अथ द्वितीयमाह्निकम् ।
पूर्वपक्षतया येन विश्वमाभास्य भेदतः ।
अभेदोत्तरपक्षान्तं [पक्षान्तर्नीयते - क्। ष्। ष्।] नीयते तं स्तुमः शिवम् ॥
द्वितीयमाह्निकम्
ॐ ! पूर्वपक्षमयद्वैतमद्वैतान्मध्यपक्षतः ।
निष्कृष्यान्ते पराद्वैतपक्षवन्तं शिवं स्तुमः ॥
ॐ । अथ ज्ञानाधिकारे द्वितीयाह्निकव्याख्याया निर्विघ्नपरिसमाप्तिकामनया समस्ताह्निकाभिप्रायसूचकं मङ्गलश्लोकमुपनिबध्नाति पूर्वपक्ष इति ।
अत्र टीका :-
येन - उत्तरार्धे तच्छब्दोक्तेन श्रीपरमशिवेन । विश्वम् - षट्त्रिंशत्तत्त्वात्मकं जगत् । पूर्वपक्षतया - प्रतिसमाधेयपूर्वपक्षभावेन । भेदतः आभास्य - निजेच्छया भेदतः - इदन्ताग्रहणप्राणभेदेन, आभसविषयतां नीत्वा । अभेद एव - अहन्ताप्राणा एकता एव, उत्तरपक्षः - स्थापनीयः पक्षः, स एवान्तः - अवसानं तम्, नीयते - प्राप्यते । वयं तं शिवं स्तुमः - सर्वोत्कृष्टतया भावयामः । एतेन परशिवक्रीडारूपत्वं जगत उक्तम्, क्रीडाविष्टाः स्वतन्त्रा हि किञ्चिद्वस्तुतः
इह यत् पमार्थरूपं तद् आशङ्क्यमानप्रतिपक्षप्रतिक्षेपेण निरूपयिष्यमाणं सुष्ठुतमां स्पष्टोकृतं भवति । यदाह भट्टनारायणः :-
“नमस्ते भवसम्भ्रान्तभ्रान्तिमुद्भाव्य भिन्दते ।
ज्ञानानन्दं च निर्द्वन्द्वं देव वृत्वा विवृण्वते ॥”
उत्पाद्य स्वयं नाशयन्ति । एतेन मङ्गलश्लोकेनेदमाह्निकं पूर्वपक्षरूपमित्यपि सूचितम् ।
एवं मङ्गलं सम्पाद्याह्निकतात्पर्यं समस्तव्यस्तत्वेन कथयन्नाह इह इति ।
अत्र टीका :-
इह - अस्मिन् शास्त्रमार्गे, परमार्थरूपम् - तात्पर्यविषयत्वेन परमाभिधेयरूपम् । आशङ्क्यमानाः - वादिभिः शङ्कितुमारब्धाः, न तु सम्भवसहाः, ये प्रतिपक्षाः - विरुद्धाः नाशकाः अपरमार्थभूताः प्रतिद्वन्द्विनः पक्षाः, तेषां यत् प्रतिक्षेपणम् - प्रतिसमाधानं तेन । अत्र वृद्धसम्मतिमाह यदाह इति । हे देव - विश्वोद्भावनन्यक्काररूपक्रीडाशील । ते - अस्मच्छब्दप्रयोगयोग्यत्वेऽपि भक्त्यतिशयास्वादेन भिन्नतया भावनेन युष्मच्छब्देन भाविताय भवते । नमः - अस्मत्कर्तृकः प्रहवीभावोऽस्तु । कीदृशाय भवते ? भवे
- रागद्वेषमये संसारे, ये सम्भ्रान्ताः - विस्मृतस्वात्मत्वेन देहादावात्मभ्रमयुक्ता ये जीवाः, तेषां भ्रान्तिम् - प्रोक्तरूपं भ्रमम्, तत् उद्भाव्य प्रकटीकृत्य, भिन्दते - तीव्रतरशक्तिपातेन पुनर्विदारकाय, अत एव ज्ञानानन्दम् - आत्मप्रकाशरूपमानन्दम् ।
कीदृशम् ? निर्द्वन्द्वम् - विषयसुखरूपद्वन्द्वव्यतिरिक्तम् । वृत्वा - मायाशक्त्यावरणविषयतां नीत्वा, विवृण्वते - तदपसारणेन प्रकटीकुर्वते । एतेन मध्ये विस्मतं वस्तु पुनः प्राप्तमतिशयेनानन्दकारि भवतीति भ्रान्त्युद्भावनमपि कृपाहेतुकमेवेति द्योतितम् । ननु ततः किमित्यत्राह तत्रेह इति । तत्र - पूर्वोक्ते वस्तुनि सति, अनात्मानीश्वरे - आत्माऽभावेश्वराभावौ, वदन्तीति तेषाम् ।
भ्रान्तिः - अनात्मानीश्वरताज्ञानरूपो विपर्यासः, तदुद्भावनम्, अन्यथा भ्रान्तिभेदनस्य निर्विषयत्वापातादिति भावः ।
एकादशकमेवाद्यन्ताभ्यामुपलक्षयति ननु इति ।
तत्रेह अनात्मानीश्वरवादिनां भ्रान्तिभेदनपूर्वकं परमार्थं विवरीष्यन् तदुद्भावनं तावत् एकादशभिः श्लोकैः करोति
“ननु स्वलक्षणाभसम्… ।”
इत्यादिभिः
“…टेन कर्तापि कल्पितः ॥”
इत्यन्तैः । तत्र श्लोकद्वयेन आत्मनो ध्रुवस्य दृश्यानुपलब्ध्या अभाव उक्तः प्रत्यक्षात्मवादिनः प्रति । तत्र श्लोकत्रयेण स्मृत्यनुसन्धानं संस्कारात् सिद्धम् इति अन्यथासिद्धत्वात् आत्मानुमानाय न पर्याप्तम् - इति प्रोक्तम् अनुमेयात्मवादिनः प्रति । तत्र श्लोकेन ज्ञानादिगुणैर्गुणिनि प्रतिपत्तिः :-
सामस्त्येनोक्त्वा व्यस्तत्वेनापि कथयति तत्र इति । तत्र - एकादशमध्ये, ध्रुवस्य - नित्यस्य । दृश्य इति । दश्यस्य - सत्त्वे द्रष्टुं योग्यस्य, या अनुपलब्धिः - अप्राप्तिः, तया प्रमाणभूतया, अनुपलब्धस्यापि पक्षस्य स्वरूपविप्रकर्षेणाभावसाधनं नोचितमिति दृश्य इत्युक्तम्, प्रत्यक्षात्मवादिनः प्रति - शैवान् प्रति, त एव हि नित्यमात्मानं प्रत्यक्षं वदन्ति । स्मृतिरूपमनुसन्धानं स्मृत्यनुसन्धानम्, अनुमेयात्मवादिनः - तार्किकादीन्, प्रति । सप्तमाष्टमयोः कृत्यमाह एवम् इति । नवमस्य कृत्यमाह तत इति । एकेन, श्लोकेनेति पूर्वेण सम्बन्धः ।
इति शब्दः नवमश्लोककृत्यसमाप्तिपरः । वदता इत्यस्य पूर्वेण सम्बन्धः । एकादशस्य कृत्यमाह श्लोकेनैव इति । तत्र - स्थिरे आत्मनि ।
उपसंहारं करोति इति इति । इति, एवमित्यर्थः । ननु
इति अनुमानं निरस्तम् । एवम् आत्मानं निराकृत्य, ततो ज्ञानक्रियाशक्तिसम्बन्धरूपमैश्वर्यं निराकर्तुं ज्ञानस्य स्वरूपमेव व्यतिरिक्तं वाद्यन्तरमते, साङ्ख्यमते च अयुज्यमानम् - इति निरूपितं श्लोकद्वयेन । तत एकेन क्रिया नाम न काचित् क्वचिदपि अस्ति - इति कथितम् । तत्र साधकं प्रतिक्षिप्य बाधकं च उपन्यस्यति । ततः सम्बन्धस्य श्लोकेन नास्तित्वं प्रतिपादितं प्रमाणाभावं वदता ।
श्लोकेनैव तत्र बाधकं प्रमाणमुक्वा, न आत्मा स्थिरो नापि ज्ञातृत्वकर्तृत्वलक्षणम् अस्य ऐश्वर्यम् - इति स्वपक्ष उपसंहृतः - इति पूर्वपक्षस्य पिण्डार्थः ।
सर्वमेतत् स्वयं स्फुटीभविष्यतीति किं प्रथमत एव प्रपञ्चः कृत इति चेत् शिष्यबुद्धिसमाधानार्थमिति ब्रूमः । ग्रन्थार्थव्याख्याकरणं प्रतिजानीते अथ इति । ग्रन्थानाम् - कारिकासूत्ररूपाणाम्, अर्थः - अभिधेयम्, व्याख्यायते, विव्रियते इत्यर्थः ।
अथावतरणिकां विनम्व प्रथमं द्वितीयं च श्लोकमुपन्यस्य व्याचष्टे । ननु इति ।
अत्र टीका :-
ननु शब्दस्य वाच्यमाह ननु इति । आक्षेपे - अभियोगे, न तु प्रश्ने तस्येहायुक्तत्वात् । तमेव प्रकटयति इह इति । तावत् - प्रथमम्, अयुक्तत्वे हेतुमाह स्थिरस्य इति । अपि शब्दः समुच्चये, आत्मन इति शेषः ।
अप्रकाशनात् - प्रकाशनाभावात् । एतदेव समर्थयितुमाह तथा हि इति ।
तथा, दृश्यतां किलेत्यर्थः । घटप्रकाशः - घटविषयं निर्विकल्पज्ञानम् । विकल्पः - सविकल्पज्ञानम् । प्रत्यभिज्ञा - सोयमित्युभयजं ज्ञानम् । स्मृतिः - स इति संस्कारजं ज्ञानम् ।
उत्प्रेक्षा - भवितव्यमिति तर्कज्ञानम् । आदि शब्देन इदं वा इदं वा इति संशयज्ञानं गह्यते । प्रकाशन्ते - स्वप्रकाशतया स्फुरन्ति ।
एकघटविषयत्वेऽपि कल्पितं भेदमपेक्ष्य भिन्नविषयाणि इत्युक्तम् । तत्र इति, तत्र - ज्ञानषट्कमध्ये । नीलस्यप्रकाशःस्वलक्षणाभासं ज्ञानम्, सूत्रोक्तमिति शेषः, भवतीति सम्बन्धः ।
अथ ग्रन्थर्थो [अथ ग्रन्थो व्याख्यायते - क्। ष्। ष्।] व्याख्यायते
ननु स्वलक्षणाभासं ज्ञानमेकं परं पुनः ।
साभिलापं विकल्पाख्यं बहुधा नापि तद्द्वयम् ॥ १ ॥
नित्यस्य कस्यचिद् द्रष्टुस्तस्यात्रानवभासतः ।
अहम्प्रतीतिरप्येषा शरीराद्यवसायिनी ॥ २ ॥
स्वलक्षण इत्यस्य बहुब्रीहिमाश्रित्य विग्रहं करोति स्वम् इति । स्व इत्यवयवं व्याख्यातुमाह अन्य इति । दुर्बोधताशङ्क्या पर्यायान्तरमाह स्वरुप इति । स्वरूपे सङ्कोचं भजतीति तादृशम्, असाधारणमित्यर्थः, राहोः शिर इतिवत् प्रयोगः, भजनकर्तुस्तदाधारस्य चैकत्वात् । लक्षण इत्यवयवं व्याचष्टे देश इति । लक्षणम् - स्वरूपम्, तच्च विशेष्यत्वेन देशादित्रययोजनामयमेवेति देशादिग्रहणम्, यस्य - देशादेः, तस्य । आभास इत्यवयवं व्याचष्टे प्रकाशनम् इति ।
प्रकाशनम् - प्रकाशः, प्रयेति यावत । अन्तर्मुखम् - प्रमातृसाम्मुख्येन स्थितम्, यस्मिन् - अन्यपदार्थभूते, बहिर्मुखीनस्वरूपधारिणि, इदमिति बाह्यसम्मुखे प्रमाणरूपे इति यावत् । ज्ञाने - ज्ञानपदवाच्ये वस्तुनि । एतेन स्वलक्षण इत्यस्य ज्ञानविशेषणत्वमुक्तम् । तत् अविकल्पकम् - समनन्तरोक्तं प्रकाशरूपं निर्विकल्पज्ञानम्, विषयभेदेपि - घटादिविषयभेदेऽपि सति, एकजातीयम् - एकरूपं भवति । अत्र हेतुमाह स्वरूपवैचित्र्येऽपि इति ।
अत्रापि वाक्येन हेतुमाह विकल्पे हि इति । अभिलापः शब्दनम् लक्षणया वाचकस्मृतिरिति यावत् । अत्र - अविकल्पके ज्ञाने । नास्ति इत्यस्य समर्थनं करोति न हि इति, नीलधर्मत्वे तस्य संस्कारापेक्षा न स्यादिति भावः । तर्हि असौ कुत आनेय इत्यत आह ततः इति । प्राच्यः - सङ्केतकालीनः । ननु ततः किम् इत्यत आह - अप्रबुद्धे च इति । तत्प्रबोधः - संस्कारप्रबोधः ।
वस्तुदर्शनोत्थितः - वस्तुनः - विषयभूतस्य घटादेः, दर्शनम् - प्रकाशः, तत उत्थितः । फलितमाह इति
“ननु” इति आक्षेपे; इह आत्मा संवित्स्वभावः स्थिरः इति तावदयुक्तम्, स्थिरस्यापि [स्थिरस्य स्वप्रकाशस्य अप्राकाशनात् - क्। ष्। ष्।] स्वप्रकाशस्य अप्रकाशनात् । तथा हि - घटप्रकाशो घटविकल्पो घटप्रत्यभिज्ञा घटस्मृतिः घटोत्प्रेक्षा - इत्यादिरूपेण ज्ञानान्येव प्रकाशन्ते भीन्नकालानि भीन्नविषयाणि भिन्नाकाराणि च । तत्र नीलस्य प्रकाशः [नीलप्रकाशः - क्। ष्। ष्।] “स्वलक्षणाभासं ज्ञानम्” स्वम् अन्याननुयायि स्वरूपसङ्कोचभाजि, “लक्षणम्” देशकालाकाररूपं यस्य तस्य “आभासः” प्रकाशनम् अन्तर्मुखं यस्मिन् बहिर्मुखीनस्वरूपधारिणि ज्ञाने तत् अविकल्पकम् विषयभेदेऽपि एकजातीयम्, स्वरूपवैचित्र्येपि [एकजातीयं स्वरूपे, तद्वैचित्र्ये - क्। ष्। ष्।] कारणाभावात् । विकल्पे हि वैचित्र्यकारणम्
इति । इति - अतः कारणात्, एतेन प्रथमवाक्यं व्याख्यातम् । तथा च योजना, ननु स्वलक्षणाभासं ज्ञानमेकं भवतीति ।
द्वितीयं वाक्यं व्याख्यातुमाह ततः परम् इति । ततः - तस्माज्ज्ञानात् । परम् - अन्यरूपम्, विकल्पकं ज्ञानम्, प्रादुर्भवति इति शेषः । अत्र हेतुमाह सर्वस्य इति । तत्र घटविकल्पस्य साक्षात्तन्निर्विकल्पकज्ञानमूलत्वम्, मणिप्रभा - दर्शनोत्थस्य मणिविकल्पस्य पारम्पर्येण मणिप्रभादर्शनोत्थत्वम्, प्रभया हि प्रभादर्शनं तेन प्रभाविकल्पः तेन मणिविकल्पः । पर शब्दस्य व्याख्यां करोति परम् इति । कुतोऽस्यान्यत्वमित्यपेक्षायामाह सामान्य इति, यत इति शेषः सामान्यलक्षणम् - सामान्यस्वरूपम्, तस्य - सविकल्पज्ञानस्य, अत एव परत्वम् इति भावः । यद्यपि सिद्धान्ते निर्विकल्पस्य सामान्यविष्ठत्वं सविकल्पस्य तु देशादियोजनारूपविशेषनिष्ठत्वमेव तथापि तावदेतदास्ताम् । ननु स्वलक्षणं कथं न विषयोऽस्य भवति इत्यत्राह स्वलक्षणे इति । वृद्धव्यावहारिकस्य - देवदत्त गामानयेत्यादिवृद्धव्यवहारमूलस्य । औपदेशिकस्य - अयं गौः इति शृङ्गग्राहिकया कृतस्य ।
अभिलापः, स च अत्र नास्ति; न हि अभिलापो नीलस्य धर्मः, न च चक्षुर्ग्राह्यः, ततोऽसौ प्राच्यः स्मर्तव्यः, अप्रबुद्धे च संस्कारे न स्मृति, तत्प्रबोधश्च वस्तुदर्शनोत्थितः इति वस्तुदर्शनसमयेऽभिलाप - स्मृतिर्नास्ति ।
ततः “परम्” विकल्पकं ज्ञानम्, सर्वस्य विकल्पस्य साक्षात् पारम्पर्येण वा निर्विकल्पकमूलवात् । “परम्” इति च अन्यरूपं सामान्यलक्षणं तस्य विषयः, स्वलक्षणेऽतिसङ्कोचिनि विततविकल्पसाध्यस्य वृद्धव्यावहारिकस्य, औपदेशैकस्य वा सङ्केतस्य कर्तुम् अशक्यत्वात्, कृतस्यापि वैयर्थ्यात्, तेन हि अननुयायिना न पुनर्व्यवहारः । तच्च बहुभेदम्, यतस्तत् अभिलापेन सञ्जल्पात्मना शब्दनरूपेण सह वर्तते ।
पशक्यत्वात्, स्वलक्षणानि अनन्तानीति भावः । ननु प्रत्यनेन सङ्केतं करिष्याम एवेत्यत्राह कृतस्यापि इति । कुतोऽस्य वैयर्थ्यमित्यत आह तेन इति ।
अननुयायिना, एकत्र स्वलक्षण एव समाप्तिं गतेनेत्यर्थः । पुनः - अन्यस्वरूपग्रहणकाले, स्वरूपाणां भिन्नत्वात्, अन्यथा स्वरूपत्वाऽयोगादिति भावः । बहुधा इति पदं व्याचष्टे तच्च इति । तच्च - विकल्पकं च । कुतस्तदीदृशमित्यपेक्षायां हेतुं व्याख्यास्यन् साभिलापम् इति प्दं व्याचष्टे यतः इति, स्मृतिविषयेणेति शेषः । शब्दनस्य स्वरूपं बहुधात्वं च वक्तुमाह शब्दनञ्च इति । इदम् इति सविकल्पज्ञानपरामर्शः । तत् इति स्मृतिज्ञानस्य । तदिदम् इति प्रत्यभिज्ञायाः । भवेदिदम् इति तर्कस्य । इदं वा इदम् इति आदिशब्दगृहीतस्य संशयस्य । ननु शब्दाद्वैतवादिमते शब्दस्य विशेष्यत्वमेव, तदुक्तम् :-
अनादिनिधनं ब्रह्म शब्दतत्त्वं यदव्ययम् ।
विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः ॥
इति । तत्कथं त्वया विशेषणत्वकथनेन ज्ञानस्वरूपे प्रवेशित इत्यत आह तच्च इति । पुनः कुत्र इत्यत आह अपि तु इति । विकल्पस्य - विकल्पज्ञानस्य ।
शब्दनं च इदम् - इति, तत् - इति, तदिदम् - इति, भवेदिदम् - इति, इदं वा इदम् - इत्यादि बहुधा भिद्यते । तच्च न विषयपक्षे वर्तते, अपि तु तस्य विकल्पस्य स्वरुपमेव विचित्रोकुर्वत् प्रतिभाति इति विकल्पो बहुभेदः । एवम् अनुभवविकल्प
- परम्परा तावत् स्वप्रकाशत्वेन भाति ।
स्यादेतत्, यल्लग्नासौ परम्परा सोऽपि आभाति - इति; तन्न, यतो द्वयमपि एतद् अविकल्पेतररूपं न अन्यस्य “कस्यचित्” एतदतिरिक्तस्य द्रष्टुः अनुभवितुः सम्बन्धि, दृश्यस्य तु भवतु बाह्यार्थवादे । अत्र हेतुः - यतः “तस्य” द्रष्टुः, अत एव संवित्स्वभावतो -
फलितमाह इति इति । इति - अतः कारणात् । उपसंहारं करोति एवम् इति । तावत्, अत्र विप्रतिपत्तिर्नास्ति इत्यर्थः । एतेन द्वितीयं वाक्यं कृतव्याख्यम् । तथा च योजना । परम् - ततोऽन्यरूपम्, विकल्पाख्यम् - सविकल्पकम्, ज्ञान बहुधा भवति, कुतः ? यतः साभिलापम्, हेतुगर्भं विशेषणमिदम् ।
अत्र सिद्धान्ती तर्करीत्याङ्गीकारं करोति स्यादेतत् इति ।
अनिष्टप्रसञ्जनमपि करोति यल्लग्ना इति । यल्लग्ना - यस्मिन्नहंविषये स्वात्मनि निष्ठां गता, अहं जानामि इति तदुदयात् इति भावः । एतत् प्रत्याचक्षाणस्तृतीयं वाक्यं व्याचष्टे तन्न इति । अत्र हेतुमाह यतः इति ।
अविकल्पेतररूपम् - अविकल्पसविकल्परूपम् । एतदतिरिक्तस्य - प्रोक्तज्ञानद्वयभिन्नस्य, द्रष्टुः इत्यस्य वाच्यमाह अनुभवितुः इति ।
षष्ठ्यर्थमाह सम्बन्धि इति । नित्य इति पदस्य व्यावर्त्यमाह दृश्यस्य इति । दृश्यस्य, दृश्यतया स्थितस्यानित्यस्य देहादेरित्यर्थः ।
बाह्यार्थवादे - बाह्यार्थवादिसौत्रान्तिकमते, न तु विज्ञानशून्यवादिमते । तस्य इत्यादिवाक्यखण्डं व्याख्यातुमाह अत्र हेतुः इति । अत्र - नित्यस्य द्रष्टुः सम्बन्धित्वाभावे, हेतुमेव व्याचष्टे यतः इति । अत एव - द्रष्ट्टत्वात्, द्रष्टुर्हि संवित्स्वभावताप्राप्तिरवश्योपयोगिनीति भावः । संवित् - स्वभावतोपगमस्य साध्यमाह स्वप्रकाश इति, अवश्यं हि संवित्स्वभावस्य स्वप्रकाशताऽन्यथा जडतापातादिति भावः । अस्यापि साध्यमाह आपन्न इति ।
पगमात् स्वप्रकाशतायोग्यत्वात् आपन्नोपलब्धिलक्षणप्राप्तेः, “अत्र” एतद्बोधद्वयमध्ये नास्ति अवभासः । ननु अस्त्येव अवभासः - इति असिद्धा दृश्यानुपलब्धिः । तथा हि - अहं वेद्मि, निश्चिनोमि, स्मरामि इदम् - इति विदादिप्रकृत्यर्थरूपात् ज्ञानस्मृत्यादेः इदम् - इति च कर्मरूपात् विषयात् अतिरिक्तमेव अहम् - इति अनुयायिनि प्रकाशे अनुयायिरूपं भाति । क एवमाह भाति - इति ? भानं हि अविकल्पकम्, अहम् - इति शब्दानुविद्धो विकल्पप्रत्ययः ।
ननु तथापि किम् अनेन विकल्प्यते, शरीरसन्तानो वा कृशोऽहम् - इत्यादिप्रत्ययात्, ज्ञानसन्तानो
आपन्ना - स्वप्रकाशतायोगेन प्राप्ता, उपलब्धिलक्षणप्राप्तिः - उपलब्धिप्रमाणप्राप्तिः येन तादृशस्य, प्राप्ततद्विषयत्वयोग्यत्वस्येति यावत्, कार्यं कर्म इतिवत प्रयोगः । अत्र इतिपदं व्याचष्टे एतद् इति । न चानुपलब्धस्यापि पक्षस्याभावो वक्तुं शक्य इति उपलब्धि इत्याद्युक्तम् ।
एतेन तृतीयं वाक्यं गतव्याख्यम् तथा च योजना । तद्द्वयम् - अविकल्प - सविकल्परूपं ज्ञानद्वयं कर्तृ, कस्यचित् - कल्पनया सम्भावितस्य नित्यद्रष्टुः सम्बन्धि न भवति, कुतः? तस्य अत्र - बोधद्वयमध्ये, अनवभासतः - अदर्शनात् इति ।
अत्र सिद्धान्ती प्रश्नयति ननु इति । दृश्यानुपलब्धिः - उपलब्धि - लक्षणं प्राप्तस्याप्यप्राप्तिः, नित्यस्य द्रष्टुरति शेषः । एतदेव समर्थयितुमाह तथा हि इति । प्रत्ययार्थस्य क्रियारूपत्वात् प्रकृत्यर्थ इत्युक्तम् । कर्मरूपात् - कर्मकारकस्वरूपात् । अनुयायिनि, प्रयोगत्रयेऽप्यहमोऽनुवर्तनात् इत्यर्थः । पूर्वपक्षवादी सकोपमाह क एवम् इति । एवम् शब्दार्थं स्वयमेवाह भाति इति । आक्षिप्तं वस्तु समर्थयति भानं हि इति । अविकल्पकम् - विमर्शास्पृष्टम् । सिद्धान्ती पुनः प्रश्नयति ननु इति । अनेन - शब्दानुविद्धेन विकल्पज्ञानेन ।
पूर्वपक्षवाद्यत्रोत्तरं वक्तुमिच्छन् चतुर्थवाक्यं व्याचष्टे शरीर इति । अनेन विकल्प्यते इति योजनीयम् । अनेन - अहंविमर्शेन । शरीर -
वा सुख्यहम् - इति प्रतीतेः ? [सुख्यहमित्यादिप्रतीतेः - क्। ष्। ष्।] मत्वर्थीयश्च सन्तानमेव स्पृशति नातिरिक्तम् । तदेतदुक्तम् - “अहम्प्रतीतिरपि” शरीरम्, आदिग्रहणात् ज्ञानम्, अवस्यति, सन्तानरूपतया विकल्पयति अवश्यम्; सदृशापरभावभेदग्रहणसामर्थ्यवासनाविष्टत्वात् - [सदृशापरापरभाव - क्। ष्। ष्।] इति । “एषा” इति न अस्माभिर्निह्नुता, “साभिलापं विकल्पाख्यम्” इत्यनेन सङ्गृहीतत्वात् । एतदुक्तं भवति - अहम्प्रतीतिरेव तावत् न आत्मा, तस्या अपि विकल्परूपत्वात् अस्थैर्याच्च ।
एतत्प्रतीतिप्रत्ययोऽपि [एतत्प्रतीतिप्रत्येयोऽपि - क्। ष्। ष्।] नास्ति अन्यः शरीरादेः, भवन्नपि वा वेद्यपक्षपतितः स्यात् - इति तथापि संवित्संवेद्यव्यतिरिक्तस्य आत्मनो न सिद्धिः -
सन्तानो वा विकल्प्यते, कुतः ? कृशोऽहमित्यादिप्रत्ययात्, आदिशब्देन स्थूलोऽहमिति प्रत्ययग्रहणम् । एतेन चार्वाकमतमवलम्ब्योत्तरं दत्तम् ।
तथानेन ज्ञानसन्तानो वा - विषयोपरागरूषिता ज्ञानसन्ततिर्वा विकल्प्यते । कुतः ? सुख्यहमिति प्रतीतेः, सुखस्य बौद्धमते विज्ञानमात्रत्वादेवमुक्तम्, एतेन विज्ञानवादिबौद्धदर्शनमाश्रित्योत्त
- रं दत्तम् । उभयत्र वा शब्दः विकल्पद्वयस्य स्वस्वविषयप्रधानताद्योतनार्थः । ननु अहम्प्रतीतिः कृशं वा सुखिनं वावस्यति कृशोहमित्यादौ ताभ्यां सहास्य सामानाधिकरण्येन दर्शनात् इत्यपेक्षायामाह मत्वर्थीयश्च इति ।
मत्वर्थे विहितः प्रत्ययो मत्वर्थीयः, स च कृश इत्यत्र मतुब्रूपः, तस्य च
गुणवचनेभ्यो मतुपो लुबिष्टः
इति लुप्, यथा शुक्लः पट इत्यत्र शुक्लशब्दस्य शुक्लो गुणोस्यास्तीति विग्रहः, सुखीत्यत्र तु इनिः, स तु साक्षादेव वर्तते । सन्तानम् - शरीररूपां वा ज्ञानरूपां वा सन्ततिम्, बौद्धमते हि सन्ततिरूपगुणमय एव सन्तानरूपः गुणी । अतिरिक्तम् - सन्तानव्यतिरिक्तम् । उक्तमर्थं सङ्क्षिप्याह तदेतत् इति । तदेतत् - समनन्तरोक्तं वस्तु । विग्रहं दर्शयति शरीरम् इति, शरीरं तथा आदिग्रहणात् ज्ञानमवस्यति ।
इत्येतत् अपिशब्देन द्योतितम् । एवं नास्ति आत्मा संवित्संवेद्यव्यतिरिक्तो दृश्यस्य तस्यानुपलब्धेः - [दृश्यस्य अनुपलब्धेः - क्। ष्। ष्।] इति ॥ १२ ॥
अत्र आत्मवाद्यनुमानमुत्थापयति :- [उत्थापयितुमाह - क्। ष्। ष्।]
अथानुभवविध्वंसे स्मृतिस्तदनुरोधिनी ।
कथं भवेन्न नित्यः स्यादात्मा यद्यनुभावकः ॥ ३ ॥
अवस्यति इत्यस्यार्थमाह सन्तान इति । सन्तानरूपतया - सन्तानभावेन ।
अवश्यम् इत्यस्य प्रत्ययार्थत्वात् पूर्वेण सम्बन्धः । अत्र हेतुमह सदृश इति, सदृशा ये अपरे भावभेदाः - क्षणरूपाः भावविशेषाः, तेषां यद् ग्रहणम् - पुर्वकालीनोऽनुभवः, तस्य सामर्थ्येन - वशेन या वासना - भावनाख्यः संस्कारः, तया यदाविष्टत्वम् - आवेशविषयीकृतत्वम्, तस्माद् वासनयैव हि विकल्पोदय इति भावः । इति शब्दः हेतुसमाप्तौ ।
एषा इति पदं व्यचष्टे एषेति इति । निन्हुता - अपलापविषयीकृता । कुतो न निह्नुतेत्यपेक्षायामाह साभिलापम् इति । नन्वेतेन किमुक्तं भवति इत्यत्राह एतदुक्तम् इति । उक्तमेव दर्शयति अहम् इति । एतत्प्रतीतिः - अहम्प्रतीतिस्फूर्तिः, तया प्रत्ययो यस्य सः । प्रत्येय इति वा पाठः, तथा च तृतीयासमास एव । इति शब्दः समाप्तौ । अपि शब्दाभिप्रायं कथयितुमाह तथापि इति । देहात्मवादी चार्वाकः विज्ञानात्मवादी बौद्धश्च स्वपक्षमुप - संहरति एवम् इति । संवित् - विज्ञानम्, संवेद्यः - देहः, ताभ्यां व्यतिरिक्तः, नित्यप्रकाशरूप इत्यर्थः । अत्र हेतुमाह दृश्यस्य इति । दृश्यस्य - द्रष्टुं योग्यस्य, तस्यानुपलब्धेः, द्रष्टुं योग्यो हि यदा नोपलभ्यते तदा नास्तीति व्यवस्थाप्यते । अनेन चतुर्थवाक्यं गतव्याख्यम् । तथा च योजना । एषाऽहं प्रतीतिरपि शरीरादिकम् अवस्यति - अवसायरूपविकल्प - विषयतां नयतीति तादृशी भवति, न तु शुद्धनित्यप्रकाशरूपपरमात्मविमर्शरूपा भवतीत्यर्थः ॥ १२ ॥
तृतीयश्लोकस्यावतरणिकां करोति अत्र इति ।
इह स्मृतिकाले सुस्मूर्षितोऽर्थो भवतु, ध्वंसतां वा - इति किन्तेन, [किमनेन
- क्। ष्। ष्।] अनुभवस्तावत् ध्वस्तः - इत्यत्र सर्वस्य अविवादः, तमेव च अनुरुन्धाना स्मृतिर्जायते । तथा हि - स्मृतौ न अर्थस्य प्रकाशः, न अध्यवसायः,
अत्र टीका :-
आत्मवादी - तार्किकादिः । अनुमानम् - अन्वयव्यतिरेकरूपम् ।
उत्थापयति - स्वयमेवोत्तिष्ठत्तत् समर्थाचरणेन प्रयोजकव्यापारेण तत्र प्रेरयति । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । अथ इति ।
अत्र टीका :-
सप्तम्या द्योतितमनुभवविध्वंसस्य सिद्धत्वं कथयितुमाह इह इति । इह - भासमाने जगति । स्मर्तुमिष्टः सुस्मूर्षितः । किन्तेन, मृतायाममृता - याञ्च मातरि सा मे मातेति स्मृतिदर्शनात् न किञ्चित् स्मृतिविषयस्य भवनेन ध्वंसनेन वेति भावः । अनुभवः, पूर्वकालीन इति शेषः ।
तावत् शब्दं स्वयमेव व्याचष्टे सर्वस्याऽविवादः इति । तमेव - ध्वस्तमनुभवमेव, अनुरुन्धाना - अस्य पदमनुसरन्ती, अपेक्षमाणेति यावत् । अनेन तदनुरोधिनी इत्यस्य व्याख्या कृता । स्मृतिः - स्मरणम् ।
जायते - उत्पद्यते । एतदेव समर्थयति तथा हि इति । प्रकाशः - ग्रहणम्, निर्विकल्पज्ञानमिति यावत् । अध्यवसायः - तत्समनन्त्ररभावि सविकल्पज्ञानम् । नापि इति । अङ्गुलिद्वयवत् - अङ्गुलिद्वयन्यायेन, युगपत्प्रकाशोऽध्यवसायश्च इति योज्यम् । नापि इति । अनुभवविशिष्टस्य - ज्ञातोयमित्यनुभवविशेषणयुतस्य । दण्डिवत्, दण्डविशिष्टपुरुषन्यायेनेत्यर्थः । कथं नास्तीत्यपेक्षायामाह सर्वत्र इति । सर्वत्र - प्रकारचतुष्टयेऽपि, अयमितिप्रत्ययप्रसङ्गात्, अनुभवसान्निध्ये स इति ग्रहणायोगादिति भावः । ननु मास्त्वत्रानुभवस्पर्शः इत्यत आह किन्तु इति । अनुभवप्रकाशः - पूर्वानुभवस्मरणम् । कुतः इति हेत्वपेक्षायां वाक्यं हेतुत्वेनाह अनुभवस्य इति । तु शब्दः
नापि अनुभवस्य अर्थस्य च अङ्गुलिद्वयवत्, नापि अनुभवविशिष्टस्य अर्थस्य दण्डिवत्, सर्वत्र अयम् - इति प्रत्ययप्रसङ्गात्; किन्तु अनुभवप्रकाश एव स्मृतौ प्रधानम्, अनुभवस्य तु अर्थप्रकाशात्मकत्वात् अनुभवप्रकाशनान्तरीयकोऽर्थावभासः इति । सर्वथा यदि अनुभवो ध्वस्तः, तदा तत्प्रकाशरूपा कथं स्मृतिस्तद्द्वारेण अर्थविषया स्यात्, तया च सर्वोव्यवहारः क्रियमाणो दृष्टः इत्यसौ स्वरूपेण अनपह्नवनीया सती [अनपह्नवनीया, सति अनुभवस्य नाशे - क्। ष्। ष्।] अनुभवस्य
अनुभवस्य स्मृतेर्व्यतिरेकद्योतकः, अनुभवस्यार्थप्रकाशात्मकत्वात् - अर्थप्रकाशरूपत्वेन, अर्थप्रकाशाख्यः अर्थावभासः अनुभवप्रकाशनान्तरीयकः - अनुभवप्रकाशप्राप्तः भवति । इति शब्दः पूर्ववाक्यं प्रत्यस्य वाक्यस्य हेतुत्वद्योतकः । एतदुक्तं भवति, यो यस्य प्रकाशः स तत्प्रकाशं विना न प्रकाशितुं योग्यः, न हि नीलाख्यगुणप्रकाशं विना नीलोत्पलं दृष्टम् इत्यनुभवप्रकाशस्यैवार्थप्रकाशयुक्तायां स्मृतौ प्राधान्यम् इति ।
ननु सोऽनुभवो ध्वस्त एवेति किं तस्य चर्चाभिरित्यत आह सर्वथा इति ।
सर्वथा - संस्करभावेन स्वरूपेणापि । तत्प्रकाशरूपा - अनुभवप्रकाशरूपा, तद्द्वारेण - अनुभवद्वारेण । ननु मा भूत् स्मृतिरित्यत्राह तया च इति, तया, स्मृत्यैवेत्यर्थः चः एवार्थोनुक्तसमच्चयार्थो वा, असौ - स्मृतिः, अनपह्नवनीया - अपह्नोतुमशक्या, सती - भवन्ती, किञ्चित् - किमप्यनिर्वचनीयं वस्तु, आवेदयति, अनुमापयतीत्यर्थः । तदुक्तम् :-
सर्वज्ञः सर्वदैव त्वं सूर्यस्य ह्युदये न चेत् ।
केनान्यथास्य सम्भाव्या नष्टार्थविषया स्मृतिः ॥
इति । ननु आवेदयतु किन्तेनेत्यत्राह तदेव इति । तदेव - आवेदितं वस्तु एव, अनुभावको नित्य आत्मा भवति । अनुभावक पदस्य पर्यायद्वयं कथयति, अनुभवकर्तृ - अनुभवितृ इति च । ननु किं स्मृतिमात्रेणैवात्मा सिद्ध्यत्युतान्येनापीत्यत आह इयत् इति । इयदेव - स्मृतिमात्रमेव । ननु
भवस्य नाशे किञ्चित् अविनष्टम् आवेदयति । तदेव च अनुभवकर्तृ - अनुभवितृरूपम्, आत्मा अनुभावको नित्यः - इति [अनुभावको नित्यः - इति इयदेव - क्। ष्। ष्।] । इयदेव च आत्मसिद्धेर्जीवितम् । तत्तु न अधिकम् इहैव उन्मीलितम् आचार्येण, वक्तव्यशेषविवक्षया पूर्वपक्षो मा तावत् समापत् इत्याशयेन । “कथं भवेत्” इति । अर्थस्तावत् तस्याम् अकिञ्चित्करः, अनुभवश्च ध्वस्तः इति न केनचित्प्रकारेण स्मृतिः स्यात्, तदभावे च सङ्केतशब्दस्मृत्यायत्ता अपि अस्तङ्गताः सर्वे विकल्पाः, निर्विकल्पं च अन्धबधिरमूकप्रायम् [अन्धमूकबधिरप्रायम् - क्। ष्। ष्।] इति हन्त निराक्रन्दम् अवसीदेत् विश्वम् - इति ॥ ३ ॥
तर्ह्यत्रैव भरः किं न कृत इत्यपेक्षायामाह तत्तु इति । तत् - आत्मसिद्धेर्जीवितभूतं वस्तु, आचार्येणेहैवाधिकं नोन्मीलितम् - न प्रकटीकृतम्, केन कृत्वा ? इत्याशयेन - इत्यभिप्रायेण, इति किमिति ? पूर्वपक्ष इहैव मा समापत् - समाप्तिं गच्छतु इति । कार्यहेतुभूतया, वक्तव्यं यच्छेषम् - अवशिष्टं किञ्चित्, तस्य विवक्षया - वक्तुमिच्छया, अन्यथा तन्निर्विषयमेव स्यादिति भावः । कथं भवेत् इत्यस्याभिप्रायं वक्तुमाह कथं भवेत् इति । अर्थः - पूर्व गृहीतः अद्य स्मर्यमाणः घटादिः, तस्याम् - स्मृतौ, अनुभवः - ग्रहणकालीनः । ननु मास्तु स्मृतिरित्य - पेक्षायामाह तद्भावे इति । सङ्केतः - वाच्यवाचकभावसम्बन्धः, शब्दः - वाचकशब्दः, तयोर्या स्मृतिः तस्या आयत्ताः - अधीनाः, तद्रूपत्वादिति भावः । अपि शब्दः साकल्ये ।
नन्वस्तं गच्छन्तु सर्वे विकल्पास्ततः किम् इत्यत्राह निर्विकल्पम् इति, तथा चेति शेषः, तथा च सति विश्वम् - समस्तं जगत्, निर्विकल्पम् - विकल्परहितं सत्, विकल्परहितप्रमातृवर्गान्वितं सदिति यावत् । अन्धबधिरमूकप्रायम् - सद्योजातबालवद् दृष्ट्वाप्यन्धतुल्यैः श्रुत्वापि बधिरकल्पैः वागिन्द्रिययुक्तत्वेऽपि मूकप्रायैर्जनैर्भरितं भवेत् । इति - अतः कारणात्, हन्त - कष्टे,
इह कार्यातिरेकेण [कार्यव्यतिरेकेण - क्। ष्। ष्।] तादृक् कल्पनीयं यत् कार्यसिद्धये पर्याप्नोति, न चैवम् आत्मा, अर्थो हि तावत् स्मर्यते, स च अनुभवप्रकाशमुखेन, अनुभवश्च ध्वस्तः - इत्युक्तम्; यदि आत्मा कश्चिदस्ति, किं तेन । एतदपि हि वक्तव्यम् - आकाशमपि अस्ति इति । अथ उच्यते - न केवलेन आत्मना एतत् सिद्ध्यति, अपि तु अनुभवसंस्करोऽपि अत्र उपयोगी - इति, तर्हि स एवास्तु, किम् अनेन [किम् आत्मना - क्। ष्। ष्।] ? तदेतत् दर्शयति :-
सत्यप्यात्मनि दृङ्नाशात्तद्द्वारा दृष्टवस्तुषु ।
स्मृतिः केनाथ यत्रैवानुभवस्तत्पदैव सा ॥ ४ ॥
निराक्रन्दम् - परस्परं प्रत्याह्वानासमर्थं सत्, अवसोदेत् - नश्यत् ।
दृश्यते हि सद्योजातबालानां केनापि कारणेन निर्जने त्यक्तानामवसाद् इति भावः ॥ ३ ॥
अथ चतुर्थश्लोकस्यावतरणिकां करोति इह इति ।
अत्र टीका :-
इह - भासमाने जगति, कार्यातिरेकेण - कार्यादेशेन, कार्यकारणयोर्भिन्नत्वात्, तादृक्, तादृशं कारणमित्यर्थः ।
कार्यव्यतिकरेणेति वा पाठः । पर्याप्नोति - समर्थो भवति, एवम्, पर्याप्तमित्यर्थः, आत्म, त्वया साधितो नित्य आत्मेत्यर्थः । एतदेव समर्थयति अर्थो हि इति । स च - अर्थश्च, अनुभवप्रकाशमुखेन, न तु साक्षात्स्मर्यते इति पूर्वेण सम्बन्धः । उक्तम्, समनन्तरमेवेत्यर्थः ।
ननु तथाप्यात्मास्त्येवेत्यत्राह यदि इति । तेन, अकिञ्चित्करेणात्मनेत्यर्थः ।
आत्मनः कथनेऽन्यदपि वस्तु वक्तव्यत्वेनाह एतत् इति, अकिञ्चित्करत्वाऽवि।शेषात् इति भावः । सिद्धान्तिकृतं प्रश्नमाशङ्कते अथोच्यते इति । एतत् - स्मृतिरूपं कार्यम्, उपयोगो - साधकः । अत्रोत्तरमाह तहि इति । स एव - संस्कार एव । अनेन,
“दृष्टेषु” अनुभूतेषु “वस्तुषु” या “स्मृतिः” तस्याम् अनुभवो दृगात्मा “द्वारम्” अर्थांशस्पर्शे, स च “सत्यपि आत्मनि” नष्टोऽनुभवः, तस्य हि अनाशे इदम् - इत्येष एव अत्रुटितः प्रकाशः इति का स्मृतिः, तदनुभविता किं स्मृतेः कुर्यात् - इति ।
अकिञ्चित्करेणात्मनेत्यर्थः, नह्येकेन कार्यसिद्धौ द्वितीयकल्पना युक्तेत्यर्थः । उक्तमुपसंहारपूर्वं दर्शनीयत्वेन प्रतिजानीते तदेतत् इति । तदेतत् - समनन्तरोक्तं वस्तु, दर्शयति - प्रकटीकरोति । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । सत्यपि इति ।
अत्र टीका :-
केन इत्यन्तं श्लोकखन्दं व्याख्यास्यन्नाह दृष्टेषु इति । दृष्ट इति पदं व्याचष्टे अनुभूतेषु इति । वस्तुषु - नीलादिषु या स्मृतिर्भवति, तस्याम् - स्मृतौ, अर्थांशस्पर्शे - अर्थांशाख्यविषयस्पर्शविषये, दृगात्मा - दृग्रूपः, अनुभवः - पूर्वानुभवः, द्वारम् - उपायः भवति, अन्यथा स इति तस्या उथानं न स्यादिति भावः । ननु ततः किमित्यत आह स च इति । स च अनुभवः - द्वारभूतोऽनुभवश्च, आत्मनि सत्यपि नष्टः, न ह्यन्यस्यावस्थानमात्रेणान्यस्य नष्टस्य नाशाभावो वक्तुं शक्य इति भावः । ननु ततोपि किमित्यत आह तस्य इति । अत्रुटितः - अच्छिन्नः, का स्मृतिः, तदिति स्थितस्य तत्स्वरूपस्येदमित्यनेन विरोधान्न सा सम्भवेदिति भावः । एवञ्च व्यर्थत्वमपि स्मृतेः स्यादित्यभिप्रायेणाह तदनुभविता इति । तदनुभविता - अर्थानुभविता, किं कुर्यात्, अनुभवेनैवार्हप्रकाशान्नाऽस्याऽसावुपयोगिनीति भावः । इयमत्र योजना । आत्मनि सत्यपि, तद्द्वारा - अनुभवद्वारेण, दृष्टवस्तुषु - पूर्वानुभूतेषु नीलादिषु, भवन्ती स्मृतिः दृङ्नाशात् - अनुभवाख्यकारणनाशाद्धेतोः, केन स्यात्, न हि कारणाभावे कार्यस्य युक्ततेति भावः ।
शिष्टं श्लोकखण्डं व्याख्यातुमाह यत्रैव इति । वृत्तः - पूर्वं सम्पन्नः, पदम् - विषयः । किं सर्वदैव तत् स्मृतेर्विषय उत कदाचिदेवेत्यपेक्षायां विशेषणमाह
“यत्रैव” विषये “अनुभवो” वृत्तः “तदेव” तस्याः स्मृतेः “पदम्” स्मर्यभाणम् । तत्पदा - इति बहुव्रीहिः, “सा” इति स्मृतिः ॥ ४ ॥
ननु ज्ञानान्तरस्य विषयेण कथं तस्याः विषयित्वाभिमानः - इत्याशङ्क्याह :-
स्मर्यमाणम् इति । स्मर्यमाणम् - स्मृतिविषयीक्रियमाणम्, न त्वनुभूयमानमित्यर्थः । बहुव्रीहिः - तत् पदं यस्या सेत्येवंरूपा ।
सा इति पदं व्याचष्टे सेति इति ॥ ४ ॥
अथ पञ्चमस्य श्लोकस्यावतरणिकां करोति ननु इति ।
अत्र टीका :-
ज्ञानान्तरस्य - अनुभवरूपस्य, तस्याः - स्मृतेः ।
एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । यतो हि इति ।
अत्र टीका :-
पूर्वार्धं व्याचष्टे अनुभवेन इति । स्वस्मिन्नुचितः स्वोचितः, न तु स्वविलक्षण इत्यर्थः । ननु तेन संस्कारेण किं क्रियत इत्यत्राह संस्कारश्च इति । स्थितम् - अवस्थानम्, स्थापयति - स्वयं तिष्ठतीं प्रयोजकव्यापारेण तत्र प्रेरयति । कस्येत्यपेक्षायामाह आकृष्ट इति ।
आकृष्टश्चासौ शाखादिः तस्य आदिशब्देन धनुरादेर्ग्रहणम्, आकृष्टा हि वक्रा शाखा मोचिता सती पुनरेव ऋजुतारूपेण स्वस्थाने तिष्ठति । पुनः कस्येत्यपेक्षायामाह चिरम् इति । चिरम् बहुकालादारभ्य, संवर्तितस्य - वेष्टितस्य, तथा विवर्त्यमानस्य - विकासितस्य, चिरं वेष्टितं हि भूर्जपत्रादिकं प्रसार्य मुक्तं सत् संस्कारवशेन पुनस्तथैव तिष्ठति ।
प्रोक्तसंस्कारलक्षणं प्रकृतेऽपि योजयति तेन इति ।
पूर्वानुभवानुकारिणीम् - पूर्वानुभवसदृशीम्, प्राक्तनरूपां स्थितिं स्थापयतीत्यर्थः । उपसंहारं करोति इति इति । इति - अतः कारणात्, एतद्विषय एव - अनुभवविषय एव, स्मृतेविषयो भवति, पूर्वानुभूतमातृविषयत्वादिति भावः । एतेन स्मृतिहेतोः संस्कारस्यापि स्थितिस्थापकत्वमुक्तम् । यद्यपि तार्किकैस्तस्य भावनारूपत्वमुक्तम्,
यतो हि पूर्वानुभवसंस्कारात्स्मृतिसम्भवः ।
यद्येवमन्तर्गडुना कोर्थः स्यात्स्थायिनात्मना ॥ ५ ॥
यदुक्तम् :-
स्मृतिहेतुर्भावनाऽऽत्ममात्रवृत्तिः ।
इति । तथापि परमार्थविचारे भेदत्रयेपि स्थितिस्थापकत्वमेव सारः, वेगस्यपि स्वाश्रयस्य शरादेः पूर्वक्रियायामेव हि स्थापकत्वम् । श्लोके स्थितेन यतो हि इत्यनेन पूर्ववाक्यं प्रत्यस्य वाक्यस्य हेतुत्वं द्योतयति ।
एतेन पूर्वार्धं गतव्याख्यम् ।
उत्तरार्धं व्याख्यातुमाह एवं तर्हि इति । एतेन पूर्वार्धस्य सिद्धान्तिपक्षत्वं सूचितम् । गडुः - कुब्जपृष्ठस्थो मांसपिण्डः, स हि स्फुटमेवायासकारी । किन्तेन, न किञ्चिदप्यात्मनेत्यर्थः । अत्र हेतुमाह सर्वं हि इति । कृतकरावलम्बम्, व्यवहारसाधनस्मृत्युत्पादनद्वारेण कृतावष्टम्भमित्यर्थः ॥ ५ ॥
अथ षष्ठश्लोकस्यावतरणिकां करोति ननु इति । एतेन परिशेषानुमानमाश्रित्य स्थिर आत्मा शङ्कितः । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । तत् इति ।
अत्र टीका: -
भङ्ग्या व्याख्यां कर्तुमारभते इह इति । इह - अत्र लोके, विशेषः - पूर्वावस्थाया भेदः, अतिशय इति यावत् । सः - विशेषः, न नित्यः स्यात् इति, न हि पूर्वरूपाद्विशिष्टस्यात एव स्वरूपात्प्रच्युतस्य नित्यत्वं युक्तमिति भावः । शङ्कितं प्रथमं पक्षं निराकृत्य द्वितीयमपि निराकर्तुं वादी तत्स्वरूपोद्भावनं करोति अथ इति । अस्य - आत्मनः, तेन - संस्कारेण, किम्, व्यर्थत्वान्न किञ्चिदित्यर्थः । तार्किकमतं शङ्कते अथ इति । उत्तरमाह तर्हि इति । पुनरपि - पूर्ववदेव, ज्ञाने - ज्ञानरूपे आत्मनि । अनुभवात् - अनुभवाख्यात्, जनिकर्तृतत्प्रकृत्योरेकत्वं न युक्तमिति भावः । विशिष्टम् - तदिति स्थितत्वाद् इदमिति स्थिताद् अनुभवाद् भिन्नं यत् स्मृत्याख्यकार्यं तत्करोतीति तादृशम् ।
अनुभवेन हि संस्कारो जन्यते स्वोचितः, संस्कारश्च प्राक्तनरूपां स्थितिं स्थापयति, आकृष्टशाखादेश्चिरसंवर्तितस्य विवर्त्यमानस्य भूर्जादेः । तेन अत्रापि संस्कारः तां स्मृतिं पूर्वानुभवानुकारिणीं करोति इति तद्विषय एव स्मृतेर्विषयः ।
एवं तर्हि “अन्तर्गडुः” यथा आयासाय परम्, तद्वत् आत्मा स्थिरः कल्पनायासमात्रफलः इति किं तेन, सर्वं हि संस्कारेण जगद्व्यवहारकुटुम्बकं कृतकरावलम्बम् - इति ॥ ५ ॥
ननु तस्यैव संस्कारस्य आश्रयो वक्तव्यः, स हि गुणत्वाद् आश्रयमपेक्षते, य आश्रयः स आत्मा स्यात् - इत्याशङ्क्याह :-
ततो भिन्नेषु धर्मेषु तत्स्वरूपाविशेषतः ।
संस्कारात्स्मृतिसिद्धौ स्यात्स्मर्ता द्रष्टेव कल्पितः ॥ ६ ॥
इह संस्कारे जायमाने, यदि आत्मनो विशेषः, स तर्हि अव्यतिरिक्तः इति न नित्यः [न नित्य आत्मा स्यात् - क्। ष्। ष्।] स्यात्; अथ न कश्चित् अस्य विशेषः, तेन
परम्परया, न तु साक्षात् । अनुभवो हि साक्षात् प्रमामेव जनयति संस्कारं तु तद्द्वारेण । संस्कारार्थः - सङ्केतितसंस्कारपदार्हः ।
पुनरपि सिद्धान्तिप्रश्नं शङ्कते अथ इति । संस्कारात्मा - संस्काररूपः, उपलक्षणं चैतत्संस्कारकृतविशेषस्य, तस्यापि न्यायविषयत्वात् । उत्तरमाह तस्य इति । तर्हि - तदा, असौ - संस्कारः, तस्य [अस्य - च्।] आत्मनः, किम्, न कोपीत्यर्थः, न हि व्यतिरिक्तस्य सम्बद्धत्वं युक्तमिति भावः । ननु तथाप्यसौ सम्बन्धी भवत्वित्यत आह सम्बन्धश्च इति । निराकरिष्यते इति । इहैवेति शेषः, सम्बन्धस्य व्यतिरेकाभावे सम्बद्धस्य व्यतिरेकाभावोऽयत्नसिद्ध एवेति लक्षणाश्रयणे प्रयोजनम् ।
तर्हि किम् । अथ संस्कार एव अस्य विशेषः, तर्हि न व्यतिरिक्तोऽसौ इति पुनरपि अनित्ये ज्ञाने संस्कारः - इत्यायातम् । अनुभवाद्विशिष्टं विशिष्टस्मृत्याख्यकार्यकारि ज्ञानं परम्परया जायते - इति इयानेव संस्कारार्थः । अथ संस्कारात्मा व्यतिरिक्तो विशेषः, तस्य तर्हि किमसौ ।
सम्बन्धश्च व्यतिरिक्तो निराकरिष्यते । एवं ज्ञानसुखदुःखेच्छा - द्वेषप्रयत्नधर्माधर्मा अपि विकल्पनीयाः । एतदाह - “ततः” इति आत्मनो
ज्ञानादिगुणेष्वप्येतदतिदिशति एवम् इति । एवम्, संस्कारवत् तत्कृतविशेषवच्चेत्यर्थः । विकल्पनीयाः - पक्षद्वयरूपविकल्पविषयी - कार्याः । उक्तस्य प्रपञ्चस्य प्रकृते श्लोके वाच्यत्वेन योजनं करोति एतदाह इति । एतत् - समनन्तरोक्तं वस्तु । केनाहेत्यत आह ततः इति । भिन्नेषु
- भेदयुक्तेषु, अभेदपक्षस्यानित्यत्वापादकत्वेन सूत्रे दूरत एव त्यागः ।
विशेषाभावात् इति, न हि भीन्नं विशेषणं युक्तम्, सामानाधिकरण्येन स्थिततस्य नीलाख्यस्य गुणस्यैवोत्पलविशेषणत्वादिति भावः । न व्याप्रियेत - व्यापारं कर्तुं न शक्नोति । अत्र हेतुमाह अस्मर्तृरूप इति ।
असंस्कृतरूपम् - अनुत्पन्नसंस्काररूपम्, आदौ स्थितं प्राच्यरूपम् आदिप्राच्यरूपम्, संस्कारात्पूर्वं स्थितं रूपमिति यावत् । फलितमाह इति इति । इति - अतः कारणात् । ननु यद्येवं तर्हि अहं स्मरामि इत्यत्र भासमनाहशब्दवाच्यस्य किं कुर्मः इत्यत्राह अहम् इति । सोपि - स्मर्ता, अपि शब्दः समुच्चये पूर्वोक्तं द्रष्टारं समुच्चिनोति । अपिशब्दाभिप्रायं स्वयमेवाविष्करोति यथा इति । यथा द्रष्टा शरीरसन्तानो ज्ञानसन्ता -
“भिन्नेषु धर्मेषु” अङ्गीक्रियमाणेषु तेषु सत्स्वपि, आत्मनः “स्वरूपे” विशेषाभावात् स तावत् आत्मा स्मृतौ न व्याप्रियेत, अस्मर्तृरूपासंस्कृतरूपादिप्राच्यरूपानपायात्, इति “संस्कारादेव स्मृतेः सिद्धिः” - इति । अहं स्मरामि - इति यः “स्मर्ता” सोऽपि शरीरसन्तानो ज्ञानसन्तानश्च अध्यवसीयते, “यथा द्रष्टा” । पूर्वं हि उक्तम् :-
अहम्प्रतीतिरप्येषा शरीराद्यवसायिनी । (१।२।२)
इति । एवम् आत्मनि साधकं प्रमाणं प्रत्यक्षमनुमानं च पराकृतम्, बाधकं च सूचितं - धर्मयोगे नित्यताहानि, अन्यथा किं तेन । तदुक्तम् :-
चर्मोपमश्चेत्सोऽनित्यः स्वतुल्यश्चेदसत्समः ।
वर्षातपाभ्यां किं व्योम्नश्चर्मण्यस्ति [चर्मण्यस्ति तयोः फलम् - क्। ष्। ष्।] हि तत्फलम् ॥
इति ॥ ६ ॥
नश्चाध्यवसीयते तथा स्मर्तापीति शब्दार्थः ॥ ननु कुत्र द्रष्टा एवमध्यवसीयते इत्यत्राह पूर्वम् इति । उपसंहारं करोति एवम् इति ।
बाधकम् - धर्मयोगे नित्यताहानिः, धर्माभिन्नित्वे नित्यताहानिरूपम् इत्यर्थः । ननु धर्मयोगे नित्यताहानिः कथं भवत्वित्यत्राह अन्यथा इति ।
अन्यथा - धर्मयोगस्य नित्यताहानिहेतुत्वाभावे, तेन - धर्मयोगेन, किम्, तन्मात्रस्य तत्साध्यत्वेन न किञ्चिदपि भवतीत्यर्थः । अत्र वृद्धसम्मतिमाह चर्मोपमः इति, सः - आत्मा, चर्मोपमः - वर्षातपरूपधर्मप्राप्तकोमलत्वकाठिन्यविशेषचर्मसदृशः, चेत् भवेत् तदा अनित्यः स्यात्, चर्मवदेवेति शेषः । पुनः स आत्मा स्वतुल्यः - वर्षातपकृतविशेषरहिताकाशसदृशश्चेत् स्यात्, तदा असत्समः - आकाशवन्न किञ्चिद्रूप इव भवेत् ।
इत्थम् आत्मानं निराकृत्य, तस्य ऐश्वर्यमपि निराकर्तुं ज्ञानशक्तिमेव परीक्षितुमाह :-
ज्ञानं च चित्स्वरूपं चेत् तद् अनित्यं किमात्मवत् ।
अथापि जडमेतस्य कथमर्थप्रकाशता ॥ ७ ॥
पराभ्युपगमेन प्रसङ्गापादनम् एतत् पूर्वपक्षवादी करोति - प्रसङ्गविपर्ययलाभो मे भविष्यति - इति । तत्र आत्मवादी नित्यत्वम् आत्मन इत्थं ब्रूते - इह कालो नाम इदम्भावविशिष्टस्य विशेषणताम् अवलम्बमानः तं
पूर्वार्धोक्तं वस्तु समर्थयति वर्षातपाभ्याम् इति । तत्फलम् - वर्षातपकृतकोमलत्वकाठिन्यरूपम्, इति शब्दः उक्तपरिसमाप्तौ ॥ ६ ॥
अथ सप्तमस्य श्लोकस्यावतरणिकां करोति इत्थम् इति ।
अत्र टीका :-
इत्थम्, प्रत्यक्षानुमानरूपसाधकप्रमाणपराकरणेन बाधकसूचनेन चेत्यर्थः । ऐश्वर्यम् - ज्ञानक्रियाकर्तृत्वरूपम्, परोक्षितुम् - परीक्षाविषयीकर्तुम्, तावदिति शेषः आह, कथयतीत्यर्थः ।
एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । ज्ञानञ्च इति ।
अत्र टीका :-
पूर्वार्धं भङ्ग्या व्याख्यातुमाह पर इति । पूर्वपक्षवादी, कर्ता, पराभ्युपगमेन - सिद्धान्तिमताश्रयणेन, एतत् - एतस्य श्लोकस्य वाच्यतया स्थितम्, प्रसङ्गापादनम् - अनिष्टापादनम्, अर्थात् परस्य सिद्धान्तिनः करोति, कुतः ? मे - पूर्वपक्षवादिनो मम, प्रसङ्गविपर्ययलाभः - इष्टलाभः, भविष्यति, तदनिष्टापादनस्यैतदिष्टत्वात् । अयमेव चाभ्यपगमसिद्धन्तः पूर्वपक्षवादिमतस्यापि तं प्रति तावत् सिद्धान्तत्वात् । एतदेव स्फुटीकर्तुमाह तत्र इति । तत्र - नित्यत्वानित्यत्वमध्ये इत्यर्थः । इत्थम् इत्यस्याकाङ्क्षां पूरयति इह इति । कालो नाम - कालाख्यं वस्तु, इदम्भावविशिष्टस्य -
विशिष्टीकुर्वन् तत्सङ्कोचात् अनित्यं सम्पादयति । आत्मनश्च चित्स्वभावत्वात् इदम् - इति प्रथनाभावेन विशेष्यत्वं नास्ति, विशेषणविशेष्यभावो हि योजकायत्तः, न च स्वप्रकाशे योजकान्तरम् अस्ति । स इत्थं ब्रुवाणः पर्यनुयुज्यते - “ज्ञानमपि” तर्हिस्वप्रकाशम् इति तत्रापि एषैव वार्ता इति तदपि कस्मात् न नित्यम् ? न च द्वयोर्नित्ययोः कश्चित् सम्बन्धः, कार्यकारणभावो हि असौ नान्यः, तत आत्मनो ज्ञानं शक्तिः इति अवसन्नम् अदः । अथ न स्वप्रकाशं ज्ञानं तर्हि परस्यापि अदो न प्रकाशः, स्वप्रकाशरूपावेशनं हि असौ परस्य विदधत् बोधः प्रकाशो भवति परस्यापि, ततः स्वप्रकाशताशून्यो न असौ अर्थस्य प्रकाशः स्यात् भावान्तरवत् ॥ ७ ॥
इदम्भावावच्छिन्नस्य घटादेः । विशेषणताम् - विशेषणभावम्, तम् - इदम्भावावच्छिन्नं घटादिकम्, विशिष्टीकुर्वन् - अविशिष्टं विशिष्टं सम्पादयन्, तस्मिन् - स्वरूपभूते काले, यः सङ्कोचः - अवच्छेदः तस्मात् अनित्यं सम्पादयति, अयं घटो भवति इति हि प्रयोगे इदम्भावविशिष्टस्य घटस्य स्फुटं वर्तमानकालेन सङ्कोचः, तदेवनित्यत्वं कालकृतसकोचस्यैवानित्यत्वात् । ननु भवत्वेवं ततः किम् इत्यत आह आत्मनश्च इति । इदमितिप्रथनाभावेन - अहमितिस्फूर्तिविषयत्वमात्रात् सिद्धेन इदमितिज्ञानविषयत्वाभावेन, विशेष्यत्वम् - कालाख्यविशेषण - विशिष्टत्वम् । कथं नास्तीत्यत आह विशेषण इति । योजकायत्तः - सम्बन्धकर्तुरायत्तः, न तु स्वाभाविकः ।
अन्यथा एक एकं प्रति विशेषणमपरं प्रति विशेष्य इति न स्यादिति भावः, अत एव चास्य सम्बन्धाभासत्वं कथयन्ति । ननु ततोपि किमित्यत आह न च इति । योजकान्तरम् - स्वप्रकाशादात्मनोऽन्यो योजकः । सः - उत्तरपक्षवादिरूपो नित्यात्मवादी, पर्यनुयुज्यते - पर्यनुयोगविषयतां नीयते । पर्यनुयोगमेव स्फुटीकरोति ज्ञानम् इति । ज्ञानम् - ऐश्वर्यभूता ज्ञानशक्तिः, इति - अतः कारणात्, तत्रापि - ज्ञानेऽपि, द्वितीयोऽपि इतिशब्दोहेतावेव । ननु भवतु तदपि नित्यमेवेत्यत आह न च इति । ननु
जडोप्यसौ इत्थम् अर्थस्य प्रकाशो भविष्यति - इति साङ्ख्यमतम् आशङ्कते :-
अथार्थस्य यथा रूपं धत्ते बुद्धिस्तथात्मनः ।
चैतन्यम् ॥
इह तावत् अर्थं जानामि - इत्यस्ति व्यवहारः । तत्र अर्थस्य प्रकाशः - इत्येतावानेव [इत्येतावत्परमार्थः - क्। ष्। ष्।] परमार्थः तत् न अर्थस्य स्वं रूपम्, सर्वं प्रति तथात्वप्रसङ्गात्, न कञ्चित्प्रति वा इति सर्वज्ञम् अज्ञं वा जगत् स्यात् । नापि अर्थे अन्यत एतद्रूपम् उपनिपतितम्, एष एव हि दोषः स्यात् ।
तत् नूनम् अन्यत्रैव अयं धर्मः तत्त्वान्तरे, तत्रापि कथम् अर्थस्य प्रकाशः स्यात् इति नूनं तत्र तत्त्वान्तरे सोऽर्थः प्रतिबिम्बत्वेन उपसङ्क्रामति । तत्
कथं न नित्ययोर्द्वयोः सम्बन्धः स्यादित्यपेक्षायामाह कार्य इति । अग्रे स्वयमेव कार्यकारणभावमात्रस्य सम्बन्धत्वं साधयतीति इह नायस्तम् । ननु ततोपि किमित्यत्राह ततः इति । अवसन्नम् - नष्टम् । इति अदः इति योजना, द्वयोरपि समप्राधान्यादिति भावः । एतेन पूर्वार्धं गतव्याख्यम् । तथा च योजना । ज्ञानं च - ज्ञानशक्तिश्च आत्मवत् स्वरूपं चेद् भवेत्, तत् - तदा, अर्थात् तत् ज्ञानम्, अनित्यं किम्, अनित्यम् न युक्तमिति भावः । तत्र चोक्त एव दोष इति भावः । अथवा आत्मवत् किमनित्यम्, यथात्मा किमनित्यो भवति तथेदमपि किमनित्यम्, नैवानित्यमिति भावः ।
उत्तरार्धं व्याख्यातुं पक्षान्तरमाह अथ इति । परस्यापि - स्वव्यतिरिक्त - घटादेरपि, अदः - इदं ज्ञानम्, न प्रकाशः प्रकाशरूपो न भवेत्, प्रमातारमनपेक्ष्य स्वप्रकाशस्य दीपस्येव घटप्रकाशत्वादर्शनादिति [स्वप्रकाशस्य दीपस्येव घटप्रकाशत्वदर्शनात् - च्।] भावः । कुतो न प्रकाश इत्यत आह स्वप्रकाश इति । हि - यस्मात्, बोधः - ज्ञानम्, परस्य - घटादेः, स्वप्रकाशं
तत्त्वान्तरं सत्त्वप्राधान्यात् [सत्त्वप्रधानत्वात् - क्। ष्। ष्।] प्रतिबिम्बग्रहयोग्यं [प्रतिबिम्बोपग्र - क्। ष्। ष्।] तमसाऽऽच्छादितत्वात् सकलप्रतिबिम्बनतो व्यावर्तितम्, भागे रजसा तमसोऽपसारणात् किञ्चिदेव प्रतिबिम्बकं गृह्णाति, तदेव बुद्धितत्त्वम् उच्यते । अर्थप्रतिबिम्बग्रहश्च [प्रतिबिम्बोपग्रहश्च - क्। ष्। ष्]
यद्रूपम् - निजस्वरूपम्, तत्र आवेशनम् - प्रवेशनम्, विदधत् कुर्वन्, परस्यापि - घटादेरपि, प्रकाशो भवति, प्रकाशाविष्टस्य घटस्य प्रकाशेन दीपस्यापि तत्प्रकाशत्वमेव । उपसंहारं करोति ततः इति । असौ
- बोधः, भावान्तरवत् - बोधव्यतिरिक्तघटादिपदार्थवत् ॥ ७ ॥
अष्टमश्लोकस्यावतरणिकां करोति जडोप्यसौ इति ।
अत्र टीका :-
जडोपि - अनित्यतादोषापातात् जडभावेनाङ्गीक्रियमाणोऽपि, असौ - बोधः, साङ्ख्यमतमिदम्, तार्किकमतस्य निराकृतत्वादिति भावः ।
एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । अथार्थस्य इति ।
अत्र टीका :-
चैतन्यम् इत्यन्तं श्लोकखण्डं व्याचष्टे इह इति । तावत्, नात्र कस्यापि विप्रतिपत्तिरित्यर्थः । तत्र इति । तत्र - तस्मिन्व्यवहारे, इत्येतावानेव परमार्थः अस्ति । इत्येतावान् कः ? अर्थस्य प्रकाश इति । ज्ञानस्य प्रकाशमात्रसारत्वादिति भावः । तत् - प्रोक्तपरमार्थे तस्मिन्व्यवहारे एतज्जानामि इति शब्दवाच्यं ज्ञानम् । अत्र हेतुमाह सर्वम् इति । तथात्व प्रसङ्गात् - ज्ञातत्वप्रसङ्गात्, न हि नीलमेकमेव प्रति नीलमिति भावः ।
पक्षान्तररीत्या हेत्वन्तरमाह न कञ्चिद् इति । समानन्यायत्वात् इति भावः ।
ननु तेनापि किमित्यत आह इति । इति - अतः कारणात्, प्रथमपक्षाश्रयणे सर्वज्ञं द्वितीयपक्षाश्रयणे अज्ञमिति क्रमो ज्ञेयः । ननु एतदर्थस्य सहजं रूपं मा भवतु आगन्तुकं तु स्यादेवेत्यत आह नापि इति । एतत् - ज्ञानाख्यम्,
ज्ञानम् अस्य वृत्तिरूपं पूर्वव्यपदेशतिरोधायाकदध्यादिपरिणाम - विलक्षणपरिणतिविशेषात्मकम् । एवम् “अर्थस्य” तावत् “रूपं बुद्धिः” धारयति ।
रूपम् - स्वरूपम् । एष एव - समनन्तरोक्त एव । न ह्यागन्तुकनैसर्गिकयोः स्वरूपयोर्भिन्नकार्यत्वम् इति भावः । तर्हि किं कार्यमित्यत आह तन्नूनम् इति । अयं धर्मः - ज्ञानाख्यो धर्मः, प्रतिबिम्बवत्वेन - प्रतिबिम्बभावेन, उपसङ्क्रामति - लगति, इत्थम्भावे तृतीया । ननु तत्तत्वं किं करोतीत्यत आह तत् इति । तत् - समनन्तरोक्तम्, प्रतिबिम्बस्य ग्रहे - ग्रहणे, योग्यम् - उचितम्, सत्त्वप्राधान्यात् - सत्त्वगुणप्रधानत्वेन, लक्षणया निर्मलत्वादिति यावत् । ननु तर्हि कथं न तस्मिन् देशकालादिविप्रकृष्टमपि प्रतिबिम्बति इत्यत आह तमसा इति । तमसा - तमोगुणेन, आच्छादितत्वात् - आवृतत्वात्, सकलस्यदेशकालादिविप्रकृष्टाविप्रकृष्टस्य समस्तवस्तुनः, प्रतिबिम्बनतः - प्रतिबिम्बग्रहणात्, व्यावर्तितम् - व्यावृत्तम् । ननु तर्हि कथं देशकालाद्यविप्रकृष्टं गृह्णाति इत्यत आह रजसा इति । रजसा - रजोगुणेन, अपसारणात् - निवारणात्, रजोगुणस्यैव प्रवृत्तिरूपत्वादेवमुक्तम् । किञ्चिदेव - अविप्रकृष्टमेत, यथा निःश्वासान्धो भागे तद्रहितो दर्पणः किञ्चिदेव प्रतिबिम्बं गृह्णाति तथेति दृष्टान्तयोजना स्वयमेव कार्या । ननु तत्तत्त्वान्तरमेवङ्कारि भवतु तस्य तु नाम किमस्तीत्यत आह तदेव इति । साङ्ख्यमते हि बुद्धेरेव ज्ञानकर्तृत्वम् । तदुक्तम् :-
स्वच्छायां धियि सङ्क्रामन् भावः संवेद्यतां कथम् ।
तया विना
इति । ननु तर्हि ज्ञानं किमस्ति इत्यत आह अर्थ इति । अर्थस्य प्रतिबिम्बग्रहः - , प्रतिबिम्बग्रहणम्, तद्रूपमिति यावत् - ज्ञानम् । अस्य - बुद्धितत्त्वस्य, वृत्तिरूपम् - वर्तनरूपम्, परिणामरूपमिति यावद्, भवति । एतेन
बुद्धिर्ज्ञानलब्धि
इयच्च सत्त्वादीनां सुखदुःखमोहरूपतया [सुखदुःखमोहतया - क्। ष्।
ष्।] भोग्यत्वात् जडम् इति दर्पणवत् अप्रकाशम् । न च भोग्यस्य अप्रकाशस्य तद्विरुद्धभोक्तृतारूपप्रकाशात्मकस्वभावसम्भवो युक्यनुपाती इति तद्विलक्षणेन भोक्त्रा भवितव्यम् । स च प्रकाशः - इत्येतावत्स्वभावः, स्वभावान्तरं हि अप्रकाशरूपं भोग्यं कथं भोक्तुः स्वभावतया सम्भाव्येत । स च प्रकाशमात्रस्वभावत्वेनैव यदि
इति तार्किकोक्तस्य बुद्धिज्ञानयोरेकत्वस्य निरासः कृतः । ज्ञानं कीदृशम् ? पूर्वः - पूर्वकालीनः, यो व्यपदेशः - क्षीरेत्यादि नाम, तस्य तिरोधायको यो दध्यादिपरिणामः, दध्यवस्थायां क्षीरेति नाम न तिष्ठत्येव, ततो विलक्षणो यः परिणतिविशेषः - कुण्डलाअदिरूपः परिणामविशेषः, स आत्मा यस्य तादृशम्, यद्वशेन तार्किकास्तत्र बुद्धिशब्देनैव व्यवहरन्तीति भावः । उपसंहारं करोति एवम् इति ।
धारयति, प्रतिबिम्बत्वेनेति शेषः । ननु यदि धारयति तर्हि अस्या अजडत्वमेवायातमित्यत आह इयच्च इति । सत्त्वादीनाम्, प्रकृत्यादिमध्ये इत्यर्थः इयत् - बुद्धिपर्यन्तं तत्त्वद्वयमपि, सुखदुःखमोहरूपतया
- साम्यभावस्थितगुणत्रययुक्ततया, [साम्यभावेन स्थितगुणत्रययुक्ततया - च्।] भोग्यत्वात् - भोग्यतापातात्, जडं भवति, अन्येषु ग्राहकत्वेऽपि स्वग्रहणे परापेक्षत्वात्, इयत् शब्दः शेषस्य तत्त्वगणस्याजडत्वसम्भावनाव्यावृत्तिपरः । फलितमाह इति इति । इति - अतः कारणात्, दर्पणवत् अप्रकाशम् - प्रकाशव्यतिरिक्तस्वभावं भवति ।
ननु तर्हि विश्वस्यान्धमूकतापातः स्यादित्यत आह न च इति ।
युक्तिमनुपततीति युकत्यनुपाती, यिक्त्यनुसारीति यावत् । तद्विलक्षणेन - जडाऽप्रकाशभिन्नेन, भोक्त्रा - पुरुषाख्येन भोगकर्त्रा, भवितव्यम् इति तर्करीत्या साधनं साङ्ख्यानां चेतनविषये निश्चयशैथिल्यद्योतनार्थम् । स च - भोक्ता च, इत्येतावान् स्वभावो यस्य स इत्येतावत्स्वभावः, स्वभावान्तरम् - जडाऽप्रकाशरूपोऽन्यः स्वभावः, सम्भाव्येत - सम्भावयितुं शक्येत । स च - प्रकाशस्वभावो भोक्ता च, प्रकाशमात्रस्वभावत्वेनैव, बाह्यसाधनं विनै -
विश्वस्य प्रकाशः, तर्हि विश्वं युगपदेव प्रकाशेत, घटप्रकाशोऽपि पटप्रकाशः स्यात् इति विश्वं सङ्कीर्येत । स च अर्थात् अर्थप्रतिबिम्बात् तदाधाराच्च बुद्धितत्त्वात् अन्यः कथम् अर्थस्य प्रकाशः स्यात् असम्बन्धात् । तस्मात् बुद्धिरेव स्वच्छत्वात् प्रकाशप्रतिबिम्बमपि गृह्णाति [परिगृह्णाति - क्। ष्। ष्।] । ततः प्रकाशप्रतिबिम्बपरिग्रहमहिमोपनतप्रकाशावेशबुद्धितत्त्वावेशितप्रति
- बिम्बकनीलाद्यर्थपर्यन्तसङ्क्रान्तेः प्रकाशावेशस्य अर्थः प्रकाशते इति सिद्धो व्यवहारः । तदेवं ज्ञानं जडबुद्धितत्त्वाव्यतिरेकात् जडमपि चित्प्रतिबिम्ब -
वेति भावः । ननु प्रकाशतां ततः किमित्यत आह घट इति , अन्यथा युगपत्त्वायोगादिति भावः । ननु ततोपि किमित्यत आह इति इति । विश्वम् - जगत्, सङ्कीर्येत - सङ्करविषयतां गच्छेत्, ततश्च घटेऽपि पटव्यवहारः स्यादिति भावः । ननु स भोक्ता स्वयमर्थादिभावमागत्य प्रकाशो भवत्वित्यत आह स च इति । स च - भोक्ता च, अर्थप्रतिबिम्बात् - ज्ञानात्, तदाधारात् - अर्थप्रतिबिम्बाधारात्, अन्यः - व्यतिरिक्तस्वभावः, चेतनत्वादिति भावः, असम्बन्धात् - सम्बन्धाभावन । फलितमाह तस्मात् इति । स्वच्छत्वात् - सत्त्वप्राधान्यकृतान्नैर्मल्यात्, प्रकाशप्रतिबिम्बम् - प्रकाशस्वभावभोक्तृप्रतिबिम्बम्, अपि शब्देनोक्तस्यार्थप्रतिबिम्बस्य समुच्चयः । ननु गृह्णा तु ततः किमित्यत आह ततः इति । ततः, यतः प्रकाशप्रतिबिम्बमपि गृह्णाति ततः कारणादित्यर्थः, प्रकाशस्य - पुरुषस्य यः प्रतिबिम्बपरिग्रहस्तस्य यो महिमा तेन उपनतः - प्राप्तः प्रकाशावेशो येन, यो हि यत्र प्रतिबिम्बितो भवति स तत्र कृतावेशो भवति, तादृशं यद् बुद्धितत्त्वम् - महत्तत्त्वम्, तत्र आवेशितं प्रतिबिम्बं येन तादृशो यो नीलाद्यर्थः स पर्यन्तो यस्याः तादृशी सङ्क्रान्तिः - प्रतिबिम्बस्फूर्तिर्यस्मिन् तादृशस्य, परम्परागतस्वाधिष्ठितबुद्धितत्त्वप्रतिबिम्बितनीलाद्यर्थ - प्रतिबिम्बयुक्तस्येति यावत् । प्रकाशावेशस्य - बुद्धावन्तर्गतस्य प्रकाशप्रतिबिम्बस्य, न तु बिबम्भूतस्य तटस्थस्य प्रकाशस्य, अर्थः - नीलादिपदार्थः, प्रकाशते, न केवलस्य बुद्धितत्त्वस्य, तस्य जडत्वात्, नापि पुरुषस्य, तस्योदासीनत्वात् ।
योगात् विषयस्य प्रकाशः - इति ।
एतदेव तावत् अनुचितम् - यत् प्रकाशात्मा पुमान् बुद्धौ प्रतिबिम्बम् अर्पयति, समानगुणे बिम्बकापेक्षया च विमले प्रतिबिम्बसङ्क्रान्तिदर्शनात्, रूपवति आदर्शे घटरूपप्रतिबिम्बवत्; आत्मबुद्ध्योश्च अतिवैलक्षण्यम्, आत्मापेक्षया च न बुद्धिर्विमला तत् भवतु तावत् एतत् - इति “अथ” शब्देन सूचयति ।
किन्तु प्रतिबिम्बवादेनापि न किञ्चित् प्रतिसमाहितं भवेत् - इति दर्शयति :-
अजडा सैवं जाड्ये नार्थप्रकाशता ॥ ८ ॥
चैतन्यप्रतिबिम्बयोगे यदि तावत् तत्प्रतिबिम्बकमपि मुख्यं प्रकाशरूपमेव न भवति, तेनापि न किञ्चित् कृतं स्यात्, न हि प्रतिबिम्बितवह्निपुञ्ज आदर्शो दाह्यं दहेत् । अथ मुख्यप्रकाशरूपमेव तत्प्रतिबिम्बकम्, तत्
साङ्ख्यमतमुपसंहरति तदेवम् इति । चितः - भोक्तुः यः प्रतिबिम्बः - बुद्धितत्त्वे सङ्क्रान्तिः, तस्य योगः - सम्बन्धः तस्मात्, दृश्यते चाग्निसंयोगेनायसोऽग्निकार्यमिति न काप्यनुपपत्तिरिति भावः । एतेन पूर्वार्धं गतव्याख्यम् ।
तथा च योजना । अथ प्रश्ने, बुद्धिर्यथा बहिरर्थस्य धत्ते - प्रतिबिम्बत्वेन गृह्णाति, तथा अन्तः आत्मनः - भोक्तुः, चैतन्यम् - स्वरूपभूतां चेतनताम्, धत्ते, तथा च जडत्वेपि तस्या अर्थप्रकाशनं युक्तमेवेति भावः ।
अथ शब्दसूचनीयं वस्तु कथयति एतदेव इति ।
एतच्छब्दस्याकाङ्क्षां पूरयितुमाह यत् इति । अनुचितत्वे हेतुमाह समान इति ।
चैतन्यम् इति पदेन न्यूनम् उत्तरार्धं व्याख्यास्यंस्तदभिप्रायन्तावदाह किन्तु इति । अर्थाक्षिप्तेन किन्तु शब्देन प्रतिसमाधानत्वं सूचितम्, प्रतिसमाहितम् - प्रतिसमाधानविषयतां ।
केन दर्शयतीत्यत आह अजडा इति । उत्तरार्धमुपन्यस्य व्याचष्टे चैतन्य इति ।
तर्हि बुद्धेरव्यतिरिक्तम् इति मुख्यप्रकाशरूपैव बुद्धिर्जाता इति । यतो विरुद्धधर्माध्यासात् भीरुभिः एतत् कल्पितम् । स एव पुनः जाज्वल्यमानं निजम् ओजो जृम्भयति, ततश्च सा बुद्धिरेव चिन्मयी स्यात्, किं पुरुषेण । एवम् अर्थप्रतिबिम्बकद्वारेण अर्थमयी - इत्यपि आयातो विज्ञानवादः । कुत एतस्याः [कुत एवास्याः - क्। ष्। ष्।] तद्रूपत्वम् - इति, पूर्वकारणपरम्परातः - इति उत्तरं वाच्यम् । एवं सैव चेत् चिद्रूपा, प्राग्वत् नित्यताप्रसङ्गः; न चेत चिद्रूपस्यापि नित्यता, तर्हि आत्मा न नित्यः कश्चिदस्ति, यस्य ज्ञानं नाम
प्रतिबिम्बकम् - आत्मचैतन्यप्रतिबिम्बः । किन्न कृतं स्यादित्यत आह न हि इति । तदुक्तम् :-
चिद्धर्मश्च मृषा बुद्धौ
इति । द्वितीयं पक्षं प्रत्याख्यातुमाह अथ इति । तत् - प्रतिबिम्बकम्, इति शब्दः प्रमेयपरिसमाप्तौ । ननु जायतां ततः किम् इत्यत आह यतः इति ।
विरुद्धधर्माध्यासात् - जडायां बुद्धौ चैतन्यप्राप्तिरूपात्, एतत् - प्रतिबिम्बसाधनम्, । स एव - विरुद्धधर्माध्यास एव, जाज्वल्यमानम् - अत्यर्थं ज्वलत् । ननु जृम्भयतु ततः किमित्यत आह ततश्च इति । किं पुरुषेण, बुद्धौ मुख्यप्रकाशाङ्गीकारात् व्यर्थस्य तस्य कल्पना निष्प्रयोजनैवेति भावः । दोषान्तरमप्याह एवम् इति । अर्थमयी - अर्थरूपा, प्रकृतत्वाब्दुद्धेरकथनम्, विज्ञानवादः - विज्ञानवादिबौद्धमताश्रयणम्, तेपि हि निराकारस्य ज्ञानस्य अर्थेन साकारत्वं कथयन्ति । विज्ञानवादत्वमेव साधयति कुतः इति । एतस्याः - बुद्धेः, तद्रूपत्वम् - अर्थरूपत्वम्, इति, अत्र प्रश्ने इत्यर्थः, पूर्वकारणपरम्परातः, पूर्वसिद्धाऽर्थरूपकारणपङ्क्तेरित्यर्थः, वाच्यम् - अवश्यं वक्तव्यम्, अन्यस्योत्तरस्याभावादिति भावः । इदं चोत्तरं विज्ञानवादिनामेव ज्ञेयम् । समनन्तरोक्तं तृतीयं दोषमप्याह एवम् इति । एवं सति सैव बुद्धिरेव । चेत्,
शक्तिः स्यात् - इति ज्ञानमात्रमेव अस्ति । योऽर्थप्रकाशरूपो बोधो यश्च विकल्पस्मृत्यादिरूपः तावता अर्थव्यवहारसिद्धेः - इति प्रसङ्गविपर्ययलाभः [प्रसङ्गविपर्ययलाभे - क्। ष्। ष्।] “ज्ञानं च चित्स्वरूपं चेत्” इत्यादेः श्लोकद्वयस्य तात्पर्यम् ॥ ८ ॥
एवं ज्ञानं परीक्ष्य क्रियां परीक्षते :-
क्रियाप्यर्थस्य कायादेस्तत्तद्देशादिजातता ।
नान्याऽदृष्टेः ॥
इह परिस्पन्दरूपं तावत् गच्छति, चलति, पतति - इत्यादि यत् प्रतिभासगोचरम्, तत्र गृहदेशगतदेवदत्तस्वरूपात् अनन्तरं बाह्यदेशवर्ति -
चिद्रूपस्यापि - चिद्रूपत्वेनाङ्गीक्रियमाणस्य बुद्धितत्त्वस्यापि, समानन्यायत्वादिति भावः । किम्भूत आत्मेत्यपेक्षायामाह यस्य इति ।
ज्ञानं नाम - ज्ञानाख्या, न हि शक्तिमतोऽभावे शक्तेर्युक्ततेति भावः । सिद्धमभीप्सितमाह इति इति । ज्ञानमात्रमेव न तु तत्कतृ भूतो नित्य आत्मास्तीति भावः । कथं तन्मात्रमेव युक्तमित्यत आह योर्थ इति ।
बोधः - निर्विकल्पज्ञानम्, विकल्पः - सविकल्पज्ञानम् ।
समनन्तरोक्तश्लोकद्वयस्याभिप्रायं सिद्धत्वेनाह इति इति । इति - अतः कारणात्, प्रसङ्गविपर्ययलाभः - प्रसङ्गविपर्ययलाभरूपम्, तात्पर्यम् - तात्पर्यार्थः ॥ ८ ॥
अथ नवमश्लोकस्यावतरणिकां करोति एवम् इति ।
अत्र टीका :-
परीक्षते - परीक्षाविषयीकरोति, तत्पल्लवभूतत्वादिति भावः ।
एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । क्रिया इति ।
अत्र टीका :-
नान्यादृष्टेः इत्यन्तं श्लोकपिण्डं व्याचष्टे इह इति ।
प्रतिभासगोचरम्, [प्रतिभासगोचरः - क्। ष्। ष्।] प्रतिभाविषयीभूतमित्यर्थः । तत्र - तस्मिन् प्रतिभासे, तत्स्वरूपा -
देवदत्तस्वरूपम् - इत्येतावत् उपलभ्यते, न तु तत्स्वरूपातिरिक्तां काञ्चित् अन्यां क्रियां प्रतीमः । “देवदत्तो दिनं तिष्ठति” इत्यत्र तु प्रभातकालाविष्टदेवदत्तस्वरूपं ततः प्रहरकालालिङ्गिततत्स्वरूपम् - इत्यादि भाति, “दुग्धं परिणमते” इत्यत्र मधुरवस्तुरूपम् अम्लवस्तुरूपम् द्रवरूपं कठिनरूपम् - इत्यादि । एवं तद्देशतया तत्कालतया तदा - कारतया च भाव एव भाति । सादृश्याच्च तत्र प्रत्यभिज्ञा भिन्नेऽपि कायकेशनखादाविव । देशाकारान्यत्वे तु कालान्यत्वम् अवश्यम्भावि देशकालान्यत्वेऽपि, स्वरूपस्यैव देशत्वात्, कालभेदे च स्वरूपभेदात्, देश -
तिरिक्ताम् - देवदत्तस्वरूपातिरिक्ताम्, प्रतीमः - विद्मः । देशोपहितां क्रियां प्रदर्श्य कालोपहितां प्रदर्शयति देवदत्त इति । आदिशब्देन मध्यन्हकालाद्यालिङ्गिततत्स्वरूपग्रहणम् । आकारोपहितां क्रियां प्रदर्शयति दुग्धम् इति । मधुरद्रवत्वे दुग्धस्य, अम्लकठिनत्वे दध्नः इति । योज्यम्, आदिना सारग्रहणाग्रहणयोग्यत्वादेर्ग्रहणम् । इत्यादि भातीति सम्बन्धः । उक्तमर्थमुपसःअरति एवम् इति । भाव एव - देवदत्तकायदुग्धादिरूपपदार्थक्षण एव । ननु तर्हि कथं सोऽयमिति प्रत्यभिज्ञा दृश्यते इत्यत्राह सादृश्य इति । प्रत्यभिज्ञा - सोयन्देवदत्त इत्यादिरूपं प्रत्यभिज्ञानम् । नखादौ इति । आदिशब्देन दीपशिखादेर्ग्रहणम्, प्रतिक्षणं भिन्नापि हि दीपशिखा सादृश्यात्सेयमिति प्रत्यभिज्ञायते । ननु कथमेकस्य देवदत्तकायरूपस्य भावस्य देशकालभेदेन भिन्नत्वं येन भेदप्राणसादृश्यनिमित्तकप्रत्यभिज्ञाविषयत्वं कथयसि इत्यत आह देशाकार इति । तु, यथार्थे, देशाकारान्यत्वे - देशाकारयोर्भिन्नत्वे, यथा कालान्यत्वमवश्यम्भावि, न हि देवदत्तस्य गृहे बहिश्चावस्थानं युगपत् सम्भवति, दुग्धादेर्वां दध्याद्यवस्था, तथा देशकालान्यत्वेपि, अर्थादाकारान्यत्वमवश्यम्भावि भवति विशेषणकृतम्भेदाश्रयणात्, दृश्यते च नीलसितोत्पलयोर्विशेषणकृतो भेद इति न कोपि विरोधः, आकारभेदे तद्भेदः स्फुटतर एवेति नात्र काप्यनुपपत्तिः, कालाकारभेदेन अवश्यं देशभेद इति तदकथनम् ।
देशकाला -
कालाकारा आकार एव यद्यपि पर्यवस्यन्ति, तथापि स्थूलदृष्ट्या अस्ति भेदः इति ते हि भेदेन बौद्धैरुच्यन्ते - इति तात्पर्यम् । एवं प्रत्यक्षेण न दृश्यते क्वचित् क्रिया, तदभावत् न तत्पूर्वकेण अनुमानेन, कार्यं च ग्रामप्राप्त्याद्युत्तरक्षणरूपं तद्देशवस्तुरूपादि इति कार्यान्यथानुपपत्त्यापि न सा कल्प्या । एवं प्रत्यक्षानुमानाभ्यां तस्या अदृष्टिः - इति साधकप्रमाणाभाव उक्तः ।
बाधकमपि आह :-
न्यत्वेऽप्याकारान्यत्वमिति वा पाठः । ननु देशकालयोरपि आकाराव्यभिचारेण आकारान्तर्गतत्वात् एकस्य आकारस्य साम्राज्ये केवलेन आकाररूपेण देशेनापि सर्वाक्षेपे किमिति कालाकारग्रहणपरेण आदिशब्देनेत्यत आह स्वरूपस्यैव इति । स्वरूपस्यैव - मूर्तेरेव, देशत्वात् कालभेदे च स्वरूपभेदात् देशकालाकाराः यद्यप्याकारे पर्यवस्यन्ति - विश्राम्यन्ति, तथापि स्थूलदृष्ट्या - आपातदृष्ट्या, भेदः अस्ति, इति - अतः कारणात्, बौद्धैः - बुद्धितत्त्वविश्रान्तैर्वादिभिः, ते भेदेनोच्यन्ते । आकारस्य आकारे पर्यवसानं राहोः शिर इतिवत् ज्ञेयम् । अत्र च देशस्य भानादेव आकारत्वमुक्तम्, कालस्य तु निराकारत्वेन एतद्भेदे तद्भेदस्याव्यभिचारेण आकारत्वं साधितमिति न काप्यनुपपत्तिरित्युपसंहारं करोति एवम् इति । तत्पूर्वकेण - प्रत्यक्षपूर्वकेण । ननु क्रियाकार्येण ग्रामप्राप्त्यादिना तत्कल्पनां करिष्याम इत्यत आह कार्यञ्च इति । आदिशब्देन ओदनादेर्ग्रहणम् । तद्देश इति । आदिशब्देन कालस्य ग्रहणम्, सा - क्रिया, कल्प्या - कल्पयितुं शक्या ।
अदृष्टेः इति पदस्य अर्थं स्फुटयितुमाह एवम् इति । आचार्येण कर्त्रा एवम् - समनन्तरोक्तप्रकारेण, तस्याः - क्रियायाः अदृष्टेः इति सूत्रस्थपदेन प्रत्यक्षानुमानाभ्याम् - प्रत्यक्षानुमानभावेन, साधकप्रमाणस्य अभावः साधकप्रमाणाभाव उक्तः ।
… न साप्येका क्रमिकैकस्य चोचिता ॥ ९ ॥
तत्र पूर्वापररूपता क्षणानां विकल्पबुद्ध्यानुसन्धानात् न तु स्वात्मनि किञ्चित् पूर्वम् अपरं वा, वस्तुमात्रं हि तत् । अतो विकल्पप्राणितं पूर्वापरीभूतत्वं क्रमरूपता क्रियायाः [क्रियाया लक्षणं न वस्तु किञ्चित् स्पृशति - क्। ष्। ष्।] किञ्चित् क्षणं न वस्तु स्पृशति, ते हि
इत्थम्भावे तृतीया । एतेन अदृष्टेः इत्यन्तं गतव्याख्यम् ।
तथा च योजना । क्रियापि कर्त्री कायादेरर्थस्य, आदिशब्देन परिणामादिक्रियाविषयस्य दुग्धादेर्ग्रहणम्, तेन कायदुग्धादेः पदार्थस्य ते ते च ते देशादयः तेषु जातता - तद्वैशिष्ट्यकृतोऽन्यः प्रादुर्भावो भवति, नवीनो न भवति । कुतः ? अदृष्टेः - प्रत्यक्षानुमानाभ्यामनुपलब्धेरिति ।
न सा इति श्लोकखण्डस्यावतरणिकां करोति बाधक इति । बाधकम्
-
क्रियाया नाशकं प्रमाणम्, अपि शब्दः समुच्चये । अवतरणिकां कृत्वा न सा इति श्लोकखण्डमुपन्यस्य व्याचष्टे । न सा इति । तत्र - तस्यां क्रियायाम्, पूर्वापररूपता - पूर्वापरीभावः, क्षणानाम् - क्रियाक्षणानाम्, विकल्पबुद्ध्यानुसन्धानात् - विकल्पज्ञानसम्पादितेनानुसन्धानेन, किञ्चित् - कोपि क्षणः, वस्तुमात्रम् - पूर्वापरभावास्पर्शि वस्तुस्वरूपमात्रम्, तत् - सन्तत्या वर्तमानो यथास्वं क्षणसमूहः, बौद्धमते काल एव नास्ति का कथा तत्कृतयोः परत्वापरत्वयोरिति भावः । फलितमाह अतः इति । विकल्पप्राणितम्
-
विकल्पाध्यवसितम्,
क्षणा न अन्योन्यस्वरूपाविष्टाः इति कथम् “एका” क्रिया, क्रमो हि भेदेन व्याप्तः अभिन्ने तदभावात्, भेदस्य विरुद्धम् ऐक्यम् इति कथं “क्रमिका एका च” इति स्यात् ? अथ एकत्र आश्रयेऽवस्थानात् एका, तत्रापि तत्क्षणातिरिक्तो न कश्चित् आश्रयोऽनुभूयते, क्षणा एव हि प्रबन्धवृत्तयो भान्ति । किं च तथाभूतैर्भीन्नदेशकालाकारैः क्रियाक्षणैराविष्ट आश्रयः कथमेकः स्यात् ? अत एव “देवदत्तोऽयम्, स एव ग्रामं प्राप्तः” इति सादृश्यात् भवन्ती प्रत्यभिज्ञा न ऐक्यं वास्तवं गमयितुमलम् ॥ ९ ॥
पूर्वापरीभूतत्वस्य पर्यायमाह क्रमरूपता इति । किञ्चित् क्षणम् - क्रियायाः किमपि क्षणम्, वस्तु - वस्तुभूतम्, बौद्धमते क्षणानामेव वस्तुत्वात् सन्ततेस्तु वैकल्पिकत्वात्, न स्पृशति, न हि विकल्पसिद्धयोरपारमार्थिकयोरन्योन्यं सम्बन्धो युक्तः, द्विचन्द्रस्यापि चन्द्रत्वस्पर्शप्रसङ्गादिति भावः । कथं न स्पृशतीत्याह ते हि इति ।
स्वरूपाविष्टाः - स्वरूपश्लेषयुक्ताः, प्रत्येकं स्वकालमात्रे स्थितत्वात्, अन्यथा क्षणत्वायोगात् । फलितमाह इति इति । इति - अतः कारणात्, एका - क्षणसन्ततिरूपा । एकत्वं प्रत्याख्याय तदवष्टम्भेन क्रमिकत्वमपि समुच्चयेन प्रत्याख्यातुमाह क्रमो हि इति । तदभावात् - क्रमाभावात्, न हि व्यापकाभावे व्याप्यसत्ता युक्तेति भावः । एकस्य इत्यनेन सूचितमेकाश्रयत्वं प्रत्याख्यातुमाह अथ इति । एकाश्रयत्वकृतमेकत्वं [एकाश्रयत्वकृतं प्रतिसमाधातुमाह - च्।] प्रतिसमाधातुमुत्तरमाह तत्र इति । तेभ्यः क्षणेभ्योऽतिरिक्तः तत्क्षणातिरिक्तः । कथं नानुम्भूयत इत्यत आह क्षणा एव इति । प्रबन्धवृत्तयः - अविच्छिन्नस्थितयः । एवशब्देन क्षणसन्ततिरूपस्य क्रियास्वरूपस्य भानव्यावृत्तिः । भीन्ना ये देशकालाकाराः तैः, तद्रूपैरित्यर्थः, आविष्टः - आवेशविषयईकृतः, आश्रयः - देवदत्तकायादिरूपः ।
फलितमाह अत एव इति । वास्तवम् - परमार्थभूतम्, अलम् - समर्थम्, केशनखादिवदिति दृष्टान्तयोजना स्वयमेव कार्या, इति ॥ ९ ॥
एवं ज्ञानं क्रियां च परीक्ष्य, यस्मिन् सति ते सम्बद्धे सर्वज्ञत्वसर्वकर्तृतारूपैश्वर्यप्रसाधनाय प्रभवतः, तं सम्बन्धं ध्वंसयितुं तद्विषयं प्रमाणाभावं तावदाह :-
तत्र तत्र स्थिते तत्तद्भवतीत्येव दृश्यते ।
नान्यन्नान्योऽस्ति सम्बन्धः कार्यकारणभावतः ॥
मृत्पिण्डे सति स्तूपकः, तत्र सति शिविको यावत् घटः इत्येवं भावक्षणा एव उपलभ्यन्ते, न अधिकं किञ्चित् प्रत्यक्षेण अवभासते, नापि अनुमानेन - इति क्रियायामिव वाच्यम् । सर्वत्र आधाराधेयभावादौ
अथ दशमश्लोकस्यावतरणिकां करोति एवम् इति ।
अत्र टीका :-
ते - ज्ञानक्रिये, ध्वंसयितुम् - प्रत्याख्यातुम्, तद्विषयम् - सम्बन्धविषयम्, एतयोः तावत् - प्रथमम्, यस्मिन् सम्बन्धे सति इति योजना ।
एतामवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । तत्र इति ।
अत्र टीका :-
स्तूपकः - घटनिर्माणार्थमुपात्तस्य मृत्पिण्डस्य कुलालेन प्रथमं क्रियमाणो रचनाविशेषः, शिविकः - उन्नतवस्तुरूपो रचनाविशेषः, शिविकः कीदृशः ? यावद् घटः, घटभावं तावत् अवस्थायीत्यर्थः । ननु भवतु स्तूपकादिरूपं रचनात्रयं किं तत इत्याह इत्येवम् इति । इत्येवम् - अनेन प्रकारेण, भावक्षणा एव - स्तूपकादिरूपाः पदार्थक्षणा एव, एवशब्दव्यावर्त्यं स्वयमेव कथयति नाधिकम् इति । अधिकं किञ्चित्, घटकारणतया स्थितं किमपीत्यर्थः ।
अयमेव पन्थाः - पृथग्रूपकुण्डबदरक्षणान्तरं निरन्तरात्मकविशिष्टकुण्डबदरोदयः - इति । अयमेव च भावो भावान्तरेण सह नियतपूर्वापरतया विकल्पेन व्यवह्रियमाणः कार्यकारणभावः - इति अभिधीयते । न च ज्ञानक्रियाभ्यां सह आत्मनः कार्यकारणभावः आत्मनस्तत्कार्यत्वाभावात्, ज्ञानस्य च स्वसामग्रोकार्यत्वात्, क्रियायाश्च अभावात् इति न ज्ञानक्रियासम्बन्धो यतो ज्ञातृत्वकर्तृत्वे स्याताम् ॥ १० ॥
इति - एतत्, क्रियायामिव वाच्यम्, यथा क्रियानिर्णये उक्तम् “प्रत्यक्षम् न कापि क्रियाऽस्ति तत एव तत्पूर्वकेणानुमानेनापि” इति तथेहापि वक्तव्यमित्यर्थः ।
ननु किं कार्यकारणभाव एवायं न्याय उत सर्वत्रेत्यत आह सर्वत्र इति ।
पन्थाः - सरणिः, मार्गः । तमेव दर्शयति पृथग्रूप इति ।
निरनतरात्मकः - सम्बद्धरूपः । ननु तर्हि कथं कार्यकारणभावप्रसिद्धिरस्तीत्यत आह अयमेव च इति । अयमेव च भावः
- मृत्पिण्डादिरूपः पदार्थ एव, भावान्तरेण सह - घटादिरूपेणान्येन पदार्थेन सह, पूर्वापरतया - पूर्वापरभावेन, मृदः पूर्वत्वात् घटस्य परत्वात् इति भावः ।
नन्वयमेव सम्बन्धः आत्मनोऽपि कर्तृत्वज्ञातृत्वाभ्यां सह भवत्वित्यत आह न च इति । स्वसामग्रीकार्यत्वात् - आलोकेन्द्रियादिरूपनिजसामग्रीकार्यत्वात् । यतः - यस्मात् ज्ञानक्रियासम्बन्धात् ।
अयमत्र पिण्डार्थः । तत्र तत्र - तस्मिन् तस्मिन् मृत्पिण्डादिरूपे भावक्षणे सति, तत्तत् - स्तूपकादिरूपः स स भावक्षणोऽस्ति, इत्येव - एतावन्मात्रमेव दृश्यते, अन्यत् - अतोव्यतिरिक्तं कार्यकारणरूपं किञ्चिन्न दृश्यते । ननु कार्यकारणभावव्यतिरिक्तोऽन्यः कोपि सम्बन्धो भवत्वित्यत आह नान्योस्ति इति, कार्यकारणभावतोऽन्यः सम्बन्धो नास्ति तस्यायुक्तत्वादिति भावः ॥ १० ॥
एवं प्रमाणं पराकृत्य, सम्बन्धे बाधकं सामान्यविशेषमुखेन निरूपयति :-
द्विष्ठस्यानेकरूपत्वात् सिद्धस्यान्यानपेक्षणात् ।
पारतन्त्र्याद्ययोगाच्च तेन कर्तापि कल्पितः ॥ ११ ॥
सम्बन्धस्तावत् परस्परप्राप्तिरूपो द्वयोः प्राप्तिभाजोरेकस्तिष्ठति - इति सामान्यलक्षणम् । तच्च कथं ? न हि एकत्र विश्रमिताशेषशरीरसारोऽन्यत्र विश्रमितुम् अलम् स्वरूपभेदप्रसङ्गात् ।
एतेन संयोगसमवायौ तन्मूलाश्च अन्येऽपि सम्बन्धा बाधविधुरां धुरम् अध्यारोपिता मन्तव्याः । योऽपि चेतनेषु तत्कल्पनया च अचेतनेषु पारतन्त्र्यात्मा सम्बन्धो व्यवह्रियते, तत्र
एकादशस्य श्लोकस्यावतरणिकां करोति एवम् इति ।
अत्र टीका:-
प्रमाणम्, साधकमिति भावः, बाधकम् - नाशकं प्रमाणम्, सामान्यम् - सामान्यलक्षणम्, विशेषः - विशेषलक्षणम्, तयोर्मुखेन - द्वारण, निरुपयति, निर्णयविषयतां नयतीत्यर्थः । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । द्विष्ठस्य इति ।
अत्र टीका :-
तावत्, नात्र विप्रतिपत्तिरित्यर्थः । प्राप्तिभाजोः - कुण्डबदरादिरूपयोः तन्तु पटादिरूपयोश्च परस्परश्लेषभाजोः विषये, एकः - एकरूपः, सामान्यलक्षणम्, प्रकृतत्वात् सम्बन्धस्य, तच्च - सामान्यलक्षणञ्च कथम्, इह न सम्भवतीत्यर्थः । एकत्र - एकस्मिन् वस्तुनि कुण्डादिरूपे तन्त्वादिरूपे वा । अनेक इति सूत्रस्थं पदं व्याचष्टे स्वरूप इति । तन्मूलाः - संयोगसमवायमूलाः, अन्ये - कार्यकारणभावादयः सम्बन्धाः, धुरम् - अवस्थाम् ।
सामान्यमुखेन निरूप्य विशेषमुखेनापि निरूपयति योपि इति । तत्कल्पनया
- चेतनकल्पनया, पारतन्त्र्यात्मा - अन्योन्यपारतन्त्र्यरूपः । तत्र - तस्मिन् सम्बन्धे, सिद्धस्य - चेतनस्य, सिद्धत्वादेव, न हि सिद्धस्य पारतन्त्र्यं युक्तम् असिद्धत्वापातात् इति भावः ।
सिद्धस्य न पारतन्त्र्यम् अस्ति सिद्धत्वादेव, असिद्धस्य नतरां निःस्वरूपस्य ताद्धर्म्यायोगात् । एवमपेक्षायामपि वाच्यम् । द्वे च रूपे कथं श्लिष्यतः ? द्वयोरेकत्वानुपपत्तेः; एकत्वे वा कः श्लेषः ? तस्मात् ज्ञानसम्बन्धात् “ज्ञाता” इति यथा विकल्पकल्पितोऽर्थो न वस्तु तथा क्रियासम्बन्धात् “कर्ता” इत्यपि कल्पनामात्रम् - इति पूर्वपक्षस्य [इति पूर्वपक्षः - क्। ष्। ष्।] सङ्क्षेपः । इति शिवम् ॥ ११ ॥ आदितः १६ ॥
इति श्रीमदाचार्यभिनवगुप्तविरचितायां प्रत्यभिज्ञासूत्रविमर्शिन्यां ज्ञानाधिकारे पूर्वपक्षविवृतिर्नाम द्वितीयमाह्निकम् ॥ २ ॥
असिद्धस्य - अचेतन्स्य, ततराम्, अतिशयेन नस्तीत्यर्थः । एवम् - पारतन्त्र्यवत्, अपेक्षायाम् - सूत्रे आदिशब्दगृहीते अपेक्षारूपे सम्बन्धे । एवं सम्बन्धस्य सूत्रोक्तं स्वरूपाऽसम्भवं व्याख्याय विषयाऽसम्भवं स्वबुद्द्ध्याऽऽह द्वे च इति । द्वे च - कुण्डबदरादिरूपे तन्तुपटादिरूपे वा, हेतुमाह द्वयोः इति । तर्ह्येकत्वमेव तयोर्भवत्वित्यत्राह, एकत्वे वा इति । कः, न कोपीत्यर्थः । पञ्चम्युक्तस्य हेतुत्रयस्य पूर्वश्लोकस्थं सम्बन्धनास्तित्वसाधनं प्रति हेतुत्वं ज्ञेयं । पूर्व कृतेन ज्ञातृत्वबाधेन सह सम्बन्धासम्भवमुखेन समनन्तरसाधितं कर्तृत्वाबाधं समुच्चिनोति तस्मात् इति । तेन इत्यस्य सूत्रस्थस्य तस्मात् इत्येनेन व्याख्या, न वस्तु - परमार्थभूतो न भवति, एतेन सूत्रस्थस्य अपि शब्दस्य समुच्चयसूचकत्वं द्योतितम् ।
प्रमेयमुपसंहरति इति इति । इति, एवमित्यर्थः, पूर्वपक्षस्य - बौद्धादि - सिद्धान्तरूपस्य, सङ्क्षेपः, सङ्क्षिप्ततया कथनमित्यर्थः । इति शब्दः समाप्तौ, शिव शब्दो मङ्गलवाचकः परतत्त्वसूचनपरश्च । इति शिवम् ॥ ११ ॥
इति श्रीभास्करकण्ठविरचितायां श्रीप्रत्यभिज्ञासूत्रविमर्शिनी - टीकायां श्रीभास्कर्याव्याख्यायां ज्ञानाधिकारे द्वितीयमाह्निकं समाप्तम् ॥