ॐ नमः संविद्वपुषे शिवाय ।
अथ
ईश्वरप्रत्यभिज्ञाविमर्शिनी ।
निराभासात्पूर्णादहमिति [निराशंसान्त् - क्।ष्।ष्।] पुरा भासयति यद् द्विशाखामाशास्ते तदनु च विभङ्क्तुं निजकलाम् । स्वरूपादुन्मेषप्रसरणनिमेषस्थितिजुषस् - तदद्वैतं वन्दे परमशिवशक्त्यात्म निखिलम् ॥ १ ॥
भास्करी ।
ॐ । शिवादिक्षोण्यन्तं रसगुणमितं तत्त्वनिचयं पदे सप्तत्रिंशे मितिविषयतारोहकलिते ।
पदे त्वष्टात्रिंशे पुनरपि मितौ तावति पुनः प्रभुः क्रीडाशीलो जयति रचयन कोपि परमः ॥ १ ॥
चिदानन्देच्छावित्कृतिमयवपुर्भासनपरा [मपि - च्।] पराभावे [भावी - च्।] तद्वत्तदपरदशावेशसमये ।
ततो मायारूपा चतुरमपराभावलसने त्रिरूपाऽसौ देवी जयति शिवशक्तिर्भगवती ॥ २ ॥
स्वरूपे संलीनं कृतिविदिमयं [विधि - च्।] सर्वविषयं निजैश्वर्यं स्वस्मिन्नहमिति विभुर्भासयति [विभो - च्।] यः ।
ततोर्थौघं सृष्ट्वा न्विदमिति गृहीत्वा पुनरिमं वशीब्भावं तत्राभिनयति य एनं हृदि भजे ॥ ३ ॥
स्थितः स्वच्छे भावे परविशदवैधुर्यपदगे स्वयं साक्षात्कृत्वा [साक्षात्कृत्य - च्।] यमलमवतारं तु कृपया ।
द्विधात्मोद्भूतिं यो [या - च्।] मम [समरचितवान् - च्।] रचितवान् भक्तिसुलभो गुरोस्त्राता चायं जयति जगदीशः परशिवः ॥ ४ ॥
प्रणौमि तं विघ्नहरं सुरेशं ज्ञप्तिञ्च देवं गुरुपादुकाञ्च ।
विद्यानिधीन् [विद्यानिधिम् - च्।] कौलनरोत्तमादीन् गुरु।स्तथारब्धसमुद्यमोहम् ॥ ५ ॥
यः कण्ठधौम्यायनताप्रसिद्धविशुद्धराजानकवंशजातः ।
स भास्कराख्यो द्विज एष टीकां करोति शास्त्रेऽभिनवोदितेऽस्मिन् ॥ ६ ॥
शक्तौ स्थितायामथवास्थितायां मया विनोदार्थमयं प्रयत्नः ।
आरभ्यते भो विबुधाः क्षमध्वं मात्सर्यहासे [मात्सर्यहासौ - च्।] न सतां प्रवृत्तिः ॥ ७ ॥
इह हि श्रूयते श्रीभगवत्तीव्रतरशक्तिपातहस्तामलकीकृतमहारहस्यो - पदेशश्रीसोमानन्दनाथेभ्योऽधिगतशास्त्रोपदेशस्तन्निभालने च प्राप्तपराकाष्ठः श्रीमानुत्पलदेवः स्वगुरुनिर्मितं शिवदृष्ट्याख्यं महारहस्यशास्त्रं व्याख्याय तत्प्रतिबिम्बकल्पं कारिकामयमीश्वरप्रत्यभिज्ञाख्यं महाशास्त्रं प्रणीय तत्तात्पर्यस्य दुर्बोधतामाशङ्क्य तन्मात्रपरा
लघुप्रत्यभिज्ञाख्यां वृत्तिं च कृत्वा तत्रापि मन्दबुद्ध्यनुग्रहार्थं मध्यप्रत्यभिज्ञाख्यां विवृतिं कृतवान् । तत्र च सर्वजनहितार्थं श्रीमताभिनवगुप्ताचार्येण बृहत्प्रत्यभिज्ञाख्या बहुविस्तरा टीका कृता । तद्विचारणे च जनमशक्तं ज्ञात्वा तेनैव प्रत्यभिज्ञाकारिकासूत्रेषु सङ्ग्रहमयी विमर्शिनीति प्रसिद्धा टीका कृता । अद्य तु तत्रापि दुर्बोधत्वं दृष्ट्वा श्रीभगवता शिष्यबुद्धिमाविश्य प्रेरितः स्वतःसिद्धश्रीमद्राजानकवैडूर्यकण्ठात्मजश्रीमदवतारकण्ठपुत्र् ओ भास्करकण्ठोऽहं दशसहस्रोत्तरलक्षसङ्ख्याकश्रीमोक्षोपायटीकाकरणेन कृततदवगाहनस्कन्धसंवाहनः [स्कन्दसंवाहनः - च्।] स्वपितुः परम्परागतमुपदेशं श्रुत्वा श्रीकौलनरोत्तमेभ्यश्च विद्योपदेशमासाद्य तद्व्याख्यायां प्रवृत्तः । न च पण्डितवरैरयोग्यतामारोप्य परिहासविषयीकार्यः । स्वविनोदार्थं स्वसुतादिबोधनार्थञ्च कृतैतत्स्पर्शनेऽपि तेषामनधिकारात् ।
अधिकारिणान्तु आदराविष्टत्वेन तत्कारित्वासम्भवात् । कुर्वन्तु वा का तेन हानिरित्यलम् ।
अथ व्याख्या : -
इष्टदेवता-भूत-पर-तत्त्व-निभालने प्राप्त-प्रतिष्ठानोप्यनुग्राह्यानुजिघृक्षा - विवशचित्तत्वेन तदनुस्मरणरूपं मङ्गलं ग्रन्थनिर्विघ्नपरिसमाप्तिहेतु - भूतं पराभावात्पश्यन्तीपदं ततोऽपि मध्यमापदं तस्माच्च वैखरीविषयतामापादयति निराभासात् इति ।
अहमनुग्राह्यजनकृपाविवशत्वेन देहप्रमात्रादिविषयपरिमिताहं - भावकृतस्थितिः, न तु शुद्धाहंरूपः । तत्त्वे ह्युपदेशकरणासम्भवेन तत्प्रवृत्त्ययोगात् । अत एवाभिनवगुप्तेतिनामरूषितः । तत् - यच्छब्दाविष्टपूर्वार्धेनोक्तकायम् ।
परमशिवः - सुद्धप्रकाशरूपः । शक्तिः -
दशादिक्कालाद्यैरकलितचिदालोकवपुषः सदा तादृक्स्वात्मानुभवितृतया [त्वादृक् - च्।] विस्फुरति यः ।
निजो धर्मः शम्भोर्निरुपमचमत्कारसरसः परं शाक्तं तत्त्वं जगति जयति स्पन्द इति तत् ॥
इति नयेन तस्याहमिति तादृक्स्वस्वरूपपरामर्शः । अन्यथा स्फटिकादिवत् अर्थोपरागे जडत्वापातात् । यद्वक्ष्यति :-
प्रकाशोर्थोपरक्तोपि स्फटिकादिजडोपमः
इति । यद्यपि स्वान्तःकृतशक्तिकस्यैव परमत्वं तथापि तन्निष्कृष्टस्य योग्यतया तज्ज्ञेयम् । ते एव, अर्थात् समरसीभूय, आत्मा - स्वरूपं यस्य तादृशम् । यद्यपि सदैव तयोरैक्यम् न तु केनापि निमित्तेन कदाचिदेव तथापि शिष्यबोधनार्थम् एकत्र तत्त्वे द्वित्त्वमारोप्यैवमुक्तम् । अथवा परमञ्च तत् शिवादितत्त्वषट्त्रिंशकादुत्तमञ्च तत् शिवशक्त्यात्म चेति विग्रहः अद्वैतम् - द्वयोर्भावो द्विता तत्र भवं द्वैतम्, न द्वैतम् - ऐक्यम्, तत्त्वषट्त्रिंशकभित्तिभूतम्, सप्तत्रिंशपरशिवतत्त्वरूपम्, जगदानन्दकृतसमरसीभावमिति यत् तद् वन्दे - वदि अभिवादनस्तुत्त्योः इत्यर्थानुसारेणाष्टाङ्गप्रणतिविषयतां सर्वोत्कर्षपरामर्शविषयताञ्च नयामि । अभिवादनं हि लोके नमस्कार एव रूढम्, अभिवादयामीत्युच्चारपूर्वं तत्करणात् ।
स्तुतिश्चोत्कर्षकथनम् । तदेव चान्तरताप्राप्तौ परामर्शः । तत्रः प्रह्वीभावो नमस्कार्राथः सर्वोत्कर्षपरामर्शश्च तस्य योग्यतादायकः । यत्र तत्र प्रणतस्य हि पशुत्वं स्वयं ग्रन्थकृद्वक्ष्यति । निखिलम् इत्यनेन विशेषणेन भाविनः समस्तस्य जडाजडस्यार्थ जातस्यैतन्मयत्वं कथितम् । अन्यथा पूर्वार्धोक्तपूर्णत्वासम्भवात् ।
तच्छब्दाकाङ्क्षां पूरयति निराभासात् इत्यादिना । यत् - पूर्वोक्तविशेषणं यदद्वैतम् । निराभासात् - शिवशक्त्यादिरूपेभ्यः आभासेभ्यो निष्क्रान्तात्, एकत्वेन शिवशक्त्यादिविकल्परहितादिति यावत् । तच्च षट्त्रिंशे शिवतत्त्वेप्यस्तीत्यत उक्तं पूर्णात् इति । तथापि सर्वभावेन स्फुरणान्यथानुपपत्त्या सर्वाभासनिरासश्च
शिवतत्त्वे न सम्भवति तस्य पूर्णतोन्मुखशुद्धप्रकाशरूपत्वं चेत् तर्हि निराभासत्वमेवायुक्तम् । स्यादेतद् यदि ते तरङ्गनिर्गतेरपि निश्चलस्य जलधेः केवलत्वं नश्यति । तदुक्तम् :
अशून्यमिव य्च्छून्यं यस्मिञ् च्छून्ये जगत्स्थितम् ।
सर्गौघे सति यच्छुन्यं तद्रूपं परमात्मनः ॥ "
इति । पूर्णत्वञ्चात्रान्तःकृतबाह्यपूर्णत्वाऽपूर्णत्वेन किमप्यान्तरं न तु लौकिकम्, तस्य प्रतियोगिसम्भवेन पूर्णत्वाभासत्त्वात् । पूर्णत्वमेव सम्भवविषयीकर्तुं विशेषणमाह उन्मेष इति । उन्मेषेण - स्वान्तर्गतशक्तिभागस्य शिवभागात् पृथग्भासनेन, प्रसरणम् - शिवादिक्षित्यन्ततत्त्वभावेन सञ्चारः, तथा निमेषेण - स्वान्तर्गते शिवभागे पुनः शक्तिभागस्यावस्थापनेन, स्थितिः - स्वस्मिन्नैक्यभावेनावस्थानम्, ते जुषत इति तादृशात् । यदुक्तं स्पन्दशास्त्रे :-
यस्योन्मेषनिमेषाभ्यां जगतः प्रलयोदयौ तं शक्तिचक्रविभवप्रभवं शङ्करं स्तुमः ॥
इति । चित्रपूर्ण एव च पटः चित्राणि दर्शयितुं शक्तो नान्यः । एवंविधात् स्वरूपात् - स्वस्मात् - अन्याननुयायिनः, अन्यत्रासम्बन्धिन इति यावत्, रूपात्
- उपादानभूतात्
तत् कुलं विद्धि सर्वज्ञ शिवशक्तिविवर्जितम् ।
इति नीत्या अनुत्तरकुलरूपाद् वपुषः । पुरा - अग्रे, यद्यप्यत्र कालस्य स्पर्शो नास्ति तथापि कालविवशाञ्छिष्यान्प्रत्येवमुक्तम् । अहमिति - स्वान्तर्गतम् अहंविमर्शयुक्तं शक्तिभागम् । भासयति - स्वयं भासनशीलाकुलाख्यप्रकाशरूपशिवाव्यभिचारेण स्वयं भासमानं सत् समर्थाचरणेन तत्र प्रेरयति, केवलायाः शक्तेस्तदयोगात् । न हि चक्षुर्ग्राह्याग्निस्वरूपं विना तच्छक्तिर्दाहे समर्था दृष्टा । एतच्च णिचः प्रयोगेण सूचितम् । आश्चर्यञ्च निराभासस्य भासनहेतुत्वम् ।
भासनञ्चात्र प्रकाशाख्यस्य शिवस्य स्वरूपपरामर्शः, तन्मात्रस्य शक्तित्वात् ।
अन्यथाऽऽद्यस्पन्द इति शब्दविषयत्वायोगात् । स्पन्दो हि किञ्चिच्चलनमेव, तच्च अहम इति स्वरूपपरामर्श एव शिवस्य । तदुक्तम् :-
किञ्चिच्चलनमेतावद् यत्स्वरूपविमर्शनम् ।
इति । एतेन शिवशक्त्याख्यस्य तत्त्वद्वयस्य प्रादुर्भाव उक्तः आभासयितृत्वावच्छिन्नस्य परमशिवस्यैव शिवत्वापातात् । शक्तेस्तु स स्फुट एव । पुनः किं करोतीत्यपेक्षायां द्वितीयं वाक्यमाह द्विशाकाम् इति । पुनः यदद्वैतं तदनन्तरं द्विशाखाम् - शिवशक्त्योर्यथायथं स्वभावेन स्फुरणात् तद्रूपशाखाद्वययुताम्, निजकलाम् - उदभूतोद्भविष्यमाणेन तत्त्वषट्त्रिंशकेनाचक्रं समानं प्रोद्भूतशिवशक्तिविभागं स्वकीयं भागम् । विभङ्क्तुम् - सादाख्यादिक्षोण्यन्ततत्त्वचतुस्त्रिंशकभावेन विभागविषयीकर्तुम् ।
आशास्ते - इच्छाशक्तिविषयतां नयति । उभयत्र वर्तमानप्रयोगः सातत्यद्योतनार्थः । अत्रैवेच्छाशक्तेरुद्भूतिः, अतः [यतः - च्।] पूर्वं शिवशक्तिगतस्य चिदानन्दाख्यस्य शक्तिद्वयस्यैव सम्भवात् ।
ज्ञानक्रियाशकत्योस्तु तत्त्वचतुस्त्रिंशकान्तर्गतत्वेनाशंसाविषयत्वात् ।
अत्र च निराभासादित्यस्य स्थाने निराशंसादिति तु प्रशस्तः पाठः ।
श्रीतन्त्रालोकटीकायां श्रीजयद्रथेन परिगृहीतत्वात् । तत्र च निराशंसात् - पूर्णत्वेनाकाङ्क्षारहितादिति योजनीयम् । यद्यपि तत्र श्रीजयद्रथस्य द्विशाखत्वमहमिदम्परामर्शद्वयमेवेष्टम्, तथापि तदस्मन्मनो नावर्जयति । द्विशाखामिति हि समस्तपदेनानुवादेन निर्देशः । न च साध्यमानस्य सयुक्तः । शिवशक्तिरूपस्य शाखाद्वयस्य तु पूर्ववाक्ये साधनं कृतमेवेत्यत्तरवाक्येऽनुवादे न दोषः । ननु निजकलां द्विशाखां विभङ्क्तुम् इति विधिनिर्देश एवात्रास्तीति चेत्, असदेतत् । निजकला ह्यत्राहंरूपैव तस्याश्च को द्विशाखो विभागः ।
अहम्भावेन स्वयं स्थितत्वात् । न च तस्यैव तच्छाखत्वं युक्तम् ।
किञ्चास्मिन्समये शिवशक्त्यैक्यकलाशाखारूपयोः शिवशक्त्योरेव भासयितृत्वाहम्परामर्शरूपयोः परामर्शो योक्तो नाहमिदम्परामर्शयोः, अत्रेदं परामर्शविहीनस्याहम्परामर्शमात्रस्यैव शक्तित्वाङ्गीकृतस्य प्रस्तावात्, इदम्परामर्शस्य भाविन्यां सदाशिवभूमावुत्थानात् ।
नन्वहम्परामर्शरूपायाः शक्तेः शाखात्वमस्तु पूर्णशिवस्य तु तत्कथं युक्तमिति चेन्न,
श्रीत्रैयम्बकसद्वंशमध्यमुक्तामयस्थितेः ।
श्रोसोमानन्दनाथस्य विज्ञानप्रतिबिम्बकम् ॥ २ ॥
शिवशक्त्यैक्यापेक्षया प्रत्येकं शिवशक्त्योरपूर्णत्वात् । अन्यथा शिवाभेदेन परतत्त्वकथनायोगात् । भवन्ति चैवंविधा न्र्देशाः ।
तदुक्तं श्रीबहुरूपगर्भस्तोत्रे :-
कोटिद्वितयसङ्गिने
इति । तत्र हि कोटिद्वितयशब्देन शिवशक्तिकथनमेव । तथा तत्रैव:-
भोगपाणे नमस्तुभ्यं योगीशैः पूजितात्मने ।
द्वयनिर्दलनोद्योगसमुल्लासितमूर्तये ॥
इति । तत्र च भोगशब्देन शिवकथनं शाखाया एव युक्तम् । ननु तर्हि श्रीजयद्रथेन कथं तत्रान्यथा व्याख्या कृता । शिवतत्त्वस्य शाखात्वकथनायोग्यतयेति ब्रूमः । ननु युष्माभिरपि कथं नेयं शङ्का कृता । सत्यम् । अस्माभिः साक्षाद् गुरुमुखादत्र युक्तयः श्रुता एवेति श्रीबहुरूपगर्भस्तोत्रावष्टम्भेन साहसे प्रवृत्तिः कृतेत्यलं महात्मभिः सह केलिचर्चाभिः ।
अत्र चाहमभिनवाख्यः पुत्रः । परमशिवः - नरसिंहगुप्ताख्यः पिता । शक्ति :- विमलाख्या माता । मातापित्रोः प्रत्यक्षं शिवशक्तिरूपत्वात् । ताभ्यामुपादानभूताभ्याम् आत्मा - स्वरूपप्रादुर्भावः यस्य तादृशम्, निखिलम् - सर्वाङ्गव्यापि । अद्वैतम्
- अद्वैतरूपं संयोगम् । विशेषणविशिष्टाक्षेपे आदियागाधिरूढं तयोर्मिथुनमिति यावत् । ग्रन्थकारस्य मातापितरौ एतन्नामकावास्तामिति हि प्रसिद्धिः तन्त्रालोके च प्रथमश्लोके स्वयं तेनाप्युक्तत्वात् । वन्दे । तत्किम्? यत् निराभासात् - तस्मिन्समये वेद्यगलनेन समस्तविषयाभासरहितात् । अत एव पूर्णात् - तृप्तिं गतात् । अन्याकाङ्क्षारहित एव हि तृप्त उच्यते । तथा उन्मेषण - बहिरवलोकनेन, प्रसरणम् - अनाख्येषु भावेषु सञ्चारः, निमेषेण - विसर्गकाले स्वात्मन्यवस्थानेन, स्थितिः - आनन्दभरिते स्वस्वरूपे विश्रामः, ते जुषत इति तादृशात्, स्वरूपात् - अद्वैताख्यात् स्वस्माद्रूपात् । अहमिति - परिमितवाचकाऽहम्पदविषयमभिनवेतिनामकं देहम् । पुरा भासयति - भासयति स्म । कुण्डगोलकाख्यद्रव्यनिष्यन्दक्रमेण प्रकटयति स्म ।
अनुत्तरानन्यसाक्षिपुमर्थोपायमभ्यधात् ।
ईश्वरप्रत्यभिज्ञाख्यं यः शास्त्रं यत्सुनिर्मलम् ॥ ३ ॥
तत्प्रशिष्यः करोम्येतां तत्सूत्रविवृतिं लघुम् ।
बुद्ध्वाभिनवगुप्तोऽहं श्रीमल्लक्ष्मणगुप्ततः ॥ ४ ॥
तदनु च द्विशाखाम् - वध्वा सह मेलनेन द्विशाखीभूताम्, निजकलाम् - सुतरूपं स्वांशम् । विभङ्क्तुम् - पुत्रपौत्रादिभावेन विभागयुक्ताम्, सम्पादयितुम, आशास्ते, वर्तमानसमीप्ये वर्तमानम् ।
मातापित्रोर्हि स्वसुतस्य सन्ततिरत्यन्तं प्रियैव भवति । मातापित्रोश्च शिवशक्तिभ्यां कथनेन स्वस्य योगिनीभूत्वमुक्तम् । आगमेषु हि स्त्रियः पुंसश्चादियागाधिरूढिसमये शक्तिभावाभिमानः शिवभावाभिमानश्च शिवशास्त्रोपदेशयोग्ययोगिनीभवसुतोत्पादनायावश्यकर्तव्यत्वेनोक्तः ।
तदुक्तम् :-
तादृङ्मेलककलिकाकलिततनुर्यो भवेद् गर्भे ।
प्रोक्तः स योगिनीभूः स्वयमेव ज्ञानभाजनं भक्तः ॥
इति । अयं चार्थोऽतिरहस्यत्वेन वक्तुमयोग्योऽपि
विमलकलाश्रयाभिनवसृष्टिमहाजननी भरिततनुश्च पञ्चमुखगुप्तरुचिर्जनक्ः ।
तदुभययामलस्फुरितभावविसर्गमय्ं हृदयमनुत्तरामृतकुलं मम स्फुरतात् ॥
इति श्रीतन्त्रालोकाद्यश्लोके स्वयं ग्रन्थकृता स्थापितः, श्रीजयद्रथेन च स्फुटं व्याख्यात इत्यस्माभिरपीह सूचनामात्रेण प्रकटीकृतः, इति न वयमेव केवलं पर्यनुयोगार्हाः इति ।
एवं परतत्त्वविषयं प्रह्वीभावोत्कर्षपरामर्शाख्यं मङ्गलं सम्पाद्य श्रीमठिकागुरुसम्प्रदायसूचनपूर्वकं तिलकेन शास्त्रकरणं प्रतिजानीते श्रीत्रैयम्बक इत्यादिना । तस्य प्रशिष्यः - शिष्यशिष्यः, अहमभिनवगुप्तः लघुम् - शब्दतः लघ्वीम्, तस्य सूत्राणाम् - कारिकारूपाणां सूत्रवाक्यानाम्, एताम् - करिष्यमाणाम्, विवृतिम् - विवरणरूपां टीकाम्, करोमि । किं कृत्त्वा ? श्रीमांश्चासौ लक्ष्मणगुप्तः - एतन्नामक उत्पलदेवशिष्यः स्वगुरुः, ततो बुद्ध्वा - ज्ञात्वा, अधीत्येति यावत् । प्रशिष्यः कस्य, सूत्राणि कस्येत्यपेक्षायामाह श्रीत्रैयम्बक इत्यादि । यः - प्रसिद्धेर्य उत्पलदेवः । ईश्वरः - सर्वोत्कर्षयुक्तः परमेश्वरः, सः प्रत्यभिज्ञायतेऽनयेति ईश्वरप्रत्यभिज्ञा, सा
आख्या यस्य तादृशम्, यत् शास्त्रम् - शासनकारिकारिकासन्दर्भम्, अभ्यधात् - स्वानुगकृपया पराभावात् प्रच्याव्य वैखरीभावमानीतवान् । शास्त्रं किम् ? श्रीमानणिमादियुक्तः यः त्र्यम्बकः - त्र्यम्बकाअख्योऽध्यर्धमठिकागुरुः तस्य सम्बन्धी त्रैयम्बकः तादृशो यः सन् - अभेदोपदेशयुक्तत्वेन प्रशस्तः, वंशः - शिष्यसन्तानः वेणुश्च । वंशो हि विद्ययोत्पत्त्या च वर्तते, तस्य मध्ये मुक्तामयी - अतिशुद्धत्वेन मौक्तिकस्वरूपा, स्थितिः अवस्थानं यस्य, युक्ता च वंशे मुक्तास्थितिः । सर्वा हि मठिका अर्धचतस्रो भवन्ति, तत्र द्वे अमर्दकस्य श्रीनाथस्य च, अध्यर्धं त्र्यम्बकस्य, तत्राप्येका पुत्रद्वारेण, अर्धा तु दुहितृद्वारेणेति, तस्य, श्रीसोमानन्दनाथस्य यत् विज्ञानम् - शिवदृष्ट्याख्यं ज्ञानशास्त्रम्, तस्य प्रतिबिम्बकम् - तत्समानाभिप्रायत्वेन तत्प्रतिनिधित्वात् । पुनः किम् ? अविद्यमान उत्तरः - श्रेष्ठः यस्मात्तादृशश्चासौ नान्यः साक्षी - ग्राहको यस्य तादृशश्च यः पुमर्थः - मोक्षाख्यः पुरुषार्थः, तस्योपायम् - साधनम् ।
अनन्यसाक्षित्वं च मोक्षस्य परमशिवरूपत्वेन ज्ञेयम् । न हि तस्य कोऽपि साक्षी सम्भवति सर्वान्प्रति तस्यैव साक्षित्वात् । अन्यच्च सुनिर्मलम् - शुद्धाभेदवाचकत्वेन लक्षणया भेदाख्यमलरहितम् । विज्ञानम् इत्यनेन ज्ञानोपदेशमात्रस्य सम्प्रदायागतत्वं सूचितम् । अत एव यत्कैश्चित्पण्डितैर्यत्र तत्र व्याख्याकरणोद्यतेषु येन यत्कृतं तत एव तच्छिष्यादेर्वा तदधीत्य व्याख्या कर्तव्येति चोदनाअ क्रियते तन्निजं मौर्ख्यमेव प्रकटीक्रियते अन्यथा श्रीपरमेश्वरोक्तेष्वागमशास्त्रेषु ब्रह्मोक्तेषु वेदेषु च कृता व्याख्या युक्ता न स्युः । न हि तत्कर्तृसमीपे केनापि किञ्चिदधीतम् । केवलं व्याकरणशास्त्रादि सम्यगधीत्य तत्सम्भवत्येव । अन्यथा तु गुरुमुखात्कियदधीतं पुरुषः स्मृतिविषयतां नेतुं शक्नोति । यस्तु सदा गुरुमुखप्रेक्ष्येव तस्य नैपुण्ये सहृदया एव प्रमाणम् । रहस्योपदेशस्य सम्प्रदायापेक्षा वर्तत एव । स तु यस्य तस्य येन तेन मुखेन वर्तत एवान्यथा प्रवृत्त्यसम्भवात् । तं विनाप्रवृत्तेष्वज्ञत्वकृताश्चोदना अपि मौर्ख्यावहा एव । मूर्खकृते हि मूर्खा एव हसन्ति, पण्डितानां तु तत्रोपेक्षामात्रस्यैव युक्तत्वात्, इत्यलं दैन्यावहेन वाक्प्रपञ्चेन । नन्वस्त्वत्र प्रत्यभिज्ञाशास्त्रे मठिका गुरुसम्प्रदायपूर्वकत्वरूपवागीश्वरीमूलत्वं प्रंआणत्वादायि मठिकागुरुभक्तिभाजः प्रति, मठिकागुरुश्रद्धारहितास्तु वेदान्तिनोऽत्र श्रुतिरूपाणि प्रमाणानि प्रार्थयन्ति तेषां किं ब्रूमः ? सत्यम्, श्रद्धारहितैस्तैः सहेयं कथैव न कार्या । ननु मायापदान्निर्गत्य
त्वदभीष्टशिवतत्त्वसमीपवर्तिब्रह्मतत्त्वरूपसदाशिवतत्त्वं तावत्कृतनिष्ठैस्तैः सह यदीयं चर्चा न क्रियते तर्हि मायाधोवर्तिबुद्धितत्त्वनिष्ठबौद्धादिभिरेव सह कार्या । ननु कथं ते सदाशिवतत्वं तावत्कृतनिष्ठाः ? शृण्वन्तु तत्र भवन्तः । ते हि सद्रूपं चिन्मात्ररूपञ्च शान्तं ब्रह्मतत्त्वमेव विश्रान्तिस्थानत्वेन कथयन्ति । तथा च श्रुति :-
सच्चिदानन्दं ब्रह्म
इति । तस्यैव सर्वव्यापकत्वं सर्वाधिष्ठानत्वं सर्वसाक्षित्वं केवलत्वं च ब्रुवन्ति । तथा च श्रुति :-
एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा ।
सर्वाध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च ॥
इति । तस्यैव च सर्वजगद्विवर्ताधिष्ठानत्वेन स्थितत्वात्सजातीयविजातीयस्वगतभेदरहितत्वं च कथयन्ति । तथा हि श्रुति :-
एकमेवाद्वितीयं ब्रह्म नेह नानास्ति किञ्चन्
इति । तदेव च सदाख्येति प्रसिद्धं सदाशिवतत्त्वं चतुस्त्रिंशम्, शिवशक्त्याख्यस्य तत्त्वद्वयस्य तदुपरिस्थितत्वात् । ईश्वरादिधरण्यन्तस्य तत्त्वत्रयस्त्रिंशत्कस्य तदधोवर्तमानत्वाच्च । तथा हि सन् - सद्रूपश्चासौ आशिवश्च - निर्विमर्शप्रकाशरूपत्वेनाहं - विमर्शसारप्रकाशरूपाच्छिवात् ईषदूनः शिवः शिवसमीपवर्ती चेति यावत् । तदेव च शान्तचिद्रूपत्वम्, शान्तत्वं हि विमर्शाख्यक्षोभरहितत्वमेव तेषामिष्टम् । विमर्शस्य हि ते विकल्पत्वाशङ्कया क्षोभत्वमेव शङ्कन्ते । न च तद्युक्तम्, विजातीयस्यागन्तुकस्य धर्मस्यैव तत्त्वात् । प्रकाशस्य हि स्वविषयोऽहमिति विमर्शः स्वभावभूत एव । तद्वक्ष्यति :-
स्वभावमवभासस्य विमर्शं विदुरन्यथा ।
प्रकाशोऽर्थोपरक्तोपि स्फटिकादिजडोपमः ॥
इति । यस्तु बाह्यविषयोहमिति विमर्शः स बाह्योपरागेण तावद्विजातीय आगन्तुकः क्षोभधर्मोपि वक्तुं शक्यः, परमार्थतः सोपि शैवनये प्रकाशस्वभाव एव । न च शक्तस्य किमपि क्षोभकमिति का कथा शक्तेस्तत्क्षोभकारित्वे, न हि दाहे शक्तोग्निस्तत्र
क्षुब्धो दृश्यते इति तावदनधिकारित्वेन तेषां नोक्तमेव ।
यद्येवं तर्हि तेषां प्रष्टव्यं किं भवन्मते जीवब्रह्मणोरैक्यं वर्तते भीन्नत्वं वा, यदि भिन्नत्वमेव कथयन्ति तर्हि मौनमेव कार्यम् ।
यदि त्वैक्यं तर्हि श्रुतिप्रमाणं तत्र भवद्भिरपि प्रार्थनीयम् । ननु तेषामत्र प्रमाणम् पृष्टम्, तैस्तत्र
अयमात्मा ब्रह्म सत्यं चिदात्मा तत्सत्यं चात्मा
इत्यादिका बह्व्यः श्रुतयः प्रमाणत्वेनोक्ताः । तर्हि वक्तव्यं ताः एवास्माकमपि प्रत्यभिज्ञायां प्रमाणम् । प्रत्यभिज्ञा हि ऐक्यफलैव ।
जीवेश्वरयोरैक्यसाधने प्रवृत्तत्वात् । ननु प्रत्यभिज्ञा प्रमाणं भवतु, तत्रोक्तासु युक्तिषु श्रुतिप्रमाणम् वक्तव्यमिति चेन्न । यत्र लौकिकव्यवहारेणैव प्रत्यभिज्ञासाधनं तत्र का श्रुतिप्रमाणकल्पना । तद्वक्ष्यतिः -
मार्गो नवः
इति । फलभेदस्तु लेशतोऽपि न विद्यते एव येन विरोधापत्तिः स्यात् । ननु पातभासमानैकीकरणरूपा प्रत्यभिज्ञात्र न युक्ता । असदेतत् । आत्मा हि भातो भासमानश्च । तदीश्वरत्वं तु तदीयस्वातन्त्र्येण मध्ये विस्मृतं तद्विषयत्वेन प्रत्यभिज्ञायते स ईश्वरोहमेवेति । भासमानस्याप्यात्मनो विस्मृतिर्जायत एवान्यथा दशमस्त्वमसीतिन्यायेन तत्त्वमसीत्युपदेशायोगात् । ईश्वरत्वं च परमपरं चेति द्विविधम् । तत्र परमहमिति स्वमात्रविषयमपरं तु परिमितग्राहकविषयमहमिति ग्राह्यविषयं त्वयमिति च । तदुक्तम् :-
परमेश्वरता जयत्यपूर्वा तव सर्वेश यदीशितव्यशून्या ।
अपराअपि तथैव ते यथेदं जगदाभाति यथा तथा न भाति ॥
इति । यत्त्वणिमादिकमैश्वर्यजातं तदेतदंशरुपमेव । यदुक्तम् :-
तेन स्वातन्त्र्यशक्त्यैव युक्त इत्याञ्जसो विधिः ।
इति । यद्यपि जीवस्यापि स्वप्राधान्येनाप्यहम्परामर्शो विद्यत एव तथापि सः
स ह्युक्तो द्वयापेक्षी विनिश्चयः
इति वक्ष्यमाणनीत्या प्रतियोगीदन्ताअपरामर्शरूषितत्वेन नैश्वर्यरूपः ।
अपि त्वनीश्वरतारूप एव । ऐश्वर्यरूपोहम्परामर्शस्तु समस्तेदन्ताहन्तासारत्वेन प्रतियोगिरहित एव । यद्वक्ष्यति :-
अहम्प्रत्यवमर्शो यः प्रकाशात्मापि वाग्वपुः ।
नासौ विकल्पः
इति । ननु जीवस्य विषयो विकल्परूपः प्रतियोग्यनुविद्धोहम्परामर्शः स्फुट एव, ब्रह्मणस्तु कथं सोस्तीति ज्ञायते । सत्यम् । प्रथमं तावद् भवद्भिरपि ब्रह्मणो जीवाकारत्वमेवोच्यते, अग्निकणन्यायेन ततो जीवप्रादुर्भावकथनात् । अन्यथा द्वैतापत्तेः । तथा :-
अनेन जीवेनानुप्रविश्य नामरूपे व्याकरवाणि
इति जीवभावोपि ब्रह्मण एव कथ्यते । तत्र च यदि ब्रह्मणः सा परामर्शशक्तिर्नास्ति जीवस्य कुत आगच्छेत् अग्निचयदाहकशक्तिपूर्वकं तत्कणदाहशक्तिदर्शनात् । ननु देहाद्युपाधिना सात्र स्फुरिता । न, इन्धनोपाधिना जलादपि धूम उत्तिष्ठेत् । परिमितभावस्तु यद्युपाधिकृत् उच्यते, उच्यताम् । किं च मायाशक्तिर्भवद्भिरप्यङ्गीक्रियते एव । सा किं जीवनिष्ठा ब्रह्मनिष्ठा वा । यदि जीवनिष्ठा तदा तत्पूर्वसिद्धस्य जीवव्रह्मविभागस्य तत्कृतत्वकथनमयुक्तम् । तदुक्तं :-
आश्रयत्वविषयत्वभागिनी निर्विभागचितिरेव केवला ।
पूर्वसिद्धतमसो न पश्चिमा नाश्रयो भवति नापि गोचरः ॥
इति । अथ ब्रह्मनिष्ठा तदस्य शुद्धत्वमसम्भवोपहतमेव ।
तदुक्तम् :-
अन्योन्यप्रतिघातनाशविधुरं विश्वं कथं भासताम् मायामात्रमिदं ततोऽतिनिपुणं वेदान्तिनः संश्रिताः ।
माया कस्य शिवस्य तर्हि शिवता नैवास्य
इति । ननु माया परमार्थतः किमपि वस्तु न विद्यते एव येन भवदुक्तचोद्यावकाशः, अपि तु भासमानभेदान्यथानुपपत्त्या सा कल्प्यते एव । तर्हि किंरूपा सा कल्प्यते ?
अज्ञानरूपा इति चेत् तदज्ञानं भावरूपमभावरूपं वेति विवेचनीयम् । यदि ज्ञानाभावरूपं तर्हि किं तेन । न हि घटाद्यभावस्य कुत्राप्यधिष्ठानत्वमुच्यते । मायायास्तु विक्षेपद्वारेण ब्रह्मविषयत्वे जगदधिष्ठानत्वमुच्यते । तथा च श्रुति :-
इन्द्रो मायाभिः पुरुरूप ईयते ।
इति । न च शुद्धस्य ब्रह्मणो मलिनजगदधिष्ठानत्वं युक्तम् । युक्तत्वे वेष्टापत्तिः । इति न किञ्चिदेतत् । अथ भावरूपम्, किंरूपोऽसौ भाव इति वाच्यम् । अनिर्वाच्य एव स इति चेत् तर्हि त्वया कथमुक्तः । अनिर्वाच्यतयेति चेत्, तर्हि सोऽपि ब्रह्मैव ।
यतो वाचो निवर्तन्ते
इति श्रूत्या ब्रह्मण एवानिर्वाच्यत्वकथनात् । ननु स ब्रह्मैव भवतु का हानिः । सत्यम् । एवं च ब्रह्मण एव भवन्मतेपि जगदधिष्ठानत्वमायातं विक्षेपद्वारेण जगदधिठानत्वभूताया मायाया ब्रह्मत्वाङ्गीकारात् तथा च ब्रह्मणो जगदधिष्ठानत्वे शक्तत्वं वाच्यम् । सा च शक्तिस्तस्य किंरूपेति वाच्यम् । स्वस्वरूपभूतेति चेत् का शक्तित्वकल्पना । न हि स एव तच्छक्तिरित्युचितम् । चिद्रूपस्य च शक्तिः विमर्शरूपैवोचिता स्फुटं बुद्ध्यवच्छिन्ने तदंशे विमर्शकत्वदर्शनात् । किं च जीवाश्रयं ब्रह्मविषयं च मायाकृतमावरणमिष्यते भवद्भिः । तदुक्तम् :-
जीवाश्रया ब्रह्मपदा ह्यविद्या तत्त्वविन्मता ।
इति । जीवस्य च ब्रह्मविषयमावरणं स्वावरणमेव फलतः तस्यैव तद्भावासादनात्, अन्यथा भेदापातात् । तत्र च ब्रह्मणो जीवत्वानाक्रान्ते भागे नावरणमेवेति बलादायातम् । स एव प्रकाशः । प्रकाशश्च विमर्शं विनाऽसत्कल्प एव । तदुक्तम् :-
विकल्पातीतवृत्तित्वात्प्रत्यक्षोऽप्यसि विस्मृतः ।
यथा पुरःस्थितो भावश्चेतसोन्यत्रगामिनः ॥
इति स एव चाहम्परामर्श इति । ननु तर्हि तर्केणैवाऽस्यात्र सिद्धिः ? भवतु का हानिः, तर्कोपि हि श्रुत्यनुकूलः प्रमाणमेव । तदुक्तम् :-
तर्को योगाङ्गमुत्तमम्
इति । अस्ति चात्र श्रुतिरपि :-
स ऐक्षत
इति ।
सर्वज्ञः
इत्यादि । ईक्षणं ह्यत्र तावद् द्वितीयाभावात् स्वविषयमेवेष्टम्, स एव चाहम्परामर्शः । चिद्रूपो हि भगवान् शक्तत्वेन परामृष्टं स्वमेव जगद्भावेन प्रादुर्भावयति जलमिव स्वं तरङ्गभावेन । अस्य तु जडत्वेन परामर्शे शक्तत्वं नास्ति । जडो हि स्वपरविषयपरामर्शरहित एव । ननु स्वपरदर्शनमपि तस्य सम्भवत्येव । असदेतत् । परामर्शरहितं दर्शनं हि प्रतिसङ्क्रान्तिरूपमेव । तच्च जडे स्फटिकादावपि दृश्यत एव, यद्वक्ष्यति :-
स्वभावमवभासस्य विमर्शं विदुरन्यथा ।
प्रकाशोऽर्थोपरक्तोपि स्फटिकादिजडोपमः ॥
इति । सर्वविषयं ज्ञानं चात्र परिमितापरिमिताहम्परामर्शेदन्तापरामर्शमयमेव, स्वयमेव प्रकाशरूपज्ञानत्वेनास्य स्थितत्वात् इति । ननु स्वानुभव एव भवद्भिः सर्वत्राभिषिच्यते सोप्यत्र वक्तव्यः । सत्यम् । जीवस्तावत्स्वानुभवरूप एवेति का कथा तदनुभवस्य । तत्र च ब्रह्माप्यनुभवरूपमेव ।
अहं ब्रह्मास्मि
इति अपरोक्षज्ञानेन तदेकत्वासादनात्, अन्यथास्ति ब्रह्मेति परोक्षज्ञानस्यैव स्थितत्वात्, तयोरनुभवानपेक्षित्वे च तद्विमर्शस्यापि तदनपेक्षैव । किञ्च ययोः प्रकाशविमर्शयोर्बलेन सर्वमनुभूयते का तयोरनुभवापेक्षा । न हि दीपदर्शनार्थं दीपान्तरापेक्षा युक्ता, तेनैव तत्प्रकाशनात् । ननु प्रकाशे इयमेव व्यवस्था, विमर्शव्यवस्था तु पृच्छ्यते । अहो प्रमादः ।
प्रकाशविमर्शयोस्तद्ग्रहणतदान्तरशब्दनरूपयोः किं भिन्नत्त्वं युक्तम् । एतच्चाग्रे युक्तिशतैः कथयिष्यति इति नात्र प्रयासो युक्तः । ननु तर्हि सदाशिवतत्त्वं त्यया कथं निर्विमर्शमङ्गीक्रियते । सत्यम् । तद्धि इदन्तामिश्रतदमिश्रयोरहम्परामर्शयोर्मध्ये सीमात्वेन कल्पितम् । तत एव तदेवमुक्तम् । तस्य हि शुद्धपरामर्शविषयत्वे शिवत्वापातः ।
इदन्तामिश्राहंविषयत्वे त्वीश्वरत्वाद्यापातः । मायाधोवर्तिनोः परिमिताहन्तेदन्तयोरिह
वृत्त्या तात्पर्यं टीकया तद्विचारः सूत्रेष्वेतेषु ग्रन्थकारेण दृब्धम् ।
तस्मात्सूत्रार्थं मन्दबुद्धिन्प्रतीत्थं सम्यग्व्याख्यास्ये प्रत्यभिज्ञाविविक्त्यै ॥ ५ ॥
कथैव नास्ति । तयोस्तदधोवर्तिग्राह्यग्राहकनिष्ठत्वात्, इह तु शुद्धविद्यादितत्त्वनिष्ठाऽहन्तेदन्ताप्रस्तावात् । परमार्थविचारे तु सदाशिवस्याप्यशुद्धतानिर्गततावदनासादितशुद्धभावाहम्परामर्श् अ युक्तत्वं विद्यत एव । तद्रहितत्वं तु त्वत्समाश्वासनार्थमेव तावदुक्तम् । ननु तथाप्यस्मदभीष्टमष्टात्रिंशं परमशिवरूपं तत्त्वं वेदान्तिनो न प्राप्ता एव, शिवतत्त्वस्यैव प्राप्तेः । सत्यम् ।
शिवतत्त्वमेवास्माङ्कमभीष्टमस्ति । परन्तु शक्तितत्त्वस्य भिन्नतया कथनेन तत्ततो भिन्नत्वमिव गतमिति तदैक्यरूपस्य सप्तत्रिंशस्य तत्त्वस्य कथनम् । तच्च वाच्यतां न सहते इति उपदेशकाले तस्याष्टात्रिंशत्वकथनम् । तस्याप्युपदेशविषयत्वे पुनरुक्ते सप्तत्रिंशे एव तत्त्वे विश्रान्तेर्नानवस्था । किञ्च सहृदयतां भजन्तो वेदान्तिनोऽन्यदपि किञ्चित्पृच्छ्यन्ते । ब्रह्मणोक्ते वेदेऽस्माभिः प्रमाणान्वेषणा न कृता । त्वया कथमीश्वरोक्ते आगमशास्त्रे सा कृता ।
तत्रापि श्रुतिप्रमाणमार्गणं मूढताकार्यमेव ननु । केनेश्वरस्तत्र कर्ता दृष्ट इति चेत्, वेदेऽपि केन स दृष्ट इति वाच्यम् । सनकादिभिः स दृष्ट इति चेत्, मठिकागुरुभिरप्ययं दृष्ट इति किं न सह्यते । नन्वेषां प्रामाण्यं नास्ति । तेषां कथं तदस्ति ? महाजनपरिग्रहादिति चेत्, अत्रापि श्रीदुर्वासादिभिः परिग्रहः कृत एव । ननु तत्र बहुभिः कृतः । सत्यम् ।
महारहस्येषु न सर्वेषामधिकार इत्यलं शान्तिकर्मारम्भे वेतालोत्त्थापनरूपेण विवादेन । किञ्च बालेनाप्युक्तमाद्युपायव्यतिरिक्तत्वात्, इति रहस्यसङ्क्षेपः ।
वस्तुनि कीदृशे ? देश कालाद्यभेदिनि, तथैकाभिधानविषये इति ॥ १ ॥
२ ॥ …
ननु च एकाभिधानविषये मितिः इति यत् उक्तम्, तत्र - एकमभिधानं बाह्ये स्वलक्षण एव प्रवर्तते यदि, तत्कथम् उक्तं प्रत्याभासं प्रमाणम्, आभासमिश्रीकरणाभासस्तु स्वलक्षणं इत्याशङ्कां शमयन् प्रमाणस्य यत् प्रमेयं तत् परमार्थतो निरूपयितुम् आह -
यथारुचि यथार्थित्वं यथाव्युत्पत्ति भिद्यते । आभासोऽप्यर्थ एकस्मिन्ननुसन्धानसाधिते ॥ ३ ॥
यद्यपि घट इति बहिः परिदृष्ट एकोऽर्थः तथापि तावानेव असौ न, अपि तु पृथङ्निर्भज्यमानतामपि सहते, तथाहि - स्वतन्त्रं वा विवेचनम् अर्थित्वानुसारेण वा पूर्वप्रसिद्ध्युपजीवनेन वा, तत्र त्रिधापि
अथ तृतीयस्य श्लोकस्यावतरणिकां करोति - ननु च इति ।
अत्र टीका -
एकाभिधानविषये - एकनामविषये, तत्र - तस्मिन् उक्ते, बाह्ये
- बहिःस्थिते, स्वलक्षणे - वस्तुनः सामान्याकारव्यतिरिक्ते असाधारणे स्वरूपे एव नतु सामान्याकारे । किमुक्तम् इत्यपेक्षायामाह प्रत्याभासम् इति । प्रत्याभासम् - प्रत्येकं सर्वेषु धर्मिधर्मरूपेष्वाभासेषु, इत्याशङ्काम् - एवंरूपामाशङ्काम्, परमार्थतः इत्यनेन पूर्वोक्तस्य प्रमेयनिर्णयस्य शैथिल्यं द्योतितम् । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे, यथारुचि इति ।
अत्र टीका -
श्लोकं व्याख्यातुं प्रक्रियां करोति, यद्यपि इति । तावानेव - एक एव । तर्हि कियानसौ इत्यपेक्षायाम्पक्षान्तरमाह अपि तु इति ।
पृथङ्निर्भज्यमानताम् - पृथग्विभागविषयताम्, बहुरूपतामिति यावत् । कथम् इत्यपेक्षायां समर्थनमुपक्रमते तथाहि इति । समर्थनं कुर्वन् श्लोकं व्याचष्टे स्वतन्त्रं वा इति ।
यथारुचि इति व्याचष्टे स्वतन्त्रम् इति । यथार्थित्वम् इति व्याचष्टे अर्थित्व इति । यथाव्युत्त्पत्ति इति व्याचष्टे प्रसिद्ध्युपजीवनेन इति ।
पूर्वप्रसिद्ध्यपेक्षयेत्यर्थः । तत्र - तत्र सति, त्रिधा -
विवेचने क्रियमाणे पृथगेव भान्ति आभासाः, नन्वेवं चेत् कथम् एकं स्वलक्षणं ? उच्यते - तेषां पृथक् भासमानानामपि आभासानां यो विमर्शः अनुप्राणितभूतः स कदाचित् प्रत्याभासमेव विश्राम्यति, तदा परापरसामान्यग्रहणम् [परापरसामान्यव्यवहारः - क्। ष्। ष्।], कदाचित् पुनः गुणप्रधानतापादनेन अत्र इदम् इत्थम् इति मिश्रणाप्राणो [व्यामिश्रणाप्राणः - क्। ष्। ष्।] विमर्शः तदा तदेकं स्वलक्षणम् । अपिः भिन्नकमः, अनुसन्धानेन मिश्रताविमर्शेन साधितो य एकोऽर्थः
प्रोक्तप्रकारत्रयेण । तथा चोत्तरश्लोके प्रकारत्रयं दर्शयिष्यत्येव इति हर्षचरिते श्रीकण्ठाख्यजनपदवर्णने स्थितमप्येतत्प्रकारत्रयं विस्तरभयान्न दर्शितम् । अत्र शिष्यः प्रश्नं करोति नन्वेवम् इति । उत्तरमाह उच्यते इति । प्रतिज्ञां सफलीकरोति तेषाम् इति । तेषाम् आभासानाम् - पूर्वोक्तानां देशादिरूपाणामाभासानाम्, न त्वन्येषां रुच्यादिमेदवशेन स्थितानाम् । विमर्शः - घटोऽयं घटोऽयमिति विमर्शनम्, अनुप्राणितभूतः - ग्राहकत्वेन सत्तादायकः, प्रत्याभासम् - सर्वेष्वाभासेषु, प्रत्येकं प्रधानतया यत्र तेषां योजनारहितं यथास्वं ग्रहणम् इत्यर्थः । तदा - तस्मिन्काले, परापरसामान्यग्रहणम् - सत्तारूपगोत्वादिरूपसामान्यद्वयग्रहणम्, सदितिग्रहणेन सत्ताग्रहणम् पृथक् पृथगेव, अत्रेदं सदिति योजनाराहित्यात्, तथापरसामान्ये देशकालग्रहणं पूर्ववदेव पृथक् पृथक्, गौरिति गोजातिग्रहणम्, शुक्लेति शुक्लत्वजातिग्रहणं चलेति चलनत्वग्रहणम्, डित्थेति डित्थत्वग्रहणम् पृथक्पृथगेवायमत्र गौः शुक्लश्चलो डित्थसञ्ज्ञ इति योजनयाऽग्रहणात् । पुनः पक्षान्तरे, गुणप्रधानतापादनेन - विशेषणविशेष्यभावसम्पादनेन, अत्र - अस्मिन्देशे काले च, इदम् - एतद्वस्तु, इत्थम् - एतैर्गुणैर्युक्तम्, मिश्रणाप्राणः - योजनाप्राणः, स्वलक्षणम् - असाधारणं स्वरूपम्, तदन्यस्य तद्देशादिविशेष्यत्वासम्भवात् इति भावः । अपेर्भिन्नक्रमत्वं दर्शयन् अनुसन्धानसाधिते इति व्याचष्टे अनुसन्धानेन इति ।
अनुसन्धानेत्यवयवं व्याचष्टे मिश्रता - इति । सप्तमीयोजनं करोति तत्र इति । अति -
स्वलक्षणात्मा तत्र एकस्मिन्नपि सति रुचि - स्वातन्त्र्यम्, अर्थित्वम् - अर्थक्रियाभिलाषपरवशताम्, व्युत्पत्तिं - वृद्धव्यवहारशरणतां च अनतिक्रम्य भिद्यत एव आभासः ॥ ३ ॥
क्व यथा इति निदर्शयितुम् आह -
दीर्घवृत्तोर्ध्वपुरुषधूमचान्दनतादिभिः ।
यथाभासा विभिद्यन्ते देशकालविभेदिनः ॥ ४ ॥
दुर्बोधत्वेन पुनर्योजनां करोति एकस्मिन्नपि [तत्रैकस्मिन्नपि - च्।] इति । एवमत्र स्फुटा योजना । अनुसन्धानसाधिते एकस्मिन्नपि वस्तुनि सति देशादिधर्ममिश्रीकारेण स्वलक्षणे एकत्रापि सति, यथारुचि - रुच्यनुसारेण, तथा यथार्थिस्वार्थित्वानुसारेण, तथा यथाव्युत्पत्ति - प्रसिद्ध्यनुसारेण, अर्थात्तस्मिन्नेकत्र वस्तुनि आभासा भिद्यन्ते, अन्यथा हर्षचरिते एकस्य श्रीकण्ठाख्यजनपदस्य सङ्गीतशालादिभावेन वर्णनायोगात् ।
तथा च प्रत्याभासं भिन्नस्य स्वलक्षणस्यापि एकाभिधानविषयत्वमवतरणिकायां शङ्कितं तद्द्वारेण प्रमाणस्य प्रत्याभासविषयत्वकथनायोग्यत्वं स्वलक्षणस्यैव प्रमाणविषयत्वापादनं च युक्तमिति भावः ॥ ३ ॥
अथ चतुर्थस्य पञ्चमस्य च श्लोकस्यावतरणिकां करोति - क्व यथा इति । स्पष्टम् । एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे दीर्घ इति ।
तथैव सद्घटद्रव्यकाञ्चनोज्ज्वलतादयः । आभासभेदा भिन्नार्थकारिणस्ते पदं ध्वनेः ॥ ५ ॥
इह तावत् एकस्मिन्नपि चेतनतया प्रसिद्धे पुरुषस्वलक्षणे विततदेशव्यापितां दीर्घतामेव कदाचित् विमृशति, या तरुणामपि अस्ति, निःसन्धिबन्धनरूपतां [निःसन्धिबन्धरूपताम् - क्। ष्। ष्।] वा वृत्ततां या शिलानामपि सम्भविनी, ऊर्ध्वदिगाक्रमणरूपां वा ऊर्ध्वतां या स्थाणोरपि सम्बन्धिनी, गमनागमनादिस्वतन्त्रभावयोग्यतारूपं वा पुरुषत्वं यद् अन्यपुरुषसाधारणम् । तथा हि - स्वतन्त्रया वा इच्छयां रुचिरूपया यावदेवं कुर्यात् [रुचिरूपया एवं कुर्यात् - क्। ष्। ष्।] यथोक्तम्
या त व्याक्षेपसारत्वाच्चेतसः स्वरसोद्गता
अत्र टीका -
दीर्घ इति समासावयवं व्याचष्टे इह इति । पुरुषस्वलक्षणे
- पुरुषस्यासाधारणे स्वरूपे । यद्यपि स्वलक्षणस्य चेतनत्वं न युक्तं तथापि लक्षणयैवमुक्तम् । विततदेशव्यापिताम् - विस्तीर्णदेशव्यापित्वरूपाम्, दीर्घो हि विततदेशव्यापको भवति, अन्यं युक्तं सदस्मदीयनये प्रमाणमेव, का कथा निःश्रेयसकर्तृकमहारहस्यशास्त्रप्रामाण्ये । तदुक्तं श्रीवसिष्ठेन :-
युक्तियुक्तमुपादेयं वचनं वालकादपि ।
शेषं तृणमिव त्याज्यमप्युक्तं पद्मजन्मना ॥
इति । फलिता चिराकाङ्क्षिता वेदान्तिभिः सहृदयता । यस्तु एतेनापि तत्तां नागतः स्ववञ्चकाय तस्मै नम एव कार्यमित्यलं प्रपञ्चेन ।
सर्वत्राल्पमतौ यद्वा कुत्रापि सुमहाधियि ।
न वान्यत्रापि तु स्वात्मन्येषा स्यादुपकारिणी ॥ ६ ॥
नन्वेतेषु सूत्रेषु प्रथमं सूत्रकारेण वृत्तिः कृता, तदनु च तदुपरि स्वयमेव टिका कृता, तस्याष्टीकायाश्च त्वया टीका कृतेति किमयं पिष्टपेषणसहोदरः पुनः प्रयत्न आरब्ध इत्यपेक्षायामाह वृत्त्या इत्यादि । अत इति शेषः । यतो ग्रन्थकारेण - प्रत्यभिज्ञासूत्रकारेण श्रीमदुत्पलदेवेन, वृत्त्या - तात्पर्यमात्रे वर्तनं वृत्तिः, लक्षणया तन्निष्ठो ग्रन्थो वृत्तिः, तया, तात्पर्यम् - अत्राभिप्राये एतानि सूत्राणि प्रवृत्तानीत्ययमर्थः, दृब्धम् - ग्रन्थेन कथितम् । पुनस्तेनैव तद्विचारः - तात्पर्यविवेकः, टीक्यतेऽवगम्यतेऽनयार्थ इति टीका तया, दृब्धः, न तु सूत्राणां सम्यगर्थप्राकट्यं कृतमिति भावः । तस्मात् - ततः कारणात् । अहमभिनवगुप्ताख्यः सूत्राणाम् - सूचनामात्रपराणां कारिकाणाम्, अर्थम् - वाच्यार्थम्, इत्थम् - अनेन वक्ष्यमाणेन प्रकारेण, सम्यक् - स्फुटं कृत्वा, प्रत्यभिज्ञायाः - अत्र वाच्यभूतस्य स एवेश्वरोहमिति भातभासमानानुसन्धानस्य, विविक्त्यै - विवेचनार्थम्, मन्दबुद्धीन्प्रति - वृत्त्या टीकया तट्टीकया च सूत्रार्थबोधेऽसमर्थबुद्धीन् उद्दिश्य, व्याख्यास्ये - व्याख्याविषयतां नेष्यामि, व्याङ्पूर्वस्य ख्याञः ऌटि रूपम्, तथा च नास्य प्रयत्नस्य पिष्टपेषणप्रायत्वमित्यर्थः ।
अस्य विमर्शिन्याख्यस्य ग्रन्थस्य मूलशास्त्रेणैव शिष्यनिवहाविच्छिन्नप्रवृत्तिनिमित्तभूतं परमप्रयोजनाद्ययत्नसिद्धं ज्ञात्वा तथाप्येतद्व्याख्याप्रवृत्त्यर्थमेतस्यावान्तरप्रयोजनाधिकारि - निर्णयं साक्षात्करोति सर्वत्र इति । एषा - करिष्यमाणप्रत्यभिज्ञासूत्र - विमर्शिन्याख्या व्याख्या, सर्वत्राल्पमतौ - सर्वेषु मन्दबुद्धिषु, एतेन स्वस्य महाग्रन्थकरणे प्रवृत्तावभिमानो निरस्तः । बुद्धिस्थं दुर्बोधताकारणमनुस्मृत्याह सुमहाधियि इति । सुमहाधियोपि दुर्लभत्वं ज्ञात्वाह कुत्रापि इति । लाभेपि तस्य मात्सर्यग्रस्तत्वमाशङ्क्याह न वा इति । ननु तर्हि व्यर्थैवेयमित्यपेक्षायामाह अपि तु इति । अपि तु इत्यवधारितपक्षान्तरद्योतनपरम्, एषा स्वात्मनि - स्वस्मिन्नुत्प्त्त्या भक्त्यावेशेन च
ग्रन्थकारः अपरोक्षमात्मदृष्टशक्तिकां [अपरोक्षात्मनि दृष्टशक्तिकाम् - क्। ष्। ष्।] परमेश्वरतन्मयतां परत्र सञ्चिक्रमयिषुः, स्वतादात्म्यसमर्पणपूउर्वम् अविघ्नेन तत्सम्पत्तिं मन्यमानः, परमेश्वरोत्कर्षप्रह्वतापरामर्शशेषतया परमेश्वरतादात्म्ययोग्यतापादनबुद्ध्या प्रयोजनम् आसूत्रयति :-
स्वात्मतुल्येषु पुत्रादिषु शिष्येषु च, उपकारिणी - विनोदबोधाख्योपकारकारिणी, स्यात् । एवं चोपकारोऽवान्तरफलं तत्कामोऽवान्तराधिकारी, सम्बन्धाभिधेयौ परमावेव नावान्तरावपि टीकाग्रन्थत्वात् । यद्यपि पूर्वश्लोकेऽपि प्रत्यभिज्ञाविविक्त्यै इत्यनेनापीदमेव प्रयोजनमुक्तम्, तथापि सप्तम्यन्तैः कृतस्याधिकारिनिर्णयस्यानुरोधेनेहैव प्रकटीकृतम् ।
अथ श्रीपरतत्त्वविषयप्रह्वीभावसर्वोत्कर्षपरामर्शस्वरूपनिर्विघ्न - प्रारिप्सितपरिसमाप्तिहेतुमङ्गलाचरणनिष्ठश्रोतृबुद्धिसमाधान - प्रयोजाअनुबन्धचतुष्टयपरग्रन्थकरणप्रत्यभिज्ञास्वभावादिश्लोक - विवृतिं प्रति साम्मुख्यं भजन् प्रथमं तदवतारणोपयोगिनीं त्वराविष्टशिष्यबुद्धिसमाश्वासनार्थं तद्वर्णनीयोद्भावनरूपामवतरणिकां करोति ग्रन्थकारः ग्रन्थकारः इत्यादिना । ग्रन्थकारः - ग्रन्थकर्तृभूत श्रीमानुत्पलदेवः, परमेश्वरस्य - परमशिवरूपस्य सप्तत्रिंशस्य तत्त्वस्य यः उत्कर्षः - महेश्वरपदवाच्या सर्वतत्त्वेभ्यः उत्तमता, तत्र या प्रह्वतादासपदवाच्यप्रह्वीभावः, तस्या यः परामर्शः - प्रख्योपाख्याक्रमेण परामर्शनम्, तस्य शेषतया - अङ्गभावेन, विशेषणत्वेनेति यावत् । प्रयोजनम् - समस्त इत्यादिपदवाच्यम् प्रत्यभिज्ञाशास्त्रप्रयोजकं वस्तु । आसूत्रयति - निबध्नाति, योजनावाक्ये स्फुटमस्य दास्यपदविशेषणत्वेन योजनात् । एतेन मङ्गलस्य शेषित्वमर्थादुक्तम् । प्रयोजनस्य शेषित्वे चतुर्थ्या निर्देशः स्यात् ।
इत्थम्भावे तृतीया । कया हेतुभूतया ? परमेश्वरेण यत्तादात्म्यम् - स एवाहमिति चित्त स्फुरणम्, तत्र या योग्यता तस्याः यदापादनम् - जनविषये प्रापणं तस्य बुद्ध्या हेतुभूतया । एतां बुद्धिं कृत्वेति यावत् ।
प्रयोजनविषयकम् अनयैव हि पुरुषस्याधिकारित्वम् ।
तथा दीर्घत्वायोगात्,
कदाचित् - तद्-रुचित्वादि-युक्तत्वावस्थायाम् [तदुचिताद्यवस्थायाम् - च्।] ।
ननु सा दीर्घतैव तस्य स्वरूपं भवत्वित्यत आह या इति । तथा च न तस्या एतत्स्वरूपत्वं युक्तमिति भावः । वृत्त इत्यवयवं व्याचष्टे निःसन्धि इति ।
निःसन्धिबन्धनरूपताम् - एकघनतारूपाम्, ऊर्ध्वताम् - उन्नतत्वम्, गमनागमनादिषु यः स्वतन्त्रभावः - स्वतन्त्रता तत्र या योग्यता सा रूपं यस्य तादृशम् । अत्र समर्थनमुपक्रमते तथा हि इति । स्वतन्त्रया इच्छया - प्रयोजनानुसन्धानविरहितेन इच्छा मात्रेण । रुचि इति । यावदेवं कुर्यात्, दीर्घोऽयमित्यादि व्यवहारं कुर्यात् इत्यर्थः । अत्र वृद्धवाक्यमुदाहरति यथोक्तम् इति । अत्रायमर्थः । सा रुचिर्भवति । सा का ? या चेतसः - मनसो व्याक्षेपसारत्वात् - व्याकुलतासारत्वात्, व्याकुलतावशेन, स्वरसोद्गता भवति - प्रयोजनमनपेक्ष्योद्गता
इति । विततदेशव्यापिन एव वा अर्थान् [अर्थात् - क्। ष्। ष्।] तिरोधिलक्षणाम् अर्थक्रियाम् अर्थयमानो विभजेत्, एवं व्यवहारे वृद्धैः कीदृक् दीर्घं नाम गीयते इति व्युत्पित्समानो व्युत्पादयितुमुच्छुः वा विभागं कुर्यात् । इत्येवन्तत्र आभासानां भेदः । एकस्वलक्षणं तु - एकस्मिन् देशाभासे कालाभासे च विश्रान्तेः, देशकालाभासावेव हि सामान्यरूपताप्रयोजकव्यापित्वनित्यत्वखण्डनाविधानसविधवृ त्ती विशेषरूपतां बितरतः । एवं पुरुषत्ववत् अन्येऽपि ब्राह्मणाद्याभासा अपि निरूप्याः, एवम् अत्र तावत् प्रसिद्धतर आभासभेदो - जडाजडसाधारणबहुतरधर्मास्पदत्वात्
भवतीति यावत् । कदाचिद्धि पुरुषो व्याकुलतावशेन प्रयोजनमनपेक्ष्य येन तेन शब्देन व्यवहरति, स व्यवहारश्चाभासपूर्वएव, अन्यथोच्चारासम्भवात् । इति शब्दः समाप्तौ । विततदेशव्यापिनः - दीर्घान्, अर्थान् - वस्तुनः, तिरोधिलक्षणाम् [तिरोधिलक्षणा सन्तवानरूपाम् - च्।] - अन्तर्धानरूपाम्, अर्थयमानः - काङ्क्षमाणः, एवम् - दीर्घोयमिति, इति व्युत्पित्समानः - एवं स्वयमेव स्वस्य व्युत्पत्तिं कर्तुमिच्छन् । इति किमिति ? वृद्धैः - कर्तृभिः, दीर्घ नाम - दीर्घाख्यं वस्तु, कीदृक् - कीदृशम् गीयते इति । वा पक्षान्तरे ।
अन्यं व्युत्पादयितुम् - व्युत्पत्तियुक्तं कर्तुम् इच्छुः सन्, विभागं कुर्यात् - दीर्घोऽयमिति विभजनं कुर्यात् । एतेन व्युत्पत्तिकरणसमये एव व्युत्पत्तेराभासकारणत्वमिति सूचितम् । उपसंहारं करोति इत्येवम् इति तत्र - एकस्मिन् पुरुषस्वलक्षणे । ननु तर्हि एकत्वं न युक्तमित्यपेक्षायां मध्ये देशकालविभेदिनः इति पदं व्याचष्टे एक - इति । विश्रान्तेः, इदमत्रस्थितमिति प्रतीतिविश्रामादित्यर्थः । कुत इत्यपेक्षायामाह देश इति ।
सामान्यरूपताप्रयोजके ये व्याप्यत्वनित्यत्वे तयोर्यत् खण्डनाविधानम् - परिमिततापादनद्वारेण नाशनं तस्य सविधा वृत्तिः - व्यापारः यस्य तौ । तत्र देशेन व्याप्यत्वखण्डना कालेन नित्यत्वखण्डनेति क्रमो ज्ञेयः । विशेषरूपताम् - स्वलक्षणताम्, पुरुषगतेष्वन्येषु धर्मेष्वपि अमुं न्यायमतिदिशति एवम् इति । प्रसिद्धतरः - अतिशयेन प्रसिद्धः । कुत इत्यपेक्षायां हेतुमाह जडा इति । जडाजडसाधारणः - चेतनेषु पुरुषादिषु तर्वादिषु [तरु… च्।] अचेतेनेषु च
त्वात्, अनेन निदर्शनेन धूमेऽपि धूमत्वचान्दनत्व- श्रीखण्डचन्दनोत्थितत्वादयः [चन्दनत्व - क्। ष्। ष्।] प्रसिद्धा आभासभेदा विभजनीयाः । प्रसिद्धेन दृष्टान्तेन अप्रसिद्धभागोऽपि यो घटः तत्रापि आभासभागभेदो भवति, तथाहि - किञ्चिदपि अत्र नास्ति इति हृद्भङ्गमिव आपद्यमानो घटं पश्यन्
साधारणत्वेन स्थिताः ये बहुतरधर्माः - दीर्घत्वादिरूपाः अतिबहवो धर्मास्ते एवास्पदं यस्य स तस्य भावस्तत्वं तस्मात्, तद्विषयत्वादिति यावत् । धूम इत्यादिभागं व्याख्यातुमवतरणिकां करोति अनेन इति । अनेन निदर्शनेन दृष्टान्तेन धूमत्वं च चान्दनत्वम् चन्दनादुत्थितत्वं च श्रीखण्डश्वेतचन्दनोत्थितत्वादयश्चेति विभजनीयाः - रुच्यादिविषयत्वेन विभागविषयीकार्याः, तत्र कृष्णत्वार्थी घूमत्वम्, सौगन्ध्यार्थी चान्दनत्वम् इत्यादिप्रकारेण विभागः कार्यः । प्रसिद्धत्वं चात्र भेदस्य धूमत्वचान्दनत्वादेः भिन्नेन्द्रियग्राह्यत्वेन स्फुटं भिन्नत्वेन भानात्, एकवस्तुगतत्वेन भेदस्य स्फुटतरत्वाभावात्, तरपोऽत्र प्रयोगः प्रसिद्धतरप्रसिद्धदृष्टान्तद्वयावष्टम्भेन ॥ ४ ॥
दार्ष्टान्तिकं कथयितुं द्वितीयं श्लोकं व्याचष्टें प्रसिद्ध इति । अप्रसिद्धश्चासौ भागः अप्रसिद्धभागः, अप्रसिद्धत्वं चात्र घटस्यैकत्वेनैव स्फुरणात्, तद्गताभासभेदस्य तु प्राकट्याभावात् [प्रकक्ष्याभावात् - च्।] ।
तत्रापि - तस्मिन् घटेऽपि, आभासभागानाम् - सत्वघटत्वादिरूपाणाम् भेदः । आभासभागभेदमेव दर्शयति तथाहि इति, हृद्भङ्गम् - हृदयभङ्गम्, आपद्यमानः - प्राप्नुवन्, वस्त्वदर्शनेन अस्ति इदम् इति सत्त्वाभासमेव पश्यति, अपरान् आभासान् नाम्नापि तु नाद्रियते, तथा उदकाहरणार्थी घटाभासम्, स्वतन्त्रनयनानयनयोग्यवस्त्वर्थी द्रव्याभासम्, मूल्याद्यर्थी काञ्चनावभासम्, हृद्यतार्थी औज्ज्वल्याभासम्, आदिग्रहणात् दृढतरभावार्थी दार्ढ्याभासम् इति द्रष्टव्यम्, एवं रुचिव्युत्पत्त्योरपि योजनीयम् । एवम् एते आभासभेदा एव वस्तु आभासमानतासारत्वात् वस्तुतायाः । योऽपि आभासस्य प्राणभूतो विमर्शः सोऽपि प्रत्याभासमेव, शब्दस्य अभिजल्पात्मनो बोधजीवितप्रख्यस्य प्रत्याभासमेव विश्रान्तेः,
हि पुरुषस्य हृदयं भज्यते एव, सत्वाभासम् - सत्वरूपमाभासम्, अपरान् - घटत्वादिरूपान्, नाद्रियते इति, तत्सत्तामात्रस्यैवात्रार्थित्व-विषयत्वात् । तथा - तद्वत्, द्रव्यस्य आनयनादियोग्यतामपेक्ष्य [द्रव्यस्यानयतनादि - च्।] स्वतन्त्र इत्युक्तम् । आद्रियते इति सर्वत्र योजनीयम् । मूल्याद्यर्थी इति ।
आदिशब्देन नानाभूषणादिनिर्माणग्रहणम् । औज्ज्वल्य इति । उज्ज्वलो हृद्यो भवति । आदिशब्दग्राह्यं वस्तु कथयति दृढ इति ।
आदिशब्देन जलमात्रेण शुद्ध्यर्थी जलाहरणयोग्यताभासमित्यादेर्ग्रहणम् ।
रुचिव्युत्पत्योरर्थित्वयोजनामतिदिशति एवम् इति । एवम् - अर्थित्ववत् । तत्र व्युत्पत्तेः शिक्षाकालमात्रे स्थितत्वात्, रुचेः चित्तव्याक्षेपसारत्वात् ।
सर्वव्यवहारेष्वर्थित्वस्यैव प्राधान्यात् साक्षाद् योजना दर्शिता ।
तत्र प्रसिद्धतराऽप्रसिद्धस्थानद्वययोजनेन मध्ये स्थिते प्रसिद्धे स्थाने योजनमप्ययत्नमेवेति ज्ञेयम् । उपसंहारं करोति एवम् इति ।
कुत इत्यपेक्षायामाह आभास इति । न ह्याभासाविषयीकृतं वस्तु वस्तु भवतीति भावः । नन्वाभासस्यैव एषा वार्ता भवतु तत्समनन्तरभाविविकल्पस्य किं भेदोऽस्ति न वा इत्यपेक्षायां पदं ध्वनेः इति व्याचष्टे योऽपि इति । प्राणभूतः - जीवितभूतः, परामर्शं विना ह्याभासोऽसत्कल्प एवेति भावः ।
प्रत्याभासमेव इति, भिन्न एव भवतीति भावः । कुत इत्यपेक्षायामाह शब्दस्य इति । अभिजल्पनात्मनः - जल्पनरूपस्य, व्यक्तवाग्रूपस्येति यावत् । एतेन समुद्रघोषादेर्निरासः । विमर्शमूलस्य शब्दस्य प्रत्याभासभेदसाधने विमर्शस्यापि तदयत्नसिद्धमेवेति न कोऽपि विरोधः ।
सत् घटो लोहितः इत्यादि । अर्थक्रियाकारित्वमपि अन्वयव्यतिरेकाभ्यां प्रत्याभासमेव नियतं - सदाभासेन हृद्भङ्गपरिहारमात्रस्य सम्पादनात्, तत्र आभासान्तरस्य या अपेक्षा सा अग्न्याभासेन अर्थक्रियायां साध्यायां पात्राभासस्य इव तदाभासनान्तरीयकत्वेन आभासान्तरस्यापि नियतस्य [अनियतस्य - क्। ष्। ष्।] अपेक्षणात् । एवं येन येन मुखेन अर्थो विचार्यते तेन तेन आभासमात्रात्मैव तथैव प्रतिभासनात् विमर्शनात् अर्थक्रिया -
अथवा ध्वनेरिति ग्रहणादेवमुक्तम् । विश्रान्तिमेवाभिनीय दर्शयति सत् इति । आदिशब्देन द्रव्यमित्यादेर्ग्रहणम्, विश्रान्तिविशेषणत्वेन योजनीयम् । अर्थक्रियाकारित्वस्यापि प्रत्याभासं भिन्नत्वं कथयन् भिन्नार्थकारिणः इति व्याचष्टे अर्थ इति । तत्र यस्यान्वयेन यस्या अर्थक्रियाया अन्वयः यस्य व्यतिरेकेण तु व्यतिरेकः तस्य तत्कारित्वं नियमेनेति सङ्क्षेपः । अत्र हेतुकथनं करोति सदाभास इति ।
मात्रचा घटाद्याभाससाध्यायाः उदकाहरणाद्यर्थक्रियाया निरासः । ननु तस्य सत्त्वं केनापि उदकाहरणादिप्रयोजनेन काङ्क्ष्
हेतावियं तृतीया । प्रह्वीभवस्य तु निर्विघ्नपरिसमाप्तिहेतुता स्वयमेव योजनीया । ग्रन्थकारः कीदृशः ? अपरोक्षम् - स्वसंवेदनसिद्धं यथा भवति तथा, आत्मनि दृष्टा शक्तिः - समस्तसम्पत्समवाप्तिं प्रति सामर्थ्यं यस्याः । अन्यथा हि प्रतारकतामात्रं स्यात्, ताम् ।
परमेश्वरेण - परतत्त्वेन, या तन्मयता - एकीभावः, ताम् । परत्र - जनविषये, सञ्चिक्रमयिषुः - प्रत्यभिज्ञोपायेन सङ्क्रामयितुं चित्ते स्फुरणशीलां कर्तुमिच्छन् । अन्यथा हि जनस्याप्युपकारमिच्छन् इति न ब्रूयादिति भावः । उपकारो हि दास्यरूपा तन्मयतैव । अन्यच्च कीदृशः ? स्वस्य यत्तादात्म्यम् - परमेश्वरेण तन्मयता, तस्य समर्पणम् - परमेश्वरस्य दास्यमासाद्य इत्येवमादिश्लोके साक्षात्कथनम्, तत्पूर्वं यत्तत् । अविघ्नेन - सुखेन, तत्सम्पत्तिम् - जने परमेश्वरतन्मयतासिद्धिम्, मन्यमानः, अत एव तत्कुर्वाण इति शेषः ।
प्रत्यभिज्ञाकरणप्रतिज्ञा त्वत्र साक्षाद्वाच्यैवेति तच्चर्चा व्यर्थैव ।
एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे । कथञ्चित् इति ।