ॐ नमो मङ्गलमूर्तये ।
अथ प्रत्यभिज्ञाहृदयम् ।
नमः शिवाय सततं
पञ्च-कृत्य+++(??)+++-विधायिने ।
चिदानन्द-घन-स्वात्म-
परमर्थावभासिने ॥ १ ॥
शाङ्करोपनिषत्-सार-
प्रत्यभिज्ञा-महोदधेः ।
क्षेमेणोद्ध्रियते सारः
संसार-विष-शान्तये
+++([क्, ख्, ग्: उद्धरामि परं सारं संसारविषशान्तिदम् ॥ इति पाठः])+++॥ २ ॥
इह ये सुकुमारमतयो ऽकृत-तीक्ष्ण-तर्क-शास्त्र-परिश्रमाः +++([ग्: कृततीक्ष्णशास्त्र इति पाठः, शक्ति-पातोन्मिषित-शक्ति-पात-वशोन्मिषत्-पारमेश्वरेति पाठः; ग्: समावेशाभिलाषाः इति पाठः])+++ कतिचित् भक्ति-भाजः तेषाम् ईश्वर-प्रत्य्-अभिज्ञोपदेश-तत्त्वं मनाग् उन्मील्यते ।
विस्तारः (द्रष्टुं नोद्यम्)
तत्त्वं हि
चिद्-आनन्दैषणा-ज्ञान-
क्रियाणां सुस्फुटत्वतः ।
शिव-शक्ति-सद्-ईशान-
विद्याख्यं तत्त्व-पञ्चकम् ॥
इति पञ्चकत्वेन आम्नातम् । उन्मील्यते इति तेषां कृते सङ्क्षिप्य प्रकटी-क्रियते इति वाक्यार्थः ।
प्। २)
विस्तारः (द्रष्टुं नोद्यम्)
तत्र स्वात्म-देवताया एव सर्वत्र +++([ख्, ङ्: सर्वत्र इति पदं नास्ति])+++ कारणत्वं सुखोपाय-प्राप्यत्वं महा-फलत्वं च अभिव्यङ्क्तुम् आह +++([क्, ग्: महाफलाभिव्यक्तिं चाह इति पाठः ।])+++
चितिः स्वतन्त्रा विश्वसिद्धिहेतुः ॥ १ ॥
विश्वस्य - सदाशिवादेः भूम्यन्तस्य सिद्धौ-निष्पत्तौ प्रकाशने स्थित्यात्मनि +++([ख्, ङ्: स्वे चेत्यात्मनि इति पाठः])+++ परप्रमातृविश्रान्त्यात्मनि च संहारे पराशक्तिरूपा चितिः एव भगवती स्वतन्त्रा - अनुत्तरविमर्शमयी +++([ख्, ङ्: तन्त्रानन्तविमर्शमयी इति पाठः])+++ शिवभट्टारकाभिन्ना हेतुः - कारणम् । अस्यां हि प्रसरन्त्यां जगत् उन्मिषति व्यवतिष्ठते च निवृत्तप्रसरायां च +++([ख्, ग्: च इति पदं नास्ति])+++ निमिषति - इति स्वानुभव एव अत्र साक्षी । अन्यस्य तु मायाप्रकृत्यादेः चित्प्रकाशभिन्नस्य अप्रकाशमानत्वेन +++([ख्: अप्रकाशत्वेन इति पाठः])+++ असत्त्वात् न क्वचिदपि हेतुत्वम् +++([ङ्: असत्त्वादपि न क्वचित् हेतुत्वम् इति पाठः])+++ प्रकाशमानत्वे तु प्रकाशैकात्म्यात् प्रकाशरूपा चितिरेव +++([ख्, ङ्: चिदेव इति पाठः])+++ हेतुः
प्। ३)
न त्वसौ कश्चित् +++([ग्: न त्वन्यः कश्चिदिति पाठः])+++ । अत एव देशकालाकारा [यदुक्तम्
देशकालाकारभेदः संविदो नहि युज्यते । तस्मादेकैव पूर्णाहं-विमर्शात्मा चिदुच्यते ॥ इति ।] एतत्सृष्टा एतदनुप्राणिताश्च +++([क्, ग्: एतत्प्राणिता इति पाठः])+++ नैतत्स्वरूपं भेत्तुमलम् - इति व्यापक-नित्योदित-परिपूर्णरूपा इयम् +++([क्: परिपूर्णोऽयम् इति; ग्: परिपूर्णेयम् इति पाठः])+++ । - इत्यर्थलभ्यमेव +++([क्, ग्, ङ्: इत्ययत्रलभ्यमेव इति पाठः])+++ एतत् ।
ननु जगदपि चितो भिन्नं नैव किञ्चित् अभेदे च कथं हेतुहेतुमद्भावः +++([क्: कथं हेतुसद्भाव इति पाठः])+++ ? उच्यते । चिदेव भगवती स्वच्छस्वतन्त्ररूपा तत्तदनन्तजगदात्मना +++([क्, ग्, ङ्: जगदात्मना विश्वरूपेण इति पाठः])+++ स्फुरति- इत्येतावत्परमार्थोऽयं कार्यकारणभावः । यतश्च इयमेव +++([क्: अतश्चेयमिति; ङ्: यत् च इयमेवेति पाठः])+++ प्रमातृ-प्रमाण-प्रमेय-मयस्य विश्वस्य सिद्धौ-प्रकाशने हेतुः ततोऽस्याः स्वतन्त्रापरिच्छिन्नस्वप्रकाशरूपायाः +++([ख्, ङ्: स्वतन्त्राविच्छिन्नेति पाठः])+++
प्। ४)
सिद्धौ अभिनवार्थप्रकाशनरूपं +++([ख्, ग्: सिद्धौ प्रकाशनेऽभिनवार्थप्रकाशनेति; क्: अभिनवप्रकाशरूपम् इति पाठः])+++ न प्रमाणवराकमुपयुक्तम् उपपन्नं वा +++([नहि सूर्यप्रकाशने दीपान्तरमुपयुज्यते इति भावः ।])+++ । तदुक्तं त्रिकसारे
स्वपदा स्वशिरश्छायां यद्वल्लङ्घितुमीहते । पादोद्देशे शिरो न स्यात्तथेयं बैन्दवी कला +++([यो लङ्घितुमीहते तस्य यथा पादोद्देशे शिरो न स्यात् तथा इयमित्यत्र सम्बन्धः ।])+++ ॥
इति ।
यतश्च इयं विश्वस्य सिद्धौ पराद्वयसामरस्यापादनात्मनि च संहारे हेतुः तत एव +++([क्, ङ्: अत एवेति पाठः])+++ स्वतन्त्रा । प्रत्यभिज्ञातस्वातन्त्र्या सती भोगमोक्षस्वरूपाणां +++([ख्, ङ्: प्रत्यभिज्ञातस्वातन्त्र्या भोगमोक्षसिद्धीनां हेतुः इति पाठः])+++ विश्वसिद्धीनां हेतुः । - इति आवृत्त्या व्याख्येयम् ।
अपि च विश्वं - नील-सुख-देह-प्राणादि +++([नीलं बहिरिन्द्रियगम्यम् सुखमन्तरिन्द्रियगम्यम् प्राणादि जीवचेष्टागम्यम् ।])+++ तस्य या सिद्धिः - प्रमाणोपारोहक्रमेण +++([क्: प्रमाणोपहारक्रमेण इति; ग्: प्रमाणोपाहरणक्रमेणेति पाठः])+++ विमर्शमयप्रमात्रावेशः +++([ख्: विमर्शमात्रावेश इति पाठः])+++ सैव +++([यथा दूरस्थस्य अग्नेः अनुमितौ धूमः साधनं तद्वदित्यर्थः ।])+++ हेतुः +++([ख्, ङ्: स एव हेतुरिति पाठः])+++ - परिज्ञाने उपायो यस्याः ।
प्। ५)
अनेन च सुखोपायत्वमुक्तम् । यदुक्तं श्रीविज्ञानभट्टारके
ग्राह्यग्राहकसंवित्तिः +++([क्: ग्राह्यग्राहकसम्बन्ध इति पाठः])+++ सामान्या सर्वदेहिनाम् । योगिनां तु विशेषोऽयं सम्बन्धे सावधानता ॥
इति ।
चितिः - इति एकवचनं देशकालाद्यनवच्छिन्नताम् अभिदधत् +++([क्: अवच्छिन्नतामेवाभिधत् इति पाठः])+++ समस्तभेदवादानाम् अवास्तवतां व्यनक्ति । स्वतन्त्र-शब्दो ब्रह्मवादवैलक्षण्यम् आचक्षाणः चितो माहेश्वर्यसारतां ब्रूते +++([क्: माहेश्वरतां ब्रूते इति; ख्, ङ्: माहेश्वरसारताम् इति पाठः])+++ । विश्व इत्यादिपदम् अशेषशक्तित्वं +++([अशेषशक्तिमत्त्वम् इति पाठः])+++ सर्वकारणत्वं सुखोपायत्वं महाफलं च आह ॥ १ ॥
ननु विश्वस्य यदि चितिः हेतुः तत् अस्या +++([ङ्: तदा अस्या इति पाठः])+++ उपादानाद्यपेक्षायां भेदवादापरित्यागः स्यात् - इत्याशङ्क्य आह
स्वेच्छया स्वभित्तौ विश्वमुन्मी लयति ॥ २ ॥
स्वेच्छया न तु ब्रह्मादिवत् अन्येच्छया
प्। ६)
तयैव च +++([क्: तथैव चेति पाठः])+++ न तु उपादानाद्यपेक्षया - एवं हि प्रागुक्तस्वातन्त्र्यहान्या चित्त्वमेव +++([क्:चित्तत्त्वमेव इति पाठः])+++ न घटेत-स्वभित्तौ न तु अन्यत्र क्वापि प्राक् निर्णीतं विश्वं दर्पणे नगरवत् +++([क्, ग्: दर्पणनगरवत् इति समस्तः पाठः])+++ अभिन्नमपि भिन्नमिव उन्मीलयति । उन्मीलनं च अवस्थितस्यैव +++([क्: उन्मीलयतीत्यनन्तरम् अवभासयति इत्यप्यधिकः पाठोस्ति])+++ प्रकटीकरणम् । - इत्यनेन जगतः प्रकाशैकात्म्येन अवस्थानम् उक्तम् ॥ २ ॥
अथ विश्वस्य स्वरूपं विभागेन प्रतिपादयितुमाह
तन्नाना अनुरूपग्राह्यग्राहक- भेदात् ॥ ३ ॥
तत् विश्वं नाना-अनेकप्रकारम् । कथं ? अनुरूपाणां +++([ख्: अनणुरूपाणाम् इति पाठः])+++ - परस्परौचित्यावस्थितीनां ग्राह्याणां ग्राहकाणां +++([ग्राहकाः सप्त प्रमातारः ते च (१) शिवः (२) मन्त्रमहेश्वराः (३) मन्त्रेश्वराः (४) मन्त्राः (५) विज्ञानाकलाः (६) प्रलयाकलाः (७) सकलाः इत्यागमप्रसिद्धाः ।])+++ च भेदात् +++([क्: ग्राहकताभेदात् इति पाठः])+++ -
प्। ७)
सदाशिवतत्त्वे अहन्ताच्छादित-अस्फुटेदन्तामयं +++([क्: अहन्ताच्छादितेऽपि स्फुटे इदन्तामयम् इति पाठः])+++ यादृशं परापररूपं विश्वं ग्राह्यं तादृगेव श्रीसदाशिवभट्टारकाधिष्ठितो मन्त्रमहेश्वराख्यः +++([ख्: भट्टारको मन्त्रमहेश्वराख्य इति पाठः])+++ प्रमातृवर्गः परमेश्वरेच्छावकल्पिततथावस्थानः । ईश्वरतत्त्वे स्फुटेदन्ताहन्तासामानाधिकरण्यात्म +++([क्: समानाधिकारात्म इति; ग्: सामानाधिकरण्यात्मतया इति पाठः])+++ यादृक् विश्वं ग्राह्यं तथाविध एव ईश्वरभट्टारकाधिष्ठितो मन्त्रेश्वरवर्गः । विद्यापदे +++([ग्: विद्यातत्त्वे इति; ख्: विद्यापदेश-श्रीमत् इति पाठः])+++ श्रीमदनन्तभट्टारकाधिष्ठिता बहुशाखावान्तरभेदभिन्ना +++([ग्: अधिष्ठितानन्तबहुशाखेति; क्: बहुशाखा अवान्तर भिन्ना इति; ख्: अधिष्ठितबहुशाखेति पाठः])+++ यथाभूता मन्त्राः प्रमातारः तथाभूतमेव भेदैकसारं विश्वमपि प्रमेयम् । मायोर्ध्वे यादृशा विज्ञानाकलाः कर्तृताशून्यशुद्धबोधात्मानः +++([ख्: कर्तृत्वशून्येति पाठः])+++ तादृगेव तदभेदसारं +++([ख्: अभेदसारसकलेति समस्तः पाठः])+++ सकल-प्रलयाकलात्मक-पूर्वावस्थापरिचितम् एषां प्रमेयम् । मायायां शून्यप्रमातॄणां +++([क्: मायायाः प्रमातॄणामिति पाठः])+++ प्रलयकेवलिनां स्वो-
प्। ८)
चितं प्रलीनकल्पं प्रमेयम् । क्षितिपर्यन्तावस्थितानां +++([क्: स्थितिपर्यन्तेति पाठः])+++ तु सकलानां सर्वतो भिन्नानां परिमितानां तथाभूतमेव प्रमेयम् । तदुत्तीर्णशिवभट्टारकस्य प्रकाशैकवपुषः प्रकाशैकरूपा एव भावाः । श्रीमत्परमशिवस्य पुनः विश्वोत्तीर्ण-विश्वात्मक-ग्राहकं वा अपि तु श्रीपरमशिवभट्टारक एव इत्थं नानावैचित्र्यसहस्रैः +++([ङ्: इत्थमित्थमेतदिति नानाविधवैचित्र्येति पाठः])+++ स्फुरति । - इत्यभिहितप्रायम् ॥ ३ ॥
यथा च भगवान् विश्वशरीरः तथा +++([यथा च इत्या अवतरणिकावाक्यपाठः ख्, ङ् पुस्तकाभ्यामुपन्यस्त])+++
चितिसङ्कोचात्मा चेतनोऽपि सङ्कुचितविश्वमयः ॥ ४ ॥
श्रीपरमशिवः स्वात्मैक्येन स्थितं विश्वं सदाशिवाद्युचितेन +++([ग्: सदाशिवाद्युदितेनेति; ख्, ङ्: सदाशिवाभ्युदितेन इति पाठः])+++ रूपेण अवबिभासयिषुः पूर्वं
प्। ९)
चिदैक्याख्यातिमयानाश्रितशिवपर्याय-शून्यातिशून्यात्मतया प्रकाशाभेदेन प्रकाशमानतया स्फुरति ततः चिद्रसाश्यानतारूपाशेषतत्त्वभुवन +++([क्, ग्: रसाश्यानरूपः अशे।ष० इति पाठः])+++ -भाव-तत्तत्प्रमात्राद्यात्मतयापि प्रथते । यथा च एवं भगवान् विश्वशरीरः तथा चितिसङ्कोचात्मा सङ्कुचितचिद्रूपः +++([क्: असङ्कुचित इति पाठः])+++ चेतनो ग्राहकोऽपि वटधानिकावत् सङ्कुचिताशेषविश्वरूपः । तथा च सिद्धान्तवचनम्
विग्रहो विग्रही चैव सर्वविग्रहविग्रही ।
इति । त्रिशिरोमतेऽपि
सर्वदेवमयः कायस्तं चेदानीं +++([ख्: कालस्तच्चेदानीम् इति पाठः])+++ शृणु प्रिये । पृथिवी कठिनत्वेन द्रवत्वेऽम्भः प्रकीर्तितम् ॥
इत्युपक्रम्य
त्रिशिरोभैरवः साक्षाद्व्याप्य विश्वं व्यवस्थितः ॥
इत्यन्तेन ग्रन्थेन ग्राहकस्य सङ्कुचितविश्वमयत्वमेव +++([ख्, ङ्: ग्राहकेण सङ्कुचितेति०; ग्: ग्राहकेणासङ्कुचित० इति पाठः])+++ व्याहरति ।
अयं च अत्राशयः - ग्राहकोऽपि अयं प्रकाशै-
प्। १०)
कात्म्येन उक्तागमयुक्त्या च विश्वशरीरशिवैकरूप एव केवलं तन्मायाशक्त्या अनभिव्यक्तस्वरूपत्वात् +++([ख्: केवलं मायाशक्त्यनभिव्यक्तेति पाठः])+++ सङ्कुचित इव +++([ख्: एव इति पाठः])+++ आभाति सङ्कोचोऽपि विचार्यमाणः चिदैकात्म्येन प्रथमानत्वात् चिन्मय +++([यदुक्तं न्यायभूषणे कर्तृकर्मादिकारकलक्षणविचारे । सम्भूय कारकाणां क्रियाजनकत्वे हि तुल्यव्यापारत्वात् कः साधकतमार्थः स्वतन्त्रार्थो वा इति सार्वपारिषदं व्याकरणं विरुध्येत । अत एव ज्ञातृव्यापारस्य प्रमाणत्वमाहुः स च ज्ञातृव्यापारः चिद्रूपे ज्ञातरि तादात्म्येन स्थितत्वात् बोधात्मकः इति । तथा च अत्रैव विवक्षातः कारकाणि भवन्ति इति । यथा चितिः विश्वं साधयति चितिमासाद्य विश्वं भवति चित्या विश्वमीश्वरः करोति चितेः विश्वं भवति चितेः विकारो विश्वं भवति चितौ विश्वं स्थितमिति ।])+++ एव अन्यथा तु न किञ्चित् । - इति सर्वो ग्राहको विश्वशरीरः शिवभट्टारक एव +++([क्: विश्वशरीरशिवभट्टारक एवेति पाठः])+++ । तदुक्तं मयैव
अख्यातिर्यदि न ख्याति ख्यातिरेवावशिष्यते । ख्याति चेत् ख्यातिरूपत्वात् +++([क्: ख्यातिः ख्यातिरेव इति; ग्: यदि ख्यातिश्चेत् ख्यातिरेव इति पाठः])+++ ख्यातिरेवावशिष्यते ॥
इति । अनेनैव आशयेन श्रीस्पन्दशास्त्रेषु
प्। ११)
यस्मात्सर्वमयो जीवः … ।
इत्युपक्रम्य
तेन शब्दार्थचिन्तासु +++([ख्, ङ्: तस्माच्छब्दार्थेति; ग्: तस्मात्सर्वार्थ इति पाठः])+++ +++([अन्यथा तटः पिपतिषति इत्यादि-शब्दार्थचिन्तासु निश्चेतनस्य तटस्य कथमिच्छा घटेत ।])+++ न सावस्था न यः शिवः ॥
इत्यादिना शिवजीवयोरभेद एव उक्तः +++([ङ्: जीवशिवयोरभेद उक्त इति पाठः; ङ्: एव पदं नास्ति])+++ । एतत्तत्त्वपरिज्ञानमेव मुक्तिः एतत्तत्त्वापरिज्ञानमेव च बन्धः - इति भविष्यति एव एतत् ॥ ४ ॥
ननु ग्राहकोऽयं विकल्पमयः विकल्पनं च चित्तहेतुकं सति च चित्ते कथमस्य शिवात्मकत्वम् ? - इति शङ्कित्वा चित्तमेव निर्णेतुमाह
चितिरेव चेतनपदादवरूढा चेत्य- सङ्कोचिनी +++([ख्, ङ्: चेत्यभावैः सङ्कोचिनी इति पाठः])+++ चित्तम् ॥ ५ ॥
न चित्तं नाम अन्यत् किञ्चित् अपि तु सैव +++([क्: चितिरेवेति चित्तं न चान्यत्किञ्चित् इति; ग्: चित्तं नान्यत् किञ्चित् अपि तु सैव इति पाठः])+++ भगवती तत् । तथा हि सा स्वं स्वरूपं
प्। १२)
गोपयित्वा यदा सङ्कोचं +++([क्, ग्: सङ्कोचं इति पदं नास्ति])+++ गृह्णाति तदा द्वयी गतिः कदाचित् उल्लसितमपि सङ्कोचं गुणीकृत्य चित्प्राधान्येन स्फुरति कदाचित् सङ्कोचप्रधानतया । चित्प्राधान्यपक्षे सहजे प्रकाशमात्रप्रधानत्वे विज्ञानाकलता +++([ग्: प्रधानविज्ञानाकलता इति पाठः])+++ प्रकाशपरामर्शप्रधानत्वे तु विद्याप्रमातृता । तत्रापि क्रमेण सङ्कोचस्य तनुतायाम् +++([क्: सङ्कोचांशतनुतायाम् इति; सङ्कोचतनुतायाम् इति पाठः])+++ ईश-सदाशिवानाश्रितरूपता । समाधिप्रयत्नोपार्जिते तु चित्प्रधानत्वे +++([ग्: समाधिप्रयत्नोपार्जितेन चित्प्रधानत्वेन इति पाठः])+++ शुद्धाध्वप्रमातृता क्रमात्क्रमं प्रकर्षवती । सङ्कोचप्राधान्ये +++([क्: सङ्कोचांशप्राधान्येन इति पाठः])+++ तु शून्यादिप्रमातृता । एवमवस्थिते सति +++([ङ्: एवमेव स्थिते सति इति पाठः])+++ चितिरेव सङ्कुचितग्राहकरूपा चेतनपदात् अवरूढा - अर्थग्रहणोन्मुखी +++([क्: असङ्कुचितग्राहकरूपाच्चेतनादवरूढार्थग्रहेति पाठः])+++ सती चेत्येन-नील-सुखादिना सङ्कोचिनी उभयसङ्कोचसङ्कुचितैव चित्तम् । तथा च
प्। १३)
स्वाङ्गरूपेषु भावेषु पत्युर्ज्ञानं क्रिया च या । मायातृतीये ते एव पशोः सत्त्वं रजस्तमः ॥
इत्यादिना स्वातन्त्र्यात्मा +++([ग्: इति प्रत्यभिज्ञोक्तनीत्या स्वातन्त्र्येति पाठः])+++ चितिशक्तिरेव ज्ञानक्रिया-मायाशक्तिरूपा पशुदशायां सङ्कोचप्रकर्षात् +++([क्: सङ्कोचप्रकाशात् इति पाठः])+++ सत्त्व-+++([ग्: श्रीप्रत्यभिज्ञायामुक्तम् इति वाक्यं नास्ति])+++ । अत एव श्रीतत्त्वगर्भस्तोत्रे विकल्पदशायामपि तात्त्विकस्वरूपसद्भावात् तदनुसरणाभिप्रायेण +++([ख्: तदनुसारिणा इति पाठः])+++ उक्तम्
अत एव तु ये केचित्परमार्थानुसारिणः +++([क्: अत एव तु केषाञ्चित्परमार्थेति पाठः])+++ । तेषां तत्र स्वरूपस्य +++([ग्, ङ्: तेषां तत्रापि रूपस्य (तत्रापि विकल्पदशायामपि) इति पर्यायोपेतः पाठः])+++ स्वज्योतिष्ट्वं न लुप्यते ॥
इति ॥ ५ ॥
चित्तमेव तु मायाप्रमातुः स्वरूपम् - इत्याह
तन्मयो मायाप्रमाता ॥ ६ ॥
देहप्राणपदं तावत् चित्तप्रधानमेव +++([ङ्: देहप्राणपदात् तावच्चित्तं प्रधानमेव इति पाठः])+++ शून्य-
प्। १४)
भूमिरपि चित्तसंस्कारवत्येव अन्यथा ततो व्युत्थितस्य स्वकर्तव्यानुधावनाभावः स्यात् - इति चित्तमय एव मायीयः प्रमाता । अमुनैव आशयेन शिवसूत्रेषु वस्तुवृत्तानुसारेण +++([ग्: वस्तुवृत्त्यनुसारेण इति पाठः])+++
चैतन्यमात्मा +++([चैतन्यमात्मा इति चेतयते इति चेतनः सर्वेष् ज्ञानेषु सर्वासु च क्रियासु स्वतन्त्रः तस्य भावः चैतन्यं सर्वज्ञानक्रियासम्बन्धमयं परिपूर्णं स्वातन्त्र्यं तच्च परमशिवस्यैव भगवतः सम्भवति नान्येषां तत्परतन्त्राणामिति प्रथमसूत्रमुक्त्वा पुनः तृतीयोन्मेषे चित्तमात्मा इत्युक्तम् । अस्यार्थः यदेतत् विषयवासनाच्छुरितत्वात् नित्यं तदध्यवसायादिव्यापारबुद्ध्यहङ्कृन्मनोरूपं चित्तं तदेव अतति चिदात्मकस्वस्वरूपाख्यात्या सत्त्वादिवृत्त्यवलम्बनेन योनीः सञ्चरति इति आत्मा अणुरित्यर्थः न तु चिदेकरूपस्य अस्य अतनमस्ति अत एव चैतन्यमात्मा इति स्वभावभूततात्त्विकैतत्स्वरूपप्रतिपादनाशयेन पूर्वमात्मा लक्षितः अनेन तु एतदीयसङ्कोचावभासप्रधानाणवदशौचित्येन इति न पूर्वापरवैषम्यम् । ])+++ (१-१)
इत्यभिधाय मायाप्रमातृलक्षणावसरे पुनः
चित्तमात्मा (३-१)
इत्युक्तम् ॥ ६ ॥
अस्यैव सम्यक् स्वरूपज्ञानात् यतो मुक्तिः असम्यक् तु संसारः ततः तिलश एतत्स्वरूपं निर्भङ्क्तुमाह +++([ग्: विभङ्कुम् इति पाठः])+++
प्। १५)
स चैको द्विरूपस्त्रिमयश्चतुरात्मा सप्तपञ्चकस्वभावः ॥ ७ ॥
निर्णीतदृशा चिदात्मा शिवभट्टारक एव एक आत्मा न तु अन्यः कश्चित् प्रकाशस्य देशकालादिभिः भेदायोगात् जडस्य तु ग्राहकत्वानुपपत्तेः । प्रकाश एव यतः +++([ख्, ग्, ङ्: एव च इति पाठः])+++ स्वातन्त्र्यात् गृहीतप्राणादिसङ्कोचः सङ्कुचितार्थग्राहकतामश्नुते ततः असौ प्रकाशरूपत्व-सङ्कोचावभासवत्त्वाभ्यां द्विरूपः । आणव [वामदेवेन च मलत्रयस्वरूपमभिहितमस्ति । यथा गोपितस्वमहिम्नोऽस्य सम्मोहाद्विस्मृतात्मनः । यः सङ्कोचः स एवास्मिन्नाणवो मल उच्यते ॥ १ ॥
षट्कञ्चुकव्याप्तिवशाद्विलोपितनिजस्थितेः । भूतदेहस्थितिर्यासौ मायीयो मल उच्यते ॥ २ ॥
यदन्तःकरणाधीनबुद्धिकर्मेन्द्रियादिभिः । बहिर्व्याप्रियते कार्मं मलमेतस्य तन्मतम् ॥ ३ ॥
तत्र आणवेनैकेन मलेन संयुक्तो विज्ञानाकलः द्वाभ्यामाणव-मायीय-कार्ममलावृतत्वात् +++([ग्: मायीयाणवकार्ममलिनत्वात् इति पाठः])+++ त्रिमयः +++([क्: मलान्त्रिमय इति पाठः])+++ । शून्य-
प्। १६)
शरीरस्वभावत्वात् चतुरात्मा । सप्तपञ्चकानि - शिवादिपृथिव्यन्तानि +++([क्: पञ्चकानि पृथिव्यन्तानि इति शिवादि पदहीनः पाठः])+++ पञ्चत्रिंशत्तत्त्वानि तत्स्वभावः । तथा शिवादि-सकलान्त-चिदानन्देच्छा-ज्ञान-क्रियाशक्तिरूपत्वेऽपि अख्यातिवशात् कला-च शिवैकरूपत्वेन +++([ख्, ङ्: शिवैकत्वेन इति पाठः])+++ पञ्चत्रिंशत्तत्त्वमयत्वेन प्रमातृसप्तकस्वभावत्वेन चिदादिशक्तिपञ्चकात्मकत्वेन च अयं प्रत्यभिज्ञायमानो मुक्तिदः अन्यथा तु संसारहेतुः ॥ ७ ॥
एवं च
तद्भूमिकाः सर्वदर्शनस्तितयः ॥ ८ ॥
सर्वेषां चार्वाकादिदर्शनानां स्थितयः - सिद्धान्ताः तस्य एतस्य आत्मनो नटस्येव स्वेच्छावगृहीताः कृत्त्रिमा भूमिकाः +++([क्, ङ्: कृत्त्रिमभूमय इति पाठः])+++ । तथा च
चैतन्यविशिष्टं शरीरमात्मा ।
इति चार्वाकाः ।
प्। १७)
नैयायिकादयो ज्ञानादिगुणगणाश्रयं बुद्धितत्त्वप्रायमेव आत्मानं संसृतौ मन्यन्ते अपवर्गे तु तदुच्छेदे शून्यप्रायम् ।
अहं-प्रतीतिप्रत्येयः सुखदुःखाद्युपाधिभिः +++([क्: अहं-प्रत्ययः सुखदुःखेत्यादि पाठः । ग्, ख्: दुःखाद्युपाध्यभिभूत आत्मेति पाठः])+++ तिरस्कृतः आत्मा-इति मन्वाना मीमांसका अपि बुद्धावेव निविष्टाः ।
ज्ञानसन्तान एव तत्त्वम् - इति सौगता बुद्धिवृत्तिषु एव पर्यवसिताः ।
प्राण एव आत्मा - इति केचित् श्रुत्यन्तविदः +++([क्: शून्यवादिन इति पाठः])+++ ।
असदेव इदमासीत् - इत्यभावब्रह्मवादिनः शून्यभुवमवगाह्य स्थिताः ।
माध्यमिका अपि एवमेव ।
परा प्रकृतिः भगवान् वासुदेवः +++([क्: वासुदेवपदं नास्ति])+++ तद्विस्फुलिङ्गप्राया एव जीवाः - इति पाञ्चरात्राः परस्याः प्रकृतेः परिणामाभ्युपगमात् अव्यक्ते एव अभिनिविष्टाः ।
प्। १८)
साङ्ख्यादयस्तु विज्ञानाकलप्रायां भूमिम् अवलम्बन्ते +++([ख्, ग्: अवतिष्ठन्ते इति पाठः])+++ ।
सदेव इदमग्र आसीत्-इति ईश्वरतत्त्वपदमाश्रिता अपरे श्रुत्यन्तविदः +++([क्: शून्यान्तविद इति पाठः])+++ ।
शब्दब्रह्ममयं पश्यन्तीरूपम् +++([क्: मयं रूपं पश्यति इति पाठः])+++ आत्मतत्त्वम् - इति वैयाकरणाः श्रीसदाशिवपदमध्यासिताः । एवमन्यदपि अनुमन्तव्यम् । एतच्च आगमेषु
बुद्धितत्त्वे स्थिता बौद्धा गुणेष्वेवार्हताः स्थिताः । स्थिता वेदविदः पुंसि अव्यक्ते पाञ्चरात्रिकाः ॥
इत्यादिना निरूपितम् ।
विश्वोत्तीर्णमात्मतत्त्वम् - इति तान्त्रिकाः । विश्वमयम् - इति कुलाद्याम्नायनिविष्टाः । विश्वोत्तीर्णं विश्वमयं च - इति त्रिकादिदर्शनविदः +++([क्, ग्: दर्शनवादिन इति पाठः])+++ ।
एवम् एकस्यैव चिदात्मनो भगवतः स्वातन्त्र्यावभासिताः सर्वा इमा भूमिकाः स्वातन्त्र्यप्रच्छादनोन्मीलनतारतम्यभेदिताः अत एक
प्। १९)
एव एतावद्व्याप्तिक +++([ग्: एतद्व्याप्त्या इति पाठः])+++ आत्मा । मितदृष्टयस्तु अंशांशिकासु तदिच्छयैव अभिमानं ग्राहिताः येन देहादिषु भूमिषु +++([ख्, ग्: देहादिभूमिषु इति समस्तः पाठः])+++ पूर्वपूर्वप्रमातृव्याप्तिसारताप्रथायामपि उक्तरूपां महाव्याप्तिं परशक्तिपातं विना न लभन्ते । यथोक्तम्
वैष्णवाद्यास्तु ये केचिद्विद्यारागेण रञ्जिताः । न विदन्ति परं देवं सर्वज्ञं ज्ञानशालिनम् +++([क्: सर्वज्ञं ज्ञानशालिनम् इति श्लोकपादो नास्ति])+++ ॥
इति । तथा
भ्रमत्येव तान्माया +++([क्, ग्: तन्माया इति पाठः])+++ ह्यमोक्षे मोक्षलिप्सया ।
इति ।
त आत्मोपासकाः शैवं +++([ग्: अनात्मोपासका ह्येते इति पाठः])+++ न गच्छन्ति परं पदम् ॥
इति च ।
अपि च सर्वेषां दर्शनानां - समस्तानां नीलसुखादिज्ञानानां याः स्थितयः - अन्तर्मुखरूपा विश्रान्तयः ताः तद्भूमिकाः - चिदानन्दघनस्वात्मस्वरूपाभिव्यक्त्युपायाः +++([ग्: चिदानन्दात्मरूपेति पाठः])+++ । तथा हि
प्। २०)
यदा यदा बहिर्मुखं रूपं स्वरूपे विश्राम्यति तदा तदा बाह्यवस्तूपसंहारः अन्तःप्रशान्तपदावस्थितिः तत्तदुदेष्यत्संवित्सन्तत्यासूत्रणम् - इति सृष्टि-स्थिति-उद्वमन्ती संहरन्ती च सदा पूर्णा च +++([ख्, ङ्: सम्पूर्णा चेति पाठः])+++ कृशा च उभय रूपा च अनुभयात्मा च अक्रममेव स्फुरन्ती +++([ग्: क्रमेणैव स्फुरन्ती इति पाठः])+++ स्थिता । उक्तं च श्रीप्रतभिज्ञाटीकायाम्
तावदर्थावलेहेन +++([ख्: अर्थावहेलेन इति; ङ्: अर्थावहेलना उत्तिष्ठन्ति इति पाठः । ग्: पूर्णा च भविष्यति इति च पाठः])+++ उत्तिष्ठति पूर्णा च भवति
इति । एषा च भट्टारिका क्रमात्क्रमम् अधिकमनुशील्यमाना स्वात्मसात्करोत्येव भक्तजनम् ॥ ८ ॥
यदि एवम्भूतस्य आत्मनो विभूतिः तत् कथम् अयं मलावृतः अणुः कलादिवलितः संसारी अभिधीयते ? - इत्याह
प्। २१)
चिद्वत्तच्छक्तिसङ्कोचात् +++([ख्: चिद्विभुः शक्तिसङ्कोचेति पाठः])+++ मलावृतः संसारी ॥ ९ ॥
यदा चिदात्मा परमेश्वरः स्वस्वातन्त्र्यात् अभेदव्याप्तिं +++([क्, ग्: स्वातन्त्र्याभेदवृत्तिव्याप्तिम् इति])+++ निमज्ज्य भेदव्याप्तिम् +++([ङ्: अहेदप्राप्तिम् इति पाठः])+++ अवलम्बते तदा तदीया इच्छादिशक्तयः असङ्कुचिता +++([क्: शक्तयः सङ्कुचिता इति पाठः])+++ अपि सङ्कोचवत्यो भान्ति +++([ग्: भवन्ति इति पाठः])+++ तदानीमेव च अयं मलावृतः संसारी भवति । तथा च अप्रतिहतस्वातन्त्र्यरूपा इच्छाशक्तिः सङ्कुचिता सती अपूर्णम्मन्यतारूपम् आणवं मलम् ज्ञानशक्तिः क्रमेण +++([क्: ज्ञानशक्तिक्रमेण इति पाठः])+++ सङ्कोचात् भेदे सर्वज्ञत्वस्य किञ्चिज्ज्ञत्वाप्तेः +++([ख्, ग्: भेदसर्वज्ञत्वकिञ्चिज्ज्ञत्वान्तःकरणेत्यादि पाठः])+++ अनःकरण-इति पाठः] भिन्नवेद्यप्रथारूपं मायीयं मलम् क्रियाशक्तिः क्रमेण +++([क्: क्रियाशक्तिक्रमेण इति पाठः])+++ भेदे
प्। २२)
सर्वकर्तृत्वस्य किञ्चित्कर्तृत्वाप्तेः कर्मेन्द्रियरूपसङ्कोचग्रहणपूर्वम् +++([ख्, ग्: भेदसर्वकर्तृत्वकिञ्चित्कर्तृत्वकर्मेन्द्रियेत्यादि पाठः])+++ अत्यन्तं परिमिततां प्राप्ता शुभाशुभानुष्ठानमयं कार्मं मलम् । तथा सर्व-कर्तृत्व-सर्वज्ञत्व-पूर्णत्व-नित्यत्व-संसारी उच्यते स्वशक्तिविकासे तु शिव एव ॥ ९ ॥
ननु संसार्यवस्थायाम् अस्य किञ्चित् शिवतोचितम् अभिज्ञानमस्ति +++([ङ्: शिवतोचितं किञ्चिदभिज्ञानमस्ति ? इति पाठः])+++ येन शिव एव तथावस्थितः ? - इत्युद्घोष्यते +++([ख्: येन तथावस्थानः शिव एवेत्युद्घोष्यते इति पाठः])+++ । अस्ति । इत्याह
तथापि तद्वत् पञ्चकृत्यानि करोति ॥ १० ॥
इह ईश्वराद्वयदर्शनस्य ब्रह्मवादिभ्यः अयमेव विशेषः यत् +++([क्: यतः इति पाठः])+++
सृष्टिसंहारकर्तारं विलयस्थितिकारकम् । अनुग्रहकरं देवं प्रणतार्तिविनाशनम् ॥
प्। २३)
इति श्रीमत्स्वच्छन्दादिशासनोक्तनीत्या सदा पञ्चविधकृत्यकारित्वं चिदात्मनो भगवतः । यथा च भगवान् शुद्धेतराध्वस्फारणक्रमेण स्वरूपविकासरूपाणि सृष्ट्यादीनि करोति तथा सङ्कुचितचिच्छक्तितया +++([ङ्: तथा तथा सङ्कुचच्छक्तितया इति पाठः])+++ संसारभूमिकायामपि पञ्चकृत्यानि विधत्ते । तथा हि
तदेवं व्यवहारेऽपि प्रभुर्देहादिमाविशन् । भान्तमेवान्तरर्थौघमिच्छया भासयेद्बहिः ॥
इति प्रत्यभिज्ञाकारिकोक्तार्थदृष्ट्या +++([ग्: प्रत्यभिज्ञाकारोक्तदृशा इति पाठः])+++ देहप्राणादिपदम् आविशन् चिद्रूपो महेश्वरो +++([ख्: चिद्रूपमहेश्वर इति समस्तः पाठः])+++ बहिर्मुखीभावावसरे नीलादिकमर्थं नियतदेशकालादितया यदा आभासयति तदा नियतदेशकालाद्याभासांशे अस्य +++([ख्, ङ्: अस्य पदं नास्ति])+++ स्रष्टृता अन्यदेशकालाद्याभासांशे अस्य संहर्तृता नीलाद्याभासांशे स्थापकता भेदेन आभासांशे +++([क्: भेदनांशे इति; ङ्: भेदेनाभेदांशे इति पाठः])+++ विलयकारिता प्रकाशैक्येन प्रकाशने अनुग्रहीतृता । यथा च
प्। २४)
सदा पञ्चविधकृत्यकारित्वं भगवतः तथा मया वितत्य स्पन्दसन्दोहे निर्णीतम् ।
एवमिदं पञ्चविधकृत्यकारित्वम् +++([ख्, ङ्: पञ्चकृत्येति पाठः])+++ आत्मीयं सदा दृढप्रतिपत्त्या परिशील्यमानं माहेश्वर्यम् उन्मीलयत्येव +++([ख्: माहेश्वर्यमेवोन्मीलयेत् इति पाठः])+++ भक्तिभाजाम् । अत एव ये सदा एतत् +++([क्: सदैव तत् इति; ग्: सदैवैतत्परिशीलयन्त इति पाठः])+++ परिशीलयन्ति ते स्वरूपविकासमयं विश्वं जानाना जीवन्मुक्ता-बद्धात्मानः ॥ १० ॥
न च अयमेव प्रकारः पञ्चविधकृत्यकारित्वे +++([क्, ग्, ङ्: पञ्चकृत्यकारित्वे इति पाठः])+++ यावत् अन्योऽपि कश्चित् रहस्यरूपोऽस्ति +++([क्: अन्यदपि किञ्चिद्रहस्यरूपमस्तीति पाठः])+++ । - इत्याह
आभासन +++([क्: आभासमान इति])+++-रक्ति-विमर्शन-पन-विलापनतस्तानि +++([क्, ग्, ङ्: बीजावस्थानतद्विलापनेति पाठः])+++ ॥ ११ ॥
पञ्चविधकृत्यानि +++([क्, ग्, ङ्: पञ्चकृत्यानि इति])+++ करोति - इति पूर्वतः सम्बध्यते +++([क्, ग्: पूर्वेण सम्बन्ध इति च पाठः])+++ ।
प्। २५)
श्रीमन्महार्थदृष्ट्या दृगादिदेवीप्रसरणक्रमेण +++([क्: महादृगादिदेवीप्रसरणक्रमेणेति पाठः])+++ यत् यत् आभाति तत् तत् सृज्यते तथा सृष्टे पदे +++([ङ्: पदे इति पदं नास्ति])+++ तत्र यदा प्रशान्तनिमेषं कञ्चित् कालं रज्यति तदा स्थितिदेव्या तत् स्थाप्यते चमत्कारापरपर्यायविमर्शनसमये +++([ख्, ङ्: विमर्शसमये इति पाठः])+++ तु संह्रियते । यथोक्तं श्रीरामेण
समाधिवज्रेणाप्यन्यैरभेद्यो भेदभूधरः । परामृष्टश्च नष्टश्च त्वद्भक्तिबलशालिभिः +++([क्: भक्तिभरशालिभिरिति पाठः])+++ ॥
इति । यदा तु संह्रियमाणमपि एतत् अन्तः विचित्राशङ्कादिसंस्कारम् आधत्ते तदा तत् पुनः उद्भविष्यत्संसारबीजभावमापन्नं विलयपदम् अध्यारोपितम् । यदा पुनः तत् तथा अन्तः स्थापितम् अन्यत् वा +++([क्: पुनस्तदन्तस्तथा स्थापितमन्यदा इति पाठः])+++ अनुभूयमानमेव हठपाकक्रमेण अलङ्ग्रासयुक्त्या चिदग्निसाद्भावम् आपद्यते तदा पूर्णतापादनेन अनुगृह्यते एव । ईदृशं च पञ्चविधकृत्यकारित्वं +++([ग्: ईदृशपञ्चकृत्यकारिता सदा सन्निहितापि इति पाठः])+++ सर्वस्य
प्। ८)
सदा सन्निहितमपि सद्गुरूपदेशं विना न प्रकाशते इति सद्गुरुसपर्यैव एतत्प्रथार्थम् अनुसर्तव्या +++([क्: सद्गुरूपसत्त्यैवेति अनुमन्तव्येति च पाठः])+++ ॥ ११ ॥
यस्य पुनः सद्गुरूपदेशं विना एतत्परिज्ञानं नास्ति तस्य अवच्छादितस्वस्वरूपाभिः +++([क्: तस्य छादितस्वरूपाभिः इति पाठः; निजाभिः इति पदं ङ् पुस्तकादुपक्षिप्तम्])+++ निजाभिः शक्तिभिः व्यामोहितत्वं +++([ग्: शक्तिव्यामोहितत्वं संसारित्वमित्याहेति पाठः])+++ भवति । इत्याह
तदपरिज्ञाने स्वशक्तिभिर्व्यामोहि- +++([ख्: स्वशक्तिव्यामोहितता इति; ङ्: शक्तिव्यामोहितत्वम् इति पाठः])+++ तता संसारित्वम् ॥ १२ ॥
तस्य एतस्य सदा +++([क्, ग्: तदा इति पाठः])+++ सम्भवतः पञ्चविधकृत्यकारित्वस्य अपरिज्ञाने - शक्तिपातहेतुकस्वबलोन्मीलनाभावात् अप्रकाशने स्वाभिः शक्तिभिः व्यामोहितत्वं - विविधलौकिकशास्त्रीयशङ्काशङ्कुकीलितत्वं यत् इदमेव संसारित्वम् । तदुक्तं श्रीसर्ववीरभट्टारके
प्। २७)
अज्ञानाच्छङ्कते लोकस्ततः सृष्टिश्च संहृतिः ॥
इति ।
मन्त्रा वर्णात्मकाः सर्वे सर्वे वर्णाः शिवात्मकाः +++([क्, ग्: मन्त्राः शिवात्मका इति पाठः])+++ ॥
इति च । तथा हि-चित्प्रकाशात् अव्यतिरिक्ता नित्योदितमहामन्त्ररूपा +++([क्, ग्: नित्योदितमन्त्ररूपा इति पाठः])+++ पूर्णाहंविमर्शमयी या इयं परा वाक्शक्तिः आदि-क्षान्तरूपाशेषशक्तिचक्रगर्भिणी +++([क्: आदिक्षान्तशेषशक्तीति पाठः])+++ सा तावत् पश्यन्तीमध्यमादिक्रमेण +++([ख्, ङ्: मध्यमादिग्राहकेति पाठः])+++ ग्राहकभूमिकां भासयति । तत्र च परारूपत्वेन स्वरूपम् अप्रथयन्ती +++([क्: स्वरूपं प्रथयन्तीति पाठः])+++ मायाप्रमातुः अस्फुटासाधारणार्थावभासरूपां प्रतिक्षणं +++([क्, ग्: अर्थाभासां प्रतिक्षणे इति पाठः])+++ नवनवां विकल्पक्रियामुल्लासयति शुद्धामपि च अविकल्पभूमिं तदाच्छादितामेव दर्शयति । तत्र च ब्राह्म्यादिदेवतादिष्ठितककारादिविचित्रशक्तिभिः व्यामोहितो +++([ख्, ङ्: शक्तिव्यामोहित इति पाठः])+++ देहप्राणादिमेव परिमितम् अवशम् आत्मानं मन्यते मूढजनः । ब्राह्म्यादिदेव्यः पशुदशायां भेद-
प्। २८)
विषये सृष्टिस्थिती अभेदविषये च संहारं प्रथयन्त्य +++([क्: प्रयान्त्य इति पाठः])+++ परिमितविकल्पपात्रतामेव सम्पादयन्ति पतिदशायां तु भेदे संहारम् अभेदे च सर्गस्थिती प्रकटयन्त्यः क्रमात्क्रमं विकल्पनिर्ह्रासनेन +++([क्: विकल्पह्रासेन इति पाठः])+++ श्रीमद्भैरवमुद्रानुप्रवेशमयीं महतीम् अविकल्पभूमिमेव उन्मीलयन्ति ।
सर्वो [विज्ञानभैरवेपि
सर्वज्ञः सर्वकर्ता च व्यापकः परमेश्वरः । स एवाहं शैवधर्म इति दार्ढ्याच्छिवो भवेत् ॥ इति ।] ममायं विभव इत्येवं परिजानतः +++([क्, ग्: इत्येवं परीत्यादि-पादत्रयहीनः पाठः])+++ । विश्वात्मनो विकल्पानां प्रसरेऽपि महेशता ॥
इत्यादिरूपां चिदानन्दावेशमग्नां शुद्धविकल्पशक्तिम् +++([क्, ग्: नन्दावेशसाराम् इति अशुद्धां विकल्पशक्तिमिति च; ख्: शुद्धविकल्पां शक्तिम् शुद्धामविकल्पेति पाठान्तरयुक्तः पाठः])+++ उल्लासयन्ति । ततः उक्तनीत्या स्वशक्तिव्यामोहिततैव +++([क्: शक्तिभिर्व्यामोहितत्वम् इति पाठः])+++ संसारित्वम् ।
किञ्च चितिशक्तिरेव भगवती विश्ववमनात् +++([क्: विश्वावसाननात् इति पाठः])+++
प्। २९)
संसारवामाचारत्वाच्च वामेश्वर्याख्या सती खेचरी-गोचरी-दिक्चरी-बहिष्करणभावाभावस्यभावैरिति पाठः] परिस्फुरन्ती पशुभूमिकाभ्यां शून्यपदविश्रान्ता +++([क्: विश्रान्तकिञ्चित् इति पाठः])+++ किञ्चित्कर्तृत्वाद्यात्मक-कलादिशक्त्यात्मना खेचरीचक्रेण +++([ख्: खेचरीक्रमेण इति; ग्: खेचरीत्वक्रमेणेति पाठः])+++ गोपितपारमार्थिकचिद्गगनचरीत्वस्वरूपेण +++([क्: गगनचरीत्वक्रमेण इति पाठः])+++ चकास्ति भेदनिश्चयाभिमान-गोपिताभेदनिश्चयाद्यात्मकपारमार्थिकस्वरूपेण प्रकाशते भेदालोचनादिप्रधानबहिष्करणदेवतात्मना +++([क्, ग्: प्रधानताबहिष्करणेति पाठः])+++ च दिक्चरीचक्रेण गोपिताभेदप्रथात्मकपारमार्थिकस्वरूपेण स्फुरति सर्वतो व्यवच्छिन्नाभासस्वभावप्रमेयात्मना च भूचरीचक्रेण गोपितसार्वात्म्यस्वरूपेण +++([ख्: सर्वात्मस्वरूपेणेति पाठः])+++ पशुहृदयव्यामोहिना भाति । पतिभूमिकायां तु सर्व-
प्। ३०)
कर्तृत्वादिशक्त्यात्मकचिद्गगनचरीत्वेन अभेदनिश्चयाद्यात्मना गोचरीत्वेन अभेदालोचनाद्यात्मना दिक्चरीत्वेन स्वाङ्गकल्पाद्वयप्रथासारप्रमेयात्मना च भूचरीत्वेन पतिहृदयविकासिना +++([क्: पतिहृदये विकासिता इति पाठः])+++ स्फुरति । तथा च उक्तं +++([तथा चेत्यारभ्य मुक्तिबन्धदा इत्यन्तः पाठः क्, ग् पु० नास्ति उपन्यस्तश्चात्र ख्, ङ् पुस्तकाभ्यां तत्र ङ् पु० पूर्णाविच्छिन्नमात्रास्तु इति पाठः])+++ सहजचमत्कारपरिजनिताकृतकादरेण भट्टदामोदरेण विमुक्तकेषु
पूर्णावच्छिन्नमात्रन्तर्बहिष्करणभावगाः । वामेशाद्याः परिज्ञानाज्ञानात्स्युर्मुक्तिबन्धदाः ॥
इति । एवं च निजशक्तिव्यामोहिततैव संसारित्वम् ।
अपि च चिदात्मनः परमेश्वरस्य स्वा अनपायिनी +++([क्, ग्: सानपायिनीति पाठः])+++ एकैव स्फुरत्तासारकर्तृतात्मा ऐश्वर्याशक्तिः +++([क्: स्फुरणसारा कर्तृता आत्मैश्वर्यशक्तिरिति पाठः])+++ । सा यदा स्वरूपं गोपयित्वा +++([ख्: गूहयित्वा इति पाठः])+++ पाशवे पदे
प्। ३१)
प्राणापान-समान-शक्तिदशाभिः जाग्रत्स्वप्न +++([आत्मा मनसा मन इन्द्रियेण इन्द्रियमर्थेन संयुज्यते इति चतुष्टयसन्निकर्षः जाग्रदवस्था । आत्मा मनसा मनो विषयेण इति त्रितयसन्निकर्षः स्वप्नावस्था । आत्मा विषयेण इति द्वयोः सन्निकर्षः सुषुप्तिः । केवलात्मसन्निकर्षः तुर्या । निस्तरङ्गमहोदधिकल्पावस्थानं तु तुर्यातीतावस्था इति ।])+++ सुषुप्तभूमिभिः देह-प्राण-पुर्यष्टककलाभिश्च व्यामोहयति तदा तद्व्यामोहितता संसारित्वम् +++([क्: तदा व्यामोहता संसारीति पाठः])+++ यदा तु मध्यमामोल्लासाम् उदानशक्तिं विश्वव्याप्तिसारां च व्यानशक्तिं +++([क्: धामोल्लासात् उदानशक्तिव्याप्तिसारां व्यानेति; ख्: उदानशक्तिं व्याप्तीति विश्वपदहीनः पाठः])+++ तुर्यदशारूपां तुर्यातीतदशारूपां च चिदानन्दघनाम् उन्मीलयति तदा देसाद्यवस्थायामपि पतिदशात्मा जीवन्मुक्तिर्भवति । एवं त्रिधा स्वशक्तिव्यामोहितता व्याख्याता । चिद्वत् इति (९) सूत्रे चित्प्रकाशो गृहीतसङ्कोचः संसारी इत्युक्तम् इह तु स्वशक्तिव्यामोहितत्वेन अस्य संसारित्वं भवति - इति भङ्ग्यन्तरेण उक्तम् । एवं सङ्कुचितशक्तिः प्राणादिमानपि यदा स्वशक्तिव्यामोहितो न भवति तदा अयम्
प्। ३२)
… शरीरि परमेश्वरः +++([क्: परमेश्वर एवेति एव पदाधिकः पाठः])+++ ।
इत्याम्नायस्थित्या शिवभट्टारक एव - इति भङ्ग्या निरूपितं भवति । यदागमः
मनुष्यदेहमास्थाय छन्नास्ते परमेश्वराः ।
इति । उक्तं च प्रत्यभिज्ञाटीकायाम्
शरीरमेव घटाद्यपि वा ये षट्त्रिंशत्तत्वमयं शिवरूपतया पश्यन्ति तेऽपि सिध्यन्ति +++([क्: शरीरमेव ये षट्त्रिंशत्तत्त्वमयं शिवरूपतया पश्यन्ति अर्चयन्ति च तेपि सिध्यन्ति घटादिकमपि तथाभिनिविशन्ति तेपि इति नास्त्यत्र विवाद इत्युक्तसूत्रार्थेति पाठः])+++
इति ॥ १२ ॥
उक्तसूत्रार्थप्रातिपक्ष्येण तत्त्वदृष्टिं दर्शयितुमाह
तत्परिज्ञाने चित्तमेव अन्तर्मु- खीभावेन +++([क्, ग्: अन्तर्मुखीभावे चेतनेति पाठः])+++ चेतनपदाध्यारो- +++([ख्: पदाद्यारोपात् इति पाठः])+++ हात् चितिः ॥ १३ ॥
पूर्वसूत्रव्याख्याप्रसङ्गेन प्रमेयदृष्ट्या +++([क्: दृष्ट्या विततप्रायमेतत् शब्दसङ्गत्या व्याक्रियते इति पाठः])+++ वितत्य
प्। ३३)
व्याख्याप्रायमेतत् सूत्रम् शब्दसङ्गत्या तु अधुना व्याख्यायते । तस्य आत्मीयस्य पञ्चकृत्यकारित्वस्य परिज्ञाने सति अपरिज्ञानलक्षणकारणापगमात् +++([क्, ग्: करणापगमादिति पाठः])+++ स्वशक्तिव्यामोहिततानिवृत्तौ स्वातन्त्र्यलाभात् +++([क्: स्वातन्त्र्यालाभादिति पाठः])+++ प्राक् व्याख्यातं यत् चित्तं तदेव सङ्कोचिनीं बहिर्मुखतां +++([क्: सङ्कोचिनी बहिर्मुखताइति पाठः])+++ जगत् अन्तर्मुखीभावेन चेतनपदाध्यारोहात् - ग्राहकभूमिकाक्रमणक्रमेण सङ्कोचकलाया अपि विगलनेन +++([ग्: विगलने इति सप्तमीनिर्दिष्टः पाठः])+++ स्वरूपापत्त्या चितिर् भवति स्वां [तथा चोक्तम्
स पुनः शाम्भवेच्छातः शिवाभेदं परामृशन् । क्रमान्मन्त्रेश-तन्नेतृरूपो याति शिवात्मताम् ॥ इति] चिन्मयीं परां भूमिमाविशति +++([क्: पराभूमिम् इति समस्तः पाठः])+++ इत्यर्थः ॥ १३ ॥
ननु यदि पारमार्थिकं चिच्छक्तिपदं सकलभेदकवलनस्वभावं तत् अस्य मायापदेऽपि तथारूपेण भवितव्यं यथा जलदाच्छादित-
प्। ३४)
स्यापि भानोः भावावभासकत्वम् । इत्याशङ्क्य आह
चितिवह्निरवरोहपदे छन्नोऽपि मात्रया मेयेन्धनं प्लु- ष्यति ॥ १४ ॥
चितिरेव विश्वग्रसनशीलत्वात् वह्निः असौ एव अवरोहपदे +++([क्, ग्: चितिरेव ग्रसनेति विश्वपदहीनः असावारोहिपदे इति च पाठः])+++ - मायाप्रमातृतायां छन्नोऽपि - स्वातन्त्र्यात् आच्छादितस्वभावोऽपि भूरिभूतिच्छन्नाग्निवत् मात्रया - अंशेन +++([ख्, ङ्: मात्रयाप्यचेतनया नीलेति; क्: पीतादिमेयमेवेन्धनमिति पाठः])+++ नीलपीतादिप्रमेयेन्धनं प्लुष्यति - स्वात्मसात् करोति । मात्रापदस्य इदम् आकूतम् - यत् कवलयन् अपि सार्वात्म्येन न ग्रसते अपि तु अंशेन संस्कारात्मना उत्थापयति +++([ग्: सर्वात्मकत्वेनेति पाठः । क्, ग्: संस्कारात्मकं तत्स्थापयतीति च पाठः])+++ । ग्रासकत्वं च सर्वप्रमातॄणां स्वानुभवत एव सिद्धम् । यदुक्तं श्रीमदुत्पलदेवपादैः निजस्तोत्रेषु
प्। ३५)
वर्तन्ते जन्तवोऽशेषा अपि ब्रह्मेन्द्रविष्णवः । ग्रसमानास्ततो वन्दे देव विश्वं भवन्मयम् ॥
इति ॥ १४ ॥
यदा पुनः करणेश्वरीप्रसरसङ्कोचं सम्पाद्य सर्गसंहारक्रमपरिशीलनयुक्तिम् +++([क्: सर्वसंहारेति पाठः])+++ आविशति तदा
बललाभे विश्वमात्मसात्क- रोति ॥ १५ ॥
चितिरेव देहप्राणाद्याच्छादननिमज्जनेन स्वरूपम् उन्मग्नत्वेन स्फारयन्ती बलम् यथोक्तं
तदाक्रम्य बलं मन्त्राः… ।
इति । एवं च बललाभे - उन्मग्नस्वरूपाश्रयणे +++([क्: तन्मज्जनस्वरूपाश्रयेणेति; ग्: श्रयत्वेनेति पाठः])+++ क्षित्यादि-तदुक्तं +++([ग्: यथोक्तमिति पाठः])+++ पूर्वगुरुभिः स्वभाषामयेषु क्रमसूत्रेषु
यथा वह्निरुद्बोधितो दाह्यं दहति तथा विष- यपाशान् भक्षयेत्
इति ।
प्। ३६)
न चैवं वक्तव्यम् - विश्वात्मसत्काररूपा +++([ख्: विश्वात्मसाक्षात्कारेति पाठः])+++ समावेशभूः कादाचित्की कथम् उपादेया +++([क्, ङ्: उपादेयमिति; ख्: उपादेया स्यादिति पाठः])+++ इयं स्यात् इति यतो देहाद्युन्मज्जननिमज्जनवशेन इदम् अस्याः कादाचित्कत्वम् इव आभाति । वस्तुतस्तु चितिस्वातन्त्र्यावभासितदेहाद्युन्मज्जनात् +++([क्, ग्: स्वातन्त्र्यावभासितं देहेत्यादि पाठः; ख्: उन्मज्जनादि एवेति पाठः])+++ एव कादाचित्कत्वम् । एषा तु सदैव प्रकाशमाना अन्यथा तत् देहादि अपि न प्रकाशेत । अत एव देहादिप्रमातृताभिमाननिमज्जनाय अभ्यासः +++([ङ्: निमज्जनया अभ्यास इति पाठः])+++ न तु सदा प्रथमानतासारप्रमातृताप्राप्त्यर्थम् +++([ग्: सारपरप्रमातृता इति पाठः])+++
इति श्रीप्रत्यभिज्ञाकाराः ॥ १५ ॥
एवं च
चिदानन्दलाभे देहादिषु चेत्यमाने- +++([देहादिष्वपि चेत्येति पाठः])+++ ष्वपि चिदैकात्म्यप्रतिपत्तिदार्ढ्यं जीवन्मुक्तिः ॥ १६ ॥
विश्वात्मसात्कारात्मनि समावेशरूपे चिदानन्दे लब्धे व्युत्थानदशायां दलकल्पतया देहप्राणनीलसुखादिषु आभासमानेषु अपि
प्। ३७)
यत्समावेशसंस्कारबलात् प्रतिपादयिष्यमाणयुक्तिक्रमोपबृंहितात् +++([ख्, ङ्: मुक्तिक्रमेणेति पाठः])+++ चिदैकात्म्यप्रतिपत्तिदार्ढ्यम् -सैव जीवन्मुक्तिः - जीवतः प्राणान् अपि धारयतो मुक्तिः प्रत्यभिज्ञातनिजस्वरूपविद्राविताशेषपाशराशित्वात् +++([ख्, ङ्: मुक्तिः निजस्वरूपविद्रावितेति पाठः । क्: रूपे विद्रावितेति पाठः])+++ । यथोक्तं स्पन्दशास्त्रे
इति वा यस्य संवित्तिः क्रीडात्वेनाखिलं जगत् । स पश्यन्सततं +++([क्: सम्पश्यन् इति पाठः])+++ युक्तो जीवन्मुक्तो न संशयः ॥
इति ॥ १६ ॥
अथ कथं चिदानन्दलाभो भवति ? - इत्याह
मध्यविकासाच्चिदानन्द- लाभः ॥ १७ ॥
सर्वान्तरतमत्वेन वर्तमानत्वात् तद्भित्तिलग्नतां विना च कस्यचित् अपि स्वरूपानुपपत्तेः +++([ग्: स्वात्मत्वानुपपत्तेः इति पाठः])+++ संविदेव भगवती मध्यम् । सा तु मायादशायां तथाभूतापि स्वरूपं +++([ग्: स्वात्मस्वरूपमिति पाठः])+++ गूहयित्वा
प्। ३८)
प्राक् संवित्प्राणे परिणता
इति नीत्या प्राणशक्तिभूमिं +++([यथा सर्ववाहनसम्पत्समृद्धोपि राजा स्वेच्छया पद्भ्यां गच्छति तथेयं संविद्भगवत्यपि स्वेच्छया परिमितप्रमात्रात्मदेहादिभूमिं स्वीकुरुते इति भावः])+++ स्वीकृत्य अवरोहक्रमेण बुद्धिदेहादिभुवम् अधिशयाना नाडीसहस्रसरणिम् +++([ख्: नानानाडीति पाठः])+++ अनुसृता । तत्रापि च पलाशपर्णमध्यशाखान्यायेन आ ब्रह्मरन्ध्रात् अधोवक्त्रपर्यन्तं प्राणशक्तिब्रह्माश्रयमध्यमनाडीरूपतया +++([क्: प्राणशक्तिर्ब्रह्माश्रयमध्यनाडीरूपत्वेनेति; प्राणब्रह्माश्रयेण मध्यमब्रह्मनाडीरूपतयेति; ग्: ब्रह्माशयेति पाठः])+++ प्राधान्येन स्थिता तत एव सर्ववृत्तीनाम् +++([ख्: सर्वचित्तवृत्तीनामिति; ङ्: सर्ववृत्तीनां प्रलयात् इति पाठः])+++ उदयात् तत्रैव च विश्रामात् +++([क्: विश्रमणादिति पाठः])+++ । एवम्भूतापि एषा पशूनां [पशवः अविज्ञातपरतत्त्वाः । तथा च
अविज्ञाते परे तत्त्वे योगाभ्यासो हि निष्फलः । विज्ञाते च परे तत्त्वे योगाभ्यासो हि निष्फलः ॥ इति] निमीलितस्वरूपैव स्थिता +++([ख्: स्वरूपावस्थितेति पाठः])+++ ।
प्। ३९)
यदा तु उक्तयुक्तिक्रमेण सर्वान्तरतमत्वे मध्यभूता +++([ख्, ङ्: तमत्वेन सम्भूता इति पाठः])+++ संविद्भगवती विकसति यदि वा वक्ष्यमाणक्रमेण मध्यभूत ब्रह्मनाडी +++([ख्: मध्या ब्रह्मनाडीति पाठः])+++ विकसति तदा तद्विकासात् चिदानन्दस्य उक्तरूपस्य लाभः - प्राप्तिर्भवति । ततश्च प्रागुक्ता जीवन्मुक्तिः ॥ १७ ॥
मध्यविकासे युक्तिमाह +++([ख्, ङ्: विकासे जीवन्मुक्तियुक्तिमिति पाठः])+++
विकल्पक्षय-शक्तिसङ्कोचविकास- वाहच्छेदाद्यन्तकोटिनिभाल- नादय इहोपायाः +++([ख्: दयो ह्युपाया इति; क्: उपाय इत्येकवचनान्तः पाठः])+++ ॥ १८ ॥
इह मध्यशक्तिविकासे विकल्पक्षयादय +++([ख्: सूत्रादनन्तरम् प्राणावारोहारोहच्छेदा विकल्पक्षयादय इति पाठः])+++ उपायाः । प्रागुपदिष्टपञ्चविधकृत्यकारित्वाद्यनुसरणेन सर्वमध्यभूतायाः संविदो विकासो जायते - इति अभिहितप्रायम् । उपायान्तरम् अपि तु उच्यते - प्राणायाम-मुद्राबन्धादिसम-
प्। ४०)
स्तयन्त्रणातन्त्रत्रोटनेन +++([ख्: समस्तयन्त्रत्रोटनेनेति; ख्: हृदयनिहितेति च समस्तः पाठः])+++ सुखोपायमेव हृदये निहितचित्तः +++([ग्: सन्निहितेति])+++ उक्तयुक्त्या स्वस्थितिप्रतिबन्धकं +++([क्: प्रतिबन्धनात् इति च पाठः])+++ विकल्पम् अकिञ्चिच्चिन्तकत्वेन प्रशमयन् अविकल्पपरामर्शेन देहाद्यकलुषस्वचित्प्रमातृतानिभालनप्रवणः अचिरादेव उन्मिषद्विकासां तुर्य-तुर्यातीतसमावेशदशाम् आसादयति । यथोक्तम्
विकल्पहानेनैकाग्र्यात्क्रमेणेश्वरतापदम् ।
इति श्रीप्रत्यभिज्ञायाम् । श्रीस्पन्देऽपि
यदा क्षोभः प्रलीयेत तदा स्यात्परमं पदम् ॥
इति । श्रीज्ञानगर्भेऽपि
विहाय सकलाः क्रिया जननि मानसीः सर्वतो विमुक्तकरणक्रियानुसृतिपारतन्त्र्योज्ज्वलम् । स्थितैस्त्वदनुभावतः +++([ख्: स्थितस्त्वदनुभावेति पाठः])+++ सपदि वेद्यते सा परा दशा नृभिरतन्द्रितासमसुखामृतस्यन्दिनी +++([ख्: तन्द्रिता शमसुखेति पाठः])+++ ॥
इति । अयं च उपायो मूर्धन्यत्वात् +++([क्: मूर्धत्वादिति पाठः])+++ प्रत्यभिज्ञायां
प्। ४१)
प्रतिपादितत्वात् आदौ उक्तः । शक्तिसङ्कोचादयस्तु +++([ख्: शक्तिसङ्कोचः प्रतिपादितः प्रदर्श्यते इत्येतेषामेकवचनत्वेनैव पाठः])+++ यद्यपि प्रत्यभिज्ञायां न प्रतिपादिताः तथापि आम्नायिकत्वात् अस्माभिः प्रसङ्गात् प्रदर्श्यन्ते बहुषु +++([उपायेषु ।])+++ हि प्रदर्शितेषु कश्चित् केनचित् प्रवेक्ष्यति +++([क्: केन प्रविशेत् इति पाठः])+++ इति ।
शक्तेः सङ्कोच - इन्द्रियद्वारेण प्रसरन्त्या एव आकुञ्चनक्रमेण उन्मुखीकरणम् । यथोक्तम् आथर्वणिकोपनिषत्सु कठवल्ल्यां चतुर्थवल्लिप्रथममन्त्रे
पराञ्चि खानि व्यतृणत्स्वयम्भू- स्तस्मात्पराङ्पश्यति नान्तरात्मन् । कश्चिद्धिरः प्रत्यगात्मानमैक्षद् आवृत्तचक्षुरमृतत्वमश्नन् +++([क्: कश्चिद्धीमान् इति व्यावृत्तचक्षुरिति च पाठः । सर्वेषु मूलौपनिषदपुस्तकेषु मुद्रितेषु अमृतत्वमिच्छन् इति पाठः सन्दृश्यते ।])+++ ॥
इति । प्रसृताया अपि वा कूर्माङ्गसङ्कोचवत् त्राससमये हृत्प्रवेशवच्च सर्वतो निवर्तनम् । यथोक्तम्
प्। ४२)
तदपोद्धृते नित्योदितस्थितिः +++([क्, ग्: नित्यस्थितिरिति पाठः])+++ ।
इति ।
शक्तेर्विकासः अन्तर्निगूढाया अक्रममेव +++([क्: विकासोन्तर्विमूढाया अपि क्रममेव इति; ग्: विकासो मूढाया इति पाठः])+++ सकलकरणचक्रविस्फारणेन
अन्तर्लक्ष्यो बहिदृष्टिर्निमेषोन्मेषवर्जितः ।
इति । भैरवीयमुद्रानुप्रवेशयुक्त्या [भैरवीयमुद्रा खेचरीमुद्रा । तल्लक्षणं च यथा
मनः स्थिरं यस्य विनावलम्बनं वायुः स्थिरो यस्य विनावरोधनम् । दृष्टिः स्थिरा यस्य विनावलोकनं स्यात्सैव मुद्रा विमला च खेचरी ॥ इति ।] बहिः प्रसरणम् । यथोक्तं कक्ष्यास्तोत्रे
सर्वाः शक्तीश्चेतसा दर्शनाद्याः स्वे स्वे वेद्ये यौगपद्येन विष्वक् +++([ख्, ङ्: सम्यक् इति पाठः])+++ । क्षिप्त्वा मध्ये हाटकस्तम्भभूत- स्तिष्ठन्विश्वाधार +++([क्, ग्: विश्वाकार इति पाठः])+++ एकोऽवभासि ॥
इति । श्रीभट्टकल्लटेनापि उक्तम्
प्। ४३)
रूपादिषु परिणामात् तत्सिद्धिः ।
इति । शक्तेश्च सङ्कोचविकासौ +++([क्: विकास इत्येकवचनपाठः])+++ नासापुटस्पन्दनक्रमोन्मिषत्सूक्ष्मप्राणशक्त्या भ्रूभेदनेन +++([ख्: स्वाभेदेन क्रमेति; ग्: भ्रूभेदसमासादिता इति पाठः])+++ क्रमासादितोर्ध्वकुण्डलिनीपदे प्रसरविश्रान्तिदशापरिशीलनम् अधःकुण्डलिन्यां च षष्ठवक्त्ररूपायां +++([ख्: षष्ठचक्ररूपाम् इति; ग्: वक्ररूपायामिति पाठः])+++ प्रगुणीकृत्य शक्तिं तन्मूल-तदग्र-
वह्नेर्विषस्य +++([षष्ठवक्त्रात्मनः शक्तेर्मूलभूर्वह्निः सङ्कोचहेतुत्वात् प्रसरणात्मव्याप्तिहेतुर्विषं तयोर्मध्ये सृष्टिग्रन्थौ मध्यनाड्यात्मनि केवलमारोहावरोहविषयसम्बन्धरहितं वायुपूर्णं वा मध्यनाडीस्थिताक्रमोच्चारानच्ककलात्मकप्राणभरितम् ईदृशं सुखमयं ह्लादात्मकं चित्तं भावनया क्षिपेत् ततः स्मरानन्देन युक्तो भवति सर्वविषयविस्मारकारणत्वात्कामानन्दस्य आनन्दान्तरेभ्यः परत्वात् इति ।])+++ मध्ये तु चित्तं सुखमयं क्षिपेत् । केवलं वायुपूर्णं वा स्मरानन्देन युज्यते ॥
इति । अत्र वह्निः अनुप्रवेशक्रमेण सङ्कोचभूः विषस्थानम् प्रसरयुक्त्या विकासपदम् +++([ख्: प्रसरन्त्या विकासेति पाठः])+++ विषॢ व्याप्तौ इति अर्थानुगमात् +++([ख्: अर्थावगमात् इति पाठः])+++
प्। ४४)
वाहयोः - वामदक्षिणगतयोः +++([ग्: वामदक्षिणगत्योरिति पाठः])+++ प्राणापानयोः छेदो - हृदयविश्रान्तिपुरःसरम् अन्तः ककारहकारादिप्रायानच्कवर्णोच्चारेण +++([क्: प्रायेणानच्कोच्चारेणेति; ख्: अनच्कवर्णोच्चारणे इति पाठः])+++ विच्छेदनम् । यथोक्तं ज्ञानगर्भे
अनच्कककृतायतिप्रसृतपार्श्वनाडीद्वय- च्छिदो विधृतचेतसो हृदयपङ्कजस्योदरे । उदेति तव दारितान्धतमसः स विद्याङ्कुरो य एष परमेशतां जनयितुं पशोरप्यलम् ॥
इति ।
आदिकोटिः हृदयम् अन्तकोटिः द्वादशान्तः तयोः प्राणोल्लासविश्रान्त्यवसरे निभालनं - चित्तनिवेशनेन +++([क्: चितिनिवेशनेनेति पाठः])+++ परिशीलनम् । यथोक्तं विज्ञानभैरवे
हृद्याकाशे निलीनाक्षः पद्मसम्पुटमध्यगः । अनन्यचेताः सुभगे परं सौभाग्यमाप्नुयात् ॥
इति । तथा
यथा तथा यत्र तत्र द्वादशान्ते मनः क्षिपेत् । प्रतिक्षणं क्षीणवृत्तेर्वैलक्षण्यं दिनैर्भवेत् +++([क्: वैलक्ष्यं दिनशो भवेदिति; ख्: वैलक्षण्यं क्षणैर्भवेत् इति पाठः])+++ ॥
प्। ४५)
इति । आदिपदात् उन्मेषदशानिषेवणम् +++([ख्, ङ्: दशापरिशीलनं विशेषेणेति पाठः])+++ । यथोक्तम्
उन्मेषः स तु विज्ञेयः स्वयं तमुपलक्षयेत् ॥
इति स्पन्दे । तथा रमणीयविषयचर्वणादयश्च सङ्गृहीताः । यथोक्तं श्रीविज्ञानभैरवे एव
जग्धिपानकृतोल्लासरसानन्दविजृम्भणात् । भावयेद्भरितावस्थां +++([ख्, ङ्: भैरवावस्थाम् इति])+++ महानन्दमयो भवेत् +++([क्: सदानन्दस्ततो भवेदिति; महानन्दोदय इति मूले तु महान्दस्ततो भवेदिति पाठः])+++ ॥
गीतादिविषयास्वादासमसौख्यैकतात्मनः +++([क्: विषयास्वादात्समसौख्येति पाठः])+++ । योगिनस्तन्मयत्वेन मनोरूढेस्तदात्मता +++([क्, ग्: मनोरूढ्या तदेति पाठः])+++ ॥
यत्र यत्र मनस्तुष्टिर्मनस्तत्रैव धारयेत् +++([ख्: तुष्टिस्तत्र तत्रैव धारयेदिति पाठः])+++ । तत्र तत्र परानन्दस्वरूपं सम्प्रकाशते ॥
इति । एवमन्यदपि आनन्दपूर्णस्वात्मभावनादिकम् अनुमन्तव्यम् । इत्येवमादयः अत्र मध्यविकासे उपायाः ॥ १८ ॥
मध्यविकासाच्चिदानन्दलाभः स एव च परमयोगिनः समावेशसमापत्त्यादिपर्यायः समाधिः तस्य नित्योदितत्वे युक्तिमाह
प्। ४६)
समाधिसंस्कारवति व्युत्थाने भूयो भूयश्चिदैक्यामर्शान्नित्योदित- समाधिलाभः ॥ १९ ॥
आसादितसमावेशो योगिवरो व्युत्थाने अपि समाधिरससंस्कारेण क्षीव इव सानन्दं घूर्णमानो भावराशिं +++([क्: समाधिसंस्कारेति क्षीव इव चात्मानं पूर्यमाणभावेति च पाठः])+++ शरदभ्रलवम् इव चिद्गगन एव लीयमानं पश्यन् भूयो भूयः अन्तर्मुखताम् एव समवलम्बमानो निमीलनसमाधिक्रमेण चिदैक्यमेव विमृशन् व्युत्थानाभिमतावसरे अपि समाध्येकरस एव भवति । यथोक्तं क्रमसूत्रेषु
क्रममुद्रया अन्तःस्वरूपया बहिर्मुखः समाविष्टो +++([क्: बहिर्मुखसमाविष्ट इति समस्तः पाठः])+++ भवति साधकः । तत्रादौ +++([ख्: तत्र चेत्यस्ति । तत्रादौ इति वाक्यं (ङ० पुस्तकात्) उपन्यस्तम् । ])+++ बाह्यात् अन्तः प्रवेशः आभ्यन्तरात् बाह्यस्वरूपे प्रवेशः +++([क्: बाह्यानुप्रवेशोऽभ्यन्तरादिति पाठः])+++ आवेशवशात् जायते - इति सबाह्याभ्यन्तरोऽयं मुद्राक्रमः
इति । अत्रायमर्थः सृष्टि-स्थिति-संहृतिसंविच्च-
प्। ४७)
क्रात्मकं क्रमं मुद्रयति स्वाधिष्ठितम् आत्मसात् करोति येयं +++([ख्: यैव इति पाठः])+++ तुरीया चितिशक्तिः तया क्रममुद्रया अन्तरिति - पूर्णाहन्तास्वरूपया +++([क्: अन्तरितपूर्णाहन्तारूपयेति पाठः])+++ बहिर्मुख - इति विषयेषु व्यापृतः अपि समाविष्टः - साक्षात्कृतपरशक्तिस्फारः साधकः - परमयोगी भवति । तत्र च बाह्याद् ग्रस्यमानात् विषयग्रामात् अन्तः - परस्यां चिति भूमौ ग्रसनक्रमेणैव प्रवेशः - समावेशो भवति । आभ्यन्तरात् चितिशक्तिस्वरूपात् +++([ग्: अभ्यन्तरस्थचितिशक्तिरूपादिति पाठः])+++ च साक्षात्कृतात् आवेशवशात् - समावेशसामर्थ्यात् एव बाह्यस्वरूपे +++([क्: साक्षात्कृतावेशसामर्थ्यादेव बाह्येति; ङ्: साक्षात्कृतात्समावेशसामर्थ्यादेव बाह्येति पाठः])+++ - इदन्तानिर्भासे विषयग्रामे वमनयुक्त्या +++([ख्, ङ्: वमनेतिस्थाने ग्रसनयुक्त्या इति पाठः])+++ प्रवेशः - चिद्रसाश्यानताप्रथनात्मा समावेशो जायते - इति । सबाह्याभ्यन्तरः अयं नित्योदितसमावेशात्मा मुदो - हर्षस्य वितरणात् परमानन्दस्वरूपत्वात् पाशद्रावणात् विश्वस्य अन्तः
प्। ४८)
तुरीयसत्तायां +++([क्: तुरीयदशायाः सत्तायामिति पाठः])+++ मुद्रणात् च मुद्रात्मा क्रमः अपि सृष्ट्यादिक्रमाभासकत्वात् +++([क्: सृष्ट्यादिक्रमाभासरूपत्वात् च क्रम इति पाठः])+++ तत्क्रमाभासरूपत्वात् च क्रम इति अभिधीयते इति ॥ १९ ॥
इदानीम् अस्य समाधिलाभस्य फलमाह
तदा प्रकाशानन्दसारमहामन्त्रवीर्या- त्मकपूर्णाहन्तावेशात्सदा सर्वसर्ग- संहारकारिनिजसंविद्देवताच- क्रेश्वरताप्राप्तिर्भवतीति शिवम् ॥ २० ॥
नित्योदिते समाधौ लब्धे सति प्रकाशानन्दसारा - चिदाह्लादैकघना महती मन्त्रवीर्यात्मिका - सर्वमन्त्रजीवितभूता पूर्णा पराभट्टारिकारूपा या इयम् अहन्ता - अकृत्रिमः स्वात्मचमत्कारः तत्र आवेशात् सदा कालाग्न्यादेः +++([ख्: सदाशिवान्तं कालाग्न्यादेरित्यादि; क्: सदा कालाग्न्यादीश्वरसतत्त्वकलान्तस्येति पाठः])+++ चरमकलापर्यन्तस्य विश्वस्य यौ सर्गसंहारौ - विचित्रौ सृष्टिप्रलयौ तत्कारि यत् निजं संवि-
प्। ४९)
द्देवताचक्रं तदैश्वर्यस्य प्राप्तिः - आसादनं भवति प्राकरणिकस्य परमयोगिन +++([क्: प्राकरणिकयोगिन इति पाठः])+++ इत्यर्थः इति एतत् सर्वं शिवस्वरूपमेव इति उपसंहारः - इति सङ्गतिः । तत्र यावत् इदं +++([क्, ग्: यदिदम् इति पाठः])+++ किञ्चित् संवेद्यते तस्य संवेदनमेव स्वरूपं तस्यापि अन्तर्मुखविमर्शमयाः +++([ख्: अन्तर्मुखमया इति पाठः])+++ प्रमातारः तत्त्वम् तेषामपि विगलितदेहाद्युपाधिसङ्कोचाभिमाना +++([ख्, ङ्: देहादिसङ्कोचेति उपाधि पदहीनः पाठः])+++ अशेषशरीरा सदाशिवेश्वरतैव +++([क्: सदाशिवेश्वरता तत्रैवेति पाठः])+++ सारम् अस्या अपि प्रकाशैकसद्भावापादिताशेषविश्वचमत्कारमयः श्रीमान् महेश्वर एव परमार्थः +++([क्: श्रीमहेशः परमार्थ इति पाठः])+++ - नहि पारमार्थिकप्रकाशावेशं विना कस्यापि प्रकाशमानता घटते - स च परमेश्वरः स्वातन्त्र्यसारत्वात् आदि-पाठः] एतत्स्वीकृतसमस्तवाच्य +++([ङ्: तत्स्वीकृतेति पाठः])+++ -आनन्दमयसम्भवापादादिति पाठः]
प्। ५०)
परं परिपूर्णत्वात् +++([ङ्: परिपूर्णत्वेनेति पाठः])+++ सर्वाकाङ्क्षाशून्यतया आनन्दप्रसरनिर्भरः अत एव अनुत्तराकुलस्वरूपात् +++([क्: अनुत्तराकुलसम्भवापादनस्वरूपादिति पाठः])+++ अकारात् आरभ्य शक्तिस्फाररूपहकलापर्यन्तं +++([ख्, ङ्: हकारपर्यन्तम् इति])+++ +++([हकारो व्योमशक्तिरूपः हकला व्योमकला ततः परं किमपि नास्ति तत्सर्वत्रास्ति तत्र न किञ्चिदस्तीति भावः ।])+++ यत् विश्वं प्रसृतं क्षकारस्य प्रसरशमनरूपत्वात् +++([ग्: क्षकारस्याप्यप्रसररूपत्वात् अकारेति; क्: क्षकारस्यापिप्रसरणत्वात्तदिति च पाठः])+++ तत् अकार-हकाराभ्यामेव सम्पुटीकारयुक्त्या प्रत्याहारन्यायेन अन्तः स्वीकृतं सत् अविभागवेदनात्मकबिन्दुरूपतया स्फुरितम् अनुत्तर एव विश्राम्यति - इति शब्दराशिस्वरूप एव अयम् अकृतको विमर्शः । यथोक्तं
प्रकाशस्यात्मविश्रान्तिरहं-भावो हि कीर्तितः । उक्ता च सैव विश्रान्तिः सर्वापेक्षानिरोधतः ॥
स्वातन्त्र्यमथ कर्तृत्वं मुख्यमीश्वरतापि च ।
इति । एषैव च अहन्ता सर्वमन्त्राणाम् उदयवि-
प्। ५१)
श्रान्तिस्थानत्वात् एतद्बलेनैव च तत्तदर्थक्रियाकारित्वात् महती वीर्यभूमिः +++([क्: महती वीर्यभूमिः इति वाक्यं नास्ति])+++ । तदुक्तम्
तदाक्रम्य बलं मन्त्रा… ।
इत्यादि
…ट एते शिवधर्मिणः ॥
इत्यन्तम् श्रीस्पन्दे । शिवसूत्रेषु अपि
महाह्रदानुसन्धानान्मन्त्रवीर्यानुभवः +++([शब्दराशिस्फारात्मकपराहन्ताविमर्शो यस्य तस्य मन्त्रवीर्यस्यानुभवः स्वात्मतया स्फुरणं भवतीत्यर्थः ।])+++ (१उ० २२सू०)
इति । तदत्र महामन्त्रवीर्यात्मिकायां पूर्णाहन्तायाम् आवेशो - देहप्राणादिनिमज्जनात् तत्पदावाप्त्यवष्टम्भेन देहादीनां +++([क्: देहादीनामपि वा तद्रसेत्यादि पाठः])+++ नीलादीनामपि तद्रसाप्लावनेन तन्मयीकरणम् । तथा हि - देहसुखनीलादि यत् किञ्चित् प्रथते अध्यवसीयते +++([ख्: व्यवसीयते इति पाठः])+++ स्मर्यते सङ्कल्प्यते वा तत्र सर्वत्रैव भगवती चितिशक्तिमयी प्रथा भित्तिभूतैव स्फुरति - तदस्फुरणे कस्यापि अस्फुरणात् इति उक्तत्वात् । केवलं तथा स्फुरन्त्यपि सा तन्मायाशक्त्या
प्। ५२)
अवभासितदेहनीलाद्युपरागदताभिमानवशात् +++([क्, ग्: उपरागेदन्ताभिमानेति पाठः])+++ भिन्नभिन्नस्वभावा इव भान्ती ज्ञानसङ्कल्पाध्यवसायादिरूपतया मायाप्रमातृभिः +++([क्, ग्: रूपताप्रमातृभिरिति पाथः])+++ अभिमन्यते वस्तुतस्तु एकैव असौ चितिशक्तिः । यथोक्तम्
या चैषा प्रतिभा तत्तत्पदार्थक्रमरूषिता । अक्रमानन्तचिद्रूपः प्रमाता स महेश्वरः +++([क्: प्रमाता परमेश्वर इति पाठः])+++ ॥
इति । तथा
मायाशक्त्या विभोः सैव भिन्नसंवेद्यगोचरा । कथिता ज्ञानसङ्कल्पाध्यवसायादिनामभिः ॥
इति । एवम् एषा सर्वदशासु एकैव चितिशक्तिः विजृम्भमाणा यदि तदनुप्रवेश-तदवष्टम्भयुक्त्या समासाद्यते तत् तदावेशात् पूर्वोक्तयुक्त्या करणोन्मीलननिमीलनक्रमेण सर्वस्य सर्वमयत्वात् तत्तत्संहारादौ +++([ग्: तत्समाधाविति पाठः])+++ अपि सदा सर्वसर्गसंहारकारि यत् सहजसंवित्तिदेवताचक्रम् +++([ख्, ङ्: यन्निजं संविद्देवेति पाठः])+++ - अमायीयान्तर्बहिष्करणमरीचिपुञ्जः तत्र ईश्वरता +++([क्: ईश्वरत्वसाम्राज्यपरभैरवात्मा इति पाठः])+++ -
प्। ५३)
साम्राज्यं परभैरवात्मता तत्प्राप्तिः भवति परमयोगिनः । यथोक्तम् -
यदा त्वेकत्र संरूढस्तदा तस्य लयोद्भवौ । नियच्छन्भोक्तृतामेति ततश्चक्रेश्वरो +++([ख्: तदा चक्रेश्वर इति पाठः])+++ भवेत् ॥
इति । अत्र एकत्र इति
एकत्रारोपयेत्सर्वम् … ।
इति । चित्सामान्यस्पन्दभूः +++([ङ्: इतिवत्सामान्येति; क्: सामान्यभूरुन्मेषेति पाठः])+++ उन्मेषात्मा व्याख्यातव्या +++([ख्: व्याख्याता इति पाठः])+++ । तस्य इति अनेन
पुर्यष्टकेन संरुद्ध… ।
इति । उपक्रान्तं पुर्यष्टकम् एव पराम्रष्टव्यम् न तु यथा विवरणकृतः एकत्र सूक्ष्मे स्थूले शरीरे वा इति व्याकृतवन्तः । स्तुतं च मया
स्वतन्त्रश्चितिचक्राणां चक्रवर्ती महेश्वरः । संवित्तिदेवताचक्रजुष्टः कोऽपि जयत्यसौ ॥
इति । इतिशब्द उपसंहारे यत् एतावत् उक्तप्रकरणशरीरं तत् सर्वं शिवम् - शिवप्राप्तिहेतु-
प्। ५४)
त्वात् शिवात् प्रसृतत्वात् +++([ग्: शिवात्मसतत्त्वात् इति पाठः])+++ शिवस्वरूपाभिन्नत्वात् च शिवमयमेव इति शिवम् ॥
देहप्राणसुखादिभिः प्रतिकिलं संरुध्यमानो जनः पूर्णानन्दघनामिमां न चिनुते माहेश्वरीं स्वां चितिम् । मध्येबोधसुधब्धि विश्वमभितस्तत्फेनपिण्डोपमं +++([ङ्: विश्वमखिलमिति पाठः])+++ यः पश्येदुपदेशतस्तु +++([ङ्: यः पश्यत्युपदेशत इति पाठः])+++ कथितः साक्षात्स एकः शिवः ॥
येषां वृत्तः शाङ्करः शक्तिपातो येऽनभ्यासात्तीक्ष्णयुक्तिष्वयोग्याः +++([क्, ग्: युक्तिष्वतीक्ष्णा इति पाठः])+++ ।
शक्ता ज्ञातुं नेश्वरप्रत्यभिज्ञा- मुक्तस्तेषामेव तत्त्वोपदेशः ॥
समाप्तमिदं प्रत्यभिज्ञाहृदयम् ॥
शुभमस्तु ॥