अथ द्वादशमाह्निकम् ।
दीक्षादिकं वक्तव्यम् इति उक्तम् अतो दीक्षास्वरूपनिरूपणार्थं प्राक्
कर्तव्यं स्नानम् उपदिश्यते । स्नानं च शुद्धता उच्यते शुद्धता च
परमेश्वरस्वरूपसमावेशः । कालुष्यापगमो हि शुद्धिः [सामान्येन
कथनमेतत् ।] कालुष्यं च तदेकरूपेऽपि
अतत्स्वभावरूपान्तरसंवलनाभिमानः । तदिह [विशेषमाह
तदिहेत्यादिना ।] स्वतन्त्रानन्दचिन्मात्रसारे स्वात्मनि विश्वत्रापि वा
तदन्यरूपसंवलनाभिमानः [तदन्यरूपेति
अस्वतन्त्राप्रकाशरूपेत्यर्थः ।] अशुद्धिः सा च
महाभैरवसमावेशेन व्यपोह्यते सोऽपि कस्यचित् झटिति भवेत् कस्यापि
उपायान्तरमुखप्रेक्षी । तत्रापि [तत्रापि च उपायमुखप्रेक्षित्वे इत्यर्थः ।
] च एकद्वित्र्यादिभेदेन समस्तव्यस्ततया क्वचित् कस्यचित् कदाचित् च तथा
आश्वासोपलभ्देः विचित्रो भेदः । स च अष्टधा क्षितिजलपव-
[[१३०]]
नहुताशनाकाशसोमसूर्यात्मरूपासु अष्टासु [यथोक्तं तन्त्रालोके
एता ह्यनुग्रहात्मानो मूर्तयोऽष्टौ शिवात्मिकाः ।
स्वरूपशिवरूपाभ्यां ध्यानात्तत्तत्फलप्रदाः ॥ इति ।] मूर्तिषु
मन्त्रन्यासमहिम्ना परमेश्वररूपतया भावितासु तादात्म्येन च देहे
परमेश्वरसमाविष्टे शरीरादिविभागवृत्तेः [क्:
शरीराविभागवृत्तेरिति पाठः ।] चैतन्यस्यापि
परमेश्वरसमावेशप्राप्तिः कस्यापि तु स्नानवस्त्रादितुष्टिजनकत्वात्
परमेशोपायतामेतीति उक्तं च श्रीमदानन्दादौ [यथोक्तं तन्त्रालोके
श्रीमदानन्दशास्त्रे च नाशुद्धिः स्याद्विपश्चितः ।
किं तु स्नानं सवस्त्रत्वं तुष्टिसञ्जननं भवेत् ॥ इति ।] धृतिः
आप्यायो वीर्यं मलदाहो व्याप्तिः सृष्टिसामर्थ्यं स्थितिसामर्थ्यम्
अभेदश्च इत्येतानि तेषु मुख्यफलानि तेषु तेषु [तेषु तेषु
पृथिव्यादिष्वित्यर्थः । उपाहितस्य अनुसन्धानेन स्थापितस्येत्यर्थः ।]
उपाहितस्य मन्त्रस्य तत्तद्रूपधारित्वात् । वीरोद्देशेन तु विशेषः तद्यथा
रणरेणुः वीराम्भः महामरुत् वीरभस्म श्मशाननभः तदुपहितौ
[[१३१]]
चन्द्रार्कौ आत्मा निर्विकल्पकः । पुनरपि बाह्याभ्यन्तरतया [तत्र
बाह्यस्नानक्रमः यथेष्टमन्त्रं हृदये स्मरन् गोरजोऽन्तः पदत्रयं
गच्छेत् इति पार्थिवम् १ तथैव पञ्चाङ्गमन्त्रितैर्मूर्धादिपादान्तं
प्रक्षाल्य साङ्गमूलं जपन्निमज्जेत् २ अस्त्रेणाभ्युत्थितं भस्म जप्त्वा
कक्कहृद्गुह्यपदे दद्यात् ततो भस्ममुष्टिं साङ्गमूलजप्तां मूर्ध्नि
क्षिपेत् ३ ह्लादिनि वायौ मन्त्रवाक् गतागतं कृत्वा वायव्यं स्नानमाचरेत् ४
तथा निर्मले गगनेऽपि एकाग्नीकृतदृष्टिर्मन्त्रं स्मरेत् इत्याकाशीयम् ५
एवं सोमार्कतेजसि शिवभावनं स्नानमुच्यते तथा
आत्मैव परमेशानो निराचारमहाहृदः ।
विश्वं निमज्ज्य तत्रैव तिष्ठन्शुद्धश्च शोधकः ॥
इत्यात्मस्नानमष्टमम् ।] द्वित्वम् बहिरुपास्यमन्त्रतादात्म्येन
तन्मयीकृते तत्र तत्र निमज्जनम् इत्युक्तम् । विशेषस्तु आनन्दद्रव्यं
वीराधारगतं निरीक्षणेन शिवमयीकृत्य तत्रैव मन्त्रचक्रपूजनम् ततः
तेनैव देहप्राणोभयाश्रितदेवताचक्रतर्पणम् इति मुख्यं स्नानम् ।
आभ्यन्तरं यथा तत्तद्धरादिरूपधारणया तत्र तत्र पार्थिवादौ चक्रे
तन्मयीभावः ।
परभैरवसम्मज्जन-
माहुः स्नानं यथा तु तद्भवति ।
तदपि बाह्यं स्नानं
न मुख्यमुपचारतः किं तु ॥
[[१३२]]
परमानन्दनिमज्जणु
इ-उपरमत्थिण ह्नाणु ।
तहिं आविदृतरत्ति
दिणु जाण-इ पर अप्पाणु ॥
इति श्रीमदाचार्याभिनवगुप्तविरचिते श्रीतन्त्रसारे स्नानप्रकाशनं नाम
द्वादशमाह्निकम् ॥१२॥