापि घटस्वभावेन अभानात् । एतदेव समर्थयितुम्पक्रमं करोति तथा हि इति । तथा हि शब्दाक्षिप्तं वस्तु प्रकटयति अतीत इति । आदि शब्देन विप्रकृष्टादेर्ग्रहणम्, अभ्युपगतम् - अङ्गीकृतम्, अतीतादिविषयीभाववत् परिचित्तमपि विषयीभवतीत्यभ्युपगतम् ।
कुत्राभ्युपगतमित्यपेक्षायामाह प्रत्ययस्य इति । प्रत्ययस्य - योगिज्ञानस्य, परिचित्तज्ञानम् भवति, इत्यादौ, एवमादौ पतञ्जलिसूत्रे इत्यर्थः । नन्वत्र चित्तस्य ज्ञानमुक्तं न तु ज्ञानस्येत्यत आह तत्र इति ।
तत्र - समनन्तरोक्ते पातञ्जलसूत्रे, ज्ञानवृत्त्याज्ञानाख्यबुद्धिवृत्तिभावेन, परिणतम् - रूपान्तरं गतम्, सत्त्वम् - बुद्धिरूपं महत्तत्त्वम् उक्तम्, न तु लोकप्रसिद्धं मनः तस्य सङ्कल्पमात्रनिष्ठत्वेन मनःशब्देन कथनात् । अन्यथा - ज्ञानवृत्तिकथनाभावे, प्रत्ययस्य - परज्ञानस्य, संयमविषयोकार्यत्वम् - योगिप्रणिधानविषयीकरणयोग्यत्वम्, कथमुच्येत, विरोधापातात् । तथा आलम्बनयोगश्च - स्वस्वविषयसम्बन्धश्च, अर्थात् तस्य चित्तस्य कथं
“न च सालम्बनम्” इति । तस्मात् परकीयमनुभवनमिव निजमपि विषयीक्रियताम् इत्याशङ्क्य दृष्टान्त एवासिद्धः इति “भान्ति” इत्यन्तेन, अभ्युपगमेन वा सिद्धत्वेऽपि प्रकृतेऽर्थे विषमः इति शेषेण दर्शयति :-
योगिनामपि भासन्ते न दृशो दर्शनान्तरे ।
स्वसंविदेकमानास्ता भान्ति मेयपदेऽपि वा ॥ ५ ॥
“योगिनाम्” यत् एतत् “दर्शनान्तरम्” भावनाद्युद्भवः परचित्तविषयो ज्ञानविशेषः, तत्र “दृशः” इति उपलब्धयो न भान्ति । तथा हि - सौगतानां
शङ्क्येत । कुत्र इत्यपेक्षायामाह न च इति, अस्मिन् सूत्रे इत्यर्थः । अयं भावः, यदि चित्तशब्देन अस्मिन् सूत्रे मनस एवोक्तिः स्यात् तर्हि अन्यसूत्रे आलम्बनविषयां शङ्का योगिनां परज्ञानं विषयसम्बद्धमेव विषयीकरोत्वित्येवंरूपां न कुर्यात् । कर्णे पृष्टस्य कटिपृष्ठचालनकारित्वापातात् इति । उपसंहारं करोति तस्मात् इति । निजमपि
- स्वकीयमनुभवनमपि, सामान्यप्रमात्रा विषयीक्रियताम् इति, अनुभवत्वाऽविशेषादिति भावः । दृष्टान्तः - योगिज्ञानेन परज्ञानविषयीकरणरूपः । भान्ति इत्यन्तेन - चतुर्थपादादिभूत भान्ति इतिशब्दान्तेन निषेधपरेण श्लोकखण्डेन, अभ्युपगमेन - अङ्गीकाररूपेण, शेषेण वा - मेयपदेपि वा इत्येवंरूपेण खण्डेन वा । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । योगिनाम् इति ।
अत्र टीका :-
सूत्रस्थं दर्शनान्तरे इति पदं व्याचष्टे भावना इति । भावनायाः - आत्मभावनायाः, आदिशब्दात् करणादेश्च, उद्भवः, - प्रादुर्भावो यस्य सः, परचित्तविषयः - अन्यज्ञानविषयः, ज्ञानविशेषः - अन्यज्ञानेभ्योतिशययुक्तं ज्ञानम्, तत्र - तस्मिन् ज्ञानविशेषे । दृशः इति पदं व्याचष्टे उपलब्धयः इति, ज्ञानानीति यावत् । न भानम् एव समर्थयितुमुपक्रमं करोति तथा हि इति । तथा हि शब्दाक्षिप्तं वस्तु प्रकटयति मतभेदेन सौगतानाम्
तावत् स्वप्रकाशैकरूपं ज्ञानम्, तत् चेत् ज्ञानान्तरेण वेद्यम्, तर्हि यद् अस्य निजं वपुः अनन्यवेद्यतया प्रकाशनं नाम न तत्प्रकाशितं स्यात् ।
साङ्ख्यानामपि पुरुषच्छायैव उपलब्धिः, पुरुषश्च असंवेद्यपर्वा इति कथं वेद्या [इति कथं वेद्यः स्यात् - क्। ष्। ष्।] स्यात् । वैशेषिकाणामपि आत्मनि अभेदेन समवायि संवेदनं परगतं मनसा कथं गृह्येत अन्तःशरीरवृत्तिना, तच्छरीरान्तरनुप्रवेशे तु तस्यैव अहम् इति शरीरीकरणात् अहन्तावभासितत्वात् आत्मनो भेदो
इति । सौगतानाम् - सुगतभक्तानाम्, बौद्धानामिति यावत् । स्वप्रकाशम् एकम् - केवलम्, रूपम् - स्वरूपं यस्य तादृशम्, अनन्यवेद्यतया प्रकाशनं नाम स्वप्रकाशं नामेत्यर्थः । न स्यात् इति, स्वप्रकाशत्वव्याघातापातादिति [स्वप्रकाशव्याघातापातात् - च्।] भावः । पुरुषच्छायैव - बुद्धौ पुरुषप्रतिबिम्ब एव, उपलब्धिः - जानाख्यबुद्धिवृत्तिभीन्नं प्रकाशाख्यं फलम्, असंवेद्यपर्वा - असंवेद्यस्वरूपः, वेद्या इति उपलब्धिविशेषणम्, न हि प्रतिबिम्बं बिम्बविलक्षणं युक्तमिति भावः । वैशेषिकाणाम् - तार्किकाणाञ्च, समवायि - गुणत्वेन समवायवृत्त्या स्थितम्, संवेदनम् - ज्ञानम्, परगतम् - परात्मनि समवेतम्, मनसा, कीदृशेन ? अन्तःशरीरवर्तिना
- शरीरान्तर्गतेन, अत्र मनसः विभुत्वाभावमेव हेतुत्वेन योजनीयम् ।
तच्छरीरान्तः प्रवेशे - परशरीरान्तःप्रवेशे, तस्यैव - परशरीरस्यैव, शरीरीकरणात् - स्वशरीरतया सम्पादनात्, अहम्भावगृहीतमेव शरीरं स्वशरीरमिति भावः । तथा अहन्तावभासितत्वात् - परशरीरस्यापि अहन्तया प्रकाशितत्वात्, आत्मनः - निजात्मनः, भेदः - परात्मना सह भेदः, विगलेत् - नश्येत्, इदन्ताग्रहणमात्रस्यैव भेदत्वात्, तथा च अपसिद्धान्तापत्तिस्तेषामिति भावः । ननु वैशेषिकमते आत्मनो नित्यानुमेयत्वमिति त्वया मनसा अहम् इति प्रत्यक्षग्रहणेन भेदविगलनं प्रसञ्जितमित्यत आह नित्य इति ।
नित्यानुमेयत्वम् - बुद्ध्यादिलिङ्गेन सर्वदैवानुमितिविषयत्वम्, मानसप्रत्यक्षविषयत्वस्याङ्गीकारादिति
विगलेत्, नित्यानुमेयत्वं तु न आत्मन उपपद्यते, ज्ञानस्य च ज्ञानान्तरवेद्यत्वेऽनवस्थानादि [अनवस्थादि - क्। ष्। ष्।] उक्तम् ।
तस्मात् यिगिनः परचित्तवेदनावसरे इयान् प्रकाशः - एतद्देहप्रकाशसहचारी घटसुखादिप्रकाशः - इति । तत्र घटसुखादि [घटसुखादिः - क्। ष्। ष्।] इदन्तया भाति, तद्गतस्तु प्रकाशोऽहम् - इत्येव स्वप्रकाशतया प्रकाशते ।
प्रमात्रीकृतपरदेहप्रणादिसमवभाससंस्कारात् तु तन्निष्ठाम् इदन्ताम्
भावः । वैशेषिकैः स्वयमेवोक्तं दोषान्तरमप्याह ज्ञान इति ।
अनवस्थानादि इति, तस्याप्यन्येन ग्रहणं तस्याप्यन्येन इत्येवंरूपात् अनवास्थानात्, आदि शब्देन चक्रकादेर्ग्रहणम् ।
पूर्वार्धं व्याख्याय भान्ति इत्यन्तम् उत्तरार्धं व्याख्यातुमवतरणिकां करोति तस्मात् इति । तस्मात् - यतो योगिनां दर्शनान्तरे दृशो न भासन्ते, सर्वथाऽभासनञ्च अयुक्तमेव, ततः कारणात् । इयान् इति पदेनापेक्षितं वस्त्वाह एतद् इति । एतद्देहप्रकाशस्य - परदेहावच्छिन्नप्रकाशस्य, सहचारि - विषयभावेन सहचरणशीलः, घटसुखादिप्रकाशः - घटसुखादिरूपः प्रकाशो भवति । इति शब्दः प्रमेयपरिसमाप्तौ । ननु ततः किमित्यत आह तत्र इति । तत्र - तस्मिन् परचित्तज्ञाने, घटसुखादि - परज्ञानविषयीभूतं बाह्यमान्तरं वा वस्तु घटरूपं सुखरूपं वा, आदिशब्दात् सर्वं बाह्यमान्तरञ्च वस्तु, इदन्तया भाति - इदन्ताग्रहणे एव योग्यत्वात् । तद्गतस्तु - घटसुखादिविषयीभूतस्तु, प्रकाशः - अनुभवः, अहम् इत्येव स्वप्रकाशतया - स्वप्रकाशभावेन, प्रकाशते, तादृक्स्वभावत्वात् ।
फलतस्तु भासनापेक्षैव नास्ति सदा स्वात्मत्वेन स्थितत्वादिति भावः । तर्हि कथम् इदं परज्ञानम् इति कथयत्यसौ इत्यत आह प्रमात्रीकृत इति ।
प्रमात्रीकृतम् - अव्युत्पन्नत्वेन पूर्वम् अप्रमातृरूपमपि प्रमातृतया सम्भावितं यत् परदेहप्राणादि, तस्मिन्यः समवभासः - इदन्तया
एव प्रकाशभागेऽपि मन्यमान इदं परज्ञानम् इति अभिमन्यते अविगलितस्वपरविभागो योगी । प्राप्तप्रकर्षस्तु सर्वम् आत्मत्वेन पश्यन् स्वसृष्टमेव स्वपरविभागं मन्यते [पश्यति - क्। ष्। ष्।] इति ज्ञान्स्य न योगिज्ञानेन प्रकाश्यता । भवतु वा तथापि प्रकृतं [प्रकृते - क्। ष्। ष्।] न एतत्समम् । तथा हि - अयमनुभवति इति परनिष्ठ एव
ज्ञानम्, तस्य यः संस्कारः - पूर्वभ्रामितचक्रभ्रमणरूपः, तस्मात्, तु, अविगलित स्वपरविभागः - ईश्वरावस्थां प्राप्तः, न तु सदाशिवादिदशामधिशयानः, योगो, तन्निष्ठाम् - परदेहादिविषयाम्, इदन्ताम् - इदम्भावम्, प्रकाशभागेऽपि - देहादिप्रमातृतादायिनि तदवच्छिन्ने प्रकाशांशेऽपि, इदं परज्ञानम् इति अभिमन्यते - अभिमानेन जानाति, न तु तथा सम्भवतीति भावः । ननु विगलितस्वपरविभागस्य योगिनः का वार्तेत्यत आह प्राप्त इति ।
प्राप्तप्रकर्षः - स्वपरविभागगलनेन प्राप्तातिशयो योगी तु, सर्वम् - समस्तं वेद्यराशिम्, आत्मत्वेन पश्यन् - अहम् इति ग्रहणेन, स्वपरविभागं स्वसृष्टमेव मन्यते - जानाति, तथा च न तस्यापि ज्ञानान्तरेण परज्ञानभानमिति भावः । अतश्च प्रतारकैः केनापि प्रयोगेण साधितमपि परचित्तज्ञानं दृष्ट्वा न तत्रैव निष्ठा कार्या सर्वत्र स्वात्मतादर्शनमात्रस्यैव परमयोगित्वात् तस्य पराविषयत्वात् इत्यलम् । फलितमाह इति इति । इति - अतः कारणात्, । एवमत्र वाक्यार्थः ।
पदार्थस्तु, स्वसंवित्, - स्वरूपभूता संवित्, एकम् - केवलम्, मानं यासां ताः, स्वप्रकाशा इत्यर्थः, ताः - दृशः, भान्ति - प्रकाशन्ते इति ।
मेयपदेऽपि वा इति पदं व्याचष्टे भवतु वा इति । भवतु वा इत्यनेन पक्षान्तरद्योतकस्य अपि वा इत्यस्य व्याख्या । प्रकृतम् - दृशोऽन्यदृगवेद्यत्वरूपम् आरब्धं वस्तु, एतत्समम् - योगिदृगन्तरवेद्यदृक्समम् । कुतो न समम् इत्यत आह तथा हि इति ।
परनिष्थः - परकर्तृकत्वावच्छिन्नः, एव, एतेन
असौ अनुभवे योगिनः प्रकाशः, न तु अहमनुभवामि इति आत्मारोहेण वर्तमानः, [आत्मारोहेण, इह तु - क्। ष्। ष्।] इह तु अन्वभूवम् इति अहमंशविश्रान्तिः अनालीढेदम्भावैव अनुभवस्य इति युक्तमुक्तम् - यस्मात् अनुभवः पृथक् न भाति तस्मात् ऐक्यं भिन्नकालानां संविदां वेदिता इति ॥ ५ ॥
यद्यहम्भावविश्रान्तिवशात् अनुभवः स्मृतौ पृथक् न भाति इति उच्यते, तथा परामर्शान्तरं साक्षादेव इदन्तया अनुभवं परामृशत् यदि वा इदम्भावोचितघटादिविश्रान्तताम् अनुभवस्य प्रथयत् उपलब्धम्, इति
मेयप्दे इत्यस्य व्याख्या, परस्य मेयत्वात्, पदे - गोचरे, परनिष्ठतयेति यावत् । तदुक्तम् :-
स परो यस्तु मीयते
इति । अनुभवे - परानुभवे, आत्मारोहेण - आत्मविश्रान्त्या, वर्तमानः, आत्मकर्तृकत्वावच्छिन्न इति यावत् । प्रकाशः इति भान्ति इत्यस्य व्याख्या, काकाक्षिगोलकन्यायेन तस्यात्रापि योजनात् । इह - प्रकृते, अनालोढेदम्भावा - अस्पृष्टेदन्ता । प्रमेयजातमुपसंहरति इति इति । इति - अतः कारणात् । किमुक्तमित्यपेक्षायामाह यस्मात् इति । नैवं ह्यनुभवो भाति इत्यत्र श्लोके इति शेषः ॥ ५ ॥
अर्थ षष्ठश्लोकस्यावतरणिकां करोति यद्यहम्भाव इति ।
अत्र टीका :-
परामर्शान्तरम् - अन्वभूवम् इति परामर्शादन्यः परामर्शः सा मे दृगासीत् इत्येवंरूपः । इदन्तापरामर्शम् अनुभवस्य अत्यन्तमयुक्तम् ज्ञात्वा पक्षान्तरमाह यदि वा इति । प्रथयत् - प्रथां नयत्, उपलब्धम्
- अनुभूतम्,
तदनुसारेणापि किं न व्यवह्रियते इति पराभिप्रायं प्रतिक्षिपति :-
स्मर्यते यद्दृगासीन्मे सेत्येवमपि [सैवमित्यपि - क्। ष्। ष्।] भेदतः ।
तद्व्याकरणमेवास्या मया दृष्टमिति स्मृतेः ॥ ६ ॥
लोकस्य तावत् एवं न संवेदनम्, स हि न पृथग्भूतां दृशं काञ्चित् मन्यते - “सा दृक् मे आसीत्” इत्येवम् । एवमपि [इत्येवम् । अपि तु - क्। ष्। ष्।] तु यत् स्मर्यते एवं भूतमपि यत् स्मरणं कस्यचित् विवेचकम्मन्यस्य, तत् स्मृतेर्व्याकरणम्, पदस्येव
तदनुसारेण - तस्य परामर्शान्तरस्यानुवृत्त्या, प्रतिक्षिपति - उपन्यस्य एवं प्रति समाधत्ते । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे ।
स्मर्यते इति ।
अत्र टीका :-
एवम् इति सा मे दृगासीत् इत्येवंरूपम्, संवेदनम् - स्मृतिज्ञानम् ।
कुतो नास्तीत्यपेक्षायामाह स हि इति । सः - लोकः, पृथग्भूताम् - सम्बन्धित्वेन कथनात् षष्ठीद्योतितभेदभूषिताम्, एतेन भेदतः इत्यस्य व्याख्या । काञ्चित्, वक्ष्यमाणद्वाविंशतिभेदभिन्नज्ञानजातमध्ये एकामपीत्यर्थः । न मन्यते, अहमनुभवामि इत्यादिरूपाहमंशविश्रान्ततयैव सर्वत्र संवेदनात् इति भावः । सूत्रे स्थितामेतामेव दृशमनुकृत्य दर्शयति सा इति । एतच्चासम्भवनं सूत्रस्थेन अपि इति शब्देन द्योतितम्, अपिशब्दस्य असम्भवद्वस्तुसम्भवद्योतकत्वात् । इति एवम् इति शब्दाभ्यां दृक्स्वरूपपरामर्शनं कृतम् । कथञ्चित्सम्भवेपित्वदिष्टं न सिद्ध्यतीत्याह एवमपि तु इति । एतेन इत्येवमपि इति व्याख्यातम् । यत्स्मर्यते इति व्याचष्टे एवम्भूतम् इति । आक्षिप्तं कर्तारं दर्शयति कस्यचित् इति, मिथ्याविवेचकत्वाभिमानयुक्तस्येत्यर्थः । एतेन पूर्वार्धं गतव्याख्यम् । तथा च योजना । केनचिद्विवेचकम्मन्येन कर्त्रा सा मे दृगासीत् इत्येवमपि भेदतः यत् स्मर्यते इति ।
प्रकृतिप्रत्ययार्थनिरुपणं काल्पनिकं विभज्य आकरणं परत्र प्रतिपादनमात्रम् । सोऽपि यदि मुलप्रतीति वेदयते [विमृशति - क्। ष्। ष्।] पूर्वोक्तक्रमेण, तदा अनुभवं पृथग्भूतं न वेद, यत एव तत् राहोः शिरः इतिवत् कल्पितं भेदं मन्यते । अन्यथा स घटः इतिवत् सा दृक् इत्यत्रापि प्राक्तनं दृगन्तरम् अपेक्षणीयं स्यात् । तत् इत्यनेन हि घटस्य वा दृशो वा पूर्वानुभवविषयापत्तिः उच्यते, अन्यथा
उत्तरार्धं व्याख्यातुं तत् शब्दयोजनां करोति तत् - इति । तत् - पूर्वार्धोक्तं स्मरणम्, स्मृतेर्याकरणम् इति पदं व्याचष्टे पदस्य इति । पदस्येव - कुम्भकार इति पदस्येव, प्रकृतिप्रत्ययार्थनिरुपणम् - डुकृञ्प्रकृतिकाण्प्रत्ययार्थनिरूपणम् [कृञ्प्रकृतिकाण् - च्।] कर्मण्यण् इति सामान्यसूत्रेण, कदाप्रकृतिकप्रत्ययार्थनिरूपणम् आतोऽनुपसर्गे इति विशेषसूत्रेण, काल्पनिकम्, न तु सहजम्, परमार्थतोऽखण्डस्य पदस्यैव सोऽर्थः । तदुक्तम् :-
प्रकृत्यादिविभागकल्पनया सामान्यविशेषवता सूत्रेण
इति । वि इत्युपसर्गरूपमवयवं व्याचष्टे विभज्य इति । आकरणम् इति धातुप्रत्ययसमुदायरूपमवयवं व्याचष्टे परत्र इति ।
प्रतिपादनमात्रम्, न तु सम्यग्बोधनम् इत्यर्थः । कुतः प्रतिपादनमात्रमित्यत आह सोपि इति । मूलप्रतीतिम् - सा मे दृगासीत् इति प्रतीतेः मूलतया स्थिताम्, अन्यथा अस्या अनुत्थानात्, वेदयते इति स्वार्थणिजन्तः, वेत्तीत्यर्थः । अनुभवम् - सा मे दृगासीत् इति स्वतो भेदेनोक्तमनुभवम् । पुनः किं वेदयते इत्यत आह तत् इति । राहोः शिरः इतिवत्, अत्र राहोः शिरोमात्ररूपत्वात् स्फुटमेव षष्ठीसूचितो भेदः यथा काल्पनिकः तथैतदपीत्यर्थः । अन्यथा - काल्पनिकभेदानङ्गीकारे, प्राक्तनम् - संस्कारतया स्थितं पूर्वकालीनम्, दृगन्तरम् - अन्यमनुभवम् अपेक्षणीयं स्यात् इति, स इति विमर्शस्यापेक्षिकत्वादिति भावः । कुत इत्यपेक्षायामाह तत् इति । ननु ततोपि किम् इत्यत आह
दृक् इत्येव स्यात् । ततश्च दृक् मया दृगन्तरेण अनुभूता इति आपतेत् । तत्रापि तथात्वेऽनवस्था । ननु स्मृतेः मौलिकं किं रूपम् ? उच्यते - मया दृष्टम् इति । ननु अत्र दयितावदननलिनादिविश्रान्तं दर्शनम् उक्तम् न तु आत्मारूढम्, कर्मणि निष्ठोत्पत्तेः । स एष स्ववाचमेव न चेतयति । कर्तुः क्रियया हि आप्यं कर्म इति दृशिक्रियायाः कर्तृनिष्ठतैव । तथा च कर्तृस्थामेव
ततश्च इति । आपततु ततोपि किमित्यत आह तत्रापि इति । तत्रापि - दृगन्तरेऽपि, तथात्वे - दृगन्तरापेक्षित्वे । मया इति ग्रन्थस्य योजनां कर्तुमाह ननु इति । परिहारमाह उच्यते इति । परतिज्ञामेव सफलयति मया इति । उपलक्षणं चैतत् अन्वभूवम् इत्यादेः । अस्यैव हि प्रयोगस्य दर्शनस्यात्मविश्रान्तिप्रतिपादनपरस्य आत्मदर्शनविभागकरणं सा मे दृगासीत् इति प्रयोग इति भावः । स्पष्टतयाऽस्य व्याख्या न कृता योजनं चात्र स्फुटमेवेत्यस्माभिरपि नायस्तम् ।
शिष्यः प्रश्नयति नन्वत्र इति । दयितावदननलिनादिविश्रान्तम्, लक्षणया विषयविश्रान्तम्, कुत इत्याह कर्मणि इति । निष्ठीत्पत्तेः - क्तप्रत्ययोत्पत्तेः, प्रत्यस्य हि विश्रान्तिस्थानप्रधानपरत्वमेवेति भावः ।
गुरुरुत्तरयति स एष इति । स एषः, वैय्याकरण इत्यर्थः । न चेतयते - न जानाति । कां वाचमित्यपेक्षायां तद्वाक्यमनुकृत्याह कर्तुः क्रियया इति । अत्र च मलभतं कर्तुरीप्सिततमं कर्म इति सूत्रम्, अतिशयेनाप्तुमिष्टमीप्सिततमम्, तदेव प्राप्यमिति । नत्वत्र दृशिक्रियाया अपि आप्यघटादिविषयपरत्वम्, द्रष्टुरेव दर्शनेन अतिशयासादनात् न हि दयितावदनादिदर्शनेन तद्वदनादेः कोप्यतिशयः, अपि तु द्रष्टुः चैत्रस्यैव । ननु कथं दृशेः कर्तृनिष्ठतेत्यत आह तथा च इति । आहुः इति, वैय्याकरणाः, यद्यपि तैर्दृशेः कर्तृस्थभावकत्वमुक्तम्, तदुक्तम् :-
दृशिः कर्तृस्थभावकः रुहिः कर्तृस्थक्रियः
इति, तथापि भवादयो धातवः इति सूत्रेण क्रियाया एव धात्वर्थतारूपं भावत्वमपेक्ष्य क्रियाया एव धातुवाच्यत्वमुक्तम्, तदनुरोधेनेहापि दृशेः कर्तृस्थक्रियत्वमुक्तम्, परमार्थतस्तु न क्रियैव धात्वर्थः, गडि वदनैकदेशे इत्यत्र अक्रियारूपस्य
मेव दृशिक्रियामाहुः दर्शयते भृत्यान् राजा इत्यादौ । जैमिनीयैरपि ज्ञानरूपा दृशिः भावनात्मिका प्रमातृविश्रान्तैव उक्ता, केवलं प्रकटता
वदनैकदेशस्यापि धात्वर्थत्वात्, अत एव तार्किकैरपि दर्शनं गुणतयैवोक्तमित्यलं प्रपञ्चेन । यच्च भावेनैव क्रियाग्रहणेऽपि सिद्धे क्रियायाः पृथगभिधानं तद्बाहुल्येन प्राधान्यापेक्षयैवेति नान्यथा भ्रमितिव्यम् । कुत्रोदाहरणे आहुरित्यपेक्षायामाह दर्शयते इति ।
राजा, कर्ता, भृत्यान् स्वात्मानं स्वयं दर्शयते ते च तं पश्यन्तीत्यर्थः । अयमत्र भावः । गतिबुद्धि इति सूत्रेण गतिज्ञानाद्यर्थानां धातूनां सणिचि प्रयोगे कर्तुरेव कर्मत्वमादिष्टम्, ततस्तेषां कर्मवत्कर्मणा इत्यनेनैव सिद्धमात्मनेपदम्, णेरणौ इति सूत्रेण तु यः पुनः प्रयत्न आरब्धः स कर्मस्थक्रियाणामेव कर्मवत् इत्यनेन सूत्रेण आत्मनेपदं सिद्धं न तु कर्तृस्थक्रियाणामपि इति तेषामपि यथा स्यादित्येवमर्थः । तथा च स्मरति वनगुल्मं कोकिलः स्मारयति वनगुल्म एनं स्वयमेव इत्यत्र न आत्मनेपदम्, अनाध्याने इत्यनेन पर्युदासनात् । ततश्च णिजन्तप्रयोगे आत्मनेपददर्शनेनैव अत्र कर्तृस्थक्रियत्वं दृढीभूतम्, अन्यथा राजानं पश्यन्तीत्येतन्मात्रस्यैवाभीष्टसाधकत्वात् णिजन्तोदाहरणं व्यर्थ स्यात् इति । ननु यद्यत्र कर्तुरेव प्राधान्यं तर्हि तत एव निष्ठोत्पत्तेः मया इति तृतीयया न भवितव्यम्, प्रातिपदिकार्थमात्रे प्रथमाया एव युक्तत्वात्, सत्यम्, किन्त्वार्थिकमेवात्र कर्तुः प्राधान्यं तस्यैवातिशयासादनात्, शाब्दिकं तु कर्मण एव । व्याकरणेन शब्दव्युत्पादनमात्रपरेण तत्रैव प्रत्ययो विधीयते, ग्रन्थकृता तु परमार्थविचारोऽयं कृतः, तद्विचारे तु वैय्याकरणैः सह संवादो न युक्त एव, अत एव स एष इत्युदासीनतयैव तस्य दोषप्रसञ्जनम्, अन्यथा तु तेन सह युष्मत् प्रयोगेणैव संवादं कुर्यादित्यलम् ।
ननु तथापि जैमिनीयैः
तथा हि वेद्यता नाम भावस्यैव निजं वपुः ।
चैत्रेण दृष्टं वेद्मीति किं ह्यत्र प्रतिभासते ॥
इति दृशा दर्शनस्य कर्मस्थत्वमुक्तम्, तत्कथं निवार्यमित्यपेक्षायामाह जैमिनीयैरपि इति । दृशिः - दर्शनक्रिया, भावनात्मिका - भावनारूपा,
सा धातोः प्रत्ययाद्वापि भावनाऽवगता सती
विषयधर्मो दृष्टताख्या, अन्या संवित् वाऽस्वतन्त्रा [विषयधर्मो, दृष्टता नाम अन्या, संवित् वा स्वतन्त्रा - क्। ष्। ष्।] इति अन्यत् एतत् प्रमातृविश्रान्तत्वमेव कथयितुं मया इत्युक्तम् । तेन अन्वभूवमहम्, मयानुभूतम् इति शब्दवैचित्र्यमात्रमिदम्, न तु अर्थभेदः । अन्ये तु भिन्नक्रमत्वेन योजयन्ति - दृक् आसीत् सा मे इत्येवम्, मया दृष्टम् इति च यत् स्मरणं तत् व्याकरणमस्याः इति अनन्तरोक्तान्वभूवमित्युचितपरामर्शायाः स्मृतेः इति । अपिः चार्थे ॥ ६ ॥
इति तन्मते भावनाया एवार्थत्वात् । प्रमातृविश्रान्ता इति, न हि क्रिया क्रियावतो भिन्नेति भावः । प्रकटता दृष्टताख्या - दर्शनक्रियाफलभूता दृष्टताख्या प्रकटता, यद्वशेन दृष्ट इति, पश्यामि इत्यनन्तरं विशेषणविशेष्यभावव्यवहार इति भावः ।
पक्षान्तरमाह अन्या इति । अस्वतन्त्रा - अर्थाश्रितत्वेन स्वतन्त्रतारहिता । इति शब्दः प्रमेयपरिसमाप्तौ । अन्यदेतत् इत्यनेनास्य प्रकृतोपयोगित्वाभावमाह । नन्वत्र प्रमातृविश्रान्तत्वं केन ज्ञायत इत्यत आह प्रमातृ इति । वैयधिकरण्यद्योतितो भेदस्तु समनन्तरमेव निरस्तः । फलितमाह तेन इति । तेन, उक्तोपायेनेत्यर्थः । अन्यैरन्यथाकृतां योजनां कथयति अन्ये तु इति । भिन्नक्रमत्वेन इति, दृगासीन्मे मया दृष्टम् इत्येतयोः पृथक्स्थितयोरपि समच्चयेन योजनं कृत्वेत्यर्थः । तदेव दर्शयति दृग् इति । अस्याः इति पदं व्याचष्टे अनन्तरोक्ता इति । अनन्तरोक्ता चासौ अन्वभवम् इत्युचितपरामर्शा च तस्याः, स्मृतेः इति, स्मृतिपदेन सहैव अस्याः इत्यस्य योजनं कार्यमित्यर्थः । ननु समुच्चयवाची चकारोऽत्र नास्ति इति कथं समुच्चयेन योजनं कृतमित्यत आह अपिः इति ।
चार्थे, च शब्दार्थभूते समुच्चये इत्यर्थः । अस्यां योजनायां च न तादृशी कष्टकल्पना इति न निरस्ता, अपि त्वङ्गीकृतैव परमतम् इत्यादि न्यायात् ॥ ६ ॥
ननु दृष्टमपि निर्विकल्पकेन [निर्विकल्पेन - क्। ष्। ष्।] यावत् न परामृष्टं विमर्शविशेषविश्रान्त्या तावत् न स्मर्यते मार्गदृष्टमिव तृणपर्णादि विशेषेण [विशेषारूपेण - क्। ष्। ष्।] रूपेण, तदिदमेव विचारणीयम्, समनन्तरभाविविकल्पकाले तद्दर्शनम् इदन्तया अवभातपूर्वं वा न वा इति, तदेतत् आशङ्क्याह :-
या च पश्याम्यहमिमं घटोऽयमिति वाऽवसा ।
मन्यते समवेतं साप्यवसातरि दर्शनम् ॥ ७ ॥
इह दर्शनं यादृशं निजेन वपुषा तादृशेनैव तेन भातव्यं सर्वदा, तच्च स्वकालेऽनन्यप्रकाशम् अहम् इत्येतावता स्वरूपेण [एतावता रूपेण - क्। ष्। ष्।] उचितप्रकाशम्,
अथ सप्तमश्लोकस्यावतरणिकां करोति ननु दृष्टम् इति ।
अत्र टीका :-
दृष्टमपि - अनुभूतमपि, निर्विकल्पकेन - निर्विकल्पज्ञानेन, परामृष्टम् - अवसितम्, विमर्शविशेषे या विश्रान्तिस्तस्या, तदनुपदमेव भाविना सविकल्पज्ञानेनेति शेषः, सविकल्पज्ञानस्यैव परामर्शकत्वात्, विशेषेण रूपेण न स्मर्यते इति योजना । तत् - ततः कारणात् । इदं किम् इत्यपेक्षायामाह समनन्तर इति । समनन्तरभाविविकल्पकाले - निर्विकल्पज्ञानानन्तरभाविनः सविकल्पज्ञानस्य समये, तदनुसारेणैव स्मृतिपरामर्शेऽपि दर्शनं विचारितं भवेदिति भावः । इति शब्दः प्रश्नपरिसमाप्तौ । समाप्तमपि वस्तु पुनः परामृसति तदेतत् इति ।
एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । या च इति ।
अत्र टीका :-
तत्र प्रथमम् अपि शब्दसूचितं वस्तु कथयति इह इति । इह - भासमाने जगति, दर्शनम् - अनु वः, वपुषा - स्वरूपेण, तादृशेन, तादृशेन वपुषेत्यर्थः, तेन - दर्शनेन, भातव्यम् इति, अन्यथाभाने भ्रमरूपतापातादिति भावः । तच्च - दर्शनञ्च, अनन्यप्रकाशम् - स्वप्रकाशम्, अत एव अहम् इत्येतावता
तद्विकल्पांशविचारः तावत् न कुत्रचित् अङ्गम्, भवतु [भवतु वा, किं तु - क्। ष्। ष्।] वाङ्गम्, कि तु अवसायोऽपि एवम्भूतः इति अपिशब्देन सूचयति । तत्र समनन्तरभाविना विकल्पेन वस्तु परामृश्यमानम् अनुभवपरामर्शमुखेन वा परामृश्यते अहमिमं पश्यामि इति वर्तमानतया, इमम् इत्यनेन च प्रत्यक्षव्यापारत्वं प्रत्यक्षायमाणत्वेन दर्शितम् । एवमेव वा परामृश्यते - घटोऽयम् इति ।
अत्र अयंशब्देन प्रत्यक्षायमाणत्वमुक्तम् । तत्र अन्त्ये विकल्पे दर्शनस्य
स्वरूपेणोचितप्रकाशम् उचितभानमित्यर्थः । अत्र किमपि वक्तव्यं नास्तीति भावः । यत्र तु किञ्चिद् वक्तव्यमस्ति तदपि कथयति तत् इति ।
विकल्पांशविचारः - तत्समनन्तरभाविपरामर्शलेशविवेकः, अङ्गम् - उपकारकम्, न इति, अर्थस्पर्शित्वादिति भावः । भवतु वाङ्गम्, अस्तु वाङ्गमित्यर्थः, अवसायोऽपि - दर्शनविकल्पांशोपि, एवम्भूतः - अनन्यप्रकाशः । नन्वेतावान् प्रपञ्चः सूत्रे न दृश्यते इत्यपेक्षायामाह अपिशब्देन इति । सूचयति, आचार्य इति शेषः, अपिशब्दस्य असम्भवद्वस्तुसम्भवपरत्वादिति भावः । नन्वेतेनैव दर्शनस्यापि विषयवत् इदन्तास्पदत्वमायातमित्यपेक्षायां विकल्पद्वयं करोति तत्र इति, विकल्पांशस्याङ्गत्वे सतीत्यर्थः । समनन्तरभाविना विकल्पेन, सविकल्पज्ञानेनेत्यर्थः । वस्तु - दर्शनविषयीभूतं घटादि, परामृश्यमानम् - स्वव्यापारविषयीक्रियमाणम्, अनुभवपरामर्शमुखेन - दर्शनपरामर्शद्वारेण । कथम् इत्यपेक्षायामाह अहम् इति । वर्तमानतया इति, लटो वर्तमाने प्रयोगादिति भावः । इत्थभावे तृतीया । एतदन्तर्गतस्य इमम् इत्यस्याभिधेयमाह इमम् इति । प्रत्यक्षव्यापारत्वम् - दर्शनरूपो यः प्रत्यक्षाख्यो व्यापारस्तस्य भावः, प्रत्यक्षायमाणत्वेन - प्रत्यक्षमिवाचरत्त्वेन, दर्शितम्, परमार्थतः प्रत्यक्षत्वायोगात् क्यचा निर्देशः ।
एवमुत्तरत्रापीत्थम्भावे तृतीया । द्वितीयमपि विकल्पमाह एवमेव वा इति ।
“अयंशब्देन” इति, अयम् शब्दस्यापि इदम् शब्दवत् प्रत्यक्षविषये प्रयोगादिति भावः । यद्यपि इमम् इत्यनेन अयम् इत्यनेन
पृथक् परामर्श एव नास्ति इति का तत्र इदन्ताशङ्का । ततश्च पारिशेष्यात् अहन्तया तस्य अत्रास्ति परामर्शः, तदभावे विकल्पस्य निमीलिताक्षेऽपि भावात् स्वयमर्थस्पर्शे सति [अर्थास्पर्शे स्फुटतम विषयपर्यंवसितः - क्। ष्। ष्।] स्फुटतमविषयपर्यवसितः कथमध्यवसायो भवेत् । आद्ये तु दर्शनं परामृष्टमपि अस्मदर्थेऽन्तर्भूतम् [अस्मदर्थान्तर्भूतम् - क्।
ष्। ष्।] अहम्भावास्पदम्
च विषयस्यैव प्रत्यक्षत्वद्योतनम् तथापि तत्सन्निधेस्तद्विषयिणोऽपि तत्स्पर्शापत्तिरिति न किञ्चिद्विरुद्धम् । तत्र प्रथमे विकल्पे बहुवक्तव्यतां ज्ञात्वा तं तावदवस्थाप्य द्वितीयमेव प्रथमं विवेचयति तत्र इति । अन्त्ये विकल्पे - घटोयम् इत्येवंरूपे, नास्ति इति, तद्वाचकशब्दाभावात् इत्यर्थः ।
ननु ततः किमित्यत आह ततश्च इति । पारिशेष्यात् - परिशिष्टतया, न हि सर्वथा तस्य परामर्शाभाव एव युक्त इति भावः । ननु सोपि मास्त्वित्यत आह तदभावे इति । तदभावे - अहम्परामर्शाभावे, विकल्पस्य - विषयविकल्पस्य, निमीलिताक्षेऽपि - वस्त्वनुभूयैव शीघ्रं वस्तुकृतसुखादिना निमीलितनेत्रे पुरुषेऽपि, भावात्, निमीलितनेत्रोपि हि विकल्पकरणे समर्थो भवतीत्यतो हेतोरित्यर्थः । स्वयम्, अर्थात् तस्य विकल्पस्य, अर्थस्पर्शे सति, स्फुटतमः - सर्वधर्मग्रहणेनातिस्फुटो यो विषयः तत्र पर्यवसितः - विश्रान्तः, अध्यवसायः अर्थात्तस्य निमीलिताक्षस्य कथं भवेत्, दर्शनस्य नेत्रनिमीलनात् प्रागेवगतत्वात् पुनर्दर्शनासम्भवेन यदि तदेव दर्शनं तदात्मनि निरूढं तदा कथं तदनुसार्यर्थविकल्पसाध्यः अध्यवसायः सम्भवेदिति सङ्क्षेपः । उन्मीलितनेत्रस्य दर्शनसम्भवेन पुनः विकल्पकृताध्यवसायसम्भवान्निमीलिताक्ष इत्युक्तम् । अपिशब्दः असम्भवद्वस्तुसम्भवपरः । स्थापितं प्रथमं पक्षमपि विचारयति आद्ये इति । आद्ये - पश्यामि इत्येवंरूपे, परामृष्टम्, पश्यामि इति पदेनेति भावः । अस्मदर्थेऽन्तर्भूतम् - प्रकृतिप्रत्ययौ इति न्यायेन प्रत्ययार्थभूते अस्मच्छब्दार्थे ब्रुडितम्, अत एव अहम्भावास्पदम् - अहम्भावविषयीभूतम्, अत एव अवसातरि - अवसातृशब्द
अवसातरि विश्रान्तं स्वप्रकाशमेव परामृष्टम् इति विकल्पोऽपि न बोधान्तरबोध्यतां बोधयति बोधस्य ।
अवसायः अवसा, समवेतम् इति अपृथग्भावमाह । अवसातरि इति, स्वतन्त्रेऽन्तर्मुखे बोधात्मनि अहन्तास्पदे इत्यर्थः । दर्शनम् इति निर्विकल्पकमनुभवनम् । उपलक्षणं चैतत् विकल्पस्मृत्यादेरपि, ज्ञानस्य ज्ञानान्तरेण परामर्शे हि अयमेव न्यायः । विकल्पयाम्यहम्, स्मराम्यहम्, विकल्पितं मया स्मृतं मया इति अहन्तारूढ्यैव विकल्पादेः अवभासात् । अत एव आत्मनोऽमी विकल्पाद्याः शक्तिविशेषाः तद्विश्रान्तशरीरत्वात् इति दर्शितम् ज्ञानस्मृत्यपोहनशक्तिमान् इत्यत्र ॥ ७ ॥
वाच्यभूते प्रमातरि, विश्रान्तम् - विश्रामं गतम्, अत एव स्वप्रकाशमेव परामृष्टम्, इति - अतः कारणात्, विकल्पोपि - सविकल्पज्ञानमपि, न बोधस्य - अनुभवस्य, बोधान्तरबोध्यताम् - तदन्यभूतस्वरूपभूतसविकल्पकबोधज्ञेयताम्, स्वेन बोध्यतामिति यावत्, बोधयति, तथा च का तत्रेदन्ताग्रहणशङ्केति भावः ।
एवं वाक्यार्थमुक्त्वा पदार्थमपि कथयति अवसायः इति । अवसा इति अवपुर्वात् स्यतेर्भावेऽङि रूपम्, अपृथग्भावम्, अयुतसिद्धत्वमित्यर्थः ।
स्वतन्त्रे इति, कर्तति, कर्तरि तृजुत्पादात्, बोधात्मनि - परमार्थतः अनुभवरूपे, तत्कालमवसाकर्तृत्वमात्रेणावसातृतयोक्ते इत्यर्थः । अपि शब्दः समुच्चये । कुतोऽयमेव न्याय इत्यत आह विकल्पयामि इति ।
अहन्तारूढ्यैव प्रकृतिप्रत्ययौ इति दृष्ट्या अहन्ताविश्रान्त्यैव ।
पूर्वं प्रति अस्य वस्तुनः हेतुत्वं कथयति अत एव इति । कुत्र दर्शितमित्यत आह ज्ञान इति । न चेदन्तः - कृताभासः इत्यादिश्लोकान्तभागस्थेऽस्मिन्पदे इत्यर्थः ॥ ७ ॥
एवमियतः प्रमेयस्य यत्फलं तदुपसंहर्तुमाह :-
तन्मया दृश्यते दृष्टोऽयं स इत्यामृशत्यपि ।
ग्राह्यग्राहकताभिन्नावर्थौ भातः प्रमातरि ॥ ८ ॥
“तत्” इति तस्मादर्थे पूर्वोक्तस्य प्रमेयस्य हेतुभावेन उपजीवनम् इह सूचयति । यत एवमुक्तम् - अनुभवस्य अर्थस्येव स्मरणात् न भेदेन अवभासः स्मृतिशक्तिश्च परमेश्वरस्यैव, तत इदमत्र परिनिष्ठितं तत्त्वम् इति । इह स्मृतिः अनुभवं क्रोडीकरोति इत्युक्तम् । अनुभवश्च द्विधा, - परामर्शभेदात् कदाचित् स्वात्मपरामर्शपूर्वकम् अनुभाव्यम् परामृशति [आमृशति - क्। ष्। ष्।] यत्र अस्य अभि -
अथाष्टमस्य श्लोकस्यावतरणिकां करोति एवम् इति । स्पष्टम् ।
एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । तत् इति ।
अत्र टीका :-
तत् इति पदं व्याचष्टे तस्मात् इति । अस्यैव पदस्य सूचनीयं वस्तु कथयति पूर्वोक्तस्य इति । उपजीवनम् - उत्थानम् । इह हेतुमद्रूपस्यास्य श्लोकस्यार्थे पूर्वोक्तस्यार्थस्य हेतुभावमेव स्फुटं कथयति यतः इति ।
उक्तम् इति पूर्वमिति शेषः । किमुक्तमित्यपेक्षायामाह अनुभवस्य इति ।
अनुभवस्य पूर्वानुभवस्य, अर्थस्येव पूर्वार्थवत्, स्मरणाद्भेदेन - स्मृतिविषयतया, ततः - तस्मात्, परिनिष्ठितम् - स्थितिं गतम्, तत्त्वम् - परमार्थः, इति शब्दः समाप्तौ । किमित्यपेक्षायामाह इह इति । क्रोडोकरोति
- स्वान्तःकरोति, अन्यथा तद्विषये विषयत्वाऽयोगादिति भावः । ननु ततः किमित्यत आह अनुभवश्च इति । अनुभवश्च - स्मृत्या क्रोडीकृतोऽनुभवश्च । तत्र प्रथमं भेदं कथयति कदाचित् इति । स्वात्मनः - अनुभवरूपस्य स्वस्य, यः परामर्शः - दृश्यते इत्यादिरूपः, सः पूर्वं यत्र तत्, अनुभाव्यम् - अनुभवविषयीभूतं घटादिकम्, परामृशति - परामर्शविषयतां नयति, प्रमात्रनुभवयोः पारमार्थिकमेकत्वमपेक्ष्यैवमुक्तम् । कुत्र परामृशतीत्यत आह यत्र इति । अभिसन्धिः - स्वस्यात्मनि
सन्धिप्रधानता “मया दृश्यते” इति, कदाचित् अनुभवनीयमेव प्रधानतया परामृशति यत्र अनभिसन्धेरेव सहसा वस्तूपनिपातः, अर्थक्रियां प्रति आग्रहविशेषो वा “अयम्” इति, तत्रापि च प्रकाशपरामर्शोऽस्त्येव, अन्यथा प्रकाशयोगात् । एवमुभयथानुभवे प्रत्येकं स्मृतिरपि द्वयपरामर्शमयी उदेति इति चत्वारः स्मरणभेदाः, द्वौ अनुभवभेदौ । अनुसन्धानं [अनुसन्धानरूपम् - क्। ष्। ष्।] प्रत्यभिज्ञानमपि
विश्रान्तिरूपमनुसन्धानम्, तस्य प्रधानता - प्राधान्यम्, अभिसन्धिप्रधानत । ननु किंरुपोऽसौ परामर्श इत्यत आह मया इति ।
अत्रापि पूर्वोक्तः कर्तृस्थक्रियत्वादिन्यायो योजनीयः । द्वितीयं भेदमपि कथयति कदाचित् इति । अनुभवनीयमेव - अनुभवविषयं घटादिकमेव, न त्वस्मच्छब्दवाच्यं वस्त्वपि । यत्र इत्यननाक्षिप्तं स्थलद्वयं विभज्य कथयति । सहसा, इच्छां विनैवेत्यर्थः, अकस्मादिति यावत् । तत्र हि स्फुटं सम्भ्रमेण वस्तुमात्रपरामर्श एव भवति । पुनः कुत्रेत्यत आह अर्थ इति ।
अर्थक्रियां प्रति - तेन वस्तुना सम्पादनीयायामर्थक्रियायाम्, आग्रहविशेषः - अर्थित्वाधिक्ये तत्रापि अतिकाङ्क्षणीयत्वेन वस्तुन एव प्राधान्यात् तत्परामर्श एव भवति । किंरूपोऽसौ परामर्श इत्यत आह अयम् इति । ननु किमत्र सर्वथैव प्रकाशपरामर्शो नास्ति इत्यत आह तत्रापि इति । तत्रापि - अयम् इति परामर्शेऽपि, अस्त्येव इति, अतिसूक्ष्मत्वेनासञ्चेत्यमान इति भावः । कुत इत्यपेक्षायाम् आह अन्यथा इति । प्रकाशायोगात् - विषयप्रकाशासम्भवात्, तदुक्तम् :-
प्रकाशोऽर्थोपरक्तोपि स्फटिकादिजडोपमः
इति । स्मृतेरपि एवमेव द्वैविध्यं द्विविधानुभवप्रसन्धानेन ।
चातुर्विध्यं कथयति एवम् इति । प्रत्येकम् - प्रत्यनुभवम्, द्वयपरामर्शमयी - दृष्ट इति स इति चैवं रूपपरामर्शद्वयरूपा ।
चत्वारः इति, मया दृश्यते इत्यनुभवे दृष्टम् इति रूप एकः । अत्रैव सः इत्येवंरूपो द्वितीयः । अयम् इत्यनुभवे दृष्टः इत्येवंरूपस्तृतीयः, अत्रैव सः इत्येवंरूपश्चतुर्थः । द्वौ - दृश्यते अयम् इतिस्वरूपौ । सर्वे चैते षड् भदाः सम्पन्नाः ।
एतदुभयमेलनात्मकम् अत्रैवान्तर्भूतम् । तच्च एतद्भेदात् अष्टधा, पूर्वापरविश्रान्तिकृतात् प्रत्येकं द्विधाभेदाच्च षोडशधा । तदेते द्वाविंशतिः संवेदनभेदाः । तेषु च ग्राह्यं तावत् प्रकाशात् अबहिर्भूतम्, अन्यथा प्रकाशनायोगात्, बहिर्भूतं च तत्, अन्यथार्थत्वासम्भवात्, न च तत एव, तदैव, तदेवा -
एतवदष्टम्भेन प्रत्यभिज्ञानां षोडशकमपि साधयति अनुसन्धानम् इति । अनुसन्धानम् - स्मृतानुभतयोरेकीकरणरूपम्, प्रत्यभिज्ञानम् - प्रत्यभिज्ञा, एतदुभयमेलनात्मकम् - प्रोक्तानुभवस्मरणपरामर्शमेलनरूपम्, अत्रैव - भेदषट्के एव । तच्च
- प्रत्यभिज्ञानं च, एतेषाम् - अनुभवयोः स्मृतीनाञ्च, भेदात् अष्टधा
- अष्टप्रकारं भवति अनुभवभेदद्वयेन सह स्मृतिभेदचतुष्कस्याऽनुसन्धाने स्फुटमष्टधाभावोत्पादात् । पुनः तत्प्रत्यभिज्ञानं षोडशधा भवति इति सम्बन्धः । कदाचिद्धि प्रत्यभिज्ञाने पूर्वकालावच्छिन्नतैव वस्तुनः प्रधानम्, कदाचिदपरकालावच्छिन्नतैव । एतेषां संवेदनभेदानामेकत्र सङ्कलनां करोति तदेते इति । ननु ततः किमित्यत आह तेषु च इति । तेषु - द्वाविंशतिभेदेषु च, ग्रह्यम् - अनुभाव्यस्मर्यमाणप्रत्यभिज्ञेयतया स्थितो विषयः । कुत इत्यपेक्षायामाह अन्यथा इति । अन्यथा - अबहिर्भूतत्वाभावे । तदुक्तम् :-
बुद्धश्च बोधभेदेन भवेन्न व्यवहारभाक् ।
व्यतिरिक्तस्य बुद्धत्वे सर्वं बुद्धं न किं भवेत् ॥
इति । तत् - संवेदनद्वाविंशतिकम्, अर्थत्वासम्भवात् - विषयत्वासम्भवात् । ननु तर्हि उभयरूपमेव तद् भवत्वित्यत आह न च इति । तर्हि किं कार्यमित्यत
पृथग्भूतं अत्र पृथग्भूतं च भवति इति नूनमन्यः कल्पितप्रकाशात्मा कश्चित् अत्र अर्थोऽस्ति, यतोऽयम् अर्थराशिः पृथग्भवन् अन्योन्यमपि प्ठक्ताम् अधिगच्छेत, अन्यथा प्रकाशाभिन्नानां परस्परमपि कथङ्कारं पृथग्भावो भवेत् । सोऽयं वेद्यैकदेश एव, विच्छिन्न एव, अनुज्झितवेद्यभाव एव, अहम् इति विच्छेदशून्यप्रकाशोचितेन [विच्छेदशून्योचितेन - क्। ष्। ष्।] परामर्शेन परामृश्यमानो मायाप्रमाता इति वक्ष्यते “देहे बुद्धौ” … (१।६। ४) इत्यत्र । स च ग्राहक इति उच्यते । एवं सममेव स्वात्मनि निर्मलमकुरस्थानीये [विमलमकुरस्थानीये - क्। ष्। ष्।]
आह इति इति । इति - अतः कारणात्, नूनम् - निश्चयेन, कल्पितः - देहादिभावेन कल्पनया सम्भावितः यः प्रकाशः - तदवच्छिन्नः प्रकाशांशः, स आत्मा यस्य तादृशः अर्थः, प्रमेयतया स्थितः, शुद्धप्रकाशं प्रति वेद्यत्वात् । यतः - यस्मात्, अर्थराशिः अयम् - अनुभूयमानः ।
अधिगमनाभावे दोषमाह अन्यथा इति । प्रकाशाभिन्नानाम् - प्रकाशान्तर्गतानां पदार्थानाम् । ननु सोऽर्थः कोऽस्तीत्यत आह सोयम् इति । वेद्यैकदेश एव - वेद्यराशिमध्ये एक रूपत्वात्तद्भाग एव, न तु वेदकरूपः, वेदकाभासत्वात्, तथा, विच्छीन्न एव घटादिवत् अपोहनशक्त्या परमप्रकाशात् पृथग्भूतं एव, अहम् इति परामर्शेन इति सम्बन्धः । कीदृशेन अहम् इति परामर्शेन ? विच्छेदशून्यो यः प्रकाशः तत्रोचितेन, तस्यैव परमार्थतोऽहंविषयत्वात् । कुत्र वक्ष्यते इत्यत आह देहे इति । एतस्यैव ग्राहकत्वं कथयति, स च इति । ग्राहकश्च अनुभवितृस्मर्तृप्रत्यभिज्ञातृत्वेन त्रिरूपो ज्ञेयः । उपसंहारं करोति एवम् इति । सममेव,
यत् युगलकं स्वस्मात् प्रकाशरूपात् अव्यतिरिक्तम् अवभासयति परमेश्वरः तदेव एतत् भगवतो ज्ञानकर्तृत्वं स्मरणकर्तृत्वं ज्ञानशक्तिस्मृतिशक्तिरूपम् उच्यते इति तात्पर्यार्थः ।
अक्षरार्थस्तु - मया दृश्यते इति, अयम् इति च यत् आमृशति प्रमाता प्रकाशरूपो येन अनुभवति इति उच्यते, तत आमर्शनात् एतत् लक्ष्यते, ग्राह्यरूपेण ग्राहकरूपेण योजितौ घटादिदेहादिस्वभावौ अर्थौ वेद्यौ प्रमातरि विशुद्धप्रकाशरूपे भातः प्रकाशेते । एवं दृष्टः इति स इति च यत् परामृशति प्रकाशरूपः प्रमाता, यतोऽसौ स्मरति इति व्यपदेश्यः, ततोऽपि एतदेव लक्ष्यते । अनुभवरूपोपजीवित्वं पूर्वोक्तं द्रढयितुं प्रसङ्गात् अत्र ज्ञानशक्तेरपि
न तु क्रमेण, ग्राह्यग्राहकयोर्भिन्नकालत्वेन सम्बन्धो न स्यादिति भावः । निर्मलमकुरस्थानीये - प्रतिबिम्बसहिष्णुत्वेन निर्मलदर्पणसदृशे, युगलकम् - ग्राह्यग्राहकद्वयम्, तदेव - भासनमेव, तात्पर्यार्थः - वाक्यार्थः ।
पदार्थकथनं प्रतिजानीते अक्षरार्थस्तु इति । प्रकाशरूपः प्रमाता इति सम्बन्धः, येन - येनामर्शनेन, ततः - तस्मात् लक्षणात्, लक्ष्यते - ज्ञायते योजितौ - सम्बद्धतां गतौ । एवमनुभवस्थले योजनां कृत्वा स्मृतिस्थले योजनां करोति एवम् इति । लक्ष्यते इत्यस्यानन्तरं ग्राह्य इत्यादि प्रकाशते इत्यन्तं वाक्यकदम्बकं स्वयमेव योजनीयम् ।
प्रत्यभिज्ञास्थलयोजनं चानेनैव गतम्, अनुभवस्मृतिमेलनमात्ररूपत्वात्, तथा च सूत्रे प्रत्यभिज्ञायाः पृथगदर्शनमेव । ननु स्मृतिसमर्थनसमये किमिति ज्ञानस्यापि किञ्चिन्मात्रं निर्णयः कृत इत्यत आह अनुभव इति ।
अनुभवरूपोपजीवित्वम् - अनुभवसापेक्षत्वम्, [अनुभवसापेक्षित्वम् - च्।] प्रसङ्गात्, न तु क्रमानुरोधात्, अत्र - स्मृतिसमर्थनसमये, उन्मीलनम् - विकासनम्, विवेक इति यावत् । ननु तर्हि ज्ञानस्मृत्यपोहनशक्तिमान् इत्यत्र प्रथमोद्दिष्टत्वेन स्मृतिप्राणप्रदत्वेन च ज्येष्ठत्वादस्या एव प्रथमं समर्थनं किन्न कृतमिति चेत्,
उन्मलिनं कृतम् । लक्षणे शत्रादेशः । अपिशब्दश्चार्थे । अर्थशब्दो विच्छिन्नवेद्यवाची । ग्राहको मायीयः कल्पितः प्रमाता अशुद्धप्रकाशस्वभावः इति शिवम् । आदितः श्लो। ॥ ३१ ॥
इति श्रीमदाचार्याभिनवगुप्तविरचितायामीश्वरप्रत्यभिज्ञासूत्रविमर्शि - न्यां प्रथमे ज्ञानाधिकारे स्मृतिशक्तिनिरूपणं नाम चतुर्थमाह्निकम् ॥ ४ ॥
सत्यम्, किन्तु यतः स्मृतिरेवानुसन्धानप्राणत्वेनाभीष्टस्यानुसन्धातृरूपस्यात्मतत्त्वस्य् अ साधनी, ज्ञानशक्तिस्तु तद्द्वारेणेत्ययुक्तत्वेऽपि शिष्यसमाश्वासनार्थं प्रथमं स्मृतेरेव समर्थनं कृतम् ।
तत्प्रसङ्गेन च तदुपयोगिनी ज्ञानशक्तिरपि उन्मीलितैवेति सर्वं निरवद्यमेव । आमृशति इत्यत्र स्थितस्य शतृप्रत्यस्य वाच्यमाह लक्षणे इति । ग्राह्यग्राहकताभिन्नयोरर्थयोः भानं प्रति प्रकृत्यर्थस्य लक्षणताद्योतनात्, अत एव समनन्तरं द्विवारं लक्ष्यते इत्युक्तम् । अपि शब्दार्थमाह चार्थे इति । चार्थे, समुच्चये इत्यर्थः अर्थ शब्दवाच्यमाह अर्थ इति । विच्छिन्नम् - अपोहनशक्त्या प्रकाशाद् भावराशेश्च भिन्नीकृतम् यद्वेद्यं तद्वाची । ग्राहक पदार्थमाह मायोयः इति । कीदृशः प्रमाता ? अशुद्धप्रकाशः स्वभावः - स्वापोहनशक्त्या विच्छिन्नीभूय स्वरूपम्, यस्य तादृशः । इति शब्दः समाप्तौ, शिव पदं मङ्गलवाचकम् परतत्त्वसूचकञ्च । इति शिवम् ॥ ८ ॥
इति श्रीभास्करकण्ठविरचितायां श्रीप्रत्यभिज्ञाविमर्शिनीटीकायां भास्कर्याख्यायां ज्ञानाधिकारे चतुर्थमाह्निकं समाप्तम् ॥