अथ चतुर्दशमाह्निकम् ।
अथ पुत्रकदीक्षाविधिः [पुत्र इव पुत्रकः प्रतिकृतौ अर्थे कः ।] । स
च विस्तीर्णः तन्त्रालोकात् अवधार्यः । सङ्क्षिप्तस्तु उच्यते । समय्यन्तं विधिं
कृत्वा तृतीयेऽह्नि त्रिशूलाब्जे [पूजनं तु बहिः कल्पनया
समयिदीक्षायां हि अन्तर्यागार्थमेव त्रिशूलास्त्रमण्डलनिरूपणम् इह तु
बहिः कल्पनयेति विशेषः ।] मण्डले सामुदायिकं यागं पूजयेत् तत्र
बाह्यपरिवारं द्वारदेवताचक्रं च बहिः पूजयेत् ततो मण्डलपूर्वभागे
ऐशकोणात् आरभ्य आग्नेयान्तं पङ्क्तिक्रमेण गणपतिं गुरुं
परमगुरुं परमेष्ठिनं पूर्वाचार्यान् योगिनीचक्रं वागीश्वरीं
क्षेत्रपालं च पूजयेत् । तत आज्ञां समुचिताम् आदाय शूलमूलात् प्रभृति
सितकमलान्तं समस्तम् अध्वानं न्यस्य अर्चयेत् ततो मध्यमे त्रिशूले
मध्यारायां भगवती श्रीपराभट्टारिका भैरवनाथेन सह
वामारायां तथैव श्रीमदपरा दक्षिणारायां श्रीपरापराः दक्षिणे
त्रिशूले मध्ये श्रीपरापरा वामे त्रिशूले मध्ये श्रीमदपरा
[[१५७]]
द्वे तु यथास्वम् । एवं सर्वस्थानाधिष्ठातृत्वे भगवत्याः सर्वं
पूर्णं तदधिष्ठानात् भवति इति । ततो मध्यशूलमध्यारायां समस्तं
देवताचक्रं लोकपालास्त्रपर्यन्तम् अभिन्नतयैव पूजयेत् तदधिष्ठानात्
सर्वत्र पूजितम् । ततः कुम्भे कलशे मण्डले अग्नौ स्वात्मनि च
अभेदभावनया पञ्चाधिकरणम् [पञ्चाधिकरणं तु यथा
ह्रस्वाकारविरिञ्चजागरधरित्र्याद्या हि ये पञ्चकाः
शक्त्याद्याश्च तथैव शङ्करनुतेः पूर्णावमर्शात्मनः ।
ये प्राप्तप्रणवाभिधाः कुशलव ॥॥॥ शोऽपि विश्वप्रथा-
स्तं पञ्चप्रणवं स्मरामि सततं स्वच्छन्दधामाप्तये ॥
ह्रस्वं दीर्घं प्लुतं सूक्ष्ममतिसूक्ष्मं परं शिवम् ।
प्रणवं पञ्चधा ज्ञात्वा भित्त्वा मोक्षो न संशयः ॥] अनुसन्धिं
कुर्यात् ततः परमेश्वराद्वयरसबृंहितेन पुष्पादिना विशेषपूजां
कुर्यात् । किं बहुना तर्पणनैवेद्यपरिपूर्णं वित्तशाठ्यविरहितो
यागस्थानं कुर्यात् । असति वित्ते तु महामण्डलयागो न कर्तव्य एव ।
पशूंश्च जीवतो निवेदयेत् । तेऽपि हि एवम् अनुगृहीता भवन्ति इति कारुणिकतया
पशुविधौ न विचिकित्सेत् । ततोऽग्नौ परमेश्वरं तिलाज्यादिभिः सन्तर्प्य
तदग्रेऽन्यं
[[१५८]]
पशुं वपाहोमार्थं कुर्यात् देवताचक्रं तद्वपया तर्पयेत्
पुनर्मण्डलं पूजयेत् ततः परमेश्वरं विज्ञप्य
सर्वाभिन्नसमस्तषडध्वपरिपूर्णम् [क्: सर्वाभिमानसमस्तेति
पाठः ।] आत्मानं भावयित्वा शिष्यं पुरोऽवस्थितं कुर्यात् ।
परोक्षदीक्षायां जीवन्मृतरूपायाम् अग्रे तं ध्यायेत् तदीयां वा
प्रतिकृतिं दर्भगोमयादिमयीम् अग्रे स्थापयेत् । तथाविधं शिष्यम्
अर्घपात्रविप्रुट्नोक्षितं पुष्पादिभिश्च पूजितं कृत्वा समस्तमध्वानं
तद्देहे न्यसेत् । तत इत्थं विचारयेत् भोगेच्छोः शुभं न शोधयेत् ।
मुमुक्षोस्तु शुभाशुभम् उभयमपि । निर्बीजायां तु समयपाशान् अपि
शोधयेत् सा च आसन्नमरणस्य अत्यन्तमूर्खस्यापि कर्तव्या इति
परमेश्वराज्ञा तस्यापि तु गुरुदेवताग्निभक्तिनिष्ठत्वमात्रात् सिद्धिः । अत्र
च सर्वत्र वासनाग्रहणमेव भेदकम् मन्त्राणां वासनानुगुण्येन
तत्तत्कार्यकारित्वात् । एवं वासनाभेदमनुसन्धाय
मुख्यमन्त्रपरामर्शविशेषेण समस्तमध्वानं स्वदेहगतं
शिवाद्वयभावनया
[[१५९]]
एवं क्रमेण पादाङ्गुष्ठात् प्रभृति द्वादशान्तपर्यन्तं
स्वात्मदेहस्वात्मचैतन्याभिन्नीकृतदेहचैतन्यस्य शिष्यस्य आसाद्य तत्रैव
अनन्तानन्दसरसि स्वातन्त्र्यैश्वर्यसारे
समस्तेच्छाज्ञानक्रियाशक्तिनिर्भरसमस्तदेवताचक्रेश्वरेसमस्ता##-
शिष्यात्मना सह एकीभूतो विश्रान्तिमासादयेत् इत्येवं परमेश्वराभिन्नोऽसौ
भवति । ततो यदि भोगेच्छुः स्यात् ततो यत्रैव +++([क्: ततस्तत्रेति पाठः ।])+++
तत्त्वे भोगेच्छा अस्य भवति तत्रैव समस्तव्यस्ततया [समस्तेति
अण्डकल्पनया अवान्तरभेदकल्पनया च ।; ग्: समस्तमिति पदं नास्ति ।]
योजयेत् । तदनन्तरं शेषवृत्तये परमेश्वरस्वभावात् झटिति प्रसृतं
शुद्धतत्त्वमयं देहम् अस्मै चिन्तयेत् [येन शेषवृत्तिरस्य सिद्ध्यति ।
] इत्येषा समस्तपाशवियोजिका दीक्षा । ततः शिष्यो गुरुं दक्षिणाभिः
पूर्ववत् पूजयेत् । ततोऽग्नौ शिष्यस्य विधिं कुर्यात्
[[१६०]]
श्रीपरामन्त्रः [एतन्निर्णयश्च सुस्पष्टः परात्रिंशिकाविवरणे
द्रष्टव्यः ।] अमुकस्यामुकं तत्त्वं शोधयामि इति स्वाहान्तं
प्रतितत्त्वं तिस्र आहुतयः अन्ते पूर्णा वौषडन्ता । एवं
शिवान्ततत्त्वशुद्धिः ततो योजनिकोक्तक्रमेण पूर्णाहुतिः । भोगेच्छोः
भोगस्थाने योजनिकार्थमपरा शुद्धतत्त्वसृष्ट्यर्थमन्या । ततो गुरोः
दक्षिणाभिः पूजनम् इत्येषा पुत्रकदीषा । यत्र वर्तमानमेकं वर्जयित्वा
भूतं भविष्यच्च कर्म शुध्यति ॥
अन्तः समस्ताध्वमयीं स्वसत्तां
बहिश्च सन्धाय विभेदशून्यः ।
शिष्यस्य धीप्राणतनूर्निजासु
तास्वेकतां सङ्गमयेत्प्रबुद्धः ॥
शिष्यैकभावं झटिति प्रपद्य
तस्मिन्महानन्दविबोधपूर्णे ।
यावत्स विश्राम्यति तावदेव
शिवात्मभावं पशुरभ्युपैति ॥
[[१६१]]
जे सहु एकीभा-उलये
विणु अच्छ-इ एहु विवोह समुद्द ।
सो पशु भ-इरवु हो इलये विणु
अन्तर्नावजि-उ अस असमुहु ॥
इति श्रीमदभिनवगुप्ताचार्यविरचिते तन्त्रसारे पुत्रकदीक्षाप्रकाशनं नाम
चतुर्दशमाह्निकम् ॥१४॥