मूलम्

कथञ्चिद् आसाद्य महेश्वरस्य
दास्यं जनस्याप्य् उपकारमिच्छन्। समस्त-सम्पत्-समवाप्ति-हेतुं
तत्-प्रत्यभिज्ञाम् उपपादयामि ॥ १ ॥

अभिनवगुप्तः

इह परमेश्वरं प्रति
या +इयं काय-वाङ्-मनसां तद्-एक-विषयता-नियोजना-लक्षणा प्रह्वता
सा नमस्कारस्य अर्थः ।

भट्टभास्कर-टीका

अत्र टीका :-

श्लोकं व्याक्यास्यन्न् अज्ञेषु नमस्काराकरण-शङ्काम् अपनोदितुम् आह - इह इत्यादि ।
सः एकः - परमेश्वरः, विषयः - आलम्बनं यस्याः सा तस्या भावः तदेकविषयता, तस्यां नियोजना - प्रेरणा, सा लक्षणम् - स्वरूपं यस्याः सा तादृशी । प्रह्वता - प्रह्वीभावः । अर्थः - अभिधेयम् । तत्र प्रह्वतायाः कायेनाष्टाङ्गप्रणतिरूपत्वम्, वाचा उच्चारणम्, मनसा परामर्शविषयत्वमिति विभागो ज्ञेयः ।

अभिनवगुप्तः

सा च तथा कर्तुम् उचिता
प्रामाणिकस्य भवति,
यदि सर्वतो नमस्करणीयस्य उत्कर्षं पश्येत् ।
अन्यथा युक्तिम् अ-परामृशतः
अ-परमार्थेऽपि [अपरमार्थरूपे - क्। ष्। ष्।] नमस्-कारोद्यतस्य
सांसारिक-जन-मध्य-पातित्वम् एव [सांसारिकपशुजन - क्। ष्। ष्।] ।
यथोक्तम् :-

“न विन्दन्ति परं देवं
विद्या-रागेण रञ्जिताः” ।

इति ।

भट्टभास्कर-टीका

“सा च” इति । सा - प्रह्वता । “तथा” शब्दः तदाशब्दार्थे, प्रामाणिकस्य - प्रेक्षापूर्वकारिणः । सर्वतः - सर्वेभ्यः जडाजडेभ्यः ।

नमस्करणीयस्य - त्रिविधनमस्कारविषयीकर्तुमारब्धस्य, उत्कर्षम् - सर्वैर्गुणैः श्रेष्ठताम् । अन्यथा - उत्कर्षदर्शनाभावे, युक्तिम् - उत्कर्षे नमस्कारकरणरूपाम्, अपरामृशतः - अविचारयतः ।

अपरमार्थे - परमेश्वरव्यतिरिक्ते जलबुद्बुदप्राये देवताविशेषे, नमस्कारोद्यतस्य - नमस्कारे प्रवृत्तस्य, अत्र चाज्ञत्वेनष्टलाभलोभेन वेति शेषः । सांसारिको यो जनः - धनादिलोभेन राजादौ नमस्कारोद्यतः, तन्मध्यपातित्वम् - तन्मध्यगतत्वम्, तत्समानयोगक्षेमत्वम्, तत्सदृशत्वमिति यावत् । अत्रागमं संवादयति यथोक्तम् इति ।

उक्तम् एवोपन्यस्यति वैष्णवाद्याः इति । अत्र पदेऽयमर्थः । तु शब्दः शैवादिभ्यो व्यतिरेकद्योतनपरः । ये केचिद्वैष्णवाद्याः - वैष्णवबौद्धप्रभृतयः भवन्ति । ते सर्वे विद्यया - किञ्चिज्ज्ञत्वरूपाशुद्धविद्यातत्त्वेन, रागेण - रागतत्त्वेन च, समाहारे द्वन्दः, रञ्जिताः - वैष्णवबौद्धाद्यधरदर्शनेषु आसक्तिं नीताः सन्तः । परम् - समस्ततत्त्वोत्तिर्णम्, देवम् - क्रिडाशीलम्, सर्वज्ञम् - सर्वविषयवर्णयुक्तम्, तथा ज्ञानेन - तेनैव सर्वविषयज्ञानेन, शालते इति तच्छीलम्, अर्थादात्मरुपपरमेश्वराख्यं देवम् । न विन्दन्ति - स्वेष्टदेवताभावेन न लभन्ते, अन्यथा देवाभासेषु भ्रमायोगात् । तथा च राजादिसेवनपरलौकिकजनवत् पशुत्वमेव तेषामिति भावः ।

अभिनवगुप्तः

तावति हि मायीयाशुद्ध-विद्या-राग-कला-सञ्चार्यमाणस्य पशुत्वम् एव ।

भट्टभास्कर-टीका

आगमसंवादितेऽर्थे वाक्येन हेतुं कथयति तावति इति । तदाश्रितं पदं तावत्, “हि” शब्दो हेतौ, मायीया - अवरोहे मायानन्तरं स्थितत्वेन तत्कार्या, या अशुद्धविद्या - किञ्चिज्ज्ञत्वरूपा, तया या रागकला - रागांशः, तया सञ्चार्यमाणस्य - यत्र तत्र देवाभासेषु भ्रामितस्य, पशुत्वम् - लौकिकजननिष्ठः पशुभाव - एव भवति । परतत्त्वानभिज्ञत्वात् ।

ननु तर्हि तस्य तत्पदाश्रयणं व्यर्थमेवेत्यपेक्षायामाह इतर इति । इतरे - बौधादयः लौकिकाश्च, अध्वानः - तत्त्वभूमिकाः ।

अभिनवगुप्तः

तद् उक्तम् :-

“कस्य नाम करणैर् अ-कृत्रिमैः
पश्यतस् तव विभूतिम् अक्षताम् ।
विभ्रमाद् अवरतोऽपि जायते
त्वां व्युदस्य वरद-स्तुति-स्पृहा
[वरद स्तुतिस्पृहा - क्। ष्। ष्।] ॥”

इति श्रीमद्-विद्याधिपतिना [श्रीमद्विद्यापतिना - क्। ष्। ष्।] ।
एतच् च आगम-काण्डे निरूपयिष्यामः ।
तस्मात् निखिलोत्कर्ष-परामर्शनम् अपि तत्र स्वीकार्यम् ।

भट्टभास्कर-टीका

अत्र श्रीविद्याधिपतिमतं संवादयति तदुक्तम् इति । श्रीविद्याधिपतिना तदुक्तमिति व्यवहितेन सम्बन्धः । अस्य पद्यस्यायमर्थः । अकृत्रिमैः - त्वद्विभूतिमयत्वेन सहजैः, करणैः - बाह्यान्तः - करणैः, अन्यथाभानेपि परमार्थतः तव - ते सम्बन्धिनीम्, अक्षताम् - सम्पूर्णाम्, विभूतिम् - तत्त्वषट्त्रिंशकरूपमैश्वर्यम् पश्यतः - स्वभावबलेन गृह्णतः, कस्य नाम - वैष्णवादेः अधरदर्शनस्थस्यापि । त्वां व्युदस्य - भवन्तं त्यक्त्वा, वरदे - वरदातरि स्वेष्ट देवताविशेषे, स्तुतिस्पृहा - स्तुत्याकाङ्क्षा, जायते । न कस्यापीत्यर्थः ।

अन्यदेवतानिष्ठा अपि परमार्थतस् त्वन्निष्ठा एवेति भावः । यत्स्वयं भगवतोक्तम् :-

ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्

इति । श्रीतन्त्रालोकेपि :-

इतरापेक्षया तु कतिपयाध्वोत्तीर्णतया समुत्कर्षोऽपि स्यात् ।

ये बोधाद् अतिरिक्तं हि
किञ्चिद् याज्यतया विदुः ।
ते ऽपि बोधं विविञ्चाना
बोधाभेदेन मन्वते ॥

इति । कुतो हेतोः ? अप्यवरतः - भेदपदस्थत्वेनाधरदर्शनस्थात्, विभ्रमात्

  • देवाभासे देवत्वज्ञानरूपात । विपर्ययज्ञानादपीत्यर्थः ।

स्तुतिस्पृहाव्युदासयोरेककर्तृत्वमाश्रित्य स्थितः क्त्वाप्रत्ययो न दुष्टः ।

तथा च स्फ्टमेव वैष्णवादे राजादिनिष्ठेभ्यः कतिपयाध्वोत्तीर्णत्वमिति भावः । यद्यपि राजादौ नमस्कारोद्यतस्यापि परमार्थतस्तत्परत्वमेव, तथापि बहुव्यवधानतया तदसङ्कल्प्यमेवेति । नन्वयं तत्त्वभूमिकाविभागः कुत्रोक्तः इत्यत्राह एतच्च इति ।

एतत् - तत्त्व भूमिकानुरोधेन स्थितमुत्तीर्णत्वादि । उपसंहारं करोति तस्मात् इति ।

नमस्कारयोग्यतापादकत्वेनेत्यर्थः । तत्र - नमस्कारे, स्वीकार्यम्, अनुक्तमप्याक्षेप्तव्यमित्यर्थः ।

अभिनवगुप्तः

यद्य् अपि आयात-दृढेश्वर-शक्ति-पातस्य
स्वयम् एवेयम् इयती परम-शिव-भूमिर्
अभ्येति हृदय-गोचरम्,
न तु +अत्र स्वात्मीयः पुरुषकारः कोऽपि निर्वहति -
सर्वस्य तस्य मायामयत्वेनान्धतमस-प्रख्यस्यामायीयं शुद्ध-प्रकाशं स्वप्रतिद्वन्द्विनं प्रति उपायतानुपपत्तेः।

भट्टभास्कर-टीका

ननु तीव्रतरशक्तिपात-स्पृष्टे
परमेश्वरोत्कर्षः स्वयम् एव स्फुरन् दृष्टः
किं तस्य बलात् स्वीकरणेनेत्य् आशङ्कापूर्वं
तत्-स्वीकरणम् अवश्य-करणीयत्वेन कथयति
यद्यपि इत्यादिना ।

दृढः - तीव्रतरः, स्वयमेव - तद्वाचकशब्दपरामर्शनं विनैव, इयती - स्वान्तःकृतसमस्ततत्त्वा, परमशिवभूमिः - परमशिवमितिः, परमशिवस्वरूपमिति यावत् ।

हृदयगोचरम् - स्वसंवेदनवेद्यताम् । न तु इति पक्षान्तरसूचनपरम् ।

अत्र - परमेश्वरोत्कर्षस्फुरणे, पुरुषकारः - तद्वाचकशब्दपरामर्शनरूपः, निर्वहति - प्रगल्भते । मायामयत्वेन

  • भेदेन स्फुरणानीतेन मायारूपत्वेन । स्वप्रतिद्वन्द्विनम् - शत्रुभूतम्, न हि तमसः तेजःसाधने उपायता दृष्टेति भावः ।

एवमयुक्तत्वं साधयित्वा तत्त्वेपि प्रयोजनवशेनोत्कर्षपरामर्शस्याऽवस्यकर्तव्यतां कथयति तथापि इति ।

अभिनवगुप्तः

तथा ऽपि तद् एव तथाविधं रूपं
प्रख्योपाख्या-क्रमेण स्वात्म-परावभास-विषय-भाव-जिगमिषया
निःशेषोत्कर्ष-विशेषाभिधीयि - जयत्य्-आदिशब्दानुवेधेन परामर्शनीयम्,
इति नमस्कारे जयत्यर्थ आक्षेप्यः ।

भट्टभास्कर-टीका

तथापि तथाविधम् - उत्कर्षगुणयुक्तम्, तदेव रूपम् - प्रक्रान्तं परमेश्वरस्वरूपमेव न त्वनयदपि किञ्चित् ।

अस्य तत्सृष्टत्वेन सर्वोत्कृष्टत्वायोगात् । निःशेषेभ्यो यः उत्कर्षः - ऊर्ध्वपदस्थत्वम्, तस्य यः विशेषः तमभिदधाति - तत्र सङ्केतितत्वात् कथयतीति तादृशः यो जयत्यादिः शब्दः, आदिग्रहणेनाऽन्येषां पर्यायाणां ग्रहणम्, तस्य योऽनुवेधः - व्याप्तिः तेन, मानसिकतदुच्चारपरामर्शद्वारेणेति यावत् । परामर्शनीयम् - विमर्शविषयीकार्यम् । करणे तृतीया । कया हेतुभूतया ? प्रख्या - प्रकृष्टज्ञानरूपः आन्तरः वाच्यविषयः परामर्शः, उपाख्या - तत्समीपवर्ती स्फुटः तद्वाचकनिष्ठः उच्चारः, तयोर्यः क्रमः तेन ।

स्वात्मपरावभासविषयभावं गन्तुमिच्छा गच्छत्वित्येवं रूपा तया ।

तत्र प्रक्यया स्वात्मावभासविषयीभावः, अन्तःस्फुरितं हि स्वात्मैव विषयीकर्तुं शक्तः, उपाख्यया परावभासविषयीभावः, स्फुटमुच्चारितस्य शब्दस्यार्थं हि परोपि ज्ञानविषयीकरोति । फलितं कथयति “इति” इति । इति - अतः कारणात्, आक्षेप्यः - तत्र साक्षादनुक्तोप्याक्षेपविषयतां नेयः ।

अभिनवगुप्तः

जय-पदोदीरणेऽपि
तादृश-समुत्कर्षातिशय-शालिनि
स्वात्मानम् अप्रह्वीकुर्वाणस्य तटस्थस्य परम् अनात्मोपकारित्वम्
इति समुत्कर्ष-विशेषाक्षिप्त एव
नमस्-कारो ऽवश्यम् अभ्यन्तरीकार्यः,
इत्यनया युक्त्या जय-नमस्कारैकतर-प्रक्रमे
अन्यतरस्य अर्थाक्षिप्तता अवश्यमङ्गीकर्तव्या ।

भट्टभास्कर-टीका

ननु तर्हि केवलमुत्कर्षवाचिजयशब्दोदीरणमेव किं न कुर्म इत्यपेक्षायामाह जय इत्यादि । जय पदस्य यदुदीरणम् - उच्चारणम् तत्र । तटस्थत्वमत्र नमस्काराकरणरूपं ज्ञेयं । अभ्यन्तरीकार्यः - अध्याहृत्य योजनीयः । तथा चात्रापि आक्षेपस्यावश्यकार्यत्वमेवेति भावः । एवं युक्तिमुक्त्वा तत्सिद्धं वस्तु कथयति इत्यनया इत्यादिना ।

अभिनवगुप्तः

वन्दन-नमन-स्मरण-प्रध्यान-प्रभृतीनाम् अपि
नमस्कार-जयत्य्-अर्थ-मात्र-परमार्थत्वाद्
इयमेव वर्तनी ।

भट्टभास्कर-टीका

ननु किं जयनमःपदयोरेवेयं वर्तनी, अथवा सर्वेषां तत्पर्यायाणामित्यत्राह वन्दन इति । तत्र वन्दननमनयोर्नमस्कारार्थत्वम् । अन्यस्य त्रयस्य तु जयार्थत्वम् ।

आदिशब्देनान्येषामपि तत्पर्यायाणां ग्रहणम् ।

अभिनवगुप्तः

अत्रायं पुनर् ग्रन्थकृता तादृक् प्रक्रम आश्रितः,
यत्र द्वयम् (जयार्थः नमस्कारार्थश् च) अपि इदं स्व-शब्द-परामृष्टमेव ।
एतच् च पदार्थ-व्याख्यानावसर एव प्रकटीभविष्यति ।

भट्टभास्कर-टीका

ननु भवत्वेवम् अस्मिंस्तु ग्रन्थे तयोरेकमपि न दृश्यते इत्यपेक्षायामाह अयम् इति ।
“पुनः” शब्दो विशेषे, प्रक्रमः - सर्वातिशायिनी परिपाटी, द्वयम्, जयार्थः नमस्कारार्थश्चेत्यर्थः ।
स्वशब्देन - स्ववाचकशब्देन, परामृष्टम् - परामर्शविषयीकृतम्, उक्तमिति यावत् ।
“एव” शब्दोऽन्ययोगव्यवच्छेदपरः । पदार्थ इति ।
पदार्थानां यद् व्याख्यानम् - प्रकृतिप्रत्ययविभागेन स्फुटीकरणम्, तस्यावसरे - समये प्रकटोभविष्यति इत्यनेन साक्षात्कथननिरासः ।
तत्र हि महेश्वर-पद-व्याख्यया सर्वोत्कृष्टत्वं प्रकटीभविष्यति ।
सर्वोत्कृष्टताया अभावे हि ईश्वरत्वमपि वक्तुमयोग्यमेव,
का कथा महेश्वरत्वस्य ।
दास-पद-व्याख्यया तु प्रह्वता ।

न हि स्वात्मानमप्रह्वीकुर्वाणाय वराटिकामपि कोपि ददाति । का कथा सर्वदानस्य ।

अभिनवगुप्तः

स्व-शब्दपरामर्शश् च सर्व-जन-हितत्वाद् युक्ति-युक्तः,
स हि सर्वस्यैव झट् इति हृदयङ्-गमः।
अर्थाक्षिप्तस् तु
कतिचिद् एव प्रति
स्व-प्रतिभोदित-वाक्-तत्त्वावमर्शासम्भवात्,
वाक्-तत्त्वावमर्श-शून्यस्य च प्रकाशस्याप्रकाश-कल्पत्वात् ।

एतच्च अग्रे स्फुटीभविष्यति ।

अभिनवगुप्तः

तदनेन अभिप्रायेण प्रसिद्ध-जय-नमः-प्रभृति-शब्द-शय्यानाश्लेषेण
इमां सरणिम् अनुसरति स्म ग्रन्थकारः ।

ननु ग्रन्थकृतापि किं न लाघवार्थम् आक्षेपादरः कृत
इत्य् अपेक्षायाम् आह - स्वशब्द इति । ननु किं तर्हि अर्थाक्षिप्तस्य सर्वथा हृदयङ्गमत्वं नास्तीत्याशङ्क्याह कतिचिदेव इति ।

स्वप्रतिभोदितवाक्तत्त्वावर्मर्शयुक्तान् कांश्चिदेव प्रतीत्यर्थः । अत्र हेतुमाह स्वप्रतिभा इति । सर्वेषामिति शेषः ।
स्वस्य या प्रतिभा - नव-नवोल्लेख-शालिनी बुद्धिः,
तया उदितो यः वाक्तत्त्वावमर्शः - वाक्तत्त्व विषयः अवमर्शः परामर्शः तस्यासम्भवात् ।
एतेन सर्वदा गुरुमुख-प्रेक्षिणाम् आक्षेपादि-सिद्धार्थ-बोधे ऽयोग्यता सूचिता ।

इह यद्यत्किञ्चन [किञ्चित् - क्। ष्। ष्।] स्फुरति तत्तद्वक्ष्यमाणेश्वर - रूपस्वात्मप्रथामात्रम्, तत्र तु उपायोपेयभावप्रभृतिः कार्यकारणभावोऽपि यथाप्रकाशं परमार्थभूत एव, प्रकाशस्य अनपह्नवनीयत्वात् । यदाह भट्टदिवाकरवत्सो विवेकाञ्जने :-

“प्रकाशश्चैव [प्रकाशश्चैष - क्। ष्। ष्।] भावानाम् …”

इत्यादि

“…ण शापोक्त्या विलीयते ।”

ननु वाक्तत्त्वावमर्शो मा भवतु ततः किमित्यपेक्षायामाह वाक्तत्त्व इति ।

अप्रकाशकल्पत्वात्, सद्योजातबालदीपदर्शनस्य यथाऽदर्शनसदृशत्वं भवति तथाऽप्रकाशसदृशत्वादित्यर्थः । अग्रे - स्वभावमवभासस्य इति कारिकायाम् । प्रक्रान्तां प्रक्रियामुपसंहर्ति तदनेन इति । तत् - तस्मात्कारणात् । अनेन - सर्वहृदयङ्गमतारूपेण, इमाम् - स्वशब्दपरामर्शरूपाम्, समनन्तरोक्तामित्यर्थः ।

प्रसिद्धजयनमःप्रभृतिशब्दशय्याश्लेषणे आक्षेपस्यावश्यकर्तव्यता स्यादिति भावः ।

एवं नमस्कारस्य सम्भवं प्रसाध्य कथञ्चित् इति पदं व्याख्यातुं प्रक्रियां तनोति इह इत्यादिना । यद्यत् किञ्चन - यद्यत्किञ्चिदति इति तत्सम्पादनमपि सत्वकार्यमेव, यदर्थं हि यदपेक्षते सा तस्यार्थक्रियैवेत्यत आह तत्र इति । तत्र - सत्त्वे, आभासान्तरस्य - उदकाद्याहरणरूपस्य, पात्राभासस्य - इति ।

अन्यथाऽग्न्यानयनासम्भवात् इति भावः । कुत इत्यपेक्षायामाह तदाभास इति । तदाभासेन - सत्त्वाभासेन यत् नान्तरीयकत्वम् - अविनाभावः तेन, नियतस्य - अवश्यम्भाविनः, आभासान्तरस्य - उदकाहरणादिरूपस्यान्यस्याभासस्याऽपेक्षणात् । अग्न्याभासेन पात्राभासो नियतोऽपेक्ष्यते एवेति दृष्टान्तीकृतः ।

प्रक्रियामुपसंहरति, एवम् इति । मुखेन - सत्त्वादिना द्वारेण, अर्थः - घटादिः, आभासमात्रात्मैव - आभासमात्ररूप एव, तथैव - आभास मात्रभावेनैव, प्रतिभासनात् - स्फुरणात्, विमर्शनात् - विमर्शकरणात्, इति

करणाच्च इति सिद्धम् । एवं प्रसिद्धतरप्रसिद्धाप्रसिद्धत्वातिशयेन एकोऽपि अर्थो ग्रन्थकारेण त्रैधं निरूपितो दीर्घवृत्तेति धूमेति सद्धटेति ॥ ५ ॥

सिद्धम्, एतत्सिद्धं भवतीत्यर्थः । स्थानत्रयं विभज्य दर्शयितुमुपसंहारं करोति एवम् इति । तत्र प्रसिद्धस्य प्रसिद्धतरेण हस्तादानम्, अप्रसिद्धस्थ तु प्रसिद्धेनेति ज्ञेयम् ।

रूपत्रयमेव दर्शयति दीर्घ इति ।

एवमत्र पिण्डार्थः । दीर्घवृत्तोर्ध्वम्पुरुषाश्च धूमचान्दनतादयश्च ते यथा प्रसिद्धतरत्वेन स्थिताः दीर्घादिरूपाः आभासाः, तथा प्रसिद्धत्वेन स्थिताः घूमादय आभासाः, देशकालविभेदिनः - देशकालभेदरूपस्य तद्देशत्वेन तत्कालत्वेन च स्थितस्यैकस्य वस्तुस्वलक्षणस्य सम्बन्धिनोऽपि सन्तः, भिद्यन्ते - रुच्यादिवशेन भेदेन भासन्ते, तथा - तद्वद् तद्दृष्टान्तेनेति यावत्, अप्रसिद्धाः सद्धटद्रव्यकाञ्चनोज्ज्वलतादयः आभासभेदाः भिद्यन्ते - रुच्यादित्रयवशेन भेदभासादयन्ति । तत्र दीर्घादीनां कदाचित् रुच्याऽऽभासनं कदाचिदर्थित्वेन कदाचिद्व्युत्पत्या । तत्र तेषां दीर्घादीनाम् आभासानां धूमाद्याभासानां च रुचौ अन्यथात्वम्, अर्थित्वेऽन्यथात्वम्, व्युत्पतौ चान्यथात्वम्, रुचौ हि निष्प्रयोजनं तथा स्फुरणम्, कथम् ? …ऽर्थित्वे अतिप्राप्यत्वेन, व्युत्पत्तौ शिक्षामात्रार्थमेव, यथात्र व्युत्पन्नः स्यादिति । इति सर्वत्र रुच्यादित्रययोजनं कार्यम् । तत्र रुचिः - निष्प्रयोजनं वस्तुनो ज्ञाने निर्देशे वा, अर्थित्वम् सर्वव्यवहारेषु, व्युत्पत्तिः शिक्षाग्रहणसमये शिक्षादानसमये चेति । तथा ते - आभासभेदाः, भिन्नार्थकारिणः - भिन्नार्थक्रियाकराः, तथा, ध्वनेः शब्दस्य तन्मूलस्य विमर्शस्य च पदं - विषयः भवन्ति, दीर्घस्य तिरोधानरूपार्थक्रियाकारित्वाद्दीर्घोयमिति विमर्शेन ग्रहणात् दीर्घोऽयमिति शब्दविषयत्वाच्च । एवं सर्वत्र ज्ञेयम् । ४ । ५ ।

ननु एवं प्रत्याभासमेव वस्तुत्वे एको घटात्मा न वस्तु स्यात् इत्याशङ्क्याह

आभासभेदाद्वस्तूनां नियतार्थक्रिया पुनः ।

सामानाधिकरण्येन प्रतिभासादभेदिनाम् ॥ ६ ॥

आभासानां मिश्रं यद्रूपं तत्र अवश्यं कश्चिदाभासः प्रधानत्वेन अन्याभासानां विश्रान्तिपदीकार्यः [विश्रान्तिपदीकर्तव्यः क्। ष्। ष्।] स तेषां समानमधिकरणम्, तेन

अथ षष्ठस्य श्लोकस्यावतरणिकां करोति नन्वेम् इति । स्पष्टम् । एवम् - वतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे आभास इति ।

अत्र टीका :-

प्रथमं सामाधिकरण्येन इति पदं व्याचष्टे आभासानाम् इति । मिश्रम् - मिश्रतया स्थितम्, स्वलक्षणरूपमिति यावत् । तत्र - तस्मिन्मिश्रखपे, विश्रान्तिपदीकार्यः - विश्रान्तिस्थानतया भावनीयः, हृद्भङ्गनिवृत्यर्थित्वे सत्वाभास इव घटाभासादीनाम्, अथवा उदकाहरणार्थित्वे घटाभास इव सत्वाभासादीनाम् । सः - प्रधानीकृत आभासः, तेषाम् तद्व्यतिरिक्तानामाभासानाम् । समानमधिकरणम् एकं स्थानं तत्रैव धर्मत्वेनारोपणात् । तद्धितप्रत्ययव्याख्यां करोति तेन इति । तेन - समानाधिकरणेन, सह तेषाम् - आधेयभूतानामाभासानाम्, यः सम्बन्धः - आधाराधेयभावाख्यः । तृतीयायोजनं करोति तेन

सह यस्तेषां सम्बन्धः तत् सामानाधिकरण्यम्, तेन उपलक्षितो यः प्रतिभासः - अर्थोन्मुखः प्रकाशः तदनुप्राणकश्च [तदनुप्राणकश्च कश्चन पदात्मा - क्। ष्। ष्।] नपदात्मा परामर्शः - तस्य सर्वस्य एकाभासविश्रान्ततानियमात्, तस्मात् तं सामानाधिकरण्याभासं समनुप्राणयति यो वाक्यात्मा वाक्यार्थपरामर्शरूपो विमर्शः - इह इदानीं एष घटोऽस्ति इत्येवंरूपः ततो हेतोः ये अभेदिन

इति । उपलक्षितः - विशिष्टीकृतः । एतेनोपलक्षणे इयं तृतीयेति द्योतितम् । प्रतिभासात् इति पदं व्याचष्टे अर्थोन्मुखः इति । अर्थोन्मुखः - अर्थं विषयीकर्तुं प्रवृत्तः, प्रकाशाव्यभिचारेण विमर्शस्यापि ग्रहणं करोति तदनु इति । तदनुप्राणकः - प्रकाशस्यासत्कल्पतानिवारकः, [असत्कल्पनिवारकः - च्।] यः नपदात्मा - नपदम् आत्मा रूपं यस्य सः नपदात्मा, परामर्शः - विमर्शः । कुतो नपदात्मेत्यपेक्षायामाह तस्य इति ।

तस्य सर्वस्य - पदात्मनः परामर्शस्य, एकाभासविश्रान्ततानियमात् - वाक्याभासरूपैकाभासविश्रान्तत्वनियमात्, न हि पदस्य स्वरूपे प्राधान्यं तस्य वाक्ये ब्रुडितत्वात् इति भावः । तर्हि किंरूपः स परामर्शः इत्यपेक्षायामुपसंहाररीत्या कथयति, तस्मात् इति ।

तस्मात् - ततः कारणात्, सामानाधिकरण्याभासम् - उपलक्षणत्वेन स्थितं पूर्वोक्तं सामानाधिकरण्याभासम्, समनुप्राणयति - पुष्टीकरोति, यो वाक्यात्मा - वाक्यसंस्कारत्वेन स्थितः, वाक्यार्थपरामर्शरूपो विमर्शः - परामर्शस्तदनुप्राणकः पदात्मपरामर्शव्यतिरिक्तः, वाक्यात्मा च यः परामर्श इति यावत् । वाक्यात्मानं परामर्शमेवानुकृत्याह इह इति । इह अस्मिन् देशे, इदानीम् - अस्मिन् काले, एषः - एवङ्गुणकः, घटः अस्ति । तत्र इहेति देशाभासः, इदानीमिति कालाभासः, एष इति गुणाभासः, घट इति जात्याभासः । अत्र च घटाभासस्यैव समाना

एकस्वलक्षणताम् प्राप्ता [एकस्वलक्षणतामाताः - क्। ष्। ष्।] न च स्वरूपभेदम् [न तु - क्। ष्। ष्।] उज्झन्तः तेषाम् अन्या विशिष्टा समुदिता [समुदितरूपा - क्। ष्। ष्।] अर्थक्रिया । आभासविमर्शभेदे पुनरन्या नियता एकैकमात्ररूपा । आभासप्रतिभासशब्दाभ्यां सूत्रे विमर्शोऽपि आक्षिप्तो मन्तव्यः । पुनः शब्दो विशेषद्योतकः काकाक्षिवत् उभयत्र

धिकरणत्वं । तदाश्रयत्वेनैवान्याभासस्थापनात् । यो ये इत्यस्य द्वयस्याकाङ्क्षां पूरयन् प्रतिभासात् इति पञ्चमीयोजनां करोति ततः इति । ततः - प्रतिभासाद्वाक्यात्मकपरामर्शाच्च हेतोः ।

अभेदिनाम् इति व्याचष्टे एक इति । एकस्वलक्षणतां प्राप्ताः - देशादिमिश्रता भावजातम् । परिस्फुरति - भासते । वक्ष्यमाणश्चासौ ईश्वररूपः स्वात्मा तद्रूपा या प्रथा - प्रकाशः तन्मात्रम् ।

तद्वदहमितिपरामर्शमात्र - विषयत्वयोग्यत्वादित्यर्थः । ननु भवत्वेवं ततः किमित्यत्राह तत्र इति । तत्र - स्फुरणशीलभावजातमध्ये, तु व्यतिरेके, यथाप्रकाशम् - प्रकाशभावानतिक्रमेण, न तु मायीयेन स्वेन रूपेणेत्त्यर्थः । सत्यभूतत्वे हेतुमाह प्रकाश इति ।

अनपह्नवनीयत्वात् - अपह्नोतुमशक्यत्वात् । यतः प्रकाशमानस्य केनाप्यपह्नवो न कर्तुं शक्यते ततः प्रकाशमानस्य कार्यकारण भावस्यापि परमार्थभूतत्वमित्यर्थः । “प्रभृति” शब्देन ज्ञाप्यज्ञापकभावादिग्रहणम् । अत्र वृद्धसम्मतिमाह यदाह इति ।

विवेकाञ्जने, एतन्नामके शास्त्र इत्यर्थः । तत्रत्यं ग्रन्थमाद्यन्ताभ्यामुपलक्षयति प्रकाशश्चैव इति ।

तत्र तु कार्यकारणभावेऽपि क्वचित् परिपूर्णस्वातन्त्र्यलक्षणमाहेश्वर्यनान्तरीयकताक्रोडीकृतानन्तशक्तिच् अ - क्रचुम्बितभावभावितप्रथान्तरव्यवधानं चकास्ति; स तु मायीयत्वेन स्थापयिष्यते, [व्यवस्थापयिष्यते - क्। ष्। ष्।] जडचेतनाद्यवान्तरभेदशतसम्भिन्नश्च असौ, तत्कृतश्च सर्वोऽयं निष्पाद्य - निष्पादकभावज्ञाप्य - ज्ञापकभावावभासो लोकव्यवहाररूपः । यत्र तु शुद्धस्वात्मरूपप्रथात्मकानुत्तरशक्तिशालिनिरर्गलस्वात्मप्रकाश [शुद्धप्रथात्मक - क्। ष्। ष्।] एव मायीयप्रथान्तरव्यवधानवन्ध्यो निबन्धनम्, तत्र तस्यैव भगवतः कारणत्वम् । एष च अनुग्रहलक्षणोऽन्त्यः

ननु ततोपि किमित्यत्राह तत्र तु इति । तत्र - समस्तकार्यकारणभावमध्य इत्यर्थः । क्वचित् - लौकिके, परिपूर्णम् - न तु क्वचित् पराहत्य खण्डितम्, यत्स्वातन्त्र्यलक्षणम् - सर्वत्रानन्यमुखप्रेक्षित्वस्वरूपम्, माहेश्वर्यम्

  • महेश्वरभावः, तेन नान्तरीयकतया - स्वव्याप्त्या, क्रोडीकृतम् -

तेन स्वातन्त्र्यशक्त्यैव युक्त इत्याञ्जसो विधिः

इति तन्त्रालोकनयेन स्वान्तःकृतम्, यच्छक्तिचक्रम् - शक्तिसमूहः, तेन चुम्बिताः - स्पृष्टाः, सारभावेन स्थित्वा व्याप्ता इति यावत्, ये भावाः - पदार्थाः, तैर्भावितम् - प्रकटीकृतम्, यत्प्रथान्तरम् - शुद्धप्रकाशव्यतिरेकेण भासमानं स्वविषयं ज्ञानम्, तेन व्यवधानम् - तत्कृतं परमेश्वररूपस्वात्माऽस्फुरणम् । चकास्ति - स्फुरति । अन्यथा सर्वत्र प्रकाशपरमार्थत्वेऽस्येदं कार्यमस्येदं कारणमिति विभागायोगादिति भावः । मायीयत्वेन - भेदस्फूर्त्यन्यथानुपपत्त्यागतेन मायाकार्यत्वेन, स्थापयिष्यते, इहैवाग्र इति शेषः । जड इति । जडम् - बिजादि, चेतनम् - पुरुषादि । ननु भवत्वसौ कार्यकारणभावः एवंरूपे, अन्यस्तु कीदृशोस्ति, इत्यपेक्षायामाह यत्र तु इत्यादि । शुधा - व्यतिरिक्तप्रथनीयाऽरूषिता या स्वात्मरूपा प्रथा - अवभासः, तदात्मकः यः अनुत्तरशक्तिशाली - सर्वातिशायिस्वातन्त्र्यशक्तिभूषितः, निरर्गलः - अच्छिन्नप्रसरः,

पञ्चमः पारमेश्वरः कृत्यविशेषः परपुरुषार्थप्रापकः, तन्निबन्धनत्वात् परमार्थमोक्षस्य । अन्यत्रत्यो हि अपवर्गः कुतश्चिन्मुक्तिः, न सर्वत इति निःश्रेयसाभास इति वक्ष्यामः । स चायं द्वितीयः कार्यकारणभावो लौकिकान्वयव्यतिरेकसिद्धप्रसिद्धकार्यकारणभाव - विलक्षणत्वात् स्फुटेन रूपेणासञ्चेत्यमानः कादाचित्कवस्तु सद्भावोन्नेयपरमार्थः [कादाचित्कवस्तुसद्भावावभासोन्नीयमान - परमार्थः - क्। ष्। ष्।] अतिदुर्घटकारित्व -

स्वात्मप्रकाशः - स्वात्मरूपः प्रकाशः, न तु बाह्यप्रकाशः ।

निबन्धनम् - सारभावेन स्थित्वा स्वरूपोत्पादकं कारणम्, तत्र, तस्मिन् कार्यकारणभावे इत्यर्थः । तस्यैव - स्वात्मप्रकाशस्यैव, कारणत्वम् - कारणभावः । कार्यत्वन्तु अर्थाद्दास्यासादनस्यैव ज्ञेयम् । अन्त्यः - अन्तभवः, पञ्चमः, सृष्टिस्थितिध्वंसपिधानाऽनुग्रहात्मकपञ्चकनिष्ठपञ्च - सङ्ख्यापूरकत्वात् । तत्र पिधानम् संस्कारमात्रतया स्थितस्यापि लयीकरणम् । अनुग्रहः स्वात्मीकरणम्, शेषम् स्फुटमेव ।

परपुरुषार्थस्य - मोक्षाख्यस्य पुरुषसम्बन्धिपरमप्रयोजनस्य, प्रापकः - प्राप्तिकारी । स चेह दास्यासदनरूप एव ज्ञेयः, तत्साधनस्यैवेष्टत्वात् । अत्र हेतुमाह तन्निबन्धनत्वात् इति ।

परमार्थमोक्षस्य - शिवशासनोक्तस्य महास्वातन्त्र्यासदनरूपस्य महामोक्षस्य । ननु किमपरमार्थभूतोपि मोक्षोस्तीत्यपेक्षायामाह अन्य इति । अन्यत्र - बौद्धसिद्धान्तादिषु भवः अन्यत्रत्यः । कुतश्चित् - मायादेस्तत्त्वात्, न तु शुद्धविद्यादेरपि । तदुक्तम् :-

रागाद्यकलुषोस्म्यन्तःशून्योहं कर्तृतोज्झितः ।

इत्थं समासव्यासाभ्यां ज्ञानं मुञ्चति तावतः ॥

इति । ननु भवत्वसौ कार्यकारणभावस्तादृशस्ततः किमित्यत्राह स च इति ।

लौकिकः - भेदरूषितत्वेन लोकसिद्धश्चासौ अत एव अन्वयव्यतिरेकाभ्यां सिद्धश्चेत्यवयवविग्रहः । लोके हि यदन्वये यस्याऽन्वयः यस्य व्यतिरेके च यस्य व्यतिरेकः स तस्य कार्यत्वेन व्यवस्थाप्यते । असञ्चेत्यमानः - अतिसूक्ष्मत्वेन ग्रहीतुमशक्यः । ननु तर्हि कथमसौ सत्त्वेन ज्ञायते इत्याह कदाचित्क इति । कदाचित्कः - कदाचिद्भवः, यो वस्तुसद्भावः - परमार्थमओक्षसद्भावः, तेनोन्नेयः - ज्ञातु शक्यः, परमार्थः - सत्यं स्वरूपं यस्य तादृशः । कार्यमात्रगम्य इत्यर्थः । यद्यपि

लक्षणैश्वर्यविजृम्भाभाविताद्भुतभावः प्रथमकोटिसम्भावनाशून्यकालिका - कारस्वप्रकाशावरणनिराकरण

  • मनोरथशतदुष्प्राप [प्रथमकोटिसम्भावनाशून्यः कालिका - क्। ष्।

ष्।] इत्येवम्प्रकारः कथमा [थमा - क्। ष्। ष्।] द्योतकनिपातसहितेन निरूपितः “कथञ्चित्” इति, केनचिच्च प्रकारेण परमेश्वराभिन्नगुरुचरण - समाराधनेन परमेश्वरघटितेनैव । यथोक्तम् :-

परमार्थतः सर्वदा स्थितस्य परमार्थमोक्षस्य कार्यत्वं न सम्भवति तथापि तदबोधापसारणार्थम् आरोप्य एवमुक्तम् । तत्रापि मुच्यमानविषये एव अस्य सत्त्वज्ञानम् नान्यविषये ।

अन्यविषयेऽन्यमोक्षस्यास्फुरणात् । तदुक्तम् -

सदेहा वा विदेहा वा मुक्तताविषये न वा ।
अनास्वादितभोज्यस्य कुतो भोज्यानुभूतयः ॥

इति ।
अस्यैव कार्य-कारण-भावस्य कथञ्चिद् इति शब्द-प्रवृत्तिनिमित्तत्वं साधयति अतिदुर्घट इति । अतिदुर्घटकारित्वं च स्वात्मतया स्थितस्य विश्वस्य भिन्नतया भासनं भासितस्य तु पुनः स्वात्मभावेन विमर्शनमिति द्विविधम्, तल्लक्षणम् - तत्स्वरूपं यदैश्वर्यम् तस्य विजृम्भा - विलसनं तया भावितः - सम्पादितः, अद्भुतभावः - आश्चर्यकारित्वं यस्य तादृशः । ऐश्वर्यविलसनरूपत्वेन आश्चर्यकारीति यावत् । वशेनैकस्वलक्षणभावं गताः । ननु तर्ह्येकत्वमेव तेषां भवतु इत्यत आह न च इति । नचोज्झन्त इति योजना, देशादीनां पृथगेव स्फुरणादिति भावः ।

षष्ठीयोजनं करोति तेषाम् इति । वस्तूनाम् इति । प्रसिद्धत्वेन न व्याख्यातम् । अन्यशब्दार्थवाचि पुनः शब्दं व्याचष्टे अन्या इति ।

पुनः अन्या, प्रत्येककार्याय [प्रत्येककार्यायाभिन्ना - च्।] भिन्नेति यावत् । अत - एव विशिष्टा तथा समुदिता कुत्रापि न नियमिता, सर्वाम्भाससाध्यत्वेनाभिमतेति यावत् । अर्थक्रिया भवति ।

आभासभेदात्पुनर्नियतार्थक्रिया इति व्याचष्टे आभास इति ।

आभासविमर्शभेदे सति अन्या नियता एकैकमात्ररूपा - प्रत्येकं भिन्नस्वरूपार्थक्रिया भवति । इह तु विमर्शः पदसंस्काररूप एव ज्ञेयः एकाभासोत्थितत्वात् । ननु सूत्रे विमर्शस्य नामापि न गृहीतमिति कथं व्याख्यायां तस्य योजनं कृतम् इत्यत आह आभास इति । आक्षिप्तः - अनुप्राणकत्वेनाक्षेपविषयतां नीतः । नन्वेक एव पुनः शब्दो दृश्यते, व्याख्यायां कथं द्विर्योजित इत्यत आह पुनः शब्दः इति । उभयत्र - समुदितनियमितार्थक्रियारूपे

योज्यः । बहुवचनेन ऐक्येऽपि स्वरूपभेदापरित्याग उक्तः, तत्र च ऐक्यावभासे परतन्त्रं सत् पृथक्त्वं यदा आभासानां तदा समानरूपव्यक्त्युपरञ्जकत्वेन पारमार्थिकं सामान्यरूपत्वम्, घटाभासस्य तु शुद्धस्य स्वतन्त्रपरामर्शे योग्यतामात्रेण सामान्यरूपता न वस्तुतो -

स्थानद्वये । अभेदिनाम् इति बहुवचनाभिप्रायमाह बहुवचनेन इति । अन्यथैकत्वमेवात्रयुक्तं स्यादित्यर्थः ।

एवमत्र योजना - सामानाधिकरण्येनोपलक्षितात्प्रतिभासात् - प्रतिभासविमर्शैक्याद्धेतोरभेदिनां वस्तूनामर्थक्रिया पुनरन्या समुदिता भवति, तथाभासभेदात् - आभासपरामर्शभेदात् पुनः अन्या नियता भवति, इति पुनःशब्दस्य द्विर्योजना [हति पुनःशब्दस्य त्रिर्योजना - च्।] ।

प्रत्याभासं स्थितस्य आभासमिश्रीभावेन लब्धसत्ताके स्वलक्षणे स्थितस्य सामान्यद्वयस्य योग्यतामात्रेण साक्षाच्च सत्त्वं कथयति तत्र इति । तत्र - प्रत्याभासस्थितस्वलक्षणस्थितसामान्य-द्वयमध्ये, यदा ऐक्यावभासे - प्रत्येकं देशादीनामैक्यावभासे देशोऽयं देशोयम् इत्यादिरूपे, आभासानाम् - देशादिरूपाणां प्रत्येकं स्थितानामाभासानां सत् - वर्तमानम्, पृथक्त्वम् - प्रत्येकभावः, स्वे स्वे रूपे निष्ठत्वमिति यावत् । परतन्त्रं - धर्मतया भासनं भवति, तदा समानरूपा या व्यक्तयः - बहिःस्थिता - आधारभूता व्यक्तयः, तासामुपरञ्जकत्वेनस्वविशिष्टीकरणेन, पारमार्थिकम् - सहजम्, सामान्यरूपत्वं भवति सामान्यस्य द्रव्यादिनिष्ठत्वेनैव स्थितत्वात्, देशत्वं नाम सामान्यं हि देशाख्यव्यक्तिरूपद्रव्यपरतन्त्रमेव दृश्यते, न च व्यक्तेरेव स्वलक्षणत्वं वाच्यम्, तस्य प्रमातृकृतदेशकालयोजनाप्राणत्वात्, अस्यास्तु बहिःस्थितत्वात्, अन्यथा सामान्यव्यङ्जकत्वायोगात् । तु व्यतिरेके, शुद्धस्य - अन्याभाससमानाधिकरणत्वेनास्थितत्वात् [अन्याभाससमानाधिकरणत्वेन स्थितत्वात् - च्।] तद्भेदामिश्रस्य, घटाभासस्य - उदकाहरणार्थित्वादिना प्रधानतया स्थितस्य घटाकारस्याभासस्य, घटस्वलक्षणस्येति यावत् ।

स्वतन्त्रपरामर्शे - पृथग्वस्तुत्वाभासेन धर्मितया परामर्शे सति, योग्यतामात्रेण - केवलया योग्यतया, भाविनि स्वाभाविकधर्मतया भाने समुचितत्वेनेति यावत् ।

सामान्यरूपता

द्रव्यादन्यो हि सर्वः पदार्थः परतन्त्रतासारः, एवम् एकोऽपि घटात्मा च इत्यपि [एकोऽपि घटात्मा इत्यपि - क्। ष्। ष्।] सत्यमेव

  • आभासविमर्शार्थक्रियाबलेन तथा व्यवस्थापनात् [तथा अवस्थापनात् - क्। ष्। ष्।] इति ॥ ६ ॥

ननु एकेनैव अर्थक्रिया न तत्र, अपि तु आभाससमुदायात् अर्थक्रियासमुदायः, आभासाश्च भिन्ना अपि यदि एकाम् अर्थक्रियां कर्तुं मिश्रीभवन्ति, तदा कस्तेषाम् इयत्तावधिः इति चोद्यम् अपवदति ।

पृथग्दीपप्रकाशानां स्रोतसां सागरे यथा ।

अविरुद्धावभासानामेककार्या तथैक्यधीः ॥ ७ ॥

भवति, वस्तुतः - परमार्थतो न भवति, योजनाप्राणधर्मितया भानरूपेऽस्मिन्काले न भवतीति यावत् । समानव्यक्तिगतस्य धर्मस्यैव पारमार्थिकसामान्यरूपत्वात् । कुत इत्यपेक्षायामाह द्रव्यात् इति । अन्यः - गुणादिरूपः, तथा च सामान्यस्यापि द्रव्यान्यत्वेन परतन्त्रत्वमेव युक्तमिति भावः ।

फलितं स्वाभीष्टमुपसंहरति एवम् इति । घटात्मा च - घटस्वरूपं च, अपिशब्देन भिन्नतया स्थितानामाभासानां पारमार्थिकं सत्यत्वं द्योतयति । अत्र हेतुमाह आभास इति ।

आभासः - घटप्रकाशः, विमर्शः - घटपरामर्शः ।

अर्थक्रिया-उदकाहरणम्, तासां बलेन, तथा व्यवस्थानात् - एकत्वव्यवस्थितेः । इति शब्दः श्लोकव्याख्यासमाप्तौ ॥ ६ ॥

अथ सप्तमस्य श्लोकस्यावतरणिकां करोति ननु इति ।

अत्र टीका -

आभाससमुदायात् - आभाससमूहात्, तेषां - आभासानाम्, इयत्तावहिः - मिश्रीभावावसानमर्यादा, केषाञ्चिदेव कुत्रचिदेव मिश्रीभाव इति यावत् । चोद्यम् - शिष्याक्षेपम्, अपवदति - प्रतिसमाधत्ते [प्रतिसमादधते - च्।] ।

एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे पृथक् इति ।

पृथक् वतिन्यो याः प्रदीपस्य प्रभाः सूक्ष्मतमावलोकनसामर्थ्या [सूक्षमतमा अवलोकनसामर्थ्या

  • क्। ष्। ष्।] धानलक्षणां याम् अर्थक्रिया न कृतवत्यः तामेव एकभवनाभ्यन्तरं सम्मूर्छितात्मान्ॐ विदधते, न तत्र अर्थक्रियाणां समुदायोऽस्ति । सागरपतितानि च स्रोतांसि वहुतरतरङ्गारम्भार्थक्रियाकारीणि । तद्वत् घटः काञ्चनो लोहितः ततोऽयं शिवलिङ्गशिरोमार्जनोचितसलिलाहरणार्थक्रियोचितो [शिवलिङ्गशिरःसमावर्जनोचितसलिल - क्। ष्। ष्।] दृष्टमात्र एव तीव्रप्रीतिलक्षणार्थक्रियाकारी; इति सिद्धमेवार्थक्रियाकारित्वम् । यत् पुनराभासानां मिश्रणे का सीमा इति ? तत्र उच्यते - येषाम् अविरोधः त एव आभासा मिश्रीभवन्ति, नहि रूपाभासो मारुताभासेन मिश्रीभवति - विरोधात्, सोऽपि च नियतिशक्त्युत्थापितः ।

अत्र टीका -

श्लोकं व्याख्यातुं प्रक्रियां करोति पृथक् इति ।

सूक्ष्मतमस्य - अतिसूक्ष्मस्य यदवलोकनम् दर्शनम् तत्र यत्सामर्थ्याधानम् - समर्थतासम्पादनम् - , तत् लक्षणम् स्वरूपं यस्यास्तादृशीम्, न कृतवत्य - नाकुर्वन्, तामेव - सूक्ष्मतमावलोकनसामर्थ्याधान-लक्षणामर्थक्रियामेव, सम्मूर्छितः - समुदायस्थित्या वृद्धिं गत आत्मा यासां तादृश्यः, विदधते - कुर्वते । एकं दृष्टान्तमुक्त्वा द्वितीयमपि कथयति सागर इति । बहुतरतरङ्गाणां य आरम्भः स एव अर्थक्रिया तां कुर्वन्तीति तादृशानि भवन्ति इति सम्बन्धः ।

दृष्टान्तद्वयमुक्त्वा दार्ष्टान्तिकं कथयति तद्वत् इति । अयं घटः शिवलिङ्गशिरसो यन्मार्जनम् क्षालनं तत्रोचितं यत्सलिलं तस्य यदाहरणम् तदेवार्थक्रिया तत्रोचितो योग्यः, शिवलिङ्गे काञ्चनघटेनैव स्नानस्य विहितत्वात् । दृष्टमात्र एव - केवलं दृष्ट एव, एकार्थक्रियाकारित्वम् इति, समुदायस्येति शेषः ।

समुदायादेकामर्थक्रियां सदृष्टान्तमुक्त्वाऽऽभासानां मिश्रीभावे इयत्तावधिं कथयति यत्पुनः इति । सीमा - मर्यादा ।

इयत्तावधिरिति यावत् । येषाम् - येषामाभासानाम् । सामान्यं विशेषेण समर्थयति नहि इति । विरोधात् इति, वायो रूपराहित्यादिति भावः । ननु कथं मारुतरूपयोर्विरोधोऽस्तीत्यत आह सोऽपि च इति ।

सोऽपिच -

पृथक् ये दीपप्रकाशाः तेषां सम्बन्धि यदेकं सागरे स्रोतसां च यदेकं वस्तु तेन कार्या यथा ऐक्यघीः तथा अविरुद्धा ये अवभासा घटलोहितकाञ्चनादयः तेषां सम्बन्धि यदेकं स्वलक्षणं तत्कार्या ऐक्यधीरिति सम्बन्धः, ऐक्यधिया - प्रतिभासो विमर्शोऽर्थक्रिया च इति स्वीकृतम् ॥ ७ ॥

नन्वेवं प्रत्याभासं प्रमाणस्य विश्रान्तत्वात् अग्न्याभासे अग्निज्ञानं प्रमाणं धूमज्ञानं च धूमाभासमात्रे कार्यकारणभावावभासोऽपि तावन्मात्रे, ततश्च धूमाभासोऽपि अग्न्याभासं व्यभिचरेत् इत्यादि बहुतरोपप्लवप्रसङ्गः इति शङ्काम् अपोहितुम् [व्यपोहितुम् - ण्। ष्। ष्।] आह

विरोधोऽपि च, न च नियतेः पर्यनुयोगो युक्त इति भावः । प्रक्रियां सम्पाद्य सूत्रयोजनां करोति पृथक् इति । एकं वस्तु इति सम्बन्धः । वस्तु शब्द उभयत्र स्वलक्षणवाची । तेन - वस्तुना, कार्या - सम्पाद्या, स्वलक्षणम् - देशकालादियोजनानुप्राणितम् अन्याननुयायि स्वरूपम् । सम्बन्धः, श्लोकस्येति शेषः ।

नन्वैक्यधीः स्वलक्षणकार्या भवतु, अर्थक्रिया कथमेका ज्ञेया इत्यत आह ऐक्यधिया इति । ऐक्यधिया कर्त्र्या, इति - एतत् स्वीकृतम् स्वकारणत्वेन लक्षणया गृहीतम् । इति किमिति ? प्रतिभासः विमर्शः अर्थक्रिया इति । तेनैकप्रतिभासः एकविमर्शः, एकार्थक्रिया च एककार्या भवति इति योजनीयम् । प्रतिभासादित्रये एवैक्यधीर्भवति इत्यत्र न कोऽपि विरोधः ॥ ७ ॥

अथाष्टमस्य श्लोकस्यावतरणिकां करोति नन्वेवम् इति ।

अत्र टीका -

एवम् - उक्तप्रकारेण, प्रत्याभासम् - प्रत्येकमाभासेषु, तावन्मात्रे - अग्न्याभासधूमाभासकार्यकारणभावाभासमात्रे, ततश्च - ततो हेतोश्च, व्यभिचरेत् इति, भिन्नप्रमाणवेद्यत्वादिति भावः ।

आदिशब्देनान्येषां व्यभिचाराणां ग्रहणम् । अपोहितुम् [अपोहयितुम् - च्।] - दूरीकर्तुम् । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे तत्र इति ।

तत्राविशिष्टे वह्न्यादौ कार्यकारणतोष्णता - - तत्तच्छब्दार्थताद्यात्मा प्रमाणादेकतो मतः ॥ ८ ॥

तत्रेति - प्रत्याभासं प्रमाणं विश्राम्यति, इत्यस्मिन्नपि पक्षे न कश्चित् दोषः, तथाहि - - अविशिष्टो यद्यपि वह्न्याभासो देशकालाभासप्रमुखैः आभासैः असङ्कीर्णत्वेन सामान्यमात्ररूपत्वात् तथापि स एवाभासो यावद्भिराभासैरविनाभूतो भगवत्या नियतिशक्त्या नियमितः तावतोऽवभासान् स्वीकृत्यैव प्रमाणकृतां निश्चयपदवीम् अवतरति । ततश्च [तथा च - क्। ष्। ष्।] वह्न्याभास इन्धनकार्यत्बाभासेन धूमकारणताभासेन उष्णस्वभावताभासेन च स्वाभाविकाव्यभिचरितनियमः [स्वाभाविकाव्यभिचरितसाहचर्यः - क्। ष्। ष्।] प्रतीयमानो विश्वत्रैव सर्वदैव च तथा प्रतीतो भवति - एकत्वात् तस्य । अस्वाभा -

अत्र टीका -

तत्र इति पदं व्याचष्टे प्रत्याभासं इति । अपि न कश्चिद्दोषः इति शेषत्वेनाध्याहृतम् । कथं न दोष इत्यपेक्षायाम् अविशिष्टे इत्यादि व्याख्यास्यन् समर्थनमुपक्रमते तथा हि इति । तथाहीत्यस्याकाङ्क्षां पूरयति अविशिष्टः इति ।

अविशिष्टः - स्वलक्षणतामप्राप्तः । कुतोऽविशिष्ट इत्यपेक्षायां हेतुमाह देश इति । प्रमुख शब्देनाकारादिग्रहणम्, असङ्कीर्णत्वेन - अमिश्रत्वेन, स एवाभासः - वह्न्याभास एव, आभासैः - कार्यकारणतादिरूपैः, अविनाभूतः - व्याप्तः, तावतः - तान् समस्तान्, प्रमाणकृताम् - प्रमाणसम्पादिताम्, निश्चयपदवीम् - प्रमाविषयताम्, अवतरति - अवगाहते, तादृक्स्वभावत्वात् इति भावः, फलितमाह ततश्च इति । ततश्च - तस्माद्धेतोश्च, वह्न्याभासः - वह्निरूपाभासः, बह्नेरिन्धनकार्यत्वम् इन्धनद्योत्यत्वकृतं ज्ञेयम् । स्वाभाविकः

  • स्वभावादागतः, अत एवाव्यभिचरितो नियमः यस्य सः - स्वाभाविकाव्यभिचरितनियमः, विश्वत्र - सर्वदेशेषु, सर्वदा - सर्वकालेषु, कुतः प्रतीतो भवति इत्यपेक्षायामाह एकत्वात् इति ।

विकोऽपि यः स्वभावः पुरुषकृतसमयादिमुखप्रेक्षी, तद्यथा - अग्निशब्दवाच्यत्वं घटप्रतिपत्तिकारित्वमित्येवमादिः, सोऽपि एकप्रत्यक्षादेवनिश्चीयते, तस्य हि प्रमातुः कृत्रिमेण इतरेण वा रूपेण आभासान्तरनान्तरीयकतया असौ वह्न्याभासः संविदितः सर्प्रथम इति । प्रथमकोटिसम्भावनाशुन्यम् - अनादि, कालिकाकारम्

  • मेघमालावदाकारयुक्तम्, यत्स्वप्रकाशावरणम् - आत्मप्रकाशावरणभूता मायाशक्तिः, तस्य यन्निराकरणम् - अपसारणम्, तस्य यानि मनोरथशतानि - कदैतदुपरंस्यति इत्येवंरूपाणि, तैः दुष्प्रापः । श्रीभगवत्तीव्रतरशक्तिपातं विना प्राप्तुमशक्य इत्यर्थः । इत्येवम्प्रकारः - प्रोक्तप्रकाररूपः, अनुग्रहरूप इति यावत् । कथमा - कथमित्यव्ययेन । द्योतकनिपातसहितेन

  • चिच्छब्दमेलितेन, निरूपितः, सूचित इत्यर्थः ।

परनिष्ठार्थद्योतनमात्रपराणां निपातानां वाचकत्वाभावाद् द्योततकेत्युक्तम् । द्योतकसहितं कथमित्यव्ययमेव दर्शयति कथञ्चिदिति इति ।

“सम्बन्धोऽतीव दुर्घटः …”

इति । “आसाद्य” इति आ समन्तात् परिपूर्णरूपतया सादयित्वा, स्वात्मोपभोगयोग्यतां निरर्गलां गमयित्वा; इयता विदित वेद्यत्वेन परार्थे शास्त्रकरणे अधिकारो दर्शितः; अन्यथा प्रतारकतामात्रमेव स्यात् । पौर्वकाल्येन सामनन्तर्यम् अत्र विवक्षितम् । अन्यथा तु वदेशकालगतः तथा [तथैव संविदितः - क्। ष्। ष्।] संविदितः, इति तत्र किं प्रमाणान्तरेण । तस्य

तस्य - वह्नेः, एकत्वात् - सामान्यद्वारेण सर्वेषु देशेषु कालेषु चैकतया स्थितत्वात् । एतेन पूर्वार्धव्याख्या सम्पन्ना ।

पूर्वार्धेन सह समस्ततया स्थितं तत्तत् इत्याद्युत्तरार्धगतं व्याख्यातुमाह अस्वाभाविकः इति । अस्वाभाविकः - पुरुषकृतसङ्केतसिद्धत्वे-नागन्तुकः, स्वभावः - वह्निस्वरूपम्, कथमस्वाभाविकः इत्यत आह पुरुष इति । पुरुषेण - आदिपुरुषेण सामान्यपुरुषेण वा कृतो यः समयः अस्यायमर्थः इत्येवंरूपः सङ्केतः स आदिर्यस्य बृद्धव्यवहारादेस्तस्य मुखं प्रेक्षते इति तादृशः । कोऽसौ स्वभावः इत्यपेक्षायामाह तद्यथा इति । वह्नेः अग्निशब्दवाच्यत्वं हि पुरुषसमयसिद्धमेव, न सहजम् । आदिशब्दगृहीतं वस्तु कथयति घट इति । प्रदीपभावेन घटप्रकाशकत्वमित्यर्थः । तदपि हि वह्नौ न स्वाभाविकमपि तु नियतिशक्तिकृतत्वात् स्वरूपाद्व्यतिरिक्तमेव, कादाचित्कत्वात्, स्वरूपस्य [रूपस्य च सदा स्थितत्वात् - च्।] च सदास्थितत्वात् । इत्येवमादिः - इत्यादिरूपः, आदिशब्देन गन्धरसशून्यत्वादेर्ग्रहणम् । सोअ।पि - यच्छब्दोक्तः सर्वः अस्वाभाविकः स्वभावोऽपि, एकप्रत्यक्षादेव - एकस्मात्प्रत्यक्ष-प्रमाणादेव । कुत इत्यपेक्षायां वाक्येन हेतुमाह तस्य इति । तस्य - वह्निग्राहकतया स्थितस्य, कृत्रिमेण पुरुषसमयमुखप्रेक्षिणा, इतरेण - अकृत्रिमेण रूपेण, उपलक्षितानि यानि आभासान्तराणि - वह्न्याभासादन्ये आभासाः सदाद्याभासास्तैर्या नान्तरीयकता - साहचर्यनियमो व्याप्तिरिति यावत्, तया संविदितः - प्रथमं सम्यग्ज्ञातो भवति, अतः सर्वदेशकालगतः स तथा संविदितः - आभासान्तरनान्तरी यकतया संविदितः स्यात्, इति किं तत्र प्रमाणासादनतारतम्यप्राप्तौ

अलौकिकमर्थमुक्त्वा लौकिकमपि कथयति केनचित् इति ।

एवकारोन्ययोगव्यवच्छेदपरः । अत्रानुकूलं शास्त्रवाक्यमुदाहरति यथोक्तम् इति । सम्बन्धः - महाग्रोर्भक्तिकालितस्य शिष्यस्य च । आसाद्य इति पदं व्याख्यातुमुपन्यस्यति आसाद्य इति । अत्र प्रत्यक्षरम् व्याख्यां कर्तुमारभते आ समन्तात् इति । सदेः णिजन्तस्य क्त्वाप्रत्यये रूपम्, अस्य धातोरनेकार्थत्वेपि गमनमात्रमाश्रित्येयं व्याख्या । निरर्गला स्वात्मोपभोगयोग्यता तु कर्मत्वेनाक्षित्पा । फलितमाह इयता इति । इयता - आसाद्य इत्यनेन, विदितवेद्यत्वेन - ज्ञातज्ञेयत्वेन । परार्थे - परार्थम्, दशितः इति, स्वस्येति शेषः । तदभावे प्रवृत्तस्य दोषमाह अन्यथा इति ।

प्रतारकतामात्रम् - परवञ्चननिष्ठतामात्रम् । क्त्वाप्रत्ययेनोक्तस्य पूर्वकालस्याऽभिप्रायमाह पौर्वकाल्येन इति । पौर्वकाल्येन - पूर्वकालतया । सामनन्तर्यम् - दास्यासादनप्रत्यभिज्ञाशास्त्रोप - पादनयोर्मध्ये व्यवधानराहित्यम् । अन्यथा इति । सामनन्तर्याभावे इत्यर्थः । तारतम्यप्राप्तौ - पराकाष्ठायां सत्याम् ।

तारतम्यम्प्राप्तिर्हि तारतम्यस्यावसाने सम्भवति, अन्यथा तस्य यथोत्तरं स्थितस्य का प्राप्तिः । तारतम्यावसानमेव च तार्तम्यपराकाष्ठा । कथं शक्यक्रियः - कथं कर्तुं शक्यः ।

इयं ज्ञानकला राम सकृज्जाताभिवर्धते ।

इति न्यायेन परतत्त्वे लयासादनेन कर्तुमशक्य इत्यर्थः । यद्यपि देहस्थितिं तावत्संस्कारस्य स्थितिर्युक्तैवाऽन्यथा तत्पाताऽऽपातात्, तथापि शिष्यबोधनार्थमेवमुक्तम् । संस्कारनाशे तु विदेहमुक्तिसमयभाविनि न परस्तिष्ठति, नापि तस्य करणीये उपदेशे शक्तिः ।

मायीयमलकलापसंस्कारप्रक्षये कथं परोपदेशः शक्यक्रियः ।

अभिनवगुप्तः

सम्भवन्ति हि मायागर्भाधिकारिणो विष्णु-विरिञ्चाद्याः,
तद्-उत्तिर्णा अपि महामायाधिकृताः शुद्धा-शुधा मन्त्र–तद्-ईश–तन्-महेशात्मानः;
शुद्धा अपि श्री-सदा-शिव-प्रभृतयः ।

भट्टभास्कर-टीका

संस्कारं तावत्तु जीवन्मुक्तेषु भेदगलनेऽपि परोपि तिष्ठति, करणीये तदुपदेशे शक्तिरपीति संस्कारपदपरपदशक्यपदानां ग्रहणम् ।

संस्कार प्रक्षये इति तु लेखककृतोऽपपाठ एव । येषां महापण्डितानां बुद्धावयमेव पाठः प्रशस्ततया स्फुरति तेभ्यो नम एवेत्यलम् । महेश्वरस्य इत् पदं व्याचष्टे सम्भवन्ति इति ।

सम्भवक्रियाकर्तृत्वं भजन्ति । मायागर्भेऽधिकारिणः, अशुद्धतारूपभेदप्रधानत्वात् । महामाया - शुद्धविद्या ।

शुद्धाशुद्धाः, भेदाभेदप्रधानत्वात्, विप्रुड्भिः - लेशैः ।

अभिनवगुप्तः

ते तु यदीयैश्वर्य-विप्रुड्भिर् ईश्वरी-भूताः
स भगवान् अनवच्छिन्न-प्रकाशानन्द-रूप-स्वातन्त्र्य-परमार्थो
[अन्वच्छिन्न प्रकाशानन्दस्वातन्त्र्य - क्। ष्। ष्।] महेश्वरः।

भट्टभास्कर-टीका

ईश्वरीभूताः - अनीश्वराः सन्तः ईश्वराः सम्पन्नाः ।
अनवच्छिन्नः - विषयेण परिच्छिन्नतामनीतः, यः प्रकाशानन्दः - प्रकाशरूपः आनन्दः, तद्रूपम् - लक्षणया तत्परामर्शरूपम्, यत्स्वातन्त्र्यं तदेव परमार्थः - स्वभावमवभासस्य इति वक्ष्यमाणनीत्या सहजः स्वभावो यस्य तादृशः ।

एतेनास्य भगवतः परमत्वे हेतुरुक्तः ।

अभिनवगुप्तः

तस्य “दास्यम्” इत्य्-अनेन
तत्-प्रत्यभिज्ञोपपादनस्य महाफलत्वम् आ-सूत्रयति ।
दीयते अस्मै स्वामिना सर्वं यथाभिलषितम् इति दासः,
तस्य भाव इत्यनेन परमेश्वर-रूप-स्वातन्त्र्य-पात्रता उक्ता ।

भट्टभास्कर-टीका

तस्य - परमेश्वरस्य, दास्यम् - दासभावम्,
आसाद्य इत्य् अस्य कर्मतया स्थितम् ।
इति-शब्दः स्वरूप-निर्देशार्थः ।
उपपादनस्य - सम्पादनस्य ।
महाफलत्वम् - महाफलभावम् ।
दास्यासादनं प्रतीति शेषः ।
दास्य-पदावयवार्थम् आह दीयते इति ।
अनेन - तद्धितान्त-दास्य-पदेन ।
पारमेश्वर-स्वातन्त्र्यस्यैव सर्वत्वाद् इति भावः ।

विश्वास-टिप्पनी

अत्र दास्यस्य व्युत्पत्त्या
भगवद्दृष्ट्या दासम् प्रति को भाव
इत्य् उच्यते।
दासस्य कीदृशो भावः स्यात् - स्वात्मानम् एवोद्दिश्य?
“परमेश्वररूपस्वात्मविषया” इत्य् अन्त्यत्र वचनाद् आत्मानम् परमेश्वरत्वेन भावयन्तीति भाति।
तादृश-भावनामात्रेण भेदो वर्तमान एव ज्ञायते, यः कल्पनया ऽऽच्छाद्यमानः।

अभिनवगुप्तः

“जनस्य” इति, यः कश्चित् जायमानः तस्य,
इत्य्-अनेन अधिकारि-विषयो नात्र कश्चिन्-नियम इति दर्शयति।

अभिनवगुप्तः

यस्य यस्य हि इदं स्वरूपप्रथनं तस्य तस्य महाफलम्,
प्रथनस्यैव परमार्थ-फलत्वात्,
तस्य च प्रतिबन्धक-सम्मतैर् अप्रति-बन्धनीयत्वात्,
“न हि प्रथितम् अप्रथितम्” इति न्यायात् ।

तदुक्तम् :-

जनस्य इति पदेन सूचनीयं वस्तु प्रकटयति यः कश्चिज् जायमानः इति ।

तद् उक्तम् :-

अहो महद् इदं कर्म
देव त्वद्-भावनात्मकम् ।
आब्रह्मकृमि यस्मिन् नो
मुक्तये ऽधिक्रियेत कः ॥

इति अधिकारिनियमनिषेधश्चात्र वर्णविभागमपेक्ष्य कृतः । यथा वेदान्तेषूपनीतस्य त्रैवर्णिकस्यैवाधिकारस्तथा नेहेति ।

न मे प्रियश्चतुर्वेदो मद्भक्तः श्वपचोपि वा ।

तस्मै देयं ततो ग्राह्यम्

इति । न तु सर्वथा, अग्रे जननमरणपीडितस्येत्यनेन वैराग्यस्याधिकारिलक्षणत्वेन सूचयिष्यमाणत्वात् । परमार्थविचारे तु वेदान्तेष्वपि वैराग्ययुक्तस्यैवाधिकारित्वम् । तद्रहितो हि ब्राह्मणोपि श्राम्यमाणः पशुतुल्य एव, तत्सहितस्तु शूद्रादिरपि यथा तथा तच्छ्रवणफलभागी दृश्यत इत्यलं बहुना । अत्र हेतुं वाक्येनाह यस्य यस्य इति यस्य यस्य - ब्राह्मणादेः शूद्रादेर्वा, इदम् - प्रत्यभिज्ञारूपम् । स्वरूपप्रथनम् - महेश्वररूप - स्वात्म - स्फुरणम् । महाफलम् समस्तसम्पत्समवाप्तिरूपफलयुक्त - दास्यासादनरूपं श्रेष्ठफलम् । यद्यपि समस्तसम्पत् - समवाप्त्यपेक्षयाऽवान्तरफलत्वमेवास्य तथाप्यन्यफलापेक्षया महत्त्वमेव । अत्रापि पञ्चम्यन्तं हेतुमाह प्रथनस्यैव इत्यादि । ननु यदि तस्य कालेन प्रतिबन्धः स्यात् तर्हि न महाफलत्वमित्यपेक्षायामाह तस्य च इति । तस्य च प्रतिबन्धकसम्मतैः - प्रतिबन्धकत्वेन मतैः अनभ्यासादिभिः, अप्रतिबन्धनीयत्वात् - प्रतिबन्धविषयीकर्तुमशक्यत्वात् । अत्र पूर्वाचार्योक्तं न्यायं हेतुत्वेनाह न हि इति । अन्यथाऽग्निरपि कदाचिदनग्निर्भवेत् स्फुरणमात्रस्यैव परमार्थः स्वरूपत्वादिति हेत्वभिप्रायः ।

“नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते ।

स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥”

इति । परमगुरुपादैरपि शिवदृष्टौ :-

“एकवारं प्रमाणेन शास्त्राद्वा गुरुवाक्यतः ।

ज्ञाते शिवत्वे सर्वस्थे प्रतिपत्त्या दृढात्मना ॥

करणेन नास्ति कृत्यं क्वापि भावनयापि वा ।

सकृज्ज्ञाते सुवर्णे किं सत्यता [भावनाकरणादिना - क्। ष्। ष्।] करणादिना ॥

सर्वदा पितृमात्रादि तुल्यदार्ढ्येन सत्यता ।”

अत्र श्रीगीतावाक्यमप्युदाहरति नेहाभिक्रम इति । अभिक्रमनाशः - आरम्भनाशः । श्रीसोमानन्दवाक्यमप्युदाहरति परमगुरुपादैरपि इति । शिवदृष्टौ - तत्कृते शिवदृष्ट्याख्ये शास्त्रे, उक्तमिति पूर्वेण सम्बन्धः । किमुक्तमित्यपेक्षायामाह एकवारम् इति । शिवत्वे - स्वात्मनिष्ठे शिवभावे । करणेन - आसनबन्धेन, दिव्यकरणेन वा ।

भावनया - परामर्शेन । कथं न कृत्यमस्तीत्यपेक्षायामाह सकृत् इति ।

सकृत् - एकवारम्, ज्ञाते - सम्यक् परीक्षिते सति, सुवर्णे - कनके ।

करणादिना - निकषघर्षणादिना, किं सत्यता - सत्यसूवर्णत्वं भवति । प्रथमेव निर्णीतत्वात् न भवतीत्यर्थः । कीदृशेन करणादिना ? सर्वदा - सर्वकालम्, पितृमात्रादिभिः तुल्यम् - सदृशम्, दार्ढ्यम् - दृढता यस्मिंस्तादृशेन, सेवितेनेत्यर्थः । श्रीवसिष्ठेनाप्युक्तम् :-

इयं ज्ञानकला राम सकृज्ज्ञाताभिवर्धते

इति ।

इति । “जनस्य” अनवरतजननमरणपीडितस्य इत्यनेन कृपास्पदतया उपकरणीयत्वमाह । अपिशब्दः स्वात्मनः तदभिन्नताम् अविष्कुर्वन् पूर्णत्वेन स्वात्मनि परार्थसम्पत्त्यतिरिक्तप्रयोजनान्तरावकाशं पराकरोति । परार्थश्च प्रयोजनं भवत्येव तल्लक्षणत्वात्, [तल्लक्षणयोगात् - क्। ष्। ष्।] न हि अयं दैवशापः स्वार्थ एव प्रयोजनं न परार्थ इति; तस्यापि अतल्लक्षणत्वे [अतल्लक्षणयोगित्वे - क्। ष्। ष्।] सति अप्रयोजनत्वात्; सम्पाद्यत्वेन अभिसंहितं यत् मुख्यतया तत एव क्रियासु प्रयोजकं तत्प्रयोजनम् । अत एव भेदवादेऽपि ईश्वरस्य सृष्ट्यादिकरणे परार्थ एव प्रयोजनम् इति दर्शयितुं न्यायनिर्माणवेधसा निरूपितम् :-

“यमर्थमधिकृत्य पुरुषः प्रवर्तते तत् प्रयोजनम्”

जनस्य इति पदं व्याचष्टे अनवरत इति । कृपास्पदतया - कृपाविषयतया ।

श्लोकस्थस्य अपि शब्दस्याभिप्रायमाह अपिशब्दः इति । तदभिन्नताम् - उपकरणीयैस्सह स्वस्याभेदम्, एतेनापिशब्दः अपूर्वार्थसम्भावनपर इति सूचितम् । न च वाच्यमेतदभिन्नत्वेन तस्याप्येतत्सिद्धम् इति । एतस्य तदैक्यज्ञानेपि तस्यैतदैक्यज्ञानाभावात् स्थिताया अप्येतत्सिद्धेरसत्कल्पत्वात् । ननु कथं परार्थस्य प्रयोजनत्वं युक्तमित्यपेक्षायामाह परार्थश्च इति । तल्लक्षणत्वात् - यमर्थम् इत्यादिप्रयोजनलक्षणयुक्तत्वात् तस्यापि - स्वार्थस्यापि । अतल्लक्षणत्वे - प्रयोजनलक्षणरहितत्वे । ननु किं तत्प्रयोजनलक्षणमित्यपेक्षायामाह “सम्पाद्यत्वेन” इति । सम्पाद्यत्वेन - साध्यत्वेन अभिसंहितम् - चित्तेऽनुसन्धानविषयीकृतम् । प्रयोजकम् - प्रेरकम् । कदाचिद्धि पुरुषस्य परार्थोपि सम्पाद्यत्वेनाभिसंहितः प्रयोजकश्च भव्तीति भावः । अत्र तर्कमतं सहायीकरोति अत एव इति । न्यायस्य - सूत्रसन्दर्भरूपस्य न्यायशास्त्रस्य, निर्माणे वेधसा - ब्रह्मणा, अक्षपादेनेत्यर्थः । किं निरूपितमित्यपेक्षायां तदीयं सूत्रमुदाहरति यम् इति ।

इति । “इच्छन्” इति इच्छाविषयीकृतस्य फलस्य प्रवृत्तौ हेतुत्वं शत्रा दर्ऽसयति ।

इच्छाशक्तिश्च उत्तरोत्तरम् उच्छूनस्वभावतया क्रियाशक्तिपर्यन्तीभवति - इति दर्शयिष्यामः । उपशब्दः समीपार्थः, तेन जनस्य परमेश्वरधर्मसमीपताकरणम् अत्र फलम् । अत [तत एवाह - क्। ष्। ष्।] एवाह “समस्त” इति । परमेश्वरतालाभे हि समस्ताः सम्पदः तन्निःष्यन्दमय्यः सम्पन्ना एव, रोहण लाभे रत्नसम्पद इव ।

प्रमुषितस्वात्मपरमार्थस्य हि किम् अन्येन लब्धेन,

अधिकृत्य - अधिकारविषयतां नीत्वा, आरभ्येति यावत् । यथा तर्कमते ईश्वरस्य सृष्टौ परार्थैव प्रवृत्तिः तथा ममापीहेति भावः इच्छन् इति पदं व्याख्यातुमुपन्यस्यति इच्छन् इति । फलस्य - उपकारस्य । शत्रा - शतृप्रत्ययेन, तस्य हेतावपि प्रयोगात् । नन्विच्छामात्रेण किं सेत्स्यतीत्यत्राह इच्छाशक्तिश्च इति । बहिरपीच्छापूर्वैव सर्वा क्रियेति भावः । इषिक्रियायाः कर्मत्वेन स्थितम् उपकार पदं व्याचष्टे उपशब्दः इत्यादि । कारशब्दस्य करणार्थः प्रसिद्धेर्नोक्तः । फलितमाह तेन इति । तथा च दासेतिपदवाच्यं तादात्म्यमुपकारार्थः ।

दासपदव्याख्यायां हि सर्वं देयत्वेनोक्तम् । सर्वं च परमार्थतः ऐक्यरूपं परमेश्वरतादात्म्यमेव । एतदवलम्बेन समस्त इति पद व्याख्यातुमुपन्यस्यति अत एवाह समस्त इति । अत एव, यतः उपकारपदस्य परमेश्वरपूर्णत्वादिधर्मसमीपकरणमर्थः ततः कारणादेवेत्यर्थः । अत्र हेतुमाह परमेश्वरता इति । तन्निष्यन्दमय्यः

  • परमेश्वरताप्रवाह रूपाः, तत्तरङ्गभूता इति यावत् । समस्ताः - पूर्णतादिरूपाः सर्वाः । रोहणलाभे - रत्नाचललाभे सुमेरुलाभे वा ।

ननु तल्लाभे किमन्यलाभापेक्षा न भवेदित्याशङ्क्याह प्रमुषित इति ।

प्रमुषितः - मायाशक्तिवशेन विस्मृतिं गतः, स्वात्मा एव - प्रकाशरूपः भावनिर्भरश्च परमेश्वररूपः निजात्मैव, परमार्थः - उत्कृष्टवस्तु, यस्य तादृशः तस्य, अन्येन - अणिमादिनाऽष्टधैश्वर्येण । न हि

लब्धतत्परमार्थस्यापि तदन्यत् नास्ति यद् वाञ्छनीयम् । यदुक्तं ग्रन्थकृतैव :-

“भक्तिलक्ष्मीसमृद्धानां किमन्यदुपयाचितम् ।

एनया वा दरिद्राणां किमन्यदुपयाचितम् ॥”

इत्येवं [इति । एवम् - क्। ष्। ष्।] षष्ठोसमासेन प्रयोजनमुक्तम्, बहुव्रीहिणा तु उपायः सूच्यते । “समस्तस्य” भावाभवरूपस्य बाह्याभ्यन्तरस्य नीलसुखादेः या “सम्पत्” सम्पत्तिः सिद्धिः तथात्वप्रकाशः, तस्याः सम्यक् “अवाप्तिः” विमर्शरूढिः, सैव “हेतुः” यस्यां तत्प्रत्यभिज्ञायाम्, तथा हि स्फुटतरभासमाननीलसुखा -

प्रमुषितरत्नजातस्य वराटिकायां स्पृहा दृश्यते इति भावः । ननु तर्हि तत्प्राप्त्यनन्तरमन्यलाभापेक्षा भवेदेवेत्याशक्याह लब्धः इति ।

लब्धः सः - स्वात्मरूपः परमार्थो येन तस्य । अत्र ग्रन्थकृतः पद्यमुदांहरति यदुक्तम् इति । ननु किमुक्तमित्यपेक्षायामाह भक्ति इति ।

भक्तिः - परमेश्वररूपस्वात्मविषया न त्वन्यदेवताविषया । एनया - भक्त्या । नन्वयमर्थः समस्तेत्यादिपदात्कथं निर्गच्छतीत्यपेक्षायामाह इत्येवम् इति । षष्ठीसमासेन - समस्तसम्पत्समवाप्तेः हेतुः तमित्येवंरूपेण, प्रयोजनम् - समस्तसम्पत्समवाप्तिरूपम् । एतेन दास्योपकारपदयोर्विशेषणत्वमस्य पदस्योक्तम् । नन्वस्य पदस्य किमयमेव समास उत अन्योपीत्यत्राह बहुव्रीहिणा इति । उपायः, प्रत्यभिज्ञाया इति शेषः ।

प्रत्यभिज्ञारूपान्यपदार्थप्रधानं बहुव्रीहिमेव विग्रहद्वारेण दर्शयति समस्त इति । तथात्वेन - नीलसुखादिभावेन, प्रकाशः - भानम्, प्रमेत्यर्थः । एतेनास्य पदस्य प्रत्यभिज्ञाविशेषणत्वं कथितम् । ननु कथं नीलसुखादिप्रमा प्रत्यभिज्ञाकारणमित्यपेक्षायामाह तथा हि इति । स्फुटतरं भासमानाः ये नीलसुखादयस्तेषां प्रमायाः अन्वेषणेन - किम्मूला इति विचारणेन, बाह्यप्रमाविचारे हि क्रियमाणे तन्मूलभूतस्य परप्रमातुः प्राप्तिरयत्नं सिद्ध्यति घटान्वेषणेनेव मृद इति भावः । आह इति । उत्पलदेव इति शेषः । अन्यत्र - अन्यग्रन्थे । ननु किमाहेत्य -

दिप्रमान्वेषणद्वारेणैव पारमार्थिकप्रमातृलाभ इह उपदिश्यते ।

यदाह अन्यत्र:-

“इदमित्यस्य विच्छिन्नविमर्शस्य कृतार्थता ।

या स्वस्वरूपे विश्रान्तिर्विमर्शः सोऽहमित्ययम् ॥”

इति । तथा तत्रैव:-

“प्रकाशस्यात्मविश्रान्तिरहम्भावो हि कीर्तितः ।

उक्ता च सैव विश्रान्तिः सर्वापेक्षानिरोधतः ।

स्वातन्त्र्यमथ कर्तृत्वं मुख्यमीश्वरतापि च ।”

इति । इयता च उपाये अतिदुर्घटत्वाशङ्का पराकृता । यदन्ते निरूपयिष्यति :-

त्राह इदम् इति । सोऽहमिति विमर्शः - पराहन्तापरामर्शः भवति । सः कः ? येदमित्यस्य विच्छिन्नविमर्शस्य - नीलसुखादिविषयायाः प्रमायाः ।

कृतार्थता - कृतकार्यतारूपा । स्वस्वरूपे - परप्रमातरि । विश्रान्तिः - लयः भवति । प्रमाता हि नीलसुखादि स्वात्मनि लयीकरोत्येव, अन्यथा तृप्त्ययोगात्, तृप्तिरेव च प्रमायाः प्रमातरि विश्रान्तिः, स एव च परप्रमातृलाभः । न चैतच्छ्रुत्वा नीलसुखादिविवशैरपि परमात्मप्राप्त्यभिमानः कार्यः, बाह्यान्तरभावविरक्तेष्वहमित्यात्म

  • परामर्शैकनिष्ठेषु देहस्थितिं तावत् अवश्यकर्तव्ये व्यवहारेपि ते आत्मनिष्था एव यथा स्युः इत्येवमर्थमस्योपदेशस्य स्थितत्वात् ।

नीलसुखादिविवशत्वाविवशत्वयोः स्वमन एव साक्षीकार्यम्, अन्यथा स्ववञ्चकत्वापत्तेरित्यलम् । अन्यदपि पद्यमत्रोदाहरति तथा इति । तथा शब्दः समुच्चये । प्रकाशस्य - नीलसुकादिप्रमायाः ।

सर्वापेक्षानिरोधतः, तृप्तिकृतायाः अपेक्षाभावरूपायाः सर्वत्रोपेक्षाया हेतोरित्यर्थः विश्रान्तिः का ? स्वातन्त्र्यम् इत्यादि ।

नन्वियता किं सम्पन्नमित्यपेक्षायामाह इयता इति । इयता - समस्तसम्पत्समवाप्तेः प्रत्यभिज्ञाहेतुत्वकथनेन, उपाये - प्रत्यभिज्ञोपाये । नहि

“सुघट एष मार्गो नवः” (४ अ। ३ आ। १६ श्लो।)

इति । “तस्य” महेश्वरस्य “प्रत्यभिज्ञा” प्रतीपमात्माभिमुख्येन ज्ञानं प्रकशः प्रत्यभिज्ञा । प्रतीपम् इति - स्वात्मावभासो हि न अननुभूतपूर्वोऽविच्छिन्नप्रकाशत्वात् तस्य, स तु तच्छक्त्यैव विच्छ्न्न इव विकल्पित इव लक्ष्यते - इति वक्ष्यते । प्रत्यभिज्ञा च - भातभासमानरूपानु

  • सन्धानात्मिका,

नीलसुखादिप्रमान्वेषणं दुर्घटमिति भावः । अत्र ग्रन्थकृतोत्रत्यं पद्यमुदाहरति यत् इति । अन्त प्रत्यभिज्ञाशास्त्रान्ते । मार्गः - उपायः पूर्वैरनुक्तः, तैरान्तरपरामर्शस्यैवोपायत्वकथनात् ।

तत्प्रत्यभिज्ञा इति व्याचष्टे तस्य इत्यादिना । व्यवहितत्वेपि मुख्यत्वेन महेश्वरस्य तच्छब्देन परामर्शः । प्रत्यभिज्ञा इति भागं व्याचष्टे प्रति इति । प्रतिशब्दस्य प्रतीपमित्यर्थः । अभिशब्दस्याऽऽभिमुख्यम् ।

ज्ञाशब्दस्य ज्ञानम् । तेन पूर्वं ज्ञातस्य मध्ये विस्मृतस्य पुनराभिमुख्येन ज्ञानं प्रत्यभिज्ञेति । यथा सोयं देवदत्त इति । ननु कथमज्ञातपूर्वे परमेश्वरे प्रत्यभिज्ञा युक्तेत्यपेक्षायां प्रतीपम् इति पदस्य हेतुदानेन निराकरोति प्रतीपम् इति । अत्र हेतुमाह अविच्छिन्न इति ।

ननु तर्हि कथमज्ञत्वावस्थायां विच्छिन्न इव दृश्यते इत्यत्राह स तु इति ।

सः - आत्मप्रकाशः । तच्छक्त्या - तत्सम्बन्धिन्या मायाशक्त्या । तेनैव कृतस्य तदवच्छेदस्य सत्यतयाऽवच्छेदत्वं नास्तीति इव शब्दप्रयोगः ।

एवमवयवार्थमुक्त्वा ये द्वे [च ये द्वे रूपे प्रत्यभिज्ञामनुकृत्य - च्।] रूपे प्रत्यभिज्ञायां ते अनुकृत्य दर्शयति भात इति । पूर्वं भातमद्य भासमानं तयोर्यदनुसन्धानम् - एकीकरणम्, तदात्मा यस्याः तादृशी । प्रतिशब्दस्यार्थः अनुसन्धानम्, स एव प्रतीपमित्यस्यापीति पूर्वापरविरोधो न शङ्कनीयः । पूर्वमुक्तस्यावयवार्थस्य पुनः कथनमज्ञजनकृपाहेतुकं ज्ञेयम् । समुच्चयेन लोके शास्त्रे च सिद्धं प्रत्यभिज्ञाव्यवहारं

स एवायं चैत्र - इति प्रतिसन्धानेन अभिमुखीभूते वस्तुनि ज्ञानम्; लोकेऽपि एतत्पुत्र एवङ्गुण एवंरूपक इत्येवं वा, अन्ततोऽपि सामान्यात्मना वा ज्ञातस्य पुनरभिमुखीभावावसरे प्रतिसन्धिप्राणितमेव [प्रतिसन्धितप्राणितम् - क्। ष्। ष्।] ज्ञानं प्रत्यभिज्ञा - इति व्यवह्रियते; नृपं प्रति प्रत्यभिज्ञापितोऽयम् - इत्यादौ ।

इहापि

दर्शय्ति लोकेपि च इति । अन्ततः, विशेषेणेत्यर्थः । एतत्पुत्रः इत्यादिना ज्ञानस्य विशेषनिठित्वं स्फुटीकरोति । सामान्यात्मना वा - कोप्ययमित्यन्नेन रूपेण । विकल्पद्वयेपि “वा” शब्दः प्राधान्यद्योतनार्थः । ज्ञातस्य, पूर्वमित्यर्थः । पुनः, वर्तमानकाले इत्यर्थः । प्रतिसन्धिना - सोयमिति एकीकरणेन, प्राणितम् - सत्तायुक्तं कृतम् । ननु कुत्रायं व्यवहार इत्यत्राह नृपम् [नृपतिम् - क्। ष्।

ष्।] इति । नृपं प्रति - नृपे, प्रत्यभिज्ञापितः - निवेदितः, मन्त्रिभिरिति शेषः । अयं भावः । पूर्वं राज्ञा एतत्पुत्र एवङ्गुणक एवं रूपक इति विशेषेण वा, कोप्ययम् इति सामान्यात्मना वा ज्ञातः पुरुषो मध्ये विस्मृतः सन् पुना राज्ञः समीपं गतस्तेन कोयमिति पृष्टस्तत्र मन्त्रिणस्तस्य राज्ञस्तद्विषयां प्रत्यभिज्ञामुत्पादयन्ति सोयमिति । ततो राजा चोद्वुद्धसंस्कारः स्वयमपि प्रत्यभिजानाति सोयमिति । तत्र प्रत्यभिज्ञातोऽयमिति व्यवहार इति । “इत्यादि” शब्देनान्येषां लौकिकव्यवहाराणां ग्रहणम् । दृष्टान्तमुक्त्वा दार्ष्टान्तिकमाह इहापि इति । “अपि” शब्दः समुच्चये । अभिमुखीभूते इत्यत्र सर्वदेति शेषः । न हि मूर्च्छाकालेपि कस्यापि स्वात्मानभिमुखीभूतो युक्तः । तदौन्मुख्यं विना तदवस्थाग्रहणासम्भवात् । [तदौन्मुख्यं विना तदवस्थाग्रहणासम्भवेन तत्स्मृत्या एकीकरणेन ज्ञानं प्रत्यभिज्ञा

  • च्।] तत्पतिसन्धानेन - तत्स्मृत्या एकीकरणेन । ज्ञातम् - प्रत्यभिज्ञा ।

तदेवानुकृत्य दर्शयति नूनम् इति । नूनम् - निश्चये, स एवेश्वरोऽहम् ।

दृष्टान्तदार्ष्टान्तिकयोस्त्वयं विशेषः दृष्टान्ते सणिच्प्रयोगो व्यवहारो दर्शितः, जनसम्बन्धिन्या राजनि प्रत्यभिज्ञाया लोकेऽत्यन्तमभीष्टत्वात् ।

दार्ष्टान्तिके तु तद्रहित एव प्रयोगः स्व -

प्रसिद्धपुराणसिद्धान्तागमानुमानादि - विदितपूर्णशक्तिस्वभावे ईश्वरे सति स्वात्मन्यभिमुखीभूतेतत्प्रतिसन्धानेन ज्ञानम् उदेति, नूनं स एव ईश्वरोऽहम् इति । तामेनाम् “उपपादयामि” इति । उपपत्तिः सम्भवः, तां सम्भवन्तीं तत्समर्थाचरणेन प्रयोजकव्यापारेण सम्पादयामि । तथा हि - सम्भवति तावद् असौ, अविच्छिन्नप्रकाशत्वात्; निरोधकाभिमतमाया - शक्तिसमपसारणमात्रमेव तु तत्र उपपादनम् ।

प्रत्यभिज्ञोपपत्तौ स्वपरविभागाभावे तदपेक्षं कर्त्रभिप्रायादि असम्भाव्यम् इति परस्मैपदप्रयोगः । इत्थं च अत्र श्लोके

सम्बन्धिन्याः स्वस्मिन् प्रत्यभिज्ञाया इष्टत्वात्, इति । लोकेपि सोयमिति प्रत्यभिज्ञात इति, शास्त्रेपि गुरुणा ईश्वरोहमिति प्रत्यभिज्ञापित इति व्यवहारः सम्भवत्येवेति नान्यथा भ्रमितव्यम्, केवलमिष्टत्वमात्रमाश्रित्य स्तोकं दृष्टान्तदार्ष्टान्तिकयोर्विशेषः कृत इत्यलम् । उपपादयामि इत्यस्य व्याख्यां करोति ताम् इति । उपपूर्वस्य णिजन्तस्य पदेर्लटि रूपम् । सम्भवः इति । उपपूर्वस्य पदेर्वाच्योर्थ उक्तः । ताम् - प्रत्यभिज्ञाम्, स्वयमिति शेषः । णिचाऽर्थं कथयति तत्समर्थ इति ।

तस्मिन् - सम्भवे, समर्थाचरणम्, प्रेषणमिति यावत्, तेन । प्रयोजकः - अत्राहम् उत्पलदेवः, तस्य व्यापारेण - व्यापारभूतेन, सम्पादयामि, स्वव्यापारेण प्रेषणरूपेण तां सम्भवन्तीं सम्भावयामीत्यर्थः ।

अन्यथा शशशृङ्गस्यापि सम्भावनप्रसङ्गात् । ननु कथमसौ सम्भवतीत्यत्राह तथा हि इति । अविच्छिन्नप्रकाशत्वं चास्याः तद्रूपात्मविषयत्वेन ज्ञेयम् । विषयविषयिणोर्हि ऐक्यं स्वयमेव कथयिष्यति । ननु यद्यसौ सम्भवति तर्हि त्वं किम्प्रवृत्त इत्यत्राह निरोधक इति । निरोधकाभिमता - आवृतिकारित्वेनाभिमता, समपसारणम् - दूरीकरणम् । न हि वातेनापसारितमेघावरणः सूर्यस्तदुत्पादित इति कथ्यते इति भावः । परस्मैपदप्रयोजनं कथयति प्रत्यभिज्ञा इति ।

कर्त्रभिप्रायादि, मुख्यकर्तुरिष्टत्वादिति । “आदि” शब्देनान्येषामात्मने - पदनिमित्तानां ग्रहणम् । असम्भाव्यम् सर्वतरैक्यदर्शनात् सम्भावयितुमशक्यमित्यर्थः । परस्मैपद प्रयोगः इति, शेषात्कर्तरि

योजना, - महेश्वरस्य दास्यं समस्तसम्पल्लाभहेतुं कथञ्चित् आसाद्य, जनस्यापि कथञ्चित् तत्प्रत्यभिज्ञाम् आसाद्य प्रापय्य, उपाकारं समस्तसम्पल्लाभहेतुभूतं महेश्वरदास्यात्मकम् इच्छन्, तामेव समस्तसम्पत्समवाप्तिहेतुकां तत्प्रत्यभिज्ञाम् उपपादयामि । “आसाद्य” इति आवृत्तियोजने द्वौ णिचौ । इयति च व्याख्याने वृत्तिकृता भरो न क्र्तः, तात्पर्यव्याख्यानात् । यदुक्तम् :-

“संवृतसौत्रनिर्देशविवृतिमात्रव्यापारायाम् ।”

इति । टिकाकारेणापि वृत्तिमात्रं व्याख्यातुमुद्यतेन नेदं स्पृष्टम्, अस्माकं तु सूत्रव्याख्यान एव उद्यम - इति विभज्य व्याख्यातम् । एवं सर्वत्र ।

इति शेषशब्दाक्षिप्त इति भावः । इत्थं प्रतिपदं व्याख्यां कृत्वा योजनां कर्तुमारभते इत्थं च इति । नन्वासाद्येत्यस्य कथं प्रापय्येत्यस्य पर्यायत्वं युक्तमित्याशङ्क्याह आसाद्य इति । आवृत्या - आवर्तनेन, योजने - प्रत्यभिज्ञाख्यकर्मसम्बन्धे, इति भावस्तु ।

णेरनिटि

इति द्वयोरपि णिचोर्लुप्तत्वादिति हेतुरूपः । ननु वृत्त्यादिषु एतावान् प्रपञ्चो न दृश्यते इत्यत आह इयति इति । भरः - प्रयत्नः । संवृतः - गूढतात्पर्यः यः सौत्र - निर्देशः तस्य यत् विवृतिमात्रम् - तात्पर्यप्रकटनमात्रं तत्र व्यापारः यस्या वृत्तेः तादृश्याम् । न स्पृष्टम् इति, व्याख्यानस्य का कथेति भावः । तेषां बुद्धिरेव नात्र व्यापृतेति सूचितार्थः । एवं सर्वत्र इति, सर्वेष्वेव सूत्रेष्वयं न्याय इत्यर्थः । उपसंहारं करोति एवम् इति । गुरुपर्वक्रमः सम्बन्धः - गुरुपरम्परासम्प्रदायरूपः सम्बन्धः । अनेनास्योपदेशस्य महागुरुप्रसिद्धत्वमेव मूलत्वेन सूचितम् । नचैतावताऽनुपादेयताशङ्का कार्या, महारहस्यत्वेन परमोपादेयत्वात् । महारहस्योपदेशा हि कर्णोपकर्णिकयैवागताः ।

परन्तु कैश्चित्कारुणिकैर्महारहस्यशास्त्रेषूपनिबद्धास्तथापि ते रहस्यत्वेनैव स्थिताः । तज्ज्ञानामपि तत्रानादृतिदर्शनात् । तदुक्तम्:-

प्रसिद्धिरविगीता हि सत्या वागीश्वरी मता इति ।

एवमनेन श्लोकेन अभिधेयम्, प्रयोजनम्, तत्प्रयोजनम्, तत्प्रयोजनम्, अधिकारिनिरूपणम्, गुरुपर्वक्रमः सम्बन्ध - इति दर्शितम् । तथा हि - समस्तसम्पल्लक्षणो व्याख्यातो योऽर्थः पूर्वं पुण्यपापादौ संसारमूलकारणे हेतुः, स एव प्रत्यभिज्ञायते अनया - इति करणव्युत्पत्त्या उपायः इह लोकोत्तरमार्गं प्रति निर्णीतः, इति अतिदुर्थटकारित्वलक्षणमैश्वर्यम्

मार्गो नव (४ अ। ३ आ। १६ श्लो)

अविगीतेति पदेनात्र सामान्यजनप्रसिद्धिर्निवारिता । अत एवात्र श्रुतिप्रमाणं प्रार्थयतां प्रौढमेव । कृतश्चात्र पूर्वं भर इति न पुनरायस्यते । कथं दर्शितमित्यत आह तथा हि इति । आचार्येण कर्त्रा ।

उपायः - समस्तसम्पत्समवाप्तिर्हेतुः यस्यां सा तामिति बहुव्रीहिणा उक्तः नीलसुखादिसिद्धिरूपः प्रत्यभिज्ञोपाअयः कर्म, आभिधेयत्वेन - अयमेवेहाभिधेय इत्येवम्भावेन, दर्शितः - साक्षात्कथितः । कया कृत्वा? पूर्वम् - संसार्यवस्थायाम् । संसारमूलकारणे पुण्यपापादौ हेतुः - हेतुभूतः । समस्तसम्पल्लक्षणः - नीलसुखादिसर्वसम्पत्स्वरूपः, योऽर्थो व्याख्यातः - समनन्तरं बहुव्रीहिमाश्रित्य प्रत्यभिज्ञोपाअयतया विवृतः, स एव प्रत्यभिज्ञायते

  • उपायभावेन जनविषये प्रत्यभिज्ञापदं प्राप्यते, अनया - अनेन शास्त्रेण, इति करणव्युत्पत्त्या - करणार्थघटनासाधनेन ।

प्रत्यभिज्ञायाः ह्येतावानेवातिशयः । संसारमूलकारणे पुण्यपापादिहेतुभूते नीलसुखादौ एव ययोपायतां [यथोपयताम् - च्।] तद्विषयप्रमान्वेषणद्वारेणजनः प्रत्यभिजानाति, यः पुण्यपापहेतुत्वेन मम पूर्वं प्रसिद्धः नीलसुखादिर्भावः स एव मोक्षसाधनमिति । अन्यथास्याः व्यर्थत्वमेव स्यात् । तदुक्तम्:-

इति शास्त्रान्ते निरूपयिष्यमाणं सूचयता उपायः दर्शितः [प्रदर्शितः - क्। ष्। ष्।] अभिधेयत्वेन । अत एव

“तथा हि जडभूतानाम्” (१ अ। १ आ। ४ श्लो)

इत्युपक्रमपूर्वकं [उपक्रमपूर्वम् - क्। ष्। ष्।] श्लोकान्तरं भविष्यति ।

प्रयोजनं च प्रत्यभिज्ञोपायज्ञानम्, तस्य प्रयोजनम् प्रत्यभिज्ञानम्, तस्यापि प्रयोजनं समस्तसम्पल्लक्षणपारमैश्वर्यैकरूपप्रथनम्,

ये नैव मुह्यति जडः प्राज्ञस्तरति तेनैव संसारात्

इति । एतेन श्लोके तच्छब्देन समस्तसम्पदिति भागस्यैव परामर्शः न महेश्वरस्येति दर्शितम् । आचार्येण कीदृशेन ? शास्त्रान्ते - प्रत्यभिज्ञान्ते, मार्गो नव इत्यनेनार्याभागेन । निरूपयिष्यमाणम् अतिदुर्घटकारित्वलक्षणम् - नवोपायीभूतनीलसुखादिमोक्षहेतुकथनरूपदुःसम्पाद्यवस्तुसम्पा - दनरूपम्, स्वकीयमैश्वर्यम्, सूचयता - जनं प्रति लौकिकोपायस्याभिधेयत्वदर्शनेन सूचनाविषयतां नयता, कथम् ? इति ।

इति किमिति ? मया कर्त्रा स एव - उत्कर्षः, इह - अस्मिन् शास्त्रे, लोकोत्तरमार्गं प्रति - मोक्षं प्रति, उपायो निर्णीतः । स एव क इत्यपेक्षयामाह समस्त इत्यादि स एव इत्यन्तम् । हेतुः इत्यन्तम् पूर्ववदेव योजना । समस्त इत्यस्य भागस्य काकाक्षिबदुभयत्र करणत्वेन योजनम्, अन्यथा सम्बन्धायोग्यतापातात् । अत एव इति । अतः - यत उपायोऽभिधेयत्वेन दर्शितः ततः कारणात्, उपक्रमपूर्वकम् - तथा हि शब्दद्योत्यारम्भपूर्वकम् । श्लोकान्तरम् - प्रत्यभिज्ञोपदर्श्यते इत्यन्तोपलक्षितश्लोकादन्यः श्लोकः । तत्रैव चोक्तोपायाभिधानोपक्रम इति भावः । प्रत्यभिज्ञानम् - जनविषये परमेश्वरस्य नीलसुखाद्युपायस्य च प्रत्यभिज्ञासम्पादनम् । समस्तसम्पत् इत्यस्य नीलसुखादिरूपमर्थं कृत्वा प्रथमप्रयोजनत्वं परमेश्वराद्वयप्रथनरूपमर्थं कृत्वा द्वितीयप्रयोजनत्वम् [तृतीयप्रयोजनत्वम् - च्।]

ततः परं नास्त्येव तस्य सर्वपर्यन्तफलत्वादंशांशिकयापि ।

यदुक्तं मयैव स्तोत्रै :-

“फलं क्रियाणामथवा विधीनां पर्यन्ततस्त्वन्मयतैव देव ।

फलेप्सवो ये पुनरत्र तेषां मुढा स्थितिः स्यादनवस्थयैव ॥”

इति । एतद् वक्ष्यति :-

“तदत्र निदधत्पदम् (४ अ। ३ आ। १६ श्लो)

इति पादद्वयेन । “जनस्य” इत्यनेन अधिकारी दर्शितः । यत् निगमयिष्यति :-

“अनिशमाविशन्” (४ अ। ३ आ। १६ श्लो)

इति । “कथञ्चित्” इत्यनेन गुरुपर्वक्रमः । वक्ष्यति :-

“महागुरुभिरुच्यते स्म शिवदृष्टिशास्त्रे यथा ।

(४ अ। ३ आ। १६ श्लो)

इति । एवं प्रत्यभिज्ञातव्यसमस्तवस्तुसङ्ग्रहणेन [प्रतिज्ञातव्यसमस्तवस्तुसङ्ग्रहणेन - क्। ष्। ष्।] इदं वाक्यमुद्देशरूपं प्रतिज्ञापिण्डात्मकं च, मध्यग्रन्थस्तु हेत्वादिनिरूपकः,

एतदेव च परमप्रयोजनमिति दर्शयितुमाह ततः परम् इति ।

अंशांशिकयापि, लेशाल्लेशेनापीत्यर्थः । अत्र स्वकीयं पद्यमुन्दाहरति यदुक्तम् इति । पर्यन्ततः, आपातेऽन्यफलत्वेपि पर्यन्ते चित्तशोधनादिद्वारेण त्वन्मयतैव फलमित्यर्थः । अत्र - अस्यां त्वन्मयतायाम् । मूढा - लक्षणया मूढत्वद्योतिका, अथवा मूढा इति बहुवचनान्तम्, तथा च ये मूढा इति सम्बन्धः, तथा च खर्परेशरि इति विसर्गलोपः । सूत्रकारोप्येतद्वक्ष्यत्येवेत्याह एतत् इति । केन वक्ष्यतीत्यत आह तदत्र इति । गुरुपर्वक्रमः - अस्मादनेन प्राप्तमिति गुरुपरम्परासम्प्रदायरूपः सम्बन्धः । उपसंहारं करोति “एवम्” इति । प्रत्यभिज्ञातव्यम् - अस्मिन् शास्त्रे प्रत्यभिज्ञाविषयत्वेनाभिधेयम् । इदम्

  • व्याख्यातम्, वाक्यम् आद्यश्लोकरूपम् । उद्देशरूपम्, नाममात्रेण वस्तुसङ्कीर्तनात् । आदिशब्देनोदाहरणोपनययोर्ग्रहणम् ।

पञ्चावयवात्मकम् - प्रतिज्ञाहेतूदाहरणोपनयनिगमनरूप - पञ्चाङ्गस्वरूपम् । एतेनास्य शास्त्रस्य परार्थानुमानत्वं साधितम् ।

“इति प्रकटितो मया” ( ४ अ। ३ आ। १६ श्लो)

इति च अन्त्यश्लोको निगमनग्रन्थः - इत्येवं पञ्चावयवात्मकमिदं शास्त्रं परव्युत्पत्तिफलम् । नैयायिकक्रमस्यैव मायापदे पारमार्थिकत्वम् - इति ग्रन्थकाराभिप्रायः

“क्रियासम्बन्धसामान्य” (२ अ। २ आ। १ श्लो)

इत्यादिषु उद्देशेषु प्रकटीभविष्यति - इति तावद् ग्रन्थस्य तात्पर्यम् ।

सुजनश्च लौकिकेश्वरपरिचित ईश्वरविषये जनम् अनुजीविगूणसम्पन्नं [उपपन्नम् - क्। ष्। ष्।] प्रकाशयति, जनविषये च अभिगामिकादिगुणगणसम्पन्नम् ईश्वरं प्रकाशयति - इति इयानर्थः सामान्येन षष्ठीसमासेन दर्शितः “तस्य प्रत्यभिज्ञा” इति ।

ननु किमिति भेदनिष्ठतार्किकवाद आश्रित इत्यपेक्षायामाह नैय्यायिक इति ।

मायापदे - मायाधोवर्तिभेदोपहततत्त्वनिर्णये, यादृशो यक्षस्तादृशो बलिरिति न्यायानुसारेणेति भावः । ननु त्वया कथमेतत् ज्ञातमित्यत्राह क्रियासम्बन्ध इति । उपसंहारं करोति इति इति । इति - अतः, तावत्, अत्र कस्यापि विप्रतिपत्तिर्नास्तीत्यर्थः । ग्रन्थस्य - प्रत्यभिज्ञाशास्त्राख्यस्याऽथवाऽऽदिश्लोकरूपस्य । तात्पर्यम् - व्यतिरिक्तं लोकसिद्धवस्तु । सामान्यषष्ठीसमासद्योतकं कथयति सुजनश्च इति । सुजनशब्देन मध्ये विरोधापादकदुर्जनव्यवच्छेदः ।

अनुजीविनः - भृत्यस्य ये गुणाः - सेवाकारित्वादयः, तैः सम्पन्नम् - परिपूरितम् । आभिगामिकादिगुणाः - समीपगमनयोग्यतादिरूपा गुणाः, तैः सम्पन्न्म् । आदिशब्देन दातृत्वादिगुणग्रहणम् । समासमेव विग्रहद्वारेण दर्शयति तस्य प्रत्यभिज्ञा इति । तस्य - जनस्येश्वरविषये प्रत्यभिज्ञा तस्येश्वरस्य च जनविषये प्रत्यभिज्ञा इति विग्रहार्थः । ननु समस्तं प्रत्यभिज्ञाशास्त्रं श्रुत्वा जनस्य फललाभः स्यात्, अथवा प्रथमश्लोकश्रवणकाले एवेत्यत आह एतत् इति । एतस्य - आदिश्लोकस्य,

एतच्छ्लोकाकर्णनसमये च शिष्याणाम् एतदर्थसङ्क्रमणक्रमेण परमेश्वरतादात्म्यमेव उपजायते तावत् । तथा हि - “जनस्य” इत्याकर्णनात् वयं ते जननमरणपीडिता अपर्युदस्तवृत्तयश्च, अस्माकमयम् उपकारम् इच्छन्, महेश्वरस्य दास्यम् आसाद्य, समस्तसम्पत्समवाप्तिहेतुं तत्प्रत्यभिज्ञाम् उपपादयति; ततश्च [ततश्च प्रत्यभिज्ञाम् - क्। ष्। ष्।] तत्प्रत्यभिज्ञामेवम्भूतां वयं प्राप्ता एव, इतीत्थमेव [एव इति । इत्थम्

  • क्। ष्। ष्।] हि अधिकारिणि शास्त्रार्थस्य बिम्बप्रतिबिम्बवत् सङ्क्रान्तिः लोड्लिङादीनां विषयीभवति प्रथमपुरुषार्थ [प्रथमपुरुषार्थः - क्।

ष्। ष्।] उत्तमपुरुषार्थे पर्यवस्यति, न तु ताटस्थ्येन;

योऽर्थः तस्य सङ्क्रमणम् - सिद्धत्वेनान्तःस्फुरणम्, तस्य यः क्रमः तेन । शिष्याणाम् इत्यधिकारिग्रहणम् । अन्यथा कामनारहितानां शिष्याणामपि तदापत्तेः, फलकामनाविष्टा एव हि फलोपायश्रवणकाले एव तल्लाभभाज इव तिष्ठन्ति नान्ये । ताअवत् इति, कस्याप्यत्र विप्रतिपत्तिर्नास्तीत्यर्थः । ननु कथमेतदित्यत्राह तथा हि इति । तथा हि - तथा दृश्यताम्, अधिकारिणि - फलकामनाविष्टे पुरुषविशेषे ।

जनस्येत्याकर्णनात् - मनोगतजननमरणपीडाद्योतकजनस्येतिशब्दश्रवणेन, इतोत्थम् - इत्यनेन प्रकारेण । शास्त्रार्थस्य - वक्ष्यमाणस्य शास्त्राभिधेयस्य ।

बिम्बप्रतिबिम्बवत् - बिम्बप्रतिबिम्बन्यायेन । सङ्क्रान्तिः - मनसि स्फूर्तिः स्यात् । कस्मिन् सति ? लोट्लिङादीनां विषयीभवति - वाच्यतां गते ।

प्रथमपुरुषार्थे - नाम्नि । उत्तमपुरुषार्थे - अस्मदि । पर्यवस्यति - विश्राम्यति सति, अयमुपपादयति,

अधिकार्यनधिकारिणोः प्रतिपत्तौ विशेषाभावप्रसङ्गात् । आरोग्यकामाः शिवां सेवन्तां सेवध्वम् - [सेवेध्वम् - क्। ष्। ष्।] इति वा वाक्यार्थस्य सेवामहै - इत्येवंरूपेण अधिकारिणि द्वितीया [द्वितीयकक्ष्यासङ्क्रान्तौ - क्। ष्। ष्।] कक्ष्या सङ्क्रान्तौ, तृतीयकक्ष्यामेव [तृतीयकक्ष्यायामेव - क्। ष्।

ष्।] भाविकोटिपतितामपि पुरुषार्थ

वयं प्राप्ता इत्येवमित्यर्थः । आदिशब्देन लटो ग्रहणं । परमार्थतः उपपादयामीति श्लोके स्थितत्वेन शिष्यबुद्धौ स्फुरितस्य लतः प्रथमपुरुषस्य तत्रास्थितत्वात् च्विप्रयोगः । प्रथमपुरुषार्थे इति मध्यमपुरुषस्याप्युपलक्षणम्, तस्यापि क्वचित्प्रयोगे उत्तमपुरुषार्थे पर्यवसानात् यथात्रैव लक्ष्यमाणे उदाहरणे, सेवध्वम् सेवामहै इति ।

इति - इत्थम्, कथम् ? ते वयञ्जननमरणपीडिताः - अत एवापर्युदस्ता - पर्युदासविषयतां न नीता वृत्तिर्येषां तादृशाश्च, अधिकारित्वेन गृहीता इति यावत्, भवामः । अस्माकमयम् - आचार्यः, उपकारमिच्छन् महेश्वरस्य दास्यमासाद्य समस्तसम्पत्समवाप्तेः हेतुम् - कारणभूताम् । तत्प्रत्यभिज्ञाम् - ईश्वरप्रत्यभिज्ञाम् । उपपादयति - सम्पादयति, ततश्च - तस्मात्कारणाच्च, वयमेवम्भूताम् - समस्तसम्पत्समवाप्तिहेतुभूताम्, तत्प्रत्यभिज्ञां प्राप्ता एव, उपायलाभस्यैवाधिकारिविषये उपेयलाभरूपत्वात् । न तु ताटस्थ्येन इति ।

तु - व्यतिरेके । अधिकारिणि ताटस्थ्येन नायमुपपादयति । किमस्माकं तेन इति तटस्थभावेन सङ्क्रान्तिर्न भवति । अत्र हेतुमाह अधिकारि इति । अत्र दृष्टफलस्य हि आयुर्वेदस्य वाक्यं दृष्टान्तत्वेन कथयति आरोग्यकामाः इति । आरोग्यकामनायुक्ताः, शिवाम् - हरीतकीम् सेवन्ताम् इति लोटः प्रथमपुरुषप्रयोगयुक्तस्य, सेवध्वमिति वा मध्यमपुरुषप्रयोगयुक्तस्य, वाक्यार्थस्य - पदसमूहवाच्यस्य, सेवामहै इत्येवंरूपेण - उत्तमपुरुषे पर्यवसानरूपेण, सङ्क्रान्तौ द्वितीया कक्ष्या भवति । वाक्यप्रयोगस्यैव प्रथमक्ष्यत्वात् । कुत्र ? अधिकारिणि - आरोग्यकामनाविष्टे पुरुषविशेषे । कीदृशे ?

सम्पत्तिम् अकालकलितस्वरूपानुप्रवेशेन स्वात्मीकृताम् अभिमन्यमाने, तत एव विततसंवित्सुन्दरपरामर्शे पूर्णताभिमानप्रतिलम्भात्, अन्यस्य तु अनेवंरूपत्वेनैव अनधिकारिता [अधिकारिता - क्। ष्। ष्।] ताटस्थ्यप्राणा - इति ।

तदास्ताम् अवान्तरमेतत् अतिगहनं च - इति स्थितमेतत् । एतेन श्लोकेन ईश्वरसाम्मुख्यं विनेयानां प्रयोजनादिप्रतिपादनं च क्रियते - इति ।

तृतीयकक्ष्यामेव - तत्सेवनरूपां तृतीयकक्ष्यामेव, भाविकोटिपतिताम्

  • चतुर्थकक्ष्यायां भाविनीम्, पुरुषार्थसम्पत्तिम् - आरोग्यसम्पत्तिम्, स्वात्मीकृताम् - प्राप्ताम्, अभिमन्यमाने - वस्तुसौन्दर्यबलेन अभिमानविषयतां नयति । केन ? अकलकलितम् - कालास्पृष्टम्, यत्स्वरूपम् - चिन्मात्राख्यं निजं स्वरूपम्, तत्रानुप्रवेशेन - स्वभावबलसिद्धेनावेशेन । पुनः कीदृशे ? पूर्णताभिमानस्य यः प्रतिलम्भः - प्राप्तिः, ततः, वितता - व्याप्तिं गता संविद् यस्य तादृशश्चासौ सुन्दरश्च परामर्शो यस्य तादृशे । अतिकामनाविष्टो हि काम्योपायप्राप्तिसमय एव तृप्तो दृश्यते इति न कोपि विरोधः । ननु य एवं न सम्पद्यते तस्य का वार्तेत्यत्राह अन्यस्य इति । अनधिकारिता - अधिकारिताया भावः, आस्ताम्, अलमित्यर्थः । सिद्धमर्थं सङ्गृह्य कथयति स्थितम् इति । स्थितम्, सिद्धमित्यर्थः । विनेयानाम् - शिष्याणाम् इति शब्दः समाप्तौ आद्यश्लोकसमाप्तिं सूचयति ।

अहमामर्शमात्रेण जगतो यः स्वसूत्रणाम् ।

करोत्युपोद्घातमयीं हृदये तं स्तुमः शिवम् ॥

एवं शास्त्रसमाप्तिप्रयोजनं मङ्गलं सम्पाद्य प्रथमं स्थिते ज्ञानाधिकाराख्यप्रथमविमर्शे प्रथमाह्निकव्याख्यानिर्विघ्नसमाप्तये स्वेष्टदेवताभूतं श्रीशिवं स्तौति आह्निकतात्पर्यं च सूचयति अनन्त इति ।

अनन्तभावसम्भारभासने स्पन्दनं परम् ।

उपोद्घातायते यस्य तं स्तुमः सर्वदा शिवम् ॥

ननु ईश्वरस्य सिद्धिरेव कर्तव्या । केयं सिद्धिः ? न तावत् उत्पत्तिः, नित्यत्वात् । नापि ईश्वरसिद्धिकारादयस्तस्योत्पत्तिं विदधते । ज्ञप्तिः सिद्धिरिति चेत्, अनवच्छिन्नप्रकाशस्य प्रमाणव्यापारोपाधेयप्रकाशात्मक - सिद्ध्यनुपयोग एव । ननु अनवच्छिन्नस्तदीयं प्रकाश - इति कथमेतत्; नीलसुखादिप्रकाशे [घटसुखादिप्रकाशे - क्। ष्। ।ष्] हि तत्प्रकाशः कुतः ? तदप्रकाशेऽपि सुप्तमुर्छादौ नितराम्, [नतराम् - क्। ष्। ष्।] स्वप्रकाशेऽपि वा ईश्वरे प्रमातॄणां किं वृत्तं येन तेषां प्रमाणव्यापारानुपयोग इत्याशङ्क्याह :-

अत्र टीका :-

वयं तं शिवम् - प्रकाशस्वभावं सर्वानन्दकारिणम् परमात्मानम् । स्तुमः - सर्वोत्कृष्टतया भावयामः । तं कम् ? अनन्तः - अपरिच्छिन्नः, यो भावसम्भारः - स्वान्तर्निमग्नः पदार्थसमूहः तस्य भासने - अहमिति स्वान्तःप्रदेशात् इदमिति बहिरवभासने । यस्य परं स्पन्दनम् - स्वरूपात् किञ्चिच्चलनरूपः अहमिति सामान्यस्पन्दः । उपोद्घातायते -

चिन्तां प्रकृतसिद्ध्यर्थामुपोद्घातं परचक्षते

इति । तथा उप - समीपे तददावेव हन्यते - टङ्क्यते दीनारे इव राजनामात्र शास्त्राभिधेयम् इति उपोद्घातः, स इवाचरति, भाविनः पदार्थसमूहस्य सामान्यस्पन्दे एव प्रथमं स्थितत्वात्, अन्यथा निर्गमासम्भवप्रसङ्गात् । अनेन चोपोद्घाताह्निकमिदमिति सूचितम्, उपोद्घातत्वं चास्य वक्ष्यमाणसर्वशास्त्रार्थद्योतकत्वेन ज्ञेयम् ।

एवं मङ्गलं सम्पाद्य प्रथमश्लोकोपन्यासार्थमवतरणिकां करोति ननु इति ।

करति ज्ञातरि स्वात्मन्यादिसिद्धे महेश्वरे ।

अजडात्मा निषेधं वा सिद्धिं वा विदधीत कः ॥ १ ॥

अत्र टीका :-

ननु इति पूर्वपक्षवादिप्रश्ने । कर्तव्या - अवश्यकरणीया । अन्यथा तद्विषयत्वेन प्रतिज्ञातायाः प्रत्यभिज्ञाया उपपादनासम्भवादिति भावः । अत्र वादी विकल्पं करोति केयम् इति । किंशब्दः प्रश्नाक्षेपवाच्ची ।

उत्पत्तिरूपसिद्धिं नाशयितुमाह न तावत् इति । ननु तर्हि कथं वादिनः तदुत्पत्तिं कथयन्तीत्यत्राह नापि इति । पुनः शिष्यप्रश्नमाशङ्कते ज्ञप्तिः इति । अत्राप्युत्तरमाह अनवच्छिन्न इति । अनवच्छिन्नप्रकाशस्य - स्वप्रकाशत्वेन सततमवभासमानस्य नित्यप्रकाशरूपस्य च, अर्थादीश्वरस्य । प्रमाणव्यापारोपाधेयः - प्रमाणव्यापारसाध्यत्वेन तदवच्छेद्यो यः प्रकाशः - ज्ञप्तिः, तदात्मिका या सिद्धिः तस्या अनुपयोग एव भवति । न हि सूर्यस्य प्रकाशे दीपापेक्षा युक्तेति भावः । तदुक्तम् :-

उपायजालं न शिवं प्रकाशयेत् घटेन किं भाति सहस्रदीधितिः ।

विचारयनित्थमुदारदर्शनः स्वयम्प्रकाशं शिवमात्मवित्खलु ॥

इति । तथा :-

अपरेक्षे भवत्तत्त्वे सर्वतः प्रकटे स्थिते ।

यैरुपायाः प्रतन्यन्ते नूनं त्वां न विदन्ति ते

इति । अत्र पूर्वपक्षवादी ननु इति आक्षेपं करोति । अनवच्छिन्न इति कथमेतत्, तदीयप्रकाशस्यानवच्छिन्नप्रकाशत्वं न युज्यते इत्यर्थः । एतदेव समर्थयितुमाह नील इति । कुतः, न भवतीत्यर्थः । न हि नीलज्ञानमेवेश्वरज्ञानमिति भावः । तर्हि नीलाद्यप्रकाशे तत्प्रकाशोऽस्त्वित्यत्राह तत् इति । नितरां कुत इति योजना, अतिशयेन नास्तीत्यर्थः । अनविच्छिन्नप्रकाशत्वमभ्युपगम्यापि प्रमाणव्यापारानुपयोगं प्रत्याह स्वप्रकाशे इति । प्रमातॄणाम् - ईश्वरप्रमातॄणाम्, किं वृत्तम् - सम्पन्नम् । स्वप्रकाशेऽपि अनवच्छिन्नप्रकाशत्वसाधकस्वप्रकाशत्व - युक्तेऽपीत्यर्थः ।

इत्याशङ्क्य - प्रश्नोत्तरपूर्विकां शङ्कां कृत्वा । आह, कथयतीत्यर्थः ।

इह क ईश्वरे कीदृशे कीदृशेन प्रमाणेन अस्ति इति ज्ञानलक्षणां सिद्धिम्, नास्तीति ज्ञानलक्षणं वा निषेधं कुर्यात् ? प्रमाता इति चेत्, स एव काः ? देहादिर्जडः त तदन्यो वा कश्चित् आत्मादिशब्दवाच्यः ? सोऽपि स्वप्राकाशस्वभावो वा न वा ? देहादिर्जडः इति इति चेत्, स एव स्वात्मनि असिद्धः परत्र कां सिद्धिं कुर्यात् आत्मापि अस्वप्राकाशो जड एव तत्तुल्ययोगक्षेमः । स्वप्रकाशस्वभावः इति चेत्, कीदृशेन स्वेन रूपेण भाति ? [आभाति - क्। ष्। ष्।] यदि परिनिष्ठितसंविन्मात्ररूपेण, तदा संविदां भेदनम्, भेदितानां च अन्तरनु -

एवमवतरणिकां कृत्वा प्रथमं श्लोकमुपन्यस्य व्याचष्टे । कतरि इति ।

अत्र टीका :-

पद्यं भङ्ग्या व्याख्यातुमारभते इह इति । इह - ईश्वराधीनसिद्धिके जगति । कः - तदन्तर्गत्ः को भावः, कीदृशे - किङ्गुणे ईश्वरे । सर्वत्रात्र किंशब्दः प्रश्नाक्षेपपरः । शिष्योत्तरं शङ्कते प्रमाता इति । प्रमाता - तार्किकादिः । साङ्ख्यादीनां लौकिकस्यात्रोपेक्षाविषयत्वात् । गुरुरत्र शिष्यं प्रति पश्नयति स एव इति ।

किंशब्दस्यार्थं विभज्य दर्शयति देहादि इति । आदिशब्देन बुद्ध्यादेर्ग्रहणम् । तदन्यः - देहादेअरन्यः चिन्मात्ररूपः ।

आदिशब्देनान्येषां पर्यायाणां ग्रहणम् । शङ्कितस्य द्वितीयपक्षस्यापि द्वैविध्यं शकते सोपि इति । सोपि - तदन्योपि ।

पक्षद्वयमध्यात् प्रथमं पक्षमनुवदति स एव इति । स एव - देहादिरेव, असिद्धः - बुद्धिप्रमात्रधीनसिद्धिकत्वेन सिद्धिरहितः, परत्र - स्वव्यतिरिक्ते ईश्वरे । द्वितीयपक्षस्य प्रथमं प्रकारं बहुवक्तव्यत्वेन तावदवस्थाप्य द्वितीयं प्रकारं प्रत्याह आत्मा इति । तस्य - देहादेः, तुल्यौ योगक्षेमौ, अप्राप्तस्य शुभस्य लब्धिः

सन्धानेन अभेदनं न स्यात्; तेन स्वतन्त्रस्वप्रकाशात्मतया तावत् स भासते, तथाभासमानश्च कीदृशमीश्वरं साधयेत् निषेधेत् वा ? कर्तृज्ञातृस्वभावम् इति चेत् ननु स प्रमातैव तथाभूतः इति कोऽन्यः सः ? ननु सर्वकर्तृत्वसर्वज्ञत्वे प्रमातुर्न स्तः; न खलु सर्वशब्दार्थो ज्ञातृकर्तृत्वयोः स्वरूपं भिनत्ति,

योगः, तद्रक्षणं क्षेमः, तौ यस्य सः, तत्तुल्य इति यावत् । द्वितीयपक्षय स्थापितं प्रथमं प्रकारमपि स्वाभीष्टत्वेन विभज्य वक्तुमारभते स्वप्रकाश इति । स्वशब्दार्थव्याकरणं प्रति शिष्यं प्रेरयति कीदृशेन इति । भाति - स्वं प्रति स्फुरति । कीदृशेनेत्याक्षिप्तपक्षद्वयमध्यादेकं दूषयति यदि इति । परिनिष्ठितम् - शान्तत्वेन स्वरूपमात्रे स्थितं यत्संविन्मात्रं तदेव रूपं तेन । अत्र प्रतिसमाधानं करोति तदा इति ।

भेदनम् - विषयग्रहणकाले विभागं कृत्वाऽन्योऽन्यतः भेदेन भासनम्, अभेदनम् - स्मृतिसमये एकीकरणम् । अन्यथा स्मृत्यसम्भवप्रसङ्गात् । स्मर्ता हि स्मृतिकाले - नीलादिविषयं पूर्वापरं ज्ञानद्वयमेकविषयताकरणेनैकीकरोत्येव । तदेव स्मरणमुच्यते । एतेन वेदान्तमतनिरासः कृतः । ते एव हि शान्तस्य परिनिष्ठितस्य ज्ञानमात्रस्यात्मत्वं कथयन्ति । शान्तत्वे [शान्तत्वे च भेदने - च्।] च भेदनाभेदने असम्भवोपहते एव । यत्तु तेऽपि विषयोपरागं नेच्छन्ति तेन विज्ञानवादात् स्वस्य निष्कृतिमेव कुर्वन्ति न तुत्तमपदमाश्रयन्तीत्यलम् महात्मसुचोदनाभिः । द्वितीयं तु स्वाभीष्टसाधकत्वेनाश्रयति तेन इति । तेन - यतः पूर्वोक्तं न युज्यते तत इत्यर्थः । स्वतन्त्रः - संविदां भेदनाभेदनयोः समर्थः । स - आत्मा, तथाभासमानश्च - स्वतन्त्रप्रकाऽसभावेन स्फुरंश्च ।

कीदृशमित्याक्षिप्तपक्षद्वयमध्ये कर्तृत्वादिरहितस्येश्वरत्वमत्यन्तमयोग्यं ज्ञात्वा शिष्यार्थं द्वितीयमाश्रित्येष्टापत्तिं साधयति कर्तृ इति । ननु इति प्रतिवचने ।

तथाभूतः - कर्तृज्ञातृस्वभावः, इति - अतः कारणात् । सः ईश्वरः पुरःस्थितस्यात्मन एवेश्वरत्वे किमर्थमन्यमीश्वरं साधयाम इति भावः । अत्र शिष्यप्रश्नं शङ्कते ननु इति । तथा च प्रभातुरीश्वरत्वं न युक्तमिति प्रष्टुरभिप्रायः । अत्रोत्तरमाह न खलु इति ।

भेददर्शनेऽपि ईश्वरज्ञानचिकीर्षायत्नादेर्नित्यस्य विषयेण अकारणभूतेन अनाधेयातिशयत्वात् । प्रकाशमानतानयनमेव विषयत्वम् इति चेत्, अप्रकाशस्वभावस्य तथात्वमनुचितम् - इति वक्ष्यामः ।

प्रकाशमानस्वभावत्वे विषयोऽपि सर्वात्मना प्रकाश एव निमग्न इति प्रकाशः प्रकाशते - इत्येतावन्मात्रपरमार्थत्वे कः सर्वज्ञासर्वज्ञविभागः ?, प्रमाणमपि एवं सिद्धत्वा -

न हि कणभावचयभावयोरग्नेः स्वरूपभेद इत्त्युत्तरवाक्याभिप्रायः ।

नैयायिकदर्शनसिद्धं वस्तु हेतुत्वेनाश्रयति भेद इति । अकारणभूतेन

  • आलम्बनकारकतया कारणभावमगतेन । अनाधेयातिशयत्वात् - आधातुमशक्यातिशयत्वात्, अन्यथा नित्यत्वासम्भवादिति भावः । अत्र भेददर्शनमसहमानस्य शिष्यस्य चोद्यं शङ्कितम् प्रकाश इति । तथा चालम्बन कारकरूपविषयप्रतिपादनपरस्य भेददर्शनस्य हेतुत्वेनाश्रयणमयक्तमिति भावः । स्वयमेवाङ्गीकृतसिद्धान्तस्य शिष्यस्य शङ्कितं चोद्यमेव स्वाभीष्टसाधकत्वेनाश्रयति अप्रकाशमान इति । तथात्वम् - प्रकाशमानतायां नयनम् । न हि प्रयत्नशतैरपि अग्निरनग्नितां नेतु शक्यते इति भावः । अवशिष्टं प्रकाशमानतास्वभावत्वमाश्रित्य स्वाभीष्टं साधयति प्रकाशमान इति । प्राकाश एव निमग्नः - ब्रुडितः, ततो भेदेनाभासात् । अग्निकण इवाग्निचये इति भावः । ननु निमज्जतु ततः किमित्यत्राह इति इति । इति - अतः कारणात् । प्रकाशः - विषयरूपः प्रकाशलेशः, प्रकाशते - महाप्रकाशः साक्षाद् भवति । एतावन्मात्रपरमार्थत्वे सति कः सर्वज्ञासर्वज्ञविभागः, अयं जीवः असर्वज्ञः अयमीश्वरः सर्वज्ञ इति विभागो न भवति । परमार्थतः सर्वत्रैकप्रकाशरूपत्वादिति भावः । तदुक्तम् :-

नीलं पीतं सुखमिति प्रकाशः केवलः शिवः ।

अमुष्मिन् परमाद्वैतप्रकाशात्मनि कोपरः ॥

इति । नन्वर्थाक्षिप्तस्य कीदृशेन प्रमाणेन इत्ययस्य का वातत्यपेक्षायामाह प्रमाणम् इति । एवम्, प्रमातॄवदित्यर्थः ।

सिद्धत्वासिद्धत्वाभ्याम् - जडत्वाजडत्वापादिताभ्याम्,

सिद्धत्वाभ्यां पर्यनुयोज्यम्; एवं सिद्धिरपि । तस्मात् विषय भिमतं वस्तु शरीरतया गृहीत्वा तावत् निर्भासमान आत्मैव प्रकाशते विच्छेदशून्यः, सुषुप्तमपि प्रति प्रकाशत एव, अन्यथा स्मृत्ययोगात्; प्रकाशस्य च नित्यत्वात् विच्छेदहेतोरभावेन, अन्यप्रमात्रपेक्षया च प्रकाशमानत्वात्, स्वपर

पर्यनुयोज्यम् - पर्यनुयोगविषयीकार्यम् । तथा चास्यापि प्रमातृवत्प्रकाशरूपत्वे ईश्वरत्वमेवायातीति भावः । ननु पद्ये गृहीतायाः भ्देन स्फुरणशीलायाः सिद्धेः किङ्कुर्म इत्यत्राह एवम् इति ।

सिद्धिरपि, प्रमात्रादिवत्प्रकाशरूपैवेति भावः । अपि शब्दः उक्तसमुच्चयार्थः । तेनेहोक्तस्य निषेधस्य ग्रहणम्, तस्यापि प्रकाशरूपतानपायात् । विदधानस्य तु साक्षात्क्रियत्वेन कर्तृनिष्ठतायोगेन प्रकाशस्वभावमहेश्वररूपत्वमयत्नसिद्धं ज्ञात्वा ग्रहणं न कृतम् । विदधीत इति विपूर्वस्य धाञः लिङि; रूपम् ।

फलितमाह तस्मात् इति । विषयाभिमतम् - विषयभावेन लौकिकैरभिमानेन गृहीतम् । वस्तु - नीलादिरूपं बाह्याभ्यन्तरं वस्तु ।

शरीरतया - स्वरूपत्वेन । एतेन नीलसुखादिप्रकाशेपि आत्मप्रकाशः फलितत्वेन्नोक्तः । नन्वेवं भवतु, सुषुप्तिमूर्च्छादौ स्फुटं स्थितस्य तदप्रकाशस्य किं कुर्मः इत्याह सुषुप्तमपि इति । सुषुप्तमपि प्रति, सुषुप्तविषयेऽपीत्यर्थः । अत्र हेतुत्रयमाह अन्यथा इति । अन्यथा - आत्मप्रकाशाभावे । तत उत्थितस्येति शेषः । सुषुप्तेरुत्थितो हि न किञ्चिदवेदिषमिति तामवस्थां स्मरत्येव, स्मरणं च गृहीते एव सम्भवति । ग्रहणं चात्मानं विना न सम्भवति । तस्य च स्वप्रकाशत्वमेवेति सुषुप्तिस्मृतिमङ्गीकुवर्तः आत्मप्रकाशनमप्यङ्गीकार्यमेव । न च मास्तु स्मृतिरिति वाच्यम्, स्वानुभवस्यापह्नवायोगात् । तदपह्नवकारिभ्यस्तु नम एवेत्यलम् ।

द्वितीयं हेतुमाह प्रकाशस्य इति । चः समुच्चये, विच्छेदहेतोः - देशकालादेर्विच्छेदकारणस्य, न हि प्रकाशसिद्धं देशकालादि तं विच्छिन्नीकर्तु शक्तम् । तृतीयमप्याह अन्य इति । न हि अन्यसुषुप्तावन्यः सुप्तो भवति । तथा च तत्रात्मनः प्रकाशः स्फुट एवेति भावः ।

नन्वन्यप्रमातृषु प्रकाशेनेतरस्य किमायातमित्यपेक्षायामाह स्वपर इति । तत्सृष्टस्य - तेन प्रकाशेनोत्पादितस्य । तदुक्तम् :-

प्रमातृविभागस्य तत्सृष्टस्य मायीयत्वेन वक्ष्यमाणत्वात् । स चायं स्वतन्त्रः । स्वातन्त्र्यं च अस्य अभेदे भेदनम्, भेदिते च अन्तरनुसन्धानेन अभेदनम् - इति बहुप्रकारं वक्ष्यामः । एतदेव [तदेव

  • क्। ष्। ष्।] अस्य पारमेश्वर्यं मुख्यमानन्दमयं रूपम् - इति पूर्वमुपात्तं “कर्तरि” इति । तदेव तु स्वातन्त्र्यं विभज्य वक्तुं “ज्ञातरि” इति पश्चान्निर्दिष्टम् । ज्ञानपल्लव

परव्यवस्थापि परे यावन्नात्मीकृतः परः ।

तावन्न शक्यते कर्तुं यतो बुद्धः परः परः ॥

इति । न च तत्सृष्टस्तस्यैव विच्छेदं कर्तुं शक्तः किमुत मायीय इति भावः । भागेन प्रकाशमानेपि मेघान्निर्गते आकाशे लौकिकोऽप्याकाशः प्रकाशते इति व्यवहरत्येव । नन्वयं प्रमाता प्रकाशतां नाम पुनः स कीदृशोरतीति न विद्म एवेत्यपेक्षायामाह स चायम् इति । ननु तस्य स्वातन्त्र्यं किंरूपमस्तीत्यत्राह स्वातन्त्र्यं च इति । अभेदे - परमार्थः नीलादिसंविदां सुखादिसंविदां च संवित्त्वेनैकत्वेऽपि, भेदनम् - भिन्नविषयतोपाधिना भेदेन भासनम् । भेदिते च - भेदेन भासिते संविज्ञाते च, अभेदनम् - स्मृतिसमये अलौकिके मोक्षसमये चैकविषयत्वेन भासनम्, स्वात्मनि विश्रान्तिदानेन लयीकरणं चेति यावत् ।

नानाविधाः संविदो हि अन्तरार्थतोऽपि तत्त्वादुत्थाय तत्रैव लयीभवन्ति ।

वक्ष्यामः, इहैवाग्रे इति शेषः । ननु तत्स्वातन्त्र्यमत्र केन पदेनोक्तमित्यत्राह “तदेव” इति । आचार्येण तदेव स्वातन्त्र्यमेव, वक्तुमिति शेषः । वक्तुम् - स्वतन्त्रः कर्तां इति सूत्रावष्टम्भेन कथयितुम्, कर्तरि इति - एतत्पदम्, उपात्तम्, कदा ? प्रथमम् कुतः ? “इतिऽ, इति कुतः ? एतद्देवास्य - आत्मनः, पारमेश्वर्यम् - माहेश्वर्यरूपम् । मुख्यम् - प्रधानम्, आनन्दमयम् - तत्कार्यविश्वोद्भावनाऽन्यथानुपपत्त्याऽऽनन्द - निर्भरितम्, रूपम् - स्वरूपं भवतीति । मुख्यस्यैव हि प्रथममुपादानं युक्तमिति भावः ।

नन्वेतेनैव सर्वं गतमिति किमर्थमुक्तं “ज्ञातरि” इतीत्यपेक्षायामाह तदेव तु इति । तत् - कर्तरीत्यनेन द्मोतितम् । अत्र हेतुमाह ज्ञान इति ।

ज्ञानपल्लवस्वभावा -

स्वभावैव हि क्रिया - इति वक्ष्यते । तेन सर्वक्रियास्वतन्त्रे सर्वशक्तिके - इति यावद् उक्तं भवेत् तावदेव “कर्तरि ज्ञातरि” इति । इयमेव च संवित्स्वभावता । संविदिति तु उच्यमाना विकल्प्यत्वेन प्रमेयतां स्पृशन्तो सृष्टत्वात् न परमर्थसंवित् - इति वक्ष्यामः । कर्ता ज्ञाता च महेश्वर - इत्यभिधानेऽपि स एव प्रकार आपतेत्, इति यथा यथा प्रमेयभूमिकापादनन्यक्कारकलङ्कपरिहारः शक्यः तथा तथा यावद्गति यतितव्यम्, इति भूतविभक्त्या निर्देशः कृतः । उपदेशावसरे हि सर्वात्मना तावत् सा प्रमेयता अस्य परिहर्तुम् अशक्या । “स्वात्मनि” इति,

ज्ञानपुष्टीभावरूपा, बीजापेक्षया तत्पुष्टीभावरूपस्य तादृग्बीजसहस्रोत्पादकस्य द्रुमस्य स्फुटैव मुख्यतेति न कोपि विरोधः ।

फलितमाह तेन इति । तेन - तस्मात् “इति” इत्यनेनेत्यर्थः । यावत् - यावत्परिमाणो गुणगणः । सप्तमीप्रयोगानामभिप्रायं वक्तुमाह इयमेव च इति । इयम् - स्वातन्त्र्यरूपा । विकल्प्यत्वेन - शब्दस्पर्शगतेन विकल्पविषयत्वेन, प्रमेयताम् - शब्दप्रमाविषयताम् । सृष्टत्वात् - प्रमेयतास्पर्शेनागतात् सृज्यमानत्वात् । ननु तर्हि कर्तृत्वज्ञातृत्वरूपस्य स्वातन्त्र्यस्य विधिरेव किं न कृतः, किमिति प्रमेयताऽऽपादकस्य सप्तम्युक्तस्यानुवादस्यैवाश्रयणं कृतमित्यपेक्षायामाह कर्ता च इति । इत्यभिधानेपि - एवं विधिभावेन कथनेपि । स एव प्रकारः - प्रमेयतास्पर्शरूपः न हि शब्दस्पृष्टं केनाप्युपायेन प्रमेयतामतिवर्तितुं शक्तम् । यदुक्तम् :-

यदभिन्नं स्वसंवित्तौ तत्परस्य यदोच्यते ।

तदा भिन्नमिवाभाति शाब्दीं भूमिमुपागतम् ॥

इति । तर्हि किं कार्यमित्यत्राह यथा इति । यथा यथा - येन येन प्रकारेण, प्रमेयभूमिका - प्रमेयावस्था, यावद्गति - यावदुपायम्, यतितव्यम् - स्वयमेव यत्नः कार्यः यद्यप्यान्तरपरामर्शेप्येतन्न सम्भवति तथापि शिष्येषु नैर्विकल्प्यापादन - निमित्तमेतदुक्तम् । भूतविभक्त्या - अनुदेशयोग्य सिद्धवस्तुवाचिन्या ङिप्रत्ययरूपया सप्तमीविभक्त्या ।

स्वस्मिन् अनपायिरूपे स्वभावे इत्यनेन, वैशेषिकाद्यभिमतजडात्म - वादनिरासः । “आदिसिद्धे” इति अविच्छिन्नप्रकाशे इत्यर्थः । “महेश्वरे” इति, एतदेव माहेश्वर्यं यद् अनवच्छिन्नप्रकाशत्वेन ज्ञातृकर्तृत्वधारोपारोहः । “अजडात्मा” इति, यस्य तु वैशेषिकादेर्जड आत्मा स सिद्धि करोतु ईश्वर विषयाम्; अन्यस्तु साङ्ख्यादिर्निषेधम्; साङ्ख्योऽपि विषयावभासनरूपं ज्ञानं बुद्धिधर्ममिच्छन् आत्मानं वस्तुतो जडमेव उपैति; न च जडात्मा स्वात्मन्यपि दुर्लभप्रकाशस्वातन्त्र्यलेशः किचित् साधयितुं निषेद्धुं वा प्रभविष्णुः पाषाण इव; न च अजडात्मनोऽपि एतद् उचितम्, तथा हि - स स्वात्मनि सिद्धिमित्थं कुर्यात् - यदि अस्य सोऽभिनवत्वेन भासमानः पूर्वं न भासते,

स एव हि वाक्यभेदानापादकत्वेन श्रेष्ठतरः । एकवाक्यत्वं हि पद्ये पुष्टतावहमिति भावः । स्वात्मनि इति पदं व्याचष्टे स्वात्मनि इति ।

वैशेषिकाद्यभिमतः, तथाऽसन्न्पि तैः स्वाभिमानेन कथित इति भावः ।

आदिशब्देन नैयायिकादेर्ग्रहणम् । आदिसिद्धे इत्यस्यार्थं वक्तुमाह आदि इति । एतच्च समनन्तरमेव साधितम् । महेश्वर पदं व्याचष्टे महेश्वरे इति । धारा - परा काष्ठा । अजडात्मा इति पदस्याभिप्रायं वक्तुमाह अजडात्मा इति । तु - व्यतिरेके । अजडः आत्मा यस्य वैशेषिकादेः स अजडात्मेति विग्रहोऽनेन द्योतितः । साङ्ख्यः - अनीश्वरः । आदिशब्देन बौधादेर्ग्रहणम् । साङ्ख्यः पुरुषस्य चेतनत्वं वदति इति जडात्मवादित्वमेव तस्य न सम्भवति का कथा ईश्वरनिषेधस्य, चेतनत्वाङ्गीकारेणैव ईश्वराङ्गीकाराद् इत्यपेक्षायामाह साङ्ख्योपि इति । ज्ञानस्य बुद्धिधर्मता कथनमात्रेणैव तस्य जडात्मवादित्वमायातं तेन च तत्सिद्ध ईश्वराङ्गीकारोऽपि शशविषाणतुल्य एवेति भावः । ननु ततोपि किमित्यत्राह न च इति ।

तर्ह्यजडात्मैवात्र प्रवृत्तिं करोतु इत्यत्राह न च इति । कथं नोचितमित्यत्राह तथा हि इति । सः - अजडात्मवादी, अस्य - अजडात्मवादिनः, सः - आत्मा । तर्हि न भासनमेवास्त्वित्यत्राह न भासनम्

न भासनं [अनाभासनम् - क्। ष्। ष्।] चेत् जडतैव । निषेधं च इत्थं विदध्यात् - यदि स न प्रकाशते तथा च जडः, न च जडस्य एतत् युक्तम् इत्युक्तम्, नापि अजडस्य; तस्मात् संवित्प्रकाश एव घटादिप्रकाशः, न त्वसौ स्वतन्त्रः कश्चित् वास्तवः; प्रकाश एव च आत्मा; तत् न तत्र कारकव्यापारवत् प्रमाणव्यापारोऽपि नित्यत्ववत् स्वप्रकाशत्वस्यापि तत्र भावात् ॥ १ ॥

ननु कारकव्यापारः प्रमाणव्यापारश्च यदि ईश्वरे न सम्भवति, तर्हि प्रत्यभिज्ञापयामि - इति यो व्यापार उक्तः स कतमो व्यापारः - इत्याशङ्क्याह :-

इति । अत्रोत्तरमाह जडतैव इति । तर्हि तन्मतेप्यात्मनो जडतैवापतेदिति भावः । सिद्धिं प्रत्याख्याय निषेधमपि प्रत्याचष्टे निषेधं च इति । ननु तेनापि किमित्यत्राह तथा च इति । तथा च, निषेधे कृतेपि सतीत्यर्थः । न हि आत्मभानरहितस्याजडत्वमिति भावः । ननु ततोपि किमित्यत्राह न च इति ।

उक्तम्, समनन्तरमिति शेषः । पुर्व प्रत्याख्यातमपि अजडपक्षं व्यवहितमाशङ्क्य पुनः परामृशति नाप्यजडस्य इति ।

नाप्यजडस्यैतद्युक्तमिति व्यवहितेन सम्बन्धः । उपसंहारं करोति तस्मात् इति । असौ - घटादिप्रकाशः । स्वतन्त्रः - प्रकाशव्यतिरेकेण सत्तायुक्तः । फलितमाह तत्र इति । कारकव्यापाराभवस्य सर्वान् प्रति सिद्धत्वेन दृष्टान्तत्वं । स्वप्रकाशत्वस्य भावः प्रमाणव्यापाराभावे हेत्ः ॥ १ ॥

अथ द्वितीयस्य श्लोकस्यावतरणिकां करोति ननु इति ।

अत्र टीका :-

उक्तः, तत्प्रत्यभिज्ञामुपपादयामि इत्येतेनेत्यर्थः । कतमः, कस्य सम्बन्धीत्यर्थः । एवमवतरणिकां कृत्वा द्वितीयश्लोकमुपन्यस्य व्याचष्टे । किन्तु इति ।

किन्तु मोहवशादस्मिन्दूष्टेऽप्यनुपलक्षिते ।

शक्त्याविष्करणेनेयं प्रत्यभिज्ञोपदर्श्यते ॥ २ ॥

स ईश्वरस्वभाव आत्मा प्रकाशते तावत्, तत्र च अस्य स्वातन्त्र्यम् इति न केनचिद्वपुषा न प्रकाशते, तत्र अप्रकाशात्मनापि प्रकाशते प्रकाशात्मनापि, तत्रापि प्रकाशात्मनि सर्वथा प्रकाशात्मना प्रकाशो भागशो वा; भागशः प्रकाशने सर्वस्य व्यतिरेकेण अव्यतिरेकेण वा, कतिपयस्य व्यतिरेकेण अव्यतिरेकेण वा, उक्तप्रकारपूर्णतया वा; तदमी सप्त प्रकाराः । तत्र प्रथमः प्रकारो जडोल्लासः, अन्त्यः परमशिवात्मा, मध्यमा जीवाभासाः,

अत्र टीका :-

सूत्रे किन्तु शब्दः समनन्तरोक्तपक्षान्यपक्षद्योतनार्थः । मोह इत्यस्यार्थ विवृणोति स इति । सः - कर्तृज्ञातृस्वभावः । तावत् इति । बालोपि नात्र विवदते इति भावः । तत्र च - प्रकाशकर्तृत्वे च । इति, स्वातन्त्र्याद्धेतोरित्यर्थः । न केनचिद्वपुषा, सर्वभावेनेत्यर्थः । न प्रकाशते, अपि तु प्रकाशते इत्यर्थः । सर्वाणि ज्ञानानि तत्स्वरूपभूतान्येवेति भावः । सर्ववपुषा प्रकाशं विभज्य कथयति तत्र इति । तत्र, तत्र सतीत्यर्थः । अप्रकाशात्मना - वेद्यभावेन ।

प्रकाशात्मना - वेदकभावेन । तत्र प्रकाशात्मना प्रकाशत्वेन द्वितीयः । स एव भागशः सर्वस्य व्यतिरेकेण तृतीयः । अव्यतिरेकेण चतुर्थः । कतिपयस्य व्यतिरेकेण पञ्चमः । अव्यतिरेकेण षष्ठः, स एव प्रकाशात्मना प्रकाशः । उक्ता ये प्रकाराः - षट्प्रकाराः तैः परिपूर्णतया सप्तमः प्रकारः । सप्तमप्रकारस्य तृतीयप्रकारत्वेऽपि सर्वप्रकारागूरकत्वेन भागशः प्रकाशावान्तरभेदचतुष्कानन्तरं कथनं न विरोधावहम् । अन्यथा तूक्तप्रकारपरिपूर्णताकथनम - युक्तं स्यात् । एवं चाप्रकाशात्मना प्रकाशः प्रकाशात्मना प्रकाशः उक्तप्रकारपरिपूर्णतया प्रकाशः इति भेदत्रयमेव फलति ।

प्रकाशात्मना प्रकाशस्य पञ्चधात्वेन प्रकारसप्तकसिद्धिः । ननु भवन्त्वमी प्रकाराः ततः किमित्यत्राह तत्र इति । तत्र, प्रकारसप्तकमध्ये इत्यर्थः । प्रथमः - अप्रकाशात्मना प्रकाशः ।

भासाः, सैव भगवतो माया विमोहिनी नाम शक्तिः, तद्वशात् प्रकाशात्मतया सततम् अवभासमानेऽपि आत्मनि भागेन अप्रकाशनवशाद् “अनुपलक्षिते” सर्वथा हृदयङ्गमीभावमप्राप्ते अत एव पूर्णतावभासनसाध्याम् अर्थक्रियाम् अकुर्वति, तत्पूर्णतावभासनात्मकाभिमानविशेषसिद्धये “प्रत्यभिज्ञाऽ,

जडोल्लासः, वेद्यजृम्भणेत्यर्थः । तस्य स्वग्रहणेऽपि परापेक्षत्वादित्रि भावः । अन्त्यः - उक्तप्रकारपरिपूर्णतया प्रकाशात्मना प्रकाशः ।

परमशिवात्मा - सप्तत्रिंशरूपपरशिवरूपः ।

अन्तःकृततत्त्वषट्त्रिंशकस्यैव तत्त्वस्य परशिवत्वात् । मध्यमाः - सर्वात्मना प्रकाशादयः पञ्च । तत्र प्रथमतृतीयस्य शिवता, शुद्धप्रकाशरूपत्वात् । जीवत्वं चास्य महापूर्णत्वाभावमात्रकृतमेव ज्ञेयम्, न भेददर्शित्वकृतम्, अन्येषां तु भेदभेदाभेददर्शित्वकृतम् । एतच्चाग्रे प्रमातृनिर्णये स्वयमेव स्फुटीभविष्यति । भवत्वेवं ततः किमित्यत्राह सैव इति । सैव - जीवाभासरूपैव । मायायाश्च शुद्धविद्यानन्तरं स्थितत्वेपि शिवपदं तावदुपर्यपि स्पर्श आगमेषूक्त एव । अन्यथा एकस्य परमशिवस्यैव परमार्थतोवस्थाने का तद्व्यतिरिक्ततत्त्वषट्त्रिंशत्कचर्चा स्यादित्यलम् । तद्वशात् - तस्याः मायायाः सामर्थ्यात् । दृष्टे इति पदं व्याचष्टे प्रकाश इति । न हि स्वात्मा कस्याप्यदृष्टः यथातथाकल्पितस्य तददर्शनस्य परमार्थतः तद्दर्शनत्वानपायात् । अन्यथा मया न दृष्ट इति अस्मच्छब्दप्रयोगासम्भवात् । वाच्यस्फूर्ति विना वाचकप्रयोगायोगादिति भावः । अस्मिन् इति पदस्य व्याख्यां करोति, अस्मिन् इति । भागेन - वेद्यरूपेण स्वांशेनानन्दरूपेणांशेन वा । न हि मायावशो वेद्यं स्वात्मतया प्रकाशरूपमात्मानं वानन्दरूपतया गृहणाति ।

एतेनाक्षिप्तं वस्तु कथयति अत एव इति । अर्थक्रियाम् अतितृप्तिरूपाम् । तस्य - आत्मनः, पूर्णतावभासात्मकः -

व्याख्यातपूर्वा प्रदर्श्यते, कथम् ? शक्तेः ईश्वरनिष्ठत्वेन प्रसिधाया दृक्क्रियात्मिकायाः, “आविष्करणेन” प्रदर्शनेन, अभिमानसाध्यार्थक्रियाणां तदभिमानसिद्धया विना असिद्धेः, तथा च दृष्टान्तं दर्शयति :-

“तैस्तैरप्युपयाचितैः, ( ४ अ। ३ आ। १७ श्लो) ।”

इति । एतदुक्तं भवति - न कारकव्यापारो भगवति, नापि ज्ञापकव्यापारोऽयम्, अपि तु मोहापसारणमात्रमेतत्, व्यवहारसाधनानां प्रमाणानां तावत्येव विश्राअन्तेः ।

घटोऽयमग्रगः प्रत्यक्षत्वात् - इत्यनेन हि घटो न ज्ञाप्यते प्रत्यक्षेणैव प्रकाशमानत्वात्, अन्यथा पक्षे हेत्वसिद्धेः, केवलं मोहमात्रमपसार्यते । यश्चायं मोहस्तदपसारणं च यत्, तदुभयमपि भगवत एव विजृम्भामात्रम्, न तु अधिकं किञ्चित् - इत्युक्तं वक्ष्यते च ॥ २ ॥

निजपूर्णतास्फुरणरूपः यः अभिमानविशेषः तस्य सिद्धये ।

परमार्थतस्तु सा सिद्धिः सर्वदैव सर्वेषामस्ति, अन्यथा तन्मलपरिमिताहम्भावस्फुरणायोगात् । परन्तु परमेश्वरमायावशेन तदभिमान एव नास्ति गृहगतखातगुप्तनिधेः दरिद्रस्येव गृहस्थितनिध्यभिमानः । अतस्तन्मात्रमेव साध्यते इति भावः । इयम् इत्यस्य व्याख्या व्याख्यात इति । कथम् केन करणेन इत्यर्थः । प्रसिद्धायाः, सर्वजनेष्विति शेषः । दृक्क्रियात्मिकायाः - ज्ञानक्रियारूपायाः, आविष्करणेन - प्रदर्शनेन, त्वयि अपि सास्तीत्येवम्प्रकटीकरणेन प्रदर्शनेन इति णिजन्तप्रयोगः, सूत्रे उक्तमपि हेतु साधकतया उपादधाति अभिमान इति । नन्वेतेन किमुक्तं भवति इत्यत्राह एतत् इति ।

तावत्येव - मोहापसारणमात्रे एव, अन्यथा - भेदेन प्रकाशमानत्वाभावे । पक्ष - घटे, हेतोः - प्रत्यक्षत्वादित्यस्य ।

मोहमात्रम् - घटविषयः केवलो मोहः । ननु यदि मोहस्य तदपसारणस्य च सत्यत्वं तर्हि साधयितुमारब्धस्य महाद्वैतस्य तिलाञ्जलिरेवेत्यत्राह यश्चायम् इति । विजृम्भामात्रम् - शक्तिविलसितमात्रम् । न तु तद्व्यतिरिक्तं किञ्चिदिति भावः ॥ २ ॥

ननु परिदृश्यमाने भावराशौ किमीया शक्तिराविष्क्रियते कं च प्रति इति । जडानां तावत् न ज्ञानात्मिका शक्तिरस्ति, क्रियात्मिकापि स्वातन्त्र्यप्राणा स्वातन्त्र्यव्यपगमाद् असम्भावनाभूमिरेव; तथा च रथो गच्छति - इत्यादौ उपचारं केचन प्रतिपन्नाः, न च जडान्प्रति व्यवहारसाधनम् उचितम्; अथ अजडजीवज्जनताधिकारेण उभयमपि, तर्हि सर्वस्य स्वात्मा महेश्वर - इति दूरतरं विप्रकर्षिता प्रत्याशा, तदेतद् आशङ्क्य निरूपयति :-

अत्र तृतीयश्लोकस्यावतरणिकां करोति ननु इति ।

अत्र टीका :-

भावराशौ - जडाजडपदार्थमध्ये । किमीया - कस्य सम्बन्धिनी, त्वयेति शेषः । कं च प्रति, कं चोद्देश्यमुद्दिश्येत्यर्थः । स्वयमेव विभागं करोति जडानाम् इति । तावत्, प्रथममित्यर्थः । नास्ति इति, जडत्वं हि ज्ञानक्रियाशक्तिराहित्यमेवेति भावः । ननु तर्हि कथं रथो गच्छतीत्यादिव्यवहार इत्यत आह तथा च इति । उपचारम् - मञ्चाः क्रोशन्तीत्यादिवत् सादृश्यादिसम्बन्धनिमितां प्रयोजनपरां लक्षणाम्, केचन - तार्किकादयः । प्रतिपन्नाः - अङ्गीकृतवन्तः । शैवे नये परमार्थतः मुख्यत्वेनैव सर्वत्र ज्ञानक्रियायोगात् केचनेत्युक्तम् । न चोचितमिति सम्बन्धः । तेषां व्यवहारकर्तृत्वासम्भवादिति भावः ।

उभयम् - कथं वा शक्त्याविष्करणं व्यवहारसाधनं चाजडानां शक्तेरजडान् प्रत्याविष्करणरूपयुगलम् । अजडानामत्र शक्तेराविषकरणादिति भावः । सर्वस्य - जडाजडरूपस्य भाववृन्दस्य, दूरतरं विप्रकर्षिता - अतिदूराद् दूरतरं प्रापिता । प्रत्याशा - आनाशासने प्रवृत्ता आशा प्रत्याशा । चोदितं सङ्कल्पयति तदेतत् इति ।

निरूपयति - निर्णयविषयतां नयति । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य तद्व्याख्यां करोति । तथा हि इति ।

तथा हि जडभूतानां प्रतिष्ठा जीवदाश्रया ।

ज्ञानं क्रिया च भूतानां जीवतां जीवनं मतम् ॥ ३ ॥

“तथा हि” इति युक्त्युपक्रमं द्योतयति, दृश्यतां किल इत्यर्थः । “तथा” इत्यनेन साध्यं सूच्यते, हिना हेतुरित्यन्ये, प्रकृतं साध्यं हेतुसिध्यायत्तमुपक्रम्यते इत्यर्थः । तेन इति बुद्धिवर्तिना, तत [अत एव - क्। ष्।

ष्।] एव स्मर्यमाणेन ग्रन्थेन वर्णयिष्यामाणेन प्रकारेण यस्मात् सर्वमेतद् युक्तम् इति “तथा हि” इति शब्दस्य वार्थः । इह तावत् भावराशिर्यथा विमृश्यते तथा अस्ति, अस्तित्वस्य प्रकाशं शरणीकुर्वतः प्रकाशप्राणितद्देशीयं विमर्शम् आश्रित्य समुन्मेषात्,

अत्र टीका :-

तथा हि इतिं पदस्य व्याख्यां करोति तथा हि इति । युक्तिः - शक्त्याविष्करणरूपः उपायः, तस्या उपक्रमः - आरम्भः, तम्, द्योतयति

  • सूचयति, निपातानामत्रैव शक्तत्वात् । अस्यैव सङ्केतितं वाच्यार्थमपि कथयति दृश्यताम् इति । तया इत्यवयवस्य दृश्यताम् इति व्याख्या, हि इत्यस्य तु किल इति । अन्यमतमाह तथा इति । प्रकृतं साध्यम् - प्रत्यभिज्ञारूपं साधनीयं वस्तु । पक्षान्तरमाह तेन इति । तथा इत्यस्य तेन इति व्याख्या । तत एव बुद्धिपरिवर्तित्वेनैव, बुद्धौ स्फुरत्त्वेनैव, ग्रन्थेन - प्रत्यभिज्ञारूपेणकारिकासन्दर्भेण, यस्मात् इति हि शब्दार्थः, सर्वम् इत्यादि शेषः । वाक्यार्थ वक्तुं प्रक्रियां तनोति इह - भासमाने जगति । विमृश्यते - विकल्प्यते । अस्ति - सत्तां भजति । अत्र हेतुमाह अस्तित्वस्य इति । अस्तित्वस्य - नीलाश्रयायाः सत्तायाः ।

शरणीकुर्वतः - साधकत्वेनाश्रयतः । प्रकाशप्राणितः - अनुभूतसत्ताकः, देशः - नीलाख्यः प्रकाशविषयः, तस्यसम्बन्धिनम्, तद्विषयमिति यावत् । अथ प्रकाशस्य प्राणितदेशीयः - प्राणितकल्पः, तम् ।

प्रकाशो हि विमर्शसारः विमर्शोपि प्रकाशसार इति भावः ।

अविमृटं हि यदि वस्तु तन्न नीलं न पीतं न सत् न असदिति कुत इति पर्यनुयोगे किमुत्तरं स्यात् । तेन यद् यथा यावत् अवाधितं विमृश्यते तत् तथा तावत् अस्ति, तत एव देशकालाकारविततात्मानोऽपि द्रव्यक्रियासम्बन्धादयः एकत्वेन परमार्थसन्त इति वक्ष्यते

“क्रियासम्बन्धसामान्य” (२ अ। २ आ। १ श्लो)

इत्यादिना, ततश्च विततमपि इदं विश्वं सङ्क्षेपविमर्शदशाधिरोहे जडं जीवच्च -

देशीयरः प्रयोगमाश्रित्य इयं व्याख्या । विमर्शम् - नीलमिदमिति विकल्पम्, आश्रित्य समुन्मेषात् - स्फुरणात् । अन्यथा दृष्टनीले सद्योजातबालेपि तत्सत्ता समुन्मिषेदिति भावः । अत्र समर्थनं करोति अविमृष्टम् इति । वस्तु - सत्तायुक्तो नीलाख्यो भावः । यद्यविमृष्टम् - विकल्पविषयीकृतं न स्यात् तदा तद्वस्तु नीलमपि सत् नीलं न भवति । तथा सदपि सत् सत् न भवति । तथा न पीतम्, पीतमित्यनीलोपलक्षणम्, अनीलमपि न भवति । तथा सदपि न भवति । सङ्क्षेपतः अनिर्वाच्यं भवतीति यावत् । इति - अतः । कुतः इति पर्यनुयोगे - कुत इदं नीलं कुत इदं सत् एवं केनचिदाक्षेपे क्रियमाणे, तद्वस्तु किम् उत्तरं यस्य तत्तादृशं स्यात् । यथा तदस्ति तदपि न वक्तुं शक्यते । यथा च नास्ति तदपि न वक्तुं शक्यते ।

केवलं मौनदशैवायातीति भावः । फलितमाह तेन इति । तेन, यतः सतः साधने विमर्शस्यैव सामर्थ्य ततः कारणादित्यर्थः । यद् वक्ष्यति :-

सा स्फुरत्ता महासत्ता

इति । यावत्तावच्छब्दाभ्यां बाधानन्तरं तत्तथा मा भवतु न तेन कापि हानिरिति द्योतितम् । एतदवष्टम्भेन वक्ष्यमाणसिद्धान्तमपि फलत्वेनाह तत एव इति । एकत्वेन - निर्विशेषविमर्शभावेन । केन वक्ष्यते इत्यपेक्षायामाह क्रिया इति ।

इत्येतावता द्वयरूपेण अस्ति । तत्र जडा अपि विमृश्यमाना न स्वतन्त्रा भवन्ति, विमृश्यमानता हि तेषां न स्वशरीरविश्रान्तः कोऽपि धर्मः जडत्वाभावप्रसङ्गात्, मम नीलं भाति मया नीलं ज्ञायते इति । तेषाम् “जडभूतानाम्” चिन्मयत्वेऽपि मायाख्यया ईश्वरशक्त्या जाड्यं प्रापितानाम्, “जीवन्तम्” प्रमातारमाश्रित्य “प्रतिष्ठा” तत्प्रमात्राभिमुख्येन अवस्थानम्, ततो जडा नाम न पृथक् सन्ति ।

यथोक्तं ग्रन्थकृतैव :-

एतच्चैतस्याः कारिकायाः व्याख्यायां स्फुटीभविष्यतीति नायस्तम् ।

नन्वेतेन किं सम्पन्नमित्यत्राह ततश्च इति । तत्र - जडाजडयोर्मध्ये, विमृश्यमानाः - किंरूपा इति विकल्पविषयीकृताः, स्वतन्त्राः - स्वाधीनसत्ताकाः । कुतो नेत्यपेक्षायामाह विमृश्य इति ।

विमृश्यमानता - विमर्शविषयीभावः । स्वशरीरे - स्वस्वरूपे, विश्रान्तः - स्थितियुक्तः, विमर्शस्य प्रमातृधर्मत्वादिति भावः । तर्हि स धर्मः कुत्र विश्रान्तोऽस्तीति चेत् चेतनेष्विति ब्रूमः, एतदेव हि चेतनत्वं यद्विमर्शसामर्थ्यम्, तथा च वक्ष्यति :-

स्वभावमवभासस्य विमर्शं विदुरन्यथा ।

इति । इति चेतसि कृत्वा हेतुमाह जडत्वाभाव इति । ननु तर्हि तेषां जडानां कथं सिद्धिरस्तीत्यपेक्षायामाह मम नीलम् इति । मम नीलं भाति मया नीलं ज्ञायते इति भानक्रियाकर्तृत्वेन ज्ञानक्रियाविषयत्वेन च ।

तेषाम् - जडानाम्, चिन्मयत्वेपि - परमार्थदृष्ट्याश्रयणेन चिद्रूपत्वेपि सति । मायाख्यया ईश्वरशक्त्या - स्वात्मविस्मृतिरूपया मायाशक्त्या, जाड्यं प्रापितानाम् - वेद्यभावमानीतानां सताम् । जीवन्तं प्रमातारम् - षष्ट्यन्ततृतीयान्तास्मच्छब्दवाच्यमजडं ग्राहकम् ।

आश्रित्य - स्वविषयीभूतभानज्ञानाख्यक्रियाद्वयाश्रयत्वेनापेक्ष्य, प्रतिष्ठा इत्यस्य व्याख्यां करोति तत् इति । तस्य प्रमातुः - षष्ठ्यन्ततृतीयान्तास्मच्छब्दवाच्यस्य प्रमातुः, आभिमुख्येन - साम्मुख्येन, ग्राह्यतयेति यावत् । अवस्थानम् - स्वरूपलाभरूपावस्थितिः, भवति इति शेषः । फलितमाह ततः इति । पृथक्, ग्राहकमनपेक्ष्येत्यर्थः न सन्ति - स्वरूपं न लभन्ते । अत्र ग्रन्थकृद्वाक्यमुदाहरति यथोक्तम् इति । तदुक्तमेवाह “एवम्” इति ।

“एवमात्मन्यसत्कल्पाः प्रकाशस्यैव सन्त्यमी ।

जडाः प्रकाश एवैकः स्वात्मनः स्वपरात्मभिः ॥”

इति । स एव हि स्वात्मना [स्वात्मा सन् - क्। ष्। ष्।] सन् वक्तव्यो यस्य अन्यानुपहितं [अन्यानुपाहितम् - क्। ष्। ष्।] रूपं चकास्ति; न च भारूपानुपहितं [भारुपानुपाहितम् - क्। ष्। ष्।] जडं नाम किञ्चित्, तेन जडानां हि शक्तिरा -

तत्रत्यं पूर्वं न्यायमपेक्ष्य एवंशब्दप्रयोगः । एवमात्मनि - मायया सिद्धे जडरूपे स्वस्मिन् । असत्कल्पाः - विमर्शासमर्थत्वेनासद्रूपाः । अमीजडाः - नीलादयः वेद्याः, प्रकाशस्यैव सन्ति - प्रकाशसम्बन्धिन एव भवन्ति । तद्ग्राह्यताकाले एव स्वरूपलाभात् परतन्त्रा एव भवन्तीति यावत् । अतः एकः - केवलः, प्रकाश एव स्वात्मनः अस्ति - स्वप्रकाशत्वेन स्वग्रहणे परापेक्षाभावेन स्वसम्बन्धी भवति, स्वतन्त्रो भवतीति यावत् । तदुक्तम् :-

सत्यपि भेदापगमे नाथ तवाहं न मामकीनस्त्वम् ।

सामुद्रो हि तरङ्गः क्वचन समुद्रो न तारङ्गः ॥

इति । कीदृशः ? स्वपरात्मभिः - वेदकभावेन वेद्यभावेन च, उपलक्षितः, सर्वभावेन स्वयमेव स्थितत्वात् । तदुक्तम् :-

वेद्यं वेदकतामाप्तो वेदकः संविदात्मताम् ।

संवित्त्वदात्मा चेत्सत्यं तदिदं त्वन्मयं जगत् ॥

इति । उदाहृतेऽर्थे हेतुमाह स एव हि इति । स्वात्मना सन् - स्वसम्बन्धित्वेन स्थितः, अन्यानुपहितम् - ग्राहकतया स्थितेनान्येन न विच्छिन्नीकृतम् । ननु जडमपि तादृशमेव भवत्वित्यत आह न च इति । भारूपानुपहितम् - प्रकाशरूपेण ग्राहकेणानवच्छिन्नीकृतम् । फलितमाह तेन इति । निरुत्थ नम् - उत्थानासहम् । एतेन पूर्वार्धं व्याख्यातम् ।

विष्क्रियते जडान्प्रति - इत्येतत् तावत् निरुत्थानमेव । ये तु अन्ये जडेभ्यो जीवन्त

  • इति नाम प्रसिद्धाः तेषामपि शरीरप्राणपुर्यष्टक - शून्याकाअरः

अत्र च किञ्चिद् वक्तव्यं वर्तते । परमार्थदृष्टिस्तावदास्ताम्, बाह्यदृष्ट्यापि जडानामपि ज्ञानक्रियारूपा चेतनता विद्यत एव । तथा हि । वृक्षास्तावत् स्फुटं तद्युक्ताः । अन्यथा तेषां स्वं प्रति रसाकर्षणं योग्यदेशे मूलप्रसारणमारोहणं च न युज्यते । ततः तदङ्गिभूता भूरपि चेतनैव, न हि निर्जीवस्याङ्गिनोऽङ्गं सजीवं दृष्टम् । जलस्य नियमेन निम्नदेशगमनरूपा क्रिया ज्ञानपूर्विकैवानुमीयते । तस्य ज्ञानाभावे तत्र गमनायोगात् । ज्ञानक्रिये एव च चेतनत्वमित्युक्तं ।

तेजसश्च ऊर्ध्वज्वलनरूपा वायोश्च तिर्यग्गमनरूपस्वभावा क्रिया तादृश्येवेति तयोरपि स्फुटा चेतनता । अवशिष्टस्याकाशस्य च दहरत्वेन कर्णशष्कुल्यवच्छिन्नत्वेन च चेतनता स्फुटतमैवेति सर्वत्र ज्ञानमनुमीयत एव । यस्तु तां तत्रोपाधिकल्पितां मन्यते स जलादपीन्धनोपाधिना धूममुत्थापयतु किमस्माकं तेन सह चर्चाभिः । यत्तु तेऽन्योन्यं स्वविषयैः प्रमातृभिः सर्वत्र चित्राः कथा न कुर्वन्ति । तत्स्वभावविजृम्भितम्, स्फुटं चेतनत्वेन स्थितस्यापि चक्षुषस्तददर्शनात् । वागिन्द्रिय एव तदवगमात् । तर्हि स्वभाववाद एवास्तु, भवतु सर्वत्र का नो हानिः ।

अन्तर्यामिशुद्धचित्तत्त्ववशेनेन्द्रियाणां सा शक्तिरस्तीति चेत्सत्यम्, सर्वत्र तद्वशेनैव सास्तीति सर्वं जडमेवोच्यताम्, अजडमेव वे ति किं विशेषकल्पनाभिः । परमार्थविचारे तु,

भावव्रात हठाज्जनस्य हृदयान्याक्रम्य यन्नर्तयन् भङ्गीभिर्विविधाभिरात्महृदयं प्रच्छाद्य सङ्क्रिडसे ।

यस्त्वामाह [यस्त्वामाह जडं जडः ट्। आ।, वोल्। ई। ३०६। क्। ष्। ष्।] जडं स्वयं सहृदयम्मन्यत्वदुःशिक्षितो

मन्येऽमुष्य जडात्मता स्तुतिपदं त्वत्साम्यसम्भावनात् ॥

इति नीत्या सर्वेषां भावानां स्वरूपमपि चिन्मयमेवेति एकप्रकाशवाद् एव सर्वत्र सुप्रतिष्ठितः । यस्तु ग्रन्थकृता विशेष उक्तः स स्फुटत्वास्फुटत्वकृतः, अथवा जडानामुपदेशानहत्वमपेक्ष्यैवमुक्तमिति न विरोध इत्यलम् ।

उत्तरार्धं व्याख्यातुं प्रक्रियामाह ये तु इति । शरीरम् - स्थूलशरीरम्, पुर्यष्टकम्, लक्षणया बुद्धिः । जडा एव, न तु चेतनाः स्वग्रहणे परापेक्षत्वात्, न हि देहस्य

तावत् जडा एव इति तेषामपि किमुच्यते । अत [एवं घटशरीरप्राण - क्। ष्। ष्।] एव घटशरीरप्राणसुखतदभावरूअपं सत् यल्लग्नं भाति तदेव जीवरूपभूतं सत्यम्; तस्य च आपाते यद्यपि बहुत्वं भाति तथापि तत् जडात्मकवेद्यशरीराद्युपाधेः । ततस्तत् अपारमार्थिकम् अन्योन्याश्रयात्, जीवा हि जडभेदात् भेदभागिनः

स्वग्राहकत्वम्, तदवच्छिन्नस्य चिदंशस्यैव तत्त्वात् । एवं प्राणादावपि ज्ञेयम् । तेषामपि - अजडसम्बन्धिनां शरीरादिनामपि । किमुच्यते इति, तेषामपि ज्ञानक्रिये न युक्ते इति भावः । तर्हि केषां शक्तिराविष्क्रियते इत्यपेक्षायामाह अत एव इति । तदभावः - घटादीनामभावः ।

यल्लग्नम् - यन्निष्ठं सत्, भाति - अस्तित्वेन स्फुरति । ननु यदि जीवस्य सत्यभूतत्वं तर्हि तस्य बहुत्वादैक्यस्यासम्भव इत्यत आह तस्य च इति ।

आपाते - विवेकात्पूर्वम् । तत् - बहुत्वभानम् । वेद्याः - नीलादयः, शरीरादयः - देहप्राणादयः, त एवोपाधिः तस्मात् । अयं जीवो बहुः, जीवत्वाद्, इति प्रयोगे स्फुटं वेद्याद्युपाधेः स्थितत्वम्, बहुत्वे साध्यभूते व्यापकत्वात् । यत्र हि वेद्यादित्वं तत्रावश्यं बहुत्वम्, जीवत्वे साधने चाव्यापकत्वात् ।

एको देवः सर्वभूतेषु गूढः

इति श्रुतेः गूढस्य जीवत्वात्,

एतेन जीवेनानुप्रविश्य नामरूपे व्याकरणवाणि

इति श्रुतेः । तदुक्तम् :-

साध्यव्यापकत्वे साधनाव्यापकतोपधिः

इति । फलितमाह ततः इति । ततः, उपाधेर्हेतोरित्यर्थः । अपारमार्थिकम् - असत्यभूतम् । न ह्युपाधिसिद्धस्याऽऽकाशादिबहुत्वस्य भेदवादेऽपि सत्यत्वमिति भावः । अत्रापि हेतुमाह अन्योन्याश्रयात् इति । तमेव दर्श्यति जीवा हि इति । हि - यस्मात् । जीवाः -

जडाश्च जीवभेदात्, एतद्देहोऽयम् एतद्वेद्योऽयम् - इति भेदम् उपेयुः, नीलपीतादिभावभेदास्तु [नीलपीतादिभेदस्तु - क्। ष्। ष्।] प्रमातृसंलग्नतया भेदभूमिमेव [प्रमातृसंलग्नतया अभेदभूमि

  • क्। ष्। ष्।] परमधिरूढा [परमारूढ - क्। ष्। ष्।] इति । किं [इति किं तेन - क्।

ष्। ष्।] तेन । तदयं जीवानामभेद एव सम्पन्न इति जीवन् प्रमाता - इति जातम् । जीवनं च जीवनकर्तृत्वं तच्च ज्ञानक्रियात्मकम्, यो हि जानाति च करोति च स जीवति - इत्युच्यते । तदयं प्रमाता ज्ञानक्रियाशक्तियोगाद्

चेतनाः । जडभेदात् - देहादिभेदाद्धेतोः, भेदभागिनः सन्तः, एष देहो येषां ते, एते वेद्या येषां ते, इति भेदमुपेयुः - प्राप्नुवन्ति, अन्यथैकप्रकाशमात्ररूपत्वात्, तथा जडाश्च - देहादयः, एतस्य देह एतस्य वेद्य इति भेदमुपेयुः । अन्यथान्यदेहादावन्यदेहादिभावापातात् ।

नन्वजडानामसत्यभुत - वेद्यदेहाद्युपाधिप्रभावागतं बहुत्वमसत्यमेव । भवतु, जडानां तु सत्यभूतजडतावशेनागतं तत्सत्यमेव भवेदित्यत आह नील इति । नीलपीतादिभावभेदाः - नीलपीतादयो भावविशेषाः । आदिशब्देनान्येषां वाह्यानामान्तराणां सुखादीनां च ग्रहणम् । भेदभूमिम् - नीलादिभावेन भासनरूपां भेदकक्ष्याम् । परम् - केवलम् ।

अधिरूढाः - आश्रितवन्तः । इति शब्दः प्रमेयपरिसमाप्तौ । ननु तर्हीष्टस्यैक्यस्य सिद्धिर्नास्त्येवेत्यत्राह किन्तेन इति । तेन - तेषां भेदभूम्यारोहणेन । किम्, अस्मिन् समये जीवैक्यमात्रस्यैव प्रकृतत्वान्न तेन कापि हानिरित्यर्थः । जीवैक्ये सिद्धे जडैक्यस्यायत्नसिद्धत्वमेवेति भावः । फलितमाह तदयम् इति । अयम् - समनन्तरसाधितः । परमं फलितमाह इति इति । इति - अतः कारणात् । जीवन्प्रमाता इति - एको जीवनकर्ता प्रमातेति, जातम् सिद्धमित्यर्थः । नन्वेतेन प्रकृतयोः ज्ञानक्रिययोः किमायातमित्यत्राह जीवनम् इत्यादि । तच्च - जीवनक्रियाकर्तृत्वं च ।

कथमित्यपेक्षायामाह यो हि इति ।

ईश्वर - इति व्यवहर्तव्यः पुराणागमादिप्रसिद्धेश्वरवत्; तदप्रसिद्धावपि सर्वविषयज्ञानक्रियाशक्तिमत्त्वस्वभावमेव ऐश्वर्यं तन्मात्रानुबन्धित्वादेव सिद्धम्; तदपि च कल्पितेश्वरे राजादौ तथा व्याप्तिग्रहणात्, यो यावति ज्ञाता कर्ता च स तावति ईश्वरो राजेव, अनीश्वरस्य ज्ञातृत्वकर्तृत्वे स्वभावविरुद्धे यतः, आत्मा च विश्वत्र ज्ञाता कर्ता च - इति सिद्धा प्रत्यभिज्ञा ।

अन्यथा मृतस्यापि जीवत्वं स्यादिति भावः । युक्त्या साधितमात्मन ईश्वरत्वमनुमानेनापि साधयति तत् इति । तत्, यतो जीवनं ज्ञानक्रियाकर्तृत्वरूपं ततः कारणादित्यर्थः । अयं प्रमातेति पक्षः, ईश्वर इति व्यवहर्तव्य इति साध्यम्, ज्ञानक्रियाशक्तियोगादिति हेतुः, पुराणागमादिप्रसिद्धेश्वरवद् इति उदाहरणम् । पुराणागमादिषु च सर्वज्ञः सर्वकर्ता चेश्वरः प्रसिद्ध इति आत्मापि तादृश एवानुमातव्य इति भावः । ननु येन पुराणागमादि न श्रुतं तस्य कथं तद्दृष्टान्तेनात्मविषय ईश्वरताबोधः सिद्ध्येदित्यत्राह तदप्रसिद्धौ इति । तदप्रसिधावपि - पुराणागमाद्युक्तेश्वराप्रसिद्धौ सत्यामपि ।

ऐश्वर्यम् - परमेश्वरभावः । तन्मात्रस्यसामान्यज्ञानक्रियाशक्ति - मात्रस्य, न तु सर्वविषयस्य, योनुबन्धः - योगः सोस्यास्तीति तन्मात्रानुबन्धी तस्य भावस्तत्त्वं तस्मात् । सिद्धम् - आत्मनि निष्पन्नं भवति । तथा चैवम्प्रयोगः,; अयमात्मा सर्वविषयज्ञानक्रियाशक्तिमान्, ज्ञानक्रियाशक्तियोगात् । अत्रान्वयव्यतिरेकव्याप्तिं स्वयमेव दर्शयितुमाह तदपि इति । तदपि - ज्ञानक्रियाशक्तियोगेनैश्वर्यसाधनमपि । कल्पितेश्वरे - कृत्रिमेश्वरे, लोभादिना लौकिकेश्वरतया सम्भाविते इति यावत् । तथा व्याप्तिग्रहणात् - ज्ञानक्रिया - योगैश्वर्ययोर्व्याप्तिग्रहणात् । तत्रान्वयव्याप्तिमनुकृत्याह यो यावति इति ।

व्यतिरेकव्याप्तिमर्थतो दर्शयति अनीश्वरस्य इति । यो यावतीश्वरो न भवति स तावति ज्ञाता कर्ता च न भवति, यथा सामान्यपुरुषः । उपनय करोति आत्मा च इति । तस्माद् विश्वेश्वर इति निगमनं स्वयमेव कार्यं तस्यैवेष्टत्वात् । फलितमाह इति इति । इति - अतः कारणात् । प्रत्यभिज्ञा - नूनं स एवेश्वरोऽहमिति प्रत्यभिज्ञानम् । अत्र च ज्ञानक्रियायोगमात्रेणापि सर्व -

ज्ञानक्रियाशक्तो एव स्वाभाविक्यौ अप्ररूढभेदोन्मेषे सदाशिवेश्वरौ, भेदस्य सामान्यतः प्ररोहे विद्याकले, विशेषतः प्ररोहे बुद्धिकर्मेन्द्रियगण इव [बुद्धिकर्मेन्द्रियगण इति भविष्यति - क्। ष्। ष्।] भविष्यति

विषयज्ञानक्रियायोगरूपमैश्वर्यमग्निकणदृष्टान्तेन सिद्ध्यति ।

कणभावेन स्थितोऽप्यग्निर्महेन्धनचयदाहेपि समर्थ एव दृश्यते । ननु तर्हि राजन्यपि कथं न तन्मात्रेण सर्वविषयं तदनुमितिविषयतां नयाम इति चेत्सत्यम्, आत्मभावमपेक्ष्य तस्यापि पक्षतैव बाह्यदेहापेक्षया त्वसाविह दृष्टान्तीक्रियते । देहश्च सर्वेश्वरभावे न युक्ततां भजते स्फुटं नश्वरत्वात् । अत एव समनन्तरं कल्पितेश्वर इत्युक्तमित्यलम् । श्रीपरमेश्वरस्थितयोः ज्ञानक्रियाशक्त्योरेव सदाशिवादिभावं कथयति ज्ञान इति । शिवशक्त्योरेवाद्वैतावस्हायाः परमेश्वरतेति न तयोर्ज्ञानक्रियारूपत्वकथनम् । स्वाभाविक्यौ - परमेश्वरस्वभावाव्यभिचारिण्यौ । अप्ररूढः - बीजभावेन स्थितत्वादङ्कुरभावमगतः, भेदोन्मेषः - इदन्तारूपभेदस्फुरणं ययोः ते । अहम्भावप्रधानत्वादिति भावः । तद्वक्ष्यति :-

निमेषोन्तः सदाशिवः

इति । यद्यपीश्वरस्य भेदाभेदयोस्समधृततुलापुटन्यायेन समप्राधान्यम्, तथापि समीपवर्तित्वेन समकक्षतया सदाशिवेन सह ग्रहणम् । अथवा ज्ञानशक्तेः सदाशिवत्वम् । क्रियाशक्तेरीश्वरत्वम् ।

एवं ज्ञानशक्तेर्विद्यात्वं क्रियायाः कलात्वम् । तथा ज्ञानस्य बुद्धीन्द्रियगणत्वं क्रियायाः कर्मेन्द्रियगणत्वमित्युत्तरत्रापि योज्यम् ।

सामान्यतः प्ररोहः सम्यगस्फुरणकृतो ज्ञेयः । विद्या - किचिज्ज्ञात्वरूपाशुद्धविद्या । इव शब्दः परमार्थतो भवनासम्भवद्योतनपरः । अत एवासम्भवद्योतनपरस्य ऌटः प्रयोगः । एतेन ज्ञानक्रियाशक्त्योरैश्वर्यरूपत्वं साधितम् । सदाशिवादेरेव परमेश्वरैश्वर्यरूपत्वात् । ननु सर्वत्र भाववृन्दे परमार्थतः चेतनव्यवहारयोग्यत्वेपि किमिति जीवताम् इत्यनेन प्रमातार एव चेतनतया निर्दिष्टा इत्याशङ्कायामाह जडा इति । चः तुशब्दार्थे । अन्ये च - अन्ये त्वित्यर्थः । आपाते, उपदेशकाले इत्यर्थः । न तु संवित् - सर्वभावेन स्थितः प्रकाशः, आपाते भाति, इति -

जडा इति अजीवन्तः, अन्ये च जीवन्त - इत्यापाते तावद् भाति न तु संविदापाते भातीति [न तु संविदापाते भाति । जीवताम् - क्। ष्। ष्।] जीवतामिति जङ्गमा एव अमी इत्थं निर्दिष्टाः ॥ ३ ॥

ननु ज्ञानक्रिये एव कथं सिद्धे यत ऐश्वर्यव्यवहारः प्रसाध्यते

  • [प्रसाध्येत - क्। ष्। ष्।] इति शङ्कां शमयितुमाह :-

तत्र ज्ञानं स्वतः सिद्धं क्रिया कायाश्रिता सती ।

परैरण्युपलक्ष्येत तयान्यज्ञानमुह्यते ॥ ४ ॥

अतः कारणात्, जीवतामिति - जीवतामिति शब्देन, जङ्गमा एव - लक्षणया प्रमातार एव । इत्थम्, चेतनया ज्ञानक्रियारूपया, निर्दिष्टाः, कथिता इत्यर्थः । ॥ ३ ॥

अथ चतुर्थश्लोकस्यावतरणिकां कर्तुमाह ननु इति ।

अत्र टीका :-

यतः - याभ्यां ज्ञानक्रियाभ्यां तत्सिद्धेर्वा ।

ऐश्वर्यव्यवहारः, आत्मनीति शेषः । प्रसाध्यते, प्रकर्षेण साधनविषयतां नीयते इत्यर्थः । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । तत्र ज्ञानम् इति ।

अत्र टीका :-

तत्र प्रथम ज्ञानस्य स्वतः सिद्धत्वं साधयति अहम् इति । स्वप्रकाशः - प्रकाशविषयत्वेन तद्वत् स्वग्रहणे परानपेक्षः, योऽहं परामर्शः - प्रकाशाश्रयः तद्विषयश्चाहमित्यान्तरो विमर्शः, तत्र परिनिष्ठितम् - भित्तौ इव चित्रं लग्नम् । ज्ञानम् नाम - ज्ञानाख्यं वस्तु भवति, न तु पृथग् लब्धसत्ताकं भवति । तथा चाहपरामर्शवत् [तथा चार्थपरामर्श - च्।] स्वप्रकाशत्वरूपं स्वतःसिद्धत्वमस्य स्फुटमेवेति भावः । कथम् ?

अहं जानामि, मया ज्ञातं ज्ञास्यते च - इत्येवं स्वप्रकाशाहम्परामर्श - [इत्येवं प्रकाशाहम्परामर्श - क्। ष्। ष्।] परिनिष्ठितमेव इदं ज्ञानं नाम, किं तत्र अन्यत् विचार्यते, तदप्रकाशे हि विश्वम् अन्धतमसं स्यात्, तदपि वा न स्यात्, बालोऽपि हि प्रकाशविश्रान्तिमेव संवेदयते । तदुक्तम् :-

अहं जानामि मया ज्ञातं ज्ञास्यते चेत्येवम्, अनेन प्रकारेणेत्यर्त्यर्थः । तत्राहमिति मयेति चाहम्परामर्शः ।

जानामीत्यादिना ज्ञानपराम्र्शः । प्रयोगत्रयं कालत्रयव्याप्तिप्रदर्शनार्थम् । ननु किमत्रान्यदपि किञ्चिद् वक्तव्यमस्ति न वेत्यपेक्षायामाह किं तत्र इति । अहंविमर्शे निष्ठस्य ज्ञानस्य स्वतः सिद्धत्वे किमपि वक्तव्यं नावशिष्यते आबालप्रसिद्धत्वादिति भावः ।

पूर्वोक्तमेव समर्थयति तत् इति । तस्य - अहंविमर्शनिष्ठज्ञानस्य, अप्रकाशे । विश्वम् - सर्वो भाववर्गः, अन्धतमसम् - घनान्धकाररूपम्, ग्रहीतुमशक्यत्वादिति भावः । तदुक्तम् :-

प्रकाशाख्यस्त्वमेवैकः सर्वेऽन्ये तमसा समाः

इति । तथा :-

संवित्तत्त्वं स्वप्रकाशमित्यस्मिन् किं नुयुक्तिभिः ।

तदभावे भवेद्विश्वं जडत्वादप्रकाशकम् ॥

इति च । अपवादान्तरमाह [चापदनन्तरमाह - च्।] तदपि इति । तदपि - अन्धतमसमपि, तमोग्रहणेऽपि च प्रकाशस्यैव सामर्थ्यात् । न हि नेत्रद्वारेणासञ्चरितप्रकाशः जात्यन्धः तमोपि ग्रहीतुं शक्नोति, अदर्शनमात्रस्यैव तद्गतत्वात् । अभावरूपय्सा दर्शनस्य नीलरूपस्वरूपाद् द्रव्यस्वरूपाद्वातमसो भिन्नत्वत् । आबालमेतत् सिद्धमित्याह बालोपि इति । प्रकाशे - अहंविमर्शस्य तन्निष्ठस्य ज्ञानस्य च सारतया स्थितेऽहम्प्रकाशे, विश्रान्तिं संवेदयते - परेष्वनुभवविषयतां नयति । मह्यमिदं

“विज्ञातारमरे केन विजानीयात् ।” (वृ। २।५।१९)

इति । तन्निह्नवे हि कः प्रश्नः, किम् उत्तरं च स्यात् - इति तत्र [तत्र जानामि - क्। ष्। ष्।] च

देहीति प्रयोगे हि ज्ञायते अनेनात्मा लब्ध इति । अन्यथा मह्यंशब्दप्रयोगायोगात्, चौरादिको विदिः, तथा च चेततीत्यर्थः । अत्र श्रुतिमपि प्रमाणयति विज्ञातारम् इति ।

अहम्परामर्शनिष्ठज्ञानात्तर्ह्यप्रमाता विज्ञाता, अरे - लोकाः प्रेक्षापूर्वकारिणः, तं विज्ञातारम् केन - किं फलमुद्दिश्य, जानीयात्, तस्यैव विश्रान्तिस्थानतया तद्विषयस्य [तद्विषयन्तद्व्यतिरिक्तस्य ज्ञानस्य - च्।] तद्ध्यतिरिक्तस्य ज्ञानस्य व्यर्थत्वाज्ज्ञाने प्रवृत्तिमेव न कुर्यादित्यर्थः । तथा केन - प्रमाणेन जानीयात् तत एव लब्धसिद्धेः प्रमाणस्य तत्र व्यापारायोगात् । तदुक्तम् :-

प्रमाणान्यपि वस्तूनां जीवितं यानि तन्वते ।

तेषामपि परो जीवः स एव परमेश्वरः ॥

इति । तथा केन - रूपेण, जानीयात्, नीरूपस्य तस्य ज्ञानं न सम्भवत्येवेत्यर्थः । तदुक्तम् :-

भ्रमो न लभ्यते यस्य भ्रान्तान्तःकरणैरपि ।

दूरगैरपि यस्यान्तो दुर्गमस्तं स्तुमो मृडम् ॥

इति । अन्तः शब्दो ह्यत्र परमार्थतः स्वरूपवाच्येव । दुर्गमः, दुर्ज्ञेय इत्यर्थः । अथ च केन - केन रूपेण स्वयं स्थित्वा तं जानीयात्, स्वयमेव तद्रूपेण स्थितत्वान्न तं ज्ञातुं शक्नोति । व्यतिरिक्तस्यैव ज्ञानविषयत्वसम्भवादित्यर्थः । तदुक्तम् :-

आत्मा यदि भवेन्मेयस्तस्य माता भवेत्परः ।

पर आत्मा तदानीं स्यात् स परो यस्तु मीयते ॥

जानामि - इत्यन्तः संरम्भयोगोऽपि भाति, येन शुक्लादेर्गुणात् अत्यन्तजडात्

इति । सर्वथा विज्ञातुर्विषयत्वं न युक्तमिति श्रुत्यभिप्रायः । तथा चान्यश्रुतयः -

यस्यामतं तस्य मतं मतं यस्य न वेद सः ।

विज्ञातमविजानतामविज्ञातं विजानताम् ॥

तथा :-

यद्वेद्यं तज्जडम्

इति । नन्वेतेनास्य निह्नव एवायात इत्यत्राह तन्निह्नवे इति । तन्निह्नवे - तस्य विज्ञातुरपलापे, प्रष्टुर्वक्तुश्च निह्नवापातादिति भावः । तदुक्तम् :-

असन्स एव भवति असद् ब्रह्मेति वेद चेत्

इति । एतदुक्तं भवति, विज्ञातुर्ग्रहणापेक्षैव नास्ति, स्वयमेव ग्रहीतृत्वेन स्थितत्वात् । न च तस्यैव तद्ग्रहणं युक्तमन्यत्वापत्तेः । न च तदग्रहणे सामग्र्यपि युज्यते सर्वस्याः तस्याः तत एव सिद्धेस्तं प्रत्युपायत्वायोगात् ।

नन्वहं विमर्शनिष्ठत्वद्वारेण ज्ञानस्य प्रकाशरूपं स्वतःसिद्धत्वं भवतु, क्रियाया अपिशब्दद्योतितं तत्कथं सम्भवेदित्यत्राह तत्र च इति । तत्र च सति जानामीत्यन्तः, उपलक्षणं चैतत्, तेन जानामीत्यादित्रयमध्ये, संरम्भयोगोपि भाति - कृत्प्रत्ययवाच्यस्पन्दयोगोपि, भाति - अहम्परामर्शनिष्ठज्ञानवत् स्वप्रकाशत्वेन स्फुरति । येन - भानेन, [येन भावेन - च्।] जानामीतिवपुः - प्रकृति - प्रत्ययविभागकल्पनया ज्ञानक्रियानिष्ठं जानामिति अस्य स्वरूपम्, अत्यन्तजडात् - स्वग्रहणे सर्वदा परापेक्षत्वाद् अतिशयेन जडात् । शुक्लादेर्गुणात्, तमपेक्ष्येति

जानामि - इति - वपुः च्त्स्वभावाताम् अभ्येति; स च संरम्भो विमर्शः क्रियाशक्तिर्भ्वति [क्रियाशक्तिरुच्यते - क्। ष्। ।ष्] । यदुक्तम् अस्मत्परमेष्ठिश्रीसोमानन्दपादै: -

“घटादिग्रहकालेऽपि घटं जानाति सा क्रिया ।”

इति । तेन आन्तरी [आन्तरीयक्रियाशक्तिः - क्। ष्। ष्।] क्रियाशक्तिः ज्ञानवदेव स्वतः सिद्धा स्वप्रकाशा, सैव तु स्वशक्त्या प्राणपुर्यष्टकक्रमेण शरीरमपि सञ्चरमाणा स्पन्दनरूपा सती

यावत् । चित्स्वभावताम् - चिद्रूपताम्, अभ्येति - प्राप्नोति । आन्तरं प्रमातृरूपं ज्ञानं प्रति ग्राह्यत्वेपि बाह्यं शुक्लादिगुणं प्रति प्रमाणभावमासाद्य ग्राहकत्वात् । अभ्येतु ततः किमित्यपेक्षायामाह स च इति । विमर्शः - विषयावसायरूपः । स च संरम्भः - जानामीत्यन्तर्गतस्तिङ्वाच्यः स्पन्दः, क्रियाशक्तिर्भवति, अन्यथा तिङ्प्रयोगायोगादिति भावः । अत्र शिवदृष्टिवाक्यमुदाहरति यदुक्तम् इति ।

घटादिग्रहणकालेऽपि यद् घटं जानातीति भवति सा क्रिया भवति । न तु करणकालिकं करोमीत्येतदेव क्रिया भवतीत्यपिशब्दाभिप्रायः । सिद्धं स्वाभीष्टं प्रकटयति तेन इति । आन्तरी - प्रमाणरूपा न तु कायव्यापार

  • रूपा । ज्ञानवदेव, अहम्परामर्शनिष्ठविज्ञातृरूपविज्ञान - वदित्यर्थः । ननु यदीयमेव क्रिया तर्हि काये यः स्पन्दः प्रत्यक्षं दृश्यते स किमस्तीत्यत्राह सैव - इति । सैव - आन्तरी क्रियैव । स्वशक्त्या - निजसामर्थ्येन । व्यापारात्मिका - व्यापाररूपा । मायापदे - भेदे, विषयः - गोचरः । तदुक्तम् :-

लोकेऽपि किल गच्छामीत्येवमन्तः स्फुरैव या ।

सा देहं देशमक्षांश्चाप्याविशन्ती गतिक्रिया ॥

इति । एतेन द्वितीयवाक्यव्याख्या सम्पन्ना । अपि शब्दः पूर्वकालीनस्वतः सिद्धत्वसमुच्चयपरः ।

व्यापारात्मिका [व्यापारव्याहारात्मिका - क्। ष्। ष्।] मायापदेऽपि प्रमाणस्य प्रत्यक्षादेर्विषयः । सा च परशरीरादिसाहित्येन अवगता स्वं स्वभावं ज्ञानात्मकमवगमयति, [ज्ञानात्मकं गमयति - क्। ष्। ष्।] न च ज्ञानम् इदन्तया भाति, इदन्ता हि अज्ञानत्वम्, न च अन्यद्वस्तु [अन्यदन्येन वपुषा - क्। ष्। ष्।] अन्येन वपुषा भातं भातं भवेत्, तत् ज्ञानं भात्येव परम्, भाति च यत् तदेव अहमित्यस्य

कार्यरूपायाः कायक्रियायाः कारणरूपं ज्ञानं प्रति हेतुत्वं तृतीयवाक्येनोक्तं कथयति सा च इति । साहित्येन - सहचरत्वेन, स्वं स्वभावम् - उपादानत्वेन निजस्वरूपम्, अवगमयति - भवितव्यमिति तर्करीत्यावगमविषयतां नयति । एतेन ज्ञानस्य परसिद्धत्वमपि कथितम् ।

अत्र [अत्र च घटो मृदा नहनम् - च्।] च घटान्मृदूहनं स्वयमेव दृष्टान्तीकार्यम् । नन्वेतेन स्वज्ञानस्य परज्ञनेन सह भेद एवायातस्तथा चाभीष्टस्याऽद्वैतस्य वन्ध्यातनयसोदर्यत्वमेव स्यादित्यत आह न च इति । ज्ञानम् - विज्ञातरूपम् । इदन्तया - इदमिति बुद्ध्या, न च भाति - अहन्निष्ठत्वेनैव तस्य समनन्तरं साधनात् । कुतो न भातीत्यत आह इदन्ता इति । हि - यस्मात्, इदन्ता अज्ञानत्वम् एव भवति ज्ञानव्यतिरिक्तेषु घटादिष्वेव तत्प्रयोगात् । नन्वत्र ज्ञानमिदन्तयैव भातमिति किं कुर्म इत्यत आह न च इति । अन्यद्वस्तु अन्येन वपुषा - स्वरूपेण, भातं भातं न भवेत्, अन्यथा रजतभावेन भातायाः शुक्तेरपि भातत्वप्रसङ्गात् । ननु तर्हि तज्ज्ञानम् अभातमेव भवत्वित्यत आह तत् इति । तज्ज्ञानं परम् - केवलम्, भात्येव । यथा तथा कल्पिते तदभानेपि साक्षितया

वपुः इति परज्ञानमपि स्वात्मैव; परत्वं केवलम् उपाधेर्देहादेः; स चापि विचारितो यावत् न अन्य इति विश्वः प्रमातृवर्गः परमार्थत एकः प्रमाता स एव अस्ति । तदुक्तम् :- [यदुक्तम् - क्। ष्। ष्।]

“…प्रकाश एवास्ति स्वात्मनः स्वपरात्मभिः ।”

इति । ततश्च भगवान् सदाशिवो जानाति इत्यतः प्रभृति क्रिमिरपि

स्थितत्वात् । अन्यथाऽभानासिद्धे । ननु सदा भानेन तस्य किमायातम् इत्यत आह भाति च इति । यच्च भाति तत् अहमित्यस्य - अहम्पदवाच्यस्य विज्ञातुः, वपुः - स्वरूपं भवति । इति इति । इति - अतः कारणात् । परज्ञानमपि - परकायक्रिययार्थादूहितं [परकायक्रिययार्थहितम् - च्।] परज्ञानमपि, स्वात्मैव भवति परस्मिन्सदा भानात्, एतद्विषय इदन्ताभानस्यान्यथासिद्धत्वच्च । ननु भासमानं परत्वं कुत्रापसारयाम इत्यत आह परत्वम् इति । आदिशब्देन प्राणादेर्ग्रहणम् । न हि घटद्वयान्तरगतयोराकाशयोर्भिन्नत्वं युक्तमिति भावः । ननु तर्हि परत्वापादक उपाधिरेवापसार्य इत्यपेक्षायामाह स चापि इति । यावत् शब्दोऽवधारणे, स च - उपाधिश्च, यावद्विचारितः विचारित एव सन् ।

अन्यः - प्रकाशरूपप्रमातृव्यतिरिक्तो न भवति । न ह्याकाश आकाशस्योपाधित्वं युक्तम्, तद्व्यतिरिक्तस्य घटादेरव तद्दर्शनात् ।

फलितमाह इति इति । इति - अतः कारणात्, विश्वः - सर्वः, प्रमातृवर्गः - प्रमातृसमूहः, परमार्थतः एकः प्रमाता भवति । मध्ये स्थितस्योपाधेरपि तद्भावेन स्फुरणात् । स एव च - एकः प्रमाता एव । अस्ति - परमार्थःसन्भवति, प्रमातृभेदस्योपाधिकल्पितत्वेन परमार्थेनासत्त्वात् । यस्त्वाह एकप्रमातृवादे एकस्य सुखादिनाऽन्येषामपि कथं न तद्युक्तत्वं दृश्यते स देहात्मभ्रान्त्या ग्रस्त एव, यतो यत्र देहादेरपि असत्यत्वकल्पनं तत्र तत्सिद्धस्य सुखादेः कथैव का, भवतु वा सोपि, तस्यापि तत्त्वान्न कापि हानिरित्यलं भगवदनुग्रहमात्रप्राप्यवस्तुनिव्यर्थैर्वाग्जालैः । अत्र वृद्धसम्मतिमाह तदुक्तम् इति । इदं च गतार्थमिति न पुनरायस्तम् । एतेन सिद्धमर्थमाह ततश्च इति । फलतः सदाशिवकृमिज्ञान -

जानाति - इत्यन्तम् एक एव प्रमाता इति फलतः सर्वज्ञत्वं प्रमातुः । एवं कर्तृत्वेऽपि वाच्यम् । यदुक्तम् अस्मत्परमेष्ठिभिः शिवदृष्टौ :-

घटो मदात्मना वेत्ति वेद्म्यहं च घटात्मना ।

सदाशिवात्मना वेद्मि स वा वेत्ति मदात्मना ॥

नानाभावैः स्वमात्मानं जानन्नास्ते स्वयं शिवः ।

योरेकत्वसाधनेन मध्यगानामन्येषामपि ज्ञानानामेकत्वमेवायातम्, ज्ञानैक्ये च तद्रूपाणां प्रमातॄणामप्यैक्यमेव सिद्धम्, तथा चैकस्यैव सर्वज्ञत्वमायाति । इति फलतः - फलभावेन, न तु साक्षादित्यर्थः । तदुक्तम् :-

यैव चिद् गगनाभोगभूषणे व्योम्नि भास्करे ।

धराविवरकोशस्थे सैव चित्कीटकोटरे ॥

इति । एतेन लौकिकसर्वज्ञतानिरासः । ननु ज्ञातृत्वमेवं भवतु कर्तृत्वस्य का वार्तेत्यत्राह एवम् इति । कर्तृत्वपल्लवत्वादिति भावः । अत्र श्रीसोमानन्दवाक्यमुदाहरणत्वेनाह घटो मदात्मना इति । घटः - वेदनविषयभूतो घटः । मदात्मना - वेदकरूपस्य मम स्वरूपेण, वेत्ति - स्वविषयं वेदनं प्रति कर्तृत्वं भजति ।

यावन्न वेदका एते तावद्वेद्याः कथं प्रिये ।

इति नयेन वेदनेच्छाकाले मद्भावेन स्फुरणात् । अहं च घटात्मना वेद्मि - मद्भावासादनप्राप्तवेदकभावघटस्वरूपेण चाहं वेद्मि ।

ममापि घटग्रहणकाले घटभावासादनात् । अन्यथा ग्रहणासद्भावात् । तदुक्तम् :-

व्यतिरिक्तस्य बुद्धत्वे सर्वं बुद्धं न किं भवेत् ।

इति । एवं विषयपरिमितप्रमात्रोरैक्यमुक्त्वा अपरिमितप्रमातृपरिमितप्रमात्रोरपि तत्कथयति सदाशिव इति । वा शब्दः चार्थे, सदाशिवज्ञानं ममैव ममापि ज्ञानं तस्यैवेत्यर्थः । न हि कणभावेन चयभावेन च स्थितस्याग्निद्वयस्य कदापि भेदोयुक्तः, कणानामेव चयत्वादिति भावः । आदि शब्देनान्येषां तत्रत्यवाक्यानां

इत्यादि । “ऊह्यते” इत्यनेन ज्ञानस्य प्रमेयत्वं न निर्वहति - इति दर्शयति, अन्यथा हि अनुमीयते - इति ब्रूयात् ।

तदेवं येषां तार्किकप्रावदपांसुपातधूसरीभावो न वृत्तोऽस्मिन् संवेदनपथे, ते इयतैव आत्मानमीश्वरं विद्वांसो घटशरीरप्राणसुखतदभवान् तत्रैव निमज्जयन्त ईश्वरसमाविष्टा एव भवन्ति । ततोऽयम् उपोद्धातः । उप इति आत्मनः समीपे टङ्कवत् ईश्वरप्रत्यभिज्ञानलक्षण [ईश्वराभिज्ञानलक्षणः - क्। ष्। ष्।] उत्कर्षो हन्यते विश्राम्यते येन; एतावदेव च अस्य ग्रन्थस्य तात्पर्यम् - इति । ततोऽपि

ग्रहणम् । एवं स्वपरज्ञानयोरेकत्वं प्रसाध्य ऊह्यते इत्यस्याअभिप्रायं वक्तुमाह उह्यते इति । अनुमानविषयस्य प्रमेयत्वं सर्वैरुच्यते न तर्कविषयस्येति भावः ।

अस्याह्निकस्य मङ्गलश्लोकेन द्योतितम् उपोद्घातत्वं साधयितुमाह तत् इति । तदेवं सति, न वृत्तः - नसम्पन्नः, संवेदनपथे - ज्ञानमार्गे, इयता - उपोद्घातत्वेन स्थितेन श्लोकचतुष्केनैव । तत्रैव - ईश्वररूपे परमात्मन्येव । निमज्जयन्तः - अन्तर्भावयन्तः, तद्भावेनैव पश्यन्त इति यावत् । ईश्वरसमाविष्टाः - प्राप्तेश्वर - प्रत्यभिज्ञाः । भवन्ति इत्यनेन समावेशय सिद्धत्वमेव कथयति, अन्यथा भवेयुरिति ब्रूयात् । नीलसुखादिविवशानामेतेनेश्वरसमावेशाभिमानो निरस्तः । न हि तेषु नीलसुखादिनिमज्जनं सम्भवति, निमज्जने हि प्राप्तेषु तेषु यथोचितं भोगः, अप्राप्तेषु त्ववहेलैव भवति । तत्र च स्वमन एव साक्षितया ग्राह्यम्, अन्यथा स्ववञ्चकत्वापत्तेरित्यलम् । एतेन सिद्धमर्थमाह ततः इति । ततः, यतः समस्तशास्त्राभिधेयः समावेशः एतेनैव सिद्ध्यति ततः कारणादित्यर्थः । अन्यदपि निर्वचनमुपोद्धातशब्दस्य करोति उप इति । टङ्कः - पाषाणदारणः, ईश्वरप्रत्यभिज्ञानलक्षणः - ईश्वरोहमिति प्रत्यभिज्ञारूपः । ननु कथमेतेनोपोद्धातत्वम् इत्यत आह एतावत् इति । एतावदेव - आत्मनि उत्कर्षविश्रामणमेव । अन्यदपि निर्वचनमाह उपांशु इति ।

अयम् उपोद्घातः । उपांशु अविततं कृत्वा उदिति शास्त्रस्य ऊर्ध्व एव हन्यते अपसार्यते प्रमेयविषयो व्यामोहो येन - इति । गत्यर्थत्वाद्वा हन्तेर्ज्ञानमर्थः, ज्ञायते प्रमेयं येन इति । केचित्तु गतिं स्त्रियं गच्छति

  • इत्ये तद्विषयमेव [इत्येतद्विषयामेव - क्। ष्। ष्।] हन्त्यर्थमाहुः । एवं श्लोकचतुष्टयार्थभावनादार्ढ्यादेव लभ्यते परमशिवः । इति [इत्यवसायस्य - च्।] शिवम् ॥ ४ ॥

इति श्रीमदाचार्यात्पलदेवशिष्य - श्रीमदाचार्यलक्ष्मणगुप्तदत्तोपदेश - श्रीमदाचार्याभिनवगुप्तविरचितायां श्रीप्रत्यभिज्ञाविमर्शिन्यां ज्ञानाधिकारे उपोद्घातः ।

इति प्रथममाह्निकम् ॥ १ ॥

अविततम् - स्तोकम्, सङ्क्षेपेणेत्यर्थः । प्रमेय विषयः - प्रत्यभिज्ञाविषयः । घात इत्यवयवस्यान्यमप्यर्थमाह गत्यर्थत्वात् इति । गत्यर्थो ज्ञानार्थ इति नीतेरित्यर्थः । प्रमेयम् - स एवेश्वरोऽहमित्येवंरूपम् । केषाञ्चिन्मतेन ज्ञानर्थसाधकं गमनार्थं प्रत्याख्यातुमाह केचित्तु इति । केचित्तु गतिम् - गमनरूपम् ।

इत्येष एव विषयः यस्य तादृशम् । हन्त्यर्थमाहुः - कथयन्ति । इत्येषः कः ? स्त्रियं गच्छति इति । स्त्रियं गच्छतीति स्थाने एव स्त्रियं हन्तीति प्रयोज्यम् । नान्यत्र हिंसार्थवाचकत्वादिति तेषां भावः । फलितं सिद्धान्तमाह एवं श्लोकचतुष्टय इति । दार्ढ्यात् - अहर्निशं सेवनेन, विमर्शनेनेति यावत् । लभ्यते - प्रत्यभिज्ञाविषयतां नेतुं शक्यते ।

आदिश्लोकस्य मङ्गलप्रयोजन - परत्वमपेक्ष्य श्लोकचतुष्टयेत्युक्तम् ।

परमशिवः - स्वान्तः कृततत्त्वषट्त्रिंशत्कः सप्तत्रिंशः श्रीपरमेश्वरः । इति शब्दः समाप्तौ । शिव पदं मङ्गलवाचकं परतत्त्वसूचनपरं च । इति शिवम् ॥ ४ ॥

इति श्रीभास्करकण्ठविरचितायां श्रीप्रत्यभिज्ञासूत्रविमर्शिनी - टीकायां श्रीभास्कर्याख्यायां ज्ञानाधिकारे प्रथममाह्निकं समाप्तम् ।