अथ तृतीयमाह्निकम् ।

विना येन न किञ्चित्स्यात्समस्ता अपि दृष्टयः ।

अनस्तमितसम्बोधस्वरूपं तं स्तुमः शिवम् ॥

अथ तृतीयमाह्निकम् ।

ॐ । न किञ्चित् पञ्चयोग्यं स्यान्न विना यं प्रभुं बहिः ।

ज्ञानानां मूलमाद्यं तं तेषां चित्ते शिवं स्तुमः ॥

अथ ज्ञानाधिकारे तृतीयाह्निकव्याख्याया निर्विघ्नपरिसमाप्तये समस्ताह्निकाभिप्रायसूचकं स्वेष्टदेवताप्रह्वीभावपरं मङ्गलश्लोकमुपनिबध्नाति विना येन इति ।

अत्र टीका :-

येन - उत्तरार्धे वक्ष्यमाणस्वरूपेण उपादानभूतेन, विना, समस्ता अपि, अपिशब्दः साकल्ये, नीलसुखादिरूपबाह्याभ्यन्तरभाव - विषयाः, दृष्टयः - परिमितज्ञानानि, किञ्चित् - वस्तु न स्यात्, मृदा विनेव घटादयो न भवेयुः । वयं तम्, अनस्तमितः, यथातथाकल्पितस्य स्वान्तस्यापि साक्षिरूपतया स्थितत्वात्,

एतस्मिन् पूर्वपक्षे यदुक्तं स्मृतेः संस्कारमात्रादेव सिद्धिः - इति, तदेव दूषयितुं

“सत्यं … ।”

इत्यादि

“…ज्ञानस्मृत्यपोहनशक्तिमान् ॥”

इत्यन्तं श्लोकसप्तकम् । क्रियायां सम्बन्धे च दूषणोद्धरणं द्वितीये क्रियाधिकारे भविष्यति । यत्तु परेण व्यतिरिक्तं ज्ञानं काणादसाङ्ख्यादिदृष्टौ

यः सम्बोधः - विषयोपरागरहितं शुद्धज्ञानम्, तदेव स्वम् - अन्याननुयायि, रूपम् - स्थितिर्यस्य तादृशम्, शिवम् - प्रकाशरूपं सुखकारित्वाख्यशिवशब्दप्रवृत्तिनिमित्तधर्मयुतं किमप्यनाख्यम् वस्तु परमात्माख्यम्, स्तुम्ः - स्वाभीष्टसिद्धये स्तुतिद्वारेण परामृशामः ।

एतेन समस्तबोधनिधेः कस्याप्यान्तरस्य तत्त्वस्य स्तुतिरिति द्योतितम्, तथा चानेनैवान्यत्रोक्तम् :-

य एष विततस्फुरद्विविधभावचक्रात्मकः परस्परविभेदवान् विषयतामुपागच्छति ।

यदेकमयभावनांशत एत्यभेदान्वयं स शम्भुरशिवापहो जयति बोधभासां निधिः ।

इति । अनेन चात्राह्निके उत्तरपक्षतया स्थितस्य स्मृतिप्रभृतिज्ञानसर्गस्य सारत्वेन सम्बन्धहेतुत्वेन च साधनं क्रियते इति सूचितम् ।

एवं मङ्गलं सम्पाद्य समस्तव्यस्तत्वाभ्यामस्याह्निकस्य शिष्यसमाश्वासनार्थं तात्पर्यकथनं तावत् करोति एतस्मिन् इति ।

अत्र टीका :-

एतस्मिन् - समनन्त्राह्निकोक्ते श्लोकसप्तके, भवतीत्यध्याहृतेन सम्बन्धः । ननु क्रियायाः सम्बन्धस्य च यन्निराकरणं कृतं तत् किन्न दूष्यते येन तदेव इत्येवकारः स्थापित इत्यत आह क्रियायाम् इति । नन्वेवं भवतु यत्तु सप्तमाष्टमाभ्यां श्लोककाभ्यां शाक्यमतमाश्रित्य काणादशास्त्रे साङ्ख्यशास्त्रे चात्मव्यतिरिक्तं

निराकृतं तदभिमतमेव ग्रन्थकृत इति तत् दूषणान्तरमेव ।

[दूषणान्तम् - क्। ष्। ष्।] तत्र श्लोकद्वयेन ज्ञानस्य स्वसंवेदनरूपतया अनुभवस्य स्मृतौ अप्रकाशत्वं [अप्रकाश्यत्वम् - क्। ष्। ष्।] दर्शितं संस्कारजत्वेऽपि । ततः श्लोकद्वयेन स्मृतेः भ्रान्तित्वम् आशङ्कापूर्वकं पराकृत्य तृतीयेन प्रसङ्गात् सर्वाध्यवसायानामपि भ्रान्तित्वाशङ्का शमिता । ततः सत्यपि संस्कारे स्मृत्यनुपपत्तौ व्यवहारोच्छेदः - इति श्लोकेनोक्त्वा स्वपक्षे तदुपपत्तिः - इति श्लोकेनोक्तम् - इति तात्पर्यम् । ग्रन्थार्थस्तु निरूप्यते ।

व्यतिरिक्तं ज्ञानं निरस्तं तदवश्यं निराकरणीयमित्यपेक्षयामाह यत्त इति । परेण - शाक्येन, व्यतिरिक्तम्, आत्मन इति शेषः, ग्रन्थकृतः - उत्पलदेवस्य, दृषणान्तरम्, अभीष्टत्वेन प्रतिसमाधानयोग्येभ्यो दूषणेभ्यो व्यतिरिक्तमित्यर्थः, श्रीशिवनयेऽपि ज्ञानस्यात्मशक्तित्वेन तद्व्यतिरिक्तत्वाभावादिति भावः । एवं श्लोकसप्तकरूपस्याह्निकस्य सामस्त्येनाभिप्रायमुक्त्वा व्यस्तत्वेनापि कथयति तत्र इति । तत्र - श्लोकसप्तकमध्ये, ज्ञानस्य - सामान्यतया स्थितस्य समस्तबोधजातस्य, अनुभवस्य - विशेषतया स्थितस्य अनुभवाख्यज्ञानस्य, स्मृतौ अप्रकाशत्वम् स्मृत्या प्रकाशाभावः । तृतीयेन, समनन्तरश्लोकद्वयापेक्षया, आद्यतस्तु, पञ्चमेनेति भावः ।

श्लोकेनोक्त्वा, षष्ठेनेत्यर्थः । तदुपपत्तिः - व्यवहारोपपत्तिः, श्लोकेनोक्तम्, सप्तमेनेत्यर्थः । तात्पर्यम्, श्लोकसप्तकस्य व्यस्तस्याभिप्राय इत्यर्थः । ग्रन्थार्थ निरूपणं प्रतिजानीते ग्रन्थ इति ।

सत्यं किन्तु स्मृतिज्ञानं पूर्वानुभवसंस्कृतेः ।

जातमप्यात्मनिष्ठं तन्नाद्यानुभववेदकम् ॥ १ ॥

पूर्वपक्षमध्यात् मया तावत् बहु अङ्गीकर्तव्यम् - इति “सत्यम्” इत्यनेन दर्शितम् । यत्तु न अङ्गीकर्तव्यं तत् दूष्यते - इत्येतदुक्तं “किन्तु” इत्यनेन विशेषाभिधायिना । इह स्मृतौ विषयमात्रस्य प्रकाशो न समर्थनीयो वर्तते यः संस्कारादेव सिद्ध्येत्, किन्तु अनुभवप्रकाशेन विना “तत्” इत्येवंरूपा

प्रथमं श्लोकमवतरणिकां विनैवोपन्यस्य व्याचष्टे । सत्यम् इति ।

अत्र टीका :-

सूत्रस्थस्य सत्यम् इति पदस्याभिप्रायं वक्तुमाह पूर्वपक्ष इति ।

बहु - व्यतिरिक्तज्ञाननिराकरणादिकं वस्तुजातम्, दर्शितम् इति, अस्य पदस्याङ्गीकारवाचकत्वादिति भावः । तर्हि सर्वमेवाङ्गीकर्तव्यमिति बहु शब्दोपादानं व्यर्थमेवेत्यत आह यत्तु इति । अनेन किन्तु इत्यस्याभिप्राय उक्तः । किन्तु इत्यस्य वाच्यार्थमाह विशेष इति । विशेषः - पूर्वस्मात्पक्षाद् व्यतिरेकः । स्मृतिज्ञानम् इत्यादि व्याख्यातुमारभते इह इति । इह - प्रत्यभिज्ञाशास्त्रे, समर्थनीयः । तर्हि किमिह समर्थनीयं वर्तते इत्यपेक्षायां समर्थनीयं वस्तु बहुवक्तव्यतया वाक्येन प्रकटीकरोति किन्तु इति । किन्तु इति विषयमात्रप्रकाशसमर्थनपक्षात्पक्षान्तरद्योतनपरम् ।

किन्त्वित्यनेनाक्षिप्तं वस्तु कथयति अनुभव इति । अनुभवप्रकाशेन विना

  • पूर्वानुभवसंवेदनेन विना, कथं स्यात्, तद्विषयेणैव विषयवत्त्वान्न युक्ता स्यादिति भावः । मास्तुं इत्यत आह कथं च इति ।

तया - तदित्येवंरूपया स्मृत्या, अभिलाषेण व्यवहारः - काङ्क्षया किर्यमाणः पदार्थव्यवहारः । कुतो न स्यादित्यत आह अनुभव इति । अस्य - व्यवहारविषयस्य भावस्य, ततः - सुखसाधनतानिश्चयानन्तरम्, बहुकालेनेत्यर्थः, उपादानम् - ग्रहणम्, तस्यैव भावस्येति शेषः । अत्र च मध्ये स्मृतिरवश्यमाश्रयणीया, न हि सुखासाधनतास्मृत्यभावे कोपि भावस्योपादानं करोति । ननु पूर्वानुभववेदनमपि तत्रोपादानपर्यन्तकार्यवत् संस्कारादेव

कथं स्मृतिः स्यात्, कथं च तया विना अभिलाषेण व्यवहारः स्यात् ? अनुभवेन हि अस्य सुखसाधनता निश्चिता, तत उपादानम्; तत्र पूर्वानु भवजनितात् संस्कारात् एतावत् जातम् । यद्यपि तज्ज्ञानं विषयेण न जनितम्, तथापि तद्विषयम् - इति । न च एतावता किञ्चित्, आत्मनिष्ठे स्वप्रकाशज्ञाने विषयस्येव अनुभवस्य प्राच्यस्य अप्रकाशात् ॥ १ ॥

जायतामित्यत आह तत्र इति । पूर्वानुभवः - सुखसाधनतानिश्चयः, तेन जनितात संस्कारात् - सुखसाधनतासंस्कारात्, एतावत् - उपादानपर्यन्तं कार्यजातम्, न तु पूर्वानुभववेदनमपीति भावः ।

ननु तत् स्मृतिज्ञानं किंविषयमित्यत आह यद्यपि इति । विशयेण - पूर्वानुभवविषयेण, पुरःस्थत्वाभावादिति भावः । तद्विषयम् - पूर्वानुभूतविषयम्, संवेद्यमानस्याप्रत्याख्येयत्वादिति भावः, इति शब्दः प्रमेयपरिसमाप्तौ । ननु तर्ह्येतेनैवास्याः पूर्वानुभवप्रकाशकत्वमायातमित्यत आह न च इति । एतावता - तद्विषयेण विषयवत्त्वेन, न किञ्चित्, किमपि न सम्पन्नमित्यर्थः । कथं न किञ्चिदित्यपेक्षायां हेतुमाह आत्म इति । आत्मनिष्ठे - स्वप्रकाशनपरे, अत एव स्वप्रकाशज्ञाने - स्मृतिज्ञाने, प्राच्यस्य आद्यस्य, अप्रकाशात् - अस्फुरणात्, अत्र च स्वानुभवः साक्षीति भावः ॥ १ ॥

ननु संस्कारजत्वादेव प्राच्यमनुभवमपि विषयीकुरुतां स्मृतिः - इत्याशङ्क्याह :-

दृक्स्वाभासैव नान्येन वेद्या रूपदृशेव दृक् ।

रसे संस्कारजत्वे तु [संस्कारजत्वं - क्। ष्। ष्।] तत्तुल्यत्वं न तद्गतिः ॥ २ ॥

“दृक्” ज्ञानम्, तच्च जडात् विभिद्यते स्वप्रकाशैकरूपतया, जडो हि प्रकाशात् पृथग्भूतो वक्तव्यः, तेन दृक् “स्वाभासा,” आभासः प्रकाशमानता

अथ द्वितीयश्लोकस्यावतरणिकां करोति ननु इति ।

अत्र टीका :-

संस्कारजत्वात् - पूर्वानुभवसंस्कारोत्पन्नत्वात्, प्राच्यम् - आद्यम् । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । दृक् इति ।

अत्र टीका:-

सूत्रस्थं दृक् इति पदं व्याचष्टे ज्ञानम् इति । तच्च - ज्ञानञ्च, जडात् - ज्ञेयाख्यात् जडवस्तुनः । व्यतिरेकेणाप्येतदेव साधयति जडो हि इति । वक्तव्यः - वक्तुं योग्यः । फलितमाह तेन इति । स्वाभासा इति पदं व्याचष्टे आभासः इति । आभास इत्यवयवं व्याचष्टे प्रकाश इति ।

प्रकाशमानता - बाह्यसम्बन्धिप्रकाशकर्तृत्वम्, स्व इत्यवयवं व्याचष्टे रूपम् इति । अव्यभिचारि - अन्याननुयायि, एतेन प्रकाशकाख्यमस्य स्वरूपमुक्तम् । अत्र च स्वः - स्वरूपभूतः आभासो यस्याः सा स्वाभासेति सामानाधिकरण्येन विग्रहो बहुव्रीहिमाश्रित्य कार्यः । अथ वय्यधिकरण्येन बहुव्रीहिमाश्रित्य स्वप्रकाशकाख्यमप्यस्या रूपं कथयति स्वस्य च इति । स्वस्य - दृगाख्यस्य आत्मनः, आभासनम् - आभासः, रूपम् - स्वरूपं यस्याः सेति । अत्र तु स्वः स्वरूपभूतः स्वस्याभासो यस्याः सेति तन्त्रेण स्वशब्दस्य द्विर्योजना । अथवा स्वरूपमित्येकस्य स्वशब्दः लोपः, रूपकाश्रयणे तु पुल्लिङ्गताप्रसङ्गः ।

सा स्वं रूपमव्यभिचारि यस्याः, स्वस्य च आभासनं रूपं यस्याः ।

सत्यपि बाह्ये तच्छरीरसङ्क्रान्तं न प्रकाशनं ज्ञानस्य रूपं भवितुमर्हति, परप्रकाशनात्मकनिजरूपप्रकाशनमेव हि स्वप्रकाशत्वं ज्ञानस्य भण्यते । ननु स्वाभासमेव सत् तत् अनुभवज्ञानं स्मरणे भासिष्यते, न - इत्याह “नान्येन वेद्या” । परत्र यदि दृक् भासेत तर्हि न सा स्वाभासा, इदमेव हि स्वप्रकाशस्य लक्षणम् - स्वयं हि यदि प्रकाशेत तदा परेण सह

ननु दृक् स्वाभासा भवतु तथापि बाह्यविषयतामहिमोपनतबाह्योपरागवशोपागतं जडत्वमस्या दुर्निवारमेवेत्यत आह सत्यपि इति, परमार्थविचारे बाह्यमेव नास्तीत्यपिशब्दाभिप्रायः । तच्छरीरसङ्क्रान्तम् - बाह्यस्वरूपलग्नम्, तदुपरक्तमिति यावत् । प्रकाशनम् - प्रकाशः । पुनः किन्तस्य स्वरूपमित्यत आह पर इति । परप्रकाशनात्मकम् - बाह्यप्रकाशरूपं यत् निजम् - स्वम्, रूपम्, तस्य प्रकाशनम् - प्रकाशः, तदेव न तु तत्र कर्तृत्वम्, तथात्वेऽपसिद्धान्तापत्तेः, ज्ञानस्य स्वप्रकाशत्वं नाम स्वरूपमिति शेषः । भण्यते - कथ्यते । तथा च बाह्यस्पर्शो दूरत एवास्तामिति भावः । एव शब्दार्थव्याख्याभूतस्य नान्येन वेद्या इत्यस्य व्याख्यां करोति ननु इति । स्मरणे - स्मृतिविषये, भासिष्यते इति कर्मकर्तृलाकारः । एतेन अन्येन इत्यस्यावतरणिका कृता । अत्रोत्तरमाह नेत्याह इति । केन आह इत्यपेक्षायां वाक्यमुपन्यस्य व्याचष्टे नान्येन इति । स्पष्टत्वेन निगदव्याख्यातमेतत । कुतो न वेद्या इत्यत आह परत्र इति । सा - दृक् कुतो न सा स्वाभासा इत्यत आह इदमेव इति । स्वप्रकाशस्य - स्वाभासस्य, लक्षणम् असाधारणो धर्मः । एतेन नान्यत्र वेद्या इत्यस्य नान्यत्र भास्या इति पर्याय इति सूचितम् । स्वप्रकाशस्य - स्वाभासस्य किमित्यपेक्षायामाह स्वयम् इति । प्रथमं तस्य स्वयं -

असम्बन्धात् सम्बन्धप्राणा कथं “परत्र” इति सप्तमी सङ्गच्छताम्; तथा च रूपज्ञानेन “रसे दृक्” रसविषयं ज्ञानं न वेद्यते, एवं हि चक्षुषैव रसः फलतो गृहीत एव स्यात् । ननु यदि न आभाति स्मरेणेऽनुभवः किं तर्हि संस्कारेण कृतं स्यात्, रूपज्ञानं न रसज्ञानजात् संस्कारात् जातम्, तत् कथम् अयं प्रसङ्गः, तस्मात् संस्कार एव भवत्सम्भावितदोषभङ्गाय प्रभवेत् । नैतत्, यतो हि असौ तत्संस्कारसंस्कृतात् समनन्तरप्रत्ययात् उत्थितः

प्रकाशरूपत्वेन प्रकाशापेक्षैव नास्ति, यदि तु प्रकाशते स्वयं स्वेन स्वं प्रति, न तु स्वव्यतिरिक्तेन प्रमाणेन स्वव्यतिरिक्तं प्रमातारं प्रति, तदा परेण सह असम्बन्धात् - सम्बन्धाभावात्, सबन्धप्राणा - सम्बन्धमूला, परत्रोत सप्तमा - परशब्दाग्रस्थत्रल्प्रत्ययवाच्या सप्तमीविभक्तिः, कथं सङ्गच्छताम्, विषयाभावात् अन्येनेतितृतीयाविभक्तिव्याख्यात्वेन स्थिता तृतीयापर्यायत्वेन न सङ्गच्छते इत्यर्थः । परत्रेतिसप्तमीप्रयोगाविषयत्वमेव स्वप्रकाशलक्षणम् इति वाक्यार्थः । रूपदृशेव दृक् रसे इति वाक्यं व्याख्यातुमाह तथा च इति । तथा शब्दः इवशब्दवाच्योपमाद्योतकः ।

यथा रूपज्ञानेन रसज्ञानं न वेद्यते स्वप्रतीतिप्रसिद्धत्वात् तथा स्मृत्यापि पूर्वानुभवो न वेद्यते इत्यर्थः । ननु यदि वेद्येत तर्हि किं भवेदित्यत आह एवं हि इति । फलतः, न तु साक्षात्, रूपज्ञानेन रसज्ञाने गृहीते तद्विषयस्य रसस्यापि रूपग्राहकनेत्रविषये ग्रहणमर्थायातमेव स्यादिति भावः । संस्कारजत्वे तु तत्तुल्यत्वम् इति व्याख्यातुमवतरणिकां करोति ननु इति । अयं प्रसङ्गः - रूपज्ञानेन रसविषयज्ञानाभासनरूपा अनिष्टापत्तिः । प्रश्नमुपसंहरति तस्मात् इति । भवता - उत्तरपक्षवादिना त्वया, सम्भावितो यो दोषः - स्मृत्यसम्भवाख्यः, तस्य भङ्गाय - नाशाय, प्रभवेत् - समर्थो भवेत् । उत्तरमाह नैतत् इति । कुत इत्यपेक्षायामाह यतो हि इति । तत्संस्कारेण

  • आद्यानुभवसंस्कारेण, संस्कृतात् - स्मृत्युत्पादने समर्थीकृतात्, एतेन संस्कारजत्वे

स्मृतिबोधः, तेन तत्सदृशो भवतु शाखासन्निवेश इव पूर्वसन्निवेशतुल्यः, न तु यो यत्संस्कारात् जातः स तस्य वेदनस्वभावो भवति - इति युक्तम् । सदृशत्वस्यापि गतिरवगमः कथम् ? न हि अनुभवज्ञानं सादृश्यं गमयति, नापि स्मृतिज्ञानम्, परस्परम् असंवेदने द्वयनिष्ठसादृश्याध्यवसायायोगात्, अन्यस्य च तदुभयवेदनरूपस्य अभावात् इति संस्कारात् परं सविष -

इति निमित्तसप्तमीति द्योतितम् । अथवा संस्कारजत्वे इत्यस्य स्थाने संस्कारजत्वम् इति पाठः । समनन्तरप्रत्ययात् - संस्कारोद्वोधकसदृशज्ञानात्, यदुक्तम् :-

सदृशादृष्टचिन्ताद्याः स्मृतिबीजस्य बोधकाअः

इति । सदृशेन हि सदृशज्ञानमेवात्रेष्टम्, स्मृतिबीजं च संस्कार एव इति ।

तत्सदृशः - पूर्वानुभवसदृशः, शाखासन्निवेशः - शाखारचना, अन्यथाकृता हि शाखामुच्यमाना संस्कारेण पुनः पूर्वरचनयैवावतिष्ठते, सदृशत्वं चात्र एकविषयताकृतं ज्ञेयम् । न तद्गतिः इति व्याचष्टे न तु इति । तत्तुल्यत्वेन इति पाठे सूत्रे अनुक्तोपि तु शब्दः युक्तत्वेनाध्याहार्यः । तस्य - पूर्वानुभवस्य, गतिः - वेदनम्, तद्गतिः इति विग्रहमाश्रित्यायमर्थः । अस्यैवार्थान्तरमाह सदृशत्व इति ।

तस्य - तुल्यत्वस्य, गतिः - अवगमः इति विग्रहेणायमर्थो ज्ञेयः । कुतो न गतिरित्यत आह न हि इति । अनुभवज्ञानम् - पूर्वमनुभवस्वरूपं ज्ञानम्, न गमयति, गतत्वादिति भावः, नापि स्मृतिज्ञानम् इत्यत्र हेतुमाह परस्परम् इति । असंवेदने - समनन्तरसाधिते, वेदनामविशतीत्यर्थः । ननु अन्यः कोपि सादृशयं गृह्णात्वित्यत आह अन्यस्य इति । अभावात् इत्यत्र भवन्मते इति शेषः, एतन्मते तु आत्मनः तदुभयवेदनरूपत्वमस्त्यवेति न कोपि विरोधः । प्रमेयमुपसंहरति इति इति । इति - अतः कारणात्, परम् - केवलम् सविषयतामात्रम् - पूर्वानुभवविषयेण विषयसहिततामात्रम्, अस्य विषयस्य - स्मृतिविषयस्य । प्रमेयमुपसंहरति

यतामात्रं स्मृतेः सिद्धम्, न तु अनुभवविषयत्वम्, नापि अस्य विषयस्य पूर्वानुभवविषयीकृतत्वम् - इति निश्चय एषः ॥ २ ॥

ननु यदि स्मृतिज्ञाने अनुभवस्य सत्यतः प्रकाशः स्यात्, तन्मुखेन च तद्विषयस्य, तदा भवेत् भवदुक्तेरवकाशः, यावता स्मृतिर्विकल्परूपत्वात् केवलमप्रकाशमानमेव अनुभवं तद्विषयं च अध्यवस्यति, तत् इयं भ्रान्तिस्वभावा, तत्र कोऽयं निर्बन्धः ? तदेतत् दर्शयति शङ्क्यमानत्वेन :-

अथातद्विषयत्वेऽपि स्मृतेस्तदवसायतः ।

दृष्टालम्बनता भ्रान्त्या …

न तद्दर्शनं नापि तद्विषयः स्मृतेर्विषयः, तथापि तु उभयम् अध्यवसीयते, भ्रमरूपतया स्मृतेः ।

इति इति । एषः - समनन्तरोक्तं वस्तु ।

एवमत्र योजना । दृक् - ज्ञानम्, स्वाभासा एव - स्वप्रकाशा एव भवति, अन्येन वेद्या न भवति, का इव ? रसे दृक् इव, यथा रसे दृक् रूपदृशा वेद्या न भवति तथेत्यर्थः । संस्कारजत्वे तु तत्तुल्यत्वं भवति, तद्गतिः - पूर्वानुभवावगमस्तु न भवति, अथ च तद्गतिः तत्तुल्यत्वावगमोपि न भवतीति ॥ २ ॥

अथ तृतीयश्लोकस्यावतरणिकां करोति ननु इति ।

अत्र टीका :-

तन्मुखेन - अनुभवप्रकाशद्वारेण, तद्विषयस्य - आद्यानुभवविषयस्य, अध्यवस्यति - उल्लिखति, न तु गृह्णाति । एतेन फलितं वस्त्वाह तदियम् इति । भ्रान्तिस्वभावा - भ्रान्तिरूपा, भ्रान्तेर्विकल्परूपत्वादिति भावः । तदेतत् - समनन्तरोक्तं वस्तु, शङ्क्यमानत्वेन - शङ्काविषयत्वेन, अत्र श्लोके एतदेव वस्तु शङ्कते इत्यर्थः । एवमवतरणिकां कृत्वा श्लोकमपन्यस्य व्याचष्टे । अथ इति ।

अत्र टीका :-

तद्दर्शनम् - पूर्वोनुभवः, स्मृतेर्विषयो न भवति, तद्विषयः - पूर्वानुभवविषयोऽपि स्मृतेर्विषयो न भवति । यद्येवं तर्हि स्मृतिः कथन्तत्र व्यापारं करोति

एतत् निराकरोति :-

तदेतदसमञ्जसम् ॥ ३ ॥

अत्र कारिकया उपपत्तिम् आह :-

स्मृतितैव कथं तावद्भ्रान्तेश्चार्थस्थितिः कथम् ।

पूर्वानुभवसंस्कारापेक्षा च किमितीष्यते ॥ ४ ॥

अनुभूतस्य अनुभवप्रकाशितस्य विषयस्य अप्रमोषोऽनपहारः तथैव प्रकाशनं यत् एतत् स्मृतेः आत्मीयं रूपं [आत्मीयं रूपं तथाप्रकाशनाभावे - क्। ष्। ष्।] तत् तथा प्रकाशनाभावे विघटेततमाम् ।

इत्यत आह तथापि इति । अध्यवसीयते - अध्यवसायविषयतां नीयते, स्मृत्येति शेषः । अत्र हेतुमाह भ्रम इति ।

तदेतत् इति वाक्यस्यावतरणिकां करोति एतत् इति । अवतरणिकाविषयीकृतं वाक्यमुपन्यस्यति तदेतत् इति । निगदव्याख्यातमेतत् ॥ ३ ॥

अथ चतुर्थश्लोकस्यावतरणिकां करोति अत्र इति ।

अत्र टीका :-

अत्र - असमञ्जसत्वविषये, कारिकया - श्लोकेन, उपपत्तिम् - युक्तिम् ।

एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । स्मृतितैव इति ।

अत्र टीका :-

अनुभूतस्य इति पदं स्वयमेव व्याचष्टे अनुभव इति । विषयस्य - घटादेः । अप्रमोषः इति पदं स्वयमेव व्याचष्टे अनपहारः इति ।

अस्यैव पर्यायान्तरमाह तथैव इति । तथैव प्रकाशनम् - पूर्वानुभवानुगुण्येन स्फुरणम्, तदिति स्फूर्तिरिति यावत्, इदमिति ग्रहणे हि नवीनमेव ग्रहणम् । आत्मीयं रूपम् - निजं स्वरूपम्, तत् - आत्मीयं रूपम्, तथाप्रकाशनाभावे, - प्रमोषरूपे इदमिति स्फुरणे सति, विघटेततमाम् - अतिशयेन विघटेत । भ्रान्तौ तु “इदम्” इति प्रकाशनम् अवश्यम्भावि एव, अन्यथा भ्रान्तित्वायोगात्, अतः भ्रान्तेः स्मृतित्वं न युक्तमिति भावः । एतेन स्मृतितैव कथं तावद् भ्रान्तेः

किं च भ्रान्तौ असद्वा आत्माकारो वा प्रख्याति, न तु तया अर्थः स्वीक्रियते तस्य अप्रकाशनात् इति तया अर्थो न व्यवस्थापित एव । प्रकाशनात्मा हि व्यवस्थापना, ततश्च स्मरणादभिलाषेण [अभिलापेन - क्। ष्। ष्।] कथम् अर्थविषयो व्यवहारः ? न च तदप्रकाशने संस्कारजत्वेन किञ्चित् कृत्यम्, तद्धि सादृश्यं लब्धुम् अवलम्ब्यते; न च अनुभवेन विषयप्रकाशनात्मना स्मृत्यभिधानाया भ्रान्तेः किचिदपि सादृश्यम् अस्ति, सर्वथा विषयमस्पृशन्त्याः ॥ ४ ॥

इत्यन्तं गतव्याख्यम् । शिष्टस्य पूर्वार्धस्य व्याख्यां किं च इति ।

भ्रान्तौ - भ्रमे, असत्, असत्ख्यातिवादिपक्षे, आत्मैव प्रख्याति । यदुक्तम् :-

यदन्तर्ज्ञेयतत्त्वं तद् बहिर्वदवभासते

इति । न तु तया - स्मृत्या, अर्थः - बाह्यार्थः, स्वोक्रियते - गृह्यते, तस्य - अर्थस्य, अप्रकाशनात् - अस्फूर्तेः । फलितमाह इति इति । इति - अतः कारणात्, तया - स्मृत्या, न व्यवस्थापितः - स्थितियुक्तो न कृतः, व्यवस्थापना - अर्थस्थितिः । एतेनात्र वाक्ये सूत्रस्थं भ्रान्तेः इति पदं पञ्चम्यन्तत्वेन योजनीयमिति सूचितम् । अस्यैव वाक्यस्य द्वितीयमप्यर्थमाह ततश्च इति ।

ततश्च - भ्रान्तिरूपात् स्मरणाच्च, अभिलाषेण व्यवहारः - अभिलाषपूर्वको व्यवहारः, उपादानरूपा व्यवहृतिरिति यावत्, कथं स्यात्, न हि भ्रमसिद्धस्य व्यवहारविषयत्वं दृष्टम् अननुभवादिति भावः । एतेन सूत्रस्थस्य अर्थस्थितिः इत्यस्य अर्थव्यवहारो वाच्यम् इति सूचितम् । उत्तरार्धं व्याचष्टे न च इति । तदप्रकाशने - अर्थाग्रहणे ।

कथं न कृत्यमित्यत आह तत् इति । तत् - संस्कारजत्वम्, सादृश्यम् - पूर्वानुभवसदृशत्वम्, सर्वथा विषयमस्पृशन्त्याः - भ्रान्तित्वाङ्गीकारे स्तोकमपि विषयस्य स्पर्शमप्राप्तवत्याः, एतेन

ननु योऽनुभवो यश्च तद्विषयः स यतः तया अध्यवसीयते, ततः अंशात् सादृश्यम् अनुभवेन स्मृतेः, तत्सिद्धये च संस्कारपरिग्रहः ।

“अध्यवसीयते” इति किम् उच्यते ? “प्रकाश्यते” इति चेत् न भ्रान्तित्वम्; “न प्रकाश्यते” इति चेत् पुनरपि विषयो न स्पृष्ट एव अनया इति सादृश्यमिति [सादृश्यमपि - क्। ष्।

ष्।] शब्दगडुमात्रम्, तदेतत् दर्शयितुमाह :-

स्तोकं विषयस्पर्शो स्मृतेर्विद्यत एवेति सूचितम् । तदुक्तम् :-

स्मृतिरपि द्विविधा यथार्था अयथार्था च

इति ॥ ४ ॥

अथ पञ्चमश्लोकस्यावतरणिकां करोति ननु इति ।

अत्र टीका :-

अनुभवः, पूर्वकालीन इति भावः । तद्विषयः - अनुभवविषयः, तया - भ्रान्तित्वेन काल्प्यमानया स्मृत्या, अध्यवसीयते - उल्लिख्यते, ततः - अध्यवसायाद्धेतोः, तत्सिद्धये - सादृश्यसिद्ध्ये । अत्रोत्तरं दातुं प्रश्नं करोति अध्यवसीयते इति । अध्यवसीयते इत्यस्य कोर्थह् ? प्रकाशार्थत्वं विकल्प्य दोषमाह प्रकाश्यते इति । न हि प्रकाशविषयस्य भ्रान्तित्वं युक्तमिति भावः । अप्रकाशार्थत्वमपि विकल्प्य दोषमाह न प्रकाश्यते इति । अनया - स्मृत्या, प्रकाशनस्यैव स्पर्शत्वात् अध्यवसायस्य तु दूरत एवोल्लेखमात्रनिष्ठत्वादिति भावः । इति - अतः कारणात्, सादृश्यमिति शब्दगडुमात्रम्, व्यर्थमेवेति भावः ।

व्यवहारानर्हत्वात्, उभयोर्मध्ये एकस्य जडत्वात्, अर्थभ्रान्तित्वकल्पितस्मृत्यवसायात् । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । भ्रान्तित्वे इति ।

भ्रान्तित्वे चावसायस्य न जडाद्विषयस्थितिः ।

ततोऽजाड्ये निजोल्लेखनिष्ठान्नार्थस्थितिस्ततः ॥

इह स्मृतेः अन्यस्य वा भ्रान्तिबोधस्य स्वसंवेदनांशे प्रकाशमाने न भ्रान्तिता, तत्र वैपरीत्याभावात्; यस्तु तत्र अध्यवसीयते स्वाकारः स विपरीततया अस्वाकारत्वेन अर्थतया इति तत्रांशे भ्रान्तिता । स चांशोऽर्थलक्षणो न स्मृत्या अन्यथा वा भ्रान्त्या स्पृश्यते इति तत्र असौ

अत्र टीका :-

पूर्वार्धं व्याचष्टे इह इति । स्मृतेः - स्मृतित्वेन कल्प्यमानस्य, अन्यस्य वा - स्मृतित्वेन अकल्प्यमानस्य वा, भ्रान्तिबोधस्य - भ्रमज्ञान्स्य, स्वसंवेदनांशे - बोधत्वेनापरिहार्ये स्वप्रकाशभागे, कीदृशे ? प्रकाशमाने - स्वं प्रति स्वयं स्फुरणशीले, न भ्रान्तिता - भ्रान्तिभावो न भवति । अत्र हेतुमाह तत्र इति ।

तत्र - स्वसंवेदनांशे, विषयग्रहणरूपत्वस्य तत्रापि भावादिति भावः । ननु तर्ह्यस्या अपि प्रमात्वमेव युक्तमित्यत आह यस्तु इति । यस्तु तत्र - भ्रान्तौ, अध्यवसीयते - उल्लिख्यते, स्वाकारः - ज्ञानाकारः, सः - स्वाकारः, अस्वाकारत्वेन - यतोऽसावस्याः स्वाकारो न भवति ततो हेतोः, विपरीततया - वैपरीत्येन, अध्यवसीयते न हि सा प्रमा अपि तु भ्रान्तिरेव ।

कुतोऽस्य विपरीतता इत्याह अर्थतया इति । अर्थतया, अर्थभावेन स्थितत्वादिति भावः, अध्यवसायकाले ज्ञानमर्थरूपमेव सम्पद्यते अन्यथा ग्रहणासम्भवात् । फलितमाह इति इति । इति - अतः कारणात्, तत्रांशे - अध्यवसीयमाने स्वाकारांशे, भ्रान्तिता भवति न प्रमात्वम् । स चांशः - अध्यवसीयमानः स्वाकारांशश्च, कीदृशः ? अर्थलक्षणः - अर्थस्वरूपतां प्राप्तः, स्मृत्या - स्मृतिभावेन कल्प्यमानया, अन्यथा वा भ्रान्त्या न स्पृश्यते - तत्सदृशस्य अन्यस्य कस्यापि कल्पनात् पुरःस्थोपि

तूष्णीका इति बलादेव तत्रांशे जडत्वम् अस्या आयातं घटज्ञानस्येव पटे । न च जडेन विषयस्य किञ्चित् कृत्यम्, ततश्च अर्थविषयो व्यवहारो विलुप्येत ।

अथ तु तम् अवसायरूपं स्वसंवेदनांशं स्वाकारं वा अवलम्ब्य अजडत्वम् अस्याः, एवमपि “अजाड्ये” निजं स्वसंवेदनम् उल्लेखश्च स्वाकारः - इतीयति एषा परिनिष्ठिता स्मृतिः इति विषयस्य नामापि ग्रहीतुम् अशक्नुवतः “ततः” स्मृत्यध्यवसायात् कथं विषयस्य व्यवस्थापनं व्यवहार्यत्वसम्पादनसामर्थ्यम् ? ॥ ५ ॥

ग्रहणविषयतां न नीयते, इति - अतः कारणात्, तत्र - तस्मिन्नंशे, असौ - स्मृतिरूपा अन्या वा भ्रान्तिः, तूष्णीका - मौनदशामापन्नैव भवति, इति - अतः कारणादेव, जडत्वम् अस्थाः - स्मृतिरूपाया अन्याया वा भ्रान्तेः, तत्रांशे आयातम्, कस्य इव कुत्र इति दृष्टान्तापेक्षायामाह घट इति । ननु आयातु ततः किमित्यत आह न च इति । मा करोतु इत्यत आह ततश्च इति । विलुप्येत नश्येदित्यर्थः ।

द्वितीयार्धं व्याख्यातुमाह अथ इति । तु शब्दः पक्षान्तरद्योतकः, तम् - समनन्तरोक्तम्, अवसायरूपम् इत्यस्य व्यवहितेनापि स्वाकारम् इत्यनेन सह सम्बन्धः । निजम् - स्वरूपभूतम्, उल्लेखश्च स्वाकारः - अवसायरूपः स्वाकारः, इतीयति - निजभूते स्वसंवेदने उल्लेखरूपे च, परिनिष्ठिता - अवसानं गता, स्मृतिः - भ्रान्तित्वेन कल्प्यमाना स्मृतिः, ततः - तस्मात्, स्मृत्यध्यवसायात् - भ्रान्तित्वेन कल्पितात् स्मृतिरूपादध्यवसायात्, व्यवस्थापनम् - व्यवस्थायाः करणम्, कीदृशम् ? व्यवहार्यत्वस्य - अर्थनिष्ठस्य व्यवहारयोग्यत्वस्य यत् सम्पादनं तत्र सामर्थ्यं यस्य तादृशम्, व्यवस्थापित एव अर्थो व्यवहारयोग्यः । अप्रकृतत्वादन्यस्या भ्रान्तेरिहाकथनम्, सविकल्पस्यानुभवस्य चेयमेवावस्थेति तावदेतदास्ताम् ॥ ५ ॥

संस्कारे सत्यपि स्मृतिः न कथञ्चन घटते, ततश्च परस्परसङ्गतिहीनानि सकलानि ज्ञानानि - इति यदुक्तं श्लोकपञ्चकेन तत् इदानीं प्रकृते योजयति :-

एवमन्योन्यभिन्नानामपरस्परवेदिनाम् ।

ज्ञानानामनुसन्धानजन्मा नश्येज्जनस्थितिः ॥ ६ ॥

“जनस्य” लोकस्य या काचन “स्थितिः” व्यवहारः सा सर्वज्ञानानां यत् “अनुसन्धानम्” एकविषयभावोपपन्नस्मृतिताप्राप्तिरूपम्, तत्र आयत्ता । तथा

अथ षष्ठस्य श्लोकस्यावतरणिकां करोति संस्कारे इति ।

अत्र टीका :-

न घटते - न युज्यते, उक्तन्यायादिति भावः । मा घटतामित्याशङ्कायामाह ततश्च इति । परस्परसङ्गतिहीनानि - परस्परमसम्बद्धानि, स्मृतेरेव सम्बन्धहेतुत्वादिति भावः । इति - एवम्, उक्तम् - युक्तिपूर्वकं कथितम्, सिद्धान्तिनेति शेषः । श्लोकपञ्चकेन सत्यम् इत्यादिना भ्रान्तित्वे इत्यन्तेन, प्रकृते - आरब्धे आत्मसाधने ।

एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । एवम् इति ।

अत्र टीका :-

या काचन - शुद्धाऽशुद्धा वा, स्थितिः इति पदं व्याचष्टे व्यवहारः इति । अनुसन्धानस्य स्वरूपमाह एक इति । एकविषयभावेन - पूर्वानुभवेन सह एकविषयतया [एकविषयता तया - च्।] उपपन्ना या स्मृतिता स्मृतिभावः तस्या या प्राप्तिः सा रूपं यस्य तादृशम्, तत्र - उक्तरूपे अनुसन्धाने, आयत्ता - वशा, तत उत्पन्नेति यावत् ।

कथमायत्तेत्यत आह तथा हि इति । स्मरणनिबन्धनाः - अभिलाषोत्पादनद्वारेण स्मृतिकार्याः, व्यवहाराः - उपादानादिरूपाः ।

कुत इत्यपेक्षायामाह प्रथमम् इति । प्रथमम् - सर्वप्रमाणमूलभूतत्वेन तेषामाद्यभूतम्, अहमिति - अहं पश्यामीत्यादौ स्थितो योऽहम्परामर्शः, तद्रूउपं यत् पूर्वापरानुसन्धानं तेन, अहं पश्यामीत्यादौ हि दृष्टा प्रथमं स्वात्मानमेव परामृशति स परामर्शश्च फलतः पूर्वापरकालविशेषितस्वात्मरूपद्वयमेलनरूप एव, तदेव

हि - स्मरणनिबन्धनाः [स्मरणनिबन्धनः सर्वो व्यवहारः - क्। ष्। ष्।] सर्वे व्यवहाराः । प्रथममपि हि प्रत्यक्षज्ञानम् अहमितिपूर्वापररूपानुसन्धानेन स्मरणानुप्राणितेन विना न घटते, प्रमातरि विश्रान्त्यभावात् अप्रत्यक्षत्वप्रसङ्गात् । एवं सुखादौ मन्तव्यम् । हानादानप्रेरणाभ्युपगमादयस्तु व्यवहाराः स्मरणमया एव । “एवं ज्ञानानाम्” यत् “अनुसन्धानम्” ततो जायमाना “जनस्थितिः” “एवम्” इति पराभ्युपगमे सति, “नश्येत्” नश्यति - इति सम्भाव्यते, कुत इति चेत्,

च अनुसन्न्धानम् । कीदृशेनानुसन्धानेन ? स्मरणानुप्राणितेन - पूर्वकालविशेषितात्मरूपविषयानुभवनेन सह एकविषयापरकालविशेषितस्वात्मरूपविषयस्मृतिदत्तसत्ताकेन, तद्रूपेणेति यावत् विना - अन्तरेण, न घटते - न युज्यते, कुतः ? प्रमातरि - द्रष्टरि, विश्रान्त्यभावात् अप्रत्यक्सत्वप्रसङ्गात् - आपातात्, अहं पश्यामि इति हि नेत्रद्वारेण अहम् शब्दवाच्ये प्रमातरि विश्रान्तं दर्शनं प्रत्यक्षम् इति वक्तुं योग्यम् । अपि शब्देनान्येषामनुमानादीनां का कथेति द्योत्यते । अमुमेव न्यायम् अहं सुखी इत्यादौ सुखाद्यान्तरभावप्रत्यक्षेप्यतिदिशति एवम् इति । मन्तव्यम् - ज्ञातव्यम् ।

ननु उपादानादिरूपाणां व्यवहाराणां का वार्ता इत्यत आह हानादान इति । स्मरणमया एव - स्मृतिहेतुकत्वेन तद्रूपा एव, न हि विष्मृते उपादानादि दृष्टमिति भावः । उक्तं न्यायं प्रकृते योजयति एवम् इति । अनुसन्धानम् - विषयद्वारेण मेलनम् । सूत्रस्थम् एवम् इति पदं व्याचष्टे एवं इति इति । पराभ्युपगमे - बौद्धमताश्रयणे, फलतः आत्माऽनङ्गीकारे इति यावत् ।

विशेषणद्वारेण हेतुमाह । अन्योन्यम् तावत् भिन्नानि ज्ञानानि - अन्यत् अनुभवज्ञानम्, अन्यत् इदानीन्तनं ज्ञानं विकल्पाभिमतम्, अन्यत् स्मरणसम्मतं ज्ञानम् । तदेतानि स्वविषयप्रकाशमात्ररूपाणि परविषये जडान्धानेडमूककल्पानि, न च अन्योन्यस्य प्रकाशरूपाणि ॥ ६ ॥

एवं न स्वरूपतो न वेद्यतो वा एकीभावरूपम् अनुसन्धानम् अस्ति ।

अन्यन्यं च विषयविषयिभावो नास्ति । न च तुर्यं ज्ञातेयनिबन्धनम् अनुसन्धानाधायि सम्भाव्यते इति ध्वंसेरन् व्यवहाराः । न च “ध्वंसन्ताम्” इति भवदभीष्टशापमात्रात् ते ध्वंसन्ते, प्रकाशन्ते यतः तत

नश्येत् - नाशं गच्छेत्, सम्भावनायामयं लिङ् इत्याह नश्यति इति ।

अन्योन्यभिन्नानाम् इत्यस्यावतरणिकां करोति कुतः इति । कोसौ हेतुरित्यपेक्षायामाह अन्योन्यम् इति । भीन्नत्वमेव दर्शयति अन्यत् इति ।

अपरस्पर इति सूत्रपदं व्याचष्टे तदेतानि इति । एतानि - अविकल्पसविकल्पज्ञानस्मरणरूपाणि, स्वरूपप्रकाशनमनपेक्ष्य मात्रचः प्रयोगः ॥ ६ ॥

सप्तमस्य श्लोकस्यावतरणिकां करोति एवम् इति ।

अत्र टीका :-

स्वरूपतः - स्वरूपेण, वेद्यतः - वेद्यद्वारेण, तुर्यम् - स्वरूपैकीभाव - वेद्यैकीभाव - विषयविषयिभावाख्यत्रयापेक्षया चतुर्थं किमपि, ज्ञातेयनिबन्धनम् - कारणम्, अनुसन्धानाध्यायि - ज्ञानानां मेलाकारकम्, ध्वंसेरन् - नाशं गच्छेयुः । ननु ततः किमित्यत आह न च इति । त - व्यवहाराः, कुतो न ध्वंसन्ते इत्यत आह प्रकाशन्ते यतः इति । प्रकाशमानस्य ध्वंसो वक्तुमयुक्त एवेति भावः ।

तर्हि किं कार्यमित्यत आह तत इति । एतत् - वक्ष्यमाणं वस्तु, आपद्यते,

एतत् आपद्यते - एतदेव समर्थयितुम् उद्यन्तव्यम् - इति । तच्च अस्मदभिमतप्रकारेण विना विधेरपि अशक्यसमर्थनम् - इति दर्शयति :-

न चेदन्तःकृतानन्तविश्वरूपो महेश्वरः ।

स्यादेकश्चिद्वपुपुर्ज्ञानस्मृत्यपोहनशक्तिमान् ॥ ७ ॥

“संवित् तावत् प्रकाशते” इति तावत् न केचित् अपह्नुवते । सा तु संवित् यदि स्वात्ममात्रविश्रान्ता अर्थस्य सा कथं प्रकाशः ? स हि अर्थधर्म एव तथा स्यात्; ततश्च अर्थप्रकाशः तावत्येव पर्यवसित इति

बलादङ्गीकर्तव्यमित्यर्थः । एतच्छब्दापेक्षितं वस्तु कथयति एतदेव इति ।

उद्यन्तव्यम् - उद्योगः कार्यः । तत उद्योगमेव करिष्याम इत्यत आह तच्च इति । अस्माकमभिमतो यः प्रकारः - आत्मसमर्थनरूपः, तेन, विना, अशक्यं समर्थनं यस्य तादृशम् ।

अवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । न चेत् इति ।

अत्र टीका :-

नापह्नुवते - नापह्नवं कुर्वन्ति । यच्छ्रुति:-

असन्स एव भवति असद् बुध्यति वेद चेत्

इति । एतेन चिद्वपुः इति गतव्याख्यम् । प्रकाशतां ततः किमित्यत आह सा तु इति । स्वात्ममात्रविश्रान्ता - स्वयम्प्रकाशनिजस्वरूपमात्रपरा, सा - संवित् । कुतो न सा अर्थस्य प्रकाश इत्यत आह स हि इति । हि - यस्मात् सः - अर्थस्य प्रकाशः, अर्थधर्म एव स्यात्, न तु स्वतन्त्रसंवित्स्वरूपभूत इति भावः । ननु तथैवास्तु इत्यत आह ततश्च इति । तावत्येव - स्वात्ममात्रे एव,

गलितो ग्राह्यग्राहकभावः । अतोऽर्थप्रकाशरूपां संविदम् इच्छता बलादेव अर्थोऽपि तद्रूपान्तर्गत एव अङ्गीकर्तव्यः; स च अर्थप्रकाशो यदि अन्यश्च अन्यश्च, तत् न स्मरणम् उपपन्नमित्यत एक एव असौ - इति । एकत्वात् सर्वो वेद्यराशिः तेन क्रोडीकृतः - इत्येतदपि अनिच्छता अङ्गीकार्यम् । एवमपि सततमेव उन्मग्नेन निमग्नेन वा विश्वात्मना प्रकाशेत तथास्वभावत्वात् । न चैवम् अतः स्वरूपान्तर्ब्रूडितम् अर्थराशिम् अपरमपि भिन्नाकारम् आत्मनि परिगृह्य, कञ्चिदेव अर्थं स्वरूपात्

गलितः - नष्टः, अर्थप्रकाशस्य स्वात्ममात्रनिष्ठत्वेन प्रमातृस्पर्शासम्भवादिति भावः । ननु तर्हि ग्राह्यग्राहकभावसम्बन्धः कथं सिद्ध्येदित्यत आह अतः इति ।

संविदम् - स्वतन्त्रसंवित्तत्त्वम्, तद्रूपान्तर्गत एव - स्वतन्त्रसंविद्रूपान्तर्गत एव, न तु ततो बहिःस्थः, तत्त्वे हि अर्थधर्मत्वापातात् ग्राह्यग्राहकम्भावासम्भवापात इति भावः ।

ननु सोर्थप्रकाश एक एव् उत उत्तरोत्तरं नव एव इत्यत आह स च इति ।

अन्यश्चान्यश्च, नवो नव इत्यर्थः । नोपपन्नम्, अनुसन्धातुरसम्भवादिति [अनुसन्धातुमसम्भवात् - च्।] भावः । असौ - अर्थप्रकाशः, एतेन सूत्रस्थम् एक इति पदं व्याख्यातम् । एकत्वेन आयातं सर्वागूरकत्वम् अङ्गीकारयति एकत्वात् इति । अङ्गीकार्यम्, अन्यथा वेद्यभेदेन तस्यापि भेदापातादिति भावः । एतेन अन्तःकृत इति पदं व्याख्यातम् । ज्ञान इति पदं व्याख्यातुमाह एवम् इति । एवमपि - सर्ववेद्यराशिक्रोडीकारेऽपि उन्मग्नेन - विषयाश्रयणात् लेशतः प्रादुर्भूतेन, निमग्नेन - साकल्येन तदनाश्रयणाद् बाहुल्येन अप्रकटेन, विश्वात्मना - सर्वात्मना, प्रकाशेत, न ह्येकस्य वस्तुनो युगपत् प्रकाशाप्रकाशौ युक्ताविति भावः । अत्र हेतुमाह तथा इति ।

तथास्वभावत्वात् - प्रकाशस्वभावत्वात्, स्वभावस्य च त्यागो दुःशक एवेति भावः । न चैवम्, न त्वेतदनुभूयते इत्यर्थः । तर्हि किं कार्यमित्यत आह अतः इति । अपरम् - तन्मध्ये विषयीकृतं कमपि

उन्मग्नम् आभासयति - इति आपतितम् । सैषा ज्ञानशक्तिः ।

उन्मग्नाभासभिन्नं [उन्मग्नाभाससम्भिन्नम् - क्। ष्। ष्।] च चित्स्वरूपं बहिर्मुखत्वात् तच्छायानुरागात् नवं नवं ज्ञानमुक्तम् । एवमपि नवनवाभासाः प्रतिक्षणम् उदयव्ययभाज इति सैव व्यवहारनिवहहानिः । तेन क्वचित् आभासे गृहीतपूर्वे यत् संवेदनं बहिर्मुखम् अभूत्, तस्य यत् अनतर्मुखं चित्स्वरूपत्वं तत् कालान्तरेऽपि अवस्थास्नु स्वात्मगतं तद्विषयविशेषे बहिर्मुखत्वं परामृशति इति एषा

भावम् । भिन्नाकारम् इति, ज्ञेयतया स्थितत्वादिति भावः ।

कञ्चिदेवार्थम्, अपरं भिन्नाकारमित्यर्थः, स्वरूपात् - स्वान्तःकृतसर्ववेद्यराशेः निजरूपात्, उन्मग्नम् - प्रादुर्भूतम्, आपतितम् - बलादायातम् । सैषा - उन्मग्नाभासरूपा, एतेन ज्ञानशक्तेः साधनं कृतम् ।

ननु यद्येषा ज्ञानशक्तिस्तर्हि घटपटज्ञानादेः किं रूपम् इत्यत आह उन्मग्न इति । उन्मग्नाभासैः - विषयीकरणेन प्रादुर्भावं नीतैः घटपदादिरूपैः आभासैः, भिन्नम् - भिन्नमिव सम्पादितम्, चित्स्वरूपम् - चितो निजं रूपम्, बहिर्मुखत्वात् - इदमितिबहिर्मुखाताऽऽश्रयणेन, तच्छायानुरागात्, उन्मग्नाभासच्छायोपरागात्, नवं नवं ज्ञानम् - प्रमाणरूपं नवीनं नवीनं ज्ञान, उक्तम्, दृश्यते चैकस्यैव जलस्य तरङ्गादिरूपैराभासैर्नवनवत्वम् इति न कोपि विरोधः । ननु अनया ज्ञानशक्त्यैव सर्वे व्यवहाराः सिद्धिमायान्तु इत्यत आह एवमपि इति ।

एवमपि - ज्ञानशक्तेर्नवनवज्ञानत्वेपि, सैव - पूर्वोक्तैव, पूर्ववस्तुस्मरणाऽसम्भवादिति भावः । ननु तर्हि किं कार्यमित्यत आह तेन इति । पूर्वम् - अनुभवकाले, गृहीते, गृहीतपूर्वे, संवेदनम् - अनुभवरूपम्, तस्य - पूर्वम् इदमितिबहिर्मुखीभूतस्य संवेदनस्य, अन्तर्मुखम् - अहमिति स्थितम्, चित्स्वरूपत्वम् - सारतया स्थितः चित्स्वरूपभावः, कीदृशम् ? कालान्तरेपि - स्मृतिकालेऽपि, अवस्थास्नु - नित्यतया तिष्ठत् सत्, स्वात्मगतम् - संस्कारभावेन स्वात्मनि स्थितम्, तत् - पुरातनम्, विषयविशेषे - स्वान्तरगतवेद्यराशिमध्यात् विषयतया

स्मृतिशक्तिः । यच्च तत् नवं भासयति स्मरति वा तत् वस्तुतः संविदा विश्वमथ्या तादात्म्यवृत्ति इति विश्वमयं पूर्णमेव इति नवं न किञ्चित् आभासितं स्मृतं वा स्यात् । इदमपि प्रवाहपतितम् ऊरीकार्यम् - यत् किल तत् आभास्यते तत् संविदो विच्छिद्यते, संविच्च ततः, संविच्च संविदन्तरात्, संवेद्यं च संवेद्यान्तरात्; न च विच्छेदनं वस्तुतः सम्भवति, इति विच्छेदनस्य अवभासमात्रम् उच्यते । न च तत् इयता पारमार्थिकम्, [अपारमार्थिकम् - क्। ष्। ष्।]

गृहीते कुत्रापि वेद्ये, बहिर्मुखत्वम् - इदमितिग्रहणरूपं बहिर्भावम्, परामृशति - तत् इत्येवम् आमर्शविषयतां नयति, इति - तत्र शक्तत्वात्, एषा स्मृतिशक्तिः भवति । एतेन स्मृतिशक्तेः साधनं कृतम् ।

प्रोक्तशक्तिद्वयप्राणप्रदाम् अपोहनशक्तिं साधयति यच्च इति ।

वस्तुतः - परमार्थेन, विश्वमय्या - अन्तःकृतसर्ववेद्यरूपया सह, तादात्म्येन - तद्रूपतया, वृत्तिः - स्थितिः यस्य तादृशम्, विश्वमयम् - संवित्स्वरूपम्, न स्यात्, अन्यथा पूर्णत्वासम्भवादिति भावः ।

प्रवाहपतितम् - अनिच्छया आगतम् । तत् कथमनुभवस्य स्मृतेर्वा उत्थानं युक्तम्, तयोस्तद्विषययोश्च संविदि निमग्नत्वादित्यत आह यत्किल इति । आभास्यते - आभासविषयतां नीयते, उपलक्षणं चैतत्स्मर्यते इत्यस्य । विच्छिद्यते - निष्कृष्यते, ततः - तस्माद्विषयात्, संविच्च - तद्विषया संविच्च, [तद्विषयसंविच्च - च्।] संविदन्तरात् - सर्वागरकत्वेन स्थितताया अन्यत्वेन भासमानायाः संविदः, संवेद्यम् - संविदो विषयोऽर्थः, संवेद्यान्तरात् - तस्मिन् काले विषयतामगतात् [विषयतामागतात् - च्।] संवेद्यराशेः । ननु यद्येवं तर्हि विच्छेदनस्यापि सत्यतया स्थितत्वाद् अद्वैतहानिरित्यत आह न च इति । केवलमवभासनम् अवभासमात्रम् । ननु तथापि सत्यमेव भवत्वित्यत आह न च इति । तत् - विच्छेदनम्, इयता - अवभासमात्रेण, पारमार्थिकम् - सत्यभूतम्, अन्यथा

निर्मीयमाणस्य सर्वस्य अयमेव परमार्थः । यतः एष एव परितश्च्छेदनात् परिच्छेद उच्यते, तदवभासनसामर्थ्यम् अपोहनशक्तिः ।

अनेन शक्तित्रयेण विश्वे व्यवहाराः । तच्च भगवत एव शक्तित्रयम् - यत् तथाभूतानुभवितृ - स्मृर्तृ - विकल्पयितृस्वभाव चैत्रमैत्राद्यवभासनम् । स एव हि तेन तेन वपुषा जानाति, स्मरति विकल्पयति च । यथोक्तम् आचार्येणैव :-

“यद्यप्यर्थस्थितिः प्राणपुर्यष्टकनियन्त्रिते ।

जीवे निरुद्धा तत्रापि परमात्मनि सा स्थिता ॥”

चन्द्रद्वित्वस्यापि पारमार्थिकतापत्तेरिति भावः । ननु अवभास्यमानस्य स्मर्यमाणस्य चायं न्यायो भवतु निर्मीयमाणस्य तु का वार्ता इत्यत आह निर्मीयमाणस्य इति । अयमेव - अवभास एव, सर्वत्र ज्ञेये कार्ये वा अवभासनमात्रमेव परमार्थः, तथा च न अद्वैतहानिरिति भावः । ननु सर्वत्र परिच्छेदस्यैवावभासनत्वमुद्घोष्यते, त्वया कथमेवमुच्यते इत्यत आह यतः इति । यतः पण्डितैः एष एव - विच्छेद एव, परितश्च्छेदनात् - समनन्तरोक्तस्य छेदस्य करणात्, परिच्छेद उच्यते, तत्

  • तस्मात्कारणात्, अवभासने - प्रोक्तस्वरूपस्यावभासस्य करणे, सामर्थ्यम् - समर्थता, अपोहनशक्तिः - विच्छेदशब्दवाच्या अपोहनरूपा शक्तिर्भवति ।

अस्यैव शक्तित्रयस्य व्यवहारकारणतां कथयति अनेन इति । विश्वे - सर्वे । ननु तथापि न त्वदभीष्टाऽऽत्मसिद्धिरित्यत आह तच्च इति । भगवतः

  • ऐश्वर्ययुक्तस्यात्मतत्त्वस्य, शक्तिमन्तं विना शक्त्यसिद्धेरवश्यं शक्तिमत्स्वरूपस्याऽऽत्मनोङ्गीकार इति भावः । ननु तच्छक्तित्रयं देवदत्तादिगतत्वेनैव दृश्यते, त्वया कथमेवमुच्यते इत्यत आह यत् इति । हि - यस्मात्, स एव - भगवान्, तेन तेन वपुषा - स्वरूपेण, जानाति स्मरति विकल्पयति च, तेन केन ? यत्, तथाभूताः - परमार्थतो भगवत्स्वरूपाः, अनुभवितृस्मर्तृविकल्पयितृस्वभावा ये चैत्रमैत्रादयस्तेषामवभासनं भवति । अत्राचार्यसम्मतिमाह यथोक्तम् इति । अर्थस्थितिः - अर्थविषयो व्यवहारः, निरुद्धा - स्थितिं गता, सा - अर्थस्थितिः । आदि

इत्यादि । एतासां च ज्ञानादिशक्तीनाम् असङ्ख्यप्रकारो वैचित्र्यविकल्प इति तत्सामर्थ्यं स्वातन्त्र्यम् अपराधीनं पूर्णं महदैश्वर्यं तन्निर्मितब्रह्मविष्णुरुद्राद्यैश्वर्यापेक्षया उच्यते । तदेवं [तदेव - क्। ष्।

ष्।] “चिद्वपुः” इत्येवं कृत्वा इयदायातम् “विश्वरूपः” इति । तत एव च परिनिष्ठितैकरूपजडभाववैलक्षण्यात्

शब्देन अन्येषां तद्वाक्यानां ग्रहणम् । एतेन ज्ञानस्मृत्यपोहनशक्तिमान् इति पदं गतव्याख्यम् ।

महेश्वर इति पदं व्याख्यातुमस्य शक्तित्रयस्य महदैश्वर्यत्वं कथयति एतासाञ्च इति । वैचित्र्यविकल्पः - विचित्रतारचना, तत्सामर्थ्यम् - प्रोक्तशक्तित्रयरूपा समर्थता, स्वातन्त्र्यम् - स्वतन्त्रतारूपम्, ऐश्वर्यम् - ईश्वरता । ननु किमपेक्षमस्य महत्त्वमित्यत आह तन्निर्मित इति । तेन - प्रोक्तेन भगवता, निर्मिता - अवभासिता ये ब्रम्हविष्णुरुद्रादयः, आदिशब्देन देवेन्द्रादीनां ग्रहणम्, तेषां यदैश्वर्यम् - यथास्वमीश्वरभावः, तस्य अपेषया ।

उपसःआरं करोति तदेवम् इति । तत् - तस्मात्कारणात्, एवम् सति चिद्वपुरित्येवं कृत्वा - चिद्वपुरित्यनेन कारणेन, इयदायातम् । इयत् किम् ? विश्वरूपः इति । भगवान् विश्वरूपः - सर्वभावस्वरूपो भवति, स्वप्ने चित एव सर्वरूपत्वदर्शनात् । तत एव च - विश्वरूपत्वाद्धेतोश्च, परिनिष्ठिताः - स्वरूपमात्रेऽवसानं गताः, अत एव एकरूपा ये जडभावाः तेभ्यो वैलक्षण्यात् -

ज्ञानादिशक्तियुक्ततामाहेश्वर्यम् उपसम्प्राप्तः । एतदनुपगमे न किञ्चित् इदं भासेत - इति प्रसङ्गः । भासते तु, तस्मात् एतत् अवश्याङ्गीकर्तव्यम् - [अव्यश्यम् अङ्गीकर्तव्यम् - क्। ष्। ष्।] इति । प्रसङ्गविपर्ययः । नश्येज्जनस्थितिः, यद्येवं न स्यात् - इति प्राक्तनेन श्लोकेन सह सम्बन्धः । “चेत्” इत्यनेन तद्विपर्ययः सूचितः ॥ ७ ॥

भिन्नत्वेन, स भगवान्, ज्ञानादिशक्तियुक्ततामाहेश्वर्यम् - ज्ञानादिशक्तिसहितत्वरूपमैश्वर्यम्, उपसम्प्राप्तो भवति, तदुक्तम् :-

अस्थास्यदेकरूपेण वपुषा चेन्महेश्वरः ।

महेश्वरत्वं सर्वत्वं तदत्यक्ष्यद् घटादिवत् ॥

इति । पूर्वमुक्तं प्रसङ्गं प्रसङ्गविपर्ययं च एतदवष्टम्भेन अनुस्मरति एतद् इति । एतदनुपगमे - चिद्वपुषोऽनङ्गीकारे सति, इदं किञ्चिन्न भासेत, निःसाक्षिकत्वात्, इति प्रसङ्गः भवति, पूर्वपक्षवादिनं प्रतीति भावः । इदन्तु भासते एव स्वप्रतीतिसाक्षिकत्वात्, तस्मात् एतत् - चिद्वपुराख्यं वस्तु, अवश्याङ्गीकर्तव्यम् इति प्रसङ्गविपर्ययो भवति, उत्तरपक्षवादिन इति भावः ।

अस्य श्लोकस्य पूर्वश्लोकेन सह योजनां स्फुटीकरोति नश्येत् इति ।

सम्बन्धः - योजना । चेच्छब्दद्योत्यं वस्तु स्फुटीकर्तुमाह चेदित्यनेन इति । तद्विपर्ययः - जनस्थितिनाशविपर्ययः, सूचितः इति, निपातानां सूचनामात्रे

इति शिवम् । आदितः ॥ २३॥

इति श्रीमदाचार्याभिनवगुप्तविरचितायाम् ईश्वरप्रत्यभिज्ञासूत्रविमर्शिन्यां ज्ञानाधिकारे परदर्शनानुपपत्तिर्नाम तृतीयमाह्निकम् ॥ ३ ॥

शक्तत्वात् । इदमाह्निकं च पूर्वपक्षनिष्ठपूर्वान्हिकप्रतिसमाधानरूपत्वेन उत्तरपक्षरूपं ज्ञेयम्, आत्मप्रत्याख्यानस्य पूर्वपक्षत्वात् तत्प्रतिसमाधानस्य तूत्तरपक्षत्वात् । इति शब्दः समाप्तौ । शिव पदं मङ्गलवाचकं परतत्त्वसूचकञ्च । इति शिवम् ॥ ७ ॥

इति श्रीभास्करकण्ठविरचितायां श्रीप्रत्यभिज्ञासूत्रविमर्शिनीटीकायां श्रीभास्कर्याख्यां ज्ञानाधिकारे तृतीयमाह्निकं समाप्तम् ॥