अथ तृतीयमाह्निकम् ।
अथ शाम्भवोपायः ।
यदेतत् प्रकाशरूपं शिवतत्त्वम् उक्तम् तत्र अखण्डमण्डले यदा
प्रवेष्टुं न शक्नोति तदा स्वातन्त्र्यशक्तिमेव अधिकां [अधिकामिति
कल्पनामात्रेण न हि वस्तुतो वस्तुनः स्वभावोऽतिरिच्यत इति भावः ।]
पश्यन् निर्विकल्पमेव भैरवसमावेशम् अनुभवति अयं च अस्य उपदेशः
सर्वमिदं भावजातं बोधगगने प्रतिबिम्बमात्रं
प्रतिबिम्बलक्षणोपेतत्वात् इदं हि प्रतिबिम्बस्य लक्षणं यत् भेदेन भासितम्
अशक्तम् अन्यव्यामिश्रत्वेनैव भाति तत् प्रतिबिम्बम् [यथोक्तम् ।
हन्त मुखं प्रतिबिम्बति प्रतिबिम्बयतु तथा तदपि दर्पणः ।
दर्पणः पुनर्यस्मिन् प्रतिबिम्बति सोऽपि ज्ञातव्यः ॥
इति महार्थमञ्जर्याम् । तथा
सदृशं भाति नयनदर्पणाम्बरवारिषु ।
तथाहि निर्मले रूपे रूपमेवावभासते ॥
प्रच्छन्नरागिणी कान्तप्रतिबिम्बितसुन्दरम् ।
दर्पणं कुचकुम्भाभ्यां स्पृशन्त्यपि न तृप्यति ॥]
मुखरूपमिव दर्पणे
रस इव दन्तोदके
गन्ध इव घ्राणे
मिथुनस्पर्श इव आनन्देन्द्रिये
शूलकुन्तादिस्पर्शो +++([ख्: स्थूलशून्यादिस्पर्शो वा इति पाठः ।])+++ वा अन्तःस्पर्शनेन्द्रिये
प्रतिश्रुत्केव व्योम्नि ।
न हि स रसो मुख्यः
तत्कार्यव्याधिशमनाद्यदृष्टेः ।
नापि गन्धस्पर्शौ मुख्यौ गुणिनः - तत्र अभावे तयोरयोगात् कार्यपरम्परानारम्भात् च ।
न च तौ न स्तः - देहोद्धूलनविसर्गादिदर्शनात् ।
शब्दोऽपि न मुख्यः - कोऽपि वक्ति इति आगच्छन्त्या इव प्रतिश्रुत्कायाः श्रवणात् ।
एवं यथा एतत् प्रतिबिम्बितं +++([क्: बिम्बप्रतिबिम्बेति पाठः ।])+++ भाति तथैव विश्वं
परमेश्वरप्रकाशे +++([ख्: परमेश्वरस्वरूपं नाना स्पष्टमिति पाठः।])+++ ।
ननु अत्र बिम्बं [बिम्बलक्षणं यथा - अव्यामिश्रं स्वतन्त्रं सद् भासमानं मुखं यथा ।] किं स्यात्? मा भूत् किञ्चित्।
[[१२]]
ननु किम् अकारणकं तत् ?
हन्त तर्हि हेतुप्रश्नः - तत् किं बिम्बवाचोयुक्त्या?
हेतुश्च परमेश्वरशक्तिरेव स्वातन्त्र्यापरपर्याया भविष्यति।
विश्वप्रतिबिम्बधारित्वाच्च विश्वात्मकत्वं भगवतः -
संविन्मयं हि विश्वं चैतन्यस्य व्यक्तिस्थानम् इति
तदेव हि विश्वम् अत्र प्रतीपम् इति
प्रतिबिम्बधारित्वम् अस्य।
तच्च तावत् विश्वात्मकत्वं परमेश्वरस्य स्वरूपं न अनामृष्टं भवति - चित्स्वभावस्य स्वरूपानामर्शनानुपपत्तेः ।
स्वरूपानामर्शने हि वस्तुतो जडतैव +++([ख्: वस्तुनो जडता इति पाठः ।])+++ स्यात्
आमर्शश्च +अयं न साङ्केतिकः - अपि तु चित्स्वभावतामात्रनान्तरीयकः परनादगर्भ उक्तः
स च यावान् विश्वव्यवस्थापकः [शक्तयोऽस्य जगत् सर्वम् इत्युक्त्या शक्तीनां विश्वव्यवस्थापकत्वम् ।] परमेश्वरस्य शक्तिकलापः तावन्तम् आमृशति ।
तत्र मुख्यास्तावत् तिस्रः परमेश्वरस्य शक्तयः -
अनुत्तरः इच्छा उन्मेष इति।
तदेव परामर्शत्रयम् अ-ह-उ इति।
एतस्मादेव त्रितयात् सर्वः शक्तिप्रपञ्चः चर्च्यते।
अनुत्तर एव हि विश्रान्तिरानन्दः।
इच्छायामेव
[इच्छाशक्तेर्लक्षणं यथा
सङ्घट्टेऽस्मिंश्चिदात्मत्वाद्यत्तत्प्रत्यवमर्शनम् ।
इच्छाशक्तिः ।॥] विश्रान्तिर् ईशनम् ।
[[१३]]
उन्मेष [यदुक्तम्
स्वात्मप्रत्यवमर्शो यः प्रागभूदेकवीरकः ।
ज्ञातव्यविश्वोन्मेषात्मा ज्ञानशक्तिः प्रकीर्त्यते ॥] एव हि विश्रान्तिरूर्मिः,
यः क्रियाशक्तेः प्रारम्भः।
तदेव परामर्शत्रयम् … सूर्यात्मकं, चरमं परामर्शत्रयं विश्रान्तिस्वभावाह्लादप्राधान्यात् सोमात्मकम्।
इयति यावत्कर्मांशस्य अनुप्रवेशो नास्ति +++([क्रियाशक्त्यंशस्य ज्ञानशक्तिप्राधान्यात् इत्यर्थः ।])+++ ।
यदा तु इच्छायाम् ईशने च कर्म अनुप्रविशति यत् तत् इष्यमाणम् ईश्यमाणम् इति च
[यदुक्तम्
इच्छाशक्तिर्द्विरूपोक्ता क्षुभिताक्षुभिता च या ।
इष्यमाणं हि सा वस्तु द्वैरूप्येणावभासयेत् ॥] उच्यते
तदा +अस्य द्वौ भेदौ प्रकाशमात्रेण रश्रुतिः, विश्रान्त्या लश्रुतिः - रलयोः
प्रकाशस्तम्भस्वभावत्वात् [स्तम्भः स्थैर्यमित्यर्थः ।]।
[[१४]]
इष्यमाणं च न बाह्यवत् स्फुटम् स्फुटरूपत्वे तदेव निर्माणं स्यात् न
इच्छा ईशनं वा अतः अस्फुटत्वात् एव श्रुतिमात्रं [न साक्षाद्वर्णः ।] रलयोः न व्यञ्जनवत् स्थितिः ।
तदेतद्वर्णचतुष्टयं उभयच्छायाधारित्वात्
[बीजयोनिरूपत्वादुभयत्वम् । अत एव नरसिंहवज्रास्यन्तरमिति
महाभाष्यकारः] नपुंसकम् ऋ ॠ ऌ ॡ इति । अनुत्तरानन्दयोः
इच्छादिषु यदा प्रसरः तदा वर्णद्वयम् ए ओ इति । तत्रापि
पुनरनुत्तरानन्दसङ्घट्टात् वर्णद्वयम् ऐ औ इति । सा इयं क्रियाशक्तिः
तदेव च वर्णचतुष्टयम् ए ऐ ओ औ इति ।
ततः पुनः क्रियाशक्त्यन्ते सर्वं
कार्यभूतं यावत् अनुत्तरे प्रवेक्ष्यति
[तथा च मालिनीवार्तिके
अनुत्तरात्समारभ्य ज्ञानशक्त्यन्तमीदृशम् ।
इच्छैव तु क्रियाशक्तिमीशनेन समास्थिता ॥
प्रकाशस्थितिलेशांशं गृह्णती गण्यतां गता ।
इच्छादि यच्च तत्पूर्वानुत्तरानन्दसङ्गतेः ॥
तदादिश्लेषयोगेन सन्ध्यक्षरचतुष्टयम् ।
ततः स्वरूपसंवित्तिलाभाद्विन्द्वादिका स्थितिः ॥
ततः समग्रसन्दर्भभरिताकाररूपिणि ।
विसर्गः किल शाक्तोऽसौ विक्षेप इति यः स्मृतः ॥
विसर्गस्यैव विश्लेष इति सप्तदशी कला ।
क्वचिदष्टादशी सैव पुनः प्रक्षोभयोगतः ॥
अनुत्तरस्याकारस्य परभैरवरूपिणः ।
अकुलस्य परा येयं कौलिकी शक्तिरुत्तमा ॥
स एवायं विसर्गस्तु तस्माज्जातमिदं जगत् ।
तस्य प्रक्षोभयोग्यत्वं प्रक्षोभकलनोदयः ॥
प्रक्षोभपूर्णताभावात्तदकुलक्रमोनता ।
इति षट्कस्वरूपात्मविमर्शान्दोलनोदितम् ॥
अनुत्तरस्वभावत्वादाद्यस्यैव विजृम्भितम् ।
स एव भगवानन्तर्नित्यं प्रस्फुरदात्मकः ॥
अन्तःस्थसर्वभावौघपूर्णमध्यमशक्तिकः ।
स्वेच्छाक्षोभस्वभावोद्यज्जगदानन्दसुन्दरः ॥
नित्यं स्फुरति सम्पूर्णविसर्गरससुन्दरः ।
शिवशक्त्योः स सङ्घट्टः स्नेह इत्यभिधीयते ॥
अत्रैव पूर्णवैसर्गपदे लब्धुं प्रवेशनम् ।
लेहनामन्थनेत्यादि सम्प्रदायमुपासते ॥
तथाहि मध्यमां नाडीमधिष्ठायाखिलं वपुः ।
प्राणयत्परमं तेजः प्रक्षुब्धामृतमान्यतः ॥
विसृष्टिरूपतां गच्छेद्यात्यानन्दचमत्क्रियाम् ।
अपूर्णां केवलं सा तु पूर्णां तु भगवन्मयी ॥
तेन वैसर्गिकी शक्तिरेकैवेयं विजृम्भते ।
विसर्ग एव प्रक्षुब्धः प्रयत्नद्विगुणत्वतः ॥
हकारो नाम विश्वेषां व्यञ्जनानां प्रसूतिकृत् ।
स एव च पुनर्बिन्दुयोगात् स्वामेव भूमिकाम् ।
अनुत्तरामाश्रयते सोहं भाव इहेष्यते ॥ इति ।]
तावदेव पूर्वं संवेदनसारतया पकाशमात्रत्वेन बिन्दुतया आस्ते अमिति ।
ततस्तत्रैव अनुत्तरस्य विसर्गो जायते अः इति ।
एवं षोडशकं परामर्शानां बीजस्वरूपम् उच्यते ।
तदुत्थं +++([ख्: तदुक्तमिति पाठः ।])+++ व्यञ्जनात्मकं योनिरूपम् ।
तत्र
[तथाहि
अकुलात्पदशक्त्यात्मा प्रथमो वर्ग उत्थितः ।
अनारूपितरूपाया इच्छायाश्च ततः परम् ॥
वह्निक्षमाजुषस्तस्य ट-ताद्यं च द्वयं ततः ।
षादिरुन्मेषतो जात इति स्पर्शाः प्रकीर्तिताः ॥
इच्छाशक्तिर्द्विधा या च क्षुभिताक्षुभितस्वतः ।
सा विजातीयशक्त्यंशः प्रोन्मुखे याति यत्र ताम् ॥
सैव शीघ्रतरोपात्तज्ञेया कालुष्यरूषिता ।
विजातीयोन्मुखत्वेन रत्वं लत्वं च गच्छति ॥
तद्वदुन्मेषशक्तिर्द्विरूपा वैज्रात्यशक्तिगा ।
वकारत्वं सृष्टिसारप्रवर्तकम् ॥
इति मालिनीवार्तिके एव ।] अनुत्तरात्
[[१६]]
कवर्गः श्रद्धायाः इच्छायाः चवर्गः सकर्मिकाया इच्छाया द्वौ
टवर्गस्तवर्गश्च उन्मेषात् पवर्गः शक्तिपञ्चकयोगात् पञ्चकत्वम् ।
इच्छाया एव त्रिविधाया य-र-लाः, उन्मेषात् वकारः, इच्छाया एव त्रिविधायाः श-ष-साः, विसर्गात् हकारः, योनिसंयोगजः क्षकारः ।
इत्येवम् एष भगवान् अनुत्तर एव कुलेश्वररूपः ।
तस्य च एकैव कौलिकी विसर्गशक्तिः यया आनन्दरूपात् प्रभृति इयता बहिःसृष्टिपर्यन्तेन प्रस्पन्दतः वर्गादिपरामर्शा +++([क्: प्रसृताः ककारादि इति कवर्गादि इति च पाठः ।])+++ एव बहिस्तत्त्वरूपतां प्राप्ताः [अकारादि विसर्गान्तं शिवतत्त्वम्
कादि ङान्तं धरादि नभोन्तं भूतपञ्चकम् चादि ञान्तं गन्धादि
शब्दान्तं तन्मात्रपञ्चकम् टादि णान्तं पादादि
वागन्तकर्मेन्द्रियपञ्चकम् तादि नान्तं घ्राणादि श्रोत्रान्तं
बुद्धिकरणपञ्चकम् षादि मान्तं मनोऽहङ्कार बुद्धि प्रकृति
पुरुषाख्यं पञ्चकम् वाद्यादिशब्दवाच्या यकारादयो वकारान्ता राग
विद्या कला मायाख्यानि तत्त्वानि धारणाख्यान्तराणि धारयन्ति
पृथग्भूततयाभिमानयन्तीति धारणानि इति ।] ।
[[१७]]
स च एष विसर्गस्त्रिधा -
आणवः [यदुक्तम्
पूर्वं विसृज्य सकलं कर्तव्यं शून्यतानले ।
चित्तविश्रान्तिसञ्ज्ञोऽयमाणवः सम्प्रकीर्तितः ॥] चित्तविश्रान्तिरूपः
शाक्तः चित्तसम्बोधलक्षणः
शाम्भवः चित्तप्रलयरूपः इति ।
एवं विसर्ग एव विश्वजनने भगवतः शक्तिः ।
इत्येवम् इयतो +++([ख्: इयति इति पाठान्तरं च ।])+++ यदा निर्विभागतया एव परामर्शः
तदा एक एव भगवान् बीजयोनितया भागशः परामर्शे शक्तिमान् शक्तिश्च ।
पृथक् अष्टकपरामर्शे चक्रेश्वरसाहित्येन +++([क्षकारसाहित्येन इत्यर्थः ।])+++
नववर्गः एकैकपरामर्शप्राधान्ये पञ्चाशदात्मकता । तत्रापि
सम्भवद्भागभेदपरामर्शने [भागा अर्धमात्रारूपाः ।]
एकाशीतिरूपत्वम् ।
[[१८]]
वस्तुतस्तु षट् एव परामर्शाः प्रसरण-प्रतिसञ्चरण-योगेन द्वादश
[यदा अनुत्तर आनन्देच्छादिरूपेण प्रसृतस्तदा षट्
पुनर्यदासौ इच्छादिषु प्रतिसञ्चरंस्तदा एकारादयः षट् अतः
षण्ढस्वरवर्जं द्वादश इति ।]
भवन्तः परमेश्वरस्य विश्वशक्तिपूर्णत्वं पुष्णन्ति ।
ता एव एतापरामर्शरूपत्वात् शक्तयो
भगवत्यः श्रीकालिका [कलयन्ति क्रमन्ते इति कालिकाः । यदुक्तम्
परामर्शात्मकत्वेन विसर्गाक्षेपयोगतः ।
इयत्ताकलनाज्ज्ञानात् ताः प्रोक्ताः कालिकाः क्वचित् ॥ इति ।] इति निरुक्ताः ।
एते च शक्तिरूपा एव शुद्धाः परामर्शाः शुद्धविद्यायां परापररूपत्वेन
मायोन्मेषमात्रसङ्कोचात् विद्याविद्येश्वररूपतां [क्: विद्येश्वरतारूपा मन्त्ररूपतामिति पाठः ।; ख्: विद्याविद्येश्वरबीजरूपा मन्त्ररूपतामिति पाठान्तरं च ।] भजन्ते । मायायां पुनः
स्फुटीभूतभेदविभागा मायीयवर्णतां भजन्ते ये
पश्यन्तीमध्यमावैखरीषु व्यावहारिकत्वम् [ख्: व्यवहारकारित्वमिति
पाठः ।] आसाद्य बहीरूपतत्त्वस्वभावतापत्तिपर्यन्ताः ते च मायीया
अपि शरीरकल्पत्वेन [मायीया वर्णा जीवरहितं शरीरमिव तेषां तु
परामर्शो जीव इवास्ति अन्यथा तेऽकिञ्चित्करा इति भावः ।] यदा दृश्यन्ते
यदा च तेषाम्
[[१९]]
उक्तनयैरेतैः जीवितस्थानीयैः शुद्धैः परामर्शैः प्रत्युज्जीवनं क्रियते
तदा ते सवीर्या भवन्ति ते च तादृशा भोगमोक्षप्रदाः इत्येवं
सकलपरामर्शविश्रान्तिमात्ररूपं
प्रतिबिम्बितसमस्ततत्त्वभूतभुवनभेदम् आत्मानं पश्यतो निर्विकल्पतया
शाम्भवेन समावेशेन जीवन्मुक्तता । अत्रापि पूर्ववत् न मन्त्रादियन्त्रणा
काचिदिति ।
अन्तर्बिभाति सकलं जगदात्मनीह
यद्वद्विचित्ररचना मुकुरान्तराले ।
भोधः परं निजविमर्शरसानुवृत्त्या [ख्: निजविमर्शनसारमूर्त्या
इति पाठः; ग्: विमर्शनसारयुक्त्या इति सारयोगादिति च पाठान्तरम् ।]
विश्वं परामृशति नो मुकुरस्तथा तु ॥
[अत्रेयं छाया
संवेदननिर्मलदर्पणेऽस्मिन् सकलं स्फुरन्निजसारम् ।
आमर्शनरससरहस्यविसृष्टरूपं सत्यं भाति ॥] संवे-अण
निम्मल दप्पणस्मि
स-अलं फुरत्त नि-असारम् ।
आमरिसण रस सरहस
विमट्टरू-अं स-इं भा-इ ॥
[[२०]]
[इति श्रुत्वा विमलमेनं निजात्मानं समस्तवस्तुमयम् ।
यो योजयति स परभैरवो भूत्वा परनिर्वृत्तिं लभते ॥] इ-अ सुण##-
नि-अ अप्पाणं समत्थवत्थम-अम् ।
जो जो-अय सो परभैर-इ
बोव्व परणिव्व-इं लह-इ ॥
इति श्रीमदभिनवगुप्ताचार्यविरचिते तन्त्रसारे शाम्भवोपायप्रकाशनं
+++([ख्, ग्: परोपायप्रकाशनमिति पाठः ।])+++ नाम तृतीयमाह्निकम्
॥३॥