प्। ३६)
अथ
श्रीशिवदृष्टौ
द्वितीयमाह्निकम् ।
ईश्वराद्वयवाद[१ ] एव युक्तियुक्तो[२ ], नतु शब्दपरब्रह्माद्वयवाद
इति वक्तुम्, वैयाकरणोपेतशब्दाद्वैतं तावन्निराकर्तुमुपक्रममाण
आह
अथास्माकं[३ ] ज्ञानशक्तिर्या सदाशिवरूपता ।
वैयाकरणसाधूनां पश्यन्ती सा परा स्थितिः ॥ १ ॥
१ तदेवमियता सर्वशासनार्थसङ्क्षेपार्थसूचकेन
पीठिकाबन्धरूपेणोपोद्घातपरेणानेन प्रथमाह्निकेन परमेश्वर
एक एव तावत् स्वरूपप्रसारेण परापरादिरूपतया भासते, तथात्वेऽपि
न खण्डितव्यपदेशव्यवहार्यः । तथाहि - परावस्थायां
तावत्पूर्णानन्दस्वभाव एव, परापरायामपि रूपप्रसाररसादेव
न काचन विकल्पकलङ्ककल्पना, अपरावस्थायां पुनः
प्राकृतप्रजायामपि च तस्य सहजप्रकाशबोधोऽस्तीत्यपि समर्थितम् ।
तदेतत्त्रिधात्वमप्यन्यवादिमतेऽनुपपत्त्या समर्थितमपि शिथिलितमिव
भाति । तस्मिन् हि निरसिते सर्वमिदं मेघावरणविगमेनेव
स्वप्रकाशभानुकिरणवृन्दमत्यन्तस्वच्छं भासते नान्यथा,
पांसुपातेन हि न मणेर्महार्घतापगच्छति, परं मलिनो भाति । तत्र
प्राधान्येनेह परब्रह्माद्वयवाद एव निरसनीयः, प्रसङ्गागतस्य च
शब्दब्रह्माद्वयवादस्य निरसनं तावत्तण्डुलशुद्धाविव
कणनिरसनमिति तन्निरसनायाह न शब्दब्रह्मेत्यादि ।
२ अनुभवानुवर्ती सत्तर्कप्रकारो युक्तिः ।
३ अथेति स्वसिद्धान्तकथनान्तरं परप्रक्रियारम्भे ।
प्। ३७)
पश्यन्ती यद्यपि[१ ] नादरूपतया विश्वमामृशन्ती
क्रियाशक्तिरूपतया समन्विता, तथापि पश्यन्ती इति दर्शनप्राधान्यात्
उपचरितज्ञानशक्तिरूपत्वेऽप्याश्रीयमाणे[२ ] परमशिवरूपताया
अत्यन्तदूरवर्तिनी नतु पर्यन्तदशासौ ज्ञानशक्तेः सदाशिवरूपत्वात्
परापरव्यवस्थान्त्र । तेषां पुनः सा परावस्था मता ।
सदाशिवरूपत्वे[३ ] च क्रियाशक्तिरपि न परित्यक्ता यदुक्तं
ज्ञानक्रिये सादाख्यम्
इति । शक्तिशक्तिमतोरभेदात्[४ ] ज्ञानशक्तिमान् सदाशिवः, उद्रिक्त
क्रियाशक्तिरीश्वर इति । अत[५ ] एवेच्छाशक्तिमयः शिवो
यावच्चित्स्वातन्त्र्यशक्तिमान् पर्यन्ते परमशिवः । अत्रान्तरे
चौन्मुख्यनिर्वृत्यपेक्षयाधिकतत्त्वसम्भवः ।
१ ज्ञानशक्तौ हीच्छायां यद्बीजतयावस्थितं तदेव विकसितम्,
ततश्चात्रामर्शासम्भवात् कथं ज्ञानशक्तित्वमिहाप्युक्तं
ज्ञानदर्शनयोग्यतेत्यत्र योग्यतेति, ततश्च कथमुक्तं ज्ञानशक्तिः
पश्यन्तीति मत्वाह यद्यपीति ।
२ अपिशब्दोऽत्रोपरोधेनैव ज्ञानशक्तित्वं नतु वस्तुत इति द्योतयति ।
३ ननु यदि भवद्भिः पश्यन्त्या नादशक्तिरूपतया
क्रियाशक्तिरेवाभ्युपगता येन यद्यपीत्याद्युक्तम्, सूत्रकारेण कथं
ज्ञानशक्तिः सदाशिवरूपतेति महानयं स्वकटकक्षोभः सम्पन्न
इत्याशङ्क्याह सदाशिवरूपत्वे चेति, ज्ञानशक्तियोग्यता
क्रियाशक्तिप्रारम्भः सदाशिवत्वमित्यर्थः ।
४ ननु ज्ञानशक्तिः सदाशिवतेति कोऽयं निर्देश इत्यत आह शक्तीति ।
५ प्रसङ्गागतमाह अत एवेति ।
प्। ३८)
तदस्तु, मा वा भूत्, नैतदिह मुख्यवृत्त्या प्रतिपाद्यम्, अत
एवाधिकशक्तिप्रदर्शने कृतेऽप्युक्तं षट्त्रिंशत्तत्त्वरूपतां बिभ्रत्
इति । शिवाभेदतात्पर्यं[१ ] तु न खण्ड्यत इति नियमः ।
मायोत्तीर्णेऽप्यध्वनि[२ ] विद्योन्मेषेऽपि कार्ममलानुल्लासात्
संसारासम्पर्केऽपि परमेश्वरभेदाख्यातेः
सर्वथैवाविच्छेदादागमावगतेश्वरेच्छावशोत्थपरापरदशाव्यप
-देश्योक्ततत्त्वोपगमः[३ ] । वैयाकरणसाधूनामिति
साधुग्रहणमेषां[४ ] जाड्यख्यापनाय । परमपि हि रूपं यदि
पश्यन्त्याः यदुक्तं
प्रतिलब्धसमाधाना[५ ] च ।
इति,
विशुद्धा[६ ] च ।
इति,
१ ननु किं तर्हि अत्र प्रतिपाद्यं सर्वथा हि निःशेषतः कथिते
प्रकृतं साध्यं सिध्यत्यत आह शिवाभेद इति, सर्वथा हि
शिवाभेदतात्पर्यमिह साध्यमिति नियमः । तच्च, अस्तु वाधिक्यं मास्तु
वा, न खण्ड्यत इत्यर्थः ।
२ ननु च सर्वत्र हि मायाया उच्छेद एवाङ्गीकृतः, स च
ज्ञानशक्तावप्यस्ति ततोऽलमनेन ज्ञानशक्तिरस्माकं तेषां परा
स्थितिरिति शङ्कित्वाह मायोत्तीर्ण इति ।
३ तेन नात्र परतत्त्वस्थितिरित्यर्थः ।
४ यथा लौकिकेऽपि अत्यन्तमूर्खेऽपि साधुरयमिति ।
५ केवलशब्दार्थरहितस्वरूपसमाहितिः ।
६ ग्राह्यग्राहककल्लोलरहिता ।
प्। ३९)
प्रशान्तप्रत्यवभासा च ।
इति, अन्यद्वा अपि अतोऽधिकतरं प्रकृष्टरूपमस्याः स्यात्; तथापि सरो[२ ]
रस इति मध्यमायामुन्मिषतः क्रमस्य कारणभूतायां
तत्क्रमशक्तिरस्त्येव । यदुक्तं
प्रतिसंहृतक्रमाप्यन्तः सत्यपि अभेदे समाविष्टक्रमशक्तिः पश्यन्ती
।
इति । ततो न सा पूर्णा[३ ] पर्यन्तदशेति कथं तस्याः परस्थितिरूपता,
परब्रह्मरूपता, शब्दब्रह्मरूपता ॥ १ ॥
तथा[४ ] च त एवमाहुरित्याह
इत्याहुस्ते परं ब्रह्म यदनादि तथाक्षयम्[४ ] ।
तदक्षरं शब्दरूपं सा पश्यन्ती परा हि वाक् ॥ २ ॥
यदनादि अनन्तं च परं ब्रह्म चिद्रूपं तदक्षरं
निर्विकारं शब्दरूपम् । सैव च पश्यन्तीसञ्ज्ञा परा वाक् ।
वाग्रूपतां[८ ] विना परब्रह्माख्यश्चित्प्रकाशोऽपि
१ गलितबाह्यविकल्पावभासा ।
२ तथापीति मूलभूतत्वात्तस्या यदि तस्यां सूक्ष्मक्रमकलना न
स्यात् तर्हि सरो रस इत्यत्र क्रमस्मरणे निमित्ताभावादुत्क्रमणेन
स्मरणं मन्तव्यम्, तत्र हि एकस्मृत्युपारूढानां
वर्णानामर्थावबोधकत्वमुक्तम्, तच्च सति कारणे तादृक्प्रतिभासे
भवति नान्यथेत्यर्थः ।
३ अन्तःसमाविष्टक्रमत्वात् ।
४ ननु च पश्यन्ती तादृश्यस्तु तस्याः कथं तत्र विवादः,
ततोऽन्यापि काचिदस्त्यक्रमा इत्यत आह एवमिति, पश्यन्त्या एव
परब्रह्मशब्दब्रह्मरूपतेत्यर्थः ।
५ अक्षयमन्तरहितम् ।
६ अक्षरं - कल्पनोज्झितम् ।
७ सर्वतः पूर्णत्वात्सूक्ष्मा ।
८ ननु वाचः प्राणस्पन्दात्मकत्वात्कथं शब्दरूपमेव परं
ब्रह्मेत्यत आह वाग्रूपतामिति ।
वाग्रूपता चेदुत्क्रामेदवबोधस्य शाश्वती ।
न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी ॥
इति भर्तृहरिपादाः ।
प्। ४०)
न प्रकाशेत । सा हि प्रत्यवमर्शिनी । प्रत्यवमर्शनमेव[१ ] च
प्रकाशनमुच्यत इत्याहुस्ते ॥ २ ॥
स एव चात्मेत्याह
स[२ ] एवात्मा सर्वदेहव्यापकत्वेन वर्तते[३ ] ।
अन्तःपश्यदवस्थैव चिद्रूपत्वमरूपकम्[४ ] ॥ ३ ॥
या अन्तःपश्यदवस्था[४ ] भोक्तृतारूपा ज्ञेयरूपशून्यं
चिद्रूपत्वं चैतन्यमात्रं स एवात्मा कथ्यते,
सर्वदेहव्यापकस्तद्[६ ]भोगायतनावस्थितो भोग्यं भुङ्क्ते ॥ ३ ॥
स एव[७ ] परमात्मा सर्वज्ञ इत्याह
तावद्यावत्परा[८ ] काष्ठा यावत्पश्यत्यनन्तकम् ।
१ यद्यपि परं ब्रह्म चित्प्रकाश एवाभ्युपगतस्तथा चात्र कथं
शब्दरूपता, तथात्वे हि तत्प्रकाशतैव न कथञ्चन सिध्यति इति
कैवोक्तिर्वाग्रूपतां विनेत्यादि । न, चिद्रूपस्य यच्चिद्रूपत्वं तदेव
वाग्रूपतेति यतस्तन्मतमित्याह प्रत्यवमर्शनमेवेति ।
२ नन्वस्त्वेतादृग्लक्षणं शब्दब्रह्मानाद्यन्तं पूर्णम्,
तथापि कस्य बन्धः कस्य मोक्षः, तदर्थमेव व्यवहारप्रवृत्तिरिति
तावद्भोक्तारं बन्धमोक्षाधिकारिणमविद्योपरागात् स्वतःस्वच्छं
समर्थयति स एवेति ।
३ भोग्यं प्रति प्रवर्तते ।
४ ज्ञेयेदन्ताविषयम् ।
५ भोक्तृरूपत्वेन तस्यावस्थितिस्तेनावस्थैव तावज्जीवता सिद्धा ।
६ तस्य भोक्तुः ।
७ अवस्थाया अवस्थातुरव्यतिरिक्तत्वाद्भोग्यरूपावस्थानिवृत्तौ
पुनरपि केवलमवस्थातैवावशिष्यत इत्याह ।
८ अत्र परा काष्ठा इत्यावृत्तिपक्षेण योजनीयम् । तथाच यावत्परा
काष्ठा प्राप्ता, तावदेवानन्तकं पश्यन्तीमयमेव सर्वं विश्वं
पश्यति । यावदित्यवधारणे, ततः परा काष्ठा पश्यन्त्येव
भवतीत्यर्थः ।
प्। ४१)
अभ्यासप्रकर्षात्तथा काष्ठा[१ ] प्राप्ता सा पश्यन्त्येव भवति,
यथा अनन्तं सर्वमेव विश्वं पश्यति येन दर्शनक्रियार्थोऽस्याः
पूर्यते ॥
तदैवाविद्योपशमात् परमार्थोऽसावित्याह[२ ]
अक्षादिवृत्तिभिर्हीनं[३ ] देशकालादिशून्यकम् ॥ ४ ॥
सर्वतःक्रमसंहारमात्रमाकारवर्जितम्[४ ] ।
ब्रह्मतत्त्वं परा काष्ठा परमार्थस्तदेव[५ ] सः ॥ ५ ॥
तदार्थप्रकाशनव्यापार इन्द्रियाद्यालोचनाद्युपायोपयोगो नास्ति
देशकाल[६ ]जात्यवच्छेदश्च, अत एव सर्वतो देशात् कालाच्च यः
क्रमस्तदुपदेशमात्रं ब्रह्मतत्त्वं क्रमस्यैव[७ ] संसाररूपत्वात्,
अतश्च सर्वग्राह्यग्राहकाकारवर्जितम्, ततः परतरस्या[८ ]भावात्
पराकाष्ठा, प्राप्तं तत् स एव च परमार्थः पश्यन्तीरूपः ॥ ५ ॥
स एवच पुनरेवं भवतीत्याह
आस्ते विज्ञानरूपत्वे स शब्दोऽर्थविवक्षया ।
मध्यमा कथ्यते सैव बिन्दुनादमरुत्क्रमात् ॥ ६ ॥
१ भोग्यप्रवृत्तिरहिता च ।
२ अविद्यालक्षणं तदवस्थारूपं भोक्तृतालक्षणं
संसारिणं जीवमुपपाद्य तदनुषङ्गेण च शुद्धमपि
परमात्मलक्षणं सर्वज्ञमुपपाद्य परमुपेय इत्याह
परमार्थोऽसावित्यादि ।
३ सर्वतोऽवच्छेदविरहात् ।
४ ग्राह्यग्राहकाकारेण, नियतस्वरूपत्वस्यादिना गृहीतत्वात् ।
५ एवकारो भिन्नक्रमः स इत्यनन्तरं योज्यः ।
६ देशकालादयः शून्याः अत्रेति देशकालादिशून्यकं तेषामपि
तदनतिरिक्तवृत्तिकत्वादत एव वृत्तौ देशकालजात्यवच्छेदश्चेत्युक्तम् ।
७ क्रम एव संसारस्तेन तदात्मत्वेऽपि क्रमाभावात्तच्छून्यत्वम्
।
८ अन्यस्याधिकस्य ।
प्। ४२)
स एव पश्यन्तीरूपः[१ ] शब्दोऽर्थप्रतिपादनेच्छारूपया
विवक्षया उपलक्षिते मनोविज्ञानरूपत्वे[२ ] आस्ते[३ ] । सैव च मध्यमा वाक्
कथ्यते क्रमेण[४ ] बिन्दुनादसञ्ज्ञप्राणापानवायूल्लासात्
प्राणापानान्तरे नित्यमेका[५ ] सर्वस्य तिष्ठति । इति ॥ ६ ॥
पुनरप्येवमास्त इत्याह
सम्प्राप्ता वक्त्रकुहरं कण्ठादिस्थानभागशः[६ ] ।
वैखरी कथ्यते सैव बहिर्वासनया क्रमात् ॥ ७ ॥
घटादिरूपैर्व्यावृत्ता गृह्यते चक्षुरादिना ।
अत्रापि बिन्दुनादमरुत्क्रमात् सा पश्यन्ती सम्प्राप्ता
वक्त्रकुहरमिति योज्यम् । तदुक्तं
प्राणोवर्णानभिव्यज्य वर्णेष्वेव प्रलीयते । वाक्यप। १।११६
१ अथेदानीमादौ पारमार्थिकं पश्यन्तीस्वरूपमुक्त्वा,
तदनन्तरं जीवपरमात्मपरस्थितीर्निगमय्य, पुनस्तत्प्रसरक्रमेण
व्यावहारिकीं संसारस्थितिं प्राह येनायं ग्राह्यग्राहकाडम्बरो
विवर्तमान आस्ते इति स एवेत्याशङ्कापूर्वकम् ।
२ मनोविज्ञानरूपत्व इत्यनेन पश्यन्तीरूपस्य शब्दस्य
यैवार्थप्रतिपादनेच्छा विवक्षारूपा, तदेव मनोविज्ञानरूपत्वम्,
स एव पश्यन्त्यामभेदस्थितौ सत्यामपि क्रमोल्लासः,
सैवान्तःसञ्जल्परूपा मध्यमेति सूचितम् ।
३ स्थितिं भजते ।
४ तेन प्राणापानवायूल्लास एव क्रमाभास इत्यर्थः ।
५ पश्यन्तीरूपा सुषुम्णा ।
६ अष्टौ स्थानानि वर्णानासुरः कण्ठः शिरस्तथा ।
जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च ॥
प्। ४३)
इति ततो वक्त्रोदरं प्राप्ता कण्ठादिस्थानभागेषु
विभक्तककारादिवर्णरूपा वैखरी वर्ण्यते
स्थानेषु विवृते वायौ कृतवर्णपरिग्रहा ।
वैखरी वाक्प्रयोक्तॄणां प्राणवृत्तिनिबन्धना ॥
इति । परतोऽपि बाह्यार्थवासनया अविद्यारूपया क्रमेण
घटपटाद्याकारैर्विवृत्ता सैव वाक् चक्षुरादीनां
ग्राह्यभावमापद्यते ॥ ७ ॥
तथा ते प्राहुरित्याह
यस्मात्तैरुच्यते सद्भिरेवं वस्तुप्रवृत्तये ॥ ८ ॥
अनादिनिधनं ब्रह्म शब्दतत्त्वं[१ ] यदक्षरम् ।
१ शब्दोपग्राह्यतया शब्दोपग्राहितया च शब्दतत्त्वम्, तथाहि
सर्वप्रत्यय उपजायमानो नानुल्लिखितशब्दक उपजायते,
तदुल्लेखविरहिणोऽनासादितप्रकाशस्वभावस्य निर्विषयत्वात्,
इदमीदृशमित्यादिपरामर्शः मुषितवपुषि वेदने वेदनात्मकतैव न
भवेत्, अतः शब्दोन्मेषप्रभावप्राप्तप्रकाशस्वभावत्वात्
सर्वप्रत्ययानां शब्दानुविद्धबोधकत्वमिति सर्वं शब्दतत्त्वमिति
निश्चयः । ततश्च शब्दतत्त्वमेवार्थभावेन विवर्तते, तथाहि
शब्दाख्यविशेषानुवेधवन्ध्यबोधविशेषाननुभवात् सर्वं
निर्विकल्पकं सविकल्पकं वा ज्ञानं शब्दविशिष्टमर्थं भासयति ।
गौः शुक्लो गच्छति, - इति जातिगुणक्रियावच्छिन्नविषयावभासिन प्रत्यये
शब्दविशिष्ट एवार्थः परिस्फुरतीति । सब्दाख्यविशेषानुरक्तस्य तस्य
विशेष्यस्य स्व पं पृष्टः शब्दमेव शर्यति ।
शब्दापरित्यागलब्धप्रकाशस्वरूपयैवानुभूत्यानुभवामीति सोऽपि
विशेष्यः शब्दस्वरूप एवेति । तदेवं शब्द एवार्थोपारूढः
प्रतिभातीति व्यवतिष्ठते । इत्थं यदुपारूढः शब्दः प्रकाशते, तस्य
पृथक् प्रदर्शयितुमनुभवितुं चाशक्यत्वाच्छब्द एव तथा तथा
प्रतिभाति - इति शब्दविवर्त एवायमर्थो नान्यः कश्चिदिति । अतश्च
शब्दब्रह्मेदमेकमविद्योपाधिदर्शितविचित्रभेदमविद्योपरमे
यथावस्थितस्वरूपं प्रकाशत इति स्थितम् ।
प्। ४४)
विवर्ततेऽर्थभावेन[१ ] प्रक्रिया जगतो यतः ॥ ९ ॥
न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते ।
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ १० ॥
अविभागा[२ ] तु पश्यन्ती सर्वतः संहृतक्रमा ।
इत्यादिवाक्यरचनैस्तैरेवं प्रतिपादितम् ॥ ११ ॥
यस्मात्तैर्वैयाकरणैः सद्भिः साधुभिर्मुग्धैरेवमुक्तरूपं
प्रतिपादितं पश्यन्तीरूपं शब्दतत्त्वमक्षरमनाद्यन्तं ब्रह्म
विश्वार्थभावेन विवर्तते तदसत्यरूपमात्मन्युपगच्छति[३ ],
असत्यविभक्तान्यरूपोपग्राहिता विवर्तस्तस्यास्तत् विवर्तते, यतो विवर्तनात्
प्रक्रिया भावभूतभुवनादिविन्यासवैचित्र्यमिति । तथा न स
घटपटादिप्रत्ययो लोकव्यवहारेऽस्ति, यो वाचकशब्दानुगमवर्जितः ।
वाग्रूपतां विना न ब्रह्मतत्त्वप्रकाशोऽपि प्रकाशेत, सा हि
प्रत्यवमर्शिनी । इति । तथैवम्भूते पश्यन्तीरूपे शब्दाख्ये[४ ] ब्रह्मणि
यो निष्णातस्तेन[५ ] परं ब्रह्माधिगतं
१
सब्दब्रह्मैवेदमनाद्यविद्यावासनोपप्लवमानभेदमर्थभा
वेन विवर्तते, नतु वाचकादपि विभक्तं वाच्यमपि नाम किञ्चिदस्ति,
काल्पनिक एव वाच्यवाचकविभागोऽयमविद्यैव विद्योपाय इत्याश्रीयते,
वाग्रूपता तु तत्त्वं सर्वत्र प्रत्यये तदनपायात् ।
२ अविभागा तु पश्यन्ती सर्वतः संहृतक्रमा ।
स्वरूपज्योतिरेवान्तः सूक्ष्मा वागनपायिनी ॥
केवलं बुद्ध्युपादाना क्रमरूपानुपातिनी ।
प्राणवृत्तिमतिक्रम्य मध्यमा वाक्प्रवर्तते ॥
इति ।
३ अङ्गीकरोति ।
४ शब्दाख्ये शब्दस्वरूपे ब्रह्मणि
निष्णातोऽभ्यासप्रकर्षात्परधारारूढस्तेन परं ब्रह्माधिगतं
स्वतोऽवगतं भवति, न शब्दब्रह्मपरब्रह्मणोर्भेद इत्यर्थः ।
यथोक्तं
द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् ।
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥
इति ।
५ कृताभ्यासः ।
प्। ४५)
भवतीति । तथा तच्च पश्यन्तीरूपं
ग्राह्यग्राहकविभागक्रमरहितम्, अविभागा तु पश्यन्ती
देशकालक्रमसंहारवती चेति आदिग्रहणात्
प्राक्प्रदर्शितमध्यमावैखर्या[१ ]दिवाक्यैरुक्तमिति ॥ ११ ॥
तदिदानीं विचार्यत इत्याह
तद्विचाराय[२ ] राधान्तः[३ ] सम्प्रत्येष विधीयते ।
वैयाकरणोक्तविचारार्थं सिद्धान्तो वक्ष्यमाणो युक्तियुक्तत्वात्[४ ]
यः, स परिनिष्ठां[५ ] प्राप्यते ॥
तथाचेत्याह
आदौ[६ ] तावदिन्द्रियत्वे स्थिता वाक्कर्मसञ्ज्ञिते ॥ १२ ॥
१ विखरः शरीरस्तत्र वर्तमाना ।
२ एवं स्वसिद्धान्तस्थापनार्थं
शब्दाद्वैतब्रह्मवादिमतमुपन्यस्तम्, तत्र तु प्रथममेव
तदनुपपत्तिः सूचिता अथास्माकम् इत्यादिना । अधुना तत्तादृशमपि न
युक्तियुक्तमित्येतदर्थमारम्भः ।
३ राधान्तः पूर्वप्रसिद्ध एव, नतु स्वबुद्धिकौशलेनापूर्वतया
कल्पित इत्यर्थः । यदि च स सिद्धान्तः स्वयमेव, तर्हि
तत्राक्षेप्तव्यनिराकर्तव्यायोगात्कृतमनेनेत्यत आह विधीयत इति ।
पूर्वसिद्ध एव वादि विप्रतिप्रत्त्यासिद्धकल्पः तन्निरसनेन परिस्थाप्यत
इत्यर्थः ।
४ युक्तियुक्तत्वमेव सिद्धान्तत्वम् ।
५ परिनिष्ठां पर्यन्ततः स्थितिम् ।
६ इत्यमत्र सम्बन्धः - तस्यात्मनो ब्रह्मणो वा आत्मतात्मनो
भावः स्वभावः, तथा ब्रह्मता तत्स्वभावो वक्तुं न शक्या । अत्र
हेतुरतिस्थूलकर्मेन्द्रियरूपत्वात्तस्याः । तत्र यद्वाचस्त्रैविध्यं
तैरुक्तम्, तदननुमत्यैकत्वमेव वैखरीरूपमाश्रित्य प्रत्याचष्टे
आदौ तावदित्यादिना । तथाहि एकैव वैखरी वाक् वागिति लोके प्रसिद्धा,
अन्यत्र ह्यन्ययोर्द्वयोरपि निरसनमुक्तम् ।
प्। ४६)
तस्यात्मता ब्रह्मता वा वक्तुं शक्या न साधुभिः ।
प्रथमं तावद्वाचोयुक्तिरेवैषा[१ ] विरुद्धा । तथाहि वाक् स्थिता
अतिस्थूलकर्मेन्द्रियत्वे, बुद्धीन्द्रियस्य बोधोपयोगोऽपि भवेत्, तस्य
पर्यन्तवर्तिन आत्मनो ब्रह्मतत्त्वस्य वा सम्बन्धी स्वभावो भवेत्,
तस्मात् तैः पूर्ववत्साधुभिस्तद्रूपत्वं वक्तुमेव न शक्यम् ॥ १२ ॥
तस्या[२ ] अविद्यायां स्थितत्वात् पाणिपादादिव्यावृत्त्या
परमार्थत्वं न युज्यत इत्याह
इन्द्रियत्वेऽपि सामान्ये पाण्यादेर्ब्रह्मता न किम् ॥ १३ ॥
तत्र चेत्सूक्ष्मकलना सर्वत्र कलनाग्रतः ।
वाचः सूक्ष्मपश्यन्तीरूपतया ब्रह्मता अस्ति, तेनैषोक्ता इति चेत्,
सा सत्यरूपता सर्वत्र पाण्यादौ[४ ] घटादावपि चाग्रे कलयिष्यते १३
अन्तः सञ्जल्पो वर्ण्यते मध्यमा वाक्
सेयं बुद्ध्यात्मा नैष वाचः प्रभेदः ।
बुद्धिर्वाच्यं वा वाचकं वोल्लिखन्ती
रूपं नात्मीयं बोधभावं जहाति ॥
तथा पश्यन्तीति तु निर्विकल्पकमतेर्नामान्तरं कल्पितं
विज्ञानस्य हि न प्रकाशवपुषो वाग्रूपता शाश्वती ।
इति ।
१ ब्रह्मत्वनिरूपणात्मिका ।
२ तस्या वाचः । अयमत्र भावः - यदि वाचः
पाण्यादिसामान्यत्वेन वर्तमानाया ब्रह्मता, तदा तत्र
किमाधिक्येनान्यत्र कथं नेति, यदि तद्व्यावृत्त्या विशेषरूपत्वेन,
तदपि नेत्याह परमार्थत्वं न युज्यत इति ।
३ ततश्चात्मता ब्रह्मता वा ।
४ ततश्चैतदुक्तं भवति - किमिति तत्रैव ब्रह्मता, न पाण्यादौ,
नापि घटादौ । साहि सत्यता सर्वत्रास्तीत्यतः किमत्रैव हेतुरित्यर्थः ।
प्। ४७)
अथ[१ ] वाग्व्यपदेशेऽपि ध्यानावस्थायां
हृत्कण्ठतालुभ्रूमध्यादिस्थानान्तराक्रमणात् तस्या उत्कर्षो, नतु
पाण्यादेरेवमस्तीत्याह
अन्तः क्रमो हृदादेश्चेत्प्राणादेः किं न सत्यता ॥ १४ ॥
सर्वस्यान्तःपरामर्शपूर्णतास्ति प्रवर्तने ।
प्राणापानसमानोदानादेरपि हृदाद्याक्रमणात्सत्यता स्यात् ।
सर्वस्य चार्थस्य प्रवृत्तिकालेऽन्तः परामर्शोऽस्ति । नहि
पश्यन्त्यभिमतावस्थायां शब्दस्येव शब्दार्थस्यापि[२ ] न
परामर्शः केवलमभेदेनेति सर्वं तथा स्यात् ॥ १४ ॥
अथ[३ ] वाचः सिद्धिप्रदत्वादिनोत्कर्ष इत्याह
अत्रोपासनया सिद्धिर्देवतायोगितेति चेत् ॥ १५ ॥
योगशास्त्रेषु सर्वेषां देवतासिद्धियोगिता ।
ये वै वाचमुपासते, तेषां तद्विदां सिद्धिरुक्ता, वागीश्वरी
चाधिष्ठातृदेवता तत्रास्तीति सा सत्या, - इत्येतदपि न, योगशास्त्रादिषु
अधिष्ठातृदेवताः, करणानां महाभूतानां च धारणावशात्
सिद्धयोऽपि । ततस्तत्रापि प्रसङ्गः ॥ १५ ॥
१ कर्मेन्द्रियसमानत्वेऽपि चास्याः शक्तित्वादीदृक्त्वम्,
पाण्यादेस्तदभावान्नेदृक्त्वमित्याशयेनाह ।
२ यथा तत्र शब्दस्य परामर्शोऽस्त्येव, न नास्तीति, तथा
शब्दार्थस्याप्यस्त्येवेत्यर्थः ।
३ पुनरपि कर्मेन्द्रियसाम्यतायामपि वाच एव
एवंविधत्वादुत्कर्षः, न पाण्यादेरिति तथात्वमस्याः, न
परस्येत्याशङ्कापूर्वकं प्रत्याचष्टे ।
प्। ४८)
१तेनैतन्मन्तव्य[२ ]मित्याह
तस्माद्धिरण्यगर्भादियोगसाङ्ख्येतिहासताम् ॥ १६ ॥
विहाय शास्त्र[३ ]रचना जातुचिन्न विराजते ।
पाण्यादीन्द्रियवन्नैतद्ब्रह्म वागिन्द्रियं भवेत् ॥ १७ ॥
तस्माद्ब्रह्मादिप्रणीतयोगशास्त्रसाङ्ख्यानामितिहासरूपम्,
तदुक्तमर्थं प्रपञ्चयत् शास्त्रं[४ ] कार्यम्, तदितिहासात्मतां
विहाय स्वमनीषिकया शास्त्ररचना न शोभते । एवं[५ ] च यथा
पाण्यादीन्द्रियमनादिशास्त्रसिद्धत्वान्न ब्रह्मरूपेण युक्तं
विरच्यते[६ ], अपितु तदनुसारेणैव, तथा वागपि[७ ] ॥ १७ ॥
साङ्ख्यादेरपि[८ ] कथमनादित्वमित्याह
अथोच्यते प्रकिर्यासौ साङ्ख्यादिरचिता न सा ।
तत्त्वोन्मेषप्रसरणे भवेत्सम्बन्धभागिनी ॥ १८ ॥
१ सत्यतापत्तिः ।
२ यतो भवन्मते तिलशोऽपि युक्तिसाधिते न
कथञ्चनोपपत्तिरुपलभ्यते,
तस्माद्भवद्भिरेतदस्मत्कथनमादर्तव्यमित्यर्थः ।
३ नवप्रपञ्चरूपा ।
४ तेन तस्यैव तदुक्तस्य विविच्य सविस्तरं कथनं शास्त्रमित्यर्थः
।
५ ततोऽपि किमित्याह एवं चेति ।
६ नवीनैस्तयेन्द्रियत्वेन कथितत्वात् ।
७ वागपि ब्रह्मरूपतया न विरचनीयेत्यर्थः ।
८ ननु चास्तु ब्रह्मप्रणीतत्वाद्वेदस्य प्रामाण्यम्, तत्र च
वाग्ब्रह्मेत्यपि कथितं ततश्च कथमत्र विरोधः, साङ्ख्यादेः पुनः
कपिलादिप्रणीतत्वादस्मदीयशास्त्रवदादिमत्त्वमेव, कथं तदुक्तं
प्रामाण्यं भजेत्, तत्र हि सर्वत्र वाच इन्द्रियत्वमेव
समर्थितमित्याशङ्कां गर्भीकृत्याह साङ्ख्यादेरपीति ।
प्। ४९)
विमर्शा[१ ]नुभवेनैषा यथा वाक् प्रथमं श्रिता ।
लक्ष्यते बोधरूपेण न तथा चरणादिकम् ॥ १९ ॥
इति चेच्चर्यतां तावत्पश्यन्ती युज्यते यथा ।
साङ्ख्यादिसिद्धान्तेषु रचना वाक्कर्मेन्द्रियमिति
प्रणेतृसम्बन्धिकल्पनामात्रमेतत्, नतु
परमार्थसंवित्पर्यालोचनस्पर्शोऽस्ति । न च प्रक्रिया
परमार्थविचारेषु सम्बद्धतां याति । तथा हि सर्वेऽर्थाः संविदि
प्रतिष्ठामुपयान्ति, असंविदिता असन्त एव । संविच्च विमर्शशून्या
संविदेव न भवति । ततश्च समस्ततत्त्वसारस्वरूपोऽयं
विमर्शोऽनुभूयमानोऽभिलापमय एवेति वाचा सह का स्पर्धा
पाण्यादीनाम् । बोधमयो हि अर्थसत्ताप्रारम्भः, बोधश्च
विमर्शात्मा प्रथमं वाचैवानुविद्धो, नतु पाणिपादादिना इति चेत्,
तदेवमपि[२ ] बोधो विमर्शात्मा वाङ्मय एवेति । आस्तामन्यदेतत्[३ ],
पश्यन्ती तावत् स्वरूपाभिधानाभ्यां विचार्यतां यथा पश्यन्ती
भवति पश्यन्तीत्वेन युक्तैवेत्यर्थः ॥ १९ ॥
स्वरूपमभिधानं च तस्याश्चर्चयितुमाह
वर्तमानसमारूढा क्रिया पश्यन्त्युदाहृता ॥ २० ॥
दृशिः सकर्मको धातुः किं पश्यन्तीति कथ्यताम् ।
१ यद्यपि शास्त्रतो गुरुतः स्वत इत्यस्ति त्रिधा नियमस्तथापि स्वत
इत्यस्य तयोरुपायभूतत्वात् तथेह तस्यैव प्रधानभूतत्वात् तेनैव
कथनीयमित्याह विमर्शानुभवेत्यादि ।
२ ननु तथापि बोध एव
संवित्परमार्थोऽर्थसत्ताप्रारम्भरूपत्वादस्यालमनेन
वागात्मनेति तत्राह तदेवमिति ।
३ अन्यदशान्तरमित्यर्थः ।
प्। ५०)
वर्तमानकालारुढा दर्शनक्रिया हि वागात्मक[१ ]कर्तृनिष्ठा
पश्यन्तीशब्दस्यार्थः । दृशिश्च धातुः सकर्मकः[२ ] सकर्मकक्रिय इति
दृश्यमत्रकर्म निरूपणीयम् ॥ २० ॥
तदेव[३ ] पर्यालोचयन्नाह
यद्याभासान्बहिर्[४ ]भूतांस्तत्सतोऽप्यसतोऽपि वा ॥ २१ ॥
सत्यत्वे दर्शन[५ ]भ्रंशो ह्यसत्ये सत्यता कथम् ।
यद्याभासान् घटपटादिरूपान् इदन्तया पश्यति, तत् तेषां
सत्यासत्यताविचारे सत्यता तावदसत्यविभक्तान्यरूपोपग्राहितात्मकं
विवर्तमिच्छद्भिः दर्शनभ्रंशभयान्न वाच्या, असत्ये पुनर्दृश्ये
नासत्यार्थदर्शित्वे पश्यन्त्याः सत्यतायोगः ॥ २१ ॥
अविद्यावादोऽपि न युक्त इत्याह
गृह्णात्यथाविद्यया वा साप्यस्याः कथमास्थिता ॥ २२ ॥
सत्या ह्यसावसत्या वा सत्यत्वे दर्शनक्षतिः ।
असत्ययापि सत्यस्य सम्बन्धोऽतीव दुर्घटः ॥ २३ ॥
अनाद्यविद्यावशादपि असत्यदर्शने मिथ्यात्वं तावदस्याः
स्थितम्, अविद्ययापि च सम्बन्धो न तस्या घटते, अविद्या हि
अविद्यात्वाभ्युपगमादेवासत्या, नचासत्यया सम्बन्धो
रूपश्लेषमयो युक्तः ॥ २३ ॥
१ क्रियायाः कर्तृरूढिता सिद्धैवान्यथास्वभावकथने
तद्वतोऽनुद्देशो दोषावह इति समर्थयति वागात्मकेति ।
२ तदेवमत्र कर्तृ क्रिया कर्मेति त्रिधा वस्त्ववस्थितमिति ।
३ किं कर्मेति ।
४ विवर्तरूपतया बहिरिष्टान् ।
५ स्वमतप्रच्युतिः ।
प्। ५१)
नच पश्यन्त्यप्यसत्या युक्तेत्याह
असत्या यदि पश्यन्ती पश्यन्ती ब्रह्म चित्रता ।
पश्यन्ती यद्यसत्या, तत् पश्यन्ती
ब्रह्मतत्त्वमित्याश्चर्यरूपतास्यार्थस्य ॥
अन्यच्चाह
बहिर्भावान्विसृज्यादौ पश्चात्[१ ]पश्यति साथ किम् ॥ २४ ॥
सत्या सृजत्यसत्यानि विचित्रमभिधीयते ।
किं तत्त्वान्तराभावाद्विश्वे भावाः पश्यन्त्यैव स्रष्टव्याः,
तांश्च सृष्ट्वा लब्धस्वरूपान् सा पश्चात्पश्यति, एतदेव हि युक्तम्[२ ] ।
तत्र सा सत्या सती असत्यानि रूपाणि सृजतीत्येतत् तु असम्भवादाश्चर्यं
सत्कार्यवादोपपत्तेः[३ ] कारणस्य कार्यव्यतिरेकेणासत्यताप्राप्तेः,
असत्यसर्गेऽप्यसमञ्जसकारित्वेन मालिन्यप्रसङ्गात् ॥ २४ ॥
न च क्रीडार्था वान्यथा वा सृष्टिरित्याह
ज्ञातान्सृजत्यसौ तान्वा नेति ज्ञातेष्वदर्शनम् ॥ २५ ॥
अज्ञातेषु न सृष्टिः स्यादिष्टं क्रीडादिकं नच ।
सृष्टिश्च ज्ञातपूर्वाणामुताज्ञातानाम् । तत्र[४ ] सृष्टेः
पूर्वमलब्धस्वरूपत्वे कस्य दर्शनम्, अतोऽपरिदृष्टानेव सृजेत्, तत्
ज्ञातेषु सृष्टिरिति पक्षो नोपपन्नः । अथवा अज्ञातेषु सृष्टिरिति न
भवतां दर्शनं नाभ्युपगम इत्यर्थः । अज्ञातेष्वपि
बुद्धिमतामबुद्धिपूर्वा कथं सृष्टिः । निष्प्रयोजना च कथं स्यात्
सृष्टिः क्रीडैव स्रष्टुः सृष्टिः सृष्टिस्वभावत्वं वेति हि भवतां
नेष्टम् ॥ २५ ॥
१ पश्चात् - सृष्टिसमनन्तरम् ।
२ किमित्यनेन सम्बन्धः ।
३ असतः कारणत्वे सर्वस्मात्सर्वोत्पत्तिप्रसङ्गः ।
४ पक्षद्वयमध्ये ।
प्। ५२)
पुनर्विकल्पयन्नाह
तानि दृष्ट्वा[१ ]नुसृजति सृष्ट्वा वानुप्रपश्यति ॥ २६ ॥
पश्यन्त्याः[२ ] सत्यरूपायास्तत्सत्यत्वे न दर्शनम्[३ ] ।
असत्ये सत्यदृष्ट्यैव पश्यन्त्यां मलिनात्मता ॥ २७ ॥
असत्यान्सत्यरूपान्वा कथं सृजति कल्प्यताम्[४ ] ।
तानि तानि वस्तूनि दृष्ट्वा ज्ञात्वा वा सृजति, सृष्ट्वा वा प्रपश्यति
इत्येतद्यथास्तु[५ ], अनुशब्दोऽत्र[६ ] पश्चादर्थः नुशब्दो वा वितर्के ।
पश्यन्तीत्वमेव न युक्तम् । तथाहि सत्यरूपा सा, तद्दृश्यानां च
सत्यत्वे न दर्शनं नाभ्युपगमो द्वैतप्रसङ्गात् । अथ
तेषामसत्यत्वम्, ततो यथैव सत्यसर्गे मलिनता, तद्वदसत्यसृष्टौ
मुख्यैव भ्रान्तिरूपता । पुनरपिच असत्यानर्थान् सत्यान्[७ ] वा पश्यन्ती
क्रीडाद्यभावेऽपि केन प्रयोजनप्रकारेण सृजतीति विमृश्यताम् ॥ २७ ॥
१ दृष्ट्वा अवबुद्ध्य ।
२ उभयमपि मिथ्यात्वेन कथयति ।
३ भवदभिमतशासनम् ।
४ समर्थ्यताम् ।
५ स्वरूपेण स्थीयताम् । ज्ञातान्सृजत्यसौ तान्वा इति पूर्वमेव
तन्निरसनप्रकारस्योक्तत्वात् ।
६ अनुशब्दोऽत्रेति तानि तान्यादौ ज्ञात्वा स्वविमर्शेनाकलय्यानु
पश्चात् सृजतीत्यर्थः । ननु च अत्रासवं पीत्वा गायति इत्यादौ यथादौ
तत्पानम्, ततश्च गानं पूर्वकालद्योतकत्वात् क्त्वान्तत्वेनैव प्रतीयते,
न तत्र पश्चाच्छब्दादिनोपयोगः, ततश्च किमर्थमनुशब्दप्रयोग
इत्याशङ्क्याह नुशब्दो वा । वा शब्दः पक्षान्तरे । नुशब्दो वितर्के,
उभयकोट्यवलम्बी वितर्कः ।
७ ततश्च न भ्रान्तिरूपता ।
प्। ५३)
असत्यसत्यसर्गदर्शने प्रागुक्तेऽप्यविद्यापर्याप्तपर्यालोचना
प्रसङ्गदानाय पुनर्विकल्पिते प्रयोजनं विनैवाविद्याकृतः सर्ग[१ ] इति
पर्यालोचयन्नाह[२ ]
अविद्यास्याः स्वधर्मः[३ ] किं परधर्मोऽथवा भवेत् ॥ २८ ॥
स्वधर्मत्वेऽस्या मालिन्यं परधर्मेऽपि कस्य सा[५ ] ।
परस्य शास्त्रा[६ ]निष्टस्य स्वतन्त्रा वा तथापि सा ॥ २९ ॥
स्वातन्त्र्याद्दुर्निवारैव स्वतन्त्रः[७ ] केन वार्यते ।
अविद्या किं पश्यन्त्याः स्वधर्मः, उत परधर्मः ? स्वधर्मत्वे
तस्या अविद्यास्वभावत्वे मालिन्यं स्यात्, परधर्मत्वे वा कस्य
परस्यासौ धर्मः । नह्य[८ ]द्वयवादे ब्रह्मणः कश्चिदर्थः परोऽस्तीति
शास्त्रेऽभीष्टः । अथाविद्या स्वतन्त्रैव, नतु कस्यचिद्धर्मभूता,
तथापि सा दुरुच्छेदैव स्वातन्त्र्याद्धेतोः स्यात् । स्वतन्त्रो हि केनान्येन
निवार्यते, केन वा प्रवर्त्यते, तथाहि स्वतन्त्र एव न स्यात् । अतः प्रवृत्तौ
स्वतन्त्रा निवृत्तिः पुनरस्याः परकार्यापि स्यात्,
तन्निवृत्तिकारणाभावमुखप्रेक्षिप्रवृत्तिकत्वेनास्वातन्त्र्यापत्तेः ॥ २९ ॥
१ एतदेव ह्यविद्याया अविद्यात्वम्, यदनपेक्ष्यैव प्रयोजनं
सृष्टिः ।
२ विवेचयन् ।
३ धर्मः स्वभावः, स्वभावश्च स्वभविनोऽव्यतिरिक्तः ।
४ अस्याः पश्यन्त्याः ।
५ सा अविद्या ।
६ पक्षद्वययोरनुपपत्त्याह - परश्च तस्या नाम न कश्चिदित्याह
शास्त्रानिष्टस्येति, शास्त्रानिष्टस्य - शास्त्रेऽनभिहितस्येत्यर्थः ।
७ एतदेव हि स्वतन्त्रस्य स्वातन्त्र्यं नाम, यदन्येनानिराकरणम् ।
८ अस्तु परो नाम , तथापि किमित्यत आह निहीति ।
प्। ५४)
अवाच्यत्वमविद्याया[१ ] विमृशन्नाह
तत्वा[२ ]न्यत्वैरवा[३ ]च्या वा यद्यविद्याभिधीयते ॥ ३० ॥
पश्यन्त्या लक्षितासौ वा नवा यदि न लक्षिता ।
पश्यन्ती जाड्यमायाति[४ ] लक्षिता तर्हि लक्षिता ॥ ३१ ॥
वस्तूनि हि तत्त्वान्यत्त्वनित्यत्वानित्यत्वादिभिर्वस्तुधर्मैर्वाच्यानि ।
अवस्तु पुनरविद्या निःस्वभावा कथं स्वभाववत्तया व्यपदेशार्हा
स्यादिति चेत्, तदवस्तुभूता सा पश्यन्त्या दृष्टा नवा । यदि न दृष्टा,
तर्हि पश्यन्ती जाड्यमायाति सर्वदर्शनाभावादपश्यन्ती
स्यादित्यर्थः । अथ तया दृष्टा, तत् दृष्टैव उपलक्षितैव अपरविवेकेनैव
प्रतिभातत्वात् तदनुसारितया वाच्यापि भवेदिति यावत् । तत्त्वान्यत्वैरिति
बहुवचनं शोण्डार्धर्चादिन्यायेन[५ ] ॥ ३१ ॥
१ ननु अत एवेयमविद्या सत्त्वासत्त्वतदन्यत्वादिनानिर्वचनीयेति
कथ्यते । यद्येतादृग्विचारयोग्या स्यात्, तदा केनानिर्वाच्यत्वं
स्यादयोग्यत्वे त्वनिर्वाच्यता सिद्धेत्यपि समर्थयति ।
२ अविद्या हीयमवस्तुरूपा माया
मिथ्यावभासस्वभावाभिधीयते तत्त्वाग्रहणं यतोऽविद्या,
अग्रहणं च नाम कथं वस्तुधर्मैर्विकल्प्येत तदेतदाह
तत्त्वान्यत्वैरिति । अत्राश्रयगतं बहुत्वमपेक्ष्य बहुवचनं
ततस्तत्त्वान्यत्वाभ्यां नित्यत्वानित्यत्वव्यापकत्वाव्यापकत्वपरिग्रह
इत्यर्थः ।
३ अवस्तुरूपत्वात् ।
४ स्वभावप्रच्युतत्वात् ।
५ सप्तमी शौण्डैः । अर्धचाः पुंसि च । इति पाणिनीये यथा
बहुत्वेनाश्रयगतं बहुत्वं लक्ष्यते यथा शौण्डादय अर्धर्चादय
इति च ।
प्। ५५)
अवाच्यत्वेनापि अव्यवहार्यता तस्याः स्यादित्याह
अवाच्यत्वेन भवतां तस्या रूपं गतम्[१ ] ।
अलक्षितस्वरूपाया अविद्यात्वं कथं स्थितम् ॥ ३२ ॥
अलक्षितत्वे[२ ] सति अवाच्यत्वेनापि तदीयं रूपं कुतः
प्रमाणाद्भवतामवगतं तस्याप्यलक्षितत्वात्, अलक्षितस्वरूपत्वे[३ ]
चावाच्यत्ववदविद्यात्वमपि कथं[४ ] व्यवस्थाप्येत ॥ ३२ ॥
अनुमानसिद्धतां[५ ] कल्पयन्नाह
भेदबुद्ध्य[६ ]नुमानाच्चेल्लक्षिता तर्हि लक्षिता ।
१ अत्र गतमित्यत्र बुध अवगमने इति ज्ञापकात् सर्वे गत्यर्था
ज्ञानार्थाः इत्यानुशासिकशासनेन
ज्ञानार्थतयामतिबुद्धीत्यादिना क्तप्रत्यये, भवतामिति कर्तरि षष्ठी
।
२ यद्धि भवद्भिर्विभीषिकयावाच्यत्वमिति तस्या गीयते, तदक्षितत्वे
कथम्, लक्षित एव तद्व्यपदेशोऽपि युक्तः ।
३ नामस्वरूपयोर्द्वयोरलक्षित्वे निरास इत्यर्थः ।
४ कथं केनानुभवप्रकारेणेत्यर्थः ।
५ ननु केनेदमुक्तं कुतः प्रमाणादिति, अस्ति हि प्रत्यक्षतो
बलवत्तरमनुमानं नाम प्रमाणं - तथाहि
नदीपूरभेदेनालक्षिताया अपि वृष्टेरनुमानं यथा, तथा
अक्रमेऽखण्डितशब्दात्मकज्योतिःस्वरूपे
भावभेदक्रमान्यथानुपपत्त्या भवितव्यमेवानुमानेनात्रापीति
समर्थयत्यनुमानासिद्धतामिति ॥
६ भेदज्ञनं हि कुतोऽविद्यां विना सम्बवेदिति ह्यविद्या
सम्भवत्येव ॥
प्। ५६)
भावभेदसिद्ध्यन्यथानुपपत्त्या तथात्वे[१ ]नाविद्या यदि लक्षिता
अनुमितेत्यर्थः । एवं तर्हि लक्षितैव, तत्किमित्यलक्षितत्वमुच्यतेऽस्या
अवाच्यत्वं वा ।
एवमपि[२ ] न सिद्धेत्याह
नचानुमानमिष्टं तेऽप्यवस्थेत्यादिदूषणात् ॥ ३३ ॥
नचापि भवतोऽनुमानं सम्यग्ज्ञानमिष्टम्
अवस्थादेशकालानां भेदाद्भिन्नासु शक्तिषु ।
भावानामनुमानेन प्रसिद्धिरतिदुर्लभा ॥ (वाक्य प। १।३२)
इति
हस्तस्पर्शादिवान्धेन विषमे पथि धावता ।
अनुमानप्रधानेन विनिपातो न दुर्लभः ॥ (१।४२)
इति चान्यच्च वदतः । नहि वस्तुव्यवस्थापने शक्ततायां प्रत्यक्षात्
न्यूनता तस्य स्यात्, अशक्ततायां तु अप्रमाण्यमेव ॥ ३३ ॥
१ तत्कारणतया ।
२ एवमनुमानकल्पनायामपि । ननु चास्तु तस्याः
कार्यावस्थायां लक्षितत्व यतो भावभेदानुपपत्त्यैव तत् कल्पितम्,
कारणावस्थायां च तस्यां अलक्षितत्वमेवेति सिद्धेऽपि तत्रालक्षितत्वे
पूर्वोक्तमेव दूषणम्, लक्षितत्वेऽवाच्यत्वहानिरिति,
यत्पुनरलक्षितलक्षितत्वं नामानुमानकल्पितम्, तत्र
अर्थवत्त्वं न चेज्जातं मुख्यैयस्य प्रयोजनैः ।
तस्यानुषङ्गिकेष्वाशा कुशकाशावलम्बनम् ॥
इति नयेनानुमानस्यैव भवन्मतेऽनुपपत्तिता, येनार्धजरतीयन्यायेन
लक्षितालक्षितत्वं सिद्ध्येदित्याह - एवमपीति ।
बहुकृत्वोऽपि वस्त्वात्मा तथेति परिनिश्चितः ।
देशकालादिभेदेन दृश्यते पुनरन्यथा ॥
तथा
ये तु प्रत्यक्षतो विश्वं पश्यन्ति हि भवादृशाः ।
किं दिव्यचक्षुषां तेषामनुमानप्रयोजनम् ॥
प्।५७)
सत्या वा स्यादसत्या वा न मध्यायाः[१ ] समन्वयः ।
विद्या[२ ] न भवतीत्येवं तत्तल्या काचिदापतेत् ॥ ३४ ॥
सत्यैव यदि विद्यानामभावस्तर्हि[३ ] शून्यता ।
शून्यया बाध्यते चित्रं पश्यन्ती दर्शनात्मिका ॥ ३५ ॥
सत्या सति सत्ये साधुः सती वा स्यादविद्या, असत्या तद्विपरीता
वेत्यर्थः । न मध्यायाः सम्भवः सदसतोः
परस्पराभावरूपत्वात् न तृतीयराशिसम्भवो यतः । तथाहि
इयमविद्या विद्या न भवति, - इत्येवं विद्यापर्युदासेन[४ ]
समस्तविश्वात्मतया प्रथमाना न प्रतिषेधमात्ररूपा, अतश्च
विद्यासदृशी काचिद्विश्वात्मिका स्यादविद्या सत्यैव, अतश्च
नानिर्वाच्यत्वम्, नाप्यद्वयम् । विद्यानां सम्यग्ज्ञानानामभावः
१ मध्याया इति - सदसदुभयात्मिकायाः
असत्त्वे च निषिद्धेऽस्याः सत्त्वमेव बलाद्भवेत् ।
सदसद्व्यतिरिक्तो हि राशिरत्यन्तदुर्लभः ॥
इति ।
२ सत्या वासत्या वा इति पक्षद्वयमाशङ्क्य निरस्यति विद्या
नेत्यादिना सत्यतापक्षम्, यदीत्यादिनासत्यतापक्षम् ।
३ प्रतिषेधपक्षमाश्रित्याह - तर्हीति ।
४ प्राधान्यं तु विधेर्यत्र प्रतिषेधेऽप्रधानता ।
पर्युदासः स विज्ञेयः क्रियया सह यत्र नञ् ॥
इति पर्युदासलक्षणम् । तथाचान्यत्र नञ्युक्तं यत्,
तदन्यस्मिंस्तत्सदृशे सङ्घटते यथा - अब्राह्मणमानयेति वाक्ये
ब्राह्मणसदृशस्तत्तुल्योदरपाणिपादनयन एवानीयते, नाश्वो न वा
गर्दभ इति ।
प्। ५८)
प्रसज्यप्रतिषेधोऽपि[१ ] यद्यविद्या, तत् सा शून्यता निवृत्तिमात्रं न
किञ्चिदिति यावत् । ततश्च शून्यया नीरूपया पश्यन्ती नाम
सम्यग्ज्ञानात्मकः पक्षो बाध्यते इति चित्रम् । सम्यग्दर्शनबाधेनैव
द्वैतभ्रान्तिः, अकिञ्चिद्रूपस्य बाधनशक्त्यभावान्न
सम्भवत्येतदित्यर्थः । पश्यन्ती च नेश्वरप्रत्यभिज्ञोक्तन्यायेन
शब्दनात्मिका परमेश्वरशक्तिरिष्यते
भवद्भिरीश्वरो[२ ]पगमप्रसङ्गात्, अपितु सूक्ष्मो वाच्याभेदेन स्थितो
वाचकः शब्द इत्येवं शब्दात्मासौ ॥ ३५ ॥
इन्द्रियत्वाभावेऽपि पाण्यादि[३ ] यथा पार्थिवत्वान्न परमार्थः
तथा वायवी वागपीत्याह
पाण्या[४ ]देश्चेद्धराद्यात्मा वाचो वाय्वात्मता न किम् ।
१ प्रतिषेधमात्रप्रधानः प्रसज्यप्रतिषेधः । तथाचोक्तं
अप्राधान्यं विधेर्यत्र प्रतिषेधे प्रधानता ।
प्रसज्यप्रतिषेधोऽसौ यत्रोत्तरपदेन नञ् ॥
इति । तथा - अश्राद्धभोजी ब्राह्मणः श्राद्धे न भुङ्क्ते इत्यर्थः ।
उक्तं च वृद्धैः
अभावे स्वल्पभावे च सादृश्ये च विपर्यये ।
कुत्सायामपि नञ् ज्ञेयो रिष्टादौ च शुभोक्तिषु ॥
इति ।
२ भवतां हि नेश्वरोपगमः अविद्यावादकल्पनात् ।
३ इत्थं वाच इन्द्रियत्वमभ्युपगम्य परवादिमतं निरस्तम् ।
अथेदानीं कारणानुगमतया तदेव निरस्यति पाण्यादेरित्यादिना ।
४ धरादितत्त्वं पाण्यादेरात्मा स्वभावो न
ब्रह्मतयाभ्युपगम्यते, तथा वागपीति ।
प्। ५९)
सिन्धुशब्दादिवच्छब्दो न प[१ ]श्यन्त्यादितो भवेत् ॥ ३६ ॥
न शब्दमात्रं पश्यन्तीमध्यमादौ स्यातुमुत्सहते
समुद्रघोषादिरिव तथा तत्रादर्शनात् ॥ ३६ ॥
न पश्यन्त्याः सत्यभूताया अविद्यया बाधनम्[२ ], अपितु
मध्यमाया इत्याह
अथ[३ ] मध्यमया बाह्या[४ ] भावा ग्राह्या ह्यविद्यया ।
तस्या एव हि संयोगो बुद्ध्या सङ्कल्पनात्मना ॥ ३७ ॥
मध्यमाख्यया वाचा बाह्यत्वेन भेदेनाभास्यमाना भावा
अविद्यावशात् ग्राह्याः । तस्या एव सङ्कल्पनात्मना
अर्थावसायरूपया[५ ] बुद्ध्या सम्बन्धोऽन्तःकरणे प्राणापानपथे
तस्या एवावस्थानात्, नतु पश्यन्त्याः[६ ] ॥ ३७ ॥
१ पश्यन्त्यादित इति पश्यन्ती आदिः प्रधानं यस्येति
सार्वविभक्तिकस्तसिल् ।
२ अविद्याकर्तृका बाधा न पश्यन्तीविषय इत्यर्थः, ततश्च न
पश्यन्त्यां काचित् क्षतिः ।
३ तदेवं पश्यन्त्यां न कथञ्चनापि ह्याविद्यायोग इति
समर्थितं द्वैतप्रथा चाभासमाना कथं सिद्धेत्यर्थानुरोधेन
यतोद्वैतप्रथा मध्यमायामेवाभासते, ततोऽस्या एव तद्योगे न
काचनानुपपत्तिर्नाम, तस्याः स्वरूपज्योतीरूपत्वादस्याश्च
स्फुटमेव सञ्जल्परूपत्वादित्याह
पूर्वपक्षमाशङ्कमानत्वेनाथेत्यादि ।
४ बाह्यत्वेन भास्यमानाः ।
५ पश्यन्त्यां हि स्वरूपज्योतीरूपायां सर्वात्मनार्थोऽपि तन्मय
एवेत्यतो मध्यमायां पदार्थावसायरूपत्वेनान्तः
सञ्जल्पाकारेणावश्यमविद्यायोग इत्यर्थः ।
६ नत्विति तदुत्तीर्णस्वरूपायाः ।
प्। ६०)
एतदपि[१ ] नेत्याह
तत्रापि मध्यमा कस्य कार्यं पश्यन्त्यवस्थया ।
सा जन्या[२ ] हेतुना केन शबलां जनयेदसौ ॥ ३८ ॥
तत्रापि मध्यमाया बुद्धिपदे वेद्यवेदकद्वैतावभासिनि
स्थिताया अविद्यायोग इत्यभ्युपगमे मध्यमा[३ ] वाक् कदाचिद्भावात्
कार्यभावात्
वाच एव च पूर्वस्याः सा कार्या स्यात्… ।
इति न्यायेन अन्यकारणा[४ ]भावात् पश्यन्त्यव[५ ]स्थयैव सा जन्या प्राप्ता[६ ] ।
एवं च सति केन हेतुना तां मध्यमां शबलां
भिन्नग्राह्याच्छुरितामसौ[७ ] शुद्धस्वभावा[८ ] सती जनयेत् ॥ ३८ ॥
न कथञ्चित्तज्जनं[९ ] युक्तमित्याह
१ इत्थं पश्यन्त्यसमर्थनया सङ्कुचितेन प्रतिवादिना
मध्यमाकृत एवायमविद्यावाद इति गृहीतम्, तदसहमान आह एतदपि
नेति ।
२ व्यतिरिक्तकारणाभावात् ।
३ अत्रेत्थं व्याप्तिः - मध्यमा वाक् कादाचित्कावभासमयीत्वात्
कार्यैव । यत्किञ्चित्कादाचित्कावभासमयं नास्ति, तत्कार्यमपि नास्ति ।
अस्ति चेयं कादाचित्कावभासाभावा पश्यन्ती, न ततः कार्यरूपेति ।
मध्यमा पुनः कादाचित्कावभासा, ततश्च कार्यरूपेत्यर्थः ।
४ भवद्भिरपि द्वैतवादाभ्युपगमानभिमतत्वात् ।
५ नत्वविद्यया ।
६ भवदनभिमतावपि बलादेवायाता ।
७ कृतोपरागाम् ।
८ शुद्धस्वभाववत्त्वमेवात्राभेदे हेतुः ।
९ इत्थं तत्कार्यता न कथञ्चन मद्यमाया युक्ता, तत्कार्यत्वे
कारणसदृशं कार्यमिति नीत्या विलक्षणस्वभावतानुपपत्तिः,
तदकार्यत्वे कारणान्तरं कथनीयम्, नच तदिष्टं तदभावादेव,
द्वैतापत्तिर्हि तथा स्यादिति ।
प्। ६१)
नहि तस्या[१ ] निमित्तं वा कारणं समवायि[२ ] वा ।
निमित्तत्त्वे[३ ] पृथक्त्वं स्यात्समवाये तदात्मता ॥ ३९ ॥
असावित्यनुवर्तते । असौ पश्यन्ती तस्या[४ ] निमित्त[५ ]मात्रं कारणं
विजातीयम्[६ ], नापि समवायिकारणं सजातीयतयाविभागेन वा स्थितम्,
निमित्तमात्रत्वे द्वैतापत्तिः[७ ], समवायित्वे[८ ] तु क्षीरस्येव
दध्युपादानकारणत्वे सति
उपादानोपादेययोरेकप्रवाहरूपत्वेनाभिन्न[९ ]योगक्षेमता प्राप्ता,
कालभेदेऽप्यन्यथा[१० ]तथात्वं न स्यात् । पटं प्रति तन्तूनामिव वा
समवायित्वे पश्यन्तीमध्यमयोस्तन्तु[११ ]पटवदभिन्नात्मता
भेदेनाप्रथनात् ॥ ३९ ॥
ततश्च दोषमभिधाय द्वये[१२ ] पश्यन्तीत्वमप्यनुपपन्नमित्याह
१ तस्याः - मध्यमायाः ।
२ पश्यन्ती ।
३ तद्बाधामाह - निमित्तेति ।
४ तस्याः - कार्यत्वेन पूर्वप्रक्रान्तायाः ।
५ यत्कार्यसिद्धौ बहूपकारकमसम्बद्धं च, तन्निमित्ताख्यं
कारणं यथा पटोत्पत्तौ वेमादि ।
६ कार्येणासदृशम् ।
७ कार्यकारणयोः पृथक्स्थितत्वात् ।
८ यत्कार्योत्पत्तौ नित्यमेव सम्बद्धं तत् समवायिकारणं -
यथा घटोत्पत्तौ मृत्तिका, धध्नि वा क्षीरम् ।
९ स्वरूपेण स्थितिर्योगः, अर्थवत्तया स्थितिः क्षेमः ।
१० द्वन्द्वान्ते श्रूयमाणः शब्दः प्रत्येकमभिसम्बध्यत इति
शासनेनान्यथात्वं तथात्वं न स्यात्, क्षीराद्दध्नो नान्यथात्वम्,
नापि तथात्वमित्यर्थः । तथा पश्यन्त्या मध्यमाया नान्यथात्वम्,
नापि तथात्वमित्यर्थः ।
११ तन्तुपटयोरुभयोरपि कार्योत्पत्तावपि न स्वरूपान्यथाभावोऽत्र
। पूर्वत्र तु कार्योत्पत्तौ स्वरूपान्यथाभावः
परिणामभावेनास्त्येवेत्यनयोर्विशेषः ।
१२ द्वये - पूर्वोक्ते पक्षद्वयेऽपि ।
प्। ६२)
तथाप्यविद्यया[१ ] योगः पश्यन्त्यात्मानमेव चेत् ।
अन्धमूकं जगद्बाह्ये सर्वमेव भविष्यति[२ ] ॥ ४० ॥
इन्द्रियादेर्मनोवृत्तेः[३ ] सर्वस्या एव लोपिता ।
पश्यन्त्या मध्यमया सहैकयोगक्षेमत्वेन ऐक्येन वा
मध्यमाया इवाविद्यायोगदोषः शुद्धताहानेः । अथ शुद्धैव
पश्यन्ती यतो न भेदेनार्थान् पश्यति अपित्वात्मरूपान् ततो
नाविद्यायोगदोषस्तस्या इति । एवं सति मध्यमाया अपि तदभेदात्,
तथात्वे बाह्ये भिन्नेऽर्थजाते अन्धमज्ञम् अश्रवणाच्च
उच्चाराद्यव्युत्पत्तेः मूकमपि सर्वमेव जगत् भविष्यति[४ ] यदि
त्वन्मतमाश्रयिष्यति, नतु[५ ] इदानीमेवमस्तीति
प्रत्यक्षविरुद्धतामस्योपगमम्याह - चक्षुरादि[६ ] इन्द्रियमादिः
प्रवर्तको यस्यास्तस्या मनोवृत्तेः सर्वस्याश्चक्षुरादिसहिताया
भिन्नार्थविषयाया
१ तथापीति, समवायित्व इत्यर्थः । तथाच पश्यन्त्याः
शुद्धताहानिः । यदि च पश्यन्त्याः शुद्धत्वमेव, तर्हि तेनापि
प्रकारेण दोषमाह ।
२ भवन्मताश्रयणे ।
३ प्रत्यक्षबाधामस्यार्थस्याह - इन्द्रियादेरिति ।
४ तदेवं पश्यन्तीमध्यमोभयमुख्यगौणभावेन सम्बन्धो
योज्यः, यदि चैक्ये पश्यन्तीमाहात्म्यमेव पोस्फुरीति,
तर्ह्यविद्याकालुष्ये भेदप्रथायामपि सर्वत्र तज्ज्योतिर्भावात् कथं
व्यवहारोपपत्तिः । अथाविद्यामाहात्म्यान्न पश्यन्ती
स्वरूपमहोरूपा वरीवर्ति, किन्तु मध्यमा, तत्पश्यन्त्याः
स्वरूपप्रच्युतेर्न तथात्वमित्युभयथापि दोषाभ्युच्चयः ।
५ प्रत्यक्षावभासे अन्धमूकबधिरम् ।
६ चक्षुरादिना दृष्टमेव हि मनसा सङ्कल्पगोचरीकरोति ।
७ कादीनि व्यञ्जनानि इतिवत्
तद्गुणसंविज्ञानबहुव्रीह्याश्रयणेन चक्षुषोऽपि ग्रहणम् ।
प्। ६३)
विलोपिता अनुपयोगिता च प्रत्यक्षविरुद्धापि भविष्यति ॥ ४० ॥
पुनरन्यत्[१ ]पर्यालोचयन्नाह
पश्यन्ती किं शरीरेऽन्तर्बहिः सर्वत्र वा स्थिता ॥ ४१ ॥
अन्तरव्यापिता तस्या बाह्ये किं मध्यमादिना[२ ] ।
पश्यन्ती किं शरीरेऽन्तरहन्ताभूमौ, किं वा बहिरपीति सर्वत्र
स्थिता । पूर्वस्मिन्कल्पे[३ ] परिमितत्वम्, द्वितीयस्मिन् मध्यमायां
कक्ष्यायामिदन्तावेद्यमय्यामपि व्याप्त्यवस्थानात्[४ ] किं
मध्यमावैखरीरूपवाक्प्रभेदेन ॥ ४१ ॥
प्रसरेन्नादबिन्द्वादिसापेक्षा चेदनीश्वरी[५ ] ॥ ४२ ॥
१ इत्थमविद्यावादकथननिरासपूर्वं
मध्यमायास्तत्कार्यत्वं निवार्य, इदानीं पश्यन्तीमेव
अविभागा तु पश्यन्ती सर्वतः संहृतक्रमा ।
स्वरूपज्योतिरेवान्तःसूक्ष्मा वागनपायिनी ॥
इति लक्षणे यदेतत्स्वरूपज्योतिरेवान्त इति भागद्वयम्, तत्र
दोषोद्भावनायावतारयति पुनरन्यदित्यादिना ।
२ तस्यापि तत्स्वरूपत्वेनाप्रच्युतेः ।
३ कल्पे - प्रकारे ।
४ अन्यत्राप्यनुसरणं व्याप्तिरिति ।
५ ननु सत्यमेवैतन्मध्यमादिष्वपि पश्यन्तीव्याप्तिरस्तीति,
सञ्जल्पादिसापेक्षत्वात्पश्यन्त्या अपि परं मध्यमादिव्यपदेशः, अत
एवास्याः सापेक्षत्वाद्धेतोर्मध्यमेति निर्देशः नतु स्वरूपेण,
पश्यन्त्यां तु स्वरूपेण स्फुटमस्त्येवेति शङ्कापूर्वं निरस्यति
अनीश्वरीत्यादिना ।
प्। ६४)
पश्यन्ती अनुवर्तमाना प्राणापानरूपबिन्दुनादसापेक्षा चेत्
सर्गसंहारयोः प्रसरेत्, तर्हि तथापि न व्यापिका नाप्यद्वया स्यात् ।
एतदनीश्वरत्वम् ॥ ४२ ॥
प्रतिदेहं पृथक्किं सा सर्वत्रैक्येन वा स्थिता ।
नानात्वं तत्पृथक्त्वेन तदैक्यात्सम[१ ]शब्दता ॥ ४३ ॥
शरीरैः प्रविभागश्चेत्तान्यसत्यानि ते स्थितिः[२ ] ।
सा च पश्यन्ती प्रतिदेहं पृथग्भूता वा स्यात् सर्वदेहेष्वेकैव
वा । पृथक्त्वे बह्व्यः पश्यन्त्यः स्युः, ततश्च नाद्वैतम्, ऐक्ये सति
सर्वदेहिनामेकपश्यन्तीयोगादेकत्राअपि वक्तरि
तत्पूर्वकप्रयत्नप्रेरितप्राणाभिहतस्थानोत्थितः शब्दविशेषो यः, स
एव सर्वेष्वपि तूष्णीमासीनेष्वपि उच्चरितः स्यात्, अन्यथा
क्वचित्तादृशकार्याकरणात् तस्य स्वभावभेदापत्तेरैक्यं न स्यात् ।
अथैकत्वेऽपि शरीरोपाश्रयः प्रविभागः स्फटिक[३ ]स्येवेति । तन्न,
तान्यसत्यानि इति तव दर्शने[४ ] व्यवस्था । नचासत्यमकिञ्चिद्रूपं
क्वचिदुपयोगि भवतीति यावत् ॥ ४३ ॥
अविभागेत्यादिकेन[५ ] लक्षणेन सुलक्षिता ॥ ४४ ॥
१ सत्यमेवैतदैक्यमेव परमार्थतः, समशब्दताभावश्च
शरीरभेदेनेति भावः ।
२ स्थितिः - शास्त्रनियमः ।
३ यथा स्फटिकरत्नं स्वरूपत एकमपि तत्तद्रागोपरागेण
भेदेनावभासते, तथा पश्यन्त्यपीत्यर्थः
४ विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः ।
इति नयेन ।
५ ननु क एवमाह पृथक्त्वे बह्व्य इति, ऐक्ये वा समशब्दता
यतोऽविभागैव पश्यन्ती, तथा च किमिदं पृथक्त्वं नाम, ऐक्यं
नाम वेति, न कोऽपि दोषकण इति पूर्वपक्षप्रत्यवस्थानपूर्वमाचष्टे
अविभागेत्यादि ।
प्। ६५)
पश्यन्ती यदि वर्ण्येत लक्षणं तद्विलक्षणम् ।
पश्यन्ती च
अविभागा तु पश्यन्ती सर्वतः संहृतक्रमा ॥
इत्यादिना लक्षणेन सुष्ठु अव्याप्त्यति[१ ]व्याप्तिपरिहारेण लक्षिता यदि
उच्येत, तल्लक्षणमेतद्विलक्षण[२ ]मतिशोभनमित्युपहासः, यतो
विलक्षणं लक्षणस्य यल्लक्षणं तद्विगमात् ॥
तदाह
अविभागा कथं सा स्याद्यतः पश्यन्त्यसौ स्मृता ॥ ४५ ॥
यत एव पश्यन्ती असौ विभक्तदृश्यार्थोन्मुखी स्मृता, ततः
कथमविभागा स्यात् यतो लक्ष्यलक्षणपदयोरन्योन्यविरहः ॥ ४५ ॥
तथाहि
यानि[३ ] पश्यति किं स्वाक्यरूपदिक्कालभागशः ।
१ लक्ष्ये लक्षणैकदेशपतनमव्याप्तिः, अलक्ष्ये लक्षणपतनमति
व्याप्तिः ।
२ विलक्षणं विशिष्टलक्षणमुपहासेन, तथा परमार्थतो
विरुद्धलक्षणं तथा विलक्षणं लज्जावहमिति च ॥
३ यदुक्तं लक्ष्यलक्षणपदयोर्विरहः, लक्ष्यपदं पश्यन्तीम्,
लक्षणपदमविभागेत्यादि लक्षणं हि लक्ष्यसिद्धये प्रयुज्यते
तद्विरहात्प्रत्युत विरोधावहम्, तदाह यानि पश्यतीति । पश्यन्ती
सकर्मकत्वाद्धि किञ्चित्कर्माक्षिपत्येव । तच्च कर्मरूपं दृश्यं यदि
तद्दृश्यवस्तुस्वरूपतद्देशतत्कालभागमवलम्बते, तर्हि तस्य
दृश्यस्य सम्यग्ज्ञानरूपत्वाद्भवदभ्युपगता पश्यन्ती युक्तैव,
परन्तु तत्र लक्षणविगमः तत्तद्दृश्यदेशकालस्वरूपत्वेन
सविभागत्वान्निर्विभागता कथं सम्भवतीत्यर्थः ।
लक्षणव्यवस्थार्थं पुनराह अतथेति, न
स्वकस्वरूपदेशकालसहितानि वस्तूनि पश्यति येन
निर्विभागतापवादः, किन्तु तत्तद्देशकालरहितमेवेति चेत्तर्हि
लक्षणाविगमेऽपि लक्ष्यस्यैवासम्भवादलं तेन । तथाहि
स्वकरूपदेशकालरहितं हि मिथ्याज्ञानम्, तदुपादानात्सापि
मिथ्येत्यर्थः ।
प्। ६६)
अतथा यदि पश्यन्ती मिथ्या पश्यन्त्युदाहृता ॥ ४६ ॥
यथारूपेण[१ ] पश्यन्ती निर्विभागा कथं भवेत् ।
स्वकेन[२ ] स्वकेन रूपदिक्कालभागेन किं दृश्यवस्तूनि पश्यति
यानि द्रष्टुं प्रवृत्तेत्यध्याहारः । युक्तं[३ ] ह्येतत्, यदि पुनरस्तथा
विपर्ययेण[४ ] पश्यन्ती भवति, तन्मिथ्या[५ ] अज्ञानरूपा पश्यन्ती अथवा
मिथ्या पश्यन्त्युदाहृता पश्यन्तीत्यर्थः । अविभक्ता तु तदा[६ ] स्यात्
भिन्न[७ ]दृश्यवस्त्वभावात् । पश्यन्तीत्वानुरोधात्तु यथास्थितरूपेण
स्वरूपानतिक्रमेण वा पश्यन्ती विभक्तदृश्यवस्तुयुक्ता निर्विभागा
कथं भवेदित्युक्तम् । स्वकमेव स्वाक्यम्[८ ] ॥
१ पश्यन्तीति निर्देशात् ।
२ तत्तद्दृश्यस्य ।
३ सम्यग्ज्ञानस्यैव युक्तत्वात् ।
४ न स्वकेन रूपदेशकालेन ।
५ प्रथमे नियमे मिथ्येति पृथक्पदम्, द्वितीये समुदायेन । तत्र
द्वितीयस्य पश्यन्तीशब्दस्याध्याहारः कर्तव्यः ।
५ तदेति तत्तद्दृश्यानामस्वीयरूपादिग्रहणकाल इत्यर्थः ।
७ पश्यन्ती हि ज्योतीरूपत्वान्न मिथ्याज्ञानप्रत्यवमर्शात्मिकेति ।
८ स्वाक्यमित्यत्र स्वार्थे ष्यञ्प्रत्ययः ।
प्। ६७)
भविष्यन्तं[१ ] वर्तमानं कथं पश्यन्त्यनागतम् ॥ ४७ ॥
अन्यदिग्देशगेनान्यदिग्देशे सत्यदर्शनम् ।
योग्यदेशस्थवर्तमानार्थानुभवितृत्वेन तावत्
सर्वप्रमातॄणां स्वात्मन्यनुभवः । तत्र भविष्यन्तमर्थं
तदनागतमप्राप्तमेव कथं वर्तमानं वर्तमानत्वे[२ ] पश्यन्ती
स्यात् सम्यग्रूपेत्यर्थः । तथा अन्ययोग्यदेशस्थितेऽन्ययोग्यदेशस्थेन
सत्यदर्शनं सम्यग्दर्शनरूपा पश्यन्तीत्यर्थः[३ ] ।
तथान्यदिग्देशकालगतेन ज्ञानेनान्यदिक्कालगते सति विद्यमानेऽर्थे
न दर्शनम् । ततश्च कथं वर्तमानं योग्यदेशस्थमेव पश्यन्ती
भविष्यन्तमनागतमसम्प्राप्तमन्यदेशस्थितं च पश्यन्ती स्यात् ।
सर्वदर्शिनी चेष्यते सा, देश[४ ]कालावत्र परस्परोपलक्षणे ॥
१ इदानीं यत्पूर्वमुक्तं
वर्तमानसमारूढा क्रिया पश्यन्त्युदाहृता ॥
इति, तत् समर्थयति । तथा, यदुक्तं स्वकरूपादिग्रहणे कथं
निर्विभागेति यतो भविष्यन्तमेवार्थं वर्तमानत्वेन गृह्णाति, ततश्च
दृश्यस्य स्वरूपाद्युत्तीर्णत्वेनैव भासनात्तल्लग्नत्वाच्च न
सविभागत्वं नापि मिथ्याज्ञानवत्त्वमिति दोषद्वयरहितं
पश्यन्तीस्वरूपं सेत्स्यति, अलमनेन मिथ्यामिथ्यात्वकथनेनेति
यदुच्यते तदपि निर्दलयति भविष्यन्तमित्यादिना ।
२ अप्राप्तस्य वर्तमानत्वे दर्शनं भ्रान्तिरित्यर्थः ।
३ नेति पदमत्रापि योज्यम् ।
४ तेन भविष्यन्तं वर्तमानमित्यत्र कालनिर्देशेऽपि तथैव
देशोऽपि बोध्यः । अन्यदिग्देशग इत्यत्र देशनिर्देशे च
कालनिर्देशोऽपीत्यर्थः ।
प्। ६८)
अथ[१ ] साधारणं ज्ञानं तादृक्किञ्चन[२ ] पश्यति ॥ ४८ ॥
तथापि[३ ] तद्विभेदन भेदता तदभेदतः ।
न किञ्चन गृहीतं स्यात्तथान्या संहृतक्रमा ॥ ४९ ॥
देशकालभिन्नार्थग्राहीणि भिन्नान्येव ज्ञानानि सा पश्यन्ती,
तेषु[४ ] साधारणमेकं तादृक्सर्वतज्ज्ञानप्रपञ्चनव्यापारक्षमं
किञ्चनानियतं[५ ] परिदृश्यमाननीलपीतादिनियतज्ञानोत्तरमस्ति,
तत्पश्यति सर्वं पश्यन्तीत्यर्थः । तथापि[६ ]
असाधारणनीलादिनियतज्ञानानां भेदात् तस्यापि भेदता
भिद्यमानता स्यात्, नतु सामान्यता तेभ्य[७ ]स्तस्याभेदात् । तथाच[८ ] सति न
किञ्चनानागतादि
१ अत्राह विशेषज्ञानं हीदंयदत्र
भविष्यदादिकालव्यपदेशः, पश्यन्ती तु सामान्यरूपा, न तत्र
भविष्यदादिव्यपदेशोऽपि सम्भवतीत्यकालकलितत्वान्न
सत्यदर्शनमज्ञातपराशयस्योन्मत्तभाषणमित्याशङ्क्याह अथ
साधारणमिति ।
२ अत्र यत्तच्छब्दयोरध्याहारः, यदीदृशं ज्ञानं तदेव
पश्यतीति ।
३ नीलपीतादिविशेषरहितं नियमरहितं सर्वव्यापकं
ज्ञानमित्यस्मिन्नपि पक्षे दोषोद्भावनं करोति तथापीत्यादिना ।
एतद्धि सत्यमेव साधारणं ज्ञानमस्तीति, तथापि
दृश्यमत्रविशिष्टमेवेत्याह तथापीति ।
४ भिन्नज्ञानेषु ।
५ विशिष्टत्वाभावाद्व्यपदेशानर्हम् ।
६ तथापीति, भवत्वेतत्साधारणमेव किञ्चन सर्वंसहं
व्यापकं च, अत्र पश्यन्तीस्वरूपनिरूपणमेव सर्वथा सम्पाद्यम्,
तच्च कर्मसापेक्षत्वादवश्यं स्वसिद्धये कर्म दृश्यरूपमाक्षिपति,
तस्यां हि विशेषरूपत्वेनैव दर्शनसम्भवात्तेषामित्यर्थः ।
७ तेभ्यो विशेषेभ्यः, तस्य सामान्यस्य ।
८ तदभेदत इत्यर्थभागं विवृणोति तथाचेति । अयं भावः -
विशिष्टज्ञानोदयेऽपि यदि सा साधारणी तर्हि तदभेदतो
विशिष्टज्ञानोदयेऽप्यतीतानागतादिविशेषाभावात्, ततश्च
नानागतावेक्षणमिति किमत्र दृश्यं नामेति ।
प्। ६९)
गृहीतं स्यात्, अनागतार्थज्ञानाविभिन्ना पश्यन्ती तदानीमेव
तं ग्रहीष्यतीति । अथवा[१ ] नीलपीतादिज्ञानवत् भेदता अस्याः
पश्यन्त्याः, तस्या अपि नीलादिकभविष्यद्वर्तमानार्थशबलीकृतत्वात् ।
अथ तस्या न भविष्यदादिशबलता, अपितु बोधमात्ररूपत्वेनाविभेद
एव, ततस्तदभेदतो न किञ्चन नीलादि तया गृहीतम्, ततः कथं[२ ]
पश्यन्ती स्यादिति । अथान्या लक्षणान्तरभेदिता तैः[३ ] पश्यन्ती
संहृतक्रमेति ॥ ४९ ॥
संहृतः[४ ] क्रम इत्यस्यां संहर्ता[५ ] जायते परः ।
यया क्रमः संहृतो वा किमात्मन्यपरत्र[६ ] वा ॥ ५० ॥
आत्मनः सक्रमत्वं स्यादन्यत्रापरसङ्गमः ।
किं पूर्वं सक्रमाभूत्सा रूपद्वित्वं प्रसज्यते ॥ ५१ ॥
१ तथापि तद्विभेदेन
इत्यादि
न किञ्चन गृहीतं स्यात्
इत्यन्तं द्वितीयार्थेन सङ्गमयति अथवेत्यादिना ।
२ कर्माभावादित्यर्थः ।
३ शब्दब्रह्मवादिभिः ।
४ ननु च पश्यन्ती संहृतक्रमेति ह्यस्याः क्रमसंहार एव
निर्विभागत्वे हेतुः, ततश्च केयं कल्पना
नीलादिविशिष्टनियतासाधारणज्ञानानां भेदात् तस्या अपि भेदतेति
तन्निर्दलयितुमाह ।
५ त्रितयाधीनं हि संहरणं कर्तृकरणाधिकरणेष्विति तदेव
क्रमेणाह संहर्तेति । केनेत्यपेक्षयावश्यं परेण भाव्यम् ।
६ कस्मिन्नित्यपेक्षायाम् ।
प्। ७०)
संहृतः क्रमोऽस्यामिति । एवमिति शब्दो भिन्नक्रमो योज्यः[१ ] । एवं
यदि सप्तम्यर्थे पश्यन्त्यात्मनि बहुब्रीहिस्तदा
संहर्तान्योऽर्थोऽपेक्षणीयोऽत्रेति व्याहतम्[२ ] । अथवा तृतीयार्थे[३ ] यया
क्रमः संहृतः पश्यन्त्या सा तथा । एवं चाधिकरणापेक्षायां
किमात्मनि संहृतोऽथापरत्रेति विकल्पः । तथात्मनि क्रमस्य संहरणे
योजने सति तस्य सक्रमत्वं स्यात् । अथान्यत्र, तद्द्वितीयवस्तुसम्बन्धः
ततश्च द्वैतापत्तिः । अथात्मन्येव पूर्वं सक्रमया भूतया पश्चात्
क्रमः संहृतो निवारितो नत्वन्यत्र द्वैतापत्तेः, तथापि तस्याः
सक्रमाक्रमरूपद्वित्वप्रसङ्गः ॥ ५१ ॥
अविभागा कथं स्याद्यतः पश्यन्त्यसौ स्मृता ।
इत्यत्र पश्यन्तीत्वादेव दर्शनक्रियाकरणापेक्षया
निर्विभागत्वं दूषितं समर्थ्यमानं परेणाशङ्कते[४ ]
अथात्मना सा स्वात्मानं पश्यन्ती निर्विभागशः ।
भागे करणरूपत्वात्पारतन्त्र्यं जडात्मता ॥ ५२ ॥
आत्मनैवात्मानमेव च पश्यन्ती सा स्थिता निर्विभागशः
विशिष्टादत्यन्तपृथग्भूताद्भागान्निष्क्रान्ता
कर्मकरणादिशक्तिमात्रेण स्थितेत्यर्थः । तत्रापि भागे द्वितीये
कारकशक्त्यात्मनि करणादि रूपत्वात् तस्या एव पारतन्त्र्यं जडता च
प्राप्नोति स्वातन्त्र्यादेव चिद्रूपस्येति । एतदीश्वरप्रत्यभिज्ञायां
परीक्ष्यम् ॥ ५२ ॥
१ अस्यामित्यनन्तरं योज्यः ।
२ स्ववचनविरोधो व्याघातः ।
३ तृतीयार्थे बहुव्रीह्याश्रयणे ।
४ निर्विभागत्वमविभागेत्यादिना दूषितं पश्यन्तीत्वमेव तत्
यत्स्वयमेव कर्मकरणादिरूपत्वम् इति परेण
समर्थ्यमानमाशङ्कते ।
प्। ७१)
पर आह
आत्मानमात्मना हन्ति देवदत्तो यथा यथा ।
भविष्यत्यत्र तत्रास्य स्वाङ्गैरेव विभागिता ॥ ५३ ॥
हस्तादेः करणत्वं हि मस्तकादेश्च कर्मता ।
कर्ता मनः स्वावयवी नामूर्ताया इदं पुनः ॥ ५४ ॥
देवदत्तात्मनि यथा कर्मादिभेदस्तथात्र स्यात्, - इत्येतन्न,
देवदत्तस्य मूर्तत्वेन वितताकारस्य स्वाङ्गैरेव
बहुभिरुपगृहीतात्मशब्दाभिधायकैर्विभागः । तथाहि
हस्तस्यान्यस्य वावयवस्य शस्त्रादियुजः करणता, मस्तकस्य
हृदयादेर्वा हन्यमानस्य कर्मता, कर्ता मनोयुक्तः स्व आत्मा स एव
हस्तादिसम्बद्धोऽवयवीत्युक्तो यत एव तावत्यात्मभावः ।
पश्यन्त्याः पुनश्चिन्मात्ररूपत्वेनामूर्ताया
वैतत्याभावान्नावयवापेक्षोऽयं व्यवहारः, ततस्तस्या एव भागे
करणादित्वेन जडतापत्तिरेव ॥ ५४ ॥
पश्यन्त्य[१ ]दृष्टमात्मानं दृष्टं वा दृष्टता[२ ] कथम् ।
१ तदेवं अथात्मना सा स्वात्मानम् इत्यत्रात्मनेति भागे
पारतन्त्र्याज्जडतामुपपाद्य आत्मानमिति कर्मभागं विकल्पयति ।
आत्मानमिति निजमेव स्वरूपं कर्मरूपशक्तिमात्रेण स्थितं पश्यन्ती
कर्तृरूपशक्तिस्थिता पश्यति येन दर्शनक्रियार्थोऽस्या घटते । अत्र
पश्यन्त्या इति देहलीदीपन्यायेनोभयत्रापि योज्यम् । तत्र पश्यन्त्या
दर्शनं दृष्टता तत्कर्मिकेत्यर्थः, द्वितीये पुनः पश्यन्त्या दर्शनं
पश्यन्तीकर्तृकमित्यर्थः ।
२ निजरूपस्यैव कर्मशक्तिरूपत्वाददृष्टता
दर्शनक्रियाराहित्यमप्रकाशत्वं कथमित्यर्थः ।
प्। ७२)
पश्यन्त्या दर्शनं दृष्टे[१ ] न च वा ह्युपपद्यते ॥ ५५ ॥
आत्मानं च पश्यन्ती किमदृष्टपूर्वं पश्यति अथ दृष्टम् ?
तद्द्वयमपि न युक्तं यतः पश्यन्त्याः प्रकाशरूपाया
अदृष्टत्व[२ ]मप्रकाशता नैव, दृष्टे[३ ] चात्मनि न पुनः
दर्शनक्रियाप्रवृत्तिर्युक्ता[४ ] । न[५ ] च पश्यन्त्या आत्मा प्रतिक्षणमन्यो
येन प्रतिक्षणमेव दर्शनक्रियाया उपयोगेन वर्तमानता स्यात्, नापि[६ ]
तस्या आत्मनो दिक्कालावच्छेदः ॥ ५५ ॥
पश्यन्तं[७ ] सा किमात्मानं पश्यन्ती जडमेव वा ।
जडे जडत्वमेवास्याः पश्यतो ह्यनवस्थता ॥ ५६ ॥
सा चात्मानं प्रकाशरूपत्वात् पश्यन्त्यात्मकत्वाच्च किं
पश्यन्तं पश्यति उताप्रकाशरूपं जडम् ? जडे तस्मिन् सापि जडा
स्यात् अथात्मापि अस्याः प्रकाशात्मत्वात् पश्यति, न च भिन्नं पश्यति
१ प्रकाशिते । च वा शब्दावत्रानुक्तसमुच्चयार्थौ ।
२ अदृष्ट एव हि दर्शनं युक्तम्, अदृष्टत्वं च पश्यन्त्या अयुक्तं
पश्यन्तीत्वात् ।
३ अथ दृष्टतैव पश्यन्त्युपरोधादित्याशङ्क्याह दृष्ट इति ।
४ अनवस्था हि तथा स्यात् ।
५ च शब्दसुचितमनुक्तसमुच्चयार्थत्वं चाह तच्च यदुक्तं
वर्तमानसमारूढा इति तं वर्तमानभागमपि विकल्पयति न चेति ।
६ वाशब्दसमुच्चितमाह - नापीति ।
७ पूर्वश्लोके दृष्टता दर्शनक्रियायोग्यता, सा च
स्वयमचैतन्येऽपि सम्भवति, इह पुनश्चैतन्यमेवोपोद्बलनार्थं
शङ्क्यमानत्वेन दर्शयति पश्यन्तं सेति, तदेतदाह
प्रकाशरूपत्वात्पश्यन्त्यात्मत्वाच्चेति ।
प्। ७३)
अपित्वात्मानमेव, ततस्तस्यापि पूर्वविकल्प[१ ]योगादनवस्थता[२ ],
अवस्थानस्य दर्शनविश्रान्तेरभावात् ॥ ५६ ॥
किञ्ञ्चित्[३ ]पश्यति वा सूक्ष्मं[४ ] तदस्मद्दर्शनान्वयः[६ ] ।
कर्मत्वे पारतन्त्र्यं स्यात्तस्या एव निजात्मनि ॥ ५७ ॥
यदि वा भवद्भिर्नान्यनीलपीतादि स्थूलं विभक्तस्वरूपं
दृश्यं पश्यति अपि तु दृश्यभुवमनापन्नं द्रष्टारमेव
किञ्चिदविकल्प्यं सुक्ष्ममपृथग्रूपं पश्यति, न च[६ ] पश्यति
दृश्यार्थमयदृष्ट्टरूपैव सती प्रकाशते पश्यन्ती इति कथ्यते ।
ततोऽस्मदीयदर्शनानुगमः[७ ] स्यात् पश्यन्त्यर्थः
क्रियाकर्तृकर्मकालविभागात्मा त्यक्तो भवेत् । वास्तवे तु
कर्मत्वेऽभ्युपगम्यमाने तदीयसूक्ष्मद्रष्ट्टरूपात्माधिकरणे
सति तस्मिन्नेवैकात्मनि द्रष्ट्वत्वात् स्वतन्त्रे दृश्यतया पारतन्त्र्यं
स्याद्विरुद्धम् ॥ ५७ ॥
स्फोट[९ ] एव हि पश्यन्ती तदन्या वा द्वयं भवेत् ।
तदन्यत्वे तदैक्ये वा तदङ्गुल्यग्ररूपया ॥ ५८ ॥
१ दृष्टे दर्शनमिति न्यायेन ।
२ सा च मूलक्षतिकारिणीत्युक्तमेव ।
३ ननु चात्मानं पश्यन्तं सूक्ष्मं विकल्पकलङ्काकलुषितं
पश्यति यतः तत्किमिति ह्यनवस्था, दर्शनं
चानुज्झितद्रष्ट्टभावस्यैव तत्क्रियात्मकं ततोपि न
किञ्चनानुपपन्नं नामेति किं दोषविर्भावेनेत्यतः आह किञ्चिदिति ।
किञ्चिदिति इदन्ताव्यपदेशानर्हत्वात्स्वरूपत्वादेवानियतम् ।
४ सर्वग्राह्यग्राहकताविभागरहितम् ।
५ अन्वयः, अभ्युपगमः ।
६ ननु च यतः पश्यन्तीत्युच्यते तत एव सकर्मकत्वादस्य स्फुटं
पूर्ववदेव दृश्यत्वमापन्नं तत्किमिति तत्र न दोष इत्यत आह न
चेत्यादि ।
७ ततश्चैवं सति न कश्चिद्विरोध इत्यर्थः ।
८ नचैतद्भवतामिष्टमित्याह पश्यन्तीति ।
९ स्फोटात्मैव शब्दोऽर्थप्रतिपादकः । तथा चोक्तम् :-
प्। ७४)
वाक्यगत्यात्र सत्यत्वं लभ्यते न विशेषता ।
एको नित्यः क्रमविरहितः कल्पितासत्यभागो
वाक्यस्फोटो जनयति मतिं तादृशि स्वाभिधेये ।
वर्णास्त्वेते प्रकृतिलघवः कल्पनैकप्रतिष्ठा -
स्तस्मिन्नर्थे विदधति धियं नेत्यलं तत्कथाभिः ॥
तथा हीत्याहुः कुतो वर्णानामर्थप्रत्यायकत्वम् । ते हि वर्णा
गकारादयोऽर्थं प्रतिपादयन्तः समस्ता वा व्यस्ताः । न तावत्
व्यस्ताः, एकैकवर्णाकर्णने सति चार्थप्रतीतेरनुत्पादात् । सामस्त्यं
पुनर्वर्णानां न सम्भवत्येव तद्धि सत्तया स्यात्, सा चायुक्ता । तथा
हि, वर्णप्रयोक्तृणां
प्रयत्नस्थानकरणक्रमापरित्यागादवश्यम्भावी क्रमः । क्रमे च
सति ह्येकैकवर्णकारणिकार्थप्रतीतिः प्राप्नोति, सा च न दृश्यते इति
व्यस्तसमस्तविकल्पानुपपत्तेर्न वर्णा वाचकाः । वर्णविषया अपि
बुद्धयस्तथैव कल्प्याः, ता अपि युगपन्न सम्भवन्ति । क्रमे च
सत्येकैकवर्णबुद्धेरर्थसम्प्रत्ययः प्रसज्यत इति तस्मान्न वर्णा
वाचकाः । यदि च स्युस्तद्विपरीतक्रमप्रयुक्ता अपि
तमर्थमवगमयेयुः । अस्ति चेयं शब्दादुच्चारितात्तदर्थावगतिः । न
चेयमकारणिकैव भवितुमर्हति, तदस्याः कारणं स्फोट इति
सर्वथार्थप्रतीतिलक्षणकार्यवशात्कल्प्यमानं तत्कारणं स्फोट
इत्युच्यते । स च निरवयवो नित्य एको निष्क्रमक इति । तस्माद्वर्णाभिव्यक्तः
स्फोटोऽर्थे प्रतिपत्तिमादधाति । भ्राम्यति जनो
वर्णैरियमर्थप्रतीतिरुत्पादितेति । न च वाच्यं स्फोटव्यक्तावपि ते
व्यस्तसमस्तविकल्पाः सन्तीति, न स्फोटव्यक्तौ विकल्पाः । तथा हि एके
तावदाचक्षते, प्रथमवर्णश्रवणवेलायां स्फोटोऽभिव्यक्तः । न च
द्वितीयादिवर्णवकैल्यं तदनुगतेरेवातिशयकारणात्, यथा
रत्नपरीक्षायं प्रथमदर्शनं रत्नममलं प्रकाशमानमपि
पुनः पुनः परीक्षायां निरवद्यं रत्नतत्त्वं चकास्ति । एवं
प्रथमवर्णश्रुत्या व्यक्तेऽपि स्फोटे स्फुटतरप्रतीत्यै वर्णान्तराणि
प्रयोक्ष्यन्ते इति । अपरे त्वाहुः ध्वनय एव स्फोटस्य व्यञ्जकाः तैश्च
मरुद्भिरनवयव एष
स्फोटोऽभिव्यज्यमानस्ताल्वादिस्थानकरणसंयोगोपाधिवशोपप्लवम
अन-नानाकारगकारादिभागयोगीव प्रतिभासते । मरुतां
चञ्चलत्वादुच्चारितप्रध्वंसिनस्ते काल्पनिका भागा भासन्ते ।
प्। ७५)
आप्तानाप्तविचारो वा सर्वथैव निवर्तते ॥ ५९ ॥
भवद्भिः स्फोटः पश्यन्ती च नित्यत्वेनाभ्युपगतौ, ततः स्फोट
एव वा पश्यन्ती स्यात् शब्दमात्रभेदात्, ततो वान्या, तत्र द्वैतं स्यात् ।
अन्यत्वपक्षे ऐक्ये वाभ्युपगते तत्पश्यन्त्याः सम्बन्धि
सत्यार्थदर्शित्वं लभ्येत । अङ्गुल्यग्रे हस्तियूथशतमास्ते इत्यनया
वाक्यस्फोटप्रतीत्यात्र लोके न तु पश्यन्तीसञ्ज्ञसत्यदर्शनरूपत्वेन
सर्वस्य स्फोटस्य सत्याभिमताद्वाक्यात् विशिष्यमाणता लभ्यते ।
अन्यत्वपक्षे तु स्फोटस्य सत्यस्यापि असत्यार्थत्वं न दोषः[१ ],
पश्यन्त्यात्मनस्तु शुद्धसंविद्रूपस्य
दृष्टं हि नादात्मको हि शब्दो
वीणावेणुमृदङ्गपटहादिव्यञ्जकभेदेन नानात्वमुपगच्छति ।
तस्माद्वाक्ये पदानामसत्त्वात्तदर्थे च पदार्थानां विरवयवौ
वाक्यवाक्यार्थौ इति । बाधकं चात्रावयवकल्पनायां यथा
वाक्यस्यावयवाः पदानि पदानामवयवा वर्णा एवं
वर्णानामप्यवयवैर्भवितव्यम्,
तदवयवानामप्यवयवान्तरैरित्यानन्त्यात् का व्यवस्था स्यात् ।
वर्णान्प्राप्य तु यद्यवयवकल्पनातो विरन्तव्यं तद्वाक्य एव
विरम्यताम् । एवं पानकादिवत्पदार्थेभ्योऽन्य एव वाक्यार्थरूपः
स्फोट इति । यथाहि पानकं फाणितनारिकेलमरिचादिभ्योऽर्थान्तरमेव
यथा च सिन्दूरलाक्षाहरितालादिभ्योऽर्थान्तरमेव चित्रमिति सिद्धमेतत्
। तत्र तयोः स्फोटशब्दब्रह्मणोरुभयोर्भेदे द्वैतापत्तिः ।
अभेदमेवमाहुः, यथा पदे वर्णा न सन्ति, वाक्येषु पदानि न सन्ति
तथा महावाक्येष्ववान्तरवाक्यान्यपि न स्युः, ततोपि
महावाक्यान्यपि प्रकरणापेक्षया न स्युः, ततोऽपि प्रकरणान्यपि
शास्त्रापेक्षया न स्युः, ततश्चैकमेवेदं
शास्त्रतत्त्वमविभागमद्वयमापतति इत्याक्षिप्ते तथाहुः । सत्यमेतत्,
शब्दब्रह्मैवेदमद्वयमनाद्यविद्यावासनोपप्लवमानभेदमर्थब्
हेदेन विवर्तते । न तु वाचकाद्विभक्तं वाच्यमपि नाम किञ्चनास्ति ।
तस्मात्काल्पनिक एवायं वाच्यवाचकविभाग इति स्फोटवादः ।
तदनुपपत्तिं दर्शयति तदैक्ये वेति ।
१ अविद्योपगमात् ।
प्। ७६)
मिथ्यात्वं दोष एव पश्यन्त्यैक्येन स्फोटसत्यार्थत्वात् ।
आप्त[१ ]प्रणीतानाप्तप्रणीतत्वविचारो वा सर्वथा तदा निवर्तते
सर्वेषामविशेषेण सम्यग्रूपत्वात्,
पूर्वोक्तपश्यन्तीबहुत्ववन्नित्यस्फोटबहुत्वं
ततश्चाद्वयहानिरित्येतदप्यत्र सूचितम् ॥ ५९ ॥
स्फोटस्यासत्यरूपैर्हि पदाद्यैर्व्यङ्ग्यता कथम् ।
पश्यन्त्याः सत्यरूपाया असत्यैर्व्यङ्ग्यता न च ॥ ६० ॥
तादृग्व्यञ्जनसापेक्षा सा न किञ्चन जायते ।
स्फोटस्य च कूटस्थनित्यस्य सत्यस्य
पदवर्णध्वनिभिरुपप्लुतैरकिञ्चित्स्वरूपैरशक्तैरत्यन्तविजातीयैः
कथं व्यङ्ग्यता सत्यप्रकाशनसामर्थ्ये तेषां सत्यतापत्तेः ।
पश्यन्त्यात्मत्वेऽपि च स्फोटस्यासत्यव्यञ्जकता तथैव न युक्ता,
असत्येनाविद्यात्मनाव्यज्यमानलोकेन रूपमिव स्वयं
प्रकाशनशक्त्या न किञ्चिदेवाविद्यैव सा स्यात् तावत्प्रपञ्चरूपैव
अविद्येति कृत्वा[२ ] ॥
पश्यन्ती[३ ] वा प्रमाणेन केनासौ प्रतिपाद्यते[४ ] ॥ ६१ ॥
प्रत्यक्षस्यागोचरत्वादनुमानं प्रदूषितम् ।
१ आप्तप्रणीतत्वेन हि शब्दस्य प्रामाण्यं स्फोटस्य च
नित्यत्वेनाप्तप्रणीतत्वम् । अतश्चानित्यत्वं वर्णात्मनः शब्दस्य,
नासावर्थप्रतीतिहेतुरतो न प्रमाणम् । यश्चार्थप्रतीतिहेतुः
स्फोटात्मा शब्दस्तस्य नानित्यत्वम्, न चाप्तप्रणीतत्वमिति सर्वथा
व्यवस्थाप्तानाप्तभाषणे नश्येदेव स्फोटाभ्युपगमे ।
२ इत्यनेन विचारेण ।
३ प्रमाणव्यवस्थापितं हि वस्त्वस्तु, स्वरूपलषणाभ्यां मास्तु,
तेनैव प्रमाणेन तस्य दृढं व्यवस्थापितत्वादिति प्रमाणमेव
तावद्विकल्पयति पश्यन्ति वेत्यादिना ।
४ दृढीक्रियते ।
प्। ७७)
भवद्भिरेव नाप्तस्याननुभूतार्थवक्तृता[१ ] ॥ ६२ ॥
प्रमाणेन वा केन पश्यन्ती भवद्भिर्व्यवस्थाप्यते । प्रत्यक्षं
तावदत्र[२ ] चक्षुरादिमनोगोचरातिक्रमान्नास्ति । अवस्थेत्यादिना
भवद्भिरेव तस्य दूषणाच्चानुमानं न सम्यगवबोधकम् ।
आप्तस्यापि नाननुभूतार्थवक्तृता, तदपि[३ ] न प्रमाणम् ॥
अथ[४ ] स्वानुभवेनैव पश्यन्तीं पश्य युक्तितः ।
एवं तर्ह्यपरस्यासौ पश्यन्ती कर्मतां गता ॥ ६३ ॥
यो हि पश्यति पश्यन्तीं स देवः परमो मतः ।
अथ भवन्तो[५ ] मामाहुः - स्वगतेनानुभवेन प्रमाणेन
पश्यन्तीं युक्तितो योगात्समाधेरवधानात् पश्येति । एवं तर्हि अपरस्य
स्वानुभवसञ्ज्ञकस्य प्रमाणस्य पश्यन्ती कर्मत्वं प्राप्ता,
ततश्च सा परमार्थ त्वेनोपगता[६ ] न तथा स्यात् । यस्मात् स[७ ] एव
तदानीं पराकाष्ठाप्राप्तो देवत्वेन सर्वोत्कर्षेण भवतां मतः
स्यात् यस्तामपि[८ ] सर्वदर्शिनीं पश्यति, ततश्च दर्शनत्यागः ॥
१ अनुभूतमेवार्थमाप्तोपि वक्तीत्यर्थः ।
२ अत्र पश्यन्तीविवेके ।
३ तदाप्तवचनमपि ।
४ ननु चानुभवाख्यसुदृढप्रमाणरक्षिते वस्तुन्यलमन्येन
प्रत्यक्षादिना प्रमाणेन
बाह्यार्थनिष्ठेनान्तःस्वरूपेऽनभिज्ञातवार्तालेशेनापि इति
समर्थयति अथ स्वानुभवेत्यादि ।
५ पूर्वपक्षवादिनो मामुत्तरपक्षवादिनम् ।
६ उपगता अङ्गीकृता तथा परमार्थभूता ।
७ स एव स्वानुभवः ।
८ सर्वोत्कर्षतामेवास्य दर्शयति यस्तामिति ।
प्। ७८)
प्रतिभा[१ ] कथिता या वा सानुमानं न तच्च ते ॥ ६४ ॥
न चापि प्रतिपाद्यस्य कादाचित्कप्रतीक्षणम् ।
अथ पश्यन्त्यां प्रतिभा प्रमाणं[२ ] तत्प्रतिभाप्रभासनं
निर्निमित्तमस्ति, कूपे जलमित्यादिवन्न प्रमाणम् । अथात्म[३ ]स्थितिरेव
विलक्षणा
१ तत्र केचित्प्रतिभाप्रत्यक्षं प्रमाणमित्याहुः । तथा च
अस्ति चानागतं ज्ञानमस्मदादेरपि क्वचित्,
प्रमाणं प्रतिभं ह्यो मे भ्रातागन्तेति दृश्यते ॥
नानर्थजं न सन्दिग्धं न बाधविधुरीकृतम् ।
न दृष्टकारणं चेति प्रमाणमिदमिष्यताम् ॥
क्वचिद्बाधकयोगश्चेदस्तु तस्याप्रमाणता ।
यत्रापरेद्युरभ्येति भ्राता तत्र किमुच्यताम् ॥
तदेतच्छिथिलयितुमाह प्रतिभा कथिता या वा इति । अत्र वाशब्दोऽस्य
स्फुटं प्रत्यक्षानुभवाग्राह्यतां द्योतयति । तथा चानर्थजमिदं
ज्ञानं भ्रातुस्तज्जनकस्य तदानीमसत्त्वात् । अथोच्यते भावितयैनं
गृह्णाति । तत्र भावितया ग्रहणं ह्यघटमानं भावित्वं नाम
प्रागभावः, अभावस्य च भावेन कः सम्बन्ध इति । यदि मन्यसे अस्ति
कूपे जलमिति प्रतिभा, तथा च नानागतानर्थजत्वशङ्का ततश्च
प्रमाणमेवेत्यपि निरस्यति निर्निमित्तमिति । तच्च संशयात्मकत्वादस्य
यद्युच्यते सोपि तदा नानुभूयते । यथा किमिदं रजतमुतारजतमिति । अपि
तु रजतमिति प्रतीतिः । नहि संशयानाः प्रवर्तन्ते लौकिकाः, किं तु
निश्चिन्वन्त एव विषयमिति किमनुभूयमान एवारोप्यते संशयः,
एकतरग्राह्यपि चायं प्रत्ययः
तन्निश्चयोपायविरहात्संशयकोटिपतित एव भवतीति निर्निमित्तमेव ।
२ यदि हि प्रमाणतयासौ गृह्यते कथं क्वचिद्विसंवदेत् ।
अप्रमाणतया तु गृह्यमाणः पुमांसं प्रवर्तयेत् ।
३ प्रत्यक्षतायां बाधमुक्त्वानुमानवादि समर्थयति अथेति ।
प्। ७९)
ममैवं शंसतीति प्रतिभा, तदात्मस्थितेर्विशिष्टायाः
साध्या[१ ]व्यभिचारनिश्चयेनार्थान्तरावगमेऽनुमानतैव, तच्च
भवतामनिष्टम्, अव्यभिचारानिश्चये त्वनवगमकत्वम्,
युक्तिवशाच्चानुभवः कदाचिद्[२ ]भावी प्रतिभा वा भवेत्, पश्यन्तीं[३ ]
पश्येत्याप्तेन प्रतिपाद्यमानस्य न तु सदा, ततश्च तस्या[४ ] विच्छिन्नं
दर्शनं स्यात्, न सदा प्रकाशमानता, नचैतत् तत्कालप्रतीक्षणं
मतम् ॥
स्वात्मनात्मानमथ चेत्पश्यन्ती सा भविष्यति ॥ ६५ ॥
तदानीं[५ ] प्रतिपाद्यस्य किमायातं स्ववीक्षणात्[६ ] ।
वक्तव्यमेव[७ ] तस्यापि पश्यन्तीं पश्य या स्वयम् ॥ ६६ ॥
१ अयं भावः । यथा हि पर्वतादौ
धूमदर्शनाद्धूमाव्यभिचारादग्न्यर्थान्तरनिश्चयः ह्रदादौ
व्यभिचारदर्शनात् नार्थावगमः, तथा विलक्षणयात्मस्थित्या
पश्यन्त्यर्थसाध्याव्यभिचार इति प्रतिभानुमानपक्षे कैश्चिन्निक्षिप्ता
।
२ कादाचित्कोऽनुभवः प्रतिभेत्यन्य इत्यर्थः ।
३ पश्यन्ती हि भवद्भिः सदा प्रकाशमानतास्वभावाभ्युपगतेति
विरोधः ।
४ तस्याः पश्यन्त्याः ।
५ ननु नास्माभिः कादाचित्केनानुभवेन प्रतिपाद्या पश्यन्ती
अभ्युपगता, येन कादाचित्कत्वात्पश्यन्त्या
विच्छिन्नदर्शनेऽनित्यत्वादिदोषप्रसङ्गः । अपि तु स्वात्मना
प्रकाशमानेनानुभवितृत्वेनानुभवविषयमेव प्रकाशमानं
पश्यन्ती पश्यति । एवं च सततं प्रकाशमानतैवेत्यपि निराकरोति
तदानीमित्यदिना । तथा स्वात्मनात्मानमेव सा प्रत्यवमृशति परतु
पश्यन्तीव्यपदेशस्तूपदेश्यजनापेक्षयैव न स्वतः
कर्मव्यपदेशोऽत्रेति च समर्थयति ।
६ तस्याः स्वयं प्रथनात् ।
७ उपदेशो ह्यवश्यवक्तव्यत्वाद्विधिलक्षणः, स
चाज्ञातज्ञापनलक्षणः । स्वयमेव
ज्ञातेऽलमन्योपदेशकथावर्णनया ।
प्। ८०)
आत्मानमेव जानाति तथाप्यस्यास्ति कर्मता ।
नानुभवादिना पश्यन्तीदर्शनमपि तु सा स्वात्मना[१ ] न
व्यतिरिक्तेनानुभवेन स्वमात्मानं पश्यन्ती भविष्यतीति यदि मतम्,
तदेवं सति प्रतिपाद्यस्य भवद्भिरुपदेष्ट्टभिः किमपूर्वं कार्यं
स्वयमेव तस्याः प्रथनात् । एवं तु अवश्यवक्तव्यं भवद्भिः
प्रतिपादकैः[२ ] सद्भिः प्रतिपाद्यस्य[३ ] पश्यन्तीमदृष्ट[४ ]पूर्वां त्वं
पश्य या स्वयमेवात्मानं पश्यति । तथापि चास्याः[५ ]
प्रतिपाद्यसम्बन्ध्यनुभवं प्रति पूर्ववत् कर्मतास्त्येव[६ ],
प्रतिपाद्येन[७ ] परिमितत्वात् पराभिमतायाः पश्यन्त्याश्र्च्युतत्वात्,
परिमितेनैव द्वैतदशोचितेनानुभवेन सा दृश्या स्यात्, न तु तदा
प्रतिपाद्यप्रतिपादकपश्यन्तीनामैकध्यं येन कर्मतापत्तीर्न भवेत्
। एवं च कर्मतापत्तौ तस्याः स्वयं प्रकाशताक्षतिरिति पुनरपि
तत्प्रकाशकमेव प्रधानं भवेत् । अव्यतिरिक्तोऽपि[८ ] प्रकाशस्तस्या
आत्मानमात्मना पश्यन्तीं पश्येति विवर्त[९ ]भूम्यालिङ्गनात्
अशुद्धतापन्नः । अस्यास्तीति पश्यन्तीस्वरूपस्य ॥
१ यदुक्तं अथ स्वानुभवेनैव पश्यन्तीं पश्य युक्तितः इत्यस्यै
षोऽभिप्रायो यदीष्टः ।
२ अन्योपदपेशकैः ।
३ उपदेश्यस्य ।
४ उपदेशो हि न दृष्टे प्रवर्तते ।
५ पश्यन्त्याः ।
६ त्वं पश्यन्तीं पश्य स्वानुभवेन तां लक्षयस्वेति स्फुटमेव
पश्यन्त्याः कर्मत्वमायातम् ।
७ ननु पश्यन्त्याः स्वयमात्मदर्शनरूपाया न कथञ्चन
क्रर्मताणुसंस्कारलेशमप्यस्पृशन्त्याः कथं पूर्ववत्कर्मेति । तत्र
हि पारतन्त्र्यं कर्मताऽत्र तु स्वन्त्रैवेत्यत आह प्रतिपाद्येनेत्यादि ।
८ अथ प्रकारान्तरेणापि । अथ स्वानुभवेनैव पश्यन्तीं पश्येति
युनक्ति अव्यतिरिक्त इत्यादिना ।
९ त्वं तस्या आत्मानमात्मना पश्येति तथा च न कर्मता नापि
चोपदेशानर्थक्यमित्येतदपि समर्थयति विवर्तभूम्यालिङ्गनात्
इत्यादिना ।
प्। ८१)
असत्यः[१ ] प्रतिपाद्योऽस्मिन्नसत्यः प्रतिपादकः ॥ ६७ ॥
असत्यस्योपदेशत्वमसत्येन परीक्ष्यते ।
पश्यन्त्यतिरिक्तः[२ ] सर्व एव प्रतिपाद्यादिप्रपञ्चोऽस्मिन्
दर्शनेऽसत्यः[३ ], तत् कुतः पश्यन्त्याः सिद्धिः कस्य वा केन वा
प्रमाणेन ॥
येन सा वा प्रमाणेन स्थाप्यते तस्य सत्यता ॥ ६८ ॥
तत्सत्यत्वे[४ ] द्विसत्यत्वमसत्यत्वे न किञ्चन ।
यदि वा येन प्रमाणेन सा व्यवस्थाप्यते तस्य सत्यता इष्टा, तत्
द्वयोः पश्यन्तीतत्प्रमाणयोः सत्यता प्राप्ता[५ ], प्रमाणस्यासत्यत्वे न
किञ्चन स्थितं स्यात् ॥
साधुशब्दसमुच्चारात्कस्य स्वर्गादियोगिता ॥ ६९ ॥
पश्यन्त्याश्चेदविद्यात्वं तद्भोगौन्मुख्ययोगतः ।
मध्यमादेर्जडायाः किं भोगेन शबलात्मना ॥ ७० ॥
१ ननु च यः प्रतिपाद्यः सोऽपि पश्यन्ती, योऽपि प्रतिपादकः
सोऽप्यसत्यः पश्यन्त्येव, योऽप्युपदेशः सोऽप्यसत्यः पश्यन्त्येव,
योऽपि तत्स्वरूपे परीक्षकः सोऽप्यसत्यः पश्यन्त्येवेति किमत्र परस्य
कथनीयमिति चेत्, एतदेव पुनरपि समर्थनार्थं कथनीयमसत्यमेव हि
सर्वं तर्ह्येतत्सम्पन्नमित्यलं भवद्वाक्प्रलापेनेत्यर्थः ।
२ विशेषप्रतिषेधे सामान्याभ्यनुज्ञानमिति नयेनाह
पश्यन्त्यतिरिक्त इति ।
३ पश्यन्तीविचारे ।
४ तस्य प्रमाणस्य ।
५ तदप्यनिष्ठमेव ।
प्। ८२)
तस्मादसाधुः साधुः स्याच्छब्दविद्याफलप्रदः ।
एवं व्याकरणस्यापि समुच्छेद उपैति ते ॥ ७१ ॥
वैयाकरणैः साधुशब्दप्रयोगः स्वर्गापवर्गफल उक्तः । एकः
शब्दः शास्त्रपूर्वं प्रयुक्तः स्वर्गे लोके कामधुग्भवति इति । तथा
साध्वी[१ ] वाग्भूयसी येषु पुरुषेषु व्यवस्थिता ।
अधिकं वर्तते तेषु पुण्यरूपं प्रजापतेः ॥
प्राजापत्यं महत्तेजस्तन्मात्रैरेव[२ ] संवृतम् ।
शरीरभेदे[३ ] विदुषां स्वां योनिमुपधावति ॥
इति । तत्फलं स्वर्गाख्यं तावत्कस्य स्यात् यः शब्दप्रयोगस्य कर्तेति
तत्फलार्थितया पश्यन्त्याः कर्तृत्वे स्वर्गभोगौन्मुख्यात्
अविद्यासम्पर्केणाशुद्धता स्यात् ।
मध्यमावैखरीदशायामिष्टानिष्टोपलम्भभाजिप्राप्तिपरिहारौन्मु
ख्येन प्रवृत्तिः । तन्न, पारमार्थिकप्रमातृनिष्ठा हि विषयव्यवस्थितिः,
तन्मध्यमादेः सविभागत्वेन द्वैतावस्थाने सति
अविद्याशबलरूपतया जडत्वान्न परमार्थपदप्रतिष्ठेन
किञ्चिद्भोगेन, भोग एवासौ न भवेदित्यर्थः । तस्मात्साधुशब्दः
प्रयुक्तः शब्दविद्याफलस्य भोगादेर्दाता, प्रत्युत पश्यन्त्या
अशुद्ध्यापादनेनासाधुरशुभः स्यात् । एवं
चाशुभकारित्वाद्यथावर्णितफलं व्याकरणमपि त्वदीयं
समुच्छिन्नं हेयमेव स्यात् ॥ ७१ ॥
वैयाकरणतां त्यक्त्वा विज्ञानान्वे[४ ]षणेन किम् ।
१ साध्वी व्याकरणव्युत्पत्तिसंस्कारसहिता ।
२ तैरेव केवलं संवृतं गोपितम् ।
३ मरणक्षणे ।
४ सम्यग्ज्ञानगवेषणया ।
प्। ८३)
भवताम[१ ]प्रस्तुतेन न केवल[२ ]मिहोदितम् ॥ ७२ ॥
विज्ञानाभासनं यावत्[३ ]समीक्षायामुदाहृतम् ।
अर्थप्रतीतिहेतुसाधु[४ ]शब्दानुशासनव्यापारमेव
वैयाकरणत्वं[५ ] त्यक्त्वा मोक्षप्रयोजनैः
शास्त्रैर्यत्सम्यग्ज्ञानमनुसरणीयं तदन्वेषणेन
१ प्रस्तावानर्हेण ।
२ ननु साधुशब्दानुशासनत्वमेव प्रधानं प्रयोजनं
व्याकरणस्य व्यवस्थापितं प्रसङ्गागतं तत्र विज्ञानाभासनं
व्यवस्थापितमिति कात्र हानिरिति समर्थयति न केवलमित्यादिना ।
३ अनेन तेषामत्र सिद्धान्तप्रतीतिरस्तीति ध्वनितम् ।
४ इदानीं यदुक्तं तैरलमनेनाग्रहेण, एवं व्याकरणस्यापि
समुच्छेद उपैति त इत्येवं रूपणेन । यतोऽत्र साधुभिर्भाषितव्यं
नासाधुभिः इति न ब्राह्मणेन नैव म्लेच्छितवै म्लेच्छो ह वा एष
यदपशब्दः इति श्रुतिश्च तथा आहिताग्निरपशब्दं प्रयुज्य
प्रायश्चित्तीयां सारस्वतीमिष्टिं निर्वपेत् । इति च तथालमन्येन
प्रयोजनेन सकलपुरुषार्थसाधनोपदेशनिधेर्वेदस्य
व्याकरणमर्थबोधकत्वात्प्रधानमङ्गमिति तस्मात्सिद्धमेतत् ।
तस्माद्व्याकरणाभियोगसुभगप्रौढोक्तिभिः पण्डितैरक्लेशेन
विचित्रवैदिकपदव्युत्पत्तिरासाद्यते । अन्यैरप्युपबृंहिते
दृढतरमङ्गैर्निरुक्तादिभिर्वेदे स्वार्थधियं वितन्वति कुतः
प्रामाण्यभङ्गो भवेत् इति तदेव विषयभेदोत्थापनपूर्वं
सत्यमित्यनुमत्याङ्गीकरोति साधुशब्दानुशासनेत्यादि ।
५ यतो विभज्य आक्रियन्ते शब्दरूपाणि येन
तद्व्याकरणमित्यन्वर्थै तस्य नाम । तद्विदन्ति अधीयन्ते वा
वैयाकरणास्ते, तेषां भावस्त्वप्रत्ययेनोक्तः, स च भावप्रत्ययो
धर्मान्तरप्रतिक्षेपक इति वैयाकरणतामिति भावप्रत्ययेन ध्वनितः ।
प्। ८४)
भवतां करणीयत्वेनाप्रस्तुतेन[१ ] न किञ्चित्, न केवलं चात्रैव
पश्यन्त्यभिधानेन सम्यग्ज्ञानाभास एव उक्तो
यावच्छब्दधातुसमीक्षायामपि विद्वद्भर्तृहरिणा
दिक्कालादिलक्षणेन व्यापकत्वं विहन्यते ।
अवश्यं व्यापको यो हि सर्वदिक्षु स वर्तते ॥
दिक्कालाद्य[२ ]नवच्छिन्नानन्तचिन्मात्रमूर्तये ।
स्वानुभूत्येकमानाय नमः शान्ताय तेजसे ॥
इति लक्षणेन[३ ] दिग्देशकालैरवच्छेदो विशिष्यमाणता निषिद्धा ।
तच्चायुक्तम्, परिमितदेशकालादर्थात्तस्यावच्छेदात्, अन्यथा[४ ]
सर्वदिक्कालादिविशेषणभावे
१ अप्रस्तुतेनेति प्रस्तावसदृशं हि वाक्यं शोभावहमिति । तच्च
नोपपन्नम्, यद्व्याकरणं साधुशब्दानुशासनलक्षणं तद्धि
मोक्षं प्रति प्रत्युत बाधकमेव । तथा हि मोक्षो हि सर्वथा विच्छेदः ।
यत्पुनः साधुभिर्भाषितव्यं नासाधुभिः इति प्रोक्तम्, तत्र
कोऽसाधुः साधुर्वेति प्रकृतान्तरायकारित्वान्न किञ्चित्तेन
फलमित्यर्थः ।
२ अत्र हि तत्रभवद्भर्तृहरेर्व्यापकत्वमेव मुख्यवृत्त्या
कथनीयम् । तथा हि दिग्देशकालैर्यतोऽपरिच्छिन्नोऽपरिमितस्ततोऽनन्तो
मर्यादारहितः व्यापक इत्यर्थः । तथा कालपरिच्छेदरहितत्वादनन्तो
विनाशरहितो नित्य इत्यर्थः । अत्र हेतुगर्भं विशेषणं
चिन्मात्रमूर्तय इति, तदेव व्यापकत्वं प्रमाणादिव्यापारनिरसनेन
समर्थयति स्वानुभूतीत्यादिना, तेजस इति प्रकाशरूपत्वात् । शान्तायेति
विकल्पोत्तीर्णत्वात् । तदेतदाभासरूपतया न सम्यग्रूपमिति कथयति
दिक्कालेति ।
३ असाधारणस्वरूपकथनं लक्षणम् ।
४ अयं भावः - यदि भवद्भिरत्र दिक्कालाकारविशेषणत्वेन तस्य
विशेष्यस्य तदभावसाधनत्वमिष्टम्, न तैरयं विशेष्यो
भवतीत्येवं प्रकारं तर्हि परिमितादेव तत्सिद्धति । नच तदिष्टम्, अथ
किमिति परिमितादेवेत्युच्यते । किमिति न सर्वस्मादित्युक्तौ
बाधमाहान्यथेत्यादि ।
प्। ८५)
व्यापकत्वादि न स्यात् । व्यापको[१ ] हि भवेत् सर्वदिक्षु अवश्यं
वर्तमानः सर्वकालावच्छिन्नश्च[२ ] नित्यः । व्यापकत्वमुपलक्षणं[३ ]
निर्दिष्टम् ॥
अथ दिक्कालविशेषावच्छेदाभावो मतः, तत्तथैव[४ ] वक्तव्यं न
सामान्येन नच तदपि युक्तमित्याह
स्वानुभूतिर्[५ ]वर्तमानकालेनास्य विभाव्यते ॥ ७३ ॥
एवं कालानवच्छेदः कथमस्योदितो हि तैः[६ ] ।
यस्मिन् हि कालभागे स्थितः सांसारिकः प्रमाता तेनैव
वर्तमानकालेन भविष्यदादिना तदा तस्यावस्थानात्
स्वानुभवविषयतास्योपलक्ष्यते, तत्कथं
कालविशेषेणाप्यनवच्छेदः ॥
१ यदि हि भवतां सर्वस्माद्विशेष्यमाणत्वमिष्टं
स्यात्तत्किमर्थं दिक्कालादिविशेषणत्वं निषिद्धम् । अनया हि
भवदुक्त्या तेऽपि किञ्चित्स्वरूपका इत्युक्तं सम्भवत्येवेत्याह
व्यापको हीत्यादि ।
२ ननु च यथा भर्तृहरिश्लोकेऽनन्त इतिशब्देन व्यापकत्वं
नित्यत्वं चोक्तं तथैवात्रापि समर्थकवाक्ये कथनीयमिति कथमुक्तम्
अवश्यं व्यापको यो हि सर्वदिक्षु स वर्तते । इति ।
३ अत्र हि दिग्व्यापकत्वमेवोक्तं
भवेदित्याशङ्कागर्भीकारेणाहोपलक्षणं निर्दिष्टम् । तदाह
सर्वकालावच्छिन्नश्च नित्य इति ।
४ तत्तथा व्यापकत्वनित्यत्वे सिद्धे । तथैव विशेषतयैव ।
५ नच भवद्भिरेतादृगेवानेनेष्टं येन दिक्कालविशेषावच्छेद
एवेति कथयति स्वानुभूतिरिति ।
५ यदि हि सर्वकालावच्छिन्नत्वेनैव भवतां कालानवच्छेद इष्टः
स्यात्तत्स्वानुभूतीति वर्तमानकालानुभवविषयता कथमस्योच्येत
ततश्च नैतद्भवतामिष्टमिति सिद्धम् ।
प्। ८६)
अनन्तस्यानु[१ ]भूतिः का परिच्छेदं विनात्मनः ॥ ७४ ॥
अनन्तेऽवगमः कुत्र[२ ] तेजस्त्वे शान्तता कथम् ।
असर्वगप्रमाणं हि मूर्तिर्नो[३ ] लक्ष्यते चितः ॥ ७५ ॥
धातुषट्कोपगमाद्भेदवादे[४ ]
देशकालयोगोऽवश्यम्भावीत्यनन्तत्वं देशकालपर्यवसानमुच्येत,
अतश्चा[५ ]पर्यवसितदेशकालस्य सानुभूतिर्न तयोः सम्बन्धो युक्त
इत्यर्थः । तथा[६ ] हि आत्मनः स्वरूपस्य परिच्छेदमियत्तां[७ ] विना अनन्ते
वस्तुनि कुत्रांशेऽवगमोऽस्तु भागानामपर्यवसानात् ।
अनन्तताप्रतीतिस्तु
परिदृष्टतावत्पदार्थनिषेधपुरःसरत्वेनाग्राह्यद्यन्तकोटिदीर्घवस्तु
-मात्रावसायिनी स्फुरति, न त्वनन्तेन
रूपेणापरिच्छिन्नेनावभासनसम्भवः ।
१ ननु निश्चयेनान्यसिद्धान्तं यो न वेत्ति बुधोऽबुधः ।
स्वयं स संशयानोऽन्यं कथं खण्डेत स्वल्पधीः ॥
इति नयेनानिश्चितपराशयेन कथं ग्राह्यते । तथा हि
दिक्कालानवच्छेदेनानन्तत्वं देशकालविप्रकृष्टत्वेन
देशकालापर्यवसानमुच्यते । तथा च देशकालसन्निकृष्टं वस्तु
अव्यापकमनित्यं चोच्यते, देशकालविप्रकृष्टं तु व्यापकमिति
नित्यमितिकथ्यते ततश्च का हानिरित्यत आह अनन्तस्यानुभृतिः केति ।
२ अनन्ताय तेजसे इति यदुक्तं तदपि न युक्तमित्यत आह ।
३ चिन्मात्रमूर्तय इति एतदपि मूर्तिभागं विदलयति ।
४ नैयायिकादिमते ।
५ यदि भवद्भिरनन्तत्वमुच्यत इति शेषः ।
६ युक्त इत्यर्थ इत्यन्तं युगपदेव देशकालापर्यवसानत्वेन
स्फुटमेवानन्त्यमिति निरस्यति ।
७ देशेन कालेन् च ।
८ कुत इति समर्थयति ।
प्। ८७)
परिसमाप्तरूपनिश्चयो हि प्रतीतिः । तेजोरूपता चेत्,
निराभासत्वाभावात् कथं शान्तता । तत्केयमुक्तिः शान्ताय तेजसे इति ।
उपचारे च किं प्रयोजनम् असर्वगतद्रव्यपरिमाणं मूर्तिः
काठिन्यं वा न चित् भवति, तत्कथं चिन्मूर्तय इति ॥ ७५ ॥
अत्रैव शब्दनित्यत्ववादिनो रूढतां गताः ।
अनादिनाथ तेनैव शब्दतत्त्वेन तुल्यता ॥ ७६ ॥
अन्ये वैयाकरणा एव स्फोटादन्यदेव शब्दात्मानं
नित्यमिच्छन्ति, तत्रैव रूढाः । अथ तत्रापि[१ ] तेषां
पश्यन्तीरूपेणानादिनिधनात्मना शब्दतत्त्वेन तुल्या
प्रमाणाभावादिदूषणता स्फोटात्मना[२ ] वा ॥ ७६ ॥
तदाह
आप्तानाप्तभाषितत्वे विशेषो नास्ति शब्दगः ।
नित्यत्वे शब्दतत्त्वस्य व्यङ्ग्यत्वं ध्वनिभिर्न च ॥ ७७ ॥
व्योमवच्चेन्न तुल्यत्वं सदा व्योम्न्यनुमेयता ।
अनाप्तभाषितस्यापि नित्यत्वाविशेषात् तुल्यप्रमाणता[३ ] स्यात् । न[४ ] च
नित्यस्य ध्वनिभिः कदाचिद्व्यङ्ग्यत्वं युक्तं नित्यमेकरूपत्वेन
व्यक्ताव्यक्ततायोगात् । अथ यथा नित्यमेकमपि चाकाशं
ध्वनिभिर्व्यज्यते
१ नित्यशब्दतत्त्वे । तेषां नित्यशब्दात्मतत्त्ववादिनाम् ।
२ तुल्येति सम्बन्धः । तत्तुल्यत्वमेवाह आप्तेति ।
३ तथा चाव्यवस्था न चेष्टेति भावः ।
४ ननु च नित्यत्वेऽपि शब्दतत्त्वस्याप्तानाप्तभाषितव्यवस्था
सिद्ध्यत्येव, नित्यत्वेऽपि ध्वनिभिरेव तस्य
व्यङ्ग्यत्वादाप्तध्वनिव्यङ्ग्यत्वे सत्यता,
अनाप्तध्वनिव्यङ्ग्यत्वेऽसत्यतेति । तथा च न कश्चिद्दोष इत्यत आह न
चेत्यादि ।
प्। ८८)
घटाकाशादि वा घटादिभिः तथा शब्दोऽपीति ।
तन्नतुल्यत्वमत्र[१ ], यतः सदा व्योम्नि शब्दगुणादिनानुमेयता न तु
प्रत्यक्षाख्या व्यक्तिः ।
भवत्पक्षे[२ ] न किं न्याय एष आयाति चेच्छिवे ॥ ७८ ॥
तथा रूपानुरूपत्वात्प्रसूतेः शिव[३ ]रूपतः ।
सत्यत्वाच्च न तुल्य[४ ]त्वमतोऽस्मात्प्रविरम्यताम्[५ ] ॥ ७९ ॥
शिवाद्वैतपक्षेऽपि भवतः शब्द इव शिवेऽपि
सत्यत्वादिदूषणन्यायः किं नापततीति चेत् । तन्न, जगदपि ततः
शिवरूपात् शिवरूपानुरूप्येण तथा सर्वशक्तियोगात् यदा प्रसूतं
तदा शिवरूपमेव, अत
१ तन्नेति न शब्दः काकाक्षिवद्योज्यः । तन्नेति
भवद्वचनमयुक्तमित्यर्थः । न हि तुल्यमत्रेति योज्यम् ।
२ ननु च अचिन्त्याः खलु ये भावा न तांस्तर्केषु योजयेत्
इत्याप्तोक्तिरेवैतादृग्विषयेऽनुमन्तव्याकोऽत्र निर्बन्धो यद्याभासान्
इत्यादि । तथा चाप्तोक्तत्वान्मौनमेवात्र शरणम् । नहि अचिन्त्येऽपि
तर्कोद्युक्तस्य कदाचिदपि सत्यार्थपरिनिष्ठितिः स्यात् । अथ चेत्तर्क एव
शरणम्, तर्हि किमिति भवद्भिर्वयमेव प्रत्याक्षिप्ताः । भवतामप्यत्र
कायुक्तिरित्याशङ्कापूर्वं स्वमतोत्कर्षं प्रथयति भवत्पक्ष
इत्यादिना । नकिंशब्दः शिरश्चालने, न किमायाति आयात्येवेत्यर्थः । इति
शब्दस्याध्याहारोऽत्र कर्तव्यः ।
३ रूपप्रसाररसतो गर्हितत्वमयुक्तिमत् इति प्रथमाह्निक
एवोक्तत्वादित्यर्थः ।
४ भवन्मतेन ।
५ भवद्भिरत्र दूषणारोपणादिनेत्यर्थः । अथ
वास्मात्प्रविरम्यतामिति ल्यब्लोपपञ्चम्या व्याख्येयम् ।
अस्मादेनमाविश्य स्वयमेव भवद्भिः प्रकर्षेण सुखेन स्थीयताम्,
स्वमतं त्यक्त्वैतमेव मतमाश्रयध्वमित्यर्थः ।
प्। ८९)
एव च सत्यरूपम्, तथा च वक्ष्यते विस्तरतः । तन्न तुल्यत्वं
शब्दाद्वैतपक्षेण शिवाद्वयस्येत्येतद्दूषणापादनात् विरम्यताम् ॥
७९ ॥
तदेतत्प्रासङ्गिकमुक्त्वा पश्यन्तीमेव पर्यालोचयन्नाह ।
अथ[१ ] नाम्नैव पश्यन्ती स्फुटमेव जडा ततः ।
ज्ञानशक्तिः स्मृता भङ्ग्या स्त्रीलिङ्गव्यपदेशतः ॥ ८० ॥
अथ दर्शनार्थान्वये[२ ] दोषान्नाममात्रेण या[३ ]दृच्छिकेन
पश्यन्ती इष्यते, स्त्रीलिङ्ग[४ ]भङ्ग्या च ब्रह्मसम्बन्धिज्ञनशक्तिरूपा
सा मता, ततो विरुद्धमेतत्[५ ] दर्शनासमन्वयात् जडतापत्तेः, जडात्मनि
च ज्ञानशक्तितानुपपत्तिरिति ॥ ८० ॥
शब्दस्य विषयाख्यस्य मिश्रत्वेनेन्द्रियस्य तु ।
सर्व[६ ]दर्शनविज्ञानशून्यता पदवेदिनाम् ॥ ८१ ॥
१ ननु कृतं भवद्दोषारोपणेन किं पश्यन्तीति कथ्यतामिति । नहि
सर्वत्र यौगिकोऽर्थः सम्भवति । सन्ति हि डित्थादयोऽपि शब्दाः । ततश्च
रूढिमहिम्नैव कुशलादिवदत्रापि पश्यन्तीनिर्देशः । न च वक्तव्यं
किमनेन तथापि पश्यन्तीशब्देन व्यपदेश्यम्, स्त्रीलिङ्गनिर्देशादेव
ज्ञानशक्तिरूपत्वादस्या इत्यपि निरसयन्नाहाथेत्यादि ।
२ दृशिधातोः कर्मरूपस्यार्थस्यान्वये ।
३ साङ्केतिकेन ।
४ तथापि किं वस्तु पश्यन्त्या स्वीकृतमित्यत आह स्त्रीलिङ्गेति
५ पश्यन्तीति दर्शनार्थासम्भवेनायौगिकत्वे स्थिते सतीत्यर्थः ।
अहो महदाश्चर्यं पश्यन्तीति दर्शनासम्भवाद्रूढित्वमाश्रितं
तत्रैव च ज्ञानशक्तिरिति ।
६ इदानीं केचिदनादिनिधनमित्यत्र शब्दतत्त्वमित्यनेन तथा
वाग्रूपतामित्यत्र च परावागित्यनेन अनयोर्वाक्शब्दतत्त्वयोः
परस्परसंश्लेष एव यः स एव परं तत्त्वमित्याहुः । तच्च
शब्दतत्त्वं विषयाख्यं कर्मरूपं ग्राह्यं वाक्तत्त्वं च
करणरूपं ग्राहकम्, तथा च ग्राह्यग्राहकयोरभेद एव
परमार्थतत्त्वमिति तदेतत्सोपहासं प्रत्याह सर्वदर्शनेति ।
प्। ९०)
यस्मादनादिनिधनं शब्दतत्त्वं परा हि वाक् ।
पश्यन्त्या वर्ण्यमानत्वे हस्ते ग्राह्यैकता पतेत् ॥ ८२ ॥
विषयरूपत्वेन कर्मतया[१ ] यस्याख्या प्रतीतिः शब्दस्य तस्य
इन्द्रियस्य च करणतया[२ ] प्रसिद्धस्य वाग्रूपस्य मिश्रत्वेनैकीकारेण
यस्मात्तैरुक्तमनादिनिधनमित्यादिकमभेदाभिधायि तयोः[३ ],
तस्मात्तेन मिश्रीकारेण सर्व[४ ]दर्शनाज्ञानता पदवेदिनां
वैयाकरणानां प्राप्ता । नहि क्वचिदपि साङ्ख्यादिदर्शनेषु
व्यावहारिकयोरिन्द्रियविषययोरभेद इष्टः । एवं[५ ] च वा शब्दस्य
परत्वेनानादिनिधनत्वेनाद्वयवादादैक्येन वर्ण्यमानत्वे हस्तेऽपि[६ ]
कर्मेन्द्रिये तद्ग्राह्येण विषयेणैकता प्रसज्येत ॥ ८२ ॥
ब्रह्मणो ज्ञान[७ ]शक्तिः पश्यन्तीत्यपि यावदिष्यते तावदन्यदपि[८ ]
सूक्ष्मतरमेष्टव्यमित्याह
१ ग्राह्यतया ।
२ ग्राहकतया ।
३ वाक्तत्त्वशब्दतत्त्वयोः ।
४ सर्वशास्त्रानभिज्ञत्वं ।
५ एवमित्यङ्गीकारे ।
६ हस्तेनेत्युपलक्षणं तेनान्येषामपि कर्मेन्द्रियाणामेवमेव
बोध्यम् ।
७ ननु किमिदमुच्यते जडात्मनि ज्ञानशक्तिरिति, अत्र हि न
स्वरूपद्वित्वमाश्रितम्, यने स्वरूपं जडात्मकम्, सा च स्वयं
ज्ञानात्मिका शक्तिरिति । यैव हि ब्रह्मणो ज्ञानात्मिका शक्तिः सैव
पश्यन्तीति शक्तिरूपा, नतु स्वतन्त्रा काचिदिति । तथा च न तस्यां
काचनापि पूर्वोक्तदूषणावतारसरणिरित्यभ्युपगमद्वारेण
स्वमतेन सिद्धान्तयति ।
८ उन्मीलितमायुष्मतो विवेकचक्षुषा न कारणमत्र विद्मो येन न
तूर्णं विकसतीति भावत्वेनाह तावदित्यादि ।
प्। ९१)
पश्यन्ती हि क्रिया तस्या भागौ पूर्वापरौ स्थितौ ।
न[१ ] तद्द्रष्टव्यमित्येतद्विमर्शः पूर्वतो भवेत् ॥ ८३ ॥
यथा कर्तुः कुलालादेर्घटः कार्य इतीदृशः ।
विमर्श इच्छारूपेण तद्वदत्रापि संस्थितम् ॥ ८४ ॥
सा स्थिता पूर्वतस्तस्या इच्छायाः प्रसरः कथम् ।
यावन्न सूक्ष्म उल्लासश्चितः कार्योन्मुखः स्थितः ॥ ८५ ॥
तस्या अपि सामरस्ये व्यवस्थावान् स्थितः शिवः ।
एवं भवप्रक्रियाया अपि सूक्ष्मतरा स्थितिः ॥ ८६ ॥
स्थिता सा न पुनः सत्या वाचो वायुगमात्मनः ।
इष्यते ब्रह्म[२ ]रूपत्वं घटादेरपि कथ्यताम् ॥ ८७ ॥
पश्यन्ती हि दर्शनक्रियात्मिका पूर्वापरीभूतावयवा, पूर्वं[३ ]
चैतद्द्रष्टव्यमिति विमर्शः कुलालादेरिव
घटादिकरणेऽवश्यमिच्छात्मकः स्यात्, तद्वदत्रापि[४ ] सर्वमेतत्स्थितम् ।
एवं चेच्छा दर्शनक्रियायाः पूर्वा स्थिता, तस्याश्चेच्छाया अपि
चित्तत्त्वसम्बन्धिसूक्ष्मतरोल्लासमिष्टज्ञेयकार्यौन्मुख्यलक्षणं
विना प्रागुक्तन्यायात् कथं प्रसरः, तस्या अपि चितो
निवृत्त्यौन्मुख्येच्छाज्ञानक्रियाक्रमव्यवस्थाया
यत्सामर्थ्यमेकीभावः
१ न शब्दोऽत्र शीर्षचालनन्यायेनाभ्युपगमेन द्रष्टव्यं
द्रष्टव्यमेवेत्यर्थः ।
२ यदि च सामान्यतयास्या वाचस्तर्हि घटादेरपि तथा
प्रकल्प्यताम् ।
३ तस्या क्रियायाः ।
५ पश्यन्तीविचारे ।
प्। ९२)
समावेशविषयस्तत्र व्यवस्थावान् व्यवस्थाश्रयोऽक्रमः
शिवभट्टारकः स्थित इति । एवं ज्ञानशक्तिताभिप्रायेणापि पश्यन्त्या
भवलक्षणां प्रक्रियां प्रति सूक्ष्मतरान्यापि पररूपा स्थितिरस्ति,
ततः साप्यनुमन्तव्या न तु वायुगमात्मिकाया वाचः सत्यास्तस्या
ब्रह्मरूपत्वमेष्टव्यम् । एवमिष्यमाणे[१ ] भूतत्वाविशेषात्
घटादेरप्येवमुच्यताम् ॥ ८७ ॥
यथा[२ ] सर्वपदार्थानां भगवच्छिवरूपता ।
तद्वद्वागिन्द्रियस्यापि न पुनः सा परा दशा[३ ] ॥ ८८ ॥
कण्ठादौ वदने वायौ व्यापारो वाग्रुतस्य सा ।
करणम्, नादरूपादिशब्दस्यास्ति शिवात्मता ॥ ८९ ॥
तस्यापि कथिता पञ्चतत्त्वदीक्षाविधौ क्वचित् ।
न वाच इष्यते तद्वत्तस्त्मात्सर्वं शिवात्मकम् ॥ ९० ॥
यद्यपि सर्वार्थानां ज्ञानगोचराणां चिदन्तःप्रवेशात्
चिल्लक्षणपरमेश्वररूपता परमार्थतो यथा तथा वागिन्द्रियस्यापि
ज्ञेयसर्वार्थान्तर्भावादज्ञेयत्वे सत्वादेः, तथापि
वागिन्द्रियदशापरा न भवात, मायाशक्त्या
१ तस्या ब्रह्मत्वे ।
२ ननु च सत्यमेवैतद्धटादेरपि कथ्यतामिति यत्सर्वार्थानां
ज्ञानगोचरत्वाच्चिदन्तःप्रवेशाच्चिन्मयत्वे परिपूर्णमखण्डमेव
परमेश्वरत्वमिति, तच्च साम्येऽपि वाच इयान्विशेसः
सत्त्वादेर्यदग्राह्यत्वमिति, सर्वार्थान्तर्भावस्तु सर्वत्र समान एवेति
बुद्ध्याद्यग्राह्यत्वविशेषेण तस्या एव ब्रह्मत्वमित्याशङ्क्याह
यथेत्यादि ।
३ न पुनः सा परा दशा इत्यनेन तस्या अन्येभ्यो विशेषे सत्यपीति
ध्वनितम् ।
प्। ९३)
शिवाभेदाख्यात्या तदुत्थानात् । तथा हि कण्ठताल्वादौ
वदनैकदेशे वायोर्योऽभिघातव्यापारः शब्दाविर्भावहेतू रुतं
नाम तस्य सा करणम्, एषा च सर्वैव भेदमय्यपरावस्था । अथ
नादरूपस्य स्थूलस्य सूक्ष्मस्य परस्य च शब्दस्यास्ति मन्त्रात्मनः
परमशिवात्मता तदिष्टा कथिता पञ्चतत्त्वदीक्षाविधौ दीक्षाशास्त्रे
न पुनरेवं वाच इन्द्रियरूपायाः, परभावस्तन्मयत्वं वा जगतो
युक्तम्, अतः सर्वं शिवात्मकमेवोपपन्नमिति शिवम् ॥ ९० ॥
इति श्रीमदुत्पलदेवपादकृतौ श्रीशिवदृष्टिवृत्तौ द्वितीयमाह्निकम् ॥ २ ॥