एकत्रिंशमाह्निकम्
" विवेकः "
विद्यामायाप्रकृतित्रिप्रकृतिकमध्वसप्तकारमिदम् ।
विश्वत्रिशूलमभितो विकासयञ्जयति कौशिकः शम्भुः ॥
इदानीं तात्पर्यतो मण्डलस्वरूपं वक्तुमुपक्रमते–
अथ मण्डलसद्भावः सङ्क्षेपेणाभिधीयते ।
तत्र तावत् चतुरस्रसिद्धिमाह–
साधयित्वा दिशं पूर्वां सूत्रमास्फालयेत्समम् ॥ ३१-१ ॥
तदर्धयित्वा मध्यप्राक्प्रतीचीष्वङ्कयेत्पुनः ।
ततोऽप्यर्धतदर्धार्धमानतः पूर्वपश्चिमौ ॥ ३१-२ ॥
अङ्कयेत्तावता दद्यात् सूत्रेण भ्रमयुग्मकम् ।
मत्स्यसन्धिद्वयं त्वेवं दक्षिणोत्तरयोर्भवेत् ॥ ३१-३ ॥
तन्मध्ये पातयेत्सूत्रं दक्षिणोत्तरसिद्धये ।
यदि वा प्राक्पराक्तुल्यसूत्रेणोत्तरदक्षिणे ॥ ३१-४ ॥
अङ्क्येदपरादङ्कात् पूर्वादपि तथैव ते ।
मत्स्यमध्ये क्षिपेत्सूत्रमायतं दक्षिणोत्तरे ॥ ३१-५ ॥
मतक्षेत्रार्धमानेन मध्याद्दिक्ष्वङ्कयेत्ततः ।
सूत्राभ्यां दिग्द्वयोत्थाभ्यां मत्स्यः स्यात्प्रतिकोणगः ॥ ३१-६ ॥
मत्स्येषु वेदाः सूत्राणीत्येवं स्याच्चतुरस्रकम् ।
विषुवच्छङ्कुच्छायादिना पूर्वामर्थात् पश्चिमां च दिशं सायं प्रातश्च साधयित्वा जिघृक्षितचतुर्हस्तादिक्षेत्रसाम्येन पूर्वपश्चिमदिगायतं सूत्रं दद्यात् ।
तच्च सममर्धयित्वा मध्ये पूर्वस्यां पश्चिमायां च दिशि अङ्कयेत्–रेखात्रयेण चिह्नयेत्– इत्यर्थः ।
तदनन्तरमपि सकलसूत्रापेक्षया चतुर्भागात्मनोऽर्धस्य अष्टभागात्मनस्तदर्धस्य षोडशभागात्मनस्तदर्धस्य च मानमवलम्ब्य पूर्वपश्चिमावङ्कयेत्–दिग्द्वये बहिर्गत्या तत्र तत्र रेखाषट्कं दद्यात्–इत्यर्थः ।
ततोऽपि तावता पूर्वपश्चिमदिग्द्वयीयतत्तदर्धद्वयमानेन सूत्रेण तत्र तत्र अङ्कस्थाने वामं दक्षिणं च परिस्थाप्य क्रमेण दक्षिणस्यामुत्तरस्यां च दिशि भ्रमयुग्मं दद्यात् येन तत्र काकपक्षाकृति मत्स्यसन्धिद्वयं स्यात् ।
तस्य मत्स्यसन्धिद्वयस्य मध्ये च पातितेन दक्षिणोत्तरायतेन सूत्रेण तद्दिग्द्वयसिद्धिः ।
यदि वेति–अत्रैव पक्षान्तरोपक्रमः ।
प्राक्पराक्तुल्येति–सकलेन–इत्यर्थः ।
अपरादङ्कात् पूर्वादपीति–अनेन अङ्केन सर्वशेषत्वेन शिक्षाया वचनम् ।
तथैवेति –अनन्तरोक्तवत् ।
एवञ्च मध्यमधिकृत्य दिक्चतुष्टयसिद्धिनिमित्तभूतं सूत्रद्वयं चतुर्हस्तादिरूपतया अभिमतस्य क्षेत्रस्य अर्धमानेन दिक्षु अङ्कयेत्–सर्वतः साम्यमुत्पादयितुं तत्र रेखाचतुष्टयं कुर्यात्–इत्यर्थः ।
ततो दिक्चतुष्टयगतेभ्योऽङ्केभ्यश्च दिग्द्वयोत्थाभ्यां सूत्राभ्यां प्रतिकोणगो मत्स्यः स्यात् यथा पूर्वदक्षिणाभ्यामाग्नेये, पूर्वोत्तराभ्यामैशाने, पश्चिमदक्षिणाभ्यां नैरृते, पश्चिमोत्तराभ्यां वायव्ये चेति ।
तेषु च प्रतिकोणगेषु चतुर्षु मत्स्येषु वेदाश्चत्वारि सूत्राणि दद्यात्–इति चतुरस्रसिद्धिः ॥
ननु प्रतिशास्त्रमनेकानि मण्डलानि सन्ति, इह पुनः केषां सद्भावोऽभिधीयते? –इत्याशङ्कां गर्भीकृत्य स्वशास्त्राधिकारेण एषामानैक्येऽपि प्रधानभूतप्रतिनियतमण्डलाश्रयेण बहुप्रकारमुक्तानां शूलवर्तनानां कारणभूतं
“प्रधाने हि कृतो यत्नः फलवान् भवति ।
"
इत्याशयेन श्रीत्रिकसद्भावदर्शितं त्रित्रिशूलं मण्डलं प्रथमं वक्तुं प्रतिजानीते-
एकस्मात्प्रभृति प्रोक्तं शतान्तं मण्डलं यतः ॥ ३१-७ ॥
सिद्धातन्त्रे मण्डलानां शतं तत्पीठ उच्यते ।
यत्तन्मध्यगतं मुख्यं मण्डलानां त्रयं स्मृतम् ॥ ३१-८ ॥
मध्यशूलं त्रित्रिशूलं नवशूलमिति स्फुटम् ।
तत्र शूलविधानं यदुक्तम् भेदैरनन्तकैः ॥ ३१-९ ॥
तद्योनि मण्डलं ब्रूमः सद्भावक्रमदर्शितम् ।
तत्पीठ इति–मण्डलपीठे ।
तन्मध्येति- तच्छब्देन मण्डलशतपरामर्शः ।
उक्तमिति–अर्थात् सिद्धातन्त्रे एव ।
यदुक्तम्–
“अधुना मण्डलं पीठं कथ्यमानं शृणु प्रिये ।
मण्डलानां शतं प्रोक्तं सिद्धातन्त्रे वरानने ॥
तेषां नामानि वक्ष्यामि शृणुष्वैकाग्रमानसा ।
मण्डलानां वरोरोहे शतं यावदनुक्रमात् ॥
"
इति उपक्रम्य
“हाहारावं घनं रुद्धं सामयं चित्रकण्टकम् ।
"
इत्यादि
“मध्यशूलं त्रित्रिशूलं नवशूलं तथैव च ॥
"
इति मध्यम्
“अध्वमेधसमायुक्तं मण्डलानां शतं मतम् ।
"
इत्यन्तम् ॥
तदेव आह–
वेदाश्रिते चतुर्हस्ते त्रिभागं सर्वतस्त्यजेत् ॥ ३१-१० ॥
भागैः षोडशभिः सर्वं तत्तत्क्षेत्रं विभाजयेत् ।
चतुर्हस्ते इति–षण्णवत्यङ्गुलात्मनि ।
त्रिभागमिति– द्वात्रिंशदङ्गुलानि ।
सर्वत इति–चतुर्दिक्कम्, तेन प्रतिदिक्कं षोडश षोडश अङ्गुलानि त्यजेत्–द्वाराद्यर्थमवस्थापयेत्– इत्यर्थः ।
तत् तस्मात् त्रिभागस्य त्यागात् हेतोस्तदवशिष्टं वक्ष्यमाणत्रित्रिशूलवर्तनोपयोगि सर्वं क्षेत्रं षोडशभिर्भागैर्विभजेत् चतुरङ्गुलानि षट्पञ्चाशदधिकं शतद्वयं ( २५६) कोष्ठकानि कार्याणि–इत्यर्थः ।
समस्ते हि क्षेत्रे चतुर्विंशतिधा विभक्ते षट्सप्तत्यधिकं शतपञ्चकं ( ५७६) कोष्ठकानि भवन्ति यतः प्रतिदिक्कं द्वाराद्यर्थं भागचतुष्टयस्य त्यागात् विंशत्यधिकं शतत्रयं ( ३२०) कोष्ठकानि अवशिष्यन्ते–इति तात्पर्यार्थः ॥
तत्र त्रिशूलवर्तनामेव कर्तुमुपक्रमते–
ब्रह्मसूत्रद्वयस्याथ मध्यं ब्रह्मपदं स्फुटम् ॥ ३१-११ ॥
कृत्वावधिं ततो लक्ष्यं चतुर्थं सूत्रमादितः ।
ततस्तिर्यग्व्रजेत् सूत्रं चतुर्थं तदनन्तरे ॥ ३१-१२ ॥
कोष्ठे चेन्दुद्वयं कुर्याद् बहिर्भागार्धभागतः ।
तयोर्लग्नं ब्रह्मसूत्रात्तृतीये मर्मणि स्थितम् ॥ ३१-१३ ॥
कोष्ठकार्धेऽपरं चेति युग्ममन्तर्मुखं भवेत् ।
ब्रह्मसूत्राद् द्वितीयस्मिन् हस्ते मर्मणि निश्चलम् ॥ ३१-१४ ॥
कृत्वा पूर्णेन्दुयुगलं वर्तयेत विचक्षणः ।
ब्रह्मसूत्रगतात् षष्ठात् तिर्यग्भागात्तृतीयके ॥ ३१-१५ ॥
कृत्वार्धकोष्ठके सूत्रं पूर्णचन्द्राग्रलम्बितम् ।
भ्रमयेदुन्मुखं खण्डचन्द्रयुग्वह्निभागगम् ॥ ३१-१६ ॥
तिर्यग्भागद्वयं त्यक्त्वा खण्डेन्दोः पश्चिमात्ततः ।
कोणं यावत्तथा स्याच्च कुर्यात् खण्डं भ्रमद्वयम् ॥ ३१-१७ ॥
सुतीक्ष्णकुटिलाग्रं तदेकं शृङ्गं प्रजायते ।
द्वितीयस्मिन्नपि प्रोक्तः शृङ्ग एष विधिः स्फुटः ॥ ३१-१८ ॥
मध्यशृङ्गेऽथ कर्तव्ये तृतीये ऊर्ध्वकोष्ठके ।
चतुर्थार्धे च चन्द्रार्धद्वयमन्तर्मुखं भवेत् ॥ ३१-१९ ॥
तच्च पूर्णेन्दुमेकं प्राग्वर्तितं प्राप्नुयाद्यथा ।
अन्योन्यग्रन्थियोगेन बद्धारत्वं प्रजायते ॥ ३१-२० ॥
एवं द्वितीयपार्श्वेऽस्य खण्डेन्दुद्वयवर्तनात् ।
मध्याभ्यां गण्डिका श्लिष्टा पराभ्यामग्रतो नयेत् ॥ ३१-२१ ॥
सूत्रं पार्श्वद्वये येन तीक्ष्णं स्यान्मध्यशृङ्गगम् ।
पार्श्वद्वयाधरे पश्चाद्ब्रह्मसूत्रं द्वितीयकम् ॥ ३१-२२ ॥
अवधानेन सङ्ग्राह्यमाचार्येणोहवेदिना ।
भवेत्पश्चान्मुखो मन्त्री तस्मिंश्च ब्रह्मसूत्रके ॥ ३१-२३ ॥
मध्यशृङ्गं वर्जयित्वा सर्वः पूर्वोदितो विधिः ।
तत इति–अवधितया कृतात् ब्रह्मपदादारभ्य–इत्यर्थः ।
सूत्रमिति– न तु कोष्ठकम् ।
आदित इति–ऊर्ध्वक्रमेण ।
तत इति–लक्ष्यीकृतात् चतुर्थात् सूत्रात् ।
तिर्यगिति पार्श्वगत्या ।
तदनन्तरे इति– तत्समीपवर्तिनि–इत्यर्थः, तेन चतुर्थसूत्रात्मनि मर्मस्थाने वामहस्तं निवेश्य ब्रह्मसूत्रापेक्षया चतुर्थस्य तन्मर्मोपरिवर्तिनः कोष्ठकस्य अर्धादारभ्य तदधस्तनकोष्ठकं यावत् बहिः, न तु अन्तर्भागार्धभागमानमवलम्ब्य इन्दुद्वयं भ्रमगत्या कुर्यात् ।
ब्रह्मसूत्रात् तृतीये मर्मणि स्थितमिति–तदाश्रित्य स्थितम्–इत्यर्थः, तेन तृतीये मर्मणि दक्षिणं हस्तं निवेश्य कोष्ठके तदर्धे च वामेन हस्तेन भ्रमणादन्तर्मुखम्, न तु बहिर्मुखम्, तयोः समनन्तरवर्तितयोश्चन्द्रयोः संश्लिष्टमन्यच्च चन्द्रद्वयं कुर्यात् ।
ब्रह्मसूत्रापेक्षयैव च द्वितीयस्मिन् मर्मणि वामहस्तं दृढं निधाय अर्थादाद्येन्दुद्वयसंलग्नमन्यदपि पूर्णम्, न तु अनन्तरवर्तितेन्दुवदर्धमिन्दुयुगलम्, वर्तनीयम् ।
तेन ब्रह्मसूत्रादूर्ध्वगत्या द्वितीयभागान्तं नयेत् येन अत्र वक्ष्यमाणक्रमेण गण्डिकासंश्लेषः स्यात् ।
अत एव विचक्षण इति उक्तम् ।
ब्रह्मसूत्रगतादिति–ब्रह्मपदमवधिं कृत्वा स्थितात्– इत्यर्थः ।
षष्ठात् भागादिति, सूत्रात् पुनः सप्तमात् ।
तृतीयके इति–ऊर्ध्वगत्या ।
पूर्णेति–पाश्चात्त्यद्वितीयचन्द्रापेक्षया ।
यद् वक्ष्यति–खण्डेन्दोः पश्चिमादिति, तेन द्वितीयार्धककोष्ठकसूत्रपृष्ठे दक्षिणं हस्तं निवेश्य अन्तःस्थपूर्णचन्द्राग्रादारभ्य उन्मुखम् ऊर्ध्वमुखं वह्न्युप (ल) क्षितत्रित्वविशिष्टभागपर्यन्तं सूत्रं भ्रमयेत् ।
कथम्–इत्याह–खण्डचन्द्रयुगिति; खण्डचन्द्रेण युज्यते सोऽत्रास्ति तदाकारमिति यावत् ।
ततोऽपि तृतीयादर्धकोष्ठकात् तिर्यग्भागद्वयं त्यक्त्वा अर्थात् तद्द्वितीयभागसूत्रार्धपृष्ठे दक्षिणं हस्तं निवेश्य पश्चिमात् पुनः खण्डेन्दोरारभ्य तत्सूत्रसमनन्तरवर्तितखण्डेन्दुप्रान्तकोटिरूपं कोणं यावच्च भ्रमयेत् येन भ्रमणं तथा खण्डचन्द्रयुक् स्यादित्येवं खण्डम्, न तु पूर्णम्, भ्रमद्वयं कुर्यात् येन सुतीक्ष्णकुटिलाग्रं शृङ्गं स्यात् ।
तत इति आद्यादिति च पाठे तु ततः पश्चिमात् खण्डेन्दोरारभ्य आद्यात् प्रथमवर्तितात् खण्डचन्द्रात् ग्रामात्पूर्वमितिवत् कोणं यावत् –इति व्याख्येयम्, न तु पूर्ववाक्ये चन्द्रयुगिति, चन्द्रयुग्ममुत्तरत्र च पश्चिमादाद्याच्च खण्डेन्दोः खण्डं भ्रमद्वयं कुर्यादित्यादिना इन्दुद्वयस्यैव वर्तनीयतया प्रक्रान्तत्वादाद्यशब्दस्य परामर्शनीयत्वाभावादानर्थक्यात् च ।
एतदेव शृङ्गान्तरेऽपि अतिदिशति द्वितीयस्मिन्नित्यादिना, अत्र तु पाणिविनिवेश एव अन्यथा- इति विशेषः ।
एवं पार्श्वशृङ्गद्वयवर्तनामभिधाय मध्यशृङ्गवर्तनामपि आह– मध्येत्यादि ।
तृतीयेति–ब्रह्मसूत्रापेक्षया ।
ऊर्ध्वेति–न तु तिर्यक् ।
अन्तर्मुखमिति–न तु बहिर्मुखम् ।
तदिति–अर्धचन्द्रद्वयम् ।
एकमिति– एकमेकम्, तेन पूर्णेन्दुद्वयमपि–इत्यर्थः ।
अत्रैव प्रयोजनमाह– यथेत्यादि ।
एतदेव पार्श्वान्तरेऽपि अतिदिशति एवमित्यादिना ।
अस्येति– मध्यशृङ्गस्य ।
श्लिष्टेति–ऊर्ध्वाधरमेलनया ।
नयेदिति – क्षेत्रान्तम् ।
एवं पूर्वक्षेत्रे वर्तनामभिधाय परत्रापि वक्तुमुपक्रमते पार्श्वेत्यादिना ।
द्वितीयकमिति–अपरार्धगतत्वात् ऊहवेदिनेति–अतिदेशाद्यर्थावधारणनैपुण्यात् ।
एवञ्च अनेन किं कार्यम्–इत्याह–भवेदित्यादि ।
मध्यशृङ्गं वर्जयित्वेति, तत्स्थाने दण्डस्य वर्तयिष्यमाणत्वात् ॥
इदानीं दक्षिणोत्तरपार्श्वयोः शृङ्गवर्तनामाह–
ततो यदुन्मुखं खण्डचन्द्रयुग्मं पुरोदितम् ॥ ३१-२४ ॥
ततो द्वयेन कर्तव्या गण्डिकान्तः सुसङ्गता ।
द्वयेनाग्रगसूत्राभ्यां मध्यशृङ्गद्वयं भवेत् ॥ ३१-२५ ॥
पुरेति–पूर्वशूलवर्तनावसरे ।
सुसङ्गतेति–पार्श्वशृङ्गयोः ॥२५ ॥
एवमत्र त्रिशूलत्रयं वर्तयित्वा तदधोवर्ति पद्माद्यपि वर्तयितुमाह-
अधो भागविवृद्ध्यास्य पद्मं वृत्तचतुष्टयम् ।
ततश्चक्रं षोडशारं द्वादशारं द्विधाथ तत् ॥ ३१-२६ ॥
मध्ये कुलेश्वरीस्थानं व्योम वा तिलकं च वा ।
पद्मं वाथ षडरं वा वियद्द्वादशकं च वा ॥ ३१-२७ ॥
त्रित्रिशूलेऽत्र सप्तारे श्लिष्टमात्रेण मध्यतः ।
पद्मानामथ चक्राणां व्योम्नां वा सप्तकं भवेत् ॥ ३१-२८ ॥
मिश्रितं वाथ सङ्कीर्णं समासव्यासभेदतः ।
अधोऽस्येति–शूलस्य, दण्डस्य तु उपरिष्टात् ।
तस्य हि अध एव अवस्थानमुचितम् ।
अत एव एषां शूलेन अन्तराच्छादनम्, एभिस्तु दण्डस्येति ।
अत एव उक्तम्–
“…पञ्च तद्भागाः पद्मपीठतिरोहिताः ।
"
इति ।
भागवृद्ध्येति–एकद्व्यादिक्रमेण ।
द्विधा तदिति– चतुर्विंशत्यरम्, तेन आदौ द्वादशारं ततः षोडशार चतुर्विशत्यरं चेति ।
तिलकमिति–बिन्दुमात्रकम् ।
श्लिष्टमात्रेणेति–न तु आच्छादकत्वेन ।
वाशब्दो विकल्पे ।
सङ्करोऽत्र समस्तत्वे पद्मचक्रव्योम्नां व्यस्तत्वे वा पद्मचक्रयोः पद्मव्योम्नोश्चक्रव्योम्नोर्वा एकस्मिन्नरे ।
स्थितिमिश्रत्वं तु पृथगरेषु अवस्थानम् ।
तेन एकस्मादारभ्य षड्यावत् द्विकेषु परत्र तदेककेषु षट् प्रकाराः ।
एवं त्रिकाणामेककैः सह षडेव ।
एवं द्विकानामपि त्रिकैः सह षट् ।
त्रयाणां मिश्रतायामेकस्य पञ्चधा स्थितावेकत्र त्रिकं एकत्र द्विकं पञ्चसु एककानि–इति एकः, एकत्र एककमेकत्र त्रिकं पञ्चसु द्विकानि–इति द्वितीयः, एकत्र एककं एकत्र द्विकं पञ्चसु त्रिकाणीति तृतीयः–इति त्रयः ।
चतुर्धा स्थितौ तु एकत्र त्रिकं द्वयोर्द्विके चतुर्षु एककानि–इति एकः, एकत्र द्विकं द्वयोर्द्विके चतुर्षु एककानीति एकः, एकत्र द्विकं द्वयोस्त्रिके चतुर्षु एककानि –इति द्वितीयः, एकत्र एककं द्वयोर्द्विके चतुर्षु त्रिकाणि–इति तृतीयः, एकत्र एककं द्वयोस्त्रिकं चतुर्षु द्विकानि–इति चतुर्थः, एकत्र त्रिकं द्वयोरेकके चतुर्षु द्विकानीति पञ्चमः, एकत्र द्विकं द्वयोरेकके चतुर्षु त्रिकाणि–इति षष्ठ इति षट् ।
त्रिधा स्थितौ तु द्वयोर्द्विके द्वयोस्त्रिके त्रिषु एककानि–इति एकः, द्वयोर्द्विके द्वयोरेकके त्रिषु त्रिकाणि–इति द्वितीयः, द्वयोस्त्रिके द्वयोरेकके त्रिषु द्विकानि–इति तृतीयः–इति त्रयः ।
द्वयोस्त्रिधा स्थितौ तु एकत्र एककं त्रिषु द्विकानि त्रिषु त्रिकाणि–इति एकः, एकत्र द्विकं त्रिषु एककानि त्रिषु त्रिकाणि–इति द्वितीयः, एकत्र त्रिकं त्रिषु द्विकानि त्रिषु एककानि–इति तृतीयः इति त्रय एवेत्येवं त्रयस्त्रिंशत् ।
आदौ पद्मम्, तदनु चक्रम्, आदौ वा चक्रम्, तदनु पद्ममित्यादिरूपेण क्रमव्यत्ययादिना सङ्करादौ द्विकान्येव अरासप्तके मिश्रीक्रियन्ते इति विशेषाभिधानेऽनेकप्रकारप्रसङ्गादेकः प्रकारः ।
एवं त्रिकाणामपि क्रमव्यत्ययेन सङ्कीर्णतायामेक इति पञ्चत्रिंशत् ।
एषामेव अरासप्तके स्थितिनैयत्येन सप्तभिर्गुणने पञ्चचत्वारिंशदधिकं शतद्वयं भवति ।
केवलानि पद्मानि चक्राणि व्योमानि वा सर्वत्रेति त्रयः प्रकाराः, त्रयमपि सर्वत्र चेत्येकः, द्विकान्यपि सर्वत्रेति प्रकारोऽपि विशेषाभिधानेऽनेकप्रकारप्रसङ्गात् द्विकत्वसामान्यादेक एवेत्यमिश्रभेदा अरासप्तकेऽपि एकरूपत्वात् विशेषाभावात् पञ्चेति सार्धं शतद्वयम् ।
एषु च प्रकारेषु त्रिकादीनां क्रमव्यत्ययादिना सङ्करे त्रिकद्विकैकानां च मिश्रतायामनेकप्रकारोदयादानन्त्यमिति न तत्परिगणनम् ॥
इदानीं सर्वतोऽवस्थापितं त्रिभागरूपं क्षेत्रं ग्रहीतुमाह–
ततः क्षेत्रार्धमानेन क्षेत्रं तत्राधिकं क्षिपेत् ॥ ३१-२९ ॥
ततस्त्रिशूलपद्मचक्रादिवर्तनानन्तरं तत्र षोडशभागविभक्ते चतुःषष्ट्यङ्गुलात्मनि परिगृहीते क्षेत्रे अधिकं क्षेत्रं क्षिपेत्– चिकीर्षितदण्डद्वारादिवर्तनार्थं गृह्णीयात्–इत्यर्थः ।
ननु अधिकं नाम अत्र किं प्राक् सर्वतस्त्यक्तक्षेत्राभिप्रायेणैव विवक्षितमुत अन्यथापि ?–इत्याशङ्क्य आह–क्षेत्रार्धमानेनेति– त्रिशूलादिवर्तनार्थं परिगृहीतस्य क्षेत्रस्य द्वात्रिंशदङ्गुलात्मकं भागाष्टकरूपं यदर्धं तन्मानेन– इत्यर्थः ।
तेन प्रतिदिक्कं षोडशाङ्गुलाश्चत्वारो भागाश्च भवन्ति–इति भावः ॥ २९ ॥
एवमधिके क्षेत्रे क्षिप्ते किं कार्यम्–इत्याह–
तत्र दण्डः स्मृतो भागः षडरामलसारकः ।
सुतीक्ष्णाग्रः सुरक्ताभः क्षणादावेशकारकः ॥ ३१-३० ॥
या सा कुण्डलिनी देवी तरङ्गाख्या महोर्मिणी ।
सा षडश्रेण कन्दाख्ये स्थिता षड्देवतात्मिका ॥ ३१-३१ ॥
अष्टभागैश्च विस्तीर्णो दीर्घश्चापि तदर्धतः ।
ततो द्वाराणि कार्याणि चित्रवर्तनया क्रमात् ॥ ३१-३२ ॥
भाग इति–आयामात् दण्डामलसारयेरित्येव व्याप्तिमाह–या सेत्यादि ।
षडश्रेणेति–उपलक्षिते ।
षड्देवतात्मिकेति–यदुक्तम्–
“हाहारावा महारावा घोरघोषा भयङ्करी ।
फेङ्कारिणी महाज्वाला कन्दे षड्रसलम्पटाः ॥
"
इति ।
अष्टभागैरिति–भागशब्दोऽङ्गुलवचनः, तेन द्वाभ्यां भागाभ्याम्–इत्यर्थः ।
विस्तीर्ण इति–अर्थादमलसारकः ।
तदर्धत इति–चतुर्भिरङ्गुलैः ।
तत इति–दण्डवर्तनानन्तरम् ॥ ३२ ॥
चित्रामेव वर्तनां दर्शयति–
वेदाश्रायतरूपाणि यदि वा वृत्तमात्रतः ।
दण्डद्वारवर्तना च अग्रत एव भविष्यतीति न इह विभज्य व्याख्यातम् ॥
इदानीं शृङ्गवर्तनामेव भेदमुखेन निर्दिशति–
स्पष्टशृङ्गमथो कुर्याद्यदि वा वैपरीत्यतः ॥ ३१-३३ ॥
उन्मुखं चन्द्रयुग्मं वा भङ्क्त्वा कुर्याच्चतुष्टयम् ।
कुटिलो मध्यतः स्पष्टोऽधोमुखः पार्श्वगः स्थितः ॥ ३१-३४ ॥
उत्तानोऽर्धोऽसमः पूर्णः श्लिष्टो ग्रन्थिगतस्तथा ।
चन्द्रस्येत्थं द्वादशधा वर्तना भ्रमभेदिनी ॥ ३१-३५ ॥
अन्तर्बहिर्मुखत्वेन सा पुनर्द्विविधा मता ।
स्पष्टशृङ्गमिति–मध्यशृङ्गवत् पूर्वदिगाभिमुख्येन भागत्रयेण वर्तितम् ।
वैपरीत्यत इति–प्रागिव अस्पष्टम् ।
उन्मुखं चन्द्रयुग्ममिति–चतुर्थमर्मसंलग्नतया वर्तितम् ।
भङ्क्त्वेति–द्विधा विधाय ।
चतुष्टयमिति–अर्थात् चन्द्राणाम् ।
मध्यतः कुटिल इति–अन्तरपि अर्धचन्द्राकारः ।
मध्यतः स्पष्ट इति–प्राग्वर्तिताकार एव ।
मध्यत इति–काकाक्षिवत् ।
अधोमुख इति–बहिः कथञ्चिल्लम्बमानार्धचन्द्राग्र–इत्यर्थः ।
पार्श्वग इति– स्पष्टशृङ्गवत् दक्षिणोत्तराभिमुख्येन वर्तितः ।
उत्तान इति– ऊर्ध्वमुखः ।
अर्धोऽसम इति–अर्धेन असम एकचन्द्रात्मा रेखाप्रायः ।
पूर्ण इति–वैलक्षण्यात् ।
श्लिष्ट इति–मूलात्प्रभृति अन्योन्यासङ्गेन वर्तितः ।
ग्रन्थिगत इति– अर्धचन्द्रप्रान्तकोटिसंश्लेषेणैव वर्तितः ।
सेति–द्वादशधा वर्तना ॥
एषामपि भेदानां यदि भेदः क्रियते, तत् मण्डलानामनन्तो भेदोदयः–इत्याह–
तद्भेदान्मण्डलानां स्यादसङ्ख्यो भेदविस्तरः ॥ ३१-३६ ॥
पीठवीथीबहिर्भूमिकण्ठकर्णकपोलतः ।
शोभोपशोभासम्भेदाद्गुणरेखाविकल्पतः ॥ ३१-३७ ॥
स्वस्तिकद्वितयाद्यष्टतयापर्यन्तभेदतः ।
भावाभावविकल्पेन मण्डलानामनन्ता ॥ ३१-३८ ॥
ततो रजांसि देयानि यथाशोभानुसारतः ।
सिन्दूरं राजवर्तं च खटिका च सितोत्तमा ॥ ३१-३९ ॥
उत्तमानि रजांसीह देवतात्रययोगतः ।
परा चन्द्रसमप्रख्या रक्ता देवी परापरा ॥ ३१-४० ॥
अपरा सा परा काली भीषणा चण्डयोगिनी ।
तथाहि प्राग्व्याकृति प्रथमप्रकारषट्के एव सरूपाणामेव द्विकानां सरूपैरेव एककैर्मिश्रणे पद्मचक्रयोरेकस्मादरादारभ्य षट् यावत् परत्र पद्मेन चक्रेण व्योम्ना वा सह स्थितावष्टादश ।
एवं पद्मव्योम्नोरष्टादश, चक्रव्योम्नोश्च अष्टादशेति चतुष्पञ्चाशत् प्रकाराः ।
एषामरासप्तकनैयत्येन सप्तभिर्गुणने अष्टसप्तत्यधिकं शतत्रयं जायते ।
तेषामपि द्वारभेदात् द्वाभ्यां गुणने षट्पञ्चाशदधिकानि सप्त शतानि जायन्ते ।
तेषामपि चन्द्रभेदात् चतुर्विंशत्या गुणेन चतुश्चत्वारिंशदधिकशतोपेतानि अष्टादश सहस्राणि ।
तेषामपि पीठभावाभावाभ्यामष्टाशीत्यधिकशतद्वयोपेतानि षट्त्रंशत् सहस्राणि ।
तेषामपि वीथीभावाभावाभ्यां षट्सप्तत्यधिकशतपञ्चकोपेतानि द्वासप्ततिः सहस्राणि–इत्येवं विकल्पान्तरैस्तिस्रः कोटय एकसप्ततिर्लक्षाणि अष्टपञ्चाशत् सहस्राणि द्वादशाधिकानि नव शतानि च जायन्ते ।
अत्रैव च एकत्र पद्मचक्रे, एकत्र पद्मव्योमनी, एकत्र चक्रव्योमनी, एकत्र पद्मम्, एकत्र चक्रम्, परत्र व्योमेत्यादिना समस्तव्यस्तविरूपद्विकैकमिश्रणेन उत्पन्नभेदानामरानैयत्यादिना समनन्तरोक्तवत् सप्तादिभिर्गुणने कियती सङ्ख्येति कष्टश्रीधर एव प्रष्टव्यः ।
तत इति– द्वारवर्तनानन्तरम् ।
कालीति–कृष्णापि ॥
अत एव अस्य इयत् माहात्म्यम्–इत्याह–
दृष्ट्वतन्मण्डलं देव्यः सर्वा नृत्यन्ति सर्वदा ॥ ३१-४१ ॥
अनर्चितेऽप्यदीक्षेण दृष्टे दीक्ष्येत मातृभिः ।
एवं मण्डलानन्ततामुपपाद्य प्रसङ्गात् रजोदानादि निरूप्य अनन्तभेदत्वेऽपि त्रिशूलस्यैव इह प्राधान्यात् तदाश्रयेण मुख्यान् भेदान् सङ्क्षेपतः परिगणयति–
किं वातिबहुनोक्तेन त्रित्रिशूलारसप्तकाः ॥ ३१-४२ ॥
शूलयागाः षट् सहस्राण्येवं सार्धशतद्वयम् ।
यद्वा किमनेन मण्डलानन्त्यप्रतिपादनेन
“त्रित्रिशूलेऽत्र सप्तारे… ।
" (३१।२८)
इत्यादिना उपक्षिप्तं प्रकाराणां सार्धं शतद्वयमेवमुक्तदिशा अर्धसप्तकावलम्बनेन चन्द्रभेदात् चतुर्विंशत्या सङ्गुण्य षट् सहस्राणि शूलयागाः–इति वाक्यार्थः ।
“शूलानि स्युः षट् सहस्राण्यूनं सार्धशतद्वयात् ।
"
इति ।
ऊनमिति–ऊना इति वा अपपाठ एव, अनन्वितत्वात्, तृतीयास्थाने पञ्चम्यनुपपत्तेः ।
किञ्च अत्र सार्धं शतद्वयं गुण्यम्, अरासप्तकावलम्बनलब्धाश्चन्द्रभेदाश्चतुर्विंशतिर्गुणकाः, गुणितराशिश्च षट् सहस्राणि ।
तदेतदूनपदपाठे गुण्याकथनात् निर्मूलतामियात् ।
नहि अत्र गुण्यं किञ्चित् प्रागपि उक्तमस्तीति आस्तामेतत् ।
प्रायश्च अयं श्लोकः
“ततो रजांसि देयानि… ।
" (३९ श्लो।
)
इत्यतः पूर्वं न्याय्यो येन सर्वं सङ्गतं स्यात् ॥
ननु एवं माहात्म्यमस्य कुतस्त्यम्?–इत्याशङ्क्य आह–
या सा देवी परा शक्तिः प्राणवाहा व्यवस्थिता ॥ ३१-४३ ॥
विश्वान्तः कुण्डलाकारा सा साक्षादत्र वर्तिता ।
तत्त्वानि तत्त्वदेव्यश्च विश्वमस्मिन्प्रतिष्ठितम् ॥ ३१-४४ ॥
एतदेव अंशतो दर्शयति–
अत्रोर्ध्वे तन्तुमात्रेण तिस्रः शूलरगाः स्थिताः ।
आसनत्वेन चेच्छाद्या भोगमोक्षप्रसाधिकाः ॥ ३१-४५ ॥
तास्तु मोक्षैककामस्य शूलाराविद्धमध्यकाः ।
तस्मादेनं महायागं महाविभवविस्तरैः ॥ ३१-४६ ॥
पूजयेद्भूतिकामो वा मोक्षकामोऽपि वा बुधः ।
अस्य दर्शनमात्रेण भूतवेतालगुह्यकाः ॥ ३१-४७ ॥
पलायन्ते दश दिशः शिवः साक्षात्प्रसीदति ।
मन्दशक्तिबलाविद्धोऽप्येतन्मण्डलपूजनात् ॥ ३१-४८ ॥
सततं मासषट्केन त्रिकज्ञानं समश्नुते ।
यत्प्राप्य हेयोपादेयं स्वयमेव विचार्य सः ॥ ३१-४९ ॥
देहान्ते स्याद्भैरवात्मा सिद्धिकामोऽथ सिद्ध्यति ।
तन्तुमात्रेणेति–विकस्वरेण रूपेण–इत्यर्थः ।
तुरवधारणे, तेन ता एव इच्छाद्याः–इत्यर्थः ।
शूलाराविद्धमध्यका इति– औन्मनसपद्मत्रयरूपा इति यावत् ।
तदुक्तं प्राक्–
“एता एव तु गलिते भेदप्रसरे क्रमशो विकासमायान्त्यः ।
अन्योन्यासङ्कीर्णास्त्वरात्रयं गलितभेदिकास्तु ततः ॥
पद्मत्रय्यौन्मनसी तदिदं स्यादासनत्वेन ।
" (१५।३४१)
इति ।
तस्मादिति–परशक्त्यधिष्ठानादेर्हेतोः ॥
न केवलमस्य एवं माहात्म्यं यावदेतदभिज्ञस्यापि–इत्याह–
मण्डलस्यास्य यो व्याप्तिं देवतान्यासमेव च ॥ ३१-५० ॥
वर्तनां च विजानाति स गुरुस्त्रिकशासने ।
तस्य पादरजो मूर्ध्नि धार्यं शिवसमीहिना ॥ ३१-५१ ॥
अत्र सृष्टिस्थितिध्वंसान् क्रमात् त्रीनपि पूजयेत् ।
तुर्यं तु मध्यतो यद्वा सर्वेषु परिपूरकम् ॥ ३१-५२ ॥
अत्रेति–त्रिशूलत्रये ।
मध्यत इति–कुलेश्वरीस्थाने ।
सर्वेष्विति– त्रिष्वपि क्रमेषु ॥ ५२ ॥
एतदतिदेशद्वारकमेव यागान्तरमाह–
चतुस्त्रिशूलं वा गुप्तदण्डं यागं समाचरेत् ।
तत्र तत् पूजयेत्सम्यक् स्फुटं क्रमचतुष्टयम् ॥ ३१-५३ ॥
गुप्तदण्डमिति–तत्स्थाने हि अस्य मध्यशृङ्गं भवेत्–इति भावः ।
अस्य च इयानेव पूर्वस्मात् विशेषः ॥ ५३ ॥
एतच्च अस्मत्कथितमागमान्तरेष्वपि उक्तम्–इत्याह–
इत्येतत्कथितं गुप्ते षडर्धहृदये परे ।
षट्के प्रोक्तं सूचितं श्रीसिद्धयोगीश्वरीमते ॥ ३१-५४ ॥
अग्रतः सूत्रयित्वा तु मण्डलं सर्वकामदम् ।
महाशूलसमोपेतं पद्मचक्रादिभूषितम् ॥ ३१-५५ ॥
द्वारे द्वारे लिखेच्छूलं वर्जयित्वा तु पश्चिमम् ।
कोणेष्वपि च वा कार्यं महाशूलं द्रुमान्वितम् ॥ ३१-५६ ॥
अमृताम्भोभवारीणां शूलाग्रे तु त्रिकं त्रिकम् ।
शूल इत्थं प्रकर्तव्यमष्टधा तत् त्रिधापि वा ॥ ३१-५७ ॥
एवं संसूचितं दिव्यं खेचरीणां पुरं त्विति ।
गुप्ते रहस्यरूपे शास्त्रे ।
षडर्धहृदये इति त्रिकहृदये ।
सूचितमिति न तु साक्षादुक्तम् ।
तत्रत्यमेव ग्रन्थमाह–अग्रत इत्यादि ।
पश्चिमं वर्जयित्वेति–पूजाधिकरणतया यदस्ति
“पश्चिमं विवृतं कार्यम्… ।
"
इति ।
अमृताम्भोभवारीणामिति अमृताम्भोभवश्चन्द्रः, तस्य अरीणां पद्मानाम्–इत्यर्थः ।
अष्टधेति त्रिधेति–चतुरेकशूलाभिप्रायेण ॥
न केवलमेतदत्रैव उक्तं यावदन्यत्रापि–इत्याह–
स्थानान्तरेऽपि कथितं श्रीसिद्धातन्त्रशासने ॥ ३१-५८ ॥
एतदेव आह–
कजं मध्ये तदर्धेन शूलशृङ्गाणि तानि तु ।
शूलाङ्कं मण्डलं कल्प्यं कमलाङ्कं च पूरणे ॥ ३१-५९ ॥
एवं श्रीत्रिकसद्भावोक्तं शूलाब्जविन्यासमभिधाय, शास्त्रान्तरनिरूपितमपि अभिधातुमुपक्रमते–
अथ शूलाब्जविन्यासः श्रीपूर्वे त्रिशिरोमते ।
सिद्धातन्त्रे त्रिककुले देव्यायामलमालयोः ॥ ३१-६० ॥
यथोक्तः सारशास्त्रे च तन्त्रसद्भावगुह्ययोः ।
तथा प्रदर्श्यते स्पष्टं यद्यप्युक्तक्रमाद्गतः ॥ ३१-६१ ॥
यद्यपि उक्तगत्यैव गतार्थः शूलविन्यासः, तथापि साम्प्रतं श्रीपूर्वशास्त्रादौ यथा किञ्चिद्विशेषकप्रयोजकीकारेण उक्तः, तथा तेनैव प्रकारेण, स्पष्टं प्रदर्श्यते हृदयङ्गमतया अभिधीयते–इत्यर्थः ॥ ६१ ॥
तत्र प्राधान्यात् प्रथमं श्रीपूर्वशास्त्रोक्तमेव दर्शयति–
वेदाश्रिते त्रिहस्ते प्राक् पूर्वमर्धं विभाजयेत् ।
हस्तार्धं सर्वतस्त्यक्त्वा पूर्वोदग्याम्यदिग्गतम् ॥ ३१-६२ ॥
त्र्यङ्गुलैः कोष्ठकैरूर्ध्वैस्तिर्यक् चाष्टद्विधात्मकैः ।
द्वौ द्वौ भागौ परित्यज्य पुनर्दक्षिणसौम्यगौ ॥ ३१-६३ ॥
प्राक् त्रिहस्ते–इति अनन्तरं हि द्वारार्थं हस्तस्य प्रक्षेपात् चतुर्हस्ता भविष्यतीति अभिप्रायः, तेन एतत् त्र्यङ्गुलैः कोष्ठकैरिति वक्ष्यमाणत्वात् द्वात्रिंशद्धा विभजेदिति सिद्धम् ।
एवमतोपि पूर्वादिदिक्त्रयात् द्वादश द्वादश अङ्गुलानि त्यक्त्वा पूर्वमर्धमूर्ध्वगत्या अष्टभिस्त्र्यङ्गुलैः कोष्ठकैः पार्श्वगत्या च षोडशभिर्विभजेत् ।
एवं विभक्तात् पूर्वस्मादर्धात् पुनरपि दक्षिणोत्तरपार्श्वयोः पङ्क्तिक्रमेण अन्तर्गतौ द्वौ द्वौ भागौ त्यजेत् येन पार्श्वगत्या द्वादश कोष्ठकानि अवशिष्यन्ते यदेतावतैव शूलं सिद्ध्येत् ॥ ६३ ॥
प्रथमतः पार्श्ववर्तनामाह–
ब्रह्मणः पार्श्वयोर्जीवाच्चतुर्थात् पूर्वतस्तथा ।
भागार्धभागमानं तु खण्डचन्द्रद्वयं द्वयम् ॥ ३१-६४ ॥
इह ब्रह्मसूत्रवर्जं जीवशब्दवाच्यानि सूत्राणीत्युभयोरपि पार्श्वर्योब्रह्मसूत्रादारभ्य यत् चतुर्थं जीवसूत्रं ततः पूर्वतः–पूर्वस्यां दिशि तथा यत् चतुर्थमेव जीवसूत्रम्, ततो भागमानेन भागार्धमानेन च सूत्रेण अर्धचन्द्रद्वयं स्यात् ।
पार्श्वद्वयाभिप्रायेण तु द्वयं द्वयमिति वीप्सया निर्देशः ॥ ६४ ॥
कथम्?–इत्याह–
तयोरन्तस्तृतीये तु दक्षिणोत्तरपार्श्वयोः ।
जीवे खण्डेन्दुयुगलं कुर्यादर्न्तभ्रमाद्बुधः ॥ ३१-६५ ॥
तयोरपरमर्मस्थं खण्डेन्दुद्वयकोटिगम् ।
बहिर्मुखं भ्रमं कुर्यात् खण्डचन्द्रद्वयं द्वयम् ॥ ३१-६६ ॥
तद्वद् ब्रह्मणि कुर्वीत भागभागार्धसम्मितम् ।
यतः पार्श्वगत्या चतुर्थात् जीवादारभ्यते, यत्र च भागमानत्वात् द्वितीये जीवे विश्राम्यति; तयोर्जीवयोरन्तः मध्ये यस्तृतीयो जीवोऽर्थात् पूर्वतश्चतुर्थ एव, तत्र औचित्यात् वामं दक्षिणं वा हस्तं निवेश्य उभयोरपि पार्श्वयोरन्तः, न तु बर्हिभ्रमात्, बुधस्तद्वर्तनाभिज्ञः खण्डचक्रद्वयं कुर्यात् ।
किन्तु अर्धमानस्य खण्डचन्द्रस्य वक्ष्यमाणदृष्ट्या अयं विशेषः–यत् चतुर्थभागादारभ्य वर्तना–इति ।
तयोरुभयोरपि पार्श्वयोरपरस्मिन्नन्तःप्रवेशगत्या चतुर्थापेक्षया तृतीये मर्मणि एकं करं निवेश्य समनन्तरवर्तितखण्डेन्दुद्वयाग्रकोटिसंलग्नत्वेन बहिर्मुखं न तु अन्तर्मुखं भ्रममर्थात् द्विः कुर्यात् येन उभयत्र खण्डचन्द्रयोर्द्वयं द्वयं वर्तितं स्यात् ।
तद्वदिति–उभयोरपि पार्श्वयोरपरस्मिन्नेव तृतीयापेक्षया द्वितीये मर्मणि एकं करं निवेश्य खण्डेन्दुद्वयकोटिगं दक्षिणोत्तरायतसूत्रसंलग्नतया अत एव अन्तर्मुखं भ्रमद्वयं कुर्यात् येन भागमानभागार्धमानं च खण्डचन्द्रयोर्द्वयं द्वयं स्यात् ॥
एवं पार्श्ववर्तनानन्तरं शृङ्गवर्तनामाह–
ततो द्वितीयभागान्ते ब्रह्मणः पार्श्वयोर्द्वयोः ॥ ३१-६७ ॥
द्वे रेखे पूर्वगे नेये भागत्र्यंशशमे बुधैः ।
एकार्धेन्दूर्ध्वकोटिस्थं ब्रह्मसूत्राग्रसङ्गतम् ॥ ३१-६८ ॥
सूत्रद्वयं प्रकुर्वीत मध्यशृङ्गप्रसिद्धये ।
ततोऽपि ब्रह्मसूत्रस्य द्वयोः पार्श्वयोरूर्ध्वक्रमेण यौ द्वितीयौ भागौ पूर्वगे इत्युक्ते तन्मूलात् तदन्तं यावत् बुधत्वादेव भागमानचन्द्रार्धकोटिसंश्लेषेण द्वे रेखे नेतव्ये यथा विस्तारात् भागत्र्यंशेन शाम्यतः ।
तेन अङ्गुलेन विस्तीर्णा अङ्गुलत्रयेण च दीर्घा गण्डिका स्यात् ।
अन्यस्य गण्डिकया संश्लिष्टत्वादेकस्य अर्धभागमानस्य इन्दोरूर्ध्वकोटित आरभ्य ब्रह्मसूत्रस्य अग्रे लग्नं सूत्रद्वयं विदधीत येन मध्यशृङ्गं सिद्ध्येत् ॥
इदानीं पार्श्वशृङ्गवर्तनामभिधत्ते–
तदग्रपार्श्वयोर्जीवात् सूत्रमेकान्तरे धृतम् ॥ ३१-६९ ॥
आदिद्वितीयखण्डेन्दुकोणात् कोणान्तमानयेत् ।
तयोरेवापराज्जीवात् प्रथमार्धेन्दुकोणतः ॥ ३१-७० ॥
तद्वदेव नयेत्सूत्रं शृङ्गद्वितयसिद्धये ।
तस्य मध्यशृङ्गस्य ये अग्रभूते मण्डलगते पार्श्वे तयोरर्थात् यश्चतुर्थो जीवस्तमवलम्ब्य आदौ कृत आन्तरापेक्षया द्वितीयो बाह्यो भागमानो यः खण्डेन्दुस्तस्य अग्रकोटेरारभ्य आग्नेयस्य एशस्य च कोणस्य षष्ठभागात्मकमन्तं यावत् सूत्रं नयेत् यतस्तदेकेन भागेन अन्तरिते देशे धृतं
“…वह्निभागगम् ।
" (१६ श्लो।
)
इति दृशा भागत्रयसम्मिते स्थाने स्थितम्–इत्यर्थः ।
तयोरेव अग्रपार्श्वयोरपरात् चतुर्थापेक्षया तृतीयात् जीवात् प्रोक्तगत्या पूर्वतश्चतुर्थभागार्धात् तु प्रथमस्य आन्तरतया वर्तितस्य अर्धभागमानस्य इन्दोः कोणतस्तद्वदेव पूर्वोक्तगत्या षष्ठभागान्तमेव सूत्रं नयेत् येन पार्श्वशृङ्गसिद्धिः ॥
एवं पूर्वस्मिन् क्षेत्रार्धे त्रिशूलं वर्तयित्वा, अपरस्मिन्नपि दण्डादि वर्तयितुमाह–
क्षेत्रार्धे चापरे दण्डो द्विकरश्छन्नपञ्चकः ॥ ३१-७१ ॥
षड्विस्तृतं चतुर्दीर्धं तदधोऽमलसारकम् ।
वेदाङ्गुलं च तदधो मूलं तीक्ष्णाग्रमिष्यते ॥ ३१-७२ ॥
आदिक्षेत्रस्य कुर्वीत दिक्षु द्वारचतुष्टयम् ।
हस्तायामं तदर्धं वा विस्तारादपि तत्समम् ॥ ३१-७३ ॥
द्विगुणं बाह्यतः कुर्यात्ततः पद्मं यथा शृणु ।
एकैकभागमानानि कुर्याद् वृत्तानि वेदवत् ॥ ३१-७४ ॥
दिक्ष्वष्टौ पुनरप्यष्टौ जीवसूत्राणि षोडश ।
द्वयोर्द्वयोः पुनर्मध्ये तत्सङ्ख्यातानि पातयेत् ॥ ३१-७५ ॥
एषां तृतीयवृत्तस्थं पार्श्वजीवसमं भ्रमम् ।
एतदन्तं प्रकुर्वीत ततो जीवाग्रमानयेत् ॥ ३१-७६ ॥
यत्रैव कुत्रचित्सङ्गस्तत्सम्बन्धे स्थिरीकृते ।
तत्र कृत्वा नयेन्मन्त्री पत्राग्राणां प्रसिद्धये ॥ ३१-७७ ॥
एकैकस्मिन्दले कुर्यात्केसराणां त्रयं त्रयम् ।
द्विगुणाष्टाङ्गुलं कार्यं तद्वच्छृङ्गकजत्रयम् ॥ ३१-७८ ॥
द्विकर इति–वक्ष्यमाणद्वारक्षेत्रेण सह ।
छन्नपञ्चक इति–अस्य हि भागचतुष्टयं छन्नपीठेन च एक इति ।
यदुक्तम्–
“द्विकरं पञ्च तद्भागाः पञ्चपीठतिरोहिताः ।
शेषमन्यद्भवेद् दृश्यं पृथुत्वाद्भागसम्मितम् ॥
"
इति ।
वेदाङ्गुलमिति–अङ्गुलोक्तौ षडङ्गुलानि विस्तृतं चत्वारि अङ्गुलानि आयतमामलसारकम् ।
तीक्ष्णाग्रमिति–एकाराकृति ।
आदिक्षेत्रस्येति–त्रिहस्तस्य ।
हस्तायाममिति–मध्यसूत्राणां प्रतिपार्श्वं भागचतुष्टयग्रहेण तदर्धं हस्तार्धं द्वारस्य भागचतुष्टयेनैव विस्तृतत्वात् ।
बाह्यतो द्विगुणमिति– प्रतिपार्श्वमधिकस्य भागचतुष्टयस्य प्रक्षेपात् ।
तत्सममिति– कण्ठवत् कपोलस्यापि भागद्वयेनैव विस्तृतत्वात् ।
इदानीं अण्डक्षेत्रगतभागचतुष्टयस्थितस्य पद्मस्य वर्तनामाह–तत इत्यादि ।
वेदवत्–चत्वारि ।
मध्य इति–समोभयपार्श्वे ।
तत्सङ्ख्यातानीति–षोडश ।
एषामिति–पुनर्दत्तानां षोडशानाम् ।
तृतीयेति–अर्थात् तृतीयवृत्तस्थपुनर्दत्तषोडशसूत्रान्यतममध्ये हस्तं निवेश्य तद्बहिः पार्श्वस्थजीवसूत्रसाम्येन तृतीयभागाग्रस्थात् तत एव आरभ्य एतस्य पुनर्दत्तषोडशसूत्रान्यतमस्यैव अन्तं यावत् भ्रमं कृत्वा तदन्तः पार्श्वस्थजीवसूत्रसन्निकर्षं नयेत्–इति षोडश दलार्धानि उत्पादयेत् ।
अत्रैव कुत्रचित् पद्मे इत्यनेन अनवकॢप्तिपरेण इदमावेदितं यथा दलार्धसिद्ध्यर्थं तृतीयवृत्तस्थपुनर्दत्तषोडशसूत्रान्यतममध्ये हस्तं कृत्वा भ्रमं कुर्यादित्युक्तम्, तथैव अत्रापि, किन्तु व्यत्ययेनेति ।
स्थिरीकृते इति–मनसा ।
तत्रेति–सङ्गस्थाने ।
कृत्वेति–अर्थात् करम् ।
नयेदिति– अर्थात् भ्रमम् ।
त्रयं त्रयमिति–तत्रस्थसूत्रत्रयाश्रयणेन ।
तद्वदिति–यथोक्तवर्तनया, किन्तु द्विगुणाष्टाङ्गुलम् ।
तत् हि चतुर्विंशत्यङ्गुलम् ।
एवं पूर्वत्रापि भागचतुष्टयेनैव पद्मचक्रव्योमानि कार्याणि–इति ज्ञेयम् ॥ ७८ ॥
अत्रैव रजोनियममाह–
कर्णिका पीतवर्णेन मूलमध्याग्रभेदतः ।
सितं रक्तं तथा पीतं कार्यं केसरजालकम् ॥ ३१-७९ ॥
दलानि शुक्लवर्णानि प्रतिवारणया सह ।
पीठं तद्वच्चतुष्कोणं कर्णिकार्धसमं बहिः ॥ ३१-८० ॥
सितरक्तपीतकृष्णैस्तत्पादान् वह्नितः क्रमात् ।
चतुर्भिरपि शृङ्गाणि त्रिभिर्मण्डलमिष्यते ॥ ३१-८१ ॥
दण्डः स्यान्नीलरक्तेन पीतमामलसारकम् ।
रक्तं शूलं प्रकुर्वीत यत्तत्पूर्वं प्रकल्पितम् ॥ ३१-८२ ॥
पश्चाद् द्वारस्य पूर्वेण त्यक्त्वाङ्गुलचतुष्टयम् ।
द्वारं वेदाश्रि वृत्तं वा सङ्कीर्णं वा विचित्रितम् ॥ ३१-८३ ॥
एकद्वित्रिपुरं तुल्यं सामु(द्र)मथवोभयम् ।
कपोलकण्ठशोभोपशोभादिबहुचित्रितम् ॥ ३१-८४ ॥
विचित्राकारसंस्थानं वल्लीसूक्ष्मगृहान्वितम् ।
प्रतिवारणा–दलाग्रवर्तिनी वृत्तरेखा ।
तद्वदिति–शुक्लम् ।
कर्णिकार्धमेको भागः ।
तत्पादानिति–पीठपादकान् ।
त्रिभिरिति– रक्तरजोवर्जितैः ।
त्यक्त्वाङ्गुलचतुष्टयमिति- द्विकरत्वस्य अपवादः ।
द्वारस्यापि एतच्छेषभूतं शास्त्रान्तरोक्तं वैचित्र्यं दर्शयति– द्वारमित्यादिना ॥
यद्यपि उद्दिष्टानां सर्वेषां शास्त्राणां शूलाब्जविन्यास उक्तस्तथापि य एव कश्चन विशेषोऽस्ति, स एव इह प्रदर्श्यत इति क्रमव्यतिक्रमेणापि श्रीदेव्यायामलोक्तं तद्विन्यासमुपन्यस्यति–
श्रीदेव्यायामले तूक्तं क्षेत्रे वेदाश्रिते सति ॥ ३१-८५ ॥
अर्धं द्वादशधा कृत्वा तिर्यगूर्ध्वं च तिर्यजम् ।
भागमेकं स्वपार्श्वोर्ध्वं गुरुः समवतारयेत् ॥ ३१-८६ ॥
मध्यस्थं तं त्रिभागं च तदन्ते भ्रमयेदुभौ ।
भागमेकं परित्यज्य तन्मध्ये भ्रमयेत्पुनः ॥ ३१-८७ ॥
तृतीयांशोर्ध्वतो भ्रम्यमूर्ध्वांशं यावदन्ततः ।
चतुर्थांशात्तदूर्ध्वं तु ऊर्ध्वाधो योजयेत्पुनः ॥ ३१-८८ ॥
तन्मानादूर्ध्वमाभ्रम्य चतुर्थेन नियोजयेत् ।
अर्धं द्वादशधा कृत्वेत्युक्त्या समस्तं क्षेत्रं चतुर्विंशतिधा विधेयम्–इति सिद्धम् ।
तिर्यगूर्ध्वमिति–सर्वत इति–तेन चतुर्दिक्कं षट् षट् भागान् त्यक्त्वा मध्ये द्वादशभागमानं क्षेत्रं ग्राह्यम्, अत एव तदेकपार्श्ववर्तितया तिर्यग्गमेकं भागं गुरुः स्वेन तद्भागसम्बन्धिनैव पार्श्वेन ऊर्ध्वादिक्रमेण ऊर्ध्वं समवतारयेत्–तथा भ्रमयितुमनुसन्दध्याद्–इत्यर्थः ।
तेन ब्रह्मपदापेक्षया द्वितीये मर्मणि एकं हस्तं निवेश्य तं समस्तं भागमर्थात् तदीयमेव त्रिभागं न तु प्राग्वत् तदर्धमिति ।
एतदुभयं तस्य ब्रह्मसूत्रस्य अन्ते तत्सन्निकर्षादारभ्य भ्रमयेत् येन खण्डचन्द्रद्वयं सिद्ध्येत् ।
पुनश्च पार्श्वगत्या द्वितीयभागस्य उपरि स्थितमेकं भागं परित्यज्य अर्थात् तृतीये मर्मणि एकं हस्तं कृत्वा तस्य त्यक्तस्यैव भागस्य अन्तः पूर्ववदेव भ्रमयेत् येन खण्डचन्द्रद्वयं सिद्ध्येत् ।
तत् समनन्तरवर्तितं खण्डचन्द्रद्वयं चतुर्थांशादारभ्य अर्थात् तिर्यक् क्रमेण ऊर्ध्वं क्षेत्रकोणं यावत् ऊर्ध्वाधोगत्या योजयेत्- इति शृङ्गसिद्धिः ।
एतदेव पार्श्वान्तरेऽपि अतिदिशति– पुनरित्यादिना ।
पुनश्च तदेव अनन्तरोक्तं मानमवलम्ब्य यथायथमूर्ध्वं खण्डचन्द्रयुग्मत्रयमा समन्तात् परस्परसंश्लेषेण भ्रमयित्वा तद्द्वारेण वर्तयित्वा चतुर्थेन शृङ्गारम्भकेणापि खण्डचन्द्रयुग्मेन नियोजयेत्–तद्युक्तं कुर्यात्–इत्यर्थः ॥
एवं पार्श्वारावर्तनामभिधाय, मध्यारामपि वर्तयितुमाह–
ऊर्ध्वाद्योजयते सूत्रं ब्रह्मसूत्रावधि क्रमात् ॥ ३१-८९ ॥
क्रमाद्वैपुल्यतः कृत्वा अंशं वै ह्रासयेत् पुनः ।
अर्धभागप्रमाणस्तु दण्डो द्विगुण इष्यते ॥ ३१-९० ॥
पुनरपि प्रथमवर्तितत्रिभागवर्तमानखण्डचन्द्रोर्ध्वादारभ्य ब्रह्मसूत्रावधि सूत्रं कृत्वा क्रमेण क्रमेण वैपुल्यादंशमंशमेव ह्रासयित्वा योजयेत्–तत्रैव सम्बद्धं कुर्यात् येन अस्य तीक्ष्णाग्रत्वं स्यात्–इति मध्यशृङ्गसिद्धिः ।
एवं च अत्र मध्यशृङ्गे पार्श्वद्वयादूनं भवेदित्यपि पूर्वस्मात् विशेषः ।
अर्धेति–भागद्वयसम्बन्धिभ्यामर्धाभ्यां भागप्रमाणश्चतुरङ्गुलः इत्यर्थः ।
द्विगुण इति– गृहीतक्षेत्रार्धशिष्टभागषट्कोपरि क्षेत्रार्धस्य प्रक्षेपात् द्वादशभागप्रमाणः–द्विहस्त इति यावत् ॥ ९० ॥
अत्रैव आमलकसारकं वर्तयति–
भागं भागं गृहीत्वा तु उभयोरथ गोचरात् ।
भ्रम्यं पिप्पलवत् पत्रं वर्तनैषा त्वधो भवेत् ॥ ३१-९१ ॥
षोडशांशे लिखेत्पद्मं द्वादशाङ्गुललोपनात् ।
भागशब्दोऽत्र अङ्गुलवचनः, तेन उभयोः पार्श्वयोर्विषयादङ्गुलमङ्गुलं गृहीत्वा अश्वत्थपत्राकारतया भ्रमोदय इति ।
एषा दण्डस्य अधोवर्तना येन षडङ्गुलविस्तृतस्य अमलसारकस्य अधश्चतुरङ्गुलं तीक्ष्णाग्रं मूलं स्यात् ।
षोडशांशे इति –षोडशभिः सूत्रैर्विभक्ते क्षेत्रे ।
द्वादशाङ्गुललोपनादिति–प्रतिदिक्कं येन हास्तिकं पद्मं स्यात् ॥
तच्च कुत्र लिखेत्–इत्याह–
तदूर्ध्वं मध्यभागे तु वारिजन्म समालिखेत् ॥ ३१-९२ ॥
मध्यशृङ्गावसाने तु तृतीयं विलिखेत्ततः ।
तदूर्ध्वम्–दण्डोपरि ।
मध्यभागे इति–मण्डलापेक्षया ।
न केवलमत्रैव पद्मं लिखेत्, यावदरोपर्यपि–इत्याह–मध्येत्यादि ।
तृतीयशब्दार्थमेव घटयति–मध्येत्यादिना ॥
सव्यासव्ये तथैवेह कटिस्थाब्जे समालिखेत् ॥ ३१-९३ ॥
कर्णिका पीतला रक्तपीतशुक्लं च केसरम् ।
दलानि पद्मबाह्यस्था शुक्ला च प्रतिवारणी ॥ ३१-९४ ॥
शूलं कृष्णेन रजसा ब्रह्मरेखा सिता पुनः ।
शूलाग्रं ज्वालया युक्तं शूलदण्डस्तु पीतलः ॥ ३१-९५ ॥
शूलमध्ये च यत्पद्मं तत्रेशं पूजयेत्सदा ।
अस्योर्ध्वे तु परां दक्षेऽन्यां वामे चापरां बुधः ॥ ३१-९६ ॥
तथैवेति–द्वादशाङ्गुललोपनेनैव–इत्यर्थः ।
दलानीति- अर्थात् शुक्लानि ।
ब्रह्मरेखेति–अरामध्यभागः ।
ज्वालया युक्तमिति– रक्तरजःपातात् ।
ईशमिति–पेर्तरूपं सदाशिवम् ।
ऊर्ध्व इति– मध्यशृङ्गस्य ।
अन्यामिति–परापराम् ॥ ९६ ॥
ननु इह पराया अपि परा मातृसद्भावादिशब्दव्यपदेश्या कालसङ्कर्षिणी भगवती उक्ता, सा कुत्र पूज्या?–इत्याशङ्क्य आह–
या सा कालान्तका देवी परातीता व्यवस्थिता ।
ग्रसते शूलचक्रं सा त्विच्छामात्रेण सर्वदा ॥ ३१-९७ ॥
यदुक्तं तत्रैव–
“तन्मध्ये तु परा देवी दक्षिणे च परापरा ।
अपरा वामशृङ्गे तु मध्यशृङ्गोर्ध्वतः शृणु ॥
या सा सङ्कर्षिणी देवी परातीता व्यवस्थिता ।
"
इति ।
ग्रसते इति–स्वात्मसात्करोति–इत्यर्थः, तेन तन्मयमेव इदं सर्वम्–इति अभिप्रायः ॥ ९७ ॥
आसामेव प्रपञ्चतो व्याप्तिमाह–
शान्तिरूपा कला ह्येषा विद्यारूपा परा भवेत् ।
अपरा तु प्रतिष्ठा स्यान्निवृत्तिस्तु परापरा ॥ ३१-९८ ॥
ननु सदाशिवस्य शान्त्याद्याः कलाः शक्तित्वेन उक्ताः ।
कथमासामियती व्याप्तिः?–इत्याशङ्क्य आह–
भैरवं दण्ड ऊर्ध्वस्थं रूपं सादाशिवात्मकम् ।
चतस्रः शक्त्यस्त्वस्य स्थूलाः सूक्ष्मास्त्वनेकधा ॥ ३१-९९ ॥
यत् नाम हि दण्डोपलक्षितस्य शूलस्य उपरि स्थितं भैरवं पूर्णं रूपं तदेव सादाशिवात्मकमिति, तस्यैव स्थूलतायां शान्त्याद्या बह्व्यः शक्त्योऽन्यथा तु एताः–इति तात्पर्यार्थः ॥ ९९ ॥
एवमेतत्प्रसङ्गादभिधाय प्रकृतमेव उपसंहरति–
एष यागः समाख्यातो डामराख्यस्त्रिशक्तिकः ।
इदानीं त्रिशिरोभैरवीयमपि शूलाब्जविन्यासं वक्तुमुपक्रमते–
अथ त्रैशिरसे शूलाब्जविधिदृष्टोऽभिलिख्यते ॥ ३१-१०० ॥
तमेव आह–
वामामृतादिभिर्मुख्यैः पवित्रैः सुमनोरमैः ।
भूमिं रजांसि करणीं खटिकां मूलतोऽर्चयेत् ॥ ३१-१०१ ॥
चतुरश्रे चतुर्हस्ते मध्ये शूलं करत्रयम् ।
दण्डो द्विहस्त ऊर्ध्वाधःपीठयुग्विपुलस्त्वसौ ॥ ३१-१०२ ॥
वस्वङ्गुलः प्रकर्तव्यः सूत्रत्रयसमन्वितः ।
द्वादशाङ्गुलमानेन दण्डमूले तु पीठिका ॥ ३१-१०३ ॥
दैर्ध्यात्तूच्छ्रयतो वेदाङ्गुला दैर्घ्याद्दशाङ्गुला ॥ ३१-१०४ ॥
शूलमूलगतं पीठीमध्यं खाब्धिसमाङ्गुलम् ।
मूलत इति–मूलमन्त्रेण ।
चतुर्हस्ते इति–वक्ष्यमाणगत्या चतुर्विशतिधा विभक्तेऽपि ।
करत्रयस्यैव विभागो दण्डो द्विहस्त इति ।
वस्वङ्गुलो विपुल इति–वैपुल्यादष्टाङ्गुलः ।
यदुक्तं–तत्र-
“अष्टाङ्गुलं तु वैपुल्यम्… ।
"
इति ।
विमल इति–अनागमिकत्वादपपाठः ।
एवमन्यत्रापि अनागमिकत्वादेव अपपाठा निरस्ताः, निरसिष्यन्ते चेति न अन्यथा मन्तव्यम् ।
खाब्धीति चत्वारिंशत् ।
यत्र विद्यापद्मेन अष्टाङ्गुलमाच्छादनं व्योमरेखया च अङ्गुलमिति एकत्रिंशदङ्गुलानि अस्य दृश्यत्वम् ॥
एतदुपसंहरन् त्रिशूलवर्तनामुपक्रममाणस्तदुपयोगि क्षेत्रं तावदाह–
कृत्वा दण्डं त्रिशूलं तु त्रिभिर्भागैः समन्ततः ॥ ३१-१०५ ॥
अष्टाङ्गुलप्रमाणैः स्याद्धस्तमात्रं समन्ततः ।
त्रिभिर्भागैरिति–ऊर्ध्वोर्ध्वम् ।
हस्तमात्रं समन्तत इति– समचतुरस्रम् ॥
एतदेव भागत्रयं शूलावयावाश्रयतया विभजति–
शूलाग्रं शूलमध्यं तच्छूलमूलं तु तद्भवेत् ॥ ३१-१०६ ॥
वेदी मध्ये प्रकर्तव्या उभयोश्च षडङ्गुलम् ।
द्वादशाङ्गुलदीर्घा तु उभयोः पार्श्वयोस्तथा ॥ ३१-१०७ ॥
चतुरङ्गुलमुच्छ्रयान्मूले वेदीं प्रकल्पयेत् ।
उभयोः पार्श्वयोश्चैवमर्धचन्द्राकृतिं तथा ॥ ३१-१०८ ॥
भ्रमयेत् खटिकासूत्रं कटिं कुर्याद् द्विरङ्गुलाम् ।
वैपुल्याद्दैर्ध्यतो देवि चतुरङ्गुलमानतः ॥ ३१-१०९ ॥
यादृशं दक्षिणे भागे वामे तद्वत्प्रकल्पयेत् ।
मध्ये शूलाग्रवैपुल्यादङ्गुलश्च अधोर्ध्वतः ॥ ३१-११० ॥
चतुरङ्गुलमानेन वैपुल्यात्तु षडङ्गुला ।
उच्छ्रयात्तु ततः कार्या गण्डिका तु स्वरूपतः ॥ ३१-१११ ॥
पीठोर्ध्वे तु प्रकर्तव्यं शूलमूलं तु सुव्रते ।
शूलाग्रमङ्गुलं कार्यं सुतीक्ष्णं तु षडङ्गुलम् ॥ ३१-११२ ॥
अरामध्यं प्रकर्तव्यमराधस्तु षडङ्गुलम् ।
वेदीत्यादि–अत्र अङ्गुलमध्यभागे ब्रह्मसूत्रापेक्षया उभयोः पार्श्वयोरुभयोरपि अन्तयोः षडङ्गुलसम्मतं क्षेत्रमर्थात् संश्रित्य तथा षडङ्गुलप्रकारेण दैर्ध्यात् द्वादशाङ्गुला वेदी वेद्याकारस्तत्र मध्यः सन्निवेशः कार्यः–पार्श्वद्वयेऽपि अन्तर्मुखं खण्डेन्दुद्वयं वर्तनीयम्–इत्यर्थः ।
एवं मूलेऽपि अर्थात् वक्ष्यमाणगण्डिकोपयोगिब्रह्मसन्निकर्षात् भागार्धं त्यक्त्वा पार्श्वगत्या सार्धभागे द्वयोः पार्श्वयोरुच्छ्रयात् चतुरङ्गुलामुत्तानार्धचन्द्राकृतिं वेदीं कुर्यात् ।
ततोऽपि अर्थात् ब्रह्मसूत्रनिकटकोटौ हस्तं निवेश्य द्वितीयकोटेरारभ्य मध्यभागवर्तितखण्डेन्दुकोटिं यावत् सूत्रं भ्रमयेत् येन दैर्ध्यात् चतुरङ्गुलमानः कट्याकारः सन्निवेशः पार्श्वद्वयेऽपि सिद्ध्येत् ।
तत्र च द्व्यङ्गुलं वैपुल्यम् ।
द्व्यङ्गुलत्वमेव मध्यभागेऽपि अतिदिशति–मध्ये शूलाग्रवैपुल्यादिति ।
न च अविशेषेणैव सर्वत्र द्व्यङ्गुलं वैपुल्यम्–इत्याह–अङ्गुलश्चाध इति ।
तेन कट्यन्तादर्धचन्द्रस्य यथायथमङ्गुलान्ते ह्रासः कार्य इति ।
इदानीं शूलाग्रं वर्तयति- ऊर्ध्वत इत्यादिना ।
तदनन्तरं पुनरूर्ध्वभागे वैपुल्यात् चतुरङ्गुला वक्ष्यमाणद्वादशाङ्गुलपद्मत्रयस्थितेः सर्वतो हस्तमात्रक्षेत्रग्रहणस्य च अन्यथा अनुपपत्त्या शूलक्षेत्रपार्श्वान्तं यावदुच्छ्रयात् षडङ्गुलसार्धभागप्रमाणा अर्थात् वेदी कटिररा वा पार्श्वद्वयेऽपि कार्या–इत्यर्थः ।
एवं पार्श्वशृङ्गमपि वर्तयति– गण्डीत्यादिना ।
प्रथममरात्रयग्रथकं पीठोर्ध्वे भागद्वयसम्मितोत्सेधगण्डिकात्मकं शूलमूलं कार्यम्, अनन्तरमग्रे वैपुल्यादङ्गुलम्, अत एव सुतीक्ष्णं तृतीयभागोर्ध्वाङ्गुलद्वयत्यागात् षडङ्गुलं मध्येऽधश्च तावन्मानम्, इत्येवमर्धेन्दुद्वयकोटी यावत् दैर्घ्यादष्टादशाङ्गुलं मध्यशृङ्गं स्यात् ॥
अत्रैव वैपुल्यमाह–
चतुरङ्गुलनिम्नं तु मध्यं तु परिकल्पयेत् ॥ ३१-११३ ॥
पूर्वापरं तदेवेह मध्ये शूलं तु तद्बहिः ।
कारयेत त्रिभिः सूत्रैरेकैकं वर्तयेत च ॥ ३१-११४ ॥
कजत्रयं तु शूलाग्रं वेदांशैर्द्वादशाङ्गुलम् ।
क्रमाद्दक्षान्यमध्येषु त्र्यष्टद्वादशपत्रकम् ॥ ३१-११५ ॥
चक्रत्रयं वातपुरं पद्ममष्टाङ्गुलारकम् ।
विद्याभिख्यं शूलमूले रजः पश्चात्प्रपातयेत् ॥ ३१-११६ ॥
त्रिशूलं दण्डपर्यन्तं राजवर्तेन पूरयेत् ।
सूत्रत्रयस्य पृष्ठे तु शुक्लं चारात्रयं भवेत् ॥ ३१-११७ ॥
शुक्लेन रजसा शूलमूले विद्याम्बुजं भवेत् ।
रक्तं रक्तासितं शुक्लं क्रमादूर्ध्वाम्बुजत्रयम् ॥ ३१-११८ ॥
शुक्लेन व्योमरेखा स्यात् सा स्थौल्यादङ्गुलं बहिः ।
तां त्यक्त्वा वेदिका कार्या हस्तमात्रं प्रमाणतः ॥ ३१-११९ ॥
वैपुल्यत्रिगुणं दैर्ध्यात् प्राकारं चतुरश्रकम् ।
समन्ततोऽथ दिक्षु स्युर्द्वाराणि करमात्रतः ॥ ३१-१२० ॥
त्रिधा विभज्य क्रमशो द्वादशाङ्गुलमानतः ।
कण्ठं कपोलं शोभां तु उपशोभां तदन्ततः ॥ ३१-१२१ ॥
प्राकारं चतुरश्रं तु सभूरेखासमन्वितम् ।
सितरक्तपीतकृष्णै रजोभिः कारयेत्ततः ॥ ३१-१२२ ॥
रक्तै रजोभिर्मध्यं तु यथाशोभं तु पूरयेत् ।
अस्या व्याप्तौ पुरा चोक्तं तत्रैवानुसरेच्च तत् ॥ ३१-१२३ ॥
तदेवं मध्यशूलमधिकृत्य चतुर्भ्योऽङ्गुलेभ्यो यथायथं निम्नं मध्यभागं पूर्वापरं परिकल्पयेत्–इति सम्बन्धः ।
अयमत्र अर्थः–अर्धेन्दुद्वयकोट्युपरि यावत् गण्डिकाक्रोडीकारस्तावत् चतुरङ्गुलवैपुल्यम्, मध्यभागारम्भात्प्रभृति चतुर्णामङ्गुलानां यथायथमङ्गुलावशेषो ह्रास इति ।
अरोपरि पद्मत्रयवर्तनामाह– तद्बहिरित्यादि ।
तद्बहिरित्यधिकक्षेत्रसङ्ग्रहेणापि शूलाग्रेषु त्रिर्भिभ्रमैः पद्मत्रयं कुर्यात्, एकैकं च द्वादशाङ्गुलं चतुर्भिश्चतुर्भिर्वर्तयेत्–इति वाक्यार्थः ।
अष्टाङ्गुलारकमिति– अष्टाङ्गुलं अष्टदलं च अरात्रयमिति दण्डसम्बन्धि ।
रक्तासितमिति–कृष्णपिङ्गलम् ।
क्रमादिति–प्रागुक्तेषु दक्षवाममध्येषु ।
व्योमरेखेति–विद्यापद्मसम्बन्धिनी ।
क्रमशस्त्रिधा विभज्येति–प्रतिभागम् ।
पुरेति– त्रित्रिशूलाभिधानावसरे ।
तदनुसृतिमेव किञ्चिद् व्यनक्ति ॥ १२३ ॥
तदेव आह–
अरात्रयविभागस्तु प्रवेशो निर्गमो भ्रमः ।
अनाहतपदव्याप्तिः कुण्डल्या उदयः परः ॥ ३१-१२४ ॥
हृदि स्थाने गता देव्यस्त्रिशूलस्य सुमध्यमे ।
नाभिस्थः शूलदण्डस्तु शूलमूलं हृदि स्थितम् ॥ ३१-१२५ ॥
शक्तिस्थानगतं प्रान्तं प्रान्ते चक्रत्रयं स्मरेत् ।
अनाहतेति–प्रवेशनिर्गमभ्रमात्मनोऽरासन्निवेशस्य एतदाकारत्वात् ।
ईदृगेव कुण्डलिनीरूपायाः शक्तेः प्रबोधः इति उक्तम्–कुण्डल्या उदयः पर इति ।
हृदि स्थाने गता इति–इच्छादीनामरारूपतया उल्लासात् ।
नाभिस्थ इति–तत एव प्राणशक्तेर्दण्डाकारतया उदयात् ।
हृदीति
“हृदयं शक्तिसूत्रं तु… ।
"
इत्याद्युक्त्या शक्त्युदयस्थाने जन्माधारे ।
अत एव आह– शक्तिस्थानगतं प्रान्तमिति ।
प्रान्ते इति–द्वादशान्ते ॥
जन्माधारात् द्वादशान्तं यावदुदये युक्तिमाह–
उत्क्षिप्योत्क्षिप्य कलया देहमध्यस्वरूपतः ॥ ३१-१२६ ॥
शूलदण्डान्तमध्यस्थशूलमध्यान्तगोचरम् ।
प्रविशेन्मूलमध्यान्तं प्रान्तान्ते शक्तिवेश्मनि ॥ ३१-१२७ ॥
एतदपि कथम्?–इत्याशङ्क्य आह–
अस्पन्दकरणं कृत्वा एकदा स्पन्दवर्तनम् ।
मूलमानन्दमापीड्य शक्तित्रयपदं विशेत् ॥ ३१-१२८ ॥
तत्र पूज्यं प्रयत्नेन जायन्ते सर्वसिद्धयः ।
समस्ताध्वसमायोगात् षोढाध्वव्याप्तिभावतः ॥ ३१-१२९ ॥
समस्तमन्त्रचक्राद्यैरेवमादिप्रयत्नतः ।
षट्त्रिंशत्तत्त्वरचितं त्रिशूलं परिभावयेत् ॥ ३१-१३० ॥
विषुवत्स्थेन विन्यासो मन्त्राणां मण्डलोत्तमे ।
कार्योऽस्मिन् पूजिते यत्र सर्वेश्वरपदं भजेत् ॥ ३१-१३१ ॥
मूलमिति–मत्तगन्धात्मकम् ।
विषुवत्स्थेनेति–प्राणसाम्येन–इत्यर्थः ॥ १३१ ॥
एवं शूलाब्जभेदमभिधाय व्योमेशस्वस्तिकं निरूपयति–
स्वस्तिकेनाथ कर्तव्यं युक्तं तस्योच्यते विधिः ।
कर्तव्यमिति–
“अथ मण्डलसद्भावः सङ्क्षेपेणाभिधीयते ।
" (१)
इत्युक्तिसामर्थ्यात् मण्डलम् ।
स्वस्तिकेन युक्तमिति–स्वस्तिकयोगात् तत्सञ्ज्ञम्–इत्यर्थः ।
यदुक्तम्–
“भगवन् मातृचक्रेश उन्मनाश्रयदायक ।
शान्तिपुष्टिकरं धन्यं स्वस्तिकं सर्वकामदम् ॥
सूचितं सर्वतन्त्रेषु न चोक्तं परमेश्वर ।
तस्य सूत्राणि लोपाच्च भ्रमपङ्कजकल्पनाम् ॥
वद विघ्नौघशमनमाप्यायनकरं महत् ।
"
इति ॥
व्योमेशस्वस्तिकतायां तु
“महाव्योमेशलिङ्गस्य देहधूपं समर्पयेत् ॥
"
इत्याद्युक्त्या अन्वर्थव्योमेशशब्दव्यपदेश्येन नवात्मभट्टारकेण अधिष्ठेयत्वं निरूपयितुं तद्विधिमेव आह–
नाडिकाः स्थापयेत्पूर्वं मुहूर्तं परिमाणतः ॥ ३१-१३२ ॥
शक्रवारुणदिक्स्थाश्च याम्यसौम्यगतास्तथा ।
नाडिकाः–सूत्राणि ।
मुहूर्तेति–त्रिंशत् ।
शक्रेति– पूर्वापरायताः ।
याम्येति–दक्षिणोत्तरायताः ॥
एवञ्च किं स्यात्?–इत्याह–
एकोनत्रिंशद्वंशाः स्युरृजुतिर्यग्गतास्तथा ॥ ३१-१३३ ॥
वंशाः भागाः ।
ऋज्विति–पूर्वापरगताः, तिर्यगिति–दक्षिणोत्तर गताः ॥ १३३ ॥
एतदेव हृदयङ्गमीकरणाय सङ्कलयति–
अष्टौ मर्मशतान्येकचत्वारिंशच्च जायते ।
मर्मेति–भागाः ।
एवं हि एकोनत्रिंशतेरेकोनत्रिंशत्यैव गुणने भवेत् ॥
एतदेव विभजति–
वंशैर्विषयसङ्ख्यैश्च पद्मं युग्मेन्दुमण्डलम् ॥ ३१-१३४ ॥
रससङ्ख्यैर्भवेत्पीठं स्वस्तिकं सर्वकामदम् ।
वसुसङ्ख्यैर्द्वारवीथावेवं भागपरिक्रमः ॥ ३१-१३५ ॥
विषयेति–पञ्च ।
एतच्च सर्वतः, येन प्रतिपार्श्वं सार्धं भागद्वयं स्यात् ।
एवमुत्तरत्रापि ज्ञेयम् ।
पद्मस्यैव विशेषणं युग्मेन्दुमण्डलमिति स्वस्तिकमिति ।
तद्योगादत्रैव प्राधान्यमभिव्यक्तुं सर्वकामदमिति उक्तम् ।
तेन पञ्चभिर्भागैः पद्मम्, द्वाभ्यामिन्दुमण्डलम्, षड्भः पीठम्, अष्टभिर्वीथी, अष्टभिश्च द्वारमिति एकोनत्रिंशत् भागा इति उक्तम्–एवं भागपरिक्रम इति ॥ १३५ ॥
तत्र द्वारं तावत् वर्तयति–
रन्ध्रविप्रशराग्नींश्च लुप्येद्बाह्यान्तरं क्रमात् ।
मर्माणि च चतुर्दिक्षु मध्याद् द्वारेषु सुन्दरि ॥ ३१-१३६ ॥
वह्निभूतमुनिव्योमबाह्यगर्भे पुरीषु च ।
लोपयेच्चैव मर्माणि अन्तर्नाडिविवर्जितान् ॥ ३१-१३७ ॥
रन्ध्रणि नव, विप्राः ऋषयः सप्त, शराः पञ्च, अग्नयः त्रयः ।
अत्र मध्यमधिकृत्य चतुर्षु अपि द्वारेषु बाह्यादारभ्य अन्तर्यावत् क्रमेण रन्ध्रदिसङ्ख्याका भागा लोप्याः, येन अत्र मेर्वाख्यप्रासादविशेषतलच्छन्दाकारसन्निवेशः स्यात् ।
भूतानि पञ्च, व्योमेति शून्याकारतया रन्ध्रणि लक्षयति, तेन उभयोरपि द्वारपार्श्वयोर्बाह्यादारभ्य अभ्यन्तरं यावत् वह्न्यादिभागजातं लोपयेत्, येन द्वारप्राय एव अन्तर्मुखः पुर्याकारः सन्निवेशः स्यात् ॥
एवं दिक्चतुष्टये वर्तनामभिधाय कोणेषु अपि आह–
द्वारप्राकारकोणेषु नेत्रानलशरानृतून् ।
नेत्रे द्वे, ऋतवः षट् ।
एवं द्वारकोणेषु एकैकभागपरिहारेण द्वित्रिपञ्चसङ्ख्याकान् भागानन्तरारभ्य लोपयेत्, ऋतुसङ्ख्याकांस्तु पृथगुपादानादेव निरवशेषान् यदुभयदिगुद्भूतशोभाद्वयसम्भेदात् कोणेषु गोमूत्रिकाबन्धप्रायः सन्निवेश उदियात्–इति द्वारसन्धिः ॥
इदानीं वीथीं वर्तयितुमाह–
नाडयो ब्रह्मवंशस्य लोप्या नेत्राद्रसस्थिताः ॥ ३१-१३८ ॥
वह्नेर्नेत्रानलौ लोप्यौ वेदान्नेत्रयुगं रसात् ।
नेत्रं सौम्यगतं लोप्यं पूर्वाद्वेदानलौ रसात् ॥ ३१-१३९ ॥
तत्र द्वारे लग्नस्य ब्रह्मवंशस्य दक्षिणपार्श्वे यत् नेत्रं द्वितीयो भागः, तत आरभ्य रसस्थिताः षड्भागा लोप्याः, तदुपरि वह्नेस्तृतीयादारभ्य नेत्रानलौ पञ्च भागाः–इत्यर्थः; तदुपर्यपि वेदात् चतुर्थादारभ्य नेत्रं च युगं च नेत्रयोर्युगं वेति चत्वारः, तदुपर्यपि रसात् षष्ठादारभ्य नेत्रं भागद्वयं लोप्यम्– इत्यर्थः ।
एतदेव वामपार्श्वेऽपि अतिदिशति सौम्येत्यादिना ।
एवं सौम्यगतमपि पूर्वात्–प्रथमं निर्दिष्टात् नेत्रात्- द्वितीयभागात् “पाठक्रमादर्थक्रमो बलीयान्” इति नीत्या अनलात्–तृतीयात् वेदात्– चतुर्थात् रसात्– षष्ठात् च आरभ्य भागजातं लोप्यम्–इत्यर्थः ।
वक्ष्यमाणसकलवीथीक्षेत्रसम्मार्जनानुसरणात् तदन्तरपि लोपसिद्धिः ॥ १३९ ॥
एवं पुरीसन्निवेशं वर्तयित्वा स्वस्तिकवर्तनामपि आह–
लोकस्था नाडिका हित्वा नेत्राद्वेदाग्नयः क्रमात् ।
शरैर्वह्निगतं चैव युगं नेत्राग्नयो रसात् ॥ ३१-१४० ॥
नेत्रात् पूर्वगताच्चैव… ।
ब्रह्मवंशादारभ्य लोकस्थान् सप्त भागान् परित्यज्य यत् नेत्रं नवमो भागस्तमाश्रित्य वेदाश्च तत्सन्निकृष्टं त्रयं चेति चत्वारो भागा वक्ष्यमाणलोपदृष्ट्या स्वस्तिकैकाङ्गतया शोभाकारा लोप्याः ।
तदनन्तरं नेत्रशब्दव्यपदिष्टात् नवमात् भागादारभ्य शरैरित्युक्तेन प्रत्यावृत्त्या द्वितीयपङ्क्तिगतेन पञ्चमेन भागेन सह अग्नयः त्रयो भागा लोप्याः ।
शैष दाशरथी रामः … ।
"
इतिवत् वेदाग्नय इत्यत्र सन्धिः ।
शरशब्दव्यपदिष्टादपि यत् युग्मं द्वितीयो भागस्तं वह्नियुतं भागत्रयेण सह लोपयेत्–इत्यर्थः ।
क्रमात् ततोऽपि पूर्वात् युगशब्दव्यपदिष्टात् नेत्रादवशिष्टात् नेत्रं द्वितीयो भागोऽग्नयस्त्रयो भागाश्च लोप्या इति स्वस्तिकसिद्धिः ।
एवं दिगन्तरेष्वपि ज्ञेयम् ।
अत्र पीठे च पूर्वतः स्वस्तिकद्वयं वर्तयित्वा पश्चिमतो वर्तनीयं येन सर्वतः सन्निवेशस्य सादृश्यं स्यात् ॥
एतच्च उभयमपि सन्निवेशं प्रदर्शयन्नुपसंहरति–
…षुमेरुर्द्वार सञ्ज्ञितः ।
स्वस्तिका च पुरी रम्या चतुर्दिक्षु स्थितावुभौ ॥ ३१-१४१ ॥
उभाविति–स्वस्तिकापुरीसुमेरू ॥१४१ ॥
ननु कियति भागजाते वीथीलोपना भवेत्?–इत्याशङ्क्य आह–
मर्मणां च शते द्वे च ऋषिभिर्गुणिता दिशः ।
नेत्रादिकांश्च सम्मार्ज्य मार्गमध्यात् सुशोभने ॥ ३१-१४२ ॥
दिश इति–दश, ऋषिभिः सप्तभिर्गुणिताः सप्ततिर्जायन्ते ।
नेत्रे द्वे ।
तेन द्वासप्तत्यधिकशतद्वयात्मनि वीथीक्षेत्रे लोपनां कृत्वा गुरुः स्वस्तिकापुर्याख्यां वीथीं वर्तयेत्–इति शेषः ॥ १४२ ॥
इदानीं पद्मं वर्तयति–
ऋषित्रयकृते मध्ये विषयैः कर्णिका भवेत् ।
ऋषित्रयकृते इति एकविंशतिधा विभक्ते–इत्यर्थः ॥
एतदेव विभजति–
नेत्रीकृतान्वसून् पत्रं नेत्रं सकृद्विभाजितम् ॥ ३१-१४३ ॥
वह्निं वसुगतं कृत्वा शशाङ्कस्थांश्च लोपयेत् ।
नेत्रीकृतानिति–द्विगुणीकृतान् ।
सर्वतो हि कर्णिकार्थं परिकल्पितात् भागपञ्चकादवशिष्टाः षोडशैव भागाः पत्रवर्तनार्थं भवन्ति–इति भावः ।
प्रतिदिक्कं हि सप्तभागान्तं दलाग्रस्य वर्तयिष्यमाणत्वात् सव्योमरेखमष्टभिरेव भागैः पत्रं स्यात् ।
कथम् ?–इत्याह–नेत्रमित्यादि ।
नेत्रमिति–द्वितीयं भागम् ।
सकृद्विभाजितमिति–एकेनैव सूत्रेण द्विधाकृतम्–इत्यर्थः ।
एवं वह्निम्–तृतीयं भागम् ।
तदेतद्भागद्वयं वसुगतं सकलक्षेत्रपर्यन्तं द्विधा विधाय शशाङ्कस्थान् लोपयेत्– केसरदलसन्धिदलाग्रसम्पत्तये शशाङ्काकारं भ्रमत्रयं दद्यात्–इत्यर्थः ॥
कथम्–इत्याह–
वह्नीषुऋषिमध्याच्च लोप्यं पीठेन्दुकावधि ॥ ३१-१४४ ॥
त्रिभिः पञ्चभिः सप्तभिर्भागैरवच्छिन्नात् मध्यात् कर्णिकादेशादारभ्य पीठसंलग्नचन्द्रमण्डलपर्यन्तं यावदेतत् लोपनीयम्–इत्यर्थः ।
इदमत्र तात्पर्यम्–तृतीयवृत्ते द्वितीयभागान्तःपातितसूत्रादारभ्य ब्रह्मवंशमध्यं यावत् भ्रमं दद्यादिति षोडश दलार्धानि उत्पादयेत्, एवमेव दलाग्राण्यपि, किन्तु प्रागुक्तवत् व्यत्ययेनेति ॥ १४४ ॥
एवं पद्मस्य वर्तनामभिधाय पीठस्यापि आह–
ब्रह्मणो नेत्रविषयान्नेत्राद्वेदानलौ हरेत् ।
सागरे नेत्रकं लोप्यं नाडयः पूर्वदिग्गताः ॥ ३१-१४५ ॥
ब्रह्मणो ब्रह्मपदात् यत् नेत्रम् द्वितीयो भागस्तत आरभ्य विषयाः पञ्च ब्रह्मण आरभ्य षष्ठो भागस्तद्गतान् वक्ष्यमाणरेखानुगुण्यात् पङ्क्तिस्थान् वर्तयिष्यमाणस्वस्तिकदेशातिरिक्तदेशे अन्यलोपनानुक्तेश्च पञ्च भागान् नेत्रात्पार्श्वद्वयात् लोपयेत् ।
एवं ब्रह्मणो वेदानलौ सप्तभागस्थानपि उभयतः पञ्चैव हरेत् ।
तत एव सागरेचतुर्थे भागे नेत्रकन्द्वितीयो भागो ब्रह्मणः पञ्चमस्तद्गतानपि उभयतः पञ्चैव लोपयेत् येन पूर्वदिशि
“पीठं रेखात्रयोपेतं सितलोहितपीतलम् ।
" (३१।१४८)
इतिवक्ष्यमाणदृशा तिस्रः पट्टिकारूपा नाडिका भवन्ति– इत्यर्थः ।
पूर्वस्या उपलक्षणत्वादन्यदिक्षु अपि अयमेव विधिः ॥ १४५ ॥
एवं दिक्षु वर्तनामभिधाय कोणेष्वपि आह–
भूतनेत्रगतान्मूर्ध्ना नेत्राद् द्विवह्निदृक्त्रिकात् ।
सौम्यगात् पीठकोणेषु लोपयेत चतुर्ष्वपि ॥ ३१-१४६ ॥
ब्रह्मकोणगत्या पार्श्वगत्या वा भूतं पञ्चमो भागस्तस्य मूर्ध्ना उपरितनेन देशेन न तु पार्श्वादिना द्वितीयस्था ये त्रयो भागास्तान् लोपयेत् ।
नेत्राद्द्विवह्नीति–द्विशब्दमहिम्ना भूतपदकथितादपि यो द्वितीयो भागोऽर्थात् तेन सह तत्संलग्नं भागत्रयं लोपयित्वा तद्द्वितीयमपि भागत्रयेण सह लोपयेत्, एवं दृक्त्रिकमित्यनेन ततोऽपि द्वितीयस्त्रिकोणेन सह लोप्यः–इति स्वस्तिकसिद्धिः ।
एवं सौम्यगात् स्वोत्तरदिक्स्थत्वेन आग्नेयकोणगात् स्वस्तिकादारभ्य चतुर्षु अपि पीठकोणेषु गुरुर्लोपयेत्–इत्यर्थः ॥ १४६ ॥
अत्रैव रजःपातं निरूपयति–
दलानि कार्याणि सितैः केसरं रक्तपीतलैः ।
कर्णिका कनकप्रख्या पल्लवान्ताश्च लोहिताः ॥ ३१-१४७ ॥
व्योमरेखा तु सुमिता वर्तुलाब्जान्तनीलभाः ।
पीठं रेखात्रयोपेतं सितलोहितपीतलम् ॥ ३१-१४८ ॥
स्वस्तिकाश्च चतुर्वर्णा अग्नेरीशानगोचराः ।
वीथी विद्रुमसङ्काशा स्वदिक्ष्वस्त्राणि बाह्यतः ॥ ३१-१४९ ॥
इन्द्रनीलनिभं वज्रं शक्तिं पद्ममणिप्रभाम् ।
दण्डं हाटकसङ्काशं वक्त्रं तस्यातिलोहितम् ॥ ३१-१५० ॥
नीलद्युतिसमं खङ्गं पाशं वत्सकसप्रभम् ।
ध्वजं पुष्पफलोपेतं पञ्चरङ्गैश्च शोभितम् ॥ ३१-१५१ ॥
गदा हेमनिभात्युग्रा नानारत्नविभूषिता ।
शूलं नीलाम्बुजसमं ज्वलद्वह्न्युग्रशेखरम् ॥ ३१-१५२ ॥
तस्योपरि सितं पद्ममीषत्पीतारुणप्रभम् ।
चक्रं हेमनिभं दीप्तमरा वैडूर्यसन्निभाः ॥ ३१-१५३ ॥
अरामध्यं सुपीतं च बाह्यं ज्वालारुणं भवेत् ।
मन्दिरं देवदेवस्य सर्वकामफलप्रदम् ॥ ३१-१५४ ॥
स्वस्तिका इति–पीठगता वीथीगताश्च ।
विद्रुमसङ्काशेति– स्वस्तिकवर्जम् ।
बाह्यादिति–द्वारादपि ॥ १५४ ॥
एवं श्रीत्रिशिरोभैरवोक्तिप्रसङ्गात् व्योमेशस्वस्तिकमभिधाय श्रीसिद्धातन्त्रोक्तमपि शूलाब्जमभिधत्ते–
श्रीसिद्धायां शूलविधिः प्राक् क्षेत्रे चतुरश्रिते ।
शूलविधिरिति–अर्थादुक्तः ॥
तमेव विधिमाह–
हस्तमात्रं त्रिधा सूर्यान्नवखण्डं यथा भवेत् ॥ ३१-१५५ ॥
मध्ये शूलं च तत्रेत्थं मध्यभागं त्रिधा भजेत् ।
चतुरश्रिते क्षेत्रे–सर्वतः, सूर्यादिति–अङ्गुलद्वादशकं वर्जयित्वा त्रिधा हस्तपरिमाणं त्रिहस्तं क्षेत्रं गृह्णीयात् यथा एतत् त्रिर्विभजनादेव हास्तिकनवभागात्मकं स्यात् ।
तत्र च इत्थं वक्ष्यमाणगत्या मध्ये त्रिशूलं कुर्यात्–इति शेषः ॥
मध्यमेव विभजति–
नवभिः कोष्ठकैर्युक्तं ततोऽयं विधिरुच्यते ॥ ३१-१५६ ॥
मध्यभागत्रयं त्यक्त्वा मध्ये भागद्वयस्य तु ।
अधस्ताद् भ्रमयेत्सूत्रं शशाङ्कशकलाकृति ॥ ३१-१५७ ॥
उभयतो भ्रमयेत्तत्र यथाग्रे हाकृतिर्भवेत् ।
कोट्यां तत्र कृतं सूत्रं नयेद्रेखां तु पूर्विकाम् ॥ ३१-१५८ ॥
अपरद्वारपूर्वेण त्यक्त्वाङ्गुलचतुष्टयम् ।
रेखां विनाशयेत्प्राज्ञो यथा शूलाकृतिर्भवेत् ॥ ३१-१५९ ॥
शूलाग्ररे त्वर्धहस्तेन त्यक्त्वा पद्मानि कारयेत् ।
अधः शृङ्गत्रयं हस्तमध्ये पद्मं सकर्णिकम् ॥ ३१-१६० ॥
तमेकहस्तपरिमाणमध्यभागं नवभिः कोष्ठकैर्युक्तं त्रिधा विभक्तं सन्तं द्विधा भजेत् सर्वतः षोढा विभजेत्–चतुरङ्गुलैः षटित्रशता कोष्ठकैर्युक्तं कुर्यात्–इत्यर्थः ।
अयमिति वक्ष्यमाणः ।
तमेव आह–मध्येत्यादि ।
तत्र मध्यादधस्तनं भागत्रयं त्यक्त्वा ब्रह्मपदमवलम्ब्य उभयोरपि पार्श्वयोर्भागद्वयस्य मध्ये तु द्वितीये मर्मणि हस्तं निवेश्य अधस्तादर्धचन्द्राकारं सूत्रमर्थात् प्रागुक्तवत् द्विर्भ्रमयेत् ।
तत्रापि अग्रे मध्यसूत्रात् पूर्वतस्तृतीये मर्मणि हस्तं निवेश्य शशाङ्कश कलाकृति अन्तर्मुखमूर्ध्वगत्या भागद्वयस्य मध्ये भ्रमयेत् यथा द्विकुब्जाकारः सन्निवेशः स्यात् ।
तत्र च पार्श्वद्वयवर्तिन्यां हाकृतौ कोट्यामाद्यन्तरूपासु कोटिषु कृतेभ्यः संश्लेषितेभ्यः सूत्रेभ्यः पार्श्वद्वयसूत्रे पूर्विकां प्राङ्नवखण्डीकरणकालकल्पितां रेखां मध्यशृङ्गसूत्रे तु पश्चिमद्वाराभिमुख्येन वक्ष्यमाणदृशा उपरितननवभागस्य अर्धहस्तं यावत् नयेत् ।
कथम् ?–इत्याह–त्यक्त्वेत्यादि ।
अन्तर्वर्तितशशाङ्कशकलाग्रकोटिसमुत्थां रेखां मूलादङ्गुलचतुष्टयं त्यक्त्वा विनाशयेत्–यथायथं स्वप्रज्ञाबलेन ह्रासयेत्, येन शृङ्गाणां तीक्ष्णाग्रता जायेत- इति शृङ्गत्रयसिद्धिः ।
ततश्च अर्धहस्तेन वर्तिते शूलाग्रे अर्थादुपरितनमर्धहस्तमेव त्यक्त्वा अर्थात् प्राग्वत् द्वादशाङ्गुलं पद्मत्रयं कुर्यात् शृङ्गत्रयस्य अधः पुनर्हास्तिकं पद्मं भवेत् ॥ १६० ॥
एवं त्रिशूलस्य वर्तनामभिधाय दण्डस्य अपि आह–
मुखाग्रे धारयेत्सूत्रं त्रिभिर्हस्तैस्तु पातयेत् ।
मध्यशृङ्गमुखाग्रे सूत्रं परिस्थाप्य त्रिभिर्हस्तैः पातयेत्– परिवर्जितबाह्यद्वादशाङ्गुलान्तं यावत् मध्यतो नयेत् ॥
एवं दैर्घ्यमभिधाय वैपुल्यमाह–
मध्ये चोर्ध्वं ततः कुर्यादधस्तादङ्गुलद्वयम् ॥ ३१-१६१ ॥
रेखाद्वयं पातयेत यथा शूलं भवत्यपि ।
अधोभागादिभिश्चोर्ध्वं तत्र रेखा प्रपद्यते ॥ ३१-१६२ ॥
समीकृत्य ततः सूत्रे ऊर्ध्वे द्वे एवमेव तु ।
एवं स्थानत्रये अङ्गुलद्वयान्तरालं द्वयोः पार्श्वयोः रेखाद्वयं कुर्यात् येन सर्वतः साम्येन अधोमध्यभागाभ्यां सह ऊर्ध्वं समीकृत्य रेखा प्रपद्यते, ततस्तथैव द्वे ऊर्ध्वे सूत्रे पातयेत यथा सदण्डं शूलं सम्पद्यते ॥
न च एवं मध्यपद्मस्य दण्डेन आच्छादनं कार्यम्–इत्याह–
मध्यं पद्मं प्रतिष्ठाप्यं शूलाधस्ताद्यशस्विनि ॥ ३१-१६३ ॥
अत्र च चतुर्विंशतिधा विभक्ते क्षेत्रे प्रागुक्तवत् सर्वं द्वारादि वर्तनीयम्, भगवता पुनरर्धचन्द्रोपयोगिनि एव मध्यहस्ते प्राधान्यात् भागपरिकल्पना कृतेत्यास्ताम् ॥ १६३ ॥
आह्निकार्थमर्धेन उपसंहरति–
इत्येष मण्डलविधिः कथितः सङ्क्षेपयोगतो महागुरुभिः ।
इति श्रीमदाचार्याभिनवगुप्तपादविरचिते श्रीतन्त्रालोके मण्डलप्रकाशनं नाम एकत्रिंशमाह्निकम् ॥ ३१ ॥
इति शिवम् ॥
स्वस्तिकशूलाब्जनयदुर्गमशिवशास्त्रनिर्वचनचञ्चुः ।
आह्निकमेकत्रिंशं व्यवृणोदेतज्जयरथाख्यः ॥
इति श्रीमन्महामाहेश्वराचार्यवर्यश्रीमदभिनवगुप्तविरचिते श्रीतन्त्रालोके श्रीजयरथविरचितविवेकाभिख्यव्याख्योपेते मण्डलप्रकाशनं नाम एकत्रिंशमाह्निकं समाप्तम् ॥ ३१ ॥